SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ तथा 'यथा शिखा मयूराणां नागानां मणयो यथा। तद्वद्वेदांगशास्त्राणां ज्योतिषं मूर्धनि स्थितम् ॥' इति ॥ वसिष्ठसिद्धान्ते'वेदस्य चक्षुः किल शास्त्रमेतत्प्रधानतांगेषु ततोऽथ जाता। अंगैर्युतोऽन्यैः परिपूर्णमूर्तिश्चक्षुर्विहीनः पुरुषो न किंचित् ॥' इति । तस्मात्कर्मोपयिकत्वादवश्यमध्येयं ज्योतिःशास्त्रम् । त्रिस्कन्धात्मकेऽपि शास्त्रेऽत्र मुहूर्तचिंतामणी केवलं मुहूर्तानां तद्वोधोपयोगिनामन्येषामपि विषयाणां ज्ञापन यथावत् ललिततरैर्विविधछन्दोलंकारैः साङ्गोपाङ्गं निबद्धमस्तीति मुहूर्तप्रन्थेष्वयं प्रन्थो मूर्धन्यत्वेन वरीवर्ति । एतदुपरि ग्रन्थार्थप्रकाशिका पीयूषधाराव्याख्याप्यतीव विस्तृता तत्र तत्र संदिग्धेषु प्रयोगविशेषेषु व्याकरणशुद्धिं प्रदर्शयन्ती च चकास्ति । तेनाप्यत्यन्तादरेणोरीकरणीयोऽयं निबन्ध इत्यलमतिलेखनचापलेनेति शिवम् ।
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy