Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
Catalog link: https://jainqq.org/explore/023384/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ काशी-संस्कृत-ग्रन्थमाला १३३ -००-००० E महामहोपाध्याय श्रीकौण्डभट्टविरचितः वैयाकरणभूषणसारः दर्पण-भैरवी टीकादयोपेतः भूषणव्याख्या- तिङर्थवादसारपरिशिष्टसहितः चौखम्बा-संस्कृत-सीरिज, बनारस-१ मूल्यं ७) Page #2 -------------------------------------------------------------------------- ________________ THE KASHI SANSKRIT SERIES (HARIDĀS SANSKRIT GRANTHAMĀLĀ 133. ( Vyākaraṇa Section No. 18.) The VAIYAKARANA BHỦSANASĀRA Ву M. M. S'RĪ KAUNDA BHATTA WITH The DARPANA Commentary by Sri Harivallabha, The PARĪKSĀ Commentary by Bhairava Mis'ra, and A Short Commentary by Sri Kris'na Mitra With Tinarthavadasara by S'ri Khuddī Jha S'arma, Edited with notes, Introduction, etc., . BY VYĀKARANĀCHĀRYA, SĀHITYOPADHYAYA Pt. S'ri Sadās'toa Sastri Joshi PUBLISHED BY JAYA KRISHNA DAS HARIDÁS GUPTA The Chowkhamba Sanskrit Series Office. Benares City. 1939. Page #3 -------------------------------------------------------------------------- ________________ PRINTED BY JAYA KRISHNA DAS GUPTA, VIDYA VILAS PRESS, BENARES CITY. 1939. All Rights Reserved by the Publishers. Page #4 -------------------------------------------------------------------------- ________________ 11 eft: 11 हरिदास संस्कृ त ग्रन्थ मा ला समाख्य काशी - संस्कृत - सीरिज़पुस्तकमालायाः १३३ व्याकरणविभागे (१८) अष्टादशं पुष्पम् । महामहोपाध्याय कौण्डभट्टविरचितः - वैयाकरणभूषणसारः । श्रीहरिवल्लभविरचित - दर्पण - टीकया, महामहोपाध्याय - पण्डितश्री भैरव मिश्रकृतया - परीक्षा टीकया, श्रीकृष्णमित्रकृत - भूषणव्याख्यया, पण्डित श्री खुद्दीशाशर्मकृत तिर्थवादसारेण च सहितः । सम्पादक: व्याकरणाचार्य - साहित्योपाध्याय:पण्डित - श्रीसदाशिवशास्त्री जोशी । प्रकाशक:-- जयकृष्णदास हरिदास गुप्तःचौखम्बा संस्कृत सीरिज आफिस, बनारस सिटी । १९९६ अस्य प्रन्थस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः । Page #5 -------------------------------------------------------------------------- ________________ अथात्रस्थसंग्रहस्य सूचिका । or or or or १ भूमिका। २ समर्पणम् । ३ प्रकरणानुक्रमणिका। ४ सटीकस्य भूषणसारस्य विषयानुक्रमणिका । १ ५ भूषणसारस्थमूलकारिकासङ्कलनम्। १ ६ दर्पणपरीक्षासम्वलितभूषणसारः । ७ भूषणसारव्याख्या। ४४३ .... - तिङर्थवादसारः। । अत्रोल्लिखितग्रन्थकृतां मतानाच सूचकम्। ४६६ १० अत्रस्थकारिकाणामकारादिक्रमेणानुक्र मणिका ११ प्रश्नपत्रसंग्रहः। ४५८ ___ इति संग्रहसूचिका। Page #6 -------------------------------------------------------------------------- ________________ 11 eft: 11 भूमिका अथ खलु पूज्ये धराहृदये कर्मभूम्यभिधेऽस्मिन्भरतखण्डे को नाम विलक्षणधिषणो विचक्षणो न विजानाति यत्किल सत्स्वपि प्रमाणान्तरेषु व्यवहारप्रवर्तकेषु प्रत्यक्षादिषु तेषां मूर्धन्यभूतो वेद एव सर्वोत्कर्षेण प्रमाणमिति । तत्रभगवतो वेदस्य लक्षणन्तावत् प्रामाणिकैस्तत्रभवद्भिः पूज्यपादैरस्मन्महर्षिवर्यैश्च - "इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः । अलौकिकपदेन प्रत्यक्षानुमाने व्यावत्येंते । अनुभूयमानस्य स्त्रक्चन्दनवनितादेरिष्टप्राप्तिहेतुत्वम् औषधसेवादेरनिष्टपरिहारहेतुत्वञ्च प्रत्यक्षतः सिद्धम् । स्वेनानुभविष्यमाणस्य पुरुषान्तरगतस्य च तथात्वमनुमानगम्यम् । एवं तर्हि भाविजन्मगतसुखादिकमपि अनुमानगम्यमिति चेद् ? न । तद्विशेषस्यानवगमात् । न खलु ज्योतिष्टोमादिरिष्टप्राप्तिहेतुः, कलञ्जभक्षणवर्जना दिरनिष्टपरिहारहेतुरित्यमुमर्थं वेदव्यतिरेकेणानुमानसहस्त्रेणापि तार्किकशिरोमणिरप्यवगन्तुं शक्नोति । अत एवोक्तम् - प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते । एतं विदन्ति वेदेन तस्माद्वेदस्य वेदता ॥ १ ॥ इति । भर्तृहरिणाप्युक्तं वाक्यपदीये - न चागमाते धर्मस्तर्केण व्यवतिष्ठते । - ऋषीणामपि यद् ज्ञानं तदप्यागमहेतुकम् ॥ १ ॥ बृहदारण्यके समामनन्ति - " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति” । एवञ्च सर्वप्रमाणाविषये धर्मादिविषये भगवान् वेद एवैकः प्रभुः, न प्रत्यक्षानुमाने । उक्तं हि श्लोकवार्तिके चोदनासूत्रे - श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः ॥ इत्यादि ॥ 'मन्त्रब्राह्मणात्मकत्वं वेदत्वम्' इति तावददुष्टं वेद्स्य लक्षणम् । तथाहि श्रूयते“मन्त्रब्राह्मणयोर्वेदनामधेयम्” इति । अत्रभवतोऽपौरुषेयस्य परमपूज्यस्य वेदस्यान्यलक्षणम्भवितुं नार्हति । अव्याप्त्यतिव्याप्तिदोषसद्भावात् । एवं ह्यस्य भगवतो वेदस्य प्रामाण्यम्बोधकत्वात्स्वत एव सिद्धम् । पौरुषेयवाक्यन्तु बोधकं सदपि पुरुषगतभ्रान्तिमूलत्वसम्भावनया तत्परिहाराय मूलप्रमाणमपेक्ष, न तथा वेदः । तस्य नित्यत्वेन वक्तृदोषशङ्कानुदयात् । अत्र जैमिनिः - पौरुषेयं न वा वेदवाक्यं स्यात्पौरुषेयता । काठकादिसमाख्यानाद्वाक्यत्वाच्चान्यवाक्यवत् ॥ समाख्यानं प्रवचनाद्वाक्यत्वं तु पराहतम् । तत्कर्त्रनुपलम्भेन स्यात्ततोऽपौरुषेयता ॥ ( जै० न्या० मा० ११२१८ ) ननु भगवता बादरायणेन वेदस्य ब्रह्मकार्यत्वं सूत्रितम् "शास्त्रयोनित्वात्" ( वे० सू० १|१|३ ) ऋग्वेदादिशास्त्रकारणत्वाद् ब्रह्म सर्वज्ञमिति सूत्रार्थः । बाढम् । नैता - वता पौरुषेयत्वम्भवति, मनुष्यनिर्मितत्वाभावात् । ईदृशमपौरुषेयत्वमभिप्रेत्य व्यवहारदशायामाकाशादिवन्नित्यत्वं बादरायणेनैव देवताधिकरणे सूत्रितम् "अत एव च नित्यत्वम्” इति ( वे० सू० १।२।२९ ) । श्रुतिस्मृती चात्र प्रमाणे भवतः । " वाचा विरूपनित्यया” (ऋ० ८।७५।६ ) इति । Page #7 -------------------------------------------------------------------------- ________________ सिद्धम् । भूमिका। .. स्मृतिः-अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । ... आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ इति । तस्मात्कर्तृदोषशङ्काया अनुदयात् मन्त्रब्राह्मणात्मकस्य वेदस्य यथार्थ प्रामाण्यं अतः सर्वप्रमाणशेखरायमाणस्य परमपूतस्य भगवतो वेदस्योपासना द्विजातिभिरवश्यं विधेयेति सर्वत्र मुक्तकण्ठेन निगदन्ति श्रुतिस्मृत्यादयः ।। ___ श्रुतिः-"वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो विदन्ति, परा चैवापरा च । तत्रापरा-ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः, शिक्षा, कल्पो व्याकरणम् , निरुक्तं छन्दो ज्यौतिषमिति । अथ-परा यया तदक्षरमधिगम्यते” (मुण्ड० १३१४४) इति ॥ स्मृतिः-योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । ___ सजीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ इति । अत्र तत्रभवान् पतञ्जलिरपि- . "ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽध्येयो ज्ञेयश्च" इत्यादिविजातीन् बाढं वेदाध्ययने प्रवर्तयतीत्यलम्पल्लवितेन । यश्च किल द्विजन्मा वेदमधीस्यापि अर्थं न विजानाति सोऽयं पुमान् भारमेव वहति केवलम् । ___ "स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत्सकलं भद्मश्नुते नाकमेति ज्ञानविधूतपाप्मा" (नि०१६ ) इति श्रुतेः । तस्माद्विजातीनां घेदार्थज्ञानाय शिक्षादिषडङ्गस्याध्ययनम्परममावश्यकमिति न तिरोहितं तत्र. भवताम्भवतां विपश्चिताम् । उक्तं हि पाणिनिशिक्षायाम् छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुनिरुतं श्रोत्रमुच्यते ॥ ४१॥ शिक्षा प्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते ॥ ४२ ॥ इति । . छन्दः-छन्दसामुपयोगस्तावत्कर्मकाण्डेऽत्यावश्यकः श्रूयते च "गायत्रीभिर्ब्राह्मणस्यादध्यात्, त्रिष्टुभो राजन्यस्य, जगतीभिर्वैश्यस्य" ॥ इति । (तै० ब्रा० १११।९।६) तत्र मगणयगणादिसाध्यो गायत्र्यादिविवेकश्छन्दोग्रन्थमन्तरा न सुविज्ञेयः॥ ___ कल्पो नाम-आश्वलायनापस्तम्बबोधायनादिसूत्रम् । कल्प्यते समर्थ्यते यागप्रयोगोऽत्रेति व्युत्पत्तेः । "इषे त्वा"इत्यादिमन्त्रास्तु क्रत्वनुष्ठानक्रमेणैवाम्नाता इत्या. पस्तम्बादयस्तेनैव क्रमेण सूत्रनिर्माणे प्रवृत्ताः । कल्पसूत्रं मन्त्रविनियोगेन क्रत्वनुष्ठा. ममुपदिश्योपकरोति। । ज्योतिषस्य प्रयोजनम्-“यज्ञकालार्थसिद्धये इति तस्मिन्नेव ग्रन्थे विहितम् । कालविशेषविधयश्च श्रूयन्ते-"सम्वत्सरमेतद्वतं चरेत्" (तै० ब्रा० १०६३४ ) "सम्वत्सरमुख्य भृत्वा" इत्येवमादयः संवत्सरविधयः। "वसन्ते ब्राह्मणोऽग्निमादधीत" "ग्रीष्मे राजन्य आदधीत" "शरदि वैश्य आदधीत" (तै० ब्रा० ११) इत्याचा ऋतुविधयः । एवं मासपक्षतिथिकालनक्षत्रविधयः श्रूयन्ते। अतः कालवि. शेषान् अवगमयितुं ज्योतिषमुपयुज्यते। निरुक्तनाम–अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् । यथा-गौः, Page #8 -------------------------------------------------------------------------- ________________ भूमिका । ग्मा, ज्मा, क्षमा, क्षा, क्षमेत्यारभ्य वसवः वाजिनः, देवपत्न्यो देवपत्न्य इत्यन्तो यः पदानां समाम्नायः समाम्नातस्तस्मिन् ग्रन्थे पदार्थावबोधाय परापेक्षा न विद्यते। एता. वन्ति पृथिवीनामानि, एतावन्ति हिरण्यनामानीत्येवं तत्र तत्र विस्पष्टमभिहितत्वात्। यद्यपि व्याकरणबलेन केषांचिनिर्वचनानां सिद्धिर्भवितुमर्हति, तथापि न सर्वेषां सिद्धिरस्ति । अतः श्रूयते च-"तदिदं विद्यास्थानं व्याकरणस्य कात्स्न्यै स्वार्थसाधकञ्च"इति (नि० १३१६ )। तस्माद्वेदार्थवाबोधायोपयुक्तं निरुक्तमिति ॥ शिक्षा नाम-वर्णस्वराद्युच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षा । तथा च तैत्तिरीयोपनिषदारम्भे समामनन्ति-"शिक्षा व्याख्यास्यामः-वर्णः, स्वरः, मात्रा, बलं, साम, सन्तान इत्युक्तः शिक्षाऽध्यायः" (ते. आ० ७१२) इति । वर्णोऽकारादिः । स्वरः-उदात्तादिः । मात्रा-हस्वादिः । बलम्-स्थानप्रयत्नौ। सामशब्देन साम्यमुक्तम् । अतिदुतातिविलम्बितगीत्यादिदोषराहित्येन माधुर्यादिगुणयुक्तत्वेनोच्चारणं साम्यम् । एतत्सर्वे पाणिनीयशिक्षायां स्पष्टम् । सन्तानः-संहिता, 'वायवायाहि इत्यत्रावादेशः । 'इन्द्राग्नी आगतम्" इत्यत्र प्रकृतिभावः। एतच व्याकरणेऽभिहितत्वाच्छिक्षायां नोक्तम् । शिक्ष्यमाणवर्णातिवैकल्ये बाध इति पाणि. नीयशिक्षायामेवाभिहितम् । तथाहि-"मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह। स वाग्वजो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्॥ (पा शि०५२) ___"इन्द्रशत्रुर्वर्धस्व इत्यस्मिन्मन्त्रे (तै० सं० २।४।१२।१ ) विवक्षितेऽथें तत्पुरुषसमासे "समासस्य" (पा० सू० ६।१।२२३) इति सूत्रेण तत्पुरुषत्वाद् अन्तादात्तेन भवितव्यम् । आधुदात्तस्तु प्रयुक्तः, तथासति पूर्वपदप्रकृतिस्वरत्वेन बहुव्रीहित्वादइन्द्रो घातको यस्य इत्यर्थः सम्पन्नः । अतः स्वरवर्णाद्यपराधनिरासाय शिक्षाग्रन्थोऽप्यावश्यकः। व्याकरणन्नाम-अर्थविशेषमाश्रित्य स्वरप्रकृतिप्रत्ययादीन् विशेषेण-संस्कारविशेषेण, आ-समन्तात्-वैदिकाल्लौकिकांश्च शब्दान् करोतीति तथाभूतः पाणिन्या. दिमहर्षिप्रणीतो ग्रन्थसमूहः। अस्य व्याकरणस्य प्रणेतारोऽष्ट नव वा आचार्या बभूवुः । केचित् इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः॥१॥ इत्याहुः । __ अपरे तु-ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम् । ___ सारस्वतं चापिशलं शाकलं पाणिनीयकम् ॥ इत्याहुः । सत्स्वपि सर्वेषु व्याकरणेषु सार्वलौकिकवैदिकशब्दानां नितरां व्युत्पादकं पाणिनीयव्याकरणमेव । अत एवास्य वेदाङ्गत्वम् । इदमेवाभिप्रेत्य “इदमक्षरच्छन्दो वर्णशः समनुक्रान्तं यथाऽऽचार्या ऊचुः, ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यस्तं खल्विममक्षरसमाम्नाय. मित्याचक्षते, "न भुक्त्वा न नक्तं प्रब्रूयात् ब्रह्मराशिः” इति ऋक्तन्त्रव्याकरणेऽस्य चतुर्दशसूत्रकदम्बस्याम्नायत्वमुक्तम् , तन्मूलकत्वादस्यैव व्याकरणस्य वेदाङ्गत्वं युक्तम् । अत एवास्य पाठे सर्ववेदपारायणजं पुण्यमिति शब्देन्दुशेखरे नागेशेन स्पष्टमभिहितम् । छान्दोग्योपनिषदि व्याकरणमुपक्रम्य "वेदानां वेदः” इत्युक्तम् । . अत्र पराशरोपपुराणम् पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किञ्चन ॥ इति ॥ Page #9 -------------------------------------------------------------------------- ________________ भूमिका। ... तस्य एतस्य व्याकरणस्य प्रयोजनविशेषो वररुचिना वार्तिके प्रदर्शित:-"रक्षोहागमलध्वसन्देहाः प्रयोजनम्" इति एतानि रक्षादिप्रयोजनानि प्रयोजनान्तराणि च महाभाष्ये श्रीपतञ्जलिमहर्षिणा स्पष्टीकृतानि।। ऋग्वेदेऽपि-चत्वारि शृङ्गा त्रयोऽस्य पादा द्वे शी सप्त हस्तासो अस्य । विधा बद्धो वृषभो रोरवीति महो देवो मयाँ आविवेश ॥ ४५८३ अस्यार्थ:-चत्वारि शृङ्गा:-चत्वारि पदजातानि-नामाख्यातोपसर्गनिपाताः । अयोऽस्य पादा:-त्रयः कालाः । द्वे शीर्षे-सुपस्तिश्च । सप्तहस्तासः-सप्त विभ. क्तयः, त्रिधा बद्धः, त्रिषु स्थानेषु बद्धः, उरसि कण्ठे शिरसि । वृषभो वर्षणात्कामा. नाम् । रोरवीति-रौतिः शब्दकर्मा । महो देवो मत्रों आविवेश । महता देवेन नस्ता. दात्म्यं यथा स्यादित्यध्येयं व्याकरणम् । अस्मिन् पाणिनीयव्याकरणविषये नानाविधाः प्रबन्धास्तत्रभवद्भिः पण्डितप्रकाण्डैान्यवरैर्मनीषिभिर्विरचिताः सन्ति । तेषु प्रबन्धेष्वद्य श्रीमन्महामहोपाध्यायको. ण्डभविरचितो वैयाकरणभूषणसारः साम्प्रतम्भवताम्पुरतः प्रस्थाप्यते । . . अत्र धात्वर्थः लकारार्थः, सुबर्थः, नामार्थः, इत्यादयो भाष्यप्रामाण्यं पुरस्कृत्य सम्यक् विचारिताः, येन वैयाकरणानामप्यर्थज्ञानेप्रतिहता प्रतिभा सम्पन्ना स्यात् । अर्थज्ञानाय वैयाकरणानां किमुत, अन्येषामपि न्यायमीमांसादिशास्त्रविदां भूषणसारप्रभृतीनामध्ययनमावश्यकम् । उक्कं हि शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ अत्र हरिरप्याह-इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ॥ इति ॥ वैयाकरणानाम्मते-शब्दतत्वमेव ब्रह्म । स च शब्दः नित्यः । सोऽपि स्फोट इति शाब्दिकाः शब्दायन्ते । तत्रेमां श्रुति प्रमाणयन्ति । "शब्दबह्म यदेकं यच्चैतन्यं च सर्वभूतानाम् यत्परिणामस्त्रिभुवनम् अखिलम् इदं जयति सा वाणी॥ अत्र हरिः-अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥१॥ इति । एवञ्च वैयाकरणभूषणसारादिग्रन्थानाम्पठनेन न केवलं व्याकरणपदार्थानामेव ज्ञानं सम्पद्यतेः किन्तु न्यायमीमांसावेदान्तादिशास्त्राणामपि पदार्थज्ञानस्य लाभोऽनेन सम्भ. वति। अत एवास्य ग्रन्थस्य सर्वत्र राजकीयपरीक्षासु पाठ्यत्वेन निर्धारणं दरीदृश्यते । अयं ग्रन्थकर्ता कौण्डभट्टः रङ्गोजिभट्टस्य पुत्रः, भट्टोजिदीक्षितस्य भ्रात्रीय इति, प्रकृतग्रन्थस्थमङ्गलश्लोकेन "भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये” इति श्लोकतश्च प्रतीयते । “भट्ठोजिदीक्षितसमयश्च १६०० पर्यन्तं भवितुमर्हति । यतः किल भट्टोजिदीक्षितसहपाठिनो जगन्नाथस्य पण्डितराजस्य समयो निश्चितोऽस्ति । यतःदिल्लीश्वरशहाजहानस्य सविधे तस्य पण्डितराजस्य स्थितिरासीत् । अत्र प्रमाणम्"दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः" इति पण्डितराजकृतश्लोक एव । तस्मात् कौण्डभट्टस्य किञ्चिदधिकः १६२५ समयो भवेत्। ___ एते दाक्षिणात्या इति बहव आहुः । एभिः कृता ग्रन्थाः-१ तर्कप्रदीपः । २ तर्क. रत्नः। ३ न्यायपदार्थदीपिका । ४ बृहद्वैयाकरणभूषणम् । ५ लघुवैयाकरणभूषणसारः । ६ वैयाकरणसिद्धान्तदीपिका । ७ स्फोटवाद इत्यादयः। तत्र पदार्थदीपिका, बृहद्वैः याकरणभूषणम् लघुवैयाकरणभूषणसार इति ग्रन्थत्रयं मुद्रितं साम्प्रतमुपलभ्यते। Page #10 -------------------------------------------------------------------------- ________________ भूमिका । अस्य वैयाकरणभूषणसारस्य सारोऽतिगहनविषयतया यथावज्ज्ञातुमशक्यः । अ तोsस्योपरि विद्वद्धौरेयैरनेकव्याख्या आविष्कृताः । सन्ति चास्योपरि - हरिवल्लभ' कृतो, १-दर्पणः। भैरवमिश्रकृता -२ परीक्षा । गोपालदेवकृता-३ कान्तिः । हरिशास्त्रिकृता - ४ काशिका | रुद्रनाथकृता - ५ विवृतिः । कृष्णमित्रकृता - ६ भूषणव्याख्या इत्यादयष्टीकाः । परन्त्वेतासु दर्पणेन समा विस्तृता न्यायमीमांसादिमतस्य स्पष्टाभिप्रायप्रदर्शिका नैकापि, एवं परीक्षासमाप्यन्या नेत्यतोऽस्माभिर्दर्पणपरीक्षाभ्यां सम्वलितो भूषणसार इदानीं विदुषां कृते छात्राणाञ्चोपकृते सम्मु प्राकाश्यं नीतः । पण्डितश्रीकृष्णमित्रकृता - वैयाकरणभूषणव्याख्या, पण्डितश्रीखुद्दीझाकृत — तिर्थ - वादसारश्चास्माभिरन्ते निवेशितौ । ५ अत्र हरिवल्लभस्य दर्पणकारस्य परिचयस्तावदित्थम् — श्रीवल्लभाभिधानस्य पण्डितवरेण्यस्य कूर्मगिरिनिवासस्य उत्प्रभातीयोपनामकश्रीवल्लभस्यायं सुपुत्रो दर्पणकारः श्री हरिवल्लभो नाम । अस्य समयः १८०० इत्यनुमातुं शक्यते । यतः for १८५८ वैक्रमे निर्मितायां काशिकायां तत्र तत्र स्थलेषु दर्पणकारस्य मतमुपपादितं दरीदृश्यते । अस्य पाण्डित्यं न केवलं व्याकरणशास्त्रे एव, किन्तु न्यायमीमांदिशाष्त्रेष्वपीति दर्पणटीकात एव निर्धारयितुं शक्यते । श्रीमन्माननीयमहामहोपाध्याय - पण्डितवर्यस्य अगस्त्यकुलावतंसश्रीमद्भवदेवात्मजभैरवमिश्रस्य परिचयस्तावन्न तिरोहितो विदुषाम् । एतेषां महोदयानां शब्देन्दुशेखरे, परिभाषेन्दुशेखरे, मनोरमाशब्दरत्ने च विस्तृता पाण्डित्यप्रगल्भा टीका प्रथिता वरीवर्ति । एतेषाम्माननीयानां समयः १७८० इति महामहोपाध्यायपण्डिताभ्यङ्क रोपाह्ववासुदेवशास्त्रिसम्पादितसर्वं दर्शनसंग्रहस्थपाणिनीय व्याकरणग्रन्थकारसमयग्रन्थनामसूचकपत्रतोऽवगम्यते । एते सनाढ्यब्राह्मणा इति केचित् । परे तु सरयूपारिण इत्याहुः । श्रीमान्यवराः कृष्णमित्राचार्याः सुलतानपुर मण्डलान्तर्गत लक्ष्मणपुरनिवासिनः पण्डितरामसेवक त्रिपाठिमहोदयानां पुत्राः, पं०देवीदत्तशर्मणः पौत्राः वैदिकाः कर्मकाण्डे धर्मशास्त्रे च निष्णाताः, न्यायव्याकरणतन्त्रे च स्वतन्त्राः । एभिः - लघुमञ्जूषोपरि कुञ्जिका, कौमुद्योपरि रत्नार्णवः, प्रौढमनोरमायां कल्पलता, कर्मकाण्डे - प्रेतप्रदीपः, धर्मशास्त्रे तिथिनिर्णयः, शक्तिवादटीका च विनिर्मिताः । एते नागेशभट्ट समकालीना इति प्रामाणिक मुखतः श्रूयते । अथ च अभ्यङ्करोपाह्ववासुदेवशास्त्रिसम्पादितसर्वदर्शनसङ्ग्रहस्थपाणिनीयव्याकरणग्रन्थकार समयग्रन्थनामसूचकपत्रतः १७५० इति समय निर्धार्यते । टीकात्रय भूषितभूषणसारस्य सम्पादनकार्यमतिदुष्करमतिकठिनञ्च विलोक्य मदीयमनोरमा शेखराद्यनेकग्रन्थसम्पादनसन्तुष्टचेतसः सुरभारती सेवकगोलोकवासिश्रीहरिदासगुप्तात्मजश्री जयकृष्णदासश्रेष्ठिवर्या भूप्रथितयशसः चौखम्बा संस्कृत पुस्तकालयाध्यक्षा मां सादरं साग्रहञ्च प्रार्तिथपन् । श्रीजयकृष्णदासप्रेमादरवशंवदेन राजकीयप्रधानपाठशालाध्यापकव्याकरणाचार्यमोकाटे इत्युपनामकगणपतिशास्त्रिचरणान्तेवासिना गुरुकृपाम्बुधावितधिया अनेकप्राचीन हस्तलिखित ग्रन्थाननेक प्राचीनमुद्रित - ग्रन्थाञ्च सम्पाद्य तैः सह सटीकं प्रकृतग्रन्थं सम्मेल्य तत्र तत्र त्रुटितग्रन्थं प्रपूर्य प्रमादपतितपाठान् निष्कास्य टीकायाम्प्रतीकचिन्हानि निधाय ग्रन्थादौ प्रकरणसूचि - कां विषयसूचिकां कारिकासङ्ग्रहञ्च विधाय अन्ते कृष्णमित्राचार्यकृतभूषणव्याख्यां मया २ ६० प० Page #11 -------------------------------------------------------------------------- ________________ भूमिका। पण्डितचीखुद्दीझाशर्मकृततिङर्थवादसारम् , भूषणसारोल्लिखितग्रन्थकृतां विशेषमतान्तराणां च सूचकपत्रम् , भूषणसारस्थकारिकाणामकारादिक्रमिकानुक्रमणिकाम्प्रश्नप. असङ्ग्रहञ्च विधाय यथाशेमुषि समपादि। __अत्र राजकीयप्रधानपाठशालाध्यापकन्यायव्याकरणाचार्यपण्डितसूर्यनारायणशुक्ल. महोदयैर्जटिलफक्किकालापने कृपया बहुतरं साहाय्यम्प्रदत्तम्, इति पण्डितवरेण्या अस्माभिनितरां धन्यवादार्हाः। ___ अत्र संशोधनकायें सुहृदूरपण्डितछबिनाथ त्रिपाठिना बहुतरं साहाय्यं प्रदत्तमिति तेभ्यो मे सादरमनेके धन्यवादाः। राजकीयप्रधानपाठशालाध्यापकव्याकरणवेदान्ताचार्यनेनेइत्युपाहपण्डितगोपाल. शास्त्रिणः स्वकीयग्रन्थसङ्ग्रहतो ग्रन्थान् प्रदत्तवन्त इति तान् धन्यवादाअलिमर्पयामः। श्रीपरममाननीयभैरवमिश्रविरचितपरीक्षा टीकां मुद्रापयितुमत्युत्कटेच्छाऽसीदस्माकम् । परन्तु सा झटित्युपलब्धा नाभवत् । चिन्तया तस्या अन्वेषणम्प्राचलत् । विश्वविद्यालयसाहित्याध्यापकपण्डितमधुसूदनमहोदयः परमतपस्विनः पण्डितमहादेवप्रसादस्य सविधे प्रकाशकं नीतवान् । पण्डितमहादेवशास्त्रिणो दर्शनेनास्य महादेव इति नामांन्वर्थकम्मन्यते स्म प्रकाशकः। गोरक्षपुरमण्डलान्तर्गताहिरवलिप्रामनि. वासी साम्प्रतम्वाराणस्यामसितटनिवासी द्विवेदीत्युपनामकः पण्डितमहादेवशास्त्री गोरक्षपुरमण्डलान्तर्गतवांसगावमण्डलान्तर्गतमध्यग्रामवास्तव्यशुक्लकुलावतंसवैयाक रणकेसरिश्रीपण्डितरामचरणात्मजयमुनाप्रसादपुत्रगदाधरप्रसादरक्षितां हस्तलिखितपरीक्षाटीकापुस्तिकामतिश्रमेण तेभ्यः सम्पाद्य श्रेष्ठिवराय जयकृष्णदासमहोदयाय प्रकाशनार्थम्प्रदत्तवानिति पण्डितमान्यवरमहादेवद्विवेदीनाम्महोपकारंशिरसि निधाय तेभ्यः पुनः पुनः धन्यवादाञ्जलयोऽस्माकम् ।। . बडोदामण्डलान्तर्गतडभईनगरस्थलक्ष्मीनारायणपाठशालाध्यापकपण्डितनरहरशास्त्रिपेणसेमहोदयैः स्वकीयं परीक्षाटीकापुस्तकं संशोधनसाहाय्यार्थ प्रेषितमिति तेभ्योऽनेके धन्यवादाः। _ विश्वविद्यालयीयधर्मशास्त्राध्यापकपण्डितविश्वनाथशास्त्रिभिः पण्डितश्रीकृष्ण. मित्रकृतभूषणव्याख्याया हस्तलिखितं पुस्तकम्प्रदत्तमिति तेभ्योऽनेके धन्यवादाः । दर्पणपरीक्षाभूषणव्याख्यातिङर्थवादसारसहितस्य वैयाकरणभूषणसारस्य मुद्रणे श्रीहरिदासगुप्तात्मजवृजजीवनदासमहोदयेन सूक्ष्मेक्षिकया अतिश्रमो विहित इति तेषां नाम्मोलेखनमप्यावश्यकम्प्रतिभाति । यद्यप्यस्य संस्करणस्य संशोधनं सावधानतयातिश्रमेणातिशुद्धं समभवदिति ना. न्यदस्य तुलामधिरोहतीति वक्तुं शक्यम्, तथापि कदाचिद् दृष्टिदोषेणमतिमान्द्येन मम मुद्रकस्य वा अनानेके प्रमादाः स्युस्तान् गुणैकपक्षपातिनो विद्वांसो हंसक्षीरन्यायेन परिशोध्य। नचात्रातीव कर्तव्यं दृष्टिदोषपरम्मनः । दोषेऽह्यविद्यमानेऽपि तञ्चित्तानाम्प्रकाशते ॥१॥ इत्युक्तिमनुसन्धाय च मामनुगृह्णन्त्विति सम्प्रार्थयते विदुषामनुचरःसदाशिवशास्त्री जोशी व्याकरणाचार्यः साहित्योपाध्यायश्च । Page #12 -------------------------------------------------------------------------- ________________ arakes ॥ श्रीः ॥ श्रीमद्गुरुवर्य मोकाटे कुलभूषणगणपतिशास्त्रिणाम् चरणारविन्दयुगले सादरम् •* समर्पणम् विद्यामन्दिरमण्डना बुधजनैः सम्मानिताः सादरम् विद्यादानतपोनितान्तनिरता रोचिष्णवः सद्गुणैः । मोकाटे कुलभूषणा गणपतिप्रख्यातनाम्ना युताः वन्द्या नो गुरवो यदीयकृपया प्राप्ता सुविद्या मया ॥ १ ॥ यस्याङ्घ्रिपद्मरजसा विमलीकृतन्तत् चेतो दुरूह विषयग्रहणक्षमं मे । तस्यैव ते वरदकल्पतरुप्रसून सङ्काशपादयुगले कृतिरर्पितेयम् ॥ २ ॥ भवदीयः सदाशिवशास्त्री जोशी acky Raya Page #13 --------------------------------------------------------------------------  Page #14 -------------------------------------------------------------------------- ________________ ॥श्रीः॥ अथ भूषणसारस्थप्रकरणानामनुक्रमणिका । पृ० अं० २३१ २७५ ३०७ क्रमाङ्कः प्रकरणनाम १ धात्वथनिणयः २ लकाराथनिर्णयः ३ सुबर्थनिर्णयः ४ नामार्थनिर्णयः ५ समासशक्तिनिर्णयः ६ शक्तिनिर्णयः ७ नबर्थनिर्णयः ८ निपातार्थनिर्णयः ९ त्वादिभावप्रत्ययार्थनिर्णयः १० देवताप्रत्ययार्थनिर्णयः ११ अभेदैकत्वसंख्यानिर्णयः १२ संख्याविवक्षानिर्णयः १३ क्त्वाद्यर्थनिर्णयः १४ स्फोटनिरूपणम् . इति श्रीभूषणसारस्थप्रकरणानामनुक्रमणिका। ३२२ ३४४ 202 ३६३ ३७० ३७५ ३८५ Page #15 -------------------------------------------------------------------------- ________________ वैयाकरणभूषणसारस्य सटीकस्य विषयानुक्रमणिका ८ टी० २२ विषयः। पृष्ठम् ।। विषयः। . पृष्ठम्। मङ्गलाचरणम् । १ तस्याः खण्डनम् । जगदशब्दस्य व्युत्पत्तिविवरणे ३ मीमांसकमतेऽपरापत्तिदानम् । १८ मतान्तरेण यत इत्यस्यार्थप्रतिपादनम् ३ कर्तुंर्वाच्यतावश्यकत्वप्रदर्शनमा १० द्वितीयमन्लाचरणम् । ४ सोमेन यजेतेत्यादावभेदान्वयबोधामक्किपदार्थस्य वेदान्तिमते नैयायि- नापत्तौ शङ्का । टी २१ कमतेच विचारः टी० ४ | सोमेन यजेतेत्यत्र कर्तृवाचित्वप्रतिग्रन्थारम्भप्रतिज्ञादिकम् । ७ पादनम् । .. टी० २२ धात्वर्थनिर्णयप्रारम्भः। अत्रापरमतम् । फलव्यापारतिब्न्तानां विशेष्यविशेष. वैश्वदेव्यामिक्षेतिन्यायनिर्वचनम् टी. २२ णभावप्रतिपादनम् । ८ बलाबलाधिकरणम् प० टी० . . २३ फलपदार्थनिर्वचनम् । __टी० ८ | अरुणयेतिन्यायनिर्वचनम् । २४ पररीत्या फल-पदार्थनिरूपणम् प्रधानषष्ट्यर्थेऽनुशासनस्य युक्तरप्युव्यापारपदार्थकथनम्। पलक्षणत्वम्। तदर्थे वाक्यपदीयप्रदर्शनम् । १० | अत्र वस्तुतस्तुमतप्रतिपादनम् । टी० २४ साध्यत्वनिर्वचनम् । - ११ अरुणाधिकरणीयसिद्धान्तप्रतिपादसाधननिर्वचनम् ११ नम्। टी० २४ साधननिर्वचनमन्येतुमते केचिन्मते सङ्गतः फलम् । टी० २५ अन हरिसम्मतिः फले प्रधानमित्यादिकारिकार्थनिरूपवस्तुतस्तु प्रकारेण साध्यत्वकथनम् टी०११ णम् । केवितुरीत्या पचित्वादिकं जातिरि नैयायिकादिरीत्या कार्यकारणभावप्रत्यादिकथनम् । टी०११ | तिपादनम् । तदर्थ वाक्यपदीयप्रदर्शनम् । १२ षोढासङ्गतिनिरूपणम् । टी० २६ नानार्थतापत्तिवारणम् । उक्तकार्यकारणभावे गौरवप्रदर्शनम् । २७ अन तदादिन्यायस्वरूपदर्शनम् । टी०१३ चैत्र इव पचतीत्यादिस्थलीयदोषवावाक्यपदीयप्रदर्शनम् । रणम्। टा० २९ आश्रये तु तिः स्मृता इत्यस्यार्थस्य प्रदर्शितलाघवस्य कर्तृकर्मणोराख्याप्रतिपादनम् । तार्थत्वे प्रमाणत्वप्रदर्शनम् । टी० २९ फलव्यापाराश्रयस्य तिर्थत्वे मीमां कालस्य व्यापारे विशेषणत्वम्। २९ सकशङ्का। १५ | कर्तृकर्मणोराख्यतार्थत्वे प्रदर्शितप्रमातस्याः खण्डनम् । णस्य नैयायिकरीत्या समाधानम्।