________________
मुहूर्तचिंतामणिः । [ नामभाद्रामशुभाशुभत्वं
शुभमशुभं वा लाभमलाभं वा द्वारनिवेशनं च शार्दूलविक्रीडितेनाहयद्धं द्व्यंकसुतेशदिमितमसौ ग्रामः शुभो नामभात् स्वं वर्गं द्विगुणं विधाय परवर्गाढ्यं गजैः शेषितम् । काकिण्यस्त्वनयोश्च तद्विवरतो यस्याधिकाः सोऽर्थदो
४१४
d
Sr द्वारं द्विजवैश्यशूद्रनृपराशीनां हितं पूर्वतः ॥ १ ॥ यदिति ॥ ग्रामः स्वस्य शुभोऽशुभो वेति तावश्चिंत्यते । व्यवहारप्रसिद्धं यन्नाम नीलकंठ इत्यादिकं तस्यावकहडाचक्रानुसारेण यदनुराधादिकं नक्षत्रं ततो यद्वृश्चिकादिकं भं राशिः स्यात्तन्नामभं । एवं यस्मिन् ग्रामे नगरे वा वस्तुमिध्यते तस्य चरणाद्विरित्यादिकं यन्नाम तस्माज्जातो यो राशिर्मीनादिस्तद्धामभमेवं नामद्वयं ज्ञात्वा नामभात् पुरुषनामराशेः सकाशाद् यद्वं यस्य ग्रामस्य भं राशिः स चेद्वितीयो नवमः पंचम एकादशसंख्यो दशमश्च स्यात्तदाऽसौ ग्रामः स्वस्य शुभः शुभफलदाता स्यादन्यथा न भवतीत्यर्थः । यथा-नीलकंठस्य वृश्चिकराशित: पंचमो मीनराशिरतश्चरणाद्विर्नीलकंठस्य वासयोग्यः सन् शुभफलदो न वाराणस्यादिः । उक्तं च मुहूर्तमार्तडे ( ६ । १) - 'नामर्क्षाद्विसुतांकदिग्भवगतो ग्रामः शुभोऽन्योऽन्यथा' इति । अथ काकिण्यादौ नामराशिरेव ग्राह्यः । उक्तं च'काकिण्यां वर्गशुद्धौ च वादे द्यूते स्वरोदये | मंत्रे पुनर्भूवरणे नामराशेः प्रधानता ॥' इति । अथ ग्रामात्मनोरुत्तमर्णत्वमधमर्णत्वं चाह - स्वं वर्गमिति । वर्गास्तु- 'अकचटतपयशवर्गाः खगेशमार्जारसिंहशुनाम् । सर्पानुमृगावीनां निजपंचमवैरिणामष्टौ ॥' इत्युक्ताः; तत्र यस्य पुंसः यत्संख्याको वर्गो गरुडादिः स्यात्तद्वर्गसंख्यां द्विगुणां विधाय कृत्वा परस्य ग्रामस्य वर्गसंख्यया आढ्यां च कृत्वा गजैरष्टभिः शेषितमवशिष्टं ताः काकिण्यो ज्ञेयाः पुंसः । एवं ग्रामस्यापि स्ववर्गसंख्यां द्विगुणां कृत्वा परस्य पुंसः वर्गसंख्यया युक्तां च कृत्वा गजभक्ताsaशिष्टाः काकियो ग्रामस्य भवंति । एवमनयोः पुरुषग्रामयोः काकिण्यः स्युः । तत्र तद्विवरतः पुरुषकाकिणीनां ग्रामकाकिणीनां च विवरमंतरं तस्मिन् क्रियमाणे यस्य ग्रामस्य दातृत्वात् पुंसः काकिण्यवशेषे पुंसो द्रव्यहानिः ग्रामस्य प्रतिग्रहीतृत्वादित्यर्थः । यथा - नीलकंठस्य वर्गः सर्पः तत्संख्या ५ द्विगुणा १० चरणाद्वेर्वर्गः सिंहस्तत्संख्यया ३ युक्ताः १३ गज ८ भक्तावशेषं ५ नीलकंठस्य काकिण्यः ५; एवं ग्रामवर्गसंख्या ३ द्विगुणा ६ नीलकंठवर्ग ५ संख्यया युक्ताः १९ अष्टभक्तावशेषं ३ ग्रामस्य काकिण्यः ३; द्वयोरंतरे शेषं २ नीलकंठस्य दातृत्वात्स्वद्रव्यहानिरित्यर्थः । उक्तं च- 'स्ववर्गं द्विगुणं कृत्वा परवर्गेण योजयेत् । अष्टभिस्तु हरेद्भागं योऽधिकः स ऋणी भवेत् ॥' इति । इतोऽन्यथाहुः कश्यपवसिष्ठनारदाः - 'अकारादिषु वर्गेषु दिक्षु प्रागादिषु क्रमात् । गृध्रमार्जारसिंहश्वसर्पाखुगजशाशकाः ॥ दिग्वर्गाणामियं योनिः स्वर्गात्पंचमो रिपुः । रिपुवर्गं परित्यज्य शेषवर्गाः शुभप्रदाः ॥ साध्यवर्गं पुरः स्थाप्य पृष्ठतः साधकं न्यसेत् । विभजेदष्टभिः शेषं साधकस्य धनं स्मृतम् ॥ व्यत्ययेनागतं शेषं साधकस्य ऋणं स्मृतम् । धनाधिकं स्वल्पऋण सर्वसंपत्प्रदं स्मृतम् ॥' इति । गृधोऽत्र गरुडः । गरुडसर्पयोर्महावैर