________________
स्वगृहनिर्माणप्रयोजनं] वास्तुप्रकरणम् १२।
४१३ किंतु विहिता इत्येतद्वर्जम् ; अन्ये विवाहोका दोषा यात्रायां निषिद्धा एवेति शिवम् ॥ १०७ - १०९॥
अथ यात्राप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ .. यात्राप्रकरणं समाप्तम् ॥११॥ स्पष्टार्थमेतत् ॥
ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगविप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने खलु यात्रिकप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुनगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां
यात्राप्रकरणं समाप्तम् ॥ ११ ॥
अथ वास्तुप्रकरणम् १२।
गौरीनंदनमिष्टसिद्धिसदनं विघ्नावलीभेदनं
नत्वा ज्योतिषिकायरामरचिते मौहूर्तचिंतामणौ । गोविंदो बुधनीलकंठविधिवित्सूनुः सतामग्रणी
बह्वर्थ गृहनिर्मितिप्रकरणं व्याख्याति विद्वन्मुदे ॥ १॥ अथ वास्तुप्रकरणं व्याख्यायते। तत्र विविधप्रवेशे वसिष्ठायमिहिते 'अपूर्वसंज्ञः प्रथमः प्रवेश' इत्युक्तं स च गृहनिर्माणायत्त इति वास्तुनिर्माणप्रारंभ उच्यते । यदाह वसिष्ठः-'वास्तुज्ञानं प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा। ग्रामसद्मपुरादीनां निर्माणं सूक्ष्मतोऽधुना ॥' इति । गृहनिर्माणप्रयोजनमभिहितं भविष्यत्पुराणे-'गृहस्थस्य क्रियाः सर्वा न सिध्यति गृह विना। यतस्तस्माद्गृहारंभप्रवेशसमयौ ब्रुवे ॥' गृहं स्वसत्ताकं । न सिध्यंति निष्फला भवंतीत्यर्थः। एतदपि स्पष्टमभिहितं तत्रैव-'परगेहे कृताः सर्वाः श्रौतस्मातक्रियाः शुभाः। निष्फलाः स्युर्यतस्तासां भूमीशः फलमभुते ॥' इत्येतत्सर्व मनस्यालोच्य गृहारंभप्रकरणं विवक्षुः ग्रंथकृद्धामपुरादिस्थानेषु स्वस्थ