टी०२८ न्यायशास्त्ररीत्या व्यापारस्य धात्व- सङ्ख्यावत् कर्तृकर्मणोः कालस्या. थत्वेशका। न्धयवारणम् । १३ Page #16 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका । विषयः । पृष्ठम् । २९ पश्य मृग इत्यत्रान्वयदोषकथनम् दिगर्थस्य प्रदर्शनम् पचतीत्यस्य बोधप्रदर्शनम् । अत्र नव्यमतम् विषयः । कालस्य फलेऽन्वयवारणम् । केचिन्मते फलव्यापारयोः पार्थक्येनशकेरङ्गीकरणम् । टी० ३० टी० ३० उक्तमतस्य खण्डनम् । आमवातजडीकृतकलेवरस्योत्तिष्टतीति प्रयोगवारणम् । परमतेनोक्तापत्तिवारणम् । उक्तापत्तिवारणप्रकारस्य खण्डनम् टी०३१ ३० ३१ स्वमतेनापत्तिवारणम् । टी० ३१ ३१ अत्रापरमतम् प्रत्ययस्य प्राधान्यत्वेऽपि निरुक्तादिप्रामाण्यात्तस्यास्वीकरणम् । भावप्रधानमाख्यातमिति वाक्यार्थ . ३२ प्रदर्शनम् । भावत्वस्य निरूपणत्वम् । प्राधान्यस्य निरूपणम् । भावप्रधानकत्वनिरूपणम् । सत्वप्रधानानीत्यस्य निर्वचनम् | टी०३३ भूवादिसूत्रीय भाष्यप्रदर्शनम् | टी० ३३ अत्रबोधनप्रकारः ३५ कृत्यादिरूपभावनाया आख्यातार्थत्वे मानप्रदर्शनम् । क्रियायाः द्वित्वादिसत्वे शङ्का पूर्वकप्र ३२ टी० ३२ टी० ३२ टी० ३२ टी० ३५ टी० ३५ माणकथनम् । चैत्रौ पचत इत्यादौ चैत्रादिगतसख्यारोपे प्रमाणाभावकथनम् । टी० ३६ कर्तृकर्मणोः देवदत्तादीनामन्वयासंभवकथनम् । टी० ३६ कर्त्रादौ सङ्ख्यान्वयासंभवकथनम् टी०३६ कर्तृत्वेन विवक्षया राजा पुरुषो गच्छतीतिप्रयोगापादानम् । टी० ३७ चैत्रादिपदोत्तरं तृतीयापत्तिवारणम् टी०३७ चैत्रस्याधेयतासम्बन्धेनान्वयापत्ति टी० ३७ नम् । अत्र नवीनमतम् । प्रथमान्तार्थविशेष्यकबोधवादिमतेशङ्कानिवारणम् । अत्रनैयायिकमतप्रदर्शनम् । पचतीत्यस्य बोधप्रदर्शने नवीनमतक थनम् । भावाख्याते भावनैव विशेष्येतिकथ पृष्ठम् । ४० ४० r ४३ ४३ वारणम् । पश्य मृगो धावतीत्यत्रैकवाक्यतानापत्तिरूपदूषणकथनम् । पश्येत्यत्र तमित्यध्याहारनिवारणम् । ३९ ३९ मतस्य खण्डनम् । . अत्र नैयायिक मतप्रदर्शनम् । टी० ४१ | कारिकयाकृञर्थादिप्रदर्शनम् । टी० ४२ टो० ४२ टी० ४३. मते व्यवस्थापनम् । कृतित्वस्य शक्यतावच्छेदकत्वनिवा रणम् । टी० ४३ टी० ४३ टी० ४४ अत्रापरमतम् । ४५ घटो नश्यतीत्यादिबोधप्रदर्शनम् । पचतीत्यत्र बोधे तात्पर्य ग्राहक प्रदर्शनम् ४७ अत्र व्यभिचारवारणम् । ४८ लङाद्यन्तेभावनाऽवाच्येतिप्रभाकर ४९ ५१ ५२ ५३ यत्नस्याख्यातार्थत्वनिवारणम् भावनाया अवाच्यत्वे आपत्तिप्रदर्शनम् अस्मिन् विषये द्वितीयापत्तिप्रदर्शनम् ५४ अत्र भावप्रदर्शनम् । अस्मिन् विषये वास्तविकमतप्रदर्शनम् । ५५ जानात्यादेः केवलज्ञानादिवाचित्वदू षणम् । अत्र भावप्रदर्शनम् । अस्मिन् विषये वास्तविकमतप्रदर्शनम् । टी० ५७ टी० ५७ अत्र नव्यनैयायिकमतम् । क्रियानामेयमित्यादिभाष्ययोजना टी०५७ व्यापारमात्रशक्तिवादिमतम् । टी० १८ कृञादौ सकर्मकत्वव्यवहारो भाक्तेति टा०-५६ ५६ ५८ .५९ Page #17 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका। • ६४ ce ६५ ६७ विषयः पृष्ठम् ।| विषयः। पृष्ठम्। अन्न परम ५९ | स ततो गतो नवेति प्रश्नानुरोधेन तत्रापि फलावच्छिन्नव्यापारबोधकत्वं सक- भावना प्रतीयते ८४ मकत्वमिति मतेऽपि अयम्पक्षः टी० ६९ | उक्तप्रश्नोत्तरविषये शडासमाधानम्टी० ८४ जानात्यादेः विषयावच्छिन्नावरणभ- अस्तीत्यत्र स्पष्टं भावना न प्रतीयतेऽङ्गादिफलवाचकत्वनिराकरणम्। ६० त्र कारणप्रदर्शनम्। ८९ अत्र वास्तविकं मतम् । टी०६० | करोतीतिप्रश्ने प्रश्नस्यास्तीत्युत्तरस्य । निर्वादिषु कर्मवद्रावो नतु प्राप्येति- वारणम् । ८५ कथनम्। | सर्वेषां सकर्मकतापत्तिनिवारणम्। ८६ फलावाचकत्वे त्यजिगम्योः पर्याय अत्राथें वाक्यपदीयप्रदर्शनम् । ८७ तापत्तिः । | पाक इत्यत्रासत्वभूतक्रियाप्रतीतिनिअख्यातवाच्या भावनेति मीमांसकम- वारणम् । तम्। घअन्ते साध्यत्वेन क्रियाभिधाने प्रमा... अत्र तदागमन्यायदर्शनम्। ६६ णप्रदर्शनम् । ९० तदागमन्यायस्य समूलं विवरणम् । ६६ अस्यैव स्पष्टीकरणम् । ९१ मीमांसकमतखण्डनम् । स्तोकः पाक इति प्रयोगवारणम् ९२ मीमांसकमतखण्डनपूर्वकमभिप्रायप्र- समानवाक्ये निघातादिविषये वाक्य. दर्शनम् । पदीयप्रदर्शनम् । ६४ सम्बन्धमानमितिमाहवार्तिकप्रदर्श- सम्बोधनपदार्थकथनम्। टी० ९४ नपूर्वकं शङ्का | तिङन्तानामप्येकवाक्यताऽस्तीति उक्तमतस्य खण्डनम् । प्रतिपादनम् । वास्तविकमतप्रदर्शनम् । अत्र वास्तविकमतप्रदर्शनम् । .. ९६ बोधो व्युप्तत्त्यनुसारीतिप्रदर्शनम् । ७१ / सम्बोधनान्तं कृत्वोर्था इत्यादीनामतदागमे हीतिन्यायस्यातिव्याप्सत्व- दाहरणप्रदर्शनम् । असमस्तनमः क्रियान्वये प्रमाणप्रदव्यापारस्य धात्वर्थत्वे साधकान्तरमाह | र्शनम् । कर्तुर्वाच्यत्वावश्यकमितिशङ्का । ७५ | सम्बोधनाद्यष्टकस्य क्रिययैव साधुत्वम् १०० अस्य मतस्य खण्डनम् । ७५ फलांशोऽपि भावनायां विशेषणं का. एकक्रियान्वयित्वरूपसामर्थ्यस्य खण्डः | रकाण्यपि। नम् । स्वीयोपपत्तिप्रदर्शनम् । १०३ भावनायास्तिज्यत्वे आपत्तिप्रदर्शनम् ७८ कर्नादौ विहितेऽन्यादीनां क्रिययैणिजाख्यातार्थान्यतरार्थव्यापाराश्र वान्वयः यत्वरूपकर्तृत्वस्य खण्डनम् । टी० ७० | अस्मिन् विषये वास्तविकं मतम् टी० १०६ धातोर्भावनावाच्यत्वे प्रमाणप्रदर्शनम् ।८० भावनायाः पदाथकदेशत्वेऽप्यन्वयकक्रियावाचकत्वे सति गणपठितत्वरूप. . थनम् १०६ धातुत्वस्य खण्डनम् । अस्मिन् विषये नवीनमतम् । टी० १०७ अस्त्यादीनां क्रियावाचकत्वाभावनि- | तेषामाशयप्रदर्शनम् । टी० १०७ राकरणम् । ८३ | पूर्व विषयेऽतिप्रसङ्गानिवारणम् । १०८ ७१ प्रदर्शनम्। १०२ १०५ Page #18 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका। आचा विषयः। पृष्ठम् । विषया। . पृष्ठम् । धातोरव भावना वाच्यामाख्यात- | लडादिन्तिामर्थवर्णनम्। .... १२९ स्येत्यत्र विनिगमकम् । ११० | अत्र तात्पर्यकथनम् । .... .टी०.१२९ नानृतमितिनिषेधः क्रत्वर्थे न सिद्धयेदि | विध्यादीनामुदाहरणादि टी० १२९ तिशङ्का । ११२ | इष्टसाधनत्वमेव विध्यर्थः .. १३१ नानृतमिति निषेधस्य क्रत्वर्थत्वादि- | अस्य विवरणम् ।... टी० १३० विवरणम्। टी० १११ | इष्टसाधनत्वस्य विध्यर्थत्वे ज्योति. उक्तमीमांसकशङ्कानिरासः। ११२ | ष्टोमेनेत्यत्र तृतीयोपपत्तिः । टी०.१३१ श्रुत्यादिषड्विधप्रमाणोदाहरणानिटी०११३/ इष्टसाधनत्वस्य प्रवर्तनात्वे मण्डनअत्र विरोधोदाहरणादि। टी० ११४ | मिश्रसम्मतिः। अन पूर्वपक्षसिद्धान्तौ। टी० ११४ | कृतिसाध्यत्वस्य प्रवर्तनात्वे विवरविरोधोदाहरणान्तराणि० टी० ११५ | णम् । . .. टी० १३४ क्रतुयुक्तपुरुषधर्माङ्गीकरणे जाभ्यः टी०१३६ मानदृष्टान्तः। अत्रगुरुमतम् । टी० १३० उक्तदृष्टान्तविवरणम् । टी० ११६ | अस्य खण्डनपूर्वकमपरमतम् । टी० १३८ धात्वर्थनिरूपणोपसंहारः ११७ | परेत्वित्यादिना मतान्तरकथनम् टी०१३९ इति धात्वर्थनिर्णयः। अभिधालिडादिनिरूपिताशक्तिरित्या- . दिविस्तरेण कथनम् । टी० १४० अथ लकारार्थनिर्णयः।। ___टी० १४२ लुङर्थनिरूपणम् । लकारार्थप्रारम्भः। __टी० १४२ लडर्थविवेचनम् । अस्मिन् विषये संग्रहेण कथनम् । १४३ खण्डकाल एव वर्तमानवाच्यः । टी०११९ लुङर्थकथनम्। १४३ वर्तमानत्वादि लडादि योत्यम् । १२१ लकारार्थनिरूपणसमालिः, १४६ लिडर्थवर्णनम् इति लकारार्थनिर्णयः। परोक्षे इत्यल्याव्यावर्तकत्वस्य शङ्का... पूर्वकं निवारणम् । १२३ अथ सुबर्थनिर्णयः। शब्दादप्यपरोक्षज्ञानमस्तीतिशङ्का- सुबर्थनिर्णयप्रारम्भः । . . . . . १४७ निवारणम् । १२४ कर्मण आश्रय एवार्थः । १४७ व्यातेने इति किरणावलीप्रयोगस्य अन्न नैयायिकमतम् । .. . १४९ साधुत्वविचारः जानातीत्यत्रावरणभङ्गरूपधात्वर्थफ-.. अन नैयायिकमतम् । टी० १२४ लाश्रयत्वात्कर्मता १५१ लुडर्थविवरणम् । चैत्रो ग्रामं गच्छतीत्यत्रचैत्रस्यकम-: अत्र तात्पर्यकथनम् । टी० १२६ तावारणम् । ... १५२ लडर्थकथनम् । चैत्रश्चैत्रमित्यत्र शाब्दबोधापत्तिवाअत्र परमतम्। १२६ रणम् । .१५३. अत्रान्यमतम् । टी० १२७ | अन्न नैयायिकरीत्यावारणम् । १५४ अन्न तत्वम्। टी० १२७ परत्वनिर्वचनम् । .टी० ११५ लोडाववरणम् । ..... १२. प्रसङ्गतो दीधितिकारमतकथनम् टी० १५६ ३ ० ५० m १२४ 18 Page #19 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका। १८८ विषयः। पृष्ठम् ।। विषयः । पृष्ठम् । चत्रोग्रामंगच्छतीत्यत्रनैयायिकरीत्या समाधानस्यान्वाचयमात्रताकथनम् १७५ परिष्कृतरूपवर्णनम् । टी० १५६ | सप्तम्यर्थनिर्वचनपूर्वकन्त्रैविध्यप्रति. अन शङ्कापूर्वक समाधानम् टी० १५६ | पादनम् । पूर्वोक्तनैयायिकमतखण्डनम् । टी० १५७ | अत्र नैयायिकमतम् । टी. १७८ कर्मणः सप्तविधत्वम् । १५९ | पञ्चम्यर्थप्रतिपादनम्-वाक्यपदीयप्रद. निर्वय॑स्य पारिभाषिकत्वम् । १६० र्शनञ्च । १७९ विकार्यलक्षणनिर्वचनपूर्वक परमतं टी०१६० | उक्तवाक्यपदीयस्यार्थस्य विवेचनम् १७९ काष्ठं भस्मकरोतीत्यत्र नैयायिकमतेन पञ्चम्यर्थवर्णने मतान्तरकथनम् ।टी० १८० विवेचनम्। टी० १६४ वृक्षात् त्यजतीतिप्रयोगवारणम् । १८३ अत्र वास्तविकमतकथनपूर्वक विकृ. अपादानस्य त्रैविध्यप्रतिपादनम् १८४ तिकर्मणो लकाराभिधाने बाधकाः चतुर्थ्यर्थस्य कथनम् । १८५ भावः। विप्राय गां ददातीत्यत्र धात्वर्थकथनपू. . विकृतिवाचकादूद्वितीयापत्तिवारणम् । र्वकं नैयायिकमतकथनम् । टी० १८६ टी० १६३ अत्रापरमतम्। टी०१८६ अन्न केचिदित्यादिना मतान्तरकथा सम्प्रदानस्यैव शेषित्वम् १८७ नम्। पुनरावृत्तः सुवर्णपिण्ड इत्यादिभाष्य रजकाय वस्त्रन्ददातीत्यस्योपपत्तिः, वृत्तिकारमतं च ल्यापरमतेनार्थकथनम्। १६३ प्राप्यकर्मणः कथनम् । अत्र तादर्थ्यवर्णनप्रसङ्गेन प्रयोजनस्व. वर्णनम् । टी०१८९ अन्यपूर्वककर्मण उदाहरणकथनम् । सम्प्रदानत्वस्य त्रैविध्यम् । १९० कर्तृतृतीयाद्यर्थविवेचनम्। प्रकृतिप्रत्ययार्थयोरभेदसंसर्गकथनम् १९१ स्वातन्त्र्यस्य निर्वचनम्। मतान्तरप्रदर्शनम् . १९१ कैयटमतप्रदर्शनम्। अन्नान्यमतम् । टी० १६. टी० १९१ कर्मकर्तृव्यपदेशाच्च इति सूत्रीयशङ्का विभक्तीतांधर्मवाचकत्वनिराकरणम्। १९२ धर्ममानवाचकत्ववर्णनपूर्वकषष्ठ्यर्थसमाधानम्। निरूपणम्। १९२ कृत्याश्रयत्वस्याव्याप्तत्वप्रदर्शनपूर्व कारकषष्ठयाः शक्तिवाचकत्वम्। १९६ कमन्यदपि विवेचनम्। टी० १६९ शक्तिः कारकमिति मते कैयटाद्याशय अत्र वास्तविकमतम्। १०० तृतीयार्थत्वेन निरुक्तस्य त्रैविध्यम् । १७१ वर्णनम् । टी० १९८ करणत्वनिर्वचनं तदर्थे वाक्यपदीयप्र. घटानातीत्यत्र विषयतायां लक्षणेति नैयायिकमतस्य खण्डनम् । १९९ दर्शनम् । द्विविधनियमस्य प्रदर्शनम् । अन्न परमतम् इति सुबर्थनिर्णयः। अत्रापरमतम्। टी० १७३ अत्र वास्तविकमतकथनम् टी०१७३ नेयायिकमतकथनम् - टी. १७३ .. अथ नामार्थनिर्णयः। .. कर्ताशास्त्रार्थवत्वादित्यधिकरणविरो- नामार्थनिरूपणम्। २०३ धसमाधानम्। १७४ | जातेर्वाच्यत्वे व्यक्तिबोध: लक्षणया। २०९ टी० १६५ १६८ २ Page #20 -------------------------------------------------------------------------- ________________ . २१० टी० २१० विषयानुक्रमणिका। विषयः। - पृष्ठम् । विषयः । केवलजातिवाच्यत्वपक्षे दिगर्थप्रदर्श अतिप्रसङ्गाय वृत्तिजन्यपदोपस्थिति नम् । टी० २०६ हेतुः। २२५ अत्र वास्तविकमतप्रदर्शनम् २०६ सम्बन्धस्योभयनिरूप्यत्वादित्यत्रा. अन्ये तु मतम् भिप्रायवर्णनम्। टी० २२६ केवलव्यक्तिरेव एकशब्दार्थः . २०६ परे तु मतरीत्या प्रदर्शनम् २२६ व्यक्तेर्वाच्यत्वपक्षे जातेर्वाच्यत्वशङ्का २०७ अनुकार्यानुकरणयोरभेदपक्षे साधकम् २१८ नह्याकृतिपदार्थस्येति भाष्याद्विशिष्टं- .. | अभेदपक्षेऽर्थवत्वाद्यभावेऽपिसाधुत्वम् २१८ वाच्यम् । . इति नामार्थनिर्णयः। व्यक्तव्यपदेन व्यवहारो भवति टी० २०८ उक्तपक्षद्वयमपि न विचारसहमिति .. शङ्का अथ समासशक्तिनिर्णयः। टी० २०९ उभयोरुभय पदार्थ इतिभाष्यस्य सा-. समासभेदाः। २३१ मान्याभिप्रायः। टी० २१० | समासैकार्थीभावजहत्स्वार्थाधर्थनि. वास्तविकमतकथनपूर्वकमन्यमतक- । रूपणम् । . टी० २३१ थनम्। सुपांसुपेतिश्लोकोक्तानामुदाहरणानि २३२ अन्ये तु रीत्या उभयोरुभय पदार्थः । समासस्तु चतुर्धेतिप्राचीनोक्तमयुक्तम्२३४ इति कथनम् २११ | सिद्धान्तेऽव्ययीभावादिकानां लक्ष. विशिष्टवाच्यतापक्षे एकमित्यस्या- णानि। २३४ भिप्रायवर्णनम् । २१२ जहत्स्वार्थाजहत्स्वार्थवृत्त्योस्त्रैवि. जातिव्यक्त्योर्द्वयोरपि वाच्यता । २१३ द्धयकथनम् । लिङ्गस्यापि वाच्यत्वाभिप्रायेण त्रि- अजहत्स्वार्थपक्षाभिप्रायः। २३९ कोपपत्तिः। २१३ वृत्तित्रैविध्यनिरूपणम् । २४० पशुनेत्यत्र पुंस्त्वस्य विवक्षितत्वान्नप समासे भिन्नैव शक्तिः। : २४१ शुस्त्रियायागः। अत्र प्रसङ्गतो रथकारादिदृष्टान्तप्रदर्श. सङ्ख्यासहितत्वे कारकसहितत्वे च । नम्। २४४ चतुष्कपञ्चकत्वोपपत्तिः। २१७ । समासेशक्तभेदे साधकान्तरवर्णनम्। २४९ लिङ्गशक्तिग्रहविषयताभावेन त्रिकप- समासे शक्त्यनङ्गीकारे दूषणान्तरम् २४० क्षानुपपत्तिशङ्का। टी० २१७ समानाधिकरणप्रातिपदिकार्थयोरभेकेचिन्मतेन लिङ्गस्यापि प्रातिपदि. धान्वयव्युत्पत्तिभङ्गापत्तिरूपदोषः २४८ कार्थत्वमेव। टी० २१८ | समासे शक्तेः साधकान्तरम् । २४९ एकवचनत्वादेरननुगतत्वशङ्कापूर्वक चरमपदेऽपि लक्षणानङ्गीकर्तुं शक्या २५० तत्समाधानम् । | प्रसङ्गतश्चरमवर्णस्य वाचकताकल्पनाविभक्तीनां द्वित्वादिवाचकत्वं द्योत- रूपदोषप्रदर्शनम् । २५१ कत्वंच। व्यपेक्षावादिनैयायिकादिमतम्। २५२ शब्दोऽपि शाब्दबोधे भासते। २२२ शक्तयग्रहे लक्षणयापि विशिष्टार्थप्रत्य.. कचित् षोढापि प्रातिपदिकार्थः। २२३ यो न भवति। २९४ अनुकार्यानुकरणयोर्मेदविवक्षायाम.. नैयायिकादिमताभिप्रायवर्णनम् टी० २५९ भिप्रायकथनम्। २२४ । उक्तमतखण्डनम् । २५६ टा Page #21 -------------------------------------------------------------------------- ________________ २५९ विषयानुक्रमणिका। विषयः। पृष्ठम् । | विषयः। । पृष्ठम् । अतिप्प्रातिपदिकमितिन्यासप्रदर्शने- उक्तहेतुत्वस्य निराकरणम् । २८६ न शङ्का । २१९ समूहालम्बनस्मरणवतो शाब्दबोधा.. समासग्रहणस्य नियामकत्वाभावव- पत्तिदानम् । २८७ र्णनेन शङ्का। पदनिष्ठार्थबोधजनकत्वस्य शक्तित्वाचित्रगुमानयेत्यादौ कर्मत्वाद्यनन्वया सम्भवः ____टी० २८७ पत्तिशङ्का । शक्तिलक्षणाज्ञानयोरेकरूपेणैव हेतुप्रकृतित्वाश्रये विभक्त्यर्थान्वय इति. त्वकथनम् । ___टी० २८८ कल्पनया शङ्का। टी० २६० शक्तिग्राहकाणामुदाहरणानि । टी०२९० समासे शक्त्यस्वीकारे राजपुरुषादा. नानार्थेषु शक्तिनियामकानि। २९१ वनन्वयप्रसङ्गः। ____२६४ शक्तित्रैविध्यकथनम् । विशेषणविभक्तेरभेदार्थिकत्वे शङ्का- लक्षणाया विचारः। . समाधानम् । लाक्षणिक पदं नानुभावकमित्यस्याराजपुरुष इत्यादौ लक्षणया ननिर्वाहः२६६ र्थवर्णनम् । मीमांसकैरपि वषट्कर्तुरित्यादिस्थले- बोधकताशक्तिर्भाषाशब्देषु नास्ति २९६ षु विशिष्टशक्तिरभ्युपेया। २६८ अपभ्रंशानां साक्षादवाचकत्वे प्रमाणविशिष्टशक्त्यङ्गीकारेऽरुणाधिकरणा. प्रदर्शनम् । २९७ रम्भः । | अपभ्रंशानामपि साक्षाबोधकत्ववर्णराज्ञः पुरुष इत्यस्य विग्रहत्वसाधनम् २७० नम् । निषादस्थपत्यधिकरणसिद्धान्तसा- भाषाशब्दानां कोशे गणनावारणम् ३०१ धनम् । | भाषाशब्दानांसाधुत्वस्य निवारणम् ३०१ नानार्थे तात्पर्यान्निर्णयः । अतिरिक्तशक्तिग्रहोपायप्रदर्शनम् । ३०१ इति समासशक्तिनिर्णयः।। इति शक्तिनिर्णयः। २९३ २९३ २६४ २९५ २६९ ७ तिमते शङ्का अथ शक्तिनिर्णयः। - मथ नअर्थनिर्णयः ।। शक्त स्वरूपवर्णनम् । नअर्थप्रदर्शनम् । ३०७ वृत्तिवैविध्यप्रतिपादनम्। टी० २७५ | अत्र पक्षान्तरप्रदर्शनम् । ३०९ बोधकारणतारूपयोग्यतैव शक्तिरि- नजोभेदार्थकत्वेऽपि नाब्राह्मणमानये. २७७ त्यत्र लोष्ठानयनापत्तिः। टी. ३१० सङ्केतस्य स्वरूपेण हेतुत्वाप्रतिपाद- क्वचिन्ननः विकल्पाप्रसक्त्याप्रतिषेनम् । २७९ धार्थकत्वम्। टी० ३११ स्वातन्त्र्येण बोधकताज्ञानस्याकार- केचिन्मतेन विकल्पाप्रसक्त्यापि न णत्वम् । २८१ निषेधबोधकत्वम् । शाब्दबोधे कार्यकारणहयापेक्षया श. सादृश्यादिकं न नमवाच्यम् ३१३ क्तिजन्योपस्थितेरेवकारणत्वम् । २८३ अभावस्य विशेष्यत्वमपि। ३१४ वृत्तिजन्योपस्थितित्वेन शब्दबोधहे- अनेकमन्यपदाथे इत्यादिष्वेकवचनतुस्वकथनम् । सर्वसंग्रहार्थम् । Page #22 -------------------------------------------------------------------------- ________________ ३४७ विषयानुक्रमणिका । विषयः। पृष्ठम् । | विषयः। पृष्ठम्। प्रसज्यप्रतिषेधार्थकनको व्यवस्थाक- राजपुरुषत्वादिकानामर्थवणनम् । ३४४ थनम् । ३१७ प्रकृत्यर्थविशिष्टे। द्रव्यमात्रवाचकत्व. अन्योन्याभावस्य पृथक् शक्तिकल्पने तद्धितस्येतिमतस्य खण्डनम् । ३४५ शङ्का। टी० ३१९ क्त्वादिषु सिद्धान्ते पक्षद्वयम् । ३४७ नमोऽत्यन्ताभावबोधकत्वे भूतले न. पक्षद्वयोपपादनम् । घटः इत्यादौ अन्योन्याभावापत्तिःटी० ३२० अत्र वाक्यपदीयस्य प्रदर्शनम् । ३४७ इति नअर्थनिर्णयः । श्लोकोक्तशब्दपरा अमीत्यस्य विवरणम्। ३४७ अथ निपातार्थनिर्णयः। सामान्यतःपदप्रकारक एव शक्तिग्रहः ३१० अत्र नैयायिकमतम् । .टी. ३५१ निपातानां द्योतकत्वमेव । . ३२२ घोतकत्वे युक्तिप्रदर्शनम् । ३२४ | इति त्वादिभावप्रत्ययार्थविचारः । चादीनामपि द्योतकत्वमेव । ३२५ प्रादीनां वाचकत्वे आपत्तिप्रदर्शनम् । ३२६ अथ देवताप्रत्यार्थनिर्णयः । भेदान्वयबोधे स्वीकृतस्य कार्यकारण देवताप्रत्ययार्थनिरूपणम् ३५२ भावस्य निपातातिरिक्तत्वस्य खण्डनम्। ३२७ | प्रकृत्यर्थस्य प्रत्ययार्थैकदेशे विशेषणअत्र नैयायिकमतम् । टी० ३२९ | त्वम् । निपातानां वाचकत्वे दोषान्तरम् । ३३० | प्रकृतेर्लक्षणा प्रदेये च शक्तिः। ३६४ उपसर्गस्यार्थवत्वाभावेन विभक्त्यनु | क्रीडायां ण इत्यादावपि रीतिरियम् ३५६ पपत्तिदोषवारणम् । ३३२ सास्मिन्पौर्णमासीत्यादिकानामर्थवमीमांसकमतेनापि निपातानां द्योतक- र्णनम् । टी०३९७ त्वम् । निपातानां वाचकत्वाङ्गीकरणं नतु. ___ इति देवतादिप्रत्ययार्थनिर्णयः। द्योतकत्वम् । निपातानां केचिद्वाचकाः केचिद्योत मथाभेदैकत्वसंख्या निर्णयः। का इतिमतस्य खण्डनम् । ३३६ निपातत्वं परमतवदस्माकं मतेऽपि ।३३७ वृत्तावभेदैकत्वसङ्ख्या प्रतीयते। ३६३ अत्र नैयायिकानां मतम् । टी० ३३८ अत्र कारणत्वप्रदर्शनम् । ६४ इवार्थकथनपूर्वकमेवकारस्यार्थकथ सन्याया एकत्वेन प्रतीता दृष्टान्तनम् । टी०३४१ रीत्यादिकथनम्। टी० ३६६ एवकारार्थविषये केचिन्मतम् । टी० ३४१ ____ इति अभेदैकत्वसंख्यानिर्णयः । अत्र केचिन्मतम् वास्तविकमतकथनम् । टी० ३४२ अथ संख्याविवक्षानिर्णयः। इति निपातार्थनिर्णयः। | उद्देश्यविधेययोः सङ्ख्याविवक्षाविव क्षानिर्णयः। अथ त्वादिभावप्रत्ययार्थनिर्णयः। विधेयविशेषणं विवक्षितमित्यपि निभावप्रत्ययार्थकथनम् । ३४४ | यमो नास्ति ३७२ Page #23 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका । विषयः। पृष्ठम् । | विषयः। पृष्ठम् । विधेयविशेषणं विवक्षितमनुवाद्यस्य सुप्तिङन्तंपदमिति पदत्वस्वीकर्तृम. नियमो नास्ति ३७२ ४०० मिन्नमित्यादौ नकारद्वयोपपादनम् । ३७३ | | सुप्तिङन्तचयरूपवाक्यस्य वाचकत्व. इति 'ख्याविक्षानिर्णयः । वर्णनम् । ४०१ वाक्यस्फोटसंसाधनम् । ४०२ अत्र बृहद्भुषणविषेचनप्रदर्शनम् टी०४०४ अथ क्त्वाद्यर्थनिर्णयः। वास्तविकमतप्रदर्शनपूर्वकं वदन्तीति क्त्वाप्रत्ययादेरर्थनिरूपणम् । ३७५ विवेचनम् । टी०४०५ अधीत्य तिष्ठतीत्यादि प्रयोगाणामुप- वाक्यार्थस्यापूर्वत्वाच्छक्तिग्रहः क.. पत्तिः थमिति शङ्कायाः वारणम् । ४०६ क्त्वाप्रत्ययादीनां द्योतकत्वम् । ३७८ | समुदिताथै विशिष्टवाक्यस्यैव प्रथम समानकर्तृकयोः पूर्वकाले इत्यत्र नवी. | शक्तिग्रहः। नमतम् । टी० ३७९ अत्र मीमांसकादीनामियमेवगतिः । ४०९ समानकर्तृकत्वस्य क्त्वाऽवाच्यत्वे श. अखण्डपदवाक्यस्फोटवर्णनप्रारम्भः। ४११ यापूर्वकं समाधानम्। टी० ३७९ अत्राभिप्रायवर्णनम् । ४११ पूर्वपक्षिणा दत्ततृतीयापत्तेर्वारणम् । ३८० वायुसंयोगस्य वाचकत्वनिराकरणम् ४१२ इति क्त्वायर्थनिर्णयः। वर्णानां प्रत्येक वाचकत्वादिशङ्कानिवारणम् । ४१३ अत्रकैयटमतं तत्खण्डनं च। ४१५ अथ स्फोटः। स्वमते दोषवारणम् । ४१६ आसत्त्यादिकं शाब्दबोधे सह- कैयटाशयवर्णनम् । टी० ४१५ कारि। पर्यायस्थलेषु एक एव स्फोटो नाना आसत्यादिलक्षणे नवीनमतम् । टी ०३८५ | वेत्यादि शङ्कानिवारणम् । ४१० योग्यताज्ञानं कारणमिति मतम्। टी०३८५ वर्णातिरिक्तस्फोटसाधने शब्दकौस्तभ. योग्यताज्ञानस्य हेतुत्ववारणम् । टी० ३८५ / युक्तिप्रदर्शनम् । ४२० आकाङ्क्षानिर्वचनं तस्याः सहकारित्व- स्फोटस्य वैशिष्टयेन वर्णनम् । टी० ४२१ समथनम् । टी० ३८६ | अखण्डस्फोटाङ्गीकारे शास्त्रप्रामाण्यनवीनमतेनाकाङ्क्षनिर्वचनम् । ३८७ निवारणम् । वाक्यस्फोटस्यैव वास्तवत्वमन्येषा भृगुवल्युक्तदृष्टान्तप्रदर्शनम् । ४२३ मवास्तवत्वकथनम् । अलीकप्रकृतिप्रत्ययकल्पनया स्फोट. वर्णस्फोटनिरूपणम् । ३८९ बोधासम्भवखण्डनम् । ४२५ स्थानिवाचकत्वनिराकरणम् । ३९३ | वर्णेषूत्पत्तेरनुभवविरुद्धत्वम्। ४२६ तत्र प्रयुक्तहेतुनिरूपणम् । ३९४ | वर्णस्थले ध्वनिसत्वे प्रमाणकथनम् । ४२९ लकारस्य वाचकत्वे आपत्तिप्रदर्शनम् ३९६ | मीमांसकमतेन शङ्कातत्समाधा० टी० ४२९ शानचः कर्ता वाच्य इतिशङ्काया उत्त- जातिस्फोटप्रारम्भः । ४३२ रम्। ३९६ / नैयायिकमतेन वर्णानित्यत्वसाधनम् । पदस्फोटनिरूपणम् । टी० ४३० ४५३ ३८७ ३९८ ': Page #24 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका । विषयः। पृष्ठम्। | विषयः । पृष्ठम् । स्फोटे गत्वाद्यभ्युपेयत्वे शङ्कातत्समा. ब्रह्मदर्शने गोत्वादिजातेरप्यनित्यधानञ्च । ४३२ | त्वम्। ४३९ वर्णानामस्तित्वेऽपि न वाचकत्वं कि- अत्राशयवर्णनम् । टी० ४३८ न्तुजातेः। सत्यांशेऽभिप्रायवर्णनम् । ४३९ जातेः प्रत्येक वर्णेषु सत्वेऽपि न प्रत्ये- स्फोटस्य यौगिकत्वप्रदर्शनपूर्वकं ग्र. काबोधापत्तिः। न्थसमापनम् । ४४१ अत्राभिप्रायवर्णनम् । स्वप्रकाशत्वादिनिरूपणम्। टी० ४४२ का सा जातिरिति प्रश्नस्यो- टीकाकारस्य स्वीयनामोल्लेखनपूर्वकं त्तरम् । ४३८ | टीकासमापनम् । ४३५ ४४२ इति सटीकस्य भूषणसारस्य विषयसूचिका। 200 .. प्राप्तिस्थानम्चौखम्बा-संस्कृत-पुस्तकालय, बनारस सिटी। Page #25 -------------------------------------------------------------------------- ________________ अथ भूषणसारस्थमूलकारिकासङ्कलनम् । फणिभाषितभाष्याऽब्धेः शब्दकौस्तुभ उद्धृतः। तत्र निर्णीत एवार्थः सङ्क्षपेणेह कथ्यते ॥१॥ फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः फले प्रधानं व्यापारस्तिर्थस्तु विशेषणम् ॥ २ ॥ फलव्यापारयोस्तत्र फले तङ्यचिणादयः व्यापारे शपश्नमाद्यास्तु द्योतयन्त्याश्रयाऽन्वयम् ॥ ३ ॥ उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् । तस्माद् यथोचितं शेयं द्योतकत्वं यथागमम् ॥४॥ व्यापारी भावना सैवोत्पादना सैव च क्रिया । कृमोऽकर्मकतापत्ते हि यत्नोऽर्थ इष्यते ॥ ५॥ किन्तूत्पादनमेवातः कर्मवत्स्याधगाद्यपि । कम्मकर्तय॑न्यथा तु न भवेत्तद् द्वशेरिव ॥६॥ निर्वत्यै च विकायें च कर्मवद्भाव इष्यते। नतु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः ॥ ७॥ तस्मात् करोतिर्धातोः स्याद् व्याख्यानं, नत्वसौ तिङाम् । पक्कवान् कृतवान् पाकं कि कृतं पक्वमित्यपि ॥ ८॥ कि काय्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि । किञ्च क्रियावाचकतां विना धातुत्वमेव न ॥8॥ सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः। नहि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् ॥ १०॥ धात्वर्थत्वं क्रियात्वञ्चद्धातुत्वं च क्रियार्थता। अन्योऽन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाकरम् ॥ ११ ॥ मस्त्यादावपि धम्यंशे भाव्येऽस्त्येव हि भावना। अन्यत्राशेषभावातु सा तथा न प्रकाशते ॥१२॥ फलव्यापारयारेकनिष्ठतायामकर्मकः। धातुस्तयोर्धम्मिभेदे सकर्मक उदाहृतः॥ १३ ॥ माख्यातशब्दे भागाभ्यां साध्यसाधनरूपता । प्रकल्पिता यथाशास्त्रे स घादिष्वपि क्रमः॥ १४ ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । Page #26 -------------------------------------------------------------------------- ________________ भूषणसारस्थमूलकारिका सङ्कलनम् । सिद्धभावस्तु यस्तस्याः स घयादिनिबन्धनः ॥ १५ ॥ सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः । धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ् ॥ १६ ॥ तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् । साधुत्वमष्टकस्यास्य क्रिययैवावधार्य्यताम् ॥ १७ ॥ यदि पक्षेऽपि वत्यर्थः कारकञ्च नत्रादिषु । अन्वेति त्यज्यतां तर्हि चतुर्थ्याः स्पृहिकल्पना ॥ १८ ॥ अविग्रहा गतादिस्था यथा प्रामादिकर्म्मभिः । क्रियासम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता ॥ १६ ॥ कृत्वोऽर्थाः क्त्वातुमुन् वत्स्युरिति चेत् सन्ति हि कचित् । अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् ॥ २० ॥ भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम् । साधुत्वं तदभावेऽपि बोधो नेह निवार्य्यते ॥ २१ ॥ वर्त्तमाने परोक्षे श्वो भाविन्यर्थे भविष्यति । विध्यादौ प्रार्थनादौ च क्रमाज्ज्ञेया लडादयः ॥ २२ ॥ ह्योभूते प्रेरणादौ च भूतमात्रे लङादयः । सत्यां क्रियातिपत्तौ च भूते भाविनि लुङ् स्मृतः ॥ २३ ॥ आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा । यथायथं विभक्त्यर्थाः सुपां कर्मेति भाष्यतः ॥ २४ ॥ एकं द्विकं त्रिकं चाथ चतुष्कं पञ्चकं तथा । नामाऽर्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥ २५ ॥ शब्दोऽपि यदि भेदेन विवक्षा स्यात् तदा तथा । नोचेच्छ्रोत्रादिभिः सिद्धोऽप्यसावर्थोऽवभासते ॥ २६ ॥ अत एव गवित्याह भूसत्तायामितीदृशम् | न प्रातिपदिकं नापि पदं साधु तु तत् स्मृतम् ॥ २७ ॥ सुपां सुपा तिङा नाम्ना धातुनाथ तिङां तिङा । सुबन्तेनेति च ज्ञेयः समासः षडूविधो बुधैः ॥ २८ ॥ समासस्तु चतुद्धति प्रायोवादस्तथापरः । योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ २६ ॥ भौतपूर्व्यात्सोऽपि रेखागवयवदाश्रितः । जहत्स्वार्थाजहत्स्वार्थे द्वे वृची ते पुनस्त्रिधा ॥ ३० ॥ भेदः संसर्ग उभयं वेति वाच्यव्यवस्थितेः । समासे खलुभिन्नैव शक्तिः पङ्कजशब्दवत् ॥ ३१ ॥ ४ द० प० Page #27 -------------------------------------------------------------------------- ________________ भूषणसारस्थमूलकारिकासकलमम् । बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव माश्रितः ॥ ३२ ॥ चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः ॥ ३३ ॥ मषष्ठपर्थबहुव्रीही व्युत्पत्त्यन्तरकल्पना ।। कुलप्तत्यागश्वास्ति तव तत् किं शक्तिं न कल्पयेः ॥ ३४ ॥ माख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम् । गुणप्रधानभाषादौ तत्र दृष्टो विपर्ययः ॥ ३५ ॥ पर्यवस्यच्छाब्दबोधाऽविदूरप्राक्क्षणस्थितेः। शक्तिप्रहेन्तरङ्गत्वबहिरङ्गत्वचिन्तनम् ॥ ३६ ॥ इन्द्रियाणां स्वविषयेवनादियोग्यता यथा । अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा ॥ ३७॥ असाधुरनुमानेन वाचकः कैश्चिदिष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥ ३८॥ सम्बन्धिशब्दे सम्बन्धो योग्यतां प्रति योग्यता । समयाद् योग्यतासंविन्मातापुत्रादियोग्यवत् ॥ ३ ॥ नासमासे चापरस्य प्राधान्यात् सर्वनामता । मआरोपितत्वं नद्योत्यं नासोऽप्यतिसर्ववत् ॥ ४० ॥ अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् । विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ॥४१॥ द्योतकाः प्रादयो येन निपाताश्चादयस्तथा।। उपास्येते हरिहरौ लकारो दृश्यते यथा ॥४२॥ तथान्यत्र निपातेऽपि लकारः कर्मवाचकः। विशेषणाद्ययोगोऽपि प्रादिवञ्चादिके समः ॥४३॥ पदार्थः सदशाऽन्वेति विभागेन कदापि न । निपातेतरसङ्कोचे प्रमाणं किं विभावय ॥४४॥ शरैरुरिवोदीच्यानुद्धरिष्यन् रसानिव । इत्यादावन्ययो न स्यात् सुपाञ्च श्रवणं ततः ॥ ४५ ॥ नजसमासे चापरस्य द्योत्यं प्रत्येव मुख्यता । धोत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ ४६॥ : निपातानां वाचकत्वमन्वयव्यतिरेकयोः ॥ युक्तं वा नतु तद्युक्तं परेषां मतमेव नः॥४७॥ निपातत्वं परेषां यत्तदस्माकमिति स्थितिः। Page #28 -------------------------------------------------------------------------- ________________ भूषणसारस्थमूलकारिकासङ्कलनम् । व्यापकत्वाच्छकतायास्त्ववच्छेदकमिप्यते ॥४॥ कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम् । त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥ ४॥ अत्रार्द्धजरतीयं स्याद् दर्शनान्तरगामिनाम् । सिद्धान्ते तु स्थिते पक्षद्वयं त्वादिषु तच्छणु ॥ ५० ॥ प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम् ।। धर्ममात्र बाच्यमिति यद्वा शब्दपरा अमी ॥ ५१ ॥ जायन्ते तज्जन्यबोधप्रकारे भावसंशिते । प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् ॥ ५२॥ अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः । देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ॥ ५३॥ प्रदेय एव वा शक्तिः प्रकृतेर्वास्तु लक्षणा । देवतायां निरूढेति सर्वे पक्षा अमी स्थिताः॥५४॥ क्रीडायां णस्तदस्यास्तीत्यादावेरेव दिक् स्मृता। वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ॥ ५५ ॥ अभेदैकत्वसङ्ख्याया वृत्तौ भानमिति स्थितिः। कपिजलालम्भवाक्ये त्रित्वं न्यायाद् यथोच्यते ॥ ५६ ॥ लक्ष्यानुरोधात् सङ्ख्यायास्तन्त्राऽतन्त्रे मते यतः। पश्वैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५७ ॥ विधेये भेदकं तन्त्रमन्यतो नियमो नहि । ग्रहकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५ ॥ रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः। क्षति वास्ति तन्त्रत्वे विधेये भेदकस्य तु ॥॥ अव्ययकृत इत्युक्तः प्रकृत्यर्थं तुमादयः। समानकर्तृकत्वादि द्योत्यमेषामिति स्थितिः ॥ ६०॥ वाक्थस्फोटोऽतिनिष्कर्ष तिष्ठतीति मतस्थितिः। साधुशब्देऽन्तर्गता हि बोधका नतु तत्स्मृताः ॥ ६१ ॥ व्यवस्थितेर्व्यवहृतेस्तद्धतुन्यायतस्तथा । किश्चाख्यातेन शत्राद्यैर्लडेव स्मार्यते यदि ॥ ६२॥ कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय । तरबाद्यन्ततिक्ष्वस्ति नामता कृत्स्विव स्फुटा ॥ ६३॥ नामार्थयोरभेदोऽपि तस्मात्तुल्योऽवधाय॑ताम् । अथादेशा चाचकाश्चेत् पदस्फोटस्ततः स्फुटः॥ ६४॥ Page #29 -------------------------------------------------------------------------- ________________ भूषणसारस्थमूलकारिकासालनम् । अटेवेत्यादिषु नहि प्रकृत्यादिभिदा स्थिता। . वस्नसादाविवेहापि सम्प्रमोहो हि दृश्यते ॥६५॥ हरेऽवेत्यादि दृष्टा च वाक्यस्फोटं विनिश्चिनु । अर्थे विशिष्य सम्बन्धाग्रहणं चेत् समं पदे ॥ ६६ ॥ लक्षणादधुनाचेत्तत्पदेऽर्थेऽप्यस्तु तत् तथा । सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति ये विदुः ॥ ६७ ॥ भाडास्तेऽपीत्थमेवाहुर्लक्षणाया ग्रहे गतिम् । पदे न वर्णा विद्यन्ते वर्णष्ववयवा नच ॥ ६८ ॥ वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन । पश्वकोशादिवत्तस्मात् कल्पनैषा समाश्रिता ॥६॥ उपेयप्रतिप्रत्यर्था उपाया अव्यवस्थिताः। कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि ॥७० ॥ स्वरदैाद्यपि ह्यन्ये वर्णेभ्योऽन्यस्य मन्यते । शक्यत्व इव शक्तत्वे जातेलांघवमीक्ष्यताम् ॥ ७१ ॥ औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् । अनेकन्यक्त्यभिव्यङ्गया जातिः स्फोट इति स्मृतः ॥ ७२ । कैश्चित् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः । सत्यासत्यो तु यो भागो प्रतिभावं व्यवस्थितौ ॥ ७३ ॥ सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः। इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरखनम् । ब्रह्मवेत्यक्षरं प्राहुस्तस्म पूर्णात्मने नमः ॥ ७४॥ इति भूषणसारस्थमूलकारिकासङ्कलनम् । प्राप्तिस्थानम् चौखम्बा संस्कृत पुस्तकालय, बनारस सिटी। Page #30 -------------------------------------------------------------------------- ________________ वैयाकरणभूषणसारः दर्पणपरीक्षाभ्यां सहितः। श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम् । दर्पणः रमाप्रेमाऽमजज्जगदवनदक्षं मधुहृतश्रुतिस्तोमाऽऽहृत्या परिजनितवेदाननमुदम् । अखण्डानन्दाढ्यं निखिलजनहृत्कञ्जनिलयं हयग्रीवं वन्दे प्रकृतकृतिविनक्षतिकृते ॥१॥ सत्येकस्मिन्नपि बाधके समवहितसाधकसहस्रादपि कार्योत्पत्तेरदर्शनादपेक्षितप्रारिप्सितप्रत्यूहापोहायानुष्टितं भगवत्स्तुतिरूपं मङ्गलं ग्रन्थकृच्छिष्यशिक्षार्थमादौ निबध्नाति-*श्रीलक्ष्मीरमणमिति। अधिकरणव्युत्पन्नल्युडन्त रमण'शब्देन कर्तृषष्ठयन्त'लक्ष्मी'पदस्य समासः। तेन च श्रीसहितशब्दस्य मध्यमपदलोपीसमासः । शाकपार्थिवादेराकृतिगणत्वात् । तदुपादानञ्च सशक्तिकस्यैव भगवतो जगन्निर्माणकारणत्वमिति ध्वनयितुम् । *नौमीति । “णु स्तुतौ” इति धातोरस्मच्छब्दाप्रयोगेऽपि परीक्षा ॥श्रीगणेशाय नमः ॥ प्रणम्य जानकीनाथं पाणिन्यादिमुनीन् गुरून् ।। बालानां सुखबोधाय सिद्धान्तस्थापनाय च ॥१॥ टीका भूषणसारस्य परीक्षा नामिका शुभा। भवदेवात्मजेनाथ भैरवेण वितन्यते ॥२॥ सत्येकस्मिन्नपि बाधके साधकसहस्रस्याकिञ्चित्करतया प्रतिबन्धकाभावस्यावश्यकतया प्रारिप्सितसमाप्तिप्रतिबन्धकविघ्नविधाताय कृतमिष्टदेवतानतिरूपं मङ्गलं शिष्यशिक्षायै निबध्नाति-*श्रीलक्ष्मीरमणमित्यादिना* । अधिकरणल्युडन्तरमणशब्देन कर्तृषष्ठयन्तलक्ष्मीशब्दस्य समासः । तेन च श्रीशब्दस्य श्रिया युक्तो लक्ष्मीरमण इति लौकिकविग्रहे समासे शाकपार्थिवादित्वाद्युक्तशब्दलोपः। श्रीशब्दोपादानं च सशक्तिकस्य भगवतो जगदुपादानकारणत्वमित्यभिव्यञ्जयितुम् । *नौमीति । अत्रास्मदोऽनुपादानेऽपि पूर्वसूत्रात् स्थानिनीत्यस्यानुवृत्योत्तमः पुरुषः । गुधात्वर्थश्चोत्कृष्टगुणाश्रयत्वप्रकारकबोधानुकूलव्यापाररूपा स्तुतिः, तद्विशेष्यकश्च शाब्दबोधः । एतच्छास्त्रप्रवर्तकत्वेन शिवस्याभ्यर्हितत्वात्तस्यापि स्तुतिरवश्यक्तायेति तस्यापि तत्कृतैवेति ध्वनयितुमाह-गौरीरमणेतिस्वरूपपररूपशब्दस्य गौरीरमणशब्दस्य Page #31 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - स्फोटरूपं यतः सर्वं जगदेतद् विवर्त्तते ॥ १ ॥ दर्पणः गम्यमानतदर्थ सामानाधिकरण्यस्य लकारार्थकर्त्तरि सत्त्वाद् वर्त्तमानक्रिया द्योतकलडुतमपुरुषः । " अस्मद्युत्तमः” (पा०सू०-१- ४ - १०७ ) इत्यत्र पूर्व्वसूत्रात् स्थानिनीत्यस्यानुवृत्तेः । स्तुतिश्चोत्कृष्ट गुणवत्त्वप्रका रकबोधानुकूलो व्यापारः । स एव च प्रकृतधात्वर्थः । बोधरूपधात्वर्थफलाश्रयत्वाल्लक्ष्मीरमणस्य कर्मता । एवञ्च वैयाकरणमते प्रकृते श्रीसहित लक्ष्मीरमणाश्रयकोत्कृष्टगुणवत्त्वप्रकारकबोधानुकूलो मदभिन्नाश्रयको वर्त्तमानशब्दप्रयोगरूपो व्यापार इति वाक्यार्थः । नन्वेतच्छास्त्रप्रवर्त्तकत्वेन शिवस्याभ्यर्हिततरत्वात्तत्स्तुत्यात्मकमङ्गलमपि कुतो नाचरितमत आह-*गौरीरमणरूपिणमिति । स्वरूपपररूपपदेन गौरीरमणपदस्य षष्ठीसमासस्ततोऽदन्तत्वनिबन्धनो मत्वर्थीय इनिः । गौरीरमणो रूपं स्वरूपं यस्येति षष्ठ्यर्थबहुव्रीहिणोक्तार्थलाभेsपि लाघवमूलक- 'न कर्मधारयाद्' इतिन्यायस्य " प्रत्ययस्थात्” (पा०सू० ७-३-४४) इति सूत्रे “असुब्वतः" इति प्रयोगमुदाहरता भाष्यकृताऽनादृतत्वान्न मत्वर्थीयानुपपत्तिः । दृश्यते चेदृशस्थले प्रयोगद्वैविध्यम् 'शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ।' इत्यादि । तथा च तदभिन्नमित्यर्थः । प्रमाणं चात्रोक्तपुराणवाक्यमेव । एवञ्च कार्यवैचित्र्यस्य कारणवैचित्र्यनियम्यत्वाज्जगदवनादिकार्यवैचित्र्योपपत्तये तत्तद्गुणप्रधानमूर्तिपरिग्रहो भगवतो न पारमार्थिको भेद इति स्तुतिकर्मता शिवस्य नानुपपन्नेति भावः । उत्कृष्टगुणवत्त्वमेवाविष्करोति-यत इति । वेदान्तिमते मायाशबलस्य ब्रह्मणो जगदुपादानत्वात् “जनिकर्तुः” ( पा० सू० १-४-३० ) इत्युपादानहेतावपादानसंज्ञानिबन्धना पञ्चमी । 'गुण' इत्युक्तेः "विभाषा" ( पा० सू० २-३-२५ ) इत्यस्य न प्रसक्तिः । तथाच यस्मादुपादानहेतोरित्यर्थः । सर्व जगत् स्फोटरूपं विवपरीक्षा षष्ठीसमासः, ततो मत्वर्थीय इनिः । लाघवमूलको 'न कर्मधारयात्' इति न्यायस्तु 'असुब्वत' इति "प्रत्ययस्थात्” इति सूत्रस्थभाष्यप्रयोगादनित्य इति न मत्वर्थीयानुपपत्तिः । नन्वनयोर्भेदाद्गौरीरमणमित्यनुपपन्नमिति भ्रमितव्यम् ? कार्य्यस्य वैचित्र्यसिद्धये विजातीयरूपपरिग्रहेण भगवतो विभिन्नव्यवहारो न त्वेतयोः (१) पारमार्थिक भेद इति सिद्धान्तात् । यदुक्तं प्राक् तन्निष्टोत्कृष्ठगुणाश्रयत्वप्रकारकज्ञानमित्यादि, तदेतदुपपादयति*स्फोटरूपमिति । यत एतत्सर्वं स्फोटरूपं जगद्विवर्त्त इति सम्बन्धः । स्फुटत्यर्थो - sस्मादिति स्फोटः बाहुलकादपादाने घञ् । स च स्फोटो वाचकः शब्दः । रूप्यते ज्ञायते इति रूपोऽर्थः स्फोटश्च रूपश्चतयोः समाहारः स्फोटरूपम् । वाच्यवाचकयोश्वाभेदः । एतदित्युभयोः समीपतरवर्त्तित्वान्नानुपपन्नम् । विवर्त्तते — उत्पद्यते । ननु "सदेव सौम्येदमग्र आसीत् इति श्रुत्या प्रपञ्चस्य नित्यत्वं प्रतीयत इति कथमेतदिति शङ्कावारणायाह — जगदिति । गच्छतीति जगदिति "वर्त्तमाने पृषत्" इत्यादिना ( १ ) अत एव - "विष्णुरुद्रान्तरं यच्च यो ब्रूते मूढधीस्तु सः । रौरवादिषु घोरेषु नरकेषु पतत्यधः" इति सङ्गच्छते ॥ Page #32 -------------------------------------------------------------------------- ________________ मङ्गलवादः । दर्पणः र्त्तत इति योजना । स्फुटत्यभिव्यक्ती भवत्यर्थोऽस्मादिति स्फोटो नामाद्यात्मकः शब्दः । बाहुलकादपादाने घञ् । रूप्यते निरूप्यते इति रूपमर्थः । तयोः समाहारद्वन्द्वे नपुंसकैकवचनान्तम् । वाच्यवाचकस्वरूपमिति तदर्थः । “नामरूपे व्याकरवाणि " ( छान्दोग्ये ६।३।२ ) इति श्रुतेः । एतत् * - अत्यन्तसान्निध्येन बुद्धया विषयीक्रियमाणम् । *विवर्त्तते* । उत्पद्यत इत्यर्थः । धातोरुपसृष्टत्वात् । ननु नामरूपात्मकस्य, "सदेव सोम्येदमग्र आसीत्" ( छान्दोग्ये ६।२१ ) इति श्रुत्या सनातनत्वबोधनात् कथमुत्पत्तिशालित्वमत आह-जगदिति । " वर्त्तमाने पृषत् " ( उणादिसू० पा० २ सू० २५० ) इति निपातनात्साधु । तथा च गच्छति तिरोधत्त इति व्युत्पत्त्या तिरोधाने उक्ते यत्तिरोधत्ते तदाविर्भवतीति नियमेनाविर्भावस्य लाभात्स एवात्रोपसृष्टार्थः । एवञ्च सत्त्वेनैतस्य सनातनत्वेऽपि नामत्वादिना विर्भावाद्यभ्युपगमान्नोक्तश्रुतिविरोधो; नापि "तस्मादेतस्माद्वा आत्मन आकाशः सम्भूतः " ( तैत्तिरीयके २१ ) इत्याद्युत्पत्तिबोधकतद्विरोधः । यत्किञ्चिन्नामरूपात्मकस्यान्यतोऽपि सम्भवादाह - * सर्वमिति । यावदर्थकम् । उत्पत्तिरूपलक्षणमवनादेः । तेन जगत्कर्तृत्वादिरूपोत्कृष्टधर्मस्य स्तुत्यतावच्छेदकस्य लाभः । अत्र च “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्तिः यत् प्रयन्त्यभिसंविशन्ति” ( तैत्तिरीयके ३।१ ) इत्याद्याः श्रुतयः प्रमाणम् । मतान्तरे - 'यत' इति पञ्चमी निमित्तहेतुतायाम् । व्युपसृष्टवृतुधातोराद्यक्षणसम्बन्धरूपोत्पत्तिरर्थः 1- ननु सर्वान्तर्गतवियदाद्यात्मकपदार्थस्यानादितया कथमुत्पत्तिमत्त्वमत आह - *जगदिति । स्थावरजङ्गमात्मकमित्यर्थः । तथा च गच्छति नश्यतीति व्युत्पत्त्या विनाशित्वे बोधिते विनाशिभावस्य जन्यत्वनियमेन तस्योत्पत्तिर्न विरुद्धेतिभावः । एतत्कल्पे स्फोटपदं शास्त्रानुमानप्रतीतपरम् । तादृशं रूपं यस्येतिव्युत्पत्त्या स्फोटरूपमिति भगवतो विशेषणं बोध्यम् । शेषं पूर्ववत् । यद्वा स्तुत्यतावच्छेदेकरूपं प्रदर्शयितुं विशिनष्टि -*स्फोटरूपमिति । वक्ष्यमाणव्युत्पत्त्या समस्तार्थप्रकाशकस्वरूपमित्यर्थः । तदुपपादयन्नेव स्तुत्यतावच्छेदकान्तरमपि दर्शयति -* -*यत इति । यस्मादुपादानादिति सार्वविभक्तिकतसिना यस्मिन्नधिष्टाने इति वार्थः । विवर्तश्चातात्त्विकोऽन्यथाभावः । अपरित्यक्तपूर्वरूपस्य रूपान्तरप्रकारकप्रतीतिविषयत्वमिति यावत् । जगच्छन्दश्च रूढया नामरूपपरः । तथाच यस्मिनधिष्ठाने एतत्सर्वं जगद्भूतेन्द्रियादितत्तद्रूपेण प्रतिभातीत्यर्थः । “नेह नानाऽस्ति” ( काठके २|४|११ ) इति श्रुत्या बोधितबाधस्यापि जगतः प्रतिभासे अधिष्ठानसत्ताया एव नियामकत्वात् समस्तार्थप्रकाशकत्वोपपत्तिः, अप्रच्युतस्वरूपस्यैव ब्रह्मणो जगद्रूपेण विवर्तनादविकारित्वरूपोत्कृष्टधर्मावगतिश्च । अत्र च " तमेव भान्तमनुभाति सर्वम्” ( काठके २।५।१५, मुण्डके २।२।१२ ) इत्याद्याः कूटस्थस्वरूपप्रतिपादिकाश्च श्रुतयः प्रमाणत्वेनानुसन्धेया इति भावः । अत्र भगवद्विषयकरतिभावस्य हेत्वलङ्कारोऽङ्गम् ॥१॥ जगदुपादानत्वेन स्तुत्वा अपवर्गसाधनज्ञानविषयत्वेनैतच्छाखव्याख्यातृशेषभूषण परीक्षा अयं साधुः । एतेन नश्वरत्वस्य लाभः । नाशश्च तिरोभावः । एवञ्च यस्य तिरोभावो भवति तस्याविर्भावो भवतीति भगवतो जगद्विवर्त्तोपादानत्वस्य नानुपपत्तिः । अत एव श्रुतौ - "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्तिः यत् प्रयन्त्यभि Page #33 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेअशेषफलदातारं भवाब्धितरणे तरिम् । शेषाऽशेषार्थलाभार्थ प्रार्थये शेषभूषणम्(१) ॥२॥ दर्पणः त्वेन च स्तुवञ्छेषोक्तसमस्तसिद्धान्तप्रतिपत्तये प्रार्थयते-*अशेषेति । फलं-प्रवृत्त्युद्देश्यम्। स्वर्गादियत्किञ्चित्फलदातृत्वस्य देवतान्तरसाधारण्यादाह-*अशेषेति । तथा चापवर्गरूपफलस्याप्यशेषपदेन कुक्षीकृतत्वात् तदातृत्वस्यानन्यसाधारण्यात् प्रार्थ्यता. वच्छेदकधर्मलाभः। तदेव विशदयति-*भवाब्धीति* । भव एवाब्धिरिति रूपकम् । अब्धीयग्राहादिसदृशकामलोभाद्याक्रान्तत्वादू दुरवगाहत्वेन भवे तदारोपः । तेन च भवस्य दुस्तरत्वं व्यज्यते। तस्य तरणं पारदेशप्राप्तिस्तस्मिन्नित्यर्थः । *तरिम्*साधनम् । यद्यपि तरन्त्यनया इति व्युत्पत्त्या तरणसाधनं तरिपदार्थस्तथाऽपि तदूधटकीभूततरणस्य सन्निहितपदेनैव लाभात् द्विरुक्तिर्मा भूदिति विशेष्यमात्रपरतया व्याख्यातम् । मुक्तिसाधनज्ञानविषयमिति यावत् । मुक्तिश्च वेदान्तिमतेऽज्ञाननिवृत्तिसमकाला स्वरूपप्राप्तिः । नन्वज्ञाननिवृत्तेरधिकरणाऽनतिरिक्तायाः, स्वरूपस्याऽपि च सिद्धत्वात्तद्रूपायास्तस्यास्तत्त्वज्ञानसाध्यत्वानुपपत्तिरिति चेत् न।परेषां प्रागभा. वस्येव सिद्धाया एवाज्ञाननिवृत्तेर्योगक्षेमसाधारण्याःसाध्यतायाः सम्भवात् । अधिकमन्यतोऽवधेयम् । नैयायिकास्तु-आत्यन्तिकदुःखध्वंसो मोक्षः । ध्वंसे आत्यन्तिकत्वञ्च-स्वसमानाधिकरणदुःखासमानकालिकत्वम् । अत्रैव तत्त्वज्ञानस्योपयोगः। विशेष्यांशस्य स्वासाधारणसामग्य एव सम्भवात् , नित्यसुखाभिव्यक्तिर्वा स इत्याहुः। ___ *शेषाशेषेति* । कर्मधारयोत्तरपदः षष्ठीतत्पुरुषः। तस्य च लाभपदेन समासः । लाभायेदमिति विग्रहे चतुर्थ्यन्तलाभपदस्यार्थपदेन सः । शेषः-पतञ्जलिः, शेषांशत्वा परीक्षा संविशन्ति इति प्रतिपादितम् । मुक्तिसाधनज्ञानविषयत्वेनैतच्छास्त्रे प्रधानीभूतो यः शेषस्तत्भूषणत्वेन च स्मृतः शिवो भगवानभीप्सितं सर्व दास्यतीत्याशयेन तं प्रार्थते-*अशेषफलदातारमिति । अत्राशेषपदोपादानेन यत्किञ्चित्फलदातृदेवतान्तरादुत्कर्षलाभः । अशेषफलमध्ये मोक्षस्याऽपि घटकत्वान्मोक्षदातृत्वं यद्यपि लब्धम् । तथाऽपि तस्य फलस्य सर्वोत्कृष्टत्वसूचनाय पुनराह-*भवाब्धीति* । भवः संसारः स एवाब्धिः ग्राहादितुल्यलोभकामाद्याक्रान्तत्वेन अस्याब्धित्वेन निरूपणम् । एतेन दुस्तरत्वस्य लाभः, तस्य तरणं परं पारगमनन्तच्चानः ततो निवृत्तिस्तत्र तरिम्-पोतम् , तत्साधनमितियावत् । एतेन मुक्तिसाधनज्ञानविषयत्वं स्पष्टतयैव लभ्यत इति । मुक्तिश्चाज्ञाननिवृत्तिपूर्वकस्वस्वरूपप्राप्तिः । निवृत्तिश्चाभावरूपाधिष्ठानात्मिका स्वस्वरूपमपि ब्रह्मात्मकमेव । तच्च यद्यपि न जन्य तथापि योगक्षेमसाधारणसाध्यतेह विवक्षिता । *शेषाशेषेति । कर्मधारयोत्तरपदकः षष्ठीतत्पुरुषः। शेषः पतञ्जलिस्तत्प्रतिपादितत्वं षष्टयर्थः। एतेन (१) "वाग्देवी यस्य जिह्वाग्रे नरीनति सदा मुदा । भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये ॥ अत्रायं श्लोक उपलभ्यते क्वचित् । Page #34 -------------------------------------------------------------------------- ________________ मङ्गलवादः । पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्गोजिभट्टाभिधं द्वैतध्वान्तनिवारणादिफलिकां पुम्भाववाग्देवताम् । दर्पणः तस्य । तथा च शेषोक्तभाष्यप्रतिपादित निखिल सिद्धान्तज्ञानायेत्यर्थः । * शेषभूषणमिति । शेषोऽनन्तः, स भूषणं यस्येत्यर्थः । यतोऽस्य-भूषणं शेषोऽतोऽस्य शेषोक्तसिद्धान्तलब्ध्यै प्रार्थनमिति साभिप्रायविशेष्यस्योपादानात्परिकराङ्कुरोऽलङ्कारोऽत्र भगवद्विषयकरत्यङ्गम् ॥ २ ॥ प्रेक्षावत्प्रवृत्तये। इतरग्रन्थेभ्यः स्वग्रन्थस्योत्कर्ष प्रदर्शयन्नेव दर्शनीयविषयप्रयोजनसम्बन्धाधिकारिणां मध्येऽवश्यप्रदर्शनीयं विषयं दर्शयति-*पाणिन्यादीति । पुम्भाववाग्देवतामिति पितुर्विशेषणम् । पुंसो भावो यस्या इति व्यधिकरणबहुव्रीहिपूर्वपदकः कर्मधारयो वाग्देवतापदेन । अथवा पुम्भावशब्दोऽर्शआद्यजन्तः । तथा चाऽऽविष्कृतपुंविग्रहां सरस्वतीमित्यर्थः । * द्वैतध्वान्तेति । द्वाभ्यां प्रकाराभ्यामितो ज्ञातो विरुद्धो भयधर्मप्रकारकज्ञानविषयो धर्मीति यावत् । यद्वा-द्वयोर्भावो द्विता । स्वनिष्ठैकविशेष्यतानिरूपितप्रकारतासम्बन्धेन विरुद्ध नानाधर्माशे धर्मिणोऽपि भावत्त्वसम्भवाढू द्वितापदार्थोऽपि धम्येव । तत्र भवं द्वैतं संशयात्मकज्ञानम् । अथ वा-द्वयोरनेकस्य भावो द्विता - नानात्वं, तत्सम्बन्धिज्ञानं द्वैतम्, परमार्थदशायामद्वितीयस्यैव ब्रह्मणोऽङ्गीकारेण श्रुतिबाधितनानात्वावगाह्यन्तः करणवृत्तिविशेषरूपम् - अविद्या परपर्यायं - मिथ्याज्ञानम् । तदेव ध्वान्तम्-तमः, तत्त्वाऽऽच्छादकत्वात्तन्निवारणमेकं मुख्यं परीक्षा महाभाष्यार्थस्य लाभः । *शेषभूषणम् * - शेषोऽनन्तः स भूषणं यस्य तम् । अत्र विशेष्यस्य तादृशशिवस्य प्रार्थनया शेषो यस्य भूषणं तदधीनत्वात्तत्प्रार्थनया तदुक्तार्थलाभोऽवश्यमेव भविष्यतीत्यभिप्रायलाभ इति ( १ ) परिकराङ्कुरालङ्कारलाभः । एतच्छास्त्रे मुनित्रयस्य प्राधान्यान्निर्विघ्नपरिसमाप्त्यर्थं तन्नतिरूपं मङ्गलं कुर्वन् पितुरपि उत्कृष्टदेवतात्वात्तमपि नमस्कुर्वन् विषयप्रदर्शनस्य प्रेक्षावत्प्रवृत्त्यर्थमाश्यकत्वात्, तदपि करोति – पाणिन्या दितीति । पुम्भाववाग्देवतामिति । इदं पितुर्विशेषणम्, पुंसो भावो धर्मो यस्यां सा सा चासौ वाग्देवता चेति समासः । एवं चाविष्कृतपुंविग्रहा या सरस्वती तद्रूप एव तस्यव विशेषणान्तरम् । द्वैतध्वान्तेत्यादि । द्वैतशब्दो द्वाभ्यां विरुद्धधर्माभ्यामितो ज्ञातो यो धर्मो तत्परः, स एव द्वैतस्तस्मिन् यत् ध्वान्तमज्ञानं विषयतासम्बन्धेन वर्त्तमानं विरुद्धधर्म प्रकारकं ज्ञानमेव तन्निवारणफलिकामित्यर्थः । अथवा द्वयोर्भावो द्विता द्वितैव द्वैतं द्वित्वरूपा संख्या तस्मिन्, यद् ध्वान्तमेकविशेष्यकद्वित्वप्रकारकं ज्ञानमेव तन्निवारणफलिकाम् । “एकमेवाद्वितीयं ब्रह्म” “नेह नानास्ति किञ्चन ” इत्यद्वितीयत्वप्रतिपादिका या श्रुतिस्तद्वय ( १ ) अस्यालङ्कारस्य लक्षणं साहित्यदर्पणे नास्ति, कुवलयानन्दकारिकायां तु दृश्यते । “साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः” ॥६२॥ अत्र परिकराङ्कुरोऽलङ्कारो; न तु परिकर इति न विस्मर्तव्यम् । Page #35 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - दुण्ढि गौतमजैमिनीयवचनव्याख्यातृभिर्दूषितान् सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषये (१) ॥ ३ ॥ प्रारिप्सित प्रतिबन्धकोपशमनाय कृतं श्रीफणिस्मरणरूपं मङ्गलं शिष्य शिक्षार्थ निबध्नन् चिकीर्षितं प्रतिजानीतेफणिभाषितभाष्याऽब्धेः शब्दकौस्तुभ उद्घृतः । दर्पणः फलं यस्यास्तामित्यर्थः । अनधिकारिणां स्वाश्रितानामेकतरकोटिकज्ञानोत्पादकत्वेनाधिकारिणां सन्मात्रावलम्बनज्ञानप्रदत्वेन पुम्भाववाग्देवतायास्तन्निवर्तकत्वमिति भावः । *दुण्ढि* । गणपतिं, प्रणम्येत्यनुषज्यते । * सिद्धान्तानिति । भाष्यकारादिनिर्णीतार्थाः सिद्धान्तास्तानित्यर्थः । उपपत्तिभिः । साधकप्रमाणोपन्यासरूपाभियुक्तिभिरित्यर्थः । *डूषये । उपपत्तिभिरेव बाधकप्रमाणोपन्यासरूपाभिरित्यर्थः । एतेनाऽन्यग्रन्थेभ्यः स्वग्रन्थस्योत्कृष्टत्वं ध्वनितम् । तथाच वैयाकरणसिद्धान्तोऽत्र विषयः प्रदर्शितः । तेनैव तज्ज्ञानं प्रयोजनं, प्रतिपाद्यप्रतिपादकभावः सम्बन्धः, सिद्धान्तजिज्ञासुरधिकारीति त्रयोऽन्येऽपि दर्शितप्राया इति भावः ॥ ३ ॥ ग्रन्थादावनुष्ठितस्य मङ्गलस्य तन्निबन्धनस्य च प्रयोजनमाह -* प्रारिप्सितेत्यादिना । समाप्तये इति विहाय 'प्रतिबन्धकोपशमनाय ' इत्युक्तया अलौकिकाऽविगीतशिष्टाचारानुमितमङ्गलस्य विघ्नध्वंस एव फलम् । जन्मान्तरीयसमाप्तिमुद्दिश्य शिष्टानां मङ्गलाननुष्ठानान्मङ्गलसमाप्त्योः शरीरनिष्टप्रत्यासत्त्यैव कार्यकारणभावस्य कल्पनीयतया तस्य च नास्तिकसमाप्तौ व्यभिचारेण समाप्तेस्तत्त्वासम्भवात्, किन्तु कार्यमात्रं प्रति प्रतिबन्धकाभावस्य हेतुतया दुरितरूपप्रतिबन्धकनिरास एव मङ्गलस्योपयोगी ; न तु समाप्तावपि, विघ्नध्वंसेनान्यथासिद्धत्वात्, समाप्तिस्त्वन्यत्र क्लृप्ततत्कारणकलापादिति सूच्यते । *फणिस्मरणेति । फणी - शेषः । “ शेषाख्यं धाम मामकम्" इति भगवदुक्तस्तत्स्मरणस्य विघ्ननिवारकत्वात् । मङ्गलस्य नतिस्तुत्यादिभेदेन नानात्वमिति सूचयितुं स्मरणेत्युक्तम् । प्रतिजानीत (१) इति । प्रतिज्ञाफलं तु परीक्षा वस्थापकमिति यावत् । *दुण्ढिम् - गणपतिम् । सिद्धान्तान् — भाष्यकारसम्मतसिद्धान्तान् । *उपपत्तिभिः - साधकप्रमाणोपन्यासरूपायुक्तिभिः । *दूषये इति ॥ बाधकप्रमाणोपन्यासेनेति शेषः । एतेन वैयाकरणसिद्धान्तो विषयस्तज्ज्ञानं प्रयोजनं तजिज्ञासुरधिकारी प्रतिपाद्यप्रतिपादकभावः सम्बन्ध इति त्वर्थादुक्तं भवति । ग्रन्थादौ कृतस्य मङ्गलस्य प्रयोजनमाह-प्रारिप्सितस्येत्यादिना । अत्र प्रतिबन्धकोपशमनायेति कथनेन विघ्नध्वंसस्यैव मङ्गलफलत्वमुक्तम् । आत्मनिष्ठप्रत्यासत्या चैतयोः कार्य्यकारणभावः । समाप्तिस्तु विघ्नध्वंसवटितकारणकलापाद्भवति । स्मररूपमित्यनेन मङ्गलस्य नतिस्मृत्युभयरूपत्वं ध्वनितम्। * चिकीर्षितमित्यादि । ( १ ) अस्याग्रे - " नत्वा गणेशपादाब्जं गुरूनथ सरस्वतीम् । श्रीकौण्डभट्टः कुर्वेहं वैयाकरणभूषणम् ॥', क्वचिदयं श्लोक उपलभ्यते । Page #36 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। तत्र निर्णीत एवार्थः सङ्केपेणेह कथ्यते ॥१॥ उद्धृत इति । अत्र 'अस्माभिः' इति शेषः। भाष्याऽब्धेः शब्दकौस्तुभ उद्धृत इत्युक्तिस्तु शब्दकौस्तुभोक्तानामर्थानामाधुनिकोत्प्रेक्षितत्वनिरासाय । अन्यथा तन्मूलकस्यास्य ग्रन्थस्याप्याधुनिकोत्प्रेक्षितसारत्वापत्तौ पाणिनीयानामनुपादेयतापत्तेः। तत्र निर्णीत इत्युक्तिरितोऽप्यधिकञ्जिज्ञासुभिः शब्दकौस्तुभे द्रष्टव्यमिति ध्वनयितुम् ॥१॥ अथ धात्वर्थनिर्णयः। प्रतिज्ञातमाह फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः। फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥ २॥ दर्पणः शिष्यावधानं बोध्यम् । ____ उद्धरणकर्ताकाङ्क्षायामाह-*अस्माभिरिति । मूले-*कथ्यत इति । हर्यादिनिबद्धकारिकाभिरिति शेषः ॥१॥ अथ धात्वर्थनिर्णयः । तत्र स्फोटस्यार्थबोधजनकत्वात् तेनैवाऽऽकाङ्गानिवृत्तेश्च वाक्यस्फोटस्य 'वाक्यस्फोटोऽतिनिष्कर्षे इत्यादिना सिद्धान्तयिष्यमाणत्वेऽपि प्रतिवाक्यं सङ्केतग्रहासम्भवात् तदन्वाख्यानस्य लघूपायेनासुकरत्वाच्च तत्र कल्पनया पदानि विभज्य तेष्वपि प्रकृतिप्रत्ययभागांस्तथैव प्रविभज्य, कल्पिताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थेष्वपि प्रकृतिप्रत्ययानामनादिसङ्केतबोधनद्वारा साधुत्वान्वाख्यायके महर्षिप्रणीते शास्त्रे प्रक्रियानिहाय पदवर्णस्फोटावपि सम्मताविति दर्शयस्तिङन्तार्थप्रधाने सुप्तिङ्चयादिरूपे वाक्ये धात्वर्थस्य प्राधान्यात्तमेवादौ निरूपयितुमाह मूले-*फलव्यापारयोरिति । परीक्षा कर्तुमिष्टं यत्तत्कर्मिका भट्टोजिदीक्षितकतका प्रतिज्ञेति बोधः। प्रतिज्ञा च-निरूपणीयार्थविशेष्यनिरूपणविषयत्वप्रकारकज्ञानानुकूलव्यापाररूपा । स च व्यापारः शब्दोच्चारणमेव । उद्धृत इत्युक्तेः काकाङ्क्षा भवति। तच्छान्तये आह-*अस्माभिरिति । एतेन मूलस्था कारिका भट्टोजिदीक्षितकर्तृका इति सूचितम् । *कथ्यत इति । हादिनिबद्धकोरिकाभिरिति शेषः। । अथ धात्वर्थनिर्णयः । सिद्धान्ते वाक्यस्फोटस्यैव व्यवस्थापन भविष्यतिः तत्र वाक्यं सूपतिचयरूपम्। तयोरपि तिर्थस्य प्राधान्यमित्यादौ तिङन्तार्थो निरूपणीयस्तत्रापि धात्वर्थस्य प्राधान्येन भानादादौ धात्वर्थ निरूपयति-*फलक्यापारयोरित्यादिना* । सप्तम्यर्थो Page #37 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - धातुरित्यत्र स्मृत इति वचनविपरिणामेनान्वयः । फलं विक्लित्यादि । दर्पणः तत्र धातुरित्यस्य स्मृताः' इति न विशेषणम् । विभिन्नवचनान्तोपस्थापितत्वात् । विशेष्यवाचकपदोत्तर विभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षायां विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमात् । अत एव 'नीलो घटा' इत्यादेर्न साधुत्वम् । तद्विवक्षायां तु 'वेदाः प्रमाणं' 'जात्याकृतिव्यक्तयः पदार्थः ' ( न्यायसूत्रे - २।२।१८ ) इत्यादौ विभिन्नवचनत्वमपि । न च प्रकृते तद्विवक्षायां बीजमस्तीत्यतो वचनविपरिणामेनान्वयं दर्शयति भूषणसारे धातुरित्यत्रेति । ननु यदुद्देशेन श्रुतेर्लोकतो वा प्रवृत्तिरवगता तत्त्वं फलत्वम् । अन्येच्छानधीनेच्छाविषयत्वमिति यावत् । तदुक्तं हरिणा “यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः । तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥” इति । "स्वरितनितः " (पा०सू० १।३।७२ ) इति सूत्रेऽपि फलपदस्य प्रवृत्त्युद्देश्यमुख्यफले एव प्रसिद्धेः । तथा च तादृशफलस्य धातुवाच्यत्वे विक्कित्यनुकूलव्यापारदशायां तण्डुलस्य धात्वर्थतादृशफलाश्रयत्वाभावात् कर्मत्वानुपपत्तिः, तज्जन्यतादृशफलाश्रयस्य तदापत्तिश्चेत्यत आह - *फलं विक्कित्त्यादीति । अयमाशयः – फलपदस्य लोके रूढ्या तादृशार्थोपस्थापकत्वेऽप्यत्र पारिभाषिकार्थपरतैव । अन्यथा सकर्मकत्वादिव्यवहारो दुरुपपादः स्यादिति । तत्त्वं च - तद्धात्वर्थजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वं तद्धात्वर्थत्वं वा 1 जन्यत्वं च - जन्यत्वप्रकारकप्रतीतिविषयत्वम् । तेन सत्तादौ नातिप्रसङ्गः । गम्याद्यर्थव्यापारजन्यविभागादावतिप्रसङ्गवारणाय विशेष्यं, तदर्थव्यापारेऽतिप्रसक्तिनिरासाय च सत्यन्तम् । तच्च विक्किलत्यादीनामक्षतम् । तस्यापि प्रकृतपच्यादिशक्यता तत्तद्रूपेणैव, तथा बोधस्य सर्वानुभवसिद्धत्वात् । यद्वक्ष्यति वाक्यार्थप्रदर्शनाऽवसरे - 'विक्कित्यनुकूलो व्यापार' इति, धातुत्वादिकमजानतोऽपि तद्बोधाच्चेति भावः । परे तु - कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतावत्त्वम् । जन्यता चाऽऽरोपिताऽनारोपिता वेत्यन्यदेतत् । विभागज परीक्षा वाच्यत्वम् । धातुरित्यस्यैकवचनान्तस्य विशेष्यवाचकताऽस्ति । तद्विशेषणवाचकमपि यदि विशेष्यवाचकपदार्थगतसङ्ख्या विरुद्धसङ्ख्याया अविवक्षाः तदा समानवचनकत्वमेवापेक्षितम् । विरुद्धसङ्ख्या विवक्षायान्तु विभिन्नवचनकत्वमपि भवति 'वेदाः प्रमाणम्' इत्यादौ यथा । प्रकृते तु तद्विवक्षायां मानाभाव इत्याशयेनाह - धातुरित्यत्रेति । फलशब्दोऽत्र न "स्वरित जित” इति सूत्रे फलशब्दो यत्परस्तत्परः; किन्तु विलक्षणार्थबोधक इत्याशयेनाह - *फलमित्यादि । तद्धात्वर्थफलत्वं च - तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थत्वम् । इदं च जन्यस्य यत्र फलत्वेन ग्रहणं तत्र यत्र Page #38 -------------------------------------------------------------------------- ________________ __ धात्वर्थनिर्णयः। व्यापारस्तु भावनाऽभिधा साध्यत्वेनाऽभिधीयमाना क्रिया । दर्पणः न्यसंयोगादिरूपे पतत्यर्थे विभागसंयोगयोः फलत्ववारणायोभयम् । कर्माख्याते फलस्य विशेष्यतयैव भानात्तत्रातिप्रसङ्गवारणाय कर्तृप्रत्ययसमभिव्याहार इति वदन्ति। तञ्चिन्त्यम् । अनुगतफलत्वानिरुक्तः। विभागजन्यसंयोगे निरवयवत्वात्प्रत्यक्षत्वात् पतत्यर्थत्वाभावस्य वक्ष्यमाणतया व्यावाऽप्रसिद्धेश्चेत्यधिकमग्रे वक्ष्यते । _ ननु व्यापारत्वं न फलप्रयोजकक्रियात्वम् । आत्माश्रयात् । क्रियात्वस्यैव हि तत्त्वाद् , दण्डादिव्यापारस्य धात्वर्थत्वापत्तेश्च । नचेष्टापत्तिः । धात्वर्थव्यापाराश्रयस्यैव कर्तृताया वक्ष्यमाणतया तदाश्रयस्य दण्डादेः कर्तुराख्यातेनाभिधानाद् 'दण्डेन देवदत्तः पचति' इत्यादौ दण्डादिपदोत्तरं तृतीयाऽनापत्तेः,प्रथमापत्तेश्च । कर्तृकरणसंज्ञ कडारीयतया संज्ञाद्वयसमावेशासम्भवेनाभिमतकरणसंज्ञायाः परया कर्तृसंज्ञया बाधात् । किञ्च प्रयोजकत्वं यदि साक्षाजनकत्वं, तदा पचति' इत्यादौ कर्तव्यापारस्य धात्वर्थत्वानापत्तिः, तस्य करणव्यापारद्वारैव फलजनकत्वात् । यदि जनकाजनकसाधारणं तदा तण्डलक्रयणस्यापि फलप्रयोजकक्रियात्वात् तहशायामपि देवदत्तादौ पचतिः इति प्रयोगापत्तिः। तण्डलादिक्रयणादिव्यावत्तस्य ताशप्रयोजकत्वस्य निर्वतमशक्यत्वाच्च । अत एव न तजन्यत्वे सति तजन्यजनकत्वरूपं तन्त्रान्तरप्रसिद्धं तत् । तदवच्छिन्नस्य धातुवाच्यत्वे साक्षाद्विक्लित्तिजनकान्तिमाग्निसंयोगदशायामेव 'पचति' इति प्रयोगः स्यात्नत्वधिश्रयणादिदशायामपि। तेषामन्तिमाग्निसंयोगेनान्यथासिद्धतया विक्लित्त्यजनकत्वादित्यत आह-*व्यापारस्त्विति । साध्यत्वेनेति विशेषणे तृतीया । तथा च पदान्तरसमभिव्याहाराप्रयोज्यसाध्यत्वप्रकारकाभिधानविषयत्वं व्यापारत्वमित्यर्थः । अभिधानस्य प्रकारतावत्त्वं विषयतानिरूपकत्वं चौपचारिकम् । तादृशसाध्यत्वप्रकारकप्रतीतिविषयत्वमिति यावत् । 