________________
राशितो निषिद्धस्थानविवेकः ] वास्तुप्रकरणम् १२ ।
४१५ सत्त्वात् । साध्येति । साध्यो वासयोग्यो प्रामादिस्तस्य वर्ग वर्गसंख्यां पुरः संस्थाप्य साधकस्य नीलकंठादेः वर्गसंख्यां पृष्ठतो न्यसेत् , एवं विशिष्टोsकोऽष्टभिर्भक्तः शेषं साधकस्य ऋणं स्यात् । यथा-साध्यवर्गसंख्या ३ पुरः स्थापिता साधकस्य वर्गसंख्या ५ च पृष्ठतः सा चैवं ५३ जातास्त्रिपंचाशत् अष्टभक्तावशिष्टं ५ धनं साधकस्य, विपरीतं स्थापितं यथा ३५ अष्टभक्तावशेष ३ साधकस्य ऋणं स्यात् । अथ द्वारनिवेशनमाह-अथेति। द्विजादिराशिमतां पुंसां क्रमेण पूर्वतः प्राच्यादिदिक्चतुष्टये द्वारं हितम् । यथा-द्विजराशयः कर्कवृश्चिकमीनास्तेषां पूर्वदिशि वैश्यराशयो वृषकन्यामकरास्तेषां दक्षिणदिशि शूद्रराशयो मिथुनतुलाकुंभास्तेषां पश्चिमदिशि नृपराशयो मेषसिंहधनुर्धरास्तेपामुत्तरदिशि द्वारनिवेश इत्यर्थः । यदाह ......॥ १ ॥ अथ राशिपरत्वेन ग्रामनिवासे निपिद्धस्थानानि वसंततिलकाछंदसाहगोसिंहनक्रमिथुनं निवसेन्न मध्ये
ग्रामस्य पूर्वककुभोलिझपांगनाश्च । कर्को धनुस्तुलभमेषघटाश्च तद्व
द्वर्गाः स्वपंचमपरा बलिनः स्युरैयाः ॥२॥ गोसिंहेति ॥ वस्तुमिष्टस्य ग्रामस्य वस्त्रविभागवन्नवधा विभागं कृत्वा मध्ये मध्यमविभागे गोसिंहनक्रमिथुनम् । समाहारद्वंद्वः । न वसेत् वृषसिंहमकरमिथुनराशिमंतः पुरुषाः न वसेयुः। अथ पूर्वककुभः पूर्व दिशातोऽष्टदिक्षु अलिवृश्चिकः तदादिराशिमंतः पुरुषाः न वसेयुः । यथा-पूर्वस्यां वृश्चिकः, आग्नेय्यां झपो मीनः, दक्षिणस्यां कन्या, नैर्ऋत्यां कर्कः, पश्चिमायां धनुः, वायव्यां तुला, उत्तरस्यां मेषः, ऐशान्यां कुंभः न वसेदित्यर्थः। अथ वर्गाः अकचटतपयशवर्गाः अष्टौ एंट्याः पूर्वदिशमारभ्य अष्ट दिक्षु बलिनः । यथा-अवर्गः पूर्वस्यां, कवर्ग आग्नेय्यां, चवर्गो दक्षिणस्यां, टवर्गो नैर्ऋत्यां, तवर्गः पश्चिमायां, पवर्गो वायव्यां, यवर्ग उत्तरस्यां, शवर्ग ऐशान्यां, बलीत्यर्थः । कीदृशा वर्गाः ? स्वपंचमपराः स्वस्मात् पंचमः परः शत्रुर्येषां ते। यस्य अवर्गः पूर्वस्यां वली तेन पश्चिमायां द्वारं निवासो वा न विधेयः। एवं कवर्गादीनामाग्नेयादिसतदिक्षु बलित्वं सप्रयोजन ज्ञेयम् । यदुक्तं मुहूर्तमार्तडे-'नामर्शाविसुतांकदिग्भवगतो ग्रामः शुभोऽन्योऽन्यथा तत्कोणेऽत्यभुवां शुभं निवसतांदोषः परेषामलम् । कन्याकर्किधनुस्तुला क्रियघटाः कौडिजौ याम्यतो मध्येऽन्ये न वसंत्यर्थेदककुभो वर्गाः स्युरोजस्विनः॥' इति। ओजस्विनो बलिनः। कौप्यों वृश्चिकः । चक्रोद्धारो यथा....॥
अथेष्ट नक्षत्रेष्टायाभ्यां इष्टभूम्यां विस्तारायामौ इंद्रवज्रयेंद्रवंशापूर्वार्धन चाहएकोनितेष्टक्षहता द्वितिथ्यो रूपोनितेष्टायहतेंदुनागैः। युक्ता घनश्चापि युता विभक्ता भूपाश्विभिः शेपमितो हि पिंडः॥३॥
१ टीकायां कश्यपादिवचनस्थमिदं प्रतीकम् । २ शत्रुत्वं चोक्तं भूपालवल्लभे'वर्गशास्तार्क्ष्यमार्जारसिंहश्वसर्पमूषकाः । इभैणी पूर्वतस्तेषां स्ववर्गात् पंचमो रिपुः' इति । ३ 'कोयंडजो' इति पाठमादृत्य 'कौपी-वृश्चिकः' इति मुहूर्तमार्तडकारो व्याख्यातवान् ।