'घटं करोति' इत्यादौ कृसमभिव्याहारे घटादीनामपि साध्यत्वेन प्रतीतेरतिप्रसङ्गभङ्गाय पदान्तरसमभिव्याहाराप्रयोज्येति प्रतीतिविशेषणम् । तदसमभिव्याहारे तेषां तत्त्वेनाप्रतीतेः।अधिश्रयणाऽऽद्यऽधःश्रयणपर्यन्तक्रियाकलापस्य पदान्तरसमभिव्याहारमन्तरेणापि साध्यत्वेन प्रतीयमानत्वादुक्तव्यापारत्वमविकलमिति तदवच्छिन्ने पच्यादिधातुवा. परीक्षा तु सत्तादेः फलत्वं तत्कर्तृप्रत्ययसमभिव्याहृततद्धातुजन्यशाब्दबोधीया या तद्धात्वर्थनिष्ठविशेष्यतानिरूपिताप्रकारता तदाश्रयत्वरूपम् । एवं च व्यापकत्वादिदमेवादतव्यम् । न चैवं तत्वनिवेशे नानुगमः पूर्वलक्षणेऽपि तत्त्वेनैव निवेशावश्यकतयाविशेषात् । व्यापारस्य स्वरूपमाह-व्यापारस्त्विति । *साध्यत्वेनेति । तृतीया प्रकृत्यादित्वात् । तदर्थश्च प्रकारता, अभिधीयमानेत्यत्राभिधानं प्रतीतिः, निरूपितत्वसम्बन्धेन प्रकृत्यर्थसम्बद्धप्रकारितायाश्चाभिधानेऽन्वयः । कर्मप्रत्ययार्थो विशेव्यत्वम् । एवं सति साध्यत्वप्रकारकप्रतीतिविशेष्यत्वमिति फलितम् । न च कर्ट करोतीत्यादौ कटादेरपि साध्यत्वेन. प्रतीयमानत्वात्तेष्वतिव्याप्तिरिति वाच्यम्, पदान्तरसमभिव्याहाराप्रयोज्यत्वस्याभिधानविशेषणत्वात् । अस्मिन्नर्थे प्रमा २ ९० Page #39 -------------------------------------------------------------------------- ________________ १० . दर्पणपरीक्षासहिते भूषणसारेउक्तश्च वाक्यपदीये यावत् सिद्धमसिद्धं वा साध्यत्वेनाऽभिधीयते । आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ इति । न च साध्यत्वेनाऽभिधाने मानाभावः। पचति, पाकः, करोति, कृतिः, इत्यादौ धात्वर्थाऽवगमाविशेषेऽपि क्रियान्तराऽऽकासाऽनाकासयोर्दर्शनस्यैव मानत्वात् । तथा च क्रियान्तराऽकासानुत्थापकता दर्पणः च्यता नानुपपन्नेति भावः ॥ उक्तार्थस्य स्वोत्प्रेक्षितत्वं निरस्यति-*उक्तञ्चेति । *यावदिति । सर्वमित्यर्थः । सर्वपदार्थमेव विवृणोति-*सिद्धमित्यादिना*। सिद्धम्विद्यमानध्वंसप्रतियोगि 'अपाक्षीत्' इत्यादौ । असिद्धम्-भूतभिन्नं वर्तमान तादृशप्रागभावप्रतियोगि च, 'पचति' 'पक्ष्यति' इत्यादौ । *साध्यत्वेन*-वक्ष्यमाणस्वरूपेण । *अभिधीयते । तत्प्रकारकप्रतीतिविषय इत्यर्थः । क्वचिद्विवक्ष्यते इति पाठः । एतेन क्रियाशब्दस्य रूढिः प्रदर्शिता। यौगिकत्वमप्याह-*आश्रितेति । आश्रितं क्रमरूपं यस्यास्तत्त्वात् पूर्वापरीभूतावयवकत्वादित्यर्थः । तदीयाऽवयवानामधिश्रयणाद्यध:श्रयणपर्यन्तानां क्रमेणोत्पत्तेःक्रियापदेन सा उच्यते । यत्र च न क्रमिकावयवको व्यापारस्तत्र रूढिरेवादरणीया, पौर्वापर्यारोपो वा । फलस्यापि स्वजनकव्यापारगतपौर्वापर्यारोपेण तथैव भानम् । अत एव तन्मात्रवाचकस्य धातुत्वसिद्धिरिति भावः । *पाक इति। यद्यपि साध्यत्वेनोपस्थितिरप्यत्र, कथमन्यथा स्तोकं पाक इत्यादौ स्तोकादीनां कर्मता, तथापि तत्र धातूपस्थाप्यभावस्य गुणतया प्रधानीभूतपशुपस्थाप्यस्य तस्य सिद्धतैवेत्याशयः । पर्यवसितार्थमाह-*तथा चेति । क्रियान्तरेति । अयमाशयः-यद्धर्मवत्ताज्ञानात् क्रियान्तराकासोदयस्तादृशज्ञाने प्रकारतयावच्छेदकं यत्तत्सिद्धत्वम् । तद्भिन्नत्वं ज्ञाननिष्ठतादृशाऽऽकाजोत्थापकत्वाभावावच्छेदकं वा साध्यत्वम् । साध्यत्वज्ञानस्य तु नाकाकाप्रतिबन्धकत्वम् । क्लहप्तका परीक्षा णमाह-*उक्तञ्चेति। कारिकायां सिद्धमित्यस्य निष्पन्नमित्यर्थः । इदं चापाक्षीदित्यायभिप्रायेण । असिद्धमनिष्पन्नमिदं पचति पक्ष्यतीत्याद्यभिप्रायेण । इदं विशेष्यबोधकम् । एवं च सिद्धमसिद्धं वा यावत्साध्यत्वेनाभिधीयते । आश्रितेति योगप्रदर्शनम् , क्रियतेऽवयवानां क्रमेणोत्पत्या सा क्रिया। अत एवाश्रितक्रमरूपा आश्रितं क्रमरूपं यस्याः यथा पचधात्वर्थव्यापारावयवानामधिश्रयणाद्यधःश्रयणपर्य्यन्तानां क्रमेणोत्पत्तेस्तादृशावयवसमूहः क्रिया पचादिनोच्यते। तथाऽन्यत्रापि बोध्यम् । यत्र तु नावयवानां क्रमस्तत्रारोपो रूढिर्वा स्वीकार्यो। *पाक इति* । अत्र प्रकृत्यर्थस्य साध्यत्वेनैव प्रतीतिः। अत एव स्तोकं पाक इत्यत्र स्तोकपदात्कर्मत्वार्थकद्वितीयासिद्धिः, तथापि प्रत्ययार्थस्य सिद्धत्वेन भानमिति विशेषः । *आकाङ्क्षाऽनाकाङ्क्षयोरिति । अल्पान्तरत्वादाकासाशब्दस्य पूर्वनिपातः । *अनुत्थापकतावच्छेदकरूपमिति । तच्च रूपमुत्पाद्यत्वात्मकम् , तेन रूपेण प्रतीतौ शाब्दिकवृद्धानुभवो Page #40 -------------------------------------------------------------------------- ________________ ____ धात्वर्थनिर्णयः। दर्पणः रणाभावादेव तदनुत्पादात्। न च क्रियान्तराकाङ्कानुत्थापकतावच्छेदकधर्मरूपसाध्यत्वेन धात्वर्थोपस्थितौ 'कृष्णं नमेञ्चेत् सुखं यायात्' इत्यादावाकाङ्क्षाभावेन क्रियान्तरान्वयो न स्यादिति वाच्यम् । तत्रापि चेत्पदसमवधानेनाकामोत्थापनात्। हिरुगादीनां क्रियाप्राधान्यव्यवहारस्तु तदर्थस्य क्रियामात्रविशेषणत्वात् । अत एव न हिरू गाद्यर्थे कारकाणामन्वयः। तेषां क्रियान्तरसाकाङ्कत्वादिति। वस्तुतस्तु सिद्धत्वज्ञाने साध्याकासावत् पच्याद्यर्थे साध्यतयावगते 'किमस्य साधनम्' इत्याकाङ्क्षोदयेन साधनाकाङ्क्षोत्थापकतावच्छेदकरूपवत्त्वमेव साध्यत्वम् । अत एव 'एतदेवोपादाय' इत्यग्रिमग्रन्थसङ्गतिः, अन्यथा पचति भवतीत्यादौ पूर्वोक्तरूपाभावेन तदसङ्गतिः स्पष्टैव। . उक्तञ्च हरिणा-"प्रयोगार्हेषु सिद्धः सन् मन्तव्योऽर्थो विशेषणैः । प्राक् च साधनसम्बन्धात् क्रिया नैवोपजायते" ॥ इति ॥ ___ 'साधर्म हि क्रियां निवर्तयति' इति “सुटकात्" (पा० सू० ६।१११२५ ) इति सूत्रस्थभाष्यमप्येतत्कल्पेऽनुगुणमित्यवधेयम् ।। ___ केचित्तु-पचतीत्यनुगतव्यवहारादस्ति पचित्वादिकं जातिः । तथा च क्रमिकानेकव्यक्तिवृत्तिजातिरेव क्रिया। साध्यत्वं च तस्या व्यक्तिद्वारकमेव । स्फोटवदस्याः क्रमवद्भिः क्षणैरभिव्यक्तिः। परीक्षा मानम् । एवं च यद्धर्मप्रकारकज्ञानात् क्रियान्तराकाङ्का भवति, स धर्मो ज्ञाननिष्ठा या क्रियान्तराकाङ्कोत्थापकता तस्यां प्रकारतासम्बन्धेनावच्छेदकस्तत् सिद्धत्वम् । साध्यत्वं तु क्रियान्तराकाङ्कोत्थापकत्वाभावावच्छेदको धर्मः। पचतीत्यादौ तादृशधर्मप्रकारकज्ञानाभावान्न क्रियान्तराकाङ्क्षा, कृष्णं नमेच्चेत्सुखं यायादित्यादौ तु चेत्पदसमभिव्याहारः क्रियान्तरान्वयप्रयोजकः । साध्यत्वेन क्रियाप्रतीतिस्तु धातुभ्य एव । नचैवं हिरुगादीनां क्रियाप्रधानत्वव्यवहारानुपपत्तिरिति वाच्यम् ? तेषां क्रियामात्रविशेषणतया तथाव्यवहारात् । वस्तुतस्तु साध्यस्यैव साधनसाकाङ्कत्वमिति साधनाकाङ्क्षोत्थापकतावच्छेदकधर्मवत्वमेव तत् । अत एव पचति भवतीत्यत्र न साध्यत्वानुपपत्तिः। ___ अत एव(१) “सुट् कात्पूर्व” इति सूत्रे भाष्यकृतोक्तम्-“साधनं(२) हि क्रियां निवर्त्तयति, तामुपसर्गो विशिनष्टि" इति।। अन्ये तु-तत्र धातुवाच्या सा जातिरेव क्रियापदेनोच्यतेः सा जातिः पचित्वादिरूपानुगतव्यवहारात्। सिध्यतीति तस्याश्च व्यक्तिद्वारा साध्यत्वं क्रमिकानेकव्यापारे वर्तमाना साऽनेकव्यक्तिभिरेवाभिव्यज्यते । तदुक्तं हरिणा जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् । असाध्यव्यक्तिरूपेण सा साध्येवोपलक्ष्यते ॥१॥ इति स्वतो नित्यत्वादसाध्येत्युक्तमित्याहुः। (१) अत एव इत्यारभ्य 'प्रयोगं कुर्यात्' इत्येतावत्पाठः पुस्तकान्तरे उपलब्धः । (२) साधनम्-तद्वोधकप्रत्ययः, क्रियां निवर्तयति-साध्यत्ववैशिष्ट्येन बोधयति । अतस्तत्प्रयुक्तकार्य पूर्वमिति बृद्धाः। Page #41 -------------------------------------------------------------------------- ________________ १२ . दर्पणपरीक्षासहिते भूषणसारेवच्छेदकरूपं(१)साध्यत्वम् । तद्रूपवत्त्वमसत्वभूतत्वम् । एतदेवाऽऽदाय ____ असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते । इति वाक्यपदीयमिति द्रष्टव्यम् ॥ अयं च व्यापारः फूत्कारत्वाधःसन्तापनत्वयत्नत्वादितत्तद्रूपेण वाच्यः। पचतीत्यादौ तत्तत्प्रकारकबोधस्याऽनुभवसिद्धत्वात् । दर्पण: “जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यते ॥" । इति वाक्यपदीयं चात्र कल्पे मानमित्याहुः। साध्यत्वासत्त्वभूतपदयोः पर्यायतामाह-*तद्रूपवत्त्वमिति । एतदेवेति ॥ निरुक्तरूपासत्त्वभूतत्वमेवेत्यर्थः । *असत्त्वभूत इति । "भावप्रधानमाख्यातम्" (निरुक्ते १ अ० १ ख०) इति निरुक्तार्थप्रतिपादकमेतत्। 'सत्त्वस्वभावमापन्ना व्यक्तिर्नामभिरुच्यते।' इति अस्य पूर्वार्द्धम् । *भावश्चेति । चोऽवधारणे; उक्तभाव एवेत्यर्थः । तेन सत्त्वभूतस्य तस्य व्यवच्छेदः ॥ तिड्पदैरिति बहुवचनस्वारस्येन तिङन्तपदैरित्यर्थः । *अभिधीयते*-बोध्यते इत्यर्थः। अभिधीयते इत्यस्य प्राधान्येनैवेति शेषः। तेन कृदन्तपदैरसत्त्वावस्थभावाभिधानेऽपि न क्षतिरितिभावः। तिङन्तपदैरितिभावाssख्याताभिप्रायेणेति कश्चित् ।। ___ *अयं चेति । साध्यत्वेन प्रतीयमानो व्यापारश्चेत्यर्थः । *वाच्य इति । पचत्यादिशक्य इत्यर्थः । *अनुभवसिद्धत्वादिति । अत एव व्यजनादिना वह्निप्रज्वलनदशायां फूत्कार एव गृहीतशक्तिकस्य न पचतीतिप्रयोगः । यागे, इच्छा, ज्ञानं वेति परीक्षा यत्तु-क्रियायाः साध्यत्वं तदेवासत्वभूतत्वमित्याह-*तद्रूपवत्वमिति । अत एव वाक्यपदीये हरिणा सत्वस्वभावमापना व्यक्तिर्नामभिरुच्यते। असत्वभूतो भावस्तु तिपदैरभिधीयते ॥१॥ .. इत्युक्तम् । तिङ्पदैः-तिङन्तैः पदैः । अत एव "भावप्रधानमाख्यातम् , सत्वप्रधानानि नामानि इति निरुक्त उक्तम् । व्यापारस्य धातुवाच्यत्वं न व्यापारत्वेनैवः किन्तु फूत्कारादिनिष्ठफूत्कारत्वादिना। अत एव पचतीत्यादिवाक्यजन्यशाब्दबोधानन्तरं तत्तद्धर्मप्रकारकसन्दहानुदयः सङ्गच्छत इति इत्याह-*अयञ्चेति। *अनुभवसिद्धत्वादिति। अत एव यस्य पुरुषफूत्कारत्वावच्छिन्न एव पधातोः शक्तिग्रहः, स व्यजनेन वह्निप्रज्चालनदशायां पचतीति शब्दप्रयोग न करोति। यदि व्यापारत्वं वाच्यतावच्छेदकं भवेत्तदा (१) रूपत्वमिति पाठः।। Page #42 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । न च नानार्थताऽऽपत्तिः, तदादिन्यायेन बुद्धिविषेशादेःशक्यताऽवच्छे दर्पणः विप्रतिपत्तिस्तु स्वीयबोधानुसारादेवेति भावः । *न च नानेति। नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वं नानार्थत्वम् । तच्च पच्यादावक्षतमिति भावः । फलांशमादाय तत्त्वं त्वाशङ्कितुरपीष्टमेवेति बोध्यम् । *बुद्धिविशेषादेरिति। स्वनिरूपितविषयतावच्छेदकत्वसम्बन्धेनेति शेषः बुद्धिविशेषविषयतावच्छेदकत्वस्येति यावत् । अयं भावः तदादिभ्यश्चैत्रत्वादितत्तद्रूपेण बोधः सर्वानुभवसिद्धः । स च चैत्रत्वाद्यनुगमकधर्म विनाऽनुपपन्न इति बुद्धिविशेषविषयतावच्छेदकत्वं तदनुगमकधर्ममङ्गीकृत्य तदनुगतीकृततदवच्छिन्नेषु चैत्रादिषु तदादीनां शक्तिः । बुद्धिविशेषविषयतावच्छेदकत्वस्योपलक्षणत्त्वोपगमाच्च न चैत्रत्वादीनां तेन रूपेण शाब्दबोधे भानापत्तिः । अनुगतनानाधर्माऽवच्छिन्नशक्तिनिरूपकताऽवच्छेदकैकधर्मवत एव नानार्थत्वम् , न तेषां तदपीति तदादिशक्तिनिरूपणे निर्णीतमन्यत्र, तद्वदिहाप्यवसेयमिति । ननु पूर्वापरीभूतक्षणनश्वरक्रमिकव्यापाराणां मेलनाऽसम्भवात्तदात्मकक्रियाया अनैक्याद् 'एका च क्रिया' इति "प्रशंसायाम्" (पा० सू० ४।२।६६) इति सूत्रस्थ परीक्षा फूत्कारत्वादेर्व्याप्यस्य ज्ञानकाले व्यापकव्यापारत्वावच्छिन्नज्ञानवान् भवतीति तथा व्यजनेन प्रज्वलनकालेऽपि व्यापारत्वावच्छिन्नविषयकज्ञानवान् स्यादिति प्रयोगं कुर्यात् । ] न च विशेषधर्मस्यैव शक्यतावच्छेदकत्वे पचतीत्यादिशब्दाद्विशेषपचतीति शब्दधर्मप्रकारक एव बोधो भविष्यति न तु सामान्यधर्मप्रकारक इति पचति चैत्र इति वाक्यजन्यशाब्दबोधस्य विक्लित्यनुकूलव्यापारवान्नवेति संशयनिवर्तकत्वं न स्यादिति वाच्यम् ? विशेषधर्मस्य व्याप्यतया व्याप्यज्ञानस्य व्यापकधर्मज्ञानं प्रति हेतुतया विशेषधर्मज्ञानानन्तरं व्यापारत्वप्रकारकज्ञानमपि भवतीति कल्प्यते,तेन प्रतिबन्धान तादृशः सन्देहः। तच्च ज्ञानमनुमितिरूपम् , मानसं वा व्यञ्जनावृत्तिस्वीकारेशाब्दबोधरूपं वेत्यन्यदेतत् । यदि फूत्कारादिव्यापाराणां फूत्कारत्वाधःसन्तापनत्वादि विभिन्नरूपेण वाच्यताः तदा बहूनां धर्माणां वाच्यतावच्छेदकतयाऽनेकशक्यतावच्छेदकत्वे सत्येकशक्यतावच्छेदकवत्वं नानार्थत्वम् । तच्च पच्यादेःप्राप्नोति ।नचेष्टापत्तिः, नानार्थहर्यादिशब्दस्थले विजातीयप्रकरणादिभेदः शक्ततावच्छेदकनियामको भवति, तथाऽत्र नास्ति पचतीत्यादिशब्दप्रयोगे नानाधर्मप्रकारकप्रतीतेरनुभवसिद्धत्वादित्याशङ्य निराचष्टे-*न चेत्यादिना*। फलांशमादाय नानार्थत्वं तु शकस्याप्यनुमतमेव । न च व्यापारांशमादाय धातूनामनेकार्थत्वव्यवहारोऽपि सर्वसम्मत एव सेधतेर्गताविति सूत्रे गतिग्रहणादिति वाच्यम् ? फलभेदमादाय तत्तत्फलतावच्छेदकधावच्छिन्नकार्यतानिरूपितकारणताश्रयव्यापाराणां या प्रतीतिस्तामादायानेकार्थत्वव्यवहारो : न तु फलतावच्छेदकधर्मस्यैकत्वे तथेत्याशयः। *तदादिन्यायेनेति । तदादिशब्दस्थले यथा स्वीयविषयतावच्छेदकत्वसम्बन्धेन बुद्धिविशेषोपलक्षितचैत्रत्वमैत्रत्वाद्यवच्छिन्ने तदादिशब्दानां शक्तिस्वीकारेऽपि तदादीनां न नानार्थत्वव्यवहारस्तथा धातूनामपि स्वीयविषयतावच्छेदकत्वसम्बन्धेन वक्तृसमवेतबुद्धिविशेषोपलक्षितफूत्कारत्वाद्यवच्छिन्ने पच्यादीनां शक्तिस्वीकारान्न नानार्थत्वम्। फूत्कारत्वा Page #43 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेदकानामनुगमकस्य सत्त्वात् । आख्याते क्रियैकत्वव्यवस्थापि ; अवच्छेदकबुद्धिविशेषैक्यमादायैव । उक्तंच वाक्यपदीये "गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । ..... बुद्धया प्रकल्पिताऽभेदः क्रियेति व्यपदिश्यते ॥" इति । धात्वर्थ निरूप्य तिर्थमाह___*आश्रये विति* । फलाश्रये, व्यापाराश्रये चेत्यर्थः । फलाश्रयः कर्म, व्यापाराश्रयः कर्ता । तत्र फलव्यापारयोर्धातुलभ्यत्वान्न तिङस्तदंशे शक्तिः । अन्यलभ्यत्वात् । शक्यतावच्छेदकं चाश्रयत्वं; दर्पणः भाष्यासङ्गतिरत आह-*आख्यातेति । निर्विभक्तिकः पाठः साधुः। आख्यातप्रतिपाद्यक्रियैकत्वव्यवस्थापीत्यर्थः । सविभक्तिकपाठे सप्तमी वैषयिकाधारे अध्याहृतज्ञानक्रियामादाय बोध्या। *बुद्धिविशेषैक्यमिति* । सङ्कलनरूपबुद्धिविशेषात्मकविच्छेदकैक्यमादायेत्यर्थः । तथाचावयवाऽऽश्रयं पौर्वापर्य्य, समुदायाश्रयमेकत्वमादाय तत्सगतिरिति भावः । तत्र मानमुपन्यस्यति-*उक्तञ्चेति ॥ गुणेति ॥ क्रमिकैतव्यापारसमूहं प्रति गुणभूतैस्तत्तद्रूपेण भासमानैरवयवैरुपलक्षितः सङ्कलनात्मकैकत्वबुद्धया प्रकल्पितोऽभेदो यस्य तद्रूपः समूहः क्रियेति व्यवह्रियते इति कारिकार्थः। तत्र क्षणनश्वराणां व्यापाराणां वस्तुभूतसमुदायाऽभावाद् , बुद्धयेत्युक्तम् । निरूप्येत्यस्य सङ्कपेणेत्यादिः। प्रधानीभूतप्रकृत्यर्थनिरूपणानन्तरं विशेषणप्रत्ययार्थस्याऽवश्यवक्तव्यतयाऽवसरसङ्गत्या तन्निरूपणमित्यभिप्रेत्याह-*तिर्थमिति*। *अन्यलभ्यत्वादिति । __ परीक्षा द्यवच्छेदकावच्छेदकस्य बुद्धिविशेषस्यैक्यादिति भावः। बुद्धिविशेषश्चोपलक्षणीभूतशक्यतावच्छेदकानुगमको न तु विशेषणीभूतेतिः न बुद्धिविशेषस्य शक्यतावच्छेदकांशे विशेषणतया शाब्दबोधे भानापत्तिः। न चैतावताऽनुगमकधर्मस्वीकारेऽप्यनेकशक्यतावच्छेदकत्वमस्त्येवेति नानार्थत्वापत्तिर्न गतेति वाच्यम् ? अनेकशक्यतावच्छेदककत्वं न नानार्थत्वम्, किन्त्वनेकशक्यतावच्छेदकताकत्वम् । यथा सूर्य्यत्वविष्णुत्वादिनिष्ठा हादिशब्दशक्यतावच्छेदकताभिन्नेति तेषां नानार्थत्वम् , तथा न प्रकृते, उपलक्षणीभूतबुद्धिविशेषस्यैकत्वेनानुगतधर्मावच्छिन्नशक्यतावच्छेदकताया एकत्वादिति भावः । ननु “प्रशंसायाम्" इति सूत्रभाष्ये-एका क्रियेति व्यवहारो दृश्यते तस्य कथमुपपत्तिः, यावता बहूनां व्यापाराणां भवन्मते विशेषधर्मपुरस्कारेण शक्यत्वादत आह-आख्यात इति । गुणभूतरिति । समूह प्रतीत्यादि। *अवयवैरिति । युक्त इति शेषः । अवयवानां गुणभूतत्वं च तत्तद्रूपेण भासमानत्वम् । *क्रमजन्मनामिति । इदं युगपदनुपस्थापने हेतुः । बुद्धया प्रकल्पिताभेदः*-सङ्कलनात्मकैकत्वबुद्धया प्रकल्पिताभेदः, इदं समूहस्य विशेषणम् । एतेन पूर्वापरीभूतावयवानां युगपदसन्निधानेनैका क्रियेति भाष्यीयव्यवहारासमतिरिति निरस्तम् । तिङन्तजन्यशाब्दबोधे धात्वर्थस्य प्राधान्येन भानात्तन्निरूप्य प्रत्ययार्थ वक्तुमुपक्रमते-*धात्वर्थमिति । *अन्यलभ्यत्वात्-धातुलभ्यत्वात् । 'अनन्यलभ्यो हि Page #44 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। तत्तच्छक्तिविशेषरूपमिति सुबर्थनिर्णये वक्ष्यते । नन्वनयोराख्यातार्थत्वे किं मानम् । प्रतीतेः-लक्षणया, आक्षे दर्पणः 'अनन्यलभ्यो हि शब्दार्थः' इति न्यायादिति भावः । एतेन कृतिमतो, व्यापारवतो वा कर्तुः शक्यत्वेऽनेककृतिव्यापाराणां शक्यताऽवच्छेदकत्वकल्पने गौरवमिति नैयायिकाद्युक्तं दूषणमस्मन्मताऽज्ञानविजृम्भितमिति सूचितम् । _ नन्वाश्रयस्य तिर्थत्वे आश्रयत्वं शक्यतावच्छेदकं वाच्यम् । तस्य च स्वरूपाऽभिन्नतया नानासम्बन्धाऽवच्छिन्नतया च नानात्वादननुगमोऽत आह-*शक्यतावच्छेदकं चेति । *वक्ष्यते इति* । अस्य द्वितीयार्थनिरूपणाऽवसर इति शेषः । तथा च तत्राऽखण्डोपाधिरूपस्थानुगतस्य वक्ष्यमाणत्वान्न तत्र नानात्वप्रयुक्तोदोष इति भावः मीमांसकादिमतं प्रबलप्रमाणेन निराकरिष्यन् कर्तृकर्मणोरक्तं तिङर्थत्वं व्यवस्थापयितुं शङ्कते-*नन्विति। ननु 'यद् यद् बोधकं तत्तदर्थकम्' इति नियमादाख्यातजन्यकर्तकर्मप्रतीतिरेव मानमत आह-*प्रतीतेरिति । सम्भवादित्यनेनान्वितम् । सम्भवहेतुमाह-*लक्षणयेति । नन्वाख्यातस्याऽऽश्रयलक्षकत्वे भावनाभानानुपपत्तिस्तदुपपत्तये तत्र तस्य शक्तिकल्पने तु नाश्रये लक्षणासम्भवो, युगपवृत्तिद्वयविरोधात् । भावनाश्रयत्वेन भावनाश्रये लक्षणायां तु भावनायाः प्राधान्यानुपपत्तिरत आह-*आक्षेपादिति । आक्षेपोऽनुपपत्तिस्तत इत्यर्थः । तथाहि-अन्विताभिधानवादिमते पदानां विशेषणत्वेनैवार्थोपस्थापकतयाऽऽख्यातार्थभावनाया विशेषणत्वाऽनुपपत्त्या भवति तस्या आश्रयाऽऽक्षेपकत्वम् । यद्वा अनुमानं सः । तत्प्रयोगश्च 'आख्यातपदबोध्या भावना, किञ्चिदाश्रिता, विशेषणत्वेन गृहीतशक्तिकत्वात्। घटपदबोध्यघटत्व परीक्षा शब्दार्थ' इति न्यायस्य सुप्रसिद्धत्वादिति भावः। एतेन कर्तरि कर्मणि वा आख्यातस्य शक्तिस्वीकारे बहूनां व्यापाराणां शक्यतावच्छेदकत्वे गौरवमिति यन्नैयायिकानां दूषणं तदस्मन्मताज्ञानविजृम्भितमिति ध्वनितम् । नन्वाश्रयत्वस्य शक्यतावच्छेदकत्वेऽपि तस्य निरूपकभेदेन नानासम्बन्धावच्छिन्नत्वेन च भेदागौरवं दुर्वारमेवेत्यत आह-*तत्तच्छक्तीति* । *सुबर्थनिर्णये*-द्वितीयार्थनिरूपणावसरे । एवं चाश्रयत्वस्याखण्डोपाधिरूपतया न नानाधर्मस्य शक्यतावच्छेदकत्वप्रयुक्तं गौरवमिति भावः । मीमांसकोक्तं परिहरन् स्वमतं व्यवस्थापयितुं शङ्कते-*नन्विति । *अनयोः*-कर्तृकर्मणोः। ननु यद्यदर्थबोधकं तत्तदर्थकमिति सामान्यतो व्याप्त्या कर्तकर्मप्रतीतिरेव मानं भविष्यतीत्यत आह-*प्रतीतेरिति* । *लक्षणयेति । ननु लक्षणाश्रये नोपपद्यते भावनाया भवन्मते आख्यातशक्यतया तस्याः शाब्दबोधे भानसिद्धये शक्त्या तत्प्रतिपादकत्वमपि वक्तव्यमिति युगपत्तिद्वयविरोध इत्यत आह-*आक्षेपादिति। आक्षेपोऽनुमानम्, तच्च भावना किञ्चिदाश्रिता धर्मवत्वात् , घटत्ववदित्याकारकस्य प्रयोगस्य तत्र सम्भवात्सम्भवति । एवं च भावना किञ्चिदाश्रितेत्यनुमितौ किञ्चित्पदार्थवृत्तित्वभाने आधेयतानिरूपकस्यापि भानेन यस्य तन्निरूपकत्वं स एव कत्तेति लभ्यते । ननूक्तानुमानरूपाक्षेपस्य न सम्भवः । अनुमितेा Page #45 -------------------------------------------------------------------------- ________________ १६ दर्पणपरीक्षासहिते भूषणसारेपात्, प्रथमान्तपदाद्वा संम्भवादिति चेद्- अत्रोच्यते-"लः कर्मणि च भावे चाऽकर्मकेभ्यः" (पा० सू० ३।४। ६६) इति सूत्रमेव मानम् । अत्र हि चकारात्,“कर्तरि कृद्" इतिसूत्रोक्तं कतरीत्यनुकृष्यते । बोधकतारूपां तिबादिशक्ति तत्स्थानित्वेन कल्पिते लकारे प्रकल्प्य, लकाराः कर्मणि कर्तरि चानेन विधी . दर्पणः . . वत्' इति । समानसंविसंवेद्यत्वं तु नाऽक्षेपः, प्रमेयमित्याश्रयभाने भावनाया अभानादू भावनापदजन्यभावनाबोधे आश्रयाऽभानाञ्चेति। . ननु व्याप्त्यादिप्रतिसन्धान विनाऽप्याश्रयबोधस्यानुभवसिद्धत्वान्नाक्षेपादाश्रयभानोपपत्तिः, क्वाचित्कत्वात् तथाभानस्य । किञ्चोक्तरीत्या तदानसमर्थने आख्यातजन्यबोधे भावनायाः प्रधान्यानुपपत्तिः शक्तिहे तस्या विशेषणत्वेनैवोपस्थितत्वाद् घटत्ववत्, पुतत्तत्वस्य विचाराऽसहत्वाञ्चेत्यत आह-*प्रथमान्तपदाद्वेति । समभिव्याहृतप्रथमाऽन्तचैत्रादिपदादेवाश्रयप्रतीत्युपपत्तेरित्यर्थः । एवञ्च नाश्रयप्रतीत्यनुपपत्तिराश्रये आख्यातशक्तिसाधिकेति भावः। . .. *मानमिति । यद्यप्याश्रयत्वेनाश्रयभानार्थ तत्राख्यातस्य शक्तिरावश्यकीत्येवोतरं वक्तुमुचितं, तथापिधातोः फलव्यापारयोः शक्तिराख्यातस्याश्रयत्वे शक्तिरिति मते आश्रयस्य आश्रयत्वेनापि लाभान्न सामान्यत आश्रये स्वाभिमताख्यातशक्तिः सिद्धयतीति तन्मतनिरासार्थमपि सूत्रमेव प्रमाणत्वेनोपन्यस्तमिति बोध्यम्। ननु कर्तृपदाघटितमिदं सूत्रं कथमाख्यातस्य कर्तृवाचकत्वे मानमित्याशङ्कां निरस्यति*अत्र हीति* । नन्वेतत्सूत्रं लकाराणामेव कादिशक्तिबोधकं नाख्यातस्येत्यत आह-*बोधकतारूपामिति* । बोधजनकत्वरूपामित्यर्थः । इदं चादेशिष्वेव शक्तिरादेशानामादेशिस्मृतिद्वारार्थोपस्थापकत्वमिति मतनिरासायेत्युक्तम् । यथा चैतत् परीक्षा तिज्ञानपरामर्शजन्यतया शब्दश्रवणे व्याप्त्यादिप्रतिसन्धानाभावेऽपि शाब्दबोधस्यानुभवसिद्धत्वादत आह-*प्रथमान्तपदावति । चैत्रः पचतीति वाक्यघटकं यत्प्रथमान्तं पदं चैत्र इत्यादि तेनाश्रयस्य प्रतीत्युपपत्तौ न तत्राख्यातस्य शक्तिः स्वीका येति भावः । *मानमिति* । अनुमापकमित्यर्थः । आख्यातम्-आश्रयशक्तम् , "ल: कर्मणि" इति सूत्रगृहीतशक्तिकत्वात् । अणादितद्धितवदिति । यद्यद्धर्मावच्छिन्नगृहीतशक्तिकपाणिनीयसूत्रकं भवति तत्तद्धर्मावच्छिन्नशक्तं भवतीति सामान्यतो व्याः तिः। ननु तत्र कर्तरीत्यस्याभावेन कथं तत्सूत्रगृहीतशक्तिकत्वरूपहेतुसिद्धिरत आह*अत्र हीति* । यद्यपि परमतस्य प्रथमान्तपदेन चैत्रत्वादिना चैत्रस्य लाभेऽप्याश्रयत्वस्य न लाभ इत्याख्यातस्य तत्र शक्तिः स्वीकाय्येत्येवमपि निराकरणं संभवतिः तथाऽपि अनन्यलभ्यत्वेनाश्रयत्वावच्छिन्न एव शक्तिरूपेण, नत्वाश्रयत्वावच्छिन्न इति यन्मतम्, तदप्यपाकर्तुमनुमानप्रदर्शनमेवं कृतम् । नन्वेतावता लकारस्य शक्तिः सिध्यति न त्वाख्यातस्येत्यत आह-*बोधकतेति* । बोधजनकत्वं शक्तिः सा च यो लौकिकशब्दसमवायी तत्र कल्प्यते इति भावः। इदं च स्थानिन्येव शक्तिः, आदेशा Page #46 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। १७ यन्ते । नकारविसर्गादिनिष्ठां . कर्मकरणादिबोधकताशक्तिमा. दाय शसादिविधानवत् । न च सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे। तथा च-कर्तृत्व-कृतिः कर्मत्वञ्च फलमेवार्थोऽस्त्विति शङ्कयम् । फलव्यापारयोर्धातुलभ्यत्वेन लकारस्य पुनस्तत्र शक्तिकल्पनाऽयोगात् । अथ दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र ल ___ दर्पणः तथा वक्ष्यते । *विधीयन्ते इति । तथा च वर्णस्फोटपक्षे श्रूयमाणवर्णानामेव वाचकताया व्यवस्थापयिष्यमाणतया "लः कर्मणि" (पा० सू० ३।४।६९) इत्यादिसूत्राणां तिबादिशक्तिग्रहे एव तात्पर्यावधारणेन सम्भवति तस्याऽख्यातशक्तिसाधकप्रमाणत्वमिति भावः । *नकारविसर्गादीति। रामान्' 'रामैः इत्यादा वित्यर्थः। *कर्तृकर्मपदे*इत्यस्यानुवृत्त्योपात्ते इत्यादिः । *कर्तृत्वकर्मत्वपरे इति । आकृतिशक्तिवादमभिप्रेत्य भावप्रधाननिर्देशाद्वेति भावः । *कर्तृत्वं कृतिरिति । जो यत्नवाचकत्वेन तत्प्रकृतिककत्रर्थकतृजन्तकर्तृशब्दस्य कृत्याश्रयवाचकतया तदुत्तरभावप्रत्ययेन प्रकृत्यर्थप्रकारीभूतकृतिरूपधर्मबोधनादिति भावः। *कर्मत्वं च फलमिति* । कर्मशब्दस्य धात्वर्थफलाश्रये पारिभाषिकत्वादिति भावः । *शड्यमिति । तथा च तत्सूबलान्न कर्तृकर्मणोराख्यातशक्तिः सिद्धयतीति भावः । ___ *दर्शनान्तरीयेति । दर्शनं शास्त्रं, न्यायादिः,अन्यद्दर्शनं दर्शनान्तरम्। तत्र भवा दर्शनान्तरीया। गहादित्वाच्छः। 'पचति' इत्यस्य पाकं करोतीति विवरणात् फलं पच्याद्यर्थः, तिङ्तु व्यापारवचन इति मीमांसका मन्यन्ते। तन्मते व्यापारस्यान्यल परीक्षा नां तु स्थानिस्मृतिजननद्वारा शाब्दबोधजनकत्वमिति परमतनिराकरणायेत्थमभिहितम् । ननु कृतित्वस्य जातिरूपत्वेन शक्यतावच्छेदकलाघवात्कृतावेव शक्तिसिद्धयर्थ कर्तृपदं कर्तृत्वपरमेवास्त्विति.चेद्? न । प्रवृत्तिनिवृत्तिजीवनयोनियत्नेष्वेकाकारप्रत्ययाभावेन न यत्नत्वस्य त्रितयसाधारणत्वे मानाभावात् , तथा च गौतमसूत्रम्-"समानप्रसवा जातिः" इति-समानं प्रसवो बुद्धिजननं यस्याः सेत्यर्थः । ननु कार्यत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकतया कृतित्वजातिसिद्धिरिति तदवच्छिन्ने आख्यातस्य शक्तिकल्पने लाघवमिति चेद ? न । प्राग्भावप्रतियोगित्वं हि कार्य्यत्वं तच्च ध्वंससाधारणम् । न च ध्वंसनिष्टकार्य्यतायामपि भावत्वावच्छेदकं वाच्यम् , तच्च न सम्भवति, ध्वंसं प्रति कृतित्वेन जनकतायां मानाभावेन व्यभिचारात् । यदि च समवायसम्बन्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकतया कृतित्वजातिसिद्धिरित्युच्यते, तदापि संयोगादिजनकतावच्छेदकतया सिद्धा या क्रियात्वजातिः, तामादाय विनिगमनाविरहेण न नियमः । तादृशकृतित्वावच्छिन्ने शक्तिसिद्धिरित्याशयेन नैयायिकमतमपि दूषयति-*न चेत्यादिना । न चेत्यस्य शङ्कयामत्यत्रान्वयः । *फलमिति । कर्मशब्दस्य फलाश्रये पारिभाषिकत्वादिति भावः। *अयोगादिति । तथा च "लः कर्मणि'' इति सूत्रं न तत्र शक्तिग्राहकमिति भावः। • *दर्शनान्तरीयरीत्येति । अन्यदर्शनं दर्शनान्तर; दर्शन शास्त्रं तन्त्र भवा दर्शना ३ द. ५० Page #47 -------------------------------------------------------------------------- ________________ १८ दर्पणपरीक्षासहिते भूषणसारेकारविधिः स्यादिति चेत् , तर्हि कृतामपि कर्तृकादिवाचित्वं न सिध्येत् । “कतरिकृद्" इति च,"लः कर्मणि" इत्यनेन तुल्ययोगक्षेमम् । अपि च मीमांसकानां कृतामिवाऽऽख्यातानामपि कर्तृवाचित्वमस्तु, भावनाया एवाऽऽक्षेपेण कृदादिवत् प्रतीतिसम्भवे वाच्यत्वं माऽ दर्पणः भ्यत्वाभावात्तत्र लकारविधौ न किञ्चिद् बाधकम् । यद्यप्युक्तरीत्या व्यापारे शक्तिसिद्धावपि फलशक्तिबोधकं कर्मणीत्यनुपपन्नमेव, तथाप्यभिधानाऽनभिधानव्यवस्थार्थ तदप्यावश्यकमेव, द्वेधा भानं तु कथञ्चित् परिहरणीयमिति भावः। *कृतामिति । कृत्संज्ञकानां ण्वुल्तृजादीनामित्यर्थः । ननु "कर्तरि कृत्” (पा० सू० ३।४।६७) इत्येव तत्र शक्तिसाधकमत आह-*कर्तरि कृदिति चेति । तत्सूत्रादेव च कर्तरीति अत्रानुवर्त्तते । तथा च पूर्वसूत्रस्थकर्तृपदस्य धर्मिपरत्वेऽत्राप्यनुवर्त्यस्य तस्य धर्मिपरत्वमेव । अत्र धर्मपरतायां तु तत्रापि धर्मपरतैव स्यात् । तदेवाह-*तुल्ययोगक्षेममिति* । अलब्धलाभो योगो, लब्धरक्षणं क्षेमम् । एवञ्च “लः कर्मणि" इत्यस्यानन्यलब्धभावनाया आख्यातार्थत्वप्रतिपादकत्वोपगमे न्यायसाम्यात् , “कर्तरि कृत्" (पा० सू० ३।४।६७ ) इत्यस्यापि कृतां भावनार्थत्वप्रतिपादकत्वम् । तस्या आक्षेपादेव लाभान्न कृतां तच्छक्तिप्रतिपादकं तदिति यदि, तर्हि "लः कर्मणि" ( पा० सू० ३।४।६९ ) इत्यपि नाऽख्यातस्य भावनाशक्तिप्रतिपादकमिति समानमित्यर्थः । - ननु पूर्वसूत्रस्थकर्तृपदस्य धर्मिपरत्वेऽप्यनुवृत्तस्य तस्य शब्दाधिकाराऽश्रयणेन धर्मपरत्वसम्भवान्नोक्तदोषः । यदि च शब्दाधिकाराऽऽश्रयणं सत्येव गमके, प्रकृते च तदाश्रयणे प्रमाणाभाव इति विभाव्यते, तदापि 'शाक्तः कारक' 'शक्तिमत्कारकम्' इति पक्षद्वयस्याप्याकरसिद्धतया तद्विकल्पस्य तिकृतोर्व्यवस्थितत्वाश्रयणादर्थाधिकाराश्रयणेऽप्यभिमतार्थलाभोऽक्षत एवेत्यत आह-*अपि चेति । तथा च विकल्पव्यवस्थाया एवाप्रामाणिकत्वेनैकार्थपरतैव न्याय्येति भावः। नन्वाख्यातस्य व्यापारावाचकत्वे कथं ततस्तबोधोऽत आह-*भावनाया इति* । *कृदादिवदिति । "तत्र तस्येव" ( पा० सू० ५।१।११६ ) इति वतिः। कृदादिस्थल इवेत्यर्थः। आदि परीक्षा न्तरीया । फलमात्रस्य धात्वर्थत्ववादिमतमाश्रित्येयमाशङ्का ।*न ।सद्धयेदिति । इष्टापत्तिरिति तु न, वक्ष्यमाणकर्त्रधिकरणसिद्धान्तभङ्गापत्तेः । “कर्तरि कृत्” इति सूत्रं तत्र तेषां शक्तिप्राहकमस्तीतिमतं निराकरोति-*कर्तरीत्यादिना* । *तुल्ययोगक्षेममिति* । कस्मादेव सूत्रात्कर्तरीति पदं “लः कर्मणि इत्यत्रानुवर्तते तच्च यदि "ल: कर्मणि"इति सूत्रे कर्तृत्वपरम् तदा पूर्वसूत्रेऽपि तथैव स्यादिति कृतां कर्तरि शक्तिसाधकं न भविष्यतीति भावः।। ___ ननु पूर्वसूत्रस्थं कर्तृपदं कर्त्तपरमेवास्तु, इह तु शब्दाधिकाराश्रयणात्कत्तत्वपरं भविष्यतीत्यतआह-अपि चेति*। *अस्त्विति । शब्दाधिकारस्य गुरुत्वेन यत्र विशिष्य किञ्चित्साधकमस्ति तत्रैव शब्दाधिकाराश्रयणमन्यत्र सर्वत्राधिकार एवेति भावः । नन्वेवं भावनायाः प्रतीतिर्न स्यात्फलमात्रस्य धात्वर्थत्वादत आह-*भावनायाइति । ननु भावना आख्यातवाच्यैव न तु कर्त्तराख्यातवाच्यत्वं, तथासति भावनाया आक्षे Page #48 -------------------------------------------------------------------------- ________________ ......धात्वर्थनिणयः।.. स्तु । तथा सति प्राधान्यं तस्या न स्यादिति चेत् ? न । घटमानयेत्यादावाक्षिप्तव्यक्तरपि प्राधान्यवदुपपत्तेः। पचतीत्यादौ पाकं करोतीति भावनाया विवरणदर्शनाद्वाच्यत्वमिति चेद् ? न । पाकानुकूलव्यापारवतः कर्तुरपि विवरणविषयत्वाऽविशेषात् । न च कर्तुर्विवरणं तात्पर्याऽर्थविवरणं, पाकं करोतीत्यशब्दार्थकर्मत्वविवरणवद्, इतरेतरयोगद्वन्द्वे समुच्चयांशविवरणवद्वा, न तदर्थनिर्णायकमिति वाच्यम् । भावनायामपि तुल्यत्वात् । दर्पणः पदात् कर्त्तविहिततद्धित इत्यादेः परिग्रहः । तथा च यथा भवन्मते धातोर्व्यापारावाचकत्वेन कृदर्थक क्षिपभावनाया बोधविषयत्वं; तथाऽऽख्यातेऽपीति भावः। *तथा सतीति । भावनाया आख्यातावाच्यत्वे सतीत्यर्थः । *तस्याः*-भावनायाः। *प्राधान्यम्-मुख्यविशेष्यत्वम् । *घटमानयेति । 'जातिः पदार्थः' इति मते जात्याक्षिप्तव्यक्तेर्यथा प्राधान्यम्; तथा काक्षिप्तभावनाया अपि प्राधान्यमुपपत्स्यत इत्यर्थः । शक्तिग्राहकेषु परिगणिताद्विवरणाद्भावनावाचकत्वमाख्यातस्याऽऽयास्यतीत्याशङ्कते-*भावनाया इति । विवरणेति । तत्समानार्थकपदाऽन्तरेण तदर्थकथनस्य विवरणतया, प्रकृते पचतीत्यस्य पाकभावनेत्याख्यातस्य भावनापदेन विवरणात्तस्य भावनावाचकत्वमित्यर्थः। विवरणस्य स्वस्वबोधानुसारितया, न तेनाऽर्थनिर्णय इत्याह-*पाकाऽनुकूलेति ॥पचतीत्यस्यैककर्तृका पचिक्रियेति कर्तुविवरणस्याऽपि दर्शनेनाऽऽख्यातस्य भावनायां शक्तिरुत कर्त्तरीत्यत्र विनिगमकाऽभावादिति भावः । *इतरेतरयोगद्वन्द्व इति ॥ समाहारद्वन्द्वे, उत्तरपदलक्ष्याऽर्थसमाहारस्य चशब्देन विवरणादुक्तमितरेतरेति । धवखदिरावित्यादिद्वन्द्वघटकपदाऽशक्यसाहित्यस्य विग्रहवाक्यस्थचशब्देन विवरणवदित्यर्थः । इदं चाऽन्वयप्रयोजकरूपवत्त्वं योग्यता। एवञ्च ‘घटेन जलमाहर' इत्यत्र जलाऽऽहरणप्रयोजकतया छिद्रेतरत्ववत् प्रकृते द्वित्वाऽन्वयप्रयोजकतयाऽपदार्थसाहित्यस्यापि भानमित्यभ्युपेत्योक्तम् । तत्र साहित्यस्य द्वित्वाऽऽद्यतिरिक्तस्याऽननुभवात्तस्य द्विवचनादिनैवोपस्थितेन तत्र समासघटकप्रत्येकपदवृत्तिः । तस्यैव चेन विवरणमिति मताऽन्तरन्तु वक्ष्यते-*तुल्यत्वादिति । भाव परीक्षा पस्य वाच्यतया कृदन्त इव आख्यातस्थलेऽपि तस्या अशब्दार्थत्वेन प्राधान्यं न स्यादित्याशङ्कय समाधत्ते-*तथासतीत्यादिना* । *आक्षिप्तेति । जातावेव तन्मते शक्तिस्वीकारात् । ननु पचतीत्यस्य पाकानुकूलाभावनेति विवरणं दृश्यतेः तत्समानार्थकपदान्तरेण तदर्थकथनं हि विवरणम्, तच्चाख्यातस्य भावनार्थकत्व एवोपपद्यत इत्याशयेनाह-*पचतीत्यादाविति । *कर्तुरपीति । पचतीत्यस्यैककर्त्तका पचिक्रियेति विवरणस्य सर्वसम्मतत्वात्। ननु कर्त्त विवरणं नवाच्यार्थविवरणमिति दृष्टान्तेनाशय निराचष्टे-*न चेति । पचतीत्यस्य पाकं करोतीति विवरणमपि कैश्चित्क्रियते तन्मतेनायं दृष्टान्तः । *इतरेतरयोगद्वन्द्व इति ।धवखदिरावित्यादिद्वन्द्वघटकशब्दानां साहित्ये यद्यपि शक्ति स्तिः तथाऽपि चकारेण तस्य विवरणं दृश्यते, समाहारद्वन्द्वे तूत्तरपदस्यल Page #49 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे... किञ्च-पचति देवदत्तः' इत्यत्राऽभेदान्वयदर्शनात्तदनुरोधेन कतुर्वाच्यत्वमावश्यकम् । पक्ता देवदत्त इतिवत् । न चाऽभेदबोधे समानविभक्तिकत्वं नियामकम् । तञ्च तत्र नास्तीति वाच्यम् । . दर्पणः नापदेनाऽऽख्यातस्य विरणमप्यपदार्थविवरणमित्यस्यापि वक्तुं शक्यत्वादित्यर्थः । स्वस्वबोधाऽनुसारिविवरणस्य नाऽर्थनिर्णायकत्वमित्यप्युभयोः समानमिति भावः । नन्वाख्यातस्य कर्त्तवाचित्वे तदाक्षिप्तभावनायाः प्राधान्याऽनुपपत्तिः । नचाsकृतिवादे जात्याक्षिप्तव्यक्तिवत् प्राधान्यमुपपादितमेवेति वाच्यम् । दृष्टान्तदाान्तिकयोवैषम्यात् , तथा हि कर्ना स्वस्वरूपनिरूपकतया भावनाऽऽक्षेप्तव्या, भावनाविरहिणः कर्त्तत्वासम्भवात् । ततश्च धर्मिग्राहकमानसिद्धगुणत्वेन प्राधान्याऽसम्भवः, कृतीव, जात्या तु परिच्छेद्यतयाऽवगतस्य द्रव्यस्य तथैवाऽऽक्षेपाद् भवति तस्य प्राधान्येन भानमिति प्राधान्याऽनुरोधाद्भावनाया वाच्यत्वमावश्यकमित्यता दूषणाऽन ऽन्तरमाह-*किञ्चेति । *अभेदाऽन्वयदर्शनादिति। देवदत्ताभिन्नैककर्तृको वर्तमानो व्यापार इत्याकारकबोधस्याऽऽकरसम्मतत्वादित्यर्थः। *तदनुरोधेनेति। अभेदाऽन्वयाऽनुरोधेनेत्यर्थः । *आवश्यकमिति । अन्यथाऽनुभूयमानतादृशबोधाऽपलापाssपत्तिरिति भावः । *नियामकमिति* । तद्विभक्त्यन्तनामार्थनिष्ठाऽभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति तद्विभक्त्यन्तपदजन्योपस्थितिहेतुत्वस्य, नीलो घट इत्यादौ क्लप्तत्वादित्यर्थः । *तच्चेति । अभेदान्वयबोधकप्रयोजकसमानविभक्तिकत्वं चेत्यर्थः । तत्र*-देवदत्तः पचतीत्यादौ। तादृशनियमे व्यति परीक्षा क्षणया समाहारप्रतिपादकतेति भावः। *भावनायामपीति । भवन्मते भावना न धातुवाच्या, तस्याः प्रतीतिस्तु भवतीति तस्याः अपदार्थभूताया विवरणमित्यपि वक्तुं शक्यमिति भावः। नन्वाख्यातस्य कर्तवाचकत्वे भावनायाः प्राधान्यं न स्यात् । आक्षिप्ताया भावनाया गुणत्वात्, जात्याक्षिप्तव्यक्तेस्तु परिच्छेद्यत्वेन सम्भवति प्राधान्यमत आह*किञ्चेति । *दर्शनादिति। देवदत्तादिभिन्नैककर्तृको वर्तमानो विक्लित्यनुकूलो व्यापार इत्याकारकस्य शाब्दबोधस्यानुभवसिद्धत्वात् । *आवश्यकमिति । पदप्रतिपाद्यस्यार्थस्य पदबोध्यार्थे प्रकारतया भानस्य सर्वत्र दर्शनात्कर्तुंर्वाच्यत्वमावश्यकम् । अत एव पचतीति शब्दजन्यबोधे सति कः कीदृश इति प्रश्नोः देवदत्तो घनश्याम इत्युत्तरं च सङ्गच्छते तत्र दृष्टान्तमाह-*पक्ता देवदत्त इतिवदिति* । पाकक–भिन्नो देवदत्त इत्याकारकस्य शाब्दबोधस्य ततो जननवदित्यर्थः। *अभेदबोध इति* । अभेदसम्बन्धावच्छिन्नप्रकारतान्वयबोधे इत्यर्थः । *समानविभक्तिकत्वम्-विशेष्यवाचकस्य शब्दस्य विशेषणवाचकशब्दोत्तरविभक्तिसजातीयविभक्तिकत्वम् । नियामकमिति* । नीलो घट इत्यस्मादिव नीलस्य घट इति शब्दादभेदान्वयबोधो न जायत इत्यतोऽभेदसम्बन्धावच्छिन्ननामार्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे विशेष्यवाचकस्य विशेषणवाचकोत्तरविभक्तिसजातीयविभक्तिकत्वज्ञानं कारणमिति कार्यकारणभावस्यावश्यकत्वादिति भावः । तादृशकार्यकारण Page #50 -------------------------------------------------------------------------- ________________ - धात्वर्थनिर्णयः। 'सोमेन यजेत' 'स्तोकं पचति' 'राजपुरुष' इत्यादावष्यभेदबोधाऽनाप दर्पणः रेकव्यभिचारस्थलानि दर्शयति-*सोमेनेत्यादिना । । ___ नन्वत्र यागे सोमस्य करणत्वेनैवान्वयात् कथमुक्तनियमस्य व्यभिचार इति चेद् ? न।सोमस्य यागभावनायां करणत्वेनाऽन्वये यागस्यापि तत्र करणत्वेनैवाऽन्वयात् 'सोमेन यागेनेष्टं भावयेद्' इत्युभयविधाने वाक्यभेदप्रसङ्गः । सोमस्य यागवत् फलभावनाकरणत्वेन प्राधान्यापत्तिः, यागार्थत्वानुपपत्तिः, प्रत्ययवाच्यफलभावनायाः समानपदोपात्तयागेनैव करणाकालानिवृत्तेविभिन्नपदोपात्तस्य सोमस्य करणत्वेनाऽन्चयानुपपत्तिश्च । 'सोमेन यागम्' इत्यन्वयाभ्युपगमे यद्यपि सोमस्य न यागार्थत्वानुपपत्तिः करणत्वेनैवान्वयात् , तथापि प्रत्ययार्थभावनाकरणत्वेन उपस्थितस्य साध्यत्वेनाऽन्वयानुपपत्तिर्दुष्परिहरैवेति सोमपदस्य मत्वर्थलक्षणया 'सोमवता यागेनेष्टं भावयेत्' इति विशिष्टार्थविधानाद्वाक्यभेदप्रसङ्गो नेति मीमांसकसिद्धान्तः । तत्र चोक्तनियमे व्यभिचारो दुर्वार इति भावः। *स्तोकं पचतीति । अत्रापि धात्वर्थव्यापारजन्यफलसम्बन्धिनि फले विभिन्नविभक्तिकस्तोकपदार्थस्याभेदान्वयादित्यर्थः । ननु समानविभक्तिकत्वं नामाऽर्थयोरेवाऽभेदाऽन्वयबोधे प्रयोजकम् । अत एव व्युत्पत्तौ द्विवचनस्यैवोल्लेखः। नामत्वं च वक्ष्यते । प्रकृते चाऽनुयोगिप्रतियोगिनोर्नामार्थत्वाभावानोक्तदोषोऽत आह-*राजपुरुष इति । परीक्षा भावे व्यभिचारमाह-*सोमेनेत्यादिना* । सोमाभिन्नेन यागेनेष्टम्भावयेदित्याकारकस्य शाब्दबोधस्यानुभवसिद्धत्वात् । न च यागरूपायां भावनायां सोमस्य करणतया बोधोऽस्त्विति न व्यभिचार इति वाच्यम् । सोमस्य तत्र करणत्वेनान्वये यजधात्वर्थफलस्य यागस्यापि करणत्वेनान्वयात् । एककरणावरूद्ध करणान्तराकाङ्क्षाया अभावेन सोमेन यागं भावयेत् , यागेनेष्टं भावयेदित्याकारको बोधः स्यात् , तथा च वाक्यभेदस्यापत्तिरिति सोमपदार्थोऽपि याग एव वाच्यः सोमादिपदानां ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्रेव नामधेयपरत्वात् । एवं प्रत्ययवाच्यभावनायाः समानपदोपातत्वाद्धात्वर्थफलेनैव करणतयाऽन्वयेन करणाकाङ्क्षाशान्तेविभिन्नपदोपात्तस्य सोमस्य तत्रान्वय एव न स्यादित्यभिप्रायात् । न च सोमस्य धात्वर्थफलेऽभेदेनान्वयस्वीकारे सोमपदात्तृतीयानुपपत्तिः क्रियाविशेषणानां कर्मत्वादिति वाच्यम् ? यत्र फलस्य कर्मतयान्वयविवक्षा तत्रैव तद्विशेषणवाचकादू द्वितीयाः यत्र तु फलस्यैव करणतया भावनां प्रति अन्वयः, तत्र तत्समानाधिकरणपदात्तृतीयाया न्याय्यत्वात्।नच फलस्य व्यापारोत्तरकालिकत्वेन कथं तत्र करणत्वमिति वाच्यम् ? भावनाभाव्यनिवर्तकत्वरूपपारिभाषिककरणत्वस्य विवक्षितत्वात् । तत्र “करणे यज" इतिसूत्रमेव मानम् । स्थलान्तरेऽप्युक्तकार्यकारणभावे व्यभिचारोऽस्तीत्याह-*स्तोकं पचतीति । अत्र स्तोकपदार्थस्य फले कर्मणि, अभेदेनान्वयो दृश्यते, विशेष्यवाचकस्य धातोः समानविभक्तिकपदोपस्थाप्यं तु नास्तीति व्यभिचार इति भावः । नन्वभेदसम्बन्धावच्छिन्ननामार्थनिष्टप्रकारतानिरूपितनामार्थनिष्ठविशेष्यताशाली यत्रान्वयबोधस्तत्रैवोक्तं समानविभक्तिकत्वं नियामकमिति बम इति:नोक्तस्थले व्यभिचार इत्यत आह-*राजपुरुष इति । Page #51 -------------------------------------------------------------------------- ________________ २२ दर्पणपरीक्षासहिते भूषणसारे - त्तेः । न च लक्षणया कर्त्तुरुक्तत्वात्सामानाधिकरण्यम् । पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वाऽनापत्तेः । एवं वैश्वदेवीत्यादितद्धि दर्पणः ९. यद्यपि "सोमेन यजेत" इत्यत्रेव "देवदत्तः पचति" इत्यत्रापि समानविभक्तिकत्वस्याऽतन्त्रतयाऽभिमतबोधान्वयानुरोधात् कर्तृवाचित्वं सिद्धमेव, तथाऽपि व्युत्पत्तेमार्थद्वयविषयकत्वेऽपि व्यभिचारो दुरुहर एवेत्याशयेन नामार्थद्वयस्थलमुपात्तम् । नैयायिकमतेन चेदम् । तैः कर्मधारये षष्ठीतत्पुरुषे च पूर्वपदशक्यलक्ष्यान्यतरस्योत्तरपदार्थेऽभेदान्वयोपगमात् । स्वमते तु जहत्स्वार्थवृत्त्यभ्युपगमेन पूर्वोत्तरपदार्थयोरन्वयस्यैवाऽभावेनोक्तव्युत्पत्तेरप्रसरा दिति बोध्यम् । इदमुपलक्षणं षष्ठयर्थबहुव्रीहेरपि ॥ अपरे तु — उक्तव्युत्पत्तौ नामांशेऽसमस्तत्वस्यापि विशेषणान्नोक्तस्थले व्यभिचार इत्याहुः अधिकम वक्ष्यते । सामानाधिकरण्यमिति । पदयोरेकार्थाऽभिधायित्वमित्यर्थः । *यौगिकानामिति । योगोऽवयववृत्तिस्तन्मात्र पुरस्कारेण प्रवृत्तानामित्यर्थः । * द्रव्यवाचित्वाऽनापत्तेरिति । धर्मिशक्तत्वाऽनापत्तेरित्यर्थः । * एवमिति । लक्षणयैव सामानाधिकरण्योपपादने इत्यर्थः । इत्थमेवेति वार्थः । *वैश्वदेवीत्यादीति । द्रव्यवाचित्त्वाऽनापत्तेरित्यनुषज्यते । तथा च बलाबलाऽधिकरणोच्छेदाऽपत्तिरिति भावः । । तथाहि - "तते पयसि दध्यानयतिसा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्" इति श्रूयते । अत्रायं संशयः- किमनया श्रुत्याऽऽमिक्षावाजिनोभयगुणकमेकं कर्म विधीयते ? अथवा तत्तद्गुणदेवताभिन्नं कर्मद्वयम् ? इति । वाजेनान्नेनाऽऽमिक्षारूपेण सम्बन्धाद्वाजिनो विश्वे देवाः, ताननूद्य वाजिनगुणो विधीयते । तेनोभयगुणकं वैश्वदेवमेकं कर्मेति । पूर्वपक्षे, वैश्वदेव्यामिक्षा' इत्यत्र तद्धितस्य देवतासम्बन्ध्यर्धकतया श्रौतः सम्बन्धो, 'वाजिभ्यो वाजिनम्' इत्यत्र तु वाक्येन सः । सत्यामपि पदान्तरापेक्षायां परीक्षा नैयायिकसम्मतशाब्दबोधे न व्यभिचारोऽत्र दर्शितस्तेषां मते हि तत्पुरुषसमासे पूर्व - पदस्य विग्रहवाक्ये श्रूयमाणा या पूर्वपदाद्विभक्तिस्तदर्थ विशिष्टलक्षणायाः सत्वात् । एवं च प्रकृते राजपदलक्ष्यार्थस्य राजसम्बधिनोऽभेदेन पुरुषेऽन्वयदर्शनेन व्यभिचारो द्रष्टव्यः, विभक्तेः साजात्यं च विभक्तिविभाजकधर्मेण प्रथमान्तत्वादिना बोध्यम् । *लक्षणया*—आख्यातस्य लक्षणया । युगपदवृत्तिद्वयविरोधश्चाप्रामाणिक इति भावः । स्वमतरीत्या समासादिवृत्तावेकार्थीभावस्य स्वीकारात्, लक्षणाया अभावान्न राजपुरुष इत्यत्र व्यभिचारः; राजसम्बन्धिपुरुषे राजपुरुषेति समुदायस्य शक्तिस्वीकारात्, किन्तु स्तोकं पाक इत्यादौ व्यभिचारः, यदि च 'नामार्थयो:' इति व्युत्पत्तौ नामार्थत्वं नामजन्यप्रतिपत्तिविशेष्यत्वमुच्यते तदा प्रकृते प्रकृतिप्रतिपाद्यक्रियायामन्वयात्, घजर्थस्य सिद्धावस्थापन्नार्थस्य विशेष्यत्वात्तत्र स्तोकपदार्थानन्वयान्न व्यभिचार इति विभाव्यते, तदा स्तोकं पक्त्वा व्रजतीत्यत्र व्यभिचारो द्रष्टव्यः । *लक्षणयेत्यादि । भावनया शक्तस्याख्यातस्य भावनाश्रये लक्षणया द्वयोः सामानाधिकरणमित्यर्थः । * यौगिकानाम्* । योगोऽवयवशक्तिस्तन्मात्रपुरस्कारेण वृत्तानाम् । *अनापतेरिति । तथा च सिद्धान्ते भवदीये यत्स्ववाच्यवाच्ये द्रव्येऽरुणादिपदप्रतिपाद्यस्या Page #52 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। तान्तानामपि । “अनेकमन्यपदार्थ, "साऽस्य देवता" इत्यनुशासनेन पिङ्गे अक्षिणी यस्याः, विश्वे देवा देवता अस्याः इति विग्रहदर्शनात् प्रधानषष्ठयर्थ एव अनुशासनलाभात् । ___ दर्पणः स्वाभिन्नार्थकपदस्यैवापेक्षणान्न श्रौतत्वबाधः सम्बन्धस्य । यत्र तु भिन्नार्थकपदापेक्षा तत्रैव वाक्यस्य विनियोजकत्वात्। एवञ्च-"वैश्वदेव्याऽऽमिक्षा" इत्येतद्विहितवैश्वदेवयागानुवादेन न वाजिनगुणविधानम्,श्रौतद्रव्येण निराकाङ्क्षत्वात् । किन्तु कर्मान्तरविधिः। “वाजिभ्यः इति चापूर्वदेवताविधानमिति राद्धान्तः। यदि च तद्धितस्य देवतासम्बन्धे एव शक्तिस्तदा वाजिनाऽऽमिक्षयोर्वाक्यविनियोज्यस्य साम्यादामिक्षाद्रव्ये देवतासम्बन्धस्य श्रौतत्वमिति सिध्यान्तव्याकोपः । लक्षितद्रव्यमादाय देवतासम्बन्धे श्रौतत्वसम्बन्धात्तदनुपपत्त्यभावेन तद्धितस्य द्रव्यार्थकत्वकल्पनमत्ययुक्तं स्यादिति। ... *अनुशासनलाभादिति । उपलक्षणमिदं, युक्तेरपि । तथाहि घटपदाद् घटप्रकारकबोधवद्दण्ड्यादिपदाद्दण्डसम्बन्धवानिति प्रतीतिः सर्वसिद्धा । तत्राऽऽकृत्यधिकरणन्यायेन सम्बन्धमात्रं मतुबादिवाच्यं स्यात् । अत एव 'देवदत्तस्य गोमत्त्वम्' इत्यत्र त्वप्रत्ययस्य सम्बन्धबोधकत्वं सङ्गच्छते । घटत्वमित्यादौ प्रकृत्यर्थघटत्वबोधकत्ववत् प्रकृतिजन्यबोधकप्रकारस्य भावप्रत्ययार्थत्वाद् ; विशेषस्य संसर्गस्य कथं ततो बोध इति तु नाऽऽशङ्कनीयम् । यतस्तस्य स्वाक्षिप्तव्यक्त्यंशे प्रकारतयैव भानात् । एवं मत्वर्थविहितबहुव्रीहेरप्येकं हायनमस्या इति विग्रहे, देवतार्थकतद्धितस्यापि विश्वेदेवा देवता अस्या इति विग्रहे च प्रत्ययार्थसम्बन्धस्यैव प्राधान्यदर्शनात् तस्यैव वृत्तिवाच्यत्वनिर्णयः। उक्तञ्च यस्मिन्नन्यपदार्थे च बहुव्रीहिर्विधीयते । तस्याऽपि प्रत्ययार्थत्वात् सम्बन्धस्य प्रधानता ॥ इति । - नच गोमानित्यादौ सम्बन्धिप्रतीत्यनुपपत्तिः। उभयाऽऽश्रितेन सम्बन्धेनाऽऽअपात्तदुपपत्तेः । तव कर्तृवत् सन्बन्धवच्च । नचाऽसत्त्वभूतसम्बन्धस्यैव विभक्त्यर्थ परीक्षा न्वयप्रतिपादनं तद्विरोध इति भावः। *एवम्-समासवत्। तद्धितान्तानामपीति* । द्रव्यवाचित्वानापत्तेरिति शेषः । एवं च बलाबलाधिकरणे-'तप्ते पयसि दद्ध्यानयति सा वैश्वदेव्यामिक्षावाजिभ्यो वाजिनम् इत्यत्र वाजेनामिक्षारूपेण सम्बन्धाद्वाजिनो विश्वे देवास्ताननूद्य वाजिनं गुणो विधीयते, तेनोभयगुणकमेकं कर्मेति पूर्वपक्षे वैश्वदेव्यामिक्षेत्यत्र “साऽस्य देवता इति सूत्रविहिततद्धितस्यदेवताविशिष्टद्रव्याभिधायकतयाआमिक्षायास्तत्र श्रौतः सम्बन्धः। न चामिक्षाऽपि पदान्तरेण प्रतिपादितेति वाक्यीयत्वमेव तस्या इति वाच्यम् ? स्वाभिन्नार्थकपदान्तरापेक्षणेऽपि श्रौतत्वमिति सिद्धान्तात् । एवं च वैश्वदेव्यामिक्षेति वाक्यबोधितयागानुवादेन वाजिनगुणविधानं न युक्तम् , वाक्यापेक्षया श्रुतेर्बलवत्वात् , वाक्यस्य दुर्बलत्वाच्छौतद्रव्येणैव निराकाङ्कत्वान्न वाजिनगुणविधानमितियुक्त किन्तु वाजिभ्यो देवतान्तरेभ्यो वाजिनविधानमिति कर्मान्तरमेवैतदिति सिद्धान्तितम् । द्रव्यवाचित्वाभावे तद्विरोध इति भावः । भवन्मते त Page #53 -------------------------------------------------------------------------- ________________ २४ दर्पणपरीक्षासहिते भूषणसारेतथा च "अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति" इति वाक्ये द्रव्याऽनुक्तेरारुण्यस्य स्ववाक्योपात्तद्रव्ये एवाऽन्वयप्रतिपादकाऽरुणाधिकरणोच्छेदाऽऽपत्तिः । द्रव्यवाचकत्वसाधकमूलयुक्तः दर्पणः तया तद्विहितमतुबादेस्तादृशसम्बन्धबोधकत्वे तत्र लिङ्गसंख्याऽनन्वयाऽऽपत्त्या सत्त्वभूतसम्बन्धे एवानुशासनाऽऽदरेण शक्तिरभ्युपेया। एवञ्च द्रव्यमेवार्थो मत्वर्थीयस्यास्तु, सम्बन्ध आक्षेपलभ्य एव किं न स्यात् । किञ्च मतुबादेः सम्बन्धसामान्यार्थकत्वे तस्य सम्बन्धादिपदपव्यताऽऽपत्त्या सम्बन्धविशेषार्थकत्वमेवोररीकरणीयम् । तत्त्वं चाऽनुयोगिप्रतियोगिविशेषनिरूप्यत्वम् । तथावैकस्य निरूपकस्य प्रकृत्या लाभेऽप्यनुयोगिरूपनिरूपकमानार्थे तत्र शक्तिकल्पने त्वतीव गौरवमिति वाच्यम् । मतुबादेऽसत्त्वभूतसम्बन्ध एव वाच्यः । अत एव सम्बन्धानामनेकत्वेऽलिङ्गकत्वेऽपि च दण्ड्यादिशब्दानामेकवचनान्तत्वं नानालिङ्गकत्वं च । सम्बन्धिनां तथात्व एव ता. दृशप्रयोगदर्शनात् । तथाच मतुबर्थसन्बन्धे लिङ्गाद्यन्वयासम्भवात्तैरेवाऽऽक्षेपः सम्बन्धिनः, आख्यातार्थसंख्ययेव कर्नादेः। वस्तुतस्तु लिङ्गसङ्ख्याऽनन्वयित्वरूपासत्त्वभूतत्वमपि षष्ठयर्थादावार्थसिद्धम् । प्रत्ययार्थलिङ्गसङ्ख्यादेः प्रत्ययार्थ एवाऽन्वयायोगात् 'प्रत्ययानाम्-" इति व्यु. त्पत्तेश्च । तस्मान्नासत्त्वभूतसम्बन्धः षष्टीवाच्यः।। यत्तु-अनुयोगिरूपनिरूपकभानार्थ द्रव्ये शक्तिकल्पने गौरवमिति ; तदपि न । सम्बन्धप्रत्यक्षे हि यावदाश्रयभानापेक्षा, न शाब्दे, येन तच्छक्तिकल्पनागौरवं सम्भाव्येत । तस्मात् तत्र मतुबादेः शक्तौ न किञ्चिदू बाधकमिति । प्रपञ्चितं चैतदधिकमन्यत्र । ___ एवञ्चैकहायन्यादिपदानां सम्बन्धवाचकतायामनुशासनस्य तदुपष्टब्धानेकयुक्तीनां च सत्वात्तत्रैव शक्तिः सिद्धयेन्न सम्बन्धिनीत्यखण्डार्थः।। ___ *तथाचेति ॥ सामानाधिकरण्यस्य लक्षणयैवोपपादन इत्यर्थः ॥ *अरुणाधिकरणेति ॥ तथाहि "अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति" इति श्रूयते। तत्र किमरुणिमा वाक्यं भङ्क्त्वा प्रकरणे निवेशनीयः ? किं वा क्रीणातिना सम्बध्यते ? इति संशये, क्रीणातिना सम्बध्यमानस्तद्योगात् क्रयणकरणं स्याद् , न चाऽमूर्तस्य न युक्तमिति नास्य क्रयणसम्बन्ध इति पृथगेव प्रकरणे निवेशनीय इति पूर्वपक्षः। सिद्धान्तस्तु-सम्भवति सन्निहितपदार्थान्वये प्रकरणनिवेशानौचित्यात् । पिङ्गाक्ष्यादिपदानां द्रव्यवचनतया तस्मिन्नन्वयसौलभ्येन पदद्वारा क्रीणात्यर्थेनाऽपि समन्वयलाभाद् वाक्यघटकत्वमेव तस्येति । स चाऽनुपपन्नः पिङ्गाक्ष्यादियौगिकानां पदानामुक्तयुक्त्या सम्बन्धार्थकतया द्रव्यस्य तैरनुपादानात् । किञ्च-पूर्वपक्षोऽप्यनुपपन्नः। पिङ्गाक्ष्यैकहायनीशब्दार्थसम्बन्धस्याप्यमूर्तत्वात् क्रीणातिकरणत्वाऽसम्भवेन क्रीणातिकरणत्वस्यैतद्वाक्यादलाभादरुणस्यैव वाक्यभेदशङ्कायां मूलशैथिल्याच । बहुव्रीह्योररुणपदस्य च लाक्षणिकद्रव्यविधायकताया अविशिष्टत्वेन बहुव्रीह्यादेरेव द्रव्यविधायकत्वं, नारुणपदस्येत्यत्र विनिगमकाभावात् । अधिकमग्रे वक्ष्यते । . Page #54 -------------------------------------------------------------------------- ________________ २५ धात्वर्थनिणयः। सामानाधिकरण्यस्योक्तरीत्योपपत्तेरिति प्रपञ्चितं विस्तरेण बृहद्वैयाकरणभूषणे ॥ *तिङः इति । बोधकतारूपा शक्तिस्तिक्ष्वेवेत्यभिप्रेत्येदम् । पदार्थ निरूप्य वाक्याथै निरूपयति-*फले इत्यादि । विक्लि - दर्पणः *उक्तरीत्येति । सम्बन्धिलक्षणाकल्पनेनेत्यर्थः । *प्रपञ्चितमिति* । प्रपञ्चस्तूक्तप्रायः । *भूषणे इति । प्रकृतस्थले समासशक्तिनिरूपणाऽवसरे चेत्यर्थः। ‘पदार्थ निरूप्या इत्यनेन पदार्थनिरूपणानन्तरं वाक्यार्थनिरूपणे तयोः सङ्गतिः सूच्यते। तत्फलं तु पूर्वापरग्रन्थैकवाक्यप्रतिपत्तिरेकप्रयोजनवती ज्ञानफलिका। केचित्तु उन्मत्तप्रलपितेत्याशङ्कानिदानासङ्गतत्वज्ञाननिरासः प्रयोजनमित्याहुः । सा चाऽनन्तर्याऽभिधानप्रयोजकजिज्ञासाजनकतावच्छेदकधर्मरूपा षड्विधा । तदुक्तम् सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा। निर्वाहकैककार्यत्वे पोढा सङ्गतिरिष्यते ॥ इति । तत्र प्रकृतसिद्धयनुकूलचिन्ताकालावच्छिन्नप्रकृतानुकूलत्वमुपोद्घातः । अनुकूलत्वं चात्र घटकत्वज्ञापकत्वादिरूपं यथायथं ग्राह्यम् । तत्रावच्छेदकांशः स्वरूपः सन् , इतरांशश्च ज्ञाने उपयोगी, एवमग्रेऽपि । स्मृतिकालावच्छिन्नोपेक्षानहतावच्छेदकधर्मवत्वं प्रसङ्गः । हेतुता-प्रसिद्धा। प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तिकालावच्छिन्ना. वश्यवक्तव्यत्वमवसरः। निर्वाहकत्वम्-एककार्यजनकत्वं कारणतदवच्छेदकसाधारणप्रयोजकत्वरूपम् । 'एककार्य्यत्वम्'-एकस्य कार्यता साच जन्यता, जन्यज्ञानविषयत्वरूपा चेति । उदाहरणानि कानिचित्त्वत्रैव वक्ष्यन्ते। अन्यानि तु स्वयमूद्यानि । आक्षेपोदाहरणादीनां तु तन्त्रान्तरे सङ्गतित्वेन प्रसिद्धानामेष्वेवान्तर्भाव इति न तेषामाधिक्यसम्भावना। प्रकृते च पदार्थतत्संसर्गविशेषरूपवाक्यार्थयोः प्रसङ्गसङ्गतिः। तथाहि-निरूपितेषु पदार्थेषु प्रायशोऽसंसृष्टपदार्थाऽभावेन तत्संसर्गस्य सामान्यरूपेण स्मरणम् । ततः सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वाच्छिष्यस्य 'क एषां संसर्ग' इत्याकारा विशेषधर्मजिज्ञासा । ततस्तद्वोधनाय शिष्यस्य शब्दप्रयोगः। ततः शिष्यजिज्ञासाज्ञान गुरोः। ततो जिज्ञासाविषयज्ञाने इष्टसाधनताज्ञानात् कण्ठताल्वाद्यभिघातादिसम्पादनेन गुरोः शिष्यजिज्ञासानिवृत्तिफलकं विशेषसंसर्गरूपवाक्यार्थाभिधानमिति । संसर्गगतसामान्यस्योपेक्षाऽनर्हतावच्छेदकत्वात्तद्वत्वस्य तत्र सत्त्वाल्लक्षणसङ्गतिः । इत्थमन्यत्रापि लक्षणानि योज्यानि। परीक्षा द्वितस्य द्रव्यवाचित्वाभावेऽपि लक्षितद्रव्यमादाय श्रौतत्वस्योपपत्तेः । *उक्तरीत्या* लक्षणया अरुणाधिकरणेऽरुणादिपदानां गुणाभिधायकत्वे अमूर्त्तत्वात् क्रयणे करणतयाऽन्वयासम्भवात्प्रकरणे तस्य सन्निवेशः कार्य्य इति पूर्वपक्षः, अरुणादिपदानां द्रव्याभिधायकतेति सन्निहितपदार्थान्वयेन क्रीणात्यर्थ एवान्वय इत्युत्तरः पक्षः, उक्तसिद्धान्तेन तस्य लक्षणयोपपत्तेस्तद्विरोधः । भूषणे*-समासशक्तिनिरूपणावसरे । पदार्थ निरूप्येति । एतेन पदार्थवाक्यार्थयोरुपजीव्योपजीवकभावसङ्गतिर्ध्व ४ द० प० Page #55 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेत्यादि फलं प्रति । तिङर्थः-कर्तृकर्मसंख्याकालाः । तत्र कर्तृकर्मणी फलव्यापारयोविशेषणे। संख्या-कर्तृप्रत्यये कर्तरि, कर्मप्रत्यये कर्मणि; समानप्रत्ययोपात्तत्वात् । तथाच-आख्यातार्थसंख्याप्रकारकबोधं प्रति आख्यातजन्यकर्तृकर्मोपस्थितिहेतुरिति कार्यकारणभावः फलितः । नैयायिकादीनामाख्यातार्थसंख्यायाः प्रथमान्तार्थ एवाऽन्वयादाख्यातार्थसंख्याप्रकारबोधे प्रथमान्तपदजन्योपस्थितिहेतुरिति . दर्पणः . ___ *विशेषणे इति । आधाराऽऽधेयभावसम्बन्धेन प्रकारावित्यर्थः । सङ्ख्याया आख्याताऽर्थकर्तृकर्माऽन्वयित्वे प्रयोजकमाह-*समानप्रत्ययोपात्तत्वादिति । एतेन समानऽभिधानश्रुतेर्वाक्याऽपेक्षया बलवत्त्वात् समानपदोपात्तान्वयित्वं विहाय प्रथमाऽन्तार्थेऽन्वयोऽनुचित इति व्यज्यते । एकप्रत्ययजन्योपस्थितिविषयत्वादिति तदर्थः। लडादीनां वाचकत्वकल्पे, आख्यातजन्योपस्थितिविषयत्वस्य कालेऽपि सत्वात्तत्र व्यभिचारवारणाय कर्तृकर्मविषयत्वेन तां विशिनष्टि-*तथाचेति । घट इत्यादावेकत्वादिसङ्ख्याप्रकारकबोधे व्यभिचारो मा भूदिति कार्य्यतावच्छेदककोटौ*आख्याताऽथेति । तदर्थकालप्रकारकबोधे तन्निरासाय-*सङ्ख्येति । स्वोक्तमाख्यातस्य कर्तकर्मार्थकत्वं दर्शयितुं प्रसङ्गान्न्यायमतं निराकरोति-नैयायिकाना मित्या. दिना*। *अन्वयादिति । एकपदोपात्तयोरेकार्थान्वयित्वस्य न्याय्यत्वादिति भावः । आख्यातार्थकालप्रकारकबोधे प्रथमान्तपदजन्योपस्थितेरनपेक्षणादाह-*सङ्खयेति । परीक्षा निता, सा निरूपणद्वारोहनीया । अथवा निरूपणयोरेवोपोद्धातसङ्गतिरनेनोच्यते । ति अर्थः-शक्यः । तिशक्यत्वेनानुगमनादेकवचनम् । कर्तृकर्मणोराख्यातवाच्यत्वं प्रागुक्तमपि दाक्य पुनरुच्यते । तथाच यदा कर्मणः कर्तृत्वविवक्षाः तदा सकर्मकस्यापिधातोरकर्मकतया ततो भावे लकारः; 'पच्यते तण्डुलेन' इत्यत्र भवति, तण्डुलपदाच्च तृतीया भवति । अन "कर्मवत्कर्मणा तुल्यक्रियः इत्यनेन कर्मत्वातिदेशे तण्डुलपदादू द्वितीयाया आपत्तिः, भावे लकारानापत्तिश्च । अस्मन्मते तु द्विलकारात् “व्यत्ययो बहुलंल्लिड्याशिष्य इति सूत्राल्ल इत्यस्यानुवृत्या लकारवाच्यस्यैव कर्तुः कर्मत्वातिदेशो नान्यस्येति नोक्तदोषः । भवन्मते तु कर्तुर्लकारवाच्यत्वाभावेवोक्तव्यवस्थाया असङ्गतिरिति। न च लवाच्यसङ्ख्याश्रयस्यैव तदतिदेश इति वाच्यम् ? "कर्मवत् इति सूत्रात्तादृशार्थस्यालाभेनातिरिक्तवचनान्तरस्यैव कर्त्तव्यत्वापत्या गौरवस्य स्पष्टत्वात् । किञ्च लक्षणायाः शक्यानुसन्धानपूर्वकत्वेन तत्कल्पने गौरवम् । अत एव निषादस्थपत्यधिकरणे तत्पुरुषे लक्षणाप्रसङ्गात् । कर्मधारयौ राजपुरोहितौ सायुज्यकामौ यजेतामित्यत्रापि। राज्ञः पुरोहिताविति न तत्पुरुषोः लक्षणापत्तेः, किन्तु द्वन्द्वसमास एवायमिति च सिद्धान्तितम् । तत्र-कर्त्तादिषु मध्ये । *समानप्रत्ययोपात्तत्वादिति । एवं च समानाभिधानश्रुत्या तत्रवान्वयस्यौचित्यादिति भावः । *तथाचपूर्वोक्तव्यवस्थासिद्धौ च। • *प्रथमान्तेति। तन्मते कृतेराख्यातार्थतया तत्र सङ्घयाया अन्वयस्यानुचित Page #56 -------------------------------------------------------------------------- ________________ ... ' धात्वर्थनिर्णयः। कार्यकारणभावो वाच्यः । सोऽपि 'चन्द्र इव मुखं दृश्यते, 'देवदत्तो भुक्त्वा व्रजति' इत्यादौ चन्द्रक्त्वाऽर्थयोराख्यातार्थानन्वयादितराऽविशेषणत्वघटित इत्यतिगौरवम् । इदमपि कर्तृकर्मणोराख्या दर्पणः *इतराविशेषणत्वेति । प्रथमान्तार्थेतरविशेषणत्वाघटित इत्यर्थः । तथाचेतरविशेषणताऽनापन्नार्थविषयकोपस्थितिः कारणमित्यर्थः । एवञ्च चन्द्रभोजनादीनां प्रथमान्तार्थत्वेऽपि इवार्थसादृश्यव्रजनादिविशेषणत्वान्न व्यभिचार इति भावः । *घटित इति। तदविषयकप्रतीत्यविषयः स इत्यविषय इत्यर्थः । तदवच्छिन्नावच्छेदकताककारणताग्रहविषय इति यावत् । इतराविशेषणत्वं चेतरविशेषणत्वतात्पयाविषयत्वम् । नातश्चैत्र इव पचतीत्यादौ खले कपोतन्यायेन बोधे चैत्रीयं सादृश्यमित्यवान्तरबोधाऽभावेन चैत्रस्येतरनिरूपितप्रकारताशून्यत्वरूपेतराऽविशेषणत्वसत्त्वेऽपि क्षतिः अविशेषणत्वेऽपि विशेषणत्वतात्पर्य्यविषयत्वसत्त्वात्। तथाचाऽऽख्यातार्थसङ्ख्याप्रकारतानिरूपितविशेष्यतासन्बन्धेन शाब्दबुद्धि प्रति इतरविशेषणत्वतात्पयांविषयार्थवृत्तिविशेष्यतासम्बन्धेन प्रथमान्तपदजन्योपस्थितिहेतुरिति पर्यवसितोऽर्थः । 'चैत्रेण सुप्यते' इत्यादिभावाऽख्यातस्थले, 'चैत्रकर्त्तकः स्वापः' इत्यादिबोधाद्यथोक्तविशेषणकधात्वर्थस्वापे तदनन्वयादव्यभिचारपरिहाराय प्रथमान्तति पदविशेषणम् । यद्येवमपि 'चैत्र एव पचति न मैत्र इत्यादावन्ययोगव्यवच्छेदरूपैवकारपदाथैकदेशेऽन्यत्वे चैत्रस्य विशेषणत्वात् तत्र संख्याऽऽन्वयाऽनुपपत्तिरिति विभाव्यते, तदा प्रथमान्तार्थो विशेषणत्वमात्रतात्पर्याविषयत्वेन विशेषणीयः । अवशिष्टांशस्यापि निवेशे प्रयोजनाऽभावादुक्तस्थले च चैत्रस्य मुख्यविशेष्यत्वविशेषणत्वाभ्यां तात्पर्यविषयत्वान्नसङ्ख्याऽन्वयाऽनुपपत्तिरिति तन्मतनिष्कर्षः। . . . ___ *अतिगौरवमिति* । अन्यलभ्यकृतो. शक्तिकल्पने सन्यान्वयबोधहेतूपस्थिती विभिन्नपदजन्यत्वनिवेश एव गौरवम् । प्रथमान्तपदार्थस्य विशेषणत्वमात्रतात्पर्या . परीक्षा स्वात् । *सोऽपि*-तादृशकार्यकारणभावोऽपि । अस्य घटित इत्यत्रान्वयः। ननु सति सम्भवे उपात्तधर्मेणैव सादृश्यं वक्तव्यम् , अन्यथा गुरुत्वमिव रूपं दृश्यत इति प्रयोगापत्तिः । एवञ्चात्र दर्शनकर्मत्वेन सादृश्यबोधनाय तत्राप्यन्वये इष्टापत्तिरत आह*देवदत्त इति । ननु प्रथमान्तेत्यस्य प्रथमान्तत्वेनानुसन्धीयमान इत्यर्थो वाच्यः । अन्यथा 'मैत्रं गच्छति चैत्र, इत्यत्र मैत्रपदस्य प्रथमान्तत्वभ्रमे चैत्रपदस्य द्वितीयान्तत्वानुसन्धाने मैत्रे सङ्ख्यान्वयो न स्यात् , एवं च 'यथा वारि तिष्ठति' इत्यत्र वारि पदस्य न नियमेन प्रथमान्तत्वग्रहापेक्षा तथा तान्तस्यापीति नायं दोष इत्यत आह*इत्यादाविति । आदिना*-भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् इत्यस्य संग्रहः । अत्रापिशब्दस्य प्रथमान्तत्वानुसन्धानाभावे “सपूर्वायाः प्रथमाया विभाषा" इत्यस्यानुपस्थितौ साधुत्वप्रतिपत्यभावेन सहृदयानां ततः शाब्दबोधो न स्यात् । *चन्द्रक्त्वार्थयोरिति । अपिशब्दार्थे चेति शेषः । *इतराविशेषणत्वघटित इति । इतराविशेषणत्वमित्यस्येतरविशेषणत्वतात्पर्य्याविषयत्वमित्यर्थः। तेन शाब्दबोधात्पूर्वमितरविशेषणत्वाभावेऽपि न क्षतिः । *अतिगौरवमिति । एवं पदत्रय Page #57 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - २८ तार्थत्वे मानमिति स्पष्टं भूषणे ॥ दर्पणः विषयत्वेन निवेशे त्वतिगौरवमित्यर्थः । *इदमपीति । उपदर्शितकार्यकारणभावे दर्शितलाघवमपीत्यर्थः । यद्यपि तन्मते भावनान्वयिनी सङ्ख्यान्वयनियमादाख्यातेन भावनाऽविषयकसङ्खयान्वयबोधस्य क्वाप्यजननाद्भावनान्वयबुद्धित्वस्य सङ्ख्यान्वयबुद्धित्वव्यापकतया व्याप्यधर्मावच्छिन्नसामग्या फले जननीये व्यापकधर्मावच्छिन्नसामग्या अपेक्षणाद्विशेषणत्वमात्र तात्पर्याऽविषयत्वविशेषणविशिष्टप्रथमान्तार्थोपस्थितिरूपायास्तस्यास्तत्राऽभावादेवोक्तस्थले व्यभिचाराप्रसक्तेर्न तद्व्यावृत्तये सङ्ख्यान्वयकारणतावच्छेदककोटा वुक्तविशेषण प्रवेशाऽवसरः, तथाऽपि कृतिशक्तिवादिमते उक्तस्थले तदापत्तिवा रणाय भावनान्वयबोधकारणतावच्छेदकको टावेवोक्तविशेषण विवरणप्रयुक्तगौरवम् । अस्मन्मते तु प्रथमान्तपदार्थस्य आख्यातार्थे विशेषणतयैवान्वयेन चन्द्रादेरेकत्र विशेपणतयाऽन्वितस्य नैराकाङ्क्षयेणाऽपरत्र विशेषणतयाऽन्वयाऽयोगादुक्तव्यभिचाराभावेन तन्निवारकविशेषणोपादानप्रयुक्तगौरवमितीदमेवाभिप्रेत्योक्तम् - *इदमपीति । अधिकमन्यन्त्रानुसन्धेयम् । अनाऽऽहुर्नव्याः - लाघवोपबृंहितोक्तयुक्तिकदम्बेनाऽऽख्यातस्य धर्मवाचकत्वसिद्धावुत्तरकालकल्प्यतादृशकार्य्यकारणभावप्रयुक्तगौरवम्, निषादस्थपत्यधिकरणन्यायेनाकिंञ्चित्करम् । फलमुखत्वात् । किञ्च चन्द्राद्युपमाने आख्यातार्थसङ्ख्याद्यन्वयोपगम आवश्यकः । तत्र तदन्वयाऽनुपगमे सादृश्यप्रयोजकधर्माऽलाभेन वाक्यस्यापरिपुष्टार्थतापत्तेः । क्त्वान्तार्थ भोजनादौ तु सङ्ख्यादीनामयोग्यत्वादेवानन्वयेनाऽनतिप्रसङ्गात् । एवञ्च नास्मन्मते दोषलेशोऽपीति । कर्त्तृकर्मणोः सङ्ख्यायाश्च विशेषणतां परीक्षा घटितत्वादपि तथेति बोध्यम् । इदमपि उक्तरीत्या गौरवमपि । 1 अत्र नैयायिकाः- चैत्रः पचतीत्यादौ कृतौ शक्तिः । रथो गच्छतीत्यादौ व्यापारे लक्षणा । शक्त्यन्तरकल्पनापेक्षया शक्यसम्बन्धरूपलक्षणायाः क्तृप्तत्वात् । नच लक्ष्यार्थे कथं वर्त्तमानत्वस्यान्वयो युगपद्रवृत्तिद्वयानुपगमादिति वाच्यम् ? बोध्यतावच्छेदकधर्मभेदाल्लट् त्वेन वर्त्तमानत्वे शक्तिर्लत्वेन लक्षणेति तत्तत्प्रकारकशाब्दबोधे वृत्तिज्ञानजन्यतत्तदुपस्थितत्वेन हेतुत्वाच्च, न लक्षणाज्ञानस्य कारणत्वकल्पनाप्रयुक्तं गौवमिति वदन्ति । 1 इदमप्युक्तरीत्या गौरवापत्या निरस्तम् । एवं चाख्यातार्थसङ्ख्याप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति इतरविशेषणत्वतात्पर्याविषयार्थवृत्तिविशेष्यतासम्बन्धेन प्रथमान्तपदजन्योपस्थितिर्हेतुरिति विषयनिष्ठप्रत्यासत्या कार्य्यकारभावो द्रष्टव्यः । 'चैत्रेण स्थीयते, इत्यादिभावाख्यातस्थले चैत्रकर्तृका स्थितिरित्यादिबोधात् । स्थितेरितरविशेषणत्वतात्पर्य्याविषयतया तत्र सङ्ख्यान्वयवारणाय प्रथमान्तेति पदस्य विशेषणम्, यदि च भावनान्वयिनि सङ्ख्याया अन्वयनियमाद्भावनान्वयबुद्धित्वस्य संख्यान्वयबुद्धित्वव्यापकतया व्याप्यधर्मावच्छिन्नसमग्रथा फले जननीये व्यापकधर्मावच्छिन्नसामग्रीसहकारिणीति तन्मते प्रसिद्धेर्न चन्द्र इवेत्यादौ च Page #58 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। कालस्तु व्यापार विशेषणम् । तथा हि-"वर्तमाने लट" ( पा०सू० ३।२।१२३) इत्यत्राऽधिकाराद् धातोरिति लब्धम् । तञ्च धात्वर्थ वदत् प्राधान्याद् व्यापारमेव ग्राहयतीति तत्रैव तदन्वयः। न च सङ्ख्यावत् कर्तृकर्मणोरेवान्वयः शङ्कयः। अतीतभावनाके कर्तरि 'पचति' इत्यापत्तः । 'अपाक्षीत्' इत्यनापत्तेश्च । पाकानारम्भदशायां कर्तृसत्त्वे 'पक्ष्यति' इत्यनापत्तेश्च । नापि फले तदन्वयः, फलाऽनुत्प दर्पणः व्यवस्थाप्य कालस्यापि तां प्रतिपादयति-*कालस्त्वित्यादिना । *व्यापारे इति । धात्वर्थव्यापारे इत्यर्थः । नन्वाख्यातस्य कालशक्तिपरिच्छेदकेषु “वर्तमाने लट्" (पासू०३।२।१३ )इत्यादिषु व्यापारवाचकपदानुपादानात् कथं कालस्य धात्वर्थव्यापारविशेषणतेत्यतस्तत्सू प्रामाण्येनैव तां साधयति-*तथाहीति*। *तच्च*-धातुपदं चेत्यर्थः । *धात्वर्थमि. ति* । फलव्यापारोभयात्मकमित्यर्थः। सत्तायामित्याद्यर्थनिर्देशाद् भ्वादिसूत्रप्रामाण्याच्चेति भावः । *वदत्*-बोधयत् । सन् ब्राह्मण इतिवच्छता। *प्राधान्यादू* । धातुजन्यबोधे विशेष्यतया भासमानत्वादित्यर्थः । व्यापारमेवेत्येवकारेण फलव्यवच्छेदः । प्राधान्यादित्युक्त्या यन्मते कर्माऽऽख्याते फलस्य प्राधान्यं तन्मते फल एवान्वय इति ध्वनितम् । *ग्राहयतीति । आख्यातार्थकालविशेष्यतया बोधयतीत्यर्थः। "गुणानां च परार्थत्वाद्” इति न्यायात् , प्रत्ययार्थस्य साक्षात्प्रकृतिजन्यबोधवि. शेष्याऽन्वयित्वनियमाच्चेति भावः । *कर्तकर्मणोरिति । समानप्रत्ययोपात्तत्वप्रत्यासत्तेरिति भावः । *पवतीत्यापत्तेरिति । कर्तुविद्यमानत्वादिति भावः। एवमग्रेऽपि*नापि फल इति*। परीक्षा न्द्रादौ सङ्ख्यान्वयापत्तिरिति विभाव्यते, तदा चैत्र इव पचतीत्यादावेवकारार्थेऽन्यत्वे चैत्रस्यान्वयोभवति । भवन्मते तु तस्या अन्यत्वे विशेषणत्वतात्पर्य्यविषयतया सङ्ख्यान्वयानापत्तिः । एतदुपपत्तये भावान्वयबोधसामग्रीकोटावितरविशेषणत्वतात्पर्य्यविषयत्वस्य प्रवेशे तु ( (१)"चैत्र एव पचति, इत्यत्र मुख्यविशेष्यतयाऽपि प्रथमान्तार्थस्य भाने तात्पर्य्याददोष इत्युक्तौ" ) तत्रातिगौरवं बोध्यम् । अस्मन्मते तु प्रथमा. न्तार्थस्याख्यातार्थे कर्तरि कर्मणि वा विशेषणतया 'चन्द्र इव मुखं दृश्यते' इत्यादौ चन्द्रादेरिवार्थे विशेषणतया एकविशेषणतयोपस्थितस्यान्यत्र विशेषणतया भावनाभानेननोक्तदोष इति बोध्यम् । उक्तेषु तिङर्थेषु कादीनां विशेषणत्वं व्यवस्थाप्य कालस्यापि विशेषणत्वं व्यवस्थापयति-*कालस्त्विति । *व्यापारमेवेति । यद्यपि स्वस्वरूपस्यार्थविशिष्टस्य ग्रहणमिति प्राधान्यादित्यसङ्गतम्। तथाप्यर्थविशिष्टशब्दस्येव शब्दविशिष्टार्थस्यापि क्वचिद्ग्रहणं भवतीति प्राधान्यं तस्य द्रष्टव्यम् । एकप्रत्ययोपात्तत्वेनाशय निराचप्टे-*नचेति* । *सङ्ख्यावदिति । सङ्ख्याया यथा कर्तृकर्मविशेषणत्वं तद्वदित्यर्थः । (१) चिह्नाङ्कितः पाठः पुस्तकान्तरे नास्ति । Page #59 -------------------------------------------------------------------------- ________________ ३० दर्पणपरीक्षासहिते भूषणसारे - तिदशायां व्यापारसत्त्वे, 'पचति' इत्यनापत्तेः, पक्ष्यति' इत्यापतेश्चेत्यवधेयम् । न चामवातजडीकृतकलेवरस्योत्थानाऽनुकूलयत्नसत्त्वाद् 'उत्तिष्ठति' इति प्रयोगाऽऽपत्तिः । परयत्नस्याज्ञानादप्रयोगात् । किञ्चि दर्पण: 1 केचित्तु — फलव्यापारयोर्धातोः पृथक् शक्तौ तयोरुद्देश्यविधेयभावेनाऽन्वयाssपत्तिः । पृथगुपस्थितयोस्तथाऽन्वयस्यौत्सर्गिकत्वात् । तत्तद्धातुजन्यतादृशबोधस्य तथाऽन्वयबोधे प्रतिबन्धकताकल्पने तु गौरवम् । तस्मात् फलाऽवच्छिन्नव्यापारे व्यापारावच्छिन्न फले च धातूनां शक्तिः । कर्त्तृकर्मार्थकतत्तत्प्रत्ययसमभिव्याहारश्च तत्तदूबोधे नियामकः । गौरवं च प्रामाणिकत्वान्न दोषाय । इत्थञ्च कर्त्राssख्याते, व्यापारख्य प्राधान्यम्, कर्माख्याते तु फलस्य । यदा यस्य प्राधान्यं तदा तस्मिन् कालाऽन्वयः । सूत्रस्थधातुपदादुभयोरपि प्राधान्येनोपस्थितत्वान्नोक्तविषयाऽनवकाशः । फलानुत्पत्तिदशायामारब्धे पाके फले वर्त्तमानत्वारोपाद्वा । पच्यते इत्यस्योपपत्तिरेकाsarasपि समूहाssरोपादधिश्रयणकाले पचतीति प्रयोगवत् आरोपे च प्रतीतिरेव मानम् । व्यापारविगमे फलसत्त्वे 'अपाचि देवदत्तेन' इत्यादिप्रयोगास्तु भूतत्वस्योत्पतिघटितत्वादित्याहुः । तदपरे न क्षमन्ते । पृथगुपस्थितयोस्तथान्वयबोधाभ्युपगमे नानार्थहर्य्यादिपदोपस्थितानामश्वसूर्यादीनामप्युद्देश्यविधेयभावापत्तिरतो विभिन्नपदजन्योपस्थितेरेव तन्त्रता तत्राऽनुसर्त्तव्या । तद्भावाच्च प्रकृते कथं तदन्वयबोधाऽऽपादनम् । तादृशफलव्यापारयोर्धातुशक्तौ मानाभावो गौरवं च । विशिष्टधर्मस्य शक्यतावच्छेदकत्वे उक्तप्रयोगाणाम् आरोपेणोपपादनं त्वगतिकगतिरिति स्पष्टमेव विवेकिनाम् । एतदनुरोधेन भृतत्वस्योत्पत्तिघटितत्वाऽभ्युपगमे परमताऽनुसृतिरपीति । व्यापारे आख्यातार्थ कालान्वये दूषणमाशङ्कय निराचष्टे-नचेति । *यत्नसत्त्वादिति । यत्नरूपव्यापारस्य वर्त्तमानत्वेन विषयाबाधात । मम तु तदानीं फलानुत्पत्त्या न तादृशप्रयोगाऽऽपत्तिरित्यर्थः । अप्रयोगादिति । ननु परयत्नस्य विजातीयमनः संयोगाश्रयसमवायरूपहेत्वभावादप्रत्यक्षत्वेऽपि चेष्टादिपक्षकेण तल्लिङ्गकेन वानुमानेन तदवगतावुत्तिष्ठतीति प्रयोगाऽऽपत्तिर्दुः समाधेयैवेत्याशङ्कयेष्टापत्त्या परिहरति—* किञ्चिच्चेष्टादिनेति यत्किञ्चिच्छरीरावयवावच्छिन्नक्रिययेत्यर्थः । 1 परीक्षा व्यापारे कालान्वये दोषः ; फले तदन्वये तु नेत्याशङ्कां निरस्यति—*नचेति । *यत्नसत्वादिति । तस्यापि व्यापारविशेषणत्वात् फलमुत्थानरूपं तु नास्तीति नापत्तिः । *परयत्नस्येति । स्वीययत्ने मनः संयुक्तसमवायरूपसनिकर्ष सत्त्वादहं करोमीति प्रत्यक्षं सम्भवति । परयत्ने तु स नास्तीति भावः । ननु सन्निकर्षाभावेन प्रत्यक्षाभावेऽपि शरीरावयवावच्छिन्ना क्रियाविशेषरूपा या चेष्टा तल्लिङ्गकयत्नानुमित्यनन्तरं तादृशप्रयोगापत्तिः प्राप्नोतीत्यत आह-*किञ्चिदिति । अयं देवदत्तः उत्थानानुकूलयत्नवान् ; विलक्षणचेष्टावत्त्वात् । चेष्टा यदि यत्रा - Page #60 -------------------------------------------------------------------------- ________________ - धात्वर्थनिर्णयः। च्चेष्टादिनातदवगतौ च 'अयमुत्तिष्ठति,(२)शक्यभावात् ; फलन्तु न जायते; इति लोकप्रतीतेरिष्टत्वात् । एवञ्च तिर्थो विशेषणमेव, भावनैव प्रधानम् । दर्पणः *तदवगतौ-यत्नानुगतौ । अनुमानप्रयोगश्चैवम्-देवदत्तीयचेष्टा प्रयत्नजन्या । चेष्टात्वात् । मच्चेष्टावत् । अथवा-अयमुत्थानाऽनुकूलयत्नवान् । विजातीयचेष्टावत्त्वात् ,अहमिवेति । चेष्टाप्रयत्नयोः कार्यकारणभावश्च प्रकृतेऽनुकूलस्तर्कः । स्वाश्रयावच्छेद्यत्वस्य हेतुतावच्छेदकसम्बन्धत्वान्न स्वरूपासिद्धिरिति। परे तूक्तापत्तिमन्यथैव परिहरन्ति । तथाहि-आमवातजडीकृतकलेवरप्रयत्नस्योत्थानोद्देश्यकत्वेऽपि तदजनकत्वेऽपि तदजनकत्वानोक्तप्रयोगापत्तिः । अत एव 'उत्थानाय यतते' इत्येव तत्र प्रयोगः। यागपाकाद्युद्देश्यककुण्डादिनिर्माणतण्डुलक्रयणादिदशायां, यजति पचति इत्यादिप्रयोगवारणाय स्वरूपसम्बन्धरूपप्रयोजकताविशेषस्यैव सम्बन्धताया अभ्युपेयत्वादिति । तञ्चिन्त्यम् । तदुद्देश्यकत्वं हि तदिच्छाऽधीनेच्छाविषयत्वम् । उपायेच्छायाः फलेच्छाधीनत्वात् । उपायत्वं च प्रयोजकत्वमेव । कथमन्यथा तत्रेच्छति, प्रकृते यजतीत्यादिप्रयोगो दुर्वार एव । तस्मात् साक्षाजन्यजनकभाव एव फलव्यापारयोः सम्बन्ध इत्येवाभ्युपेयम् । तावतैवोक्तप्रयोगवारणात् । प्रकृते शक्तिरूपसहकारिकारणाभावेन तदनुत्पत्तावपि तदीययत्ने साक्षाजनकत्वस्य निराबाधत्वेनोत्तिष्ठतीतिप्रयोगस्यैवेष्टत्वात्। प्रकृतधात्वर्थतयाऽवगते तस्मिन् साध्यत्वस्यैव सत्त्वेनोद्देश्यत्वस्य तदानीमसम्भवाच्च । एतदभिप्रेत्यैव सारकृता-'उत्थानानुकूलयत्नसत्त्वे' इत्युक्तम् । अत एव पाकानुकूलप्रकृतधात्वर्थयत्नसत्वे पचतीत्येव प्रयोगोऽन्यदातु 'पाकाय यतते' इति। __ वस्ततस्तु कृतिरूपव्यापारमात्रस्य धात्वर्थत्वविवक्षायामुत्तिष्ठतीतिप्रयोगः । प्रयत्नसामर्थ्यचेष्टादिघटितस्य तस्य समुदायस्य तद्विवक्षायान्तु नेति सारकाराशयः। अत एव तदोत्थानाय यतते इति प्रयोगोऽपि सूपपाद इति बोध्यम् । उपसंहरति-*एवञ्चेति । विशेषणमेवेत्येवकारेण तिर्थस्य विशेष्यत्वव्यवच्छेदः। *भावनैवेति । धात्वर्थभावनैवेत्यर्थः । अत्राप्येवशब्देन फलस्य तिर्थक देश्च व्यव. परीक्षा भावेऽपि स्यात् , तदा यत्नजन्या न स्यादित्यनुकूलस्तर्कः । *शक्त्यभावादिति* । एवं चैकस्य यत्नाख्यस्य कारणस्य सद्भावेऽपि शक्तिरूपसहकारिकारणाभावान्न फलं जायत इत्यस्योपपत्तिः । न च व्यापारे धात्वर्थफलोद्देश्यकत्वसत्वेऽपि जनकत्वरूपसम्बन्धाभावेन नोत्तिष्ठतीति प्रयोगस्य प्रसङ्ग इति वाच्यम् । शक्त्यभावनिर्णयात्प्राक् स्वरूपयोग्यतालक्षणजनकत्वसत्त्वात् तादृशप्रयोगापत्तेदुर्वारत्वात् । अत एवं यत्र फूत्कारवह्निप्रज्वलनाधिश्रयणकालेऽपि पचतीति प्रयोगस्तदास्थितव्यापारे कलवैशिष्ट्याभावेऽपि स्वरूपयोग्यतायाः सत्वात्पचतीति प्रयोगः। अपरे त्वाः-फलानुकूलयत्नरूपव्यापारस्य सत्वात्ताशप्रयोगापत्तिरित्याशकाभिप्रायः । शक्तिघटितसमुदायरूपव्यापारकदम्बाभावान्न तादृशः प्रयोग इति समाधानग्रन्थतात्पर्य्यार्थः । अत एव "उत्थानाय यतते" इति प्रयोगस्योपपत्तिरि Page #61 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे___यद्यपि प्रकृतिप्रत्ययार्थयोःप्रत्ययार्थस्यैव प्राधान्यमन्यत्र दृष्टं, तथाऽपि "भावप्रधानमाख्यातं सत्वप्रधानानि नामानि" इति (नि अ०१ख०१) दर्पणः च्छेदः । 'प्रकृतिप्रत्ययार्थयोः इति व्युत्पत्तिविरोधमाशते-*यद्यपीति । *अन्यत्र*पक्तत्यादौ । *दृष्टमिति । तथाच प्रकृत्यर्थभावनायाः प्राधान्योपगमे तद्विरोध इति भावः । *भावप्रधानमिति । नामाऽऽख्यातोपसर्गनिपातभेदेनोद्दिष्टं चतुर्विधं पदं प्रकल्प्य नामाऽऽख्यातलक्षणप्रतिपादके इमे वाक्ये । अत्राऽऽख्यातं भावप्रधानमिति, योजना । यथाश्रुते यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् । ___ इत्यभियुक्तोक्तः। शाब्दबोधे प्रानिर्दिष्टस्यैवोद्देश्यतया विवक्षितार्थाऽलाभात् । अत एव वृद्धिशब्दस्य प्रानिर्देशो मङ्गलार्थ.' इत्याऽऽकरोक्तं सङ्गच्छते। एवमग्रेऽपि । आख्यातत्वाऽवच्छिन्ने प्रधानभावार्थप्रतिपादकस्वरूपलक्षणे तात्पर्यावधारणाच्च लक्षणवाक्याच्छब्दमर्यादया प्रकृतपदद्वयार्थाभेदस्याऽधिकस्य भानेऽपि न क्षतिः । लक्ष्यताऽवच्छेदकं च तिङन्तत्वरूपाख्यातत्वम् । “आख्यातमाख्यातेन" (वा० ग०सू० २।११७२) इत्यादौ, तत्रैवाऽऽख्यातपदस्य शक्त्यवधारणात्। 'भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्य, तत्र 'भावः प्रधानम्' इति प्रकृतनिरुक्तभाष्याच्च । एतेन तिङः प्रधानभावार्थकत्वस्य प्रतिपादकमेव तदिति वदन्तः प्रत्युक्ताः। __ तच्छब्दपरामृश्य भावादिचतुष्टयस्यैकदा तिङा प्रतिपादनाऽसम्भवाच्चाभावत्वं निष्पाद्यत्वम् । नातः कर्माऽऽख्यातस्य फलविशेष्यकबोधकतावादिमते तत्राsप्रसक्तिः । प्रधानप्रतिपादकत्वस्य नाममात्रे, भावप्रतिपादकत्वस्य भुक्त्वेत्यादिनाम्न्यतिप्रसक्तत्वात्तद्वारणाय विशिष्टमुपात्तम् । प्राधान्यं चोपस्थितत्वात् स्ववाचकप्रकृतिकप्रत्ययार्थनिरूपितमेव । नातः 'काष्टैः पाकः' इत्यादौ प्रत्ययार्थकरणनिष्ठप्रकारतानिरूपितविशेष्यताशालिबोधजनके पाकादिनाम्न्यतिप्रसङ्गः । नवौत्सर्गिकैकवचनान्तभावविहिततव्याद्यन्तनाम्नि सः । तथाच तिजोध्यार्थनिष्ठप्रकारतानिरूपितविशेष्यतातात्पर्यप्रतिपादकत्वं तत्पर्य्यवस्यति । इतराविशेषणत्वरूपं तु न तत्। पचतिभवतीत्यादिवाक्यघटकपच्याद्यर्थक्रियायां तदसत्त्वेन पचतीत्याख्यातेऽव्याप्तेः। क्त्वः पूर्वकालार्थकत्वस्य निराकरिष्यमाणत्वानोक्तलक्षणस्यालक्ष्येऽतिप्रसङ्गः । “कृदभिहितो भावो द्रव्यवत् प्रकाशते”इति भाष्येण पाक इत्यादाविव तस्य सत्त्वाऽतिदेशेन साध्यत्वरूपभावत्वाऽभावादेव नातिप्रसङ्ग इति तु न सत् । यतः साधुत्वान्वाख्यायकव्याकरणस्मृत्या यत्कृदर्थभावे लिङ्गाद्यन्वयोऽनुभवसिद्धस्तस्मिन्नेव तदतिदिश्यते । यथा पाक इत्यादौ घमर्थभावे । क्त्वार्थे तु लिङ्गाद्यननुभवेन तत्र तदतिदेशविषयत्वस्यान्याय्यत्वात् । अव्ययकृत्वेन तस्य धात्वर्थानुवादकत्वस्य वक्ष्यमाणत्वाच्च । तथाच भावप्रधानकत्वं तिङर्थनिष्ठप्रकारतानिरूपितविशेष्यताशालिभावप्रतिपा परीक्षा त्याहुः । *एवं च*-कालस्यापि विशेषणत्वसिद्धौ च । *भावनैवेति । धात्वर्थभा. वनैवेत्यर्थः । एवकारेण प्रत्ययार्थस्य प्राधान्य व्यवच्छिद्यते । Page #62 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । ३३ निरुक्ताद् । भूवादिसूत्रादिस्थक्रियाप्राधान्यबोधकभाष्याश्च धात्वर्थ दर्पणः दकत्वं पर्यवस्यति । एतेन पचतिभवतीत्यादिवाक्यघटकाख्यात संग्रहाय क्वचित् क्रियान्तरनिष्ठविशेष्यता निरूपितविशेषणत्वाभाववत्त्वं तत् । पच्याद्यर्थक्रियाया भवत्यर्थविशेषणत्वेऽपि क्वचित्तदसमभिव्याहारे विशेष्यतयैव भानान्न तत्रातिप्रसङ्ग इत्युक्तं निरस्तम् । उक्तापेक्षया अभावघटितत्वेनास्य गुरुत्वात् । अग्रिमलक्षणे प्राधान्यस्य विशेष्यत्वरूपस्यैव वक्ष्यमाणतयाऽत्रापि तस्यैव न्याय्यत्वात् । तत्र "भावप्रधानम्” इति भाष्येण मदुक्तार्थस्यैव लाभाच्च ॥ *सत्त्वप्रधानानीति । अत्रापि पूर्ववदुद्देश्य विधेयभावकल्पना । लक्ष्यतावच्छेदकं च कृदाद्यन्तप्रकृतिकविभक्त्यन्तत्वरूपं नामत्वम् । प्रकृतिः, प्रत्ययो विभक्तिरित्येतनाम, संज्ञा, सत्ता, द्रव्यं, लिङ्ग, संख्या, च नामार्थ इतितद्भाष्यात् । “क्रियाप्रधानमाख्यातं, सत्त्वप्रधानं नाम । यतः क्रियां पृष्टस्तिङाचष्टे - किं करोति, पचतीति । द्रव्यं पृष्टः कृताऽऽचष्टे कतरो देवदत्तो, यः पाचक" इति “प्रशंसायाम्" इति सूत्रस्थमहाभाष्याच्च । तत्र कृतेत्यस्य तत्प्रकृतिकसुबन्तेनेत्यर्थः । कृता द्रव्याऽभिधानेऽपि “न केवला” इतिन्यायेन केवलस्य प्रयोगाऽनर्हत्वात्, निरुक्तभाष्यस्थविभक्तिपदस्वारस्याच्च । व्युत्पत्तिपक्षमवलम्ब्य चेदम् । नातोऽव्युत्पत्तिपक्षे नामाऽऽदिष्वतिप्रसङ्गः । लक्षणमाह-*सत्त्वप्रधानानीति । सत्त्वं द्रव्यं वक्ष्यमाणलक्षणं तत्प्रधानं यत्रेति विग्रहाल्लिङ्गादिनिष्ठप्रकार तानिरूपितविशेष्यताशाल्यर्थप्रतिपादकत्वं नामलक्षणमित्यर्थः । विशेष्याऽर्थकत्वस्य निपाताऽऽख्यातादावतिप्रसक्तत्वात् तद्वारणाय प्रका रतानिरूपितत्वान्तं विशेषणम् । व्यक्तिबोधस्य धर्मविषयकत्वनियमेन जातिप्रकारता निरूपितत्वस्यातिप्रसङ्गाऽवारकत्वात्तदनुपादानम् । लक्ष्यतावच्छेदकाऽनाक्रान्तेषु यादृच्छिकेष्वतिप्रसङ्गस्तु लक्षणे तद्व्यतिरिक्तत्वविशेषणेनैव परिहरणीयः । एवं धात्वर्थाsनुवादकप्रत्ययान्तेष्वतिप्रसङ्गोऽपि लक्ष्यतावच्छेदकसंकोचेनैव परिहार्यः । तत्र नामत्वव्यवहारोऽपि स्वाद्यन्तत्वनिबन्धनो भाक्त इति तद्भावः । उपसर्गादिलक्षणं तु वक्ष्यते । *भूवादीति । इत्थं हि तत्र भाष्यम् - " का तर्हीयं वाचो युक्तिः पचति भवति त्वं परीक्षा *अन्यत्र*—पक्ता गन्तेत्यादौ कृदन्ते । *निरुक्तेति । तत्र हि — “ चत्वार्य्याहुः पदजातानि नामाख्यातोपसर्गनिपाताः । सत्त्वप्रधानं नाम, भावप्रधानमाख्यातम्” इत्युक्तम् । आख्यातम्भावप्रधानमित्युद्देश्यविधेयभावः । आख्यातं तिङन्तम्, न तु तिङ्मात्रम् । अत एव तन्निरुक्तभाष्ये- “भावकालकारकसङ्ख्याश्चत्वारोऽर्था आख्यातस्यः तत्र भावः प्रधानम्" इत्युक्तम् । एतेन भावना पर पर्य्याय भावशब्देन आख्यातार्थकृतिरेवाभिधीयते । तस्याश्च प्रथमान्तपदासमभिव्याहारे प्राधान्यमस्त्येवेति कृतेराख्यातवाच्यत्वेऽपि न निरुक्तविरोध इति नैयायिकानुसारिमतं निरस्तम् । कारकस्याख्यातवाच्यत्वबोधकनिरुक्तभाष्यविरोधात् । भावप्रधानमित्यत्र भावपदं धात्वर्थफलव्यापारोभयपरम् । तेन न कर्माख्यातेऽव्याप्तिः । प्राधान्यञ्च-उपस्थितस्ववाचकप्रकृतिकप्रत्ययार्थनिरूपितमेव । तेन, 'काष्ठः पाकः, इत्यादौ धात्वर्थस्य तृतीयान्तार्थनिरूपित ५ दु० प० Page #63 -------------------------------------------------------------------------- ________________ ३४ दर्पणपरीक्षासहिते भूषणसारेभावनाप्राधान्यमध्यवसीयते। दर्पणः पचसि भवसि, पक्ष्यति भवतीति । सैषा वाचोयुक्तिः। पचादिक्रिया भवतिक्रियायाः कर्यो भवन्ति' इति । तेन चाऽऽहत्यैव पचाद्यर्थक्रियाकर्त्तकभवनक्रियायाः प्राधान्यं प्रतिपाद्यते । धात्वर्थक्रियाया आख्यातार्थविशेषणत्वाभ्युपगमे तु स्वस्वार्थविरुद्धत्वेन पदार्थान्तरे विशेषणतयाऽन्वये नैराकाङ्क्षयेण भवत्यर्थक्रियायामाख्यातार्थविशेषणपचादिक्रियाणामन्वयाऽसम्भवेन तद्विरोधोऽप्रतिरोध एव स्यादिति भावः । *सूत्रादिन इत्यादिना “प्रशंसायाम्" (पासू० २।१।६६ ) इति सूत्रपरिग्रहः। ननु 'भावप्रधानमाख्यातम्' इति निरुक्तेन तिङन्ते भावनाऽपरपर्यायभावप्राधान्य प्रतिपाद्यते । सा च नैयायिकमते काख्याते कर्त्तत्वं कृतिः, कर्माख्याते कर्मत्वं फलं, तन्निरूपिताऽऽश्रयत्वं वा। तैः सङ्ख्याकालातिरिक्ताऽऽख्यातार्थस्य भावनापदव्यपदेश्यत्वोपगमात् । भावाऽऽख्याते तु धात्वर्थव्यापार एवाऽनुवादकत्वात् तदाख्यातस्य । प्रधान्यं च तस्याः प्रकृत्यर्थापेक्षम् । समानप्रत्ययोपात्तत्वप्रत्यासत्त्या फलमात्रं धात्वर्थ इति वदतांमीमांसकानामेतदपि भाष्यं मूलम् । तत्र लडाद्यर्थकालान्वयोपगमे तु तदपेक्षमपि । उक्तभाष्येऽपि क्रियापदार्थस्तत्सम्मतभावनैव । अत एव "क्रियां पृष्टस्तिकाऽऽचष्टे”इत्येवोक्तं न तु तिङन्तेनेति । परीक्षा प्राधान्येऽपि नाख्यातलक्षणातिव्याप्तिः । न च प्राधान्यं प्रकारताभिन्नविषयताश्रयत्वरूपमेव विवक्षितम् , एवं च पाक इत्यादौ प्रकृत्यर्थस्य घजन्ताद्यर्थे प्रकारत्वान्नातिव्याप्तिरिति वाच्यम् ? पचतिभवतीत्यादावव्याप्त्यापत्तेः । 'सत्वप्रधानानि नामानि इत्यत्र सत्वं द्रव्यं तच्च लिङ्गसंख्यान्वयि । एवं च लिङ्गसंख्यानिष्ठप्रकारतानिरूपितविशेष्यतापन्नार्थप्रतिपादकत्वं नाम्नो लक्षणं पर्यवसन्नम् । तादृशं नाम तु सुबन्तमेव । “न मन्ति-आख्यातं प्रति विशेषणं भवति, इति तन्नाम"इति च निरुक्तभाष्यम् । अत एव प्रकृतिःप्रत्ययो विभक्तिरित्येतन्नाम । सत्ता-द्रव्यम् । लिङ्गसंख्येति नामार्थः तेषु द्रव्यं प्रधानमइति निरुक्तभाष्यक्रतोत्तम । इदमव्ययातिरिक्तं नामलक्षणम। "नामाख्यातोपसर्गनिपाता" इत्यत्र निपातपदमव्ययमात्रोपलक्षणमिति निरुक्तभाष्ये उक्तम् । तेन पूर्वोक्तनामलक्षणस्याव्ययेष्वव्याप्तिरिति नाशङनीयम् । सत्तापदं प्रवृत्तिनिमित्तपरम् । न च 'काण्डे' इति विभक्त्यर्थप्रधानम् इति भाष्योक्त्यसङ्गतिरिति वाच्यम् ? उक्तेषु नामार्थेषु द्रव्यस्य लिङ्गसङ्घयानिरूपितप्राधान्येऽपि तस्य क्रियाकारकसम्बन्धं प्रति विशेषणत्वेन भाष्ये 'काण्डे' इत्यादेविभक्त्यर्थप्राधान्योक्तेः । हिरुगादिष्वाख्यातलक्षणस्य तेषां क्रियाप्रधानत्वादतिव्याप्तिरिति तु नाशङ्कनीयम् । तेषां क्रियामात्रविशेषणत्वात्तथा व्यवहारो; न तु साध्यावस्थार्थविशेषकबोधजनकतेति बोध्यम् । *भूवादिसूत्रस्थेति । तत्र हि “का तर्हि इयं वाचो युक्ति पचति भवति, त्वं पचसि भवति पक्ष्यति भवतीतिः सैषा वाचोयुक्तिः पच्यादिक्रिया भवतिक्रियायाः को भवन्ति इति प्रतिपादितम् । एतद्भाष्यग्रन्थादेककर्त्तकपचिक्रियैकककं भवनमित्यादिक्रमेण शाब्दबोधस्तेषु भवतीति लभ्यते । प्रत्ययार्थस्य प्राधान्येत्वेतद्भाष्यविरोधः स्पष्ट एव । Page #64 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । दर्पणः कृत्यादिरूपभावनाया आख्यातार्थत्वे मानं तु भूवादिसूत्रस्थम् - " कथं ज्ञायतेऽयं प्रकृत्यर्थोऽयं प्रत्ययार्थ” इति प्रघट्टकेऽन्वयव्यतिरेकाभ्यां शक्तिग्राहकम् - " इह पचतीत्युक्ते कश्चिच्छन्दः श्रूयते, पच्शब्दश्चकारान्त अतिश्च प्रत्ययः श्रूयते प्रत्ययार्थोऽपि कश्चिद्गम्यते, विक्लित्तिः कर्त्तृत्वमेकत्वम् । पठतीत्युक्ते कश्चिच्छन्दो हीयते कश्चिद्दुपजायते कश्चिदन्वयी । पच्छब्दो हीयते, पठ्शब्द उपजायते, अतिशब्दाश्चान्वयी । अपि कचिद्धीयते कश्चिदुपजायते, कश्चिदन्वयी । विक्लित्तिहयते, पठिक्रियोपजायते, कर्त्तृत्वमेकत्वं चान्वयि । तेन मन्यामहे यः शब्दो हीयते तस्याऽसावर्थो योऽर्थो हीयते, यः शब्द उपजायते तस्याऽसावर्थो योऽर्थ उपजायते, यः शब्दोऽन्वयी तस्याsसावर्थो योऽर्थोऽन्वयी” इति भाष्यम् । तत्राऽतेः प्रत्ययस्य कैश्चित्पूर्वाचार्यैः कल्पनाद् अतिश्च प्रत्यय इत्युक्तमिति कैयटः । पच्यते पठ्यते इत्यादावप्युक्ताऽन्वयव्यतिरेकोहेशेन कर्मत्वस्याप्याख्यातार्थत्वं न्यायसाम्यात्तत एवाऽवधार्यते । ३५ किञ्च "भावप्रधानम्” इति निरुक्तम् । तद्भाष्यस्वरसात् । सकलकारकसङ्ख्याविशिष्टभावनाया धात्वर्थत्वमाश्रित्य प्रवृत्तम् । अत एव नामलक्षणनिर्वचनेन कारकस्य तत्र नामार्थत्वेनोल्लेखः । तस्य धातुलभ्यत्वेन नामार्थत्वाभावादिति तदाशयात् । नच रूपप्सूत्रस्थभाष्यप्रामाण्यात् क्रियाया एकत्वसत्त्वेऽपि द्वित्वाऽऽदिसत्वे मानाभावात्कथं तथोक्तसङ्गतिरिति वाच्यम् । परेत्वित्यादिना वक्ष्यमाणरीत्या कारकगतायास्तस्यास्तत्राऽऽरोपसम्भवात् । कालसङ्ख्ययोर्योत्यत्ववत् कारकस्यापि द्योत्यत्वं न्यायसाम्यात् । तस्य प्रत्ययार्थत्वोपगमे पाचकः पक्क इत्यादाविव प्राधान्यापत्तेः । जात्यतिरिक्तपदार्थस्य विशेषणताया द्योत्यत्वस्यैव तन्त्रत्त्वात् । अत एव "स्त्रियाम्” ( पा०सू० ४।१।३ ) इति सूत्रे भाष्ये प्राधान्याऽऽपत्तिभिया लिङ्गस्य वाच्यतापक्ष उपेक्षितः । वाच्यस्याऽपि प्रकृत्यर्थविशेषणत्वे तदसङ्गतिः स्पष्टैव । न चोक्तकल्पे 'ग्रामं गच्छति' इत्यत्र कर्मबोधवद्धातोरपादानादिकारकविशिष्टक्रियाबोधाऽऽपत्तिः । पञ्चम्यादिरूपसमभिव्याहृतद्योतकविभक्तेरभावात् । तत्र कर्त्तृकर्मणोस्तिङ्समभिव्याहृतद्वितीया दिविभक्तिश्च द्योतिका, अन्येषां त्वन्याः । न हि स्वप्रकृतिकप्रत्ययत्वमेव स्वार्थद्योतकतायां तन्त्रम् । उपसर्गाणां तदनापत्तेः । किन्तु स्वसमभिव्याहृतप्रत्ययनिपातान्यतरत्वम् । तच्च तण्डुलादिपदोत्तरविभक्तेरप्यक्षतम् । द्रव्यस्य संख्या विशेषितस्य तत्वे नाम्नः संख्याभानाऽऽपत्या तदर्थकत्वमावश्यकमिति तद्भावः । अत एव “भावकालकारकसङ्ख्याश्चत्वारोऽर्था आख्यातस्य" इति भाष्यस्थकारकपदस्याऽसङ्कुचितवृत्तिताऽपि सङ्गच्छते । यदि चान्यप्रकृतिकविभक्तेरन्यप्रकृत्यर्थद्योतकतायाः क्वाप्यदृष्टचरत्वान्नोक्ताऽऽ परीक्षा अत्रेदम्बोध्यम् — काले या शक्तिरुक्ताः सा निरूपकतया तत्र वर्त्तते । आश्रयतया तु लत्वाद्यवच्छिन्ने तत्र वर्त्तमानत्वे वर्त्तमानप्रागभावप्रतियोगित्वरूपभविष्यत्वे वर्त्तमानध्वंसप्रतियोगित्वरूपेऽतीतत्वे यद्वर्त्तमानत्वघटकं तत्तद् दिवसादिकालवृत्तित्वरूपम् । क्रियाया विगमेऽपि तद्दिनमादाय पचतीत्यादिव्यवहारापत्तेः । किन्तु तत्तच्छन्द प्रयोगाधिकर णक्षणवृत्तित्वरूपमेव । नचैवमेव दवपरिवर्त्तनरूपक्रियाधिकरणक्षणे सर्वासां क्रियाणां वर्त्तमानत्वाभावात्पचतीत्यादिव्यवहारानुपपत्तिरिति वाच्यम् ? Page #65 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे दर्पणः शयवर्णन साधीय इति विभाव्यते, तदापि संख्याकालकर्त्तकर्मकारकविशिष्टक्रियाया धात्वर्थत्वमादाय तत्प्रवृत्तिः। आख्यातस्यव तादृशक्रियाद्योतकतासम्भवात् । न चास्त्वेवमेवाऽऽशयः । वाच्यताकल्पोक्तकार्यकारणभावकल्पनप्रयुक्तलाघवस्योपोदलकत्वादिति वाच्यम् । यत् तादृशमतं प्रक्रियादशायां चक्षुःश्रुत्युक्तिविश्वस्तैरप्याश्रयितुमशक्यम् , प्रागेव तु प्रकृतिप्रत्ययाऽर्थविवेचनचतुरैरक्षपादैः । तथाहिकारकविशिष्टक्रियाया धात्वर्थत्वे "लः कर्मणि" इति विधिवैयापत्तिः । नच तस्य द्योतकत्वप्रतिपादकता । शानजादेरपि तथात्वाऽऽपत्त्या, तत्रापि कादीनां क्रियाविशेषणतया भानापत्तेः। किञ्च चैत्रौ पचत इत्यादौ चैत्रादिगतसंख्यायास्तत्रारोपे मानाभावः। वाचकतामते काशे तहानोपगमेन प्रयोगप्रामाण्योपपत्तावप्रामाण्याऽभ्युपगमस्याऽन्याय्यत्वात् । स्वाश्रयाऽऽधेयत्वसंबन्धेन द्वित्वादेस्तत्र सत्त्वेऽप्यव्यावर्त्तकतया विशेषणत्वाऽभावेन तद्वैशिष्टयस्य तत्राऽसम्भवाच्च । न हि द्वित्वाश्रयाश्रितं घटाऽऽदिरूपं, क्रिया वा, द्वे इति व्यवहियते । अधिकमग्रे वक्ष्यते । किञ्च कतकर्मणोः पदार्थैकदेशतया तत्र देवदत्तादीनामन्वयाऽसम्भवः । “पदार्थः पदार्थेनाऽन्वेति" इति व्युत्पत्तेः । तदन्वयाऽभ्युपगमेऽपि धात्वर्थेऽभेदेन विशेषणतया स्तोकादिपदवन्नपुंसकत्वाऽऽपत्तिश्च । अपि च क्रियाविशेषणत्वेनोपस्थितस्य कर्तुविशेषेणाऽऽकाहाविरहात् पचतीत्युक्ते, कः कीगिति प्रश्नाऽनुपपत्तिः। वक्ष्यति हि ग्रन्थकृत्-'नहि गुणभूतः कर्ता निषेधं स्वाङ्गत्वेन ग्रहीतुमलम्। इति । अत एवैतत्प्रामाण्यात् प्रत्ययवाच्यत्वं, कर्तुर्धात्वर्थविशेषणत्वं चेति गजन्तःपरास्ताः । प्रत्ययस्य द्योतकतायामेव तन्नियमस्य दर्शितत्त्वात् । प्रत्ययार्थप्राधान्यस्यैवततो लाभाच्च। नच भावनायाः प्रत्ययवाच्यतापक्षेऽप्युक्तप्रश्नाऽनुपपत्तिर्दुःसमाधेयैवेति वाच्यम् । शक्तिभ्रमाल्लक्षणया वोपस्थितस्य कर्तुः साकाङ्क्षत्वसम्भवात्। . किञ्च 'प्रत्यायानां प्रकृत्यर्थाऽन्वितस्वार्थबोधकत्वम्' इतिव्युत्पत्तिसिद्धविभक्त्यर्थसङ्ख्याप्रकारकबोधं प्रति विशेष्यतया प्रकृतिजन्योपस्थितेहेतुत्वस्य कर्नादावभावेन सवयाऽन्वयाऽसम्भवः। आख्यातार्थसङ्घन्याप्रकारकबोधे आख्यातार्थकर्तृकर्मोपस्थितेहेतुत्वकल्पनमप्याग्रहमूलकमेव । पदार्थयोराधाराधेयभावेनाऽन्वये विभिन्नपदजन्योपस्थितेस्तन्त्रत्वात् । विभक्त्यर्थकर्तुलिङ्गानन्वयिनोऽद्रव्यतया तत्र सङ्घयान्वयासम्भवात् । “गुणानां च परार्थत्वाद्" इति न्यायाच्च । मन्मते अयोग्यतया तस्याः स्वप्र परीक्षा एकैकावयवे समुदायरूपत्वारोपेण तादृशव्यवहारात् । एवं पचतीत्यादौ तत्तदाख्यातजन्या या वर्तमानत्वादिप्रकारिका प्रतीतिस्तद्विषयतायां तत्तच्छब्दप्रयोगाधिकरणकालवृत्तित्वमादाय सा प्रतीतिर्वाच्या । अत एव पाकान्निवृत्तेऽपि कर्तरि तदीयव्यापारे वर्तमानत्वभ्रमेण पचति चैत्र' इत्यादिव्यवहारस्योपपत्तिः । भविष्यत्वादिघटकवर्तमानत्वन्तु प्रागभावादिष्वेवान्वेति । विषयतायां वर्तमानत्वान्वयादेव पौराणिकीयश्रीकृष्णादिजन्मनो वर्णने कृते 'श्रीकृष्णो विहरति'इत्यादिव्यवहारस्योपपत्तिः Page #66 -------------------------------------------------------------------------- ________________ . धात्वर्थनिर्णयः। दर्पणः कृत्यर्थानन्वयेऽपि प्रकृत्यर्थान्वयनियमोऽक्षत एव । “अणुरपि विशेषोऽध्यवसायकर" इति न्यायात्। किञ्चाऽऽख्यातस्य कर्थकत्वे राजसम्बन्धिपुरुषाऽभिन्नकर्तृकं गमनमित्यभिप्रायेण 'राज्ञः पुरुषो गच्छति' इतिवत् स्वस्वामिभावादिसम्बन्धेन राज्ञः कर्तृत्वेन विवक्षया राजा पुरुषो गच्छतीति प्रयोगापत्तिः। नच तत्र षष्ठीप्रसक्तिः । तदर्थस्य प्रातिपदिकार्थविशेष्यतया विवक्षायामेव तत्प्रसरात् । व्यक्तीभविष्यति चैतदुपरिष्टात् । आख्यातार्थकर्तुरनामधात्वर्थत्वेन "नामार्थधात्वर्थत्वयोः” इति व्युत्पत्तिविषयताया अप्यभावात्। __ नच तवापि 'चैत्रस्य पाकानुकूला कृतिः' इति चैत्रस्य पचतीति प्रयोगापत्तिरिति वाच्यम् । षष्ट्यर्थस्य नामार्थसाकाङ्क्षतयाऽऽख्यातार्थकृतेश्च प्रथमान्तार्थसाकाङ्क्षतया परस्पराकाङ्क्षाविरहात् । “गुरुविप्रतपस्विदुर्गतानाम्" इत्यादाविव पाकादिसम्बन्धितया चैत्रादिविवक्षायां षष्ठयन्तप्रयोगस्य सर्वै रेवोपगमाच्च । तस्माद्धात्वर्थक्रियाया आख्यातार्थ प्रति प्राधान्ये निरुक्तमानोपन्यसनं मुधैवेति कोविदो विदांकुर्वन्तु। __ पचतिभवतीत्यादौ तु पाकानुकूलाऽऽख्यातार्थकृतौ भावनाश्रयत्वरूपभवतीति तिङन्तार्थभावनाऽन्वयोपगमेन पाकविशिष्टकृतौ भवनकर्तृत्वेऽवगते तद्विशेषणपच्यर्थक्रियायामपि तल्लाभात् “पचादयः क्रियाः भवतिक्रियायाः कयो भवन्ति" इति भाष्यस्थादिपदस्य हेतुपरतया तेन व्यापाराऽर्थकपचादिशब्दस्य समासे पच्याद्यर्थहेतवः क्रियाः कृत्यात्मकव्यापारा भवनक्रियानिरूपितकर्तृत्ववत्यो भवन्तीत्यर्थस्य तस्माल्लाभाद् वा तादृशैकवाक्यत्वस्यास्माभिरभ्युपगमान्न भूवादिसूत्रस्थभाष्यविरोधोऽपि । तादृशभाष्यप्रामाण्यादेव च भवन्मते धात्वर्थप्रकारकबोधे धातुजन्योपस्थितेहेतुत्ववन्मन्मतेऽप्याख्यातार्थभावनाप्रकारकबोधे तिजन्यभावनोपस्थितेरपि विशेष्यतासम्बन्धेन हेतुत्वस्य कल्प्यतयोक्तैकवाक्यत्वस्य सूपपादत्वात् । न चोक्तबोधाभ्युपगमे आख्यातेन कर्तुरबोधनाच्चैत्रादिपदोत्तरं तृतीयाऽऽपत्तिरिति वाच्यम् । तस्यां चैत्रस्याऽऽधेयतासम्बन्धेनाऽन्वयाभ्युपगमेन मुख्यविशेष्यतयैव तदानेन आश्रयातिरिक्तांशे विशेषणतया कृत्याश्रयबोधनरूपस्याभिधानस्य तत्र सत्वात्तृतीयाऽऽपत्त्यसम्भवात्। नच चैत्रः पचतीत्येतावन्मात्रप्रयोगेऽपि चैत्रस्याऽऽधेयतासम्बन्धेनान्वयाऽऽपत्तिरिति वाच्यम् । प्रथमान्ताऽर्थप्रकारकबोधे तिर्थविशेष्यतापन्नभावनौपस्थितेहेतुत्वस्यापि कल्पनेनोक्तदोषाऽप्रसक्तः। नच चैत्रे पाकानुकूला कृतिरित्यत्रेव चैत्रः पचतिभवतीत्यादौ सप्तम्याऽऽपत्तिर्दुरैवेति वाच्यम् । धात्वर्थविशेषणीभूताधेयत्वस्य प्रातिपदिकार्थविशेष्यतया विव परीक्षा कार्या । भविष्यत्वादिघटकवर्त्तमानत्वं न शब्दप्रयोगाधिकरणक्षणवृत्तित्वरूपम् । किन्तु वर्तमानत्वेन ज्ञायमानत्वरूपम् । ननु प्रत्ययार्थकृतेः प्राधान्येऽपि निरुक्तभाष्योपपत्तिर्भविष्यतिः तत्रत्यभावशब्दः कृतिपर एव, तस्याश्च प्रथमान्तपदासमभिव्याहारे प्राधान्यस्यानुभवसिद्धत्वात्, भूवादिसूत्रस्थभाष्यस्यापि भवनक्रियाकर्तृविक्लित्यनुकूलव्यापारानुकूलकृतिमानि Page #67 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेअपिच आख्यातार्थप्राधान्ये तस्यदेवदत्तादिभिःसममभेदान्वयात्प्रथमान्तस्य प्राधान्यापत्तिः। तथाच पश्य मृगो धावति इत्यत्र भाष्यसिद्धेकवाक्यता न स्यात् । प्रथमान्तमृगस्य धावनक्रियाविशेष्यस्य द्वशिक्रियायां कर्मत्वापत्तौ द्वितीयाए । नचैवमप्रथ दर्पणः क्षायामेव सप्तमीविधानात्। एवमाधेयत्वस्य प्रकारतयाऽविवक्षणाच्च । इदं चाख्यातार्थकृतिमुख्यविशेष्यकबोधमभिप्रेत्योक्तम् । वस्तुतस्तु 'चैत्रः पचतिभवति इत्यादौ प्रथमान्तार्थविशेष्यकबोधाभ्युपगमेऽपि नैकवाक्यताक्षतिः। भवनकर्त्तत्वाऽन्विताया एव पाकविषयकभावनायाश्चैत्रांशे प्रकारतया भानसम्भवात्।। ___एतेन कृतिविशेष्यकबोधाभ्युपगमे प्रथमान्तार्थप्रकारकबोधे तिङर्थभावनोपस्थितेहेतुत्वकल्पने गौरवमिति दूषणमलग्नकम् । विशेषणतयैव तदऽन्वयाभ्युपगमादित्यरुचेराह-अपि चेति । *अभेदान्वयादिति । इदं च तन्मतेऽपि कर्ताऽऽख्यातार्थ इति स्वीयवासनाऽनुसारेण । नैयायिकमते तु कृतेराख्यातार्थतया तस्या आश्रयत्वेनैव प्रथमान्तपदाऽर्थेऽन्वयादित्यवधेयम् ॥ ___*भाष्यसिद्धेति । "क्रियाऽपि कृत्रिमं कर्म, क्रियाऽपि हि क्रिययेप्सिता भवति, कया संदर्शनप्रार्थनादिक्रियया” इति “कर्मणा यम्" ( पा० सू० ११४।३२ ) इति सूत्रस्थभाष्यसिद्धेत्यर्थः । त्वन्मते धावनाऽनुकूलकृतिमान्मृग इत्यवान्तरवाक्यार्थबोधस्य तत्र जायमानत्वेन धावनस्य कर्बवरुद्धतया विशेषणतयाऽन्यत्राऽन्वये नैराकाङ्क्षयेण दर्शने कर्मतयाऽन्वयाऽयोगात्। किन्तु धावनाऽनुकूलकृतिमान् मृगो दर्शनाश्रयस्त्वमित्येव बोध एष्टव्यः । एवञ्चैकमुख्यविशेष्यकबोधजनकत्वरूपैकवाक्यत्वाsभावात् तद्विरोधो दुर्वार इति भावः। । ननु धावनाऽनुकूलकृतिमन्मृगस्यैव कर्मतया दृश्यर्थेऽन्वयानोक्तदोषोऽत आह*प्रथमान्तेति* । *कर्मत्वापत्ताविति । कर्मत्वेन प्रकारतापत्तावित्यर्थः। कर्मतासम्बन्धेन मृगस्य दर्शनक्रियायायामन्वयस्त्वसम्भवी । “नामार्थधात्वर्थयोः” इति व्युत्पत्तिविरोधात् , वक्ष्यमाणद्वितीयाऽऽपादनविरोधाच्चेति भावः। द्वितीयापत्तेरिति । कर्मणोऽत्र तिङ्गाऽनभिधानेन अनभिहिताधिकारीय “कर्मणि द्वितीया" (पासू०२।३।१) इत्यस्य जागरूकत्वादिति भावः॥ *एवमिति । मृगपदोत्तर द्वितीयाप्रसङ्गे इत्यर्थः । शतृशानविधौ लडर्थकर्तुः परीक्षा त्यन्वयबोधस्वीकारेणोपपत्तिसम्भवादित्यत आह-अपि चेति । *अभेदाम्वयादिति । एवमभिधानं कर्तुराख्यातवाच्यत्वमिति स्ववासनया । नैयायिकमते तु कृतेर्वाच्यतया तस्याः प्रथमान्तपदार्थे भेदसम्बन्धेनैव विशेषणत्वम् । भाष्यसिद्धकवाक्यत्वानुपपत्तिस्तूभयथाऽप्यस्त्येव । तथाहि-“कर्मणा यमभिप्रैति" इति सूत्रभाष्येक्रियाग्रहणं कर्त्तव्यम्' इति वार्तिकखण्डनावसरे क्रियाऽपि कृत्रिमकर्मरूपा, क्रिययासन्दर्शनप्रार्थनादिक्रिययेत्युक्तम् , तद्रीत्या 'पश्य मृगो धावति' इत्यत्र धावनक्रियया दर्शनकर्मत्वमिष्यते। भवन्मते धावनक्रियाया आख्यातार्थ प्रति विशेषणत्वादू, अवा Page #68 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। मासामानाधिकरण्याच्छतृप्रसङ्गः । एवमपि द्वितीयाया दुर्वारत्वेन 'पश्य मृग' इत्यादिवाक्यस्यैवाऽसम्भवापत्तेः। ... न च पश्येत्यत्र तमिति कर्माध्याहार्यम्। वाक्यभेदप्रसङ्गात्। उत्कटधावनक्रियाविशेषस्यैव दर्शनकर्मतयाऽन्वयस्य प्रतिपिपादयिषितत्वाद्, अध्याहारेऽनन्वयापत्तेश्च । एवञ्च भावनाप्रकारकबोधे प्रथ दर्पणः प्रथमान्ताऽर्थसामानाधिकरण्येन विशेषितत्वान्मृगपदस्य द्वितीयान्तत्वे तदापत्त्या द्वितीया न भविष्यतीति शङ्कितुराशयः । न हि शत्रापत्तिद्वितीयाप्रतिबन्धिका, किन्तु कर्मणोऽभिधानम् । तदभावसत्त्वाच्च द्वितीया दुर्वारेत्याशयेन समाधत्ते-*एवमपीति। *असम्भवापत्तेरिति । मृगस्य कर्मतया दृश्यर्थेऽन्वयोपगमे 'धावन्तं मृगं पश्य' इति वाक्यस्यैवोचितत्वादित्यर्थः ।। ___ ननु अथैक्यादेकं वाक्यं साकाङ्क्षञ्चेद्विभागे स्याद्” ( पू० मी अ० २ पा० १ अ० १४ सू० ४६ ) इति जैमिनिसूत्राद् विच्छिद्य पाठे साकाङ्क्षत्वे सत्येकार्थप्रतिपत्तिजनकत्वमेकवाक्यत्वमित्यर्थो लभ्यते । प्रकृते तमित्युक्ते कमित्याकाङ्क्षासत्वाद्यथाकथञ्चिद्वाक्यद्वयस्य धावनाऽनुकूलकृतिमन्मृगकर्मकदर्शनरूपैकार्थप्रतिपादकत्वाच्च न वाक्यभेदप्रसङ्गोऽत आह-*उत्कटेति*। *अध्याहार इति* । पूर्वाऽनुपात्ताकासितपदस्याऽनुसन्धाने इत्यर्थः। *अन्वयापत्तेश्चेति । तत्पदेन मृगस्य धावनाऽनुकूलकृतिमन्मृगस्य वा परामर्शेऽपीप्सितस्य तादृशधावनक्रियाया दृश्यर्थकर्मत्वान्वयस्य तद्वाक्यादानाऽनुपपत्तेरित्यर्थः। उपसंहरति-*एवञ्चेति । आख्यातार्थविशेष्यकबोधाs परीक्षा न्तरवाक्यार्थबोधे सति यो महावाक्यार्थबोधस्तस्मिन् धावनस्य विशेषणतया भानं न स्यात् ; किन्तु प्राथमिकबोधविशेष्यस्य मृगस्यैव धावनं प्रति विशेषणत्वं स्यात् । एवं च मृगशब्दाद् द्वितीयापत्तिः । यदि च धावनानुकूलकृतिमान् मृगो दर्शनाश्रयत्वमिति बोधस्तदैकवाक्यत्वानुपपत्तिरस्त्येव । एकमुख्यविशेष्यकबोधजनकत्वं हि समुदायनिष्ठमेकवाक्यत्वम् , तद्भावसत्वात् । न च मृगपदार्थस्य कर्मतासम्बन्धेन दर्शनक्रियां प्रति विशेषणत्वमस्त्विति वाच्यम् । नामार्थधात्वर्थयोर्भेदसम्बन्धेनान्वयबोधस्याव्युत्पन्नत्वात् । एवमपि तिङा कर्मणोऽनभिधानेन द्वितीयापत्तिरस्त्येव । *एवम्*मृगपदाद् द्वितीयाप्रसङ्गे । *एवमपि*-लटः शत्रादेशप्रसङ्गऽपि । न हि लटः शत्रादेशो द्वितीयां प्रति प्रतिबन्धकः ; किन्तु कर्मणोऽभिधानम् ; तच्चात्र नास्तीति भावः । *वाक्यभेदप्रसङ्गादिति । एवं मुख्यविशेष्यकबोधजनकं ह्येकवाक्यम् । तथात्वं तु अस्य न स्यादित्यर्थः । ननु "अर्थक्यादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात्, इति जैमिन्युक्तैकवाक्यता अस्त्येव । विछिद्यपाठे साकाङ्क्षत्वे सत्येकार्थप्रतिपत्तिकरं ह्येक वाक्यमिति तदर्थात्, तच्चानास्त्येव । धावनानुकूलकृतिमन्मृगकर्मकदर्शनप्रतिपादकत्वस्यात्र सत्वादत आह-*उत्कटेत्यादि । *अनन्वयापत्तेश्चेति । क्रियाया इत्यादिः। तमित्यनेन शुद्धमृगस्य धावनानुकूलकृतिविशिष्टमृगस्य वा परामर्श सति तस्यैव दर्शनक्रियायां कर्मत्वं स्याद् । न तु धावनक्रियाया इति भावः । न च तामि Page #69 -------------------------------------------------------------------------- ________________ दर्पणपरोक्षासहिते भूषणसारेमान्तपदजन्योपस्थितिः कारणमितिनैयायिकोक्तं नादरणीयम् । किन्तु आख्यातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वावच्छिन्नविषयतया कारणमिति कार्यकारणभावो द्रष्टव्यः। भावनाप्रकारकबोधं प्रति तु, कृजन्योपस्थितिवद् धात्वर्थभावनोपस्थितिरपि हेतुः। 'पश्य मृगो धावति' 'पचति भवति' इत्याद्यऽनुरोधादिति दिक् । . दर्पणः ङ्गीकर्तृनये एकवाक्यताऽनुपपत्तिरूपदूषणदाव्य चेत्यर्थः। *नादरणीयमिति । उक्तदोषग्रस्तत्वादिति भावः । स्वमतनिष्कर्षमाह-*किन्विति । फले व्यभिचारनिरासायोपस्थितिविशेष्यतां विशिनष्टि-*भावनात्वावच्छिन्नेति । ___ ननु त्वन्मतेऽप्याख्यातस्य धात्वर्थमुख्यविशेष्यकबोधजनकन्वनियमभङ्गाप्रसङ्गोऽत आह-*पश्येति । तथाचोक्तनियम एतदतिरिक्तविषयक इति भावः । __ननु धावनकर्त्तत्वविशिष्टमृगरूपवाक्याऽर्थस्य कर्मतया दर्शनेऽन्वयः । तथाच न "नामार्थयोः” इति व्युत्पत्तिविरोधः । वाक्यस्यानामत्वात् । अत एव न ततो द्वितीयापत्तिरपि। धावनविशिष्टस्य दर्शनकर्मत्वाऽवगतौ विशेषणीभूतधावनस्यापि कर्मतालाभाच्च न प्रतिपिपादयिषितान्वयालाभोऽपि । 'चैत्रः पचतिभवति' इत्यादौ तूक्तदिशैकवाक्यत्वमुपपादितमेव । तथाचोक्तकार्यकारणभावकल्पे कथं तदनुरोधो बीजमत आह-दिगिति । तदर्थस्त्वेवं रीत्या वाक्यैकवाक्यताप्रतिपादने भाष्यकृसम्मतपदैकवाक्यतया प्रतिपिपादयिषितान्वयालाभ एव । किं चाभेदेन नीलविशिष्टघ परीक्षा त्यस्याध्याहारः कार्य्यः इति क्रियाया दर्शनेऽन्वयो भविष्यतीति वाच्यम् । सर्वनाम्नां प्रधानपरामर्शकत्वेन भवन्मते धावनक्रियाया विशेषणत्वेन तस्याः परामर्शासम्भवात् । *एवं च*-आख्यातार्थविशेष्यकशाब्दबोधाभावसिद्धौ च । भवत्सम्मतकार्य्यतावच्छेदकधाक्रान्तस्यैवाभावात् । किञ्च भवदुक्तरीत्याऽऽख्यातार्थभावनाप्रकारकप्रथमान्तार्थविशेष्यकशाब्दबोधस्य स्वीकारे यत्र चोभे नामाख्याते भवतो वाक्ये 'तत्र ते भावप्रधाने' इति नैरुक्तवाक्यान्तरविरोधापत्तिर्दुर्वारा । स्वसिद्धान्तमाह-किन्विति । *भावनात्वावच्छिन्नेति । भावनात्वेनावच्छिन्ना समानाधिकरणा या विषयता तया । भावनात्वप्रकारतानिरूपितविशेष्यतयेति यावत् । ननु केवलमृगमात्रस्य चेत्कमेतया ऽन्वयः, तदा द्वितीयाप्राप्तिः। कर्मतासम्बन्धेनान्वये तु भेदसम्भवेनान्वयसम्भवरूपो दोषः प्राप्नोति। धावनानुकूलकृतिविशिष्टमृगस्य कर्मतासम्बन्धेन दृशिक्रियायामन्वये तु मृगपदाद् द्वितीयापत्तिः । मृगपदस्य कमवाक्यार्थावाचकत्वात् । नापि नामार्थधात्वथयोर्भेदसम्बन्धेन व्युत्पत्तिविरोधान्वय इत्यस्यावसरः । नामार्थस्यानन्वयात् , अत एव "श्रुत्वा ममतन्माहात्म्यं तथाचोत्पत्तयः शुभाः" इत्यस्योपपत्तिरिति चेद् ? न। नीलाभिन्नघटस्य कर्मतयाऽन्वयविवक्षायां नीलं घटं पश्येति प्रयोगानुपपत्तेः। किञ्च भाष्यसम्मतैकवाक्यत्वानु *दिगिति* । दिगर्थस्तु धावनक्रियाकर्तृत्वापन्नस्य मृगस्य दृशिक्रियायां कर्मतया द्धाराच्च । Page #70 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । दर्पणः । टस्य कर्मत्वे प्रतिपिपादयिषिते, 'नीलं घटं जानाति' इत्यादौ द्वितीयानुपपत्तिरिति । अत्र नैयायिकाः- धावन क्रियाकर्तृत्वावरुद्धमृगस्य कर्मतासम्बन्धेन दृश्यर्थेऽन्वयोपगमात् पदैकवाक्यताभङ्गः । तदवरुद्धत्वं च तदन्वयितया तात्पर्यविषयत्वम् । नचैवं कर्मतासंसर्गेण तण्डुलस्याऽप्यन्वयसम्भवात् 'तण्डुलः पचति' इति प्रयोगापत्तिरिति वाच्यम् । यतो न वयं सामान्यतः कर्मत्वादिभेदसम्बन्धेन नामार्थस्य धात्वर्थेऽन्वयमभ्युपेमः, किन्तु क्रियान्तरकर्तृत्वाऽवरुद्धस्य । नच तण्डुलस्तथा, येन पच्याद्यर्थं तस्य कर्मतासंसर्गः स्यात् । अत एव 'काष्ठं भस्मराशिः करोति' इति न प्रयोगः । भस्मराशेः कर्त्तृत्वानवरुद्धत्वात् । 'काष्ठं भस्मराशिः क्रियते' इत्यादौ कर्मत्वान्तरावरुद्धक्रियायां तु तदनवरुद्धम्यापि व्युत्पत्तिवैचित्र्यात् । तस्य तत्र तत्संसर्गत्वाऽनभ्युपगमे वाक्या भेदाssपत्या तद्वाक्यजबोधस्य 'काष्ठं नश्यते, 'भस्म क्रियते इति वाक्यद्वय. जबोधस्येव 'भस्मकाष्ठविकृतिर्वा' इति संशयनिवर्त्तकत्वानापत्तेरित्याद्यन्यत्र प्रपञ्चितम् । एवं चात्र पदैकवाक्यताया अनायासेनैवोपपत्तौ धात्वर्थभावनाप्रकारकबोधे भावनोपस्थितेर्हेतुत्वं निष्प्रमाणकमेव । नाऽपि मृगपदोत्तरं द्वितीयाऽऽपत्तिः । प्रातिपदिकार्थविशेष्यतया कर्मत्वस्याऽविवक्षणात् । अत एव न तत्र षष्ठीप्रसक्तिरपि । संसर्गस्य प्रातिपदिकार्थविशेष्यतया विवक्षायामेव “षष्ठी शेषे” ( पा०सू० २।३।५० ) इत्यनेन तद्विधानात् । एवं 'घटो नास्ति' इत्यादावपि बोध्यम् । किन्तु प्रातिपदिकार्थे तत्र प्रथमैव । नाऽपि 'नीलं घटं जानाति' इति प्रयोगानुपपत्तिः । घटस्य क्रियान्तरकर्त्तृत्वाऽनवरुद्धत्वेन कर्मत्वान्तरविशेषणतानापन्नायां जानात्यर्थक्रियायां कर्मतायाः संसर्गत्वाऽसम्भवात् । 'पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः । इत्यादावस्तीत्यध्याहार्य्यम् । वस्तुतस्त्वत्र दृष्टान्तेन 'तण्डुलः पचति' इत्यादौ बोधrssपादनं न विचारसहम् । कर्मताऽन्यसंसर्गकपच्यर्थविशेष्यकबोधस्याप्रसिद्धौ तथाऽऽपादनासम्भवात्। 'तण्डुलं पचति' इत्यादौ विभक्त्यर्थकर्मत्वसम्बन्धेन ताहशबोधः प्रसिद्ध इति चेत्तर्हि तादृशबोधे द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतीत्यानुपूर्वीज्ञानस्य हेतुतया तदभावादेवाऽऽपाद्यस्याप्यऽसम्भवात् । तदुक्तम्- यादृशं फलं क्वचित् प्रसिद्धं तादृशस्यैवाऽऽपत्तिः सम्भवति' इति । ४१ परीक्षा ऽन्वये तु न क्वाप्यनुपपत्तिः । तादृशक्रियाकर्तृत्वापन्नस्य कर्मत्वमित्यस्य धावनक्रियाकर्त्तृत्वनिष्ठ प्रकारता निरूपित विशेष्यत्वावच्छिन्ना या कर्मत्वसम्बन्धावच्छिन्न या ताशक्रियानिष्ठविशेष्यता निरूपितप्रकारता तच्छक्तित्वमित्यर्थः । एवं सति तण्डुलः पचतीत्यस्मात्कर्मत्व सम्बन्धावच्छिन्नतण्डुलप्रकार कशाब्दबोधापत्तिवारणाय भेदसम्बन्धावच्छिन्ननामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेनान्वये प्रत्ययजन्योपस्थितेर्विशेष्यतासम्बन्धेन हेतुत्वमिति यः कार्य्यकारणभावस्तद्विरोधोऽपि न । यत्र भेदसम्बन्धावच्छिन्ननामार्थनिष्ठप्रकारताया अन्यनिष्ठप्रकारता निरूपितविशेष्यतानवच्छिन्नत्वम्, तत्रैव कारणबाधः क्षतिकरः । अत एव पदैकवाक्यता । तादृशविशिष्ट वैशिष्ट्या वगाहिबोधजनकत्वान्नापि मृगपदाद् द्वितीयापत्तिः । सम्भवति यत्र प्रातिपदिकार्थविशेष्यतया कर्मत्वस्यान्वयविवक्षाः तत्रैव कर्मत्ववाचिका विभक्ति६ द० प० Page #71 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहित भूषणसारे दर्पणः एतेन .“पश्य लक्ष्मण इत्यत्र "अस्तिर्भवन्तीपरोऽनुप्रयुज्यमानोऽप्यस्ति" इति भाष्यस्थाऽपिशब्दस्वारस्येन वाक्यपरिपोषकक्रियान्तराऽभावेऽस्तेरध्याहार इत्यर्थलाभेन प्रकृते वाक्यपरिपोषिकाया दर्शनक्रियायाः सत्त्वेन तदध्याहारे मानाभावात् कर्मतासंसर्गेणाऽन्वयोऽनुपपन्न इति दूषणमलग्नकम् । एवञ्चाख्याते प्रथमान्तपदसमभिव्याहारे प्रायः प्रथमान्तार्थविशेष्यकबोधो निराबाधः । अत एव 'यो यः शूद्रस्य पचति द्विजोऽन्नं सोऽतिनिन्दितः' इत्यत्र प्रधानपरामर्शितदो द्विजपरामर्शकत्वमनायासेन सङ्गच्छते। । ननु प्रथमान्तार्थविशेष्यकबोधवादिमते 'पचतिकल्पं चैत्रः “पचतःकल्पं चैत्रौ” इत्यादौ कल्पबाद्यन्तस्य नामतया तद्विशेषणवाचकतया च प्रथमान्तचत्रादिपदसमानलिङ्गवचनत्वाऽऽपत्तिराख्यातार्थकृतेः प्रथमान्तार्थचैत्रादावभेदान्वयापत्तिश्चेति चेद् ? न । स्वार्थिकानां प्रायशः प्रकृत्यर्थताऽवच्छेदकगतकुत्सादिद्योतकतया प्रकृते प्रकृत्यर्थताऽवच्छेदकक्रियागतेषदसमाप्तत्वस्य कल्पबाद्योतनात् सत्त्वासत्वाभ्यां प्रकृत्यर्थतावच्छेदकसमानस्य भावेषदसमाप्तत्वप्रतिपादककल्पबाद्यन्ते नपुंसकैकवचनान्तत्वयोरौचित्यात् । कल्पबाद्यन्तस्य नामत्वेन समानविभक्तिकत्वेन च तदर्थस्य चैत्रेऽभेदान्वयाऽऽपत्तिरिति तु मूर्खप्रलपितत्वादनादेयम् । लक्ष्यार्थकर्तुरभेदान्वयस्येष्टत्वात् । शक्यार्थस्य त्वयोग्यत्वादेवानन्वयात् । 'घटः पट' इत्यादौ व्यभिचारवारणाय व्युत्पतावसति बाधके इति विशेषणाच्चेत्याहुः । ____ अत्रेदमाभाति-प्रथमान्तकर्तवाचकपदसमभिव्याहारे प्रायः प्रथमान्तार्थविशेष्यकबोध एव नैयायिकानाम् । क्वचित्तु 'पश्य मृगो धावति' इत्यायेकवाक्यताऽनुरोधात् तिर्थभावनाविशेष्यकोऽपि सः । तथाहि-वैयाकरणैरुक्तस्थलीयैकवाक्यतानुरोधाधात्वर्थभावनाप्रकारकबोधे धातुजन्यभावनोपस्थितेहेतुता कल्प्यते।। __नैयायिकैस्तु कर्मतासम्बन्धेन तिङर्थभावनाविशेष्यकबोधे धातुजन्यभावनोपस्थितेस्तदिति सममेव। 'प्रकृतिप्रत्ययार्थयोः इति प्रवादानुरोधात्प्रथमान्तार्थकर्तृप्रकारकबोधे क्रियान्तरकतत्वविशेष्यतापन्नतिङर्थभावनोपस्थितेरपि तत्कल्प्यते । तथाचोक्तस्थले आधेयतासम्बन्धेन मृगविशिष्टधावनाऽनुकूलकृतेः कर्मतया दृश्यर्थेऽन्वये मृगनिष्ठा या धावनाऽनुकूला कृतिस्तत्कर्मकदर्शनाऽऽश्रयस्त्वमिति वाक्यार्थबोधः।धावनविशिष्टकृतौ च बोधितकर्मत्वस्य “सविशेषणे हि" इति न्यायाद्धावने पर्यवसानाच्च प्रतिपिपादयिषितार्थस्याऽपि लाभः । नापि मृगपदोत्तरं द्वितीयाऽऽपत्तिः, मृगकर्मताया।एतवाक्यादलाभादू । एवञ्च 'पचतिभवति' इत्यत्रापि 'प्रथमान्तार्थकर्तृवि परीक्षा रिति स्वीकारात् । प्रकृते तु तस्य संसर्गतया भानेन क्षत्यभावादिति । अत एव "चैत्रःपच्यते तण्डुल" इत्यत्र कर्तृत्वसम्बन्धेनान्वयवारणाय व्युत्पत्यन्तरकल्पनं तद्विरोधोऽपि न । भेदसम्बन्धावच्छिन्नशुद्धनामार्थप्रकारकशाब्दबोधस्याप्रसिद्धतयैव तदा. पत्तेरभावात् । 'तण्डुलं पचति, 'चैत्रेण पच्यते, इत्यादौ च विभक्त्यर्थविशेष्यक एव बोधः प्रसिद्धः । यत्रतु 'पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः' इत्यादिप्रयोगः, तत्रास्तीत्यस्याध्याहारेण बकपदार्थस्य तादात्म्यसम्बन्धावच्छिन्नपरमधार्मिकनिष्टप्रकारतानिरूपितविशेष्यतावच्छिन्नस्यैव कर्मतासम्बन्धेन दृशिक्रियाकर्मत्वमतो न द्विती Page #72 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । ४३ इत्थञ्च पचतीत्यत्रैकाऽऽश्रयिका पाकाऽनुकूलाभावना । पच्यते इत्यत्रैकाऽऽश्रयिका या विक्लित्तिस्तदनुकूला भावनेति बोधः । दर्पणः शिष्टा पाककृतिर्वर्त्तमानभावनाऽऽश्रयिका' इति बोधात् तत्राऽप्येकवाक्यत्वाऽक्षतेरिति । एवञ्च 'प्रकृतिप्रत्ययार्थयोः' इतिन्यायाऽविरोधेनैव भाष्यकारोक्तपदैकवाक्यता न्यायनयेऽपि सूपपादेत्यलं परमताऽनुवर्णनेन । फलितमाह — इत्थञ्चेति । आख्याऽर्थकर्त प्रकारकबोधं प्रति धात्वर्थ भावनोपस्थितेस्तादृशकर्म प्रकारकबोधे तादृशफलोपस्थितेर्हेतुत्वे चेत्यर्थः । भावनेत्यस्य वर्तमानेत्यादिः । कर्माssख्याते भावनाविशेष्यकबोधोपवर्णनं तु प्राचामनुरोधेन । नव्यास्तु — कर्म कृतिफलविशेष्यबोधस्य दृष्टत्वेन कर्माख्यातेऽपि तद्विशेष्यकबोध एव न्याय्यः । एवञ्च प्रत्ययार्थे साक्षात्प्रकृत्यर्थविशेष्यान्वयित्वमिति व्युत्पत्तिरपि न विरुध्यते । अत एव 'इष्यते पुत्रः' इत्यर्थे, पुत्रीयतीति न । भिन्नार्थकत्वात् । किन्तु पुत्रमिच्छतीत्यर्थ एवेति "सुप आत्मनः " ( पा० सू० ३।१।८) इति सूत्रे भाष्ये उक्तम् । अन्यथोभयत्राऽपि व्यापारविशेष्यकबोधेन भिन्नार्थकत्वकथनाऽसङ्गतिः । अस्मन्मते त्वेकत्र व्यापारो विशेष्योऽन्यत्रेच्छारूपं फलमिति भिन्नार्थकत्वं ष्टमेव । क्यजन्तात्तु कर्मणि प्रत्ययो दुर्लभोऽकर्मत्वात् । उक्तञ्च कैयटेन- 'यदा क्रियाफलस्य प्रधान्यं तदा वाक्यमेव - 'इष्यते पुत्रः, न तु क्यजन्तस्तस्याकर्मकत्वात् कर्मणि प्रत्ययाऽनुत्पादात्' इति । इत्थञ्च 'भावनाजन्यैकाश्रयिका वर्त्तमाना विक्लित्तिः' इति बोध इत्याहुः । स्प भावाख्याते तु भावनैव विशेष्या । तथैवाऽनुभवात् । तिङ्त्वनुवादक एव, किन्तु लत्वादिना कालार्थकः । संख्या तु न तदर्थः । कर्त्रादिरूपाऽर्थोपस्थित्याऽत्मक हेत्वभावेनैव तदर्थसंख्याया अन्वयाऽसम्भवात् । किन्तु 'न केवला' इत्यादिन्यायेन साधुत्वार्थमेकवचनमेव । “एकवचनमुत्सर्गतः करिष्यते” इति सिद्धान्तात् । काले युक्ताभिसरणे मुह्यन्ते मृगमोहिकाः । उष्ट्रासिकाः समास्यन्ते शय्यन्ते हतशायिकाः ॥ इत्यत्र बहुवचनं तु भाष्यकारप्रयोगादेवेति प्राञ्चः । नव्यास्तु — एकवचनस्यौत्सर्गिकत्वं सत्येव गमके, यथाऽव्ययात् तदुत्पत्तौ 'अव्ययाद्दाप्युपः” इति । अत एव, "ड्यापू" ( पा० सू० ४।१।१ ) इति सूत्राभावे तिङन्तेभ्यस्तदुत्पत्तिमाशङ्कय तिङा संख्याया उक्तत्वान्नेति परिहृतं भाष्ये । त्वदुक्तरीत्या परीक्षा यापत्तिरिति नैयायिकानुसारिमतम् । तन्न मनोरमम् । भाष्यसम्मतैकवाक्यताया अनुपपादनादिति । *इत्थं च*-पूर्वोक्तव्यवस्थासिद्धौ च । इति बोध इति । प्राचीनैः कर्माख्यातसमभिव्याहारेऽपि भावनाविशेष्यक एव शाब्दबोधः स्वीक्रियते, तदभिप्रायेणेदम् । तेषां "सुप आत्मनः क्यच्” इति सूत्रभाष्ये “अथेह कस्मान्न भवति - इष्यते पुत्रः, - इष्टः पुत्र, इति । भिन्नार्थत्वात्" इत्युक्तम् । तत्रेष्यते पुत्र इत्यत्र भिन्नार्थकत्वं फलव्यापारयोर्व्यत्यासेनोपपादनीयम् । पुत्रीयतीति क्यजन्तात्पुत्रकर्मकेच्छानुकूलव्या Page #73 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - दर्पणः तिङा कारकगतायास्तस्या उक्तत्वेऽपि प्रकृत्यर्थ गतायास्तस्या अनुक्ततयौत्सर्गिकतया वैकवचनस्याशक्यवारणत्वेन तदसङ्गतिः स्पष्टैव । ४४ “द्वयेकयोः - " ( पा०सू० ७।४।२२ ) इत्यादेः “लः कर्मणि" इत्यनेनैकवाक्यताऽपि लकाराः कर्मादौ भवन्ति तेषां स्थाने चैकत्वादौ तिबादयो भवन्तीत्याकारैव । नहि तत्र द्वितीया कर्मणीत्याद्यस्ति, येन संख्यायाः कारकविशेषणता प्रतीयेत । आवृत्तौ च न मानम् । तस्मात् सर्वत्र संख्यायाः प्रकृत्यर्थ एवाऽन्वयः । 'कस्यैवाद, इत्याकाङ्क्षायामुपस्थितत्वात् प्रकृत्यर्थाऽन्वयस्यैवोचितत्वात् । कत्यादेरपि विधेयं प्रति विशेषणत्वेन, 'गुणानां च परार्थत्वात्' इतिन्यायेन संख्यायामसम्बन्धात् कर्मणीत्यादेः कस्य कर्मणीत्याकाङ्क्षासत्त्वेन तत्र धात्वर्थान्वयस्य क्लृप्तत्वात् । क्रियायामप्येकत्वमस्त्यतः - " एका क्रिया" इति रूपप्सूत्रभाष्यात् । एवञ्च तस्य प्रकृत्यर्थेऽन्वयादेकवचनम् । द्वित्वादिकं तु स्वोत्तरतिङ्वाच्यकारकगतं तत्रारोप्य कर्त्तृकर्मकेषु तिङ्क्षु द्विवचनादिसिद्धिः । अत एव न साधने द्वित्वादिसंशयः । क्रियागतसंख्यारोपस्य साधनज्ञाननिमित्तत्वात् । अनेकः पचतीत्याद्यनुरोधेन साधनेऽपि संख्यारोपस्य तवाऽपि वाच्यत्वात् तस्याऽप्यऽन्वयः प्रकृत्यर्थ एव । प्रकृते हतशायिकाः शय्यन्ते इत्यादौ हतशयनसदृशानीत्यर्थे उपमाने बहुत्वोपपादनसामर्थ्येनोपमेये ि न्तार्थक्रियारूपे उपमानगतबहुत्वारोपेण बहुवचनम् । तिङ्वाच्यकारकगताया एवारोपो, नाऽन्यगताया इत्यत्र धात्वर्थशक्तिस्वभाव एव बीजम् । अत एव भावे द्विवचनादि । तदुक्तम् एकत्वेऽपि क्रियाssख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ॥ इति । एवञ्चाख्यातार्थप्रकारकबोधे धातुजन्योपस्थितिः कारणमित्येक एव कार्यकारणभाव इति लाघवम् । “प्रत्ययानाम्” इति व्युत्पत्तिपरिपालनं चेत्याहुः । तदपरे न क्षमन्ते । औत्सर्गिकैकवचनस्य समयपरिपालनार्थकतया तत्र गमकाssकाङ्क्षाया अभावेन 'सत्येव गमके' इत्युक्तिर्व्यर्था । यदपि गमकतया ड्याप्सूत्रभाष्योपन्यसनं, तत् तथैव । यतस्तदेव भाष्यं क्रियायां संख्यासामान्याभावबोधकम् । तथाहि - ड्यासूत्राभावे तिङन्तात् सुबुत्पत्तिशङ्का प्रत्ययार्थकारकसंख्यामादाय प्रकृत्यर्थगत संख्यामा राय वा वक्तव्या । तत्र प्रकृत्यर्थस्याऽसत्त्वरूपतया संख्यान्वयायोगात् कारकगतर्मंख्यामादायैव प्रसक्ता, सा तिङोक्तत्वादित्यनेन निराक्रियते । समय परिपालनस्य तिजैव कृतत्वात् तदप्राप्त्यैव तन्निराकरणस्याऽप्रसक्तेः । 'सुप्तिङन्तं परम्' 'तिङतिङः' इत्यादिसूत्रस्वारस्यादुक्तार्थज्ञापनापेक्षया तिङ्ङन्तादौत्स - Prasaarभावस्यैव तेन ज्ञापयितुमुचितत्वाच्च । 'एका च क्रिया' इतिभाष्यमपि न क्रियायामेकत्वं बोधयति, किन्तु संख्यासामान्याऽभावमेव । कथमन्यथा साधारणैकवचनेनैवोपपत्तौ वचनारम्भसार्थक्यम् । किञ्चोपमाने बहुत्वोपपाइनसामर्थ्येनेति वदता कारके द्वित्वाद्युपपादनसामर्थ्येनेत्यऽप्युक्तप्रापरीक्षा पार इति बोधः । 'इष्यते पुत्रः' इत्यस्मात्तु व्यापारजन्यपुत्राभिन्नकर्मकेच्छेत्याकारकः शाब्दबोध इति । एवमेव सर्वत्रोपपादनीयम् । Page #74 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। देवदत्तादिपदप्रयोगे त्वाख्यातार्थकादिभिस्तदर्थस्याऽभेदाऽन्वयः । 'घटो नश्यति' इत्यत्राऽपिघटाऽभिन्नाऽऽश्रयको नाशाऽनुकूलो व्यापार इति बोधः । स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसम दर्पणः यम् । एवञ्च हतशायिका इत्यत्रोपमाने बहुत्वोपपादकबहुवचनवत् प्रकृते कारके कस्य. चिद् द्वित्वाद्युपपादनस्याभावात् तदारोपासम्भवः । नच चैत्रमैत्राविति द्विवचनादितस्तदवगतिः । चैत्रो मैत्रश्च पचत इत्यादौ तदभावात् कारकान्वयात्प्रागेव चैत्राद्यन्वितायास्तस्याः कारकानन्वितत्वाच । भावाख्याते स्वोत्तरतिवाच्यकारका प्रसिद्धया द्विवचनासम्भवाच्च । 'कस्यैकत्वे' इत्याकाङ्क्षाया योग्यजिज्ञास्यसम्बन्धिन्या एवौचित्यात् । क्रियाया असत्त्वेन परिच्छेदकाकाङ्क्षाया एवासम्भवेन तत्र तदन्वयोक्तेः पराहतत्वाच्च । पचतीत्यादिजन्यबोधानन्तरं जायमानस्य सर्वसिद्धैकन्वादिवैशिष्टयेन जिज्ञास्यकारकबोधक 'कः कौ' इत्यादिप्रश्नस्याऽनुपपत्या सिद्धायाः कारकसंख्यान्वयप्रतीतेरनुपपत्तरेव कर्मणीत्यादिपदानुवृत्तौ मानत्वात्। उक्तवाक्यपदीयस्याप्याख्यातार्थक्रियाया एकत्वेऽपि संख्यासामान्याभाववत्त्वेऽपि कचित् कर्तृकर्मादिबाहुल्येन सा नानैव प्रतीयते इत्यर्थान्न तद्विरोधोऽपि । ततः शब्दम व्दया धात्वर्थे तिर्थसङ्ख्याऽन्वय इत्यर्थस्यालाभाच्च । “गुणानां च परार्थत्वाद। (जै० ३।१॥ ९) इति तु प्रधानस्यान्वययोग्यत्वे सत्येव । अत एव कैयटादिभिस्तिङर्थसंख्यायाः कारक एवाऽन्वयः स्वीकृतः । एवञ्च भाष्यकारप्रयोगादन्यत्र भावाख्याते द्विवचनाद्यसाध्वेवेत्यधिक स्वयमूह्यम् ।। ___ *आख्यातार्थकादिभिरिति* । 'समानविभक्तिकयोरेवाऽभेदान्वय' इति नियमस्य प्रागेव दूषितत्वादिति भावः । अकर्मकस्थलेऽपि फलव्यापारोभयार्थकत्वं धातोरन्यैरपि स्वीकार्यमितिसूचयञ्च्छाब्दबोधप्रकारमाह-*घटो नश्यतीति । तद्व्यापाराऽऽकाङ्क्षायामाह-*स चेति । *प्रतियोगित्वेति । प्रतियोगित्ववैशिष्टयन्तु निरूपकतासम्बन्धेन बोध्यम् । तत्समवधानमेव तदनुकूलो व्यापार इत्यर्थः। परीक्षा *तदर्थस्य-देवदत्तादिपदार्थस्य । सकर्मकधातुस्थले फलव्यापारयोर्वाच्यत्वं व्यवस्थाप्याकर्मकधातूनामप्युभयवाचकत्वमिति व्युत्पादयितुमकर्मकविशेषे बोधप्रक्रियामाह-*घटो नश्यतीत्यादिना* । *प्रतियोगित्वविशिष्टेति । सामानाधिकरण्यसम्बन्धेन प्रतियोगित्वविशिष्टेत्यर्थः । नाशसामग्रीसमवधानम् । नाशस्य या सामग्री नाशानुकूलासामग्री, तस्या मेलनमेकन स्थितिः। एतेनान सामग्रीरूप एव व्यापार इत्यर्थादुक्तं भवति । तथाच नाशस्तदनुकूलप्रतियोगित्वविशिष्टा नाशानुकूला सामग्री च धात्वर्थ इत्युक्तम् । फलव्यापारयोरेकाधिकरणवृत्तित्वोपपत्तये-प्रतियोगित्वविशिष्टेति । इदमुपलक्षणं कचिद् व्यवहितदेशसम्बन्धानुकूलो व्यापारोऽपि धात्वर्थः । अत एवोत्पत्तिकाले 'नष्टं तद्गृहं भवति' इति निष्ठासंज्ञासूत्रे भाष्ये प्रयोगः सङ्गच्छते । येषां तु मते नाशमानं धात्वर्थस्तेषां मते नाशे, उत्पन्ने, नाशस्य नाशा Page #75 -------------------------------------------------------------------------- ________________ ४३ दर्पणपरीक्षासहिते भूषणसारेवधानम् । अत एव तस्यां सत्यां नश्यति, तदत्यये नष्टः, तद्भावित्वे नयती(१)ति प्रयोगः। देवदत्तो जनाति, इच्छतीत्यादौ च देवदत्ताभिन्नाऽऽश्रयको शानेच्छाद्यनुकूलो वर्तमानो व्यापार इति बोधः । स चान्तत आश्रयतैवेति रीत्योह्यम् ॥२॥ दर्पणः *अत एवेति । यतो नाशमानं नार्थः, किन्तु प्रतियोगित्वविशिष्टनाशफलकतत्तत्सामग्रीरूपो व्यापारोऽप्यत एवेत्यर्थः। फलव्यापारयोरकाधिकरण्याच्च न सकर्मत्वम् । एतदर्थमेव प्रतियोगित्वविशिष्टेत्युपात्तम् । यन्मते नाशमानं न धातोरर्थस्तन्मते नाशोत्पत्त्यनन्तरं नाशस्य सदैव सत्त्वानश्यतीति प्रयोगापत्तिस्तस्य ध्वंसाsप्रतियोगित्वाच्च नष्ट इति प्रयोगाऽनुपपत्तिरिति सूचनाय, तस्यां सत्यामित्यादिना त्रैकालिकप्रयोगप्रदर्शनम् । नैयायिकमतं तु लुङर्थनिरूपणे वक्ष्यते। ___जानात्यादिसविषयार्थकानां ज्ञानाद्यतिरिक्तव्यापाराद्यर्थकत्वानभ्युपगमे सकर्मत्वानुपपत्तिं सूचयन् स्वमते शाब्दबोधं दर्शयति-*देवदत्तो जानातीत्यादि । आदिपदग्राह्यार्थमाह-*इच्छादीति* । कचिजानातीत्यादावित्येव पाठः । *स चेति । ज्ञानानुकूलो व्यापारश्वेत्यर्थः । तदन्वेषणायात्ममनःसंयोगस्यैव सुलभत्वादाह-*अन्तत इति । तदनुपस्थितावित्यर्थः। *आश्रयतैवेति । तस्या अनवयवत्वेऽपि साऽवयवत्वारोपाद्व्यापारत्वं निर्वाह्यमिति भावः ॥ २ ॥ परीक्षा भावेन नष्ट इत्यादौ भूतार्थक्तप्रत्ययानुपपत्तिः । मन्मते तु नेत्याह-*अत एवेति । नाशसामग्रीरूपव्यापारस्य धात्वर्थत्वादेव । *तदस्याम्*-सामय्याम् । *इति प्रयोग इति। कालरूपस्य प्रत्ययार्थस्य सकर्मकस्थल इवाकर्मकस्थलेऽपि व्यापार एवान्वयाभ्युगमादिति । फलतावच्छेदकसम्बन्धेन फलानधिकरणवृत्तित्वं व्यापारतावच्छेदकसम्बन्धेन व्यापारस्य यत्र तत्रोभयवाचको धातुःसकर्मको भवति । अन्यथा त्वकर्मकः । प्रकृते फलतावच्छेदकसम्बन्धः प्रतियोगितैव । व्यापारतावच्छेदकसम्बन्धस्तु तादृशस्य व्यापारस्याश्रयतेति बोध्यम् । जानातीत्यादिसकर्मकधातूनामुभयावाचकत्वेऽपि गौणं सकर्मकत्वमिति ये नैयायिका वदन्तिः तेषां मतमसमञ्जसमिति दर्शयितुं तेषां यत्र प्रयोगस्तत्र बोधप्रक्रियामाह-*देवदत्तो जानातीत्यादिना । ज्ञानेच्छाद्यनुकूल:-ज्ञानानुकूलः, इच्छानुकूलश्चेत्याद्यर्थः। *अन्ततः । तस्य गवेषणायां व्यापारान्तरस्यास्फूर्ती । यद्यप्याश्रयता निरवयवा, तथाप्यारोपात्सावयवत्वकल्पनया व्यापारत्वमस्या बोध्यम् । *आदिना*-यतते इत्यस्य परिग्रहः । विषयताचात्र फलतावच्छेदकः सम्बन्धः । व्यापारश्चात्ममनःसंयोगः । अत एव मनोजानातीत्युपपद्यते । एतदनुसन्धानाभावे त्वाश्रयतायास्तत्वमुक्तम् । यत्त्वावरणभङ्गानुकूलो ज्ञानरूपो व्यापार एव जानात्यर्थ इति, तन्न । धर्माधर्मो जानातीत्यादावनुपपत्तेः । अत्र हि धर्माधर्मों कर्मणी परोक्षौ तयोर्यदावरणं तयोरसत्वापादकं तस्य परोक्षवृत्ति ( १ ) इदं च दूषणं वर्तमानध्वंसप्रतियोगित्वरूपमतीतत्वं प्रत्ययार्थ इति मते । वर्तमानध्वंसप्रतियोगिकालवृत्तित्वस्य तदर्थकत्वे तु नोक्तं दूषणमिति भावः। Page #76 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । ४७ नन्वाख्यातस्य कर्तृकर्मशक्तत्वे, पचतीत्यत्रोभयबोधापत्तिः । कर्तृमात्रबोधवत् कर्ममात्रस्यापि बोधापत्तिरित्यतस्तात्पर्य ग्राहक माह - फलव्यापारयोस्तत्र फले तय चिणादयः ॥ व्यापारे शपूइनमाद्यास्तु द्योतयन्त्याश्रयान्वयम् ||३|| तङादयः फले आश्रयाऽन्वयं द्योतयन्ति । कर्मत्वात् तद्द्योतकाः कर्मद्योतकाः । व्यापाराऽन्वय्याश्रयस्य कर्तृत्वात् तद्योतकाः कर्तृद्योतका इति समुदायार्थः । द्योतयन्तितात्पर्यं ग्राहयन्ति ॥ " " घ्या फलाऽन्वयाश्रयस्य नन्वेवं 'क्रमादमुं नारद इत्यबोधि स' इत्यादौ, 'पच्यते ओदनः स्वयमेव' इत्यादौ च व्यभिचारः । कर्मणः कर्तृत्वविवक्षायां कर्त्तरि दर्पणः उपोद्घातसङ्गत्या शबादीनां द्योतकतां निरूपयितुमाह- नन्विति । ननु ' सकृदुच्चरितः शब्दः सकृदर्थं गमयति' इति व्युत्पत्तेर्ने कदाऽर्थद्वयबोधोऽत आह-*कर्तृमात्रबोधवदिति । मात्रशब्दोऽवधारणे । तात्पर्य्येति । तत्तदर्थप्रतीतीच्छयोच्चरितत्वरूपतात्पर्य प्रहजनकमित्यर्थः । अत एव “कर्त्तरि श” इत्यादौ कर्त्रादिग्रहणं सार्थकम् । अन्यथा “लः कर्मणि” (पा०सू० १।४।६९) इत्येतद्विहितलादेशैरेव कर्त्रादिबोधेनान्यलभ्यत्वात्तद्वैयर्थ्यं स्पष्टमेवेति भावः । मूले *फलव्यापारयोस्तत्रेति । तत्रेति धातूपस्थाप्ययोरित्यर्थः । 'फलव्यापारयोः' इति निर्द्धारणे सप्तमीत्याशयेन व्याचष्टे सारे*फल इति ॥ ३ ॥ *व्यभिचार इति । यगादीनामन्वये, शबादीनां व्यतिरेके चेत्यर्थः । यगादिसवेsपि फले आश्रयाऽन्वयाऽबोधाच्छबाद्यभावेऽपि व्यापारे तिङर्थ आश्रयान्वयात् परीक्षा रूपज्ञानेन भङ्गेऽपि तयोरभानापादकस्याज्ञानरूपावरणस्य परोक्षज्ञानेनानिवृत्तेः ॥ २ ॥ पचतीत्यादिपरिनिष्ठितघटको धातुस्ततो विहिता लडादयस्तेषामर्थाः - संक्षेपत उक्ताः । उपोद्घातसङ्गत्या तन्निमित्तकविकरणानां तु द्योतकत्वमित्याह -* नन्वाख्यातस्येत्यादिना । ननु 'सकृदुच्चरित' इति न्यायेन नोभयबोधोऽत आह-* कर्त्तमात्रेति* । अत्र मात्रशब्दोऽवधारणे । तात्पर्येति । तत्तदर्थविषयकप्रतीतीच्छयोच्चरितत्वरूपं यत्तात्पर्य्यं तद्ग्रहजनकसत्वात् । यथा “कर्त्तरि शप्" इत्यादि । *तत्र* पूर्वोनिष्कृष्टार्थे सति । फलव्यापारयोरिति निर्धारणे सप्तमी, अस्याः फलेऽन्वयः । *तद्योतकाः* । फले- आश्रयान्वयद्योतकाः । कर्मद्योतकाः । द्योतकतारूपा या व्यञ्जना तया कर्मप्रतिपादकाः । एतेन पञ्चकं धात्वर्थ एवः प्रत्ययास्तु द्योतका इति सिद्धान्तः सूचितः ॥ ३ ॥ पूर्वोक्तस्य द्योतकत्वकथनस्यौत्सर्गिकत्वमिति बोधयितुमाशङ्कते -*नन्वेवमिति । *व्यभिचार इति । यागादिसत्वेऽपि फलें - आश्रयानन्वयात्फले; आश्रयान्वयद्योतक Page #77 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेलकारे सति, “कर्मवत् कर्मणा तुल्यक्रियः” ( पा०सू० ३।१।७) इत्यतिदेशेन यगात्मनेपदचिचिण्वदिटामतिदेशाद्यगादिसत्त्वेऽपि कर्तुरेवबोधाद् व्यापार एवाऽऽश्रयान्वयाञ्च । अबोधीत्यत्रापि बुध्यतेः कतरि लुङ । तस्य "दीपजन" (पा. सू०६४।१०४) इति चिण । "चिणो लुक्” (पा० सू० ६।१०४) इति तस्य लुग् इति साधनादित्याशङ्कायामाहउत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् । तस्माद् यथोचितं ज्ञेयं द्योतकत्वं यथागमम् ॥ ४॥ *कर्मकर्तृविषयादौ-पच्यते ओदनः स्वयमेवेन्यादौ । अत्र ह्येकौदनामिन्नाश्रयकः पाकानुकूलो व्यापार इति बोधः । क्रमादिति आदिपदग्राह्यम् । अत्र सामान्यविशेषज्ञानपूर्वक एकनारदविषयकशानाऽनुकूलः कृष्णाभिन्नश्रयकोऽतीतो व्यापार इति बोधः ॥ दर्पणः तदेवोपपादयति-*कर्मणः कर्तृत्वविवक्षायामित्यादि । सौकातिशयद्योतनार्था च तद्विवक्षा तण्डुलादिगताग्निसंयोगादिरूपव्यापारस्यैव फलजनकतया धात्वर्थत्वविवक्षायामित्यर्थः। वस्तुतस्तु फलस्यापि जनकव्यापारगतपौर्वापर्य्यारोपेण व्यापारत्वेन भानादिति पूर्वमुक्तत्वात्तण्डुलगतफलस्यैव व्यापारत्वेन विवक्षायामित्यर्थः । *साधनादिति । तथाच व्यभिचारान्न तडादीनां द्योतकतेति भावः। ___ *क्रमादित्यादि । कर्मकर्तृविषयादाविति मूलस्थादिपदेनेत्यर्थः । सामान्येत्यादि-क्रमादित्यस्य विवरणम् । सविषयधात्वर्थनिरूपितकर्मत्वस्य विषयत्वे पर्यावसानमित्यभिप्रेत्याह-विषयकेति । सकर्मकधातुसमभिव्याहृतयगादीनां कर्मयोतक परीक्षा तायां व्यभिचारः । *कर्मण इत्यादि । सौकातिशयद्योतनाय ह्येतादृशी विवक्षा। अत्र फलव्यधिकरणव्यापारस्य धातुवाच्यस्य त्यागः: फलसमानाधिकरणव्यापारस्य तु धातुवाच्यत्वकल्पनम् । एवं च व्यापारान्तरस्य कन्तरनिष्ठस्याकल्पनेन साकर्यलाभ इति बोध्यम् । स च व्यापारः प्रकृते-तण्डुलनिष्ठोऽग्निसंयोगो मार्दवं वा विवक्षितमिति। यद्वा फलमात्रस्यैव धातुवाच्यत्वविवक्षा, तत्रैव व्यापारगतपौर्वापर्य्यारोपेण व्यापारत्वस्य कल्पनमिति । *साधनादिति । एतेन तङादीनां द्योतकतायां व्यभिचारो दर्शितः । *आदिपदेति । कर्मकर्तृविषयादाविति मूले पदादिपदं तद्ग्राह्यम् ।। *अत्र-क्रमादिवाक्ये श्रुते सतीति शेषः । क्रमपदार्थमाह-*सामान्यविशेषेति । Page #78 -------------------------------------------------------------------------- ________________ धात्वथनिणयः। ४९ *यथोचितमिति*-सकर्मकधातुसमभिव्याहृतभावसाधारणविधिविधेयचिण्यगादि कर्मद्योतकमिति भावः ॥ ४॥ एवं सूचीकटाहन्यायेन सोपपत्तिकं वाक्यार्थमुपवर्ण्य, फलव्यापारयोः इति प्रतिज्ञातं धातोापारवाचित्वं लडाद्यन्ते भावनाया . अवाच्यत्वं वदतः प्राभाकरादीन् प्रति व्यवस्थापयति व्यापारो भावना सैवोत्पादना सैव च क्रिया। कृतोऽकर्मकतापत्तेनहि यत्नोऽर्थ इष्यते॥५॥ दर्पणः त्वादाह-*सकर्मकेति । पच्यते तण्डुलः स्वयमेवेत्यादौ । यगादि तु न तथा, किन्त्वातिदेशिकम् । “कर्मवत् कर्मणा” (पासू० ३।११८७) इति विहितातिदेशे कार्यातिदेशत्वस्याऽऽकरे सिद्धान्तितत्वान्न तत्र व्यभिचार इति भावः । *भावसाधारणेति । भावकर्मणोः “सार्वधातुके यक्॥ इत्यादिविहितेत्यर्थः । तेन "दीपजन" (पासू० ३।११६१ ) इत्यादिविहितव्यावृत्तिः ॥४॥ ___ *एवमिति* । उक्तप्रकारेणेत्यर्थः । ननु फलव्यापारयोरित्यनेन सामान्यतो धातोः फलव्यापारवाचकत्वप्रतिज्ञातस्योत्तरक्षणे एवोपपत्तिभिस्तव्यवस्थापन कर्तुमुचितम् , न तु वाक्यार्थनिरूपणानन्तरम् , तेन जिज्ञासाविच्छेदादित्याशङ्कायामाह-सूचीकटाहन्यायेनेति तथाच सामान्यतः फलव्यापारयोर्धात्वर्थत्वे. आश्रयस्य तिङर्थत्वे च ज्ञाते, निरसनीयल्यबादिविप्रतिपत्तिकत्वेन सुप्रतिपाद्यतया च प्रथमं वाक्यार्थे एव शिष्यजिज्ञासोदयात् । स एवाऽऽदौ निरूपितो, न तु धात्वर्थः । निरसनीयबहुवादिविप्रतिपत्तिकत्वेनातिदुरुहतया च तस्य पूर्वमजिज्ञासितत्वादिति भावः । 'लडाद्यन्ते' इत्यतद्गुणसंविज्ञानबहुव्रीहिणा धातुपरम् । तथाच यजेत, पचेतेत्यादौ यज्यादिधातावित्यर्थः । । *अवाच्यत्वम् । वाच्यतानिरूपकत्वाऽभावम् । परीक्षा यथोचितमित्यत्रोक्तमौचित्यं दर्शयति-*सकर्म केति । अकर्मकधातुसमभिव्याहृतयकः कर्मान्वयद्योतकत्वासम्भवः, कर्मण एवाभावादत आह-*सकर्मकेति* । भावसाधारणेन विधिना "चिण भावकर्मणोः” इत्यनेन विहितश्चिण , “सार्वधातुके य" इत्यनेन विधेयो यो यक् स तद्योतक इत्यर्थः ॥४॥ ननु 'फलव्यापारयोर्धातुः” इति या धातोः फलव्यापारोभयवाचकतोक्तिस्तदनन्तरं ये धातोरुभयवाचकत्ववादिनस्तेषां मतं निरसनीयम्। तदनन्तरं वाक्यार्थस्य वर्णनमुचितम् , तथा तु न कृतम् , किन्त्वादौ वाक्यार्थवर्णनमेव कृतमित्यत्र किं बीजमत आह-*सूचीति* । धातोरुभयवाचकत्वस्याश्रयस्य तिवाच्यत्वस्य च कथनानन्तरं निरसनीयल्यबादिविप्रतिपत्तिकत्वेन वाक्यार्थवर्णन एव शिष्यजिज्ञासोदयात्तन्निरूपणमेवादौ कृतमिति भावः। व्यापारवाचित्वमित्यस्य व्यवस्थापयतीत्यत्रान्वयः । *लडाद्यन्त इति* । अत्र परसमीपवाचकान्तशब्देन लडादिशब्दस्यातद्गुणसंविज्ञानबहुव्रीहिणा अस्य समुदायस्य धातुपरत्वं द्रष्टव्यम्। *प्राभाकरादीनित्या ७८०प० Page #79 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेपचति पाकमुत्पादयतिः, पाकानुकूला भावना, तादृश्युत्पादना इत्यादिविवरणाद् विद्रियमाणस्यापि तद्वाचकतेति भावः । दर्पणः 'प्राभाकरादीन्' इत्यादिना नैयायिकसंग्रहः । ___ यद्यपि व्यापारो धात्वर्थत्वेन नैयायिकसंमतः, तथापि नाऽसौ तन्मते भावनापदव्यपदेश्य इति भावः। 'व्यापारो भावना सैव' इत्यादिपूर्वार्द्धस्य यो 'गुणभूतैरवयवैः' इत्यादयुक्तलक्षणलक्षितोऽर्थस्तद्वाचकव्यापारपदं भावनादिपदैर्विवियते। विद्रियमाणस्य विवरणसमानार्थकत्वेन धातो वनावाचकत्वसिद्धिरित्यर्थः । तत्रोऽदेश्यविधेययोरक्यमापादयतः सर्वनाम्नः पर्यायेणान्यतरलिङ्गकत्वस्य 'शैत्यं हि यत् सा प्रकृतिर्जलस्या 'इत्यादिबहुषु स्थलेषु दर्शनात्तत्र 'सा' इति स्त्रीलिङ्गनिर्देशानुपपत्तिः। पुलिङ्गत्वेऽपि, ‘सोऽचि लोपे चेत्' (पा.सू० ६।१।१३४ ) इति लोपेन साधुत्वाच्च । भावनैव वाऽस्तु तत्पदपरामृष्या। _____ननु सम्भवेदेवं धातोर्व्यापारार्थकत्वे, तत्र च किं मानमित्याशय कृना धातुविवरणे मानं दर्शयति सारे-*पचति पाकमुत्पादयतीति । ननु 'या क्रिया भावना सैवोत्पादनाऽपि च सा स्मृता' इत्युक्तेऽपि क्रियाया भावनात्वलाभे किमिति व्यापारप परीक्षा दिना*-प्राचीननैयायिकसंग्रहः। तन्मते व्यापारस्य धातुवाच्यत्वेऽपि भावनापदवाच्यत्वं नास्ति यतः, ततस्तन्मतनिरासोऽप्यग्रिमपद्येन व्यापार एव भावनापदप्रतिपाद्य इति प्रदर्शनेन कृत इति तेषामुक्तिरपि निरस्तेति भावः। प्राभाकरास्तु-कृत्यादिकं नाख्यातार्थः। तद्विषयकशाब्दबोधस्य विवादग्रस्तत्वात् , किन्तु कालसङ्ख्ये अनन्यलभ्यत्वात् । 'चैत्रः पचति, रथो गच्छति' इत्यादौ धात्वर्थस्य पाकगत्यादेः स्वजनककृतिमत्वाश्रयत्वादिसम्बन्धेन प्रथमान्तार्थे प्रकारत्वं तस्य चाख्यातार्थभावनां प्रति प्रकारत्वं भावनाविशेष्यकश्च शाब्दबोधः। न च 'मैत्रः पच्यते तण्डुलः, इत्यतो मैत्रप्रकारकः स्ववृत्तिकृतिमत्वसंसर्गकोऽन्वयबोधो न जायते इत्यनुभवसिद्धम् , तदुपपत्त्ये नामार्थधात्वर्थयोरन्वयबोधोऽव्युत्पन्न इति स्वीकार्यमिति कथं धात्वर्थस्य प्रथमान्तार्थे प्रकारत्वमिति वाच्यम् ? धात्वर्थे भेदसम्बन्धेन नामार्थप्रकारकान्वयबोध एवाव्युत्पन्न इति स्वीकार्य्यन्नतु तादृशसंसर्गको नामार्थविशेष्यकोऽपि नास्तीति स्वीकार्यमित्याशयात् । . न च 'ज्ञानं चैत्र, इति शब्दाज्ज्ञानप्रकारक-आश्रयत्व-संसर्गकान्वयबोधोऽपि न जायत इत्यतो भेदसंसर्गकधात्वर्थप्रकारकनामार्थविशेष्यकान्वयबोधोऽप्यव्युत्पन्न इति स्वीकार्यमिति वाच्यम् ? अत्र ज्ञानस्य नामार्थतया नामार्थयोभेदेनान्वयबोधोऽव्युत्पन्न इति व्युत्पत्त्यन्तरेण तस्य वारणसम्भवादित्याहुस्तन्मतनिरासोऽप्यभिप्रेत इत्याशयेनाह-*प्राभाकरादीनिति । व्यापारो-भावना, सैवोत्पादनेत्यत्र सेति स्वीलिङ्गनिर्देशो विधेयस्य स्त्रीत्वात् । सर्वनाम्नामुद्देश्यविधेयान्यतरलिङ्गत्वस्य 'शैत्यं हि यत्सा प्रकृतिर्जलस्य' इत्यादौ बहुशो दृष्टत्वात् । विव्रियमाणस्य-धातोस्तद्वाचकताभावनावाचकता । एतेनोभयमतं खण्डितम् । ननु “या क्रिया भावना सैवोत्पादनाऽपि Page #80 -------------------------------------------------------------------------- ________________ __ धात्वर्थनिर्णयः। व्यापारपदं च फूत्कारादीनामयत्नानामपि फूत्कारत्वादिरूपेण वाच्यतां ध्वनयितुमुक्तम् । अत एव पचतीत्यत्र अधःसन्तापनत्वफूत्कारत्वचूल्ल्युपरिधारणत्वयत्रत्वादिभिर्बोधः सर्वसिद्धः। " नचैवमेषां शक्यतावच्छेदकत्वे गौरवापत्त्या कृतित्वमेव तदवच्छेदकं वाच्यम्, रथो गच्छति, जानातीत्यादीच व्यापारत्वादिप्रकारकबोधो लक्षणयेति नैयायिकरीतिःसाध्वी । शक्यतावच्छेद. कत्वस्यापि लक्ष्यतावच्छेदकत्ववद् गुरूणि सम्भवात् तयोर्वैषम्ये दर्पणः दोपादानमत आह-*व्यापारपदञ्चेति । तथाच व्याप्रियतेऽनेनेति करणव्युत्पन्नेन भावव्युत्पन्नेन वा व्यापारपदेन फलानुकूलयावतामधिश्रयणादीनां भावनात्वलाभाय तदुपादानम् । क्रियापदेन तु कृतिपदवद्यनमात्रार्थकेनोक्तविवरणात् कृते रेव भावनात्वलाभः स्यादिति तदुपात्तमिति भावः।। ____ *अत एवेति । तत्तद्रूपेण फूत्कारत्वादीनां धातुवाच्यत्वादेवेत्यर्थः। *सर्वसिद्ध इति । अत एव पचतीत्युक्ते फूत्कारादिमान्न वेति सन्देहाऽनुदयादिति भावः । यद्रीत्या नैयायिकैः व्यापारत्वस्याख्यातवाच्यतावच्छेदकत्वं निरस्य कृतित्वस्य तद्वयवस्थापितम् , तद्रीत्यैव धातोः कृतित्वमात्रं शक्यतावच्छेदकं भविष्यतीति तटस्थाऽऽशङ्कां निराकरोति*-नचैवमेषामित्यादि* । 'नच' इति साध्वीत्यनेनान्वितम् । *एषाम्*-अधिश्रयणत्वादीनाम् । *गौरवेति । धातुवाच्यत्वावच्छेदकत्वे गौरवापत्येत्यर्थः । तेषां कृतित्वापेक्षया गुरुत्वान्नानात्वाच्चेति भावः। ___ *तदवच्छेदकमिति । धातुवाच्यतावच्छेदकमित्यर्थः। ननु कृतेरेव धात्वर्थत्वे रथादावचेतने तबाधात्ताशप्रयोगानुपपत्तिरत आह-*रथो गच्छतीत्यादि । व्यापारादीत्यादिनाऽऽश्रयत्वप्रतियोगित्वपरिग्रहः । जानातीत्यादावित्यादिपदग्राह्ये घटो नश्यतीत्यादौ नाशाश्रयत्वस्य बाधात्प्रतियोगित्वे एव लक्षणाया द्रष्टव्यत्वात् । ___ *नैयायिकरीतिरिति । आख्यातार्थविचारे हि तैर्व्यापारे लक्षणां कृतौ च शक्ति स्वीकृत्याऽयं प्रयोगः समर्थितस्तद्वन्मयाऽपिसमर्थनीय इति सादृश्यात् रीतिपदोपादानम् न त्वन्यांऽशे तन्मताऽऽदर इति भावः । लाघवोपष्टब्धमानादेवाऽर्थसिद्धिर्न केवलाल्लाघवादित्याशयेन मीमांसकरीत्या तद्रीते रेवाऽसाधुत्वमाविष्करोति-*शक्यतावच्छेदकत्वस्येति । तथाच शक्तिर्गुरुणाऽपि धर्मेणावच्छिद्यते, असति बाधके कृतित्वाल्लक्षणावदित्यनुमानात्तेषु शक्तिः सेत्स्यतीति भावः।। ननु तेषां कृतित्वाऽपेक्षया गुरुत्वमेव बाधकमत आह-*तयोरिति । शक्यताव परीक्षा च सा स्मृता" इत्येव कुतो नोक्तमत आह-*व्यापारपदमिति* *अत एव*-फूत्कारत्वादिना वाच्यतास्वीकारादेव । *सर्वसिद्ध इति । अत एव तत्तद्धर्मप्रकारकसंशयानुत्पादकनिर्वाहः। तटस्थस्य शङ्कां निरस्यति-*नचेत्यादिना* । एषाम्*-फूत्कारत्वादीनाम् । *गौरवेति । नानात्वादित्यादिः । *नैयायिकरीतिः । नैयायिकस्य कृतित्वस्याख्यातवाच्यतावच्छेदकत्वसाधिका रीतियुक्तिर्लाघवकथनरूपा सेत्यर्थः । *तयोः-शक्य Page #81 -------------------------------------------------------------------------- ________________ ५२ दर्पणपरीक्षासहिते भूषणसारेबीजाभावात् । न च पचति, पाकं करोतीति यत्नार्थककरोतिना विवरणाद् यत्न एवाऽऽख्यातार्थ इति वाच्यम् । रथो गमनं करोति, बीजा. दिना अङ्कुरः कृतः, इति दर्शनात्कृतो यत्रार्थकताया असिद्धः । दर्पणः च्छेदकत्वलक्ष्यतावच्छेदकत्वयोरित्यर्थः । *बीजाभावादिति। सम्भवति समनियते लघौ धर्मे गुरौ तदभावादित्यस्य प्रकृतेऽनवतारेण यद्यवच्छेदकत्वं स्वरूपसम्बन्ध. विशेषस्तदा तत्स्वरूपत्वस्य गुरूणामपि सत्वात्किमनुपपन्नम् । अथातिरिक्तम् , तदा गुरुधर्मेऽपि तत्स्वीकार आवश्यकः । गङ्गातीरत्वं लक्ष्यतावच्छेदकमिति व्यवहारात् । वृत्यवच्छेदककोटिप्रविष्टत्वस्योभयत्र साम्याच्च । तत्र न्यूनाऽतिरिक्तवृत्तित्वरूपाऽवच्छेदकत्वमादाय तादृशव्यवहारो यदि, तदा सर्वत्रैव तथास्त्विति भावः। ननु लाघवादेव न तस्याऽवच्छेदकत्वं वदामः, किन्तु मानादपीत्याशङ्कते-*नचेति। यत्नार्थककरोतिनेत्युक्त्या व्यापारजन्यत्वप्रतिसन्धानाऽविशेषेऽपि घटाङ्करयोः कृताsकृतव्यवहारात्कृतो यत्नार्थकत्वं सिद्धमेवेति ध्वनयति-*विवरणादिति । तदर्थप्रतिपादकपदकथनरूपादित्यर्थः । धातुमात्रम्-यत्नत्वविशिष्टे शक्तम् , बाधकं विना यत्नत्वविशिष्टाऽर्थककरोतिप्रतिपादिताऽर्थकत्वाद् । यद्यद्विशिष्टबोधकपदप्रतिपादितार्थक भवति तत्तत्र शक्तम् । घटत्वविशिष्टशक्तघटपदप्रतिपादितार्थककलशादिपदवदिति सामान्यतो दृष्टाऽनुमानविधया शक्तिग्राहकत्वाद्विवरणस्येति भावः । यत्न एवार्थ इति पाठः । यत्न एव आख्यातार्थ इति पाठस्तु प्रकृतसन्दर्भविरुद्धः । *अर्थः*-धात्वर्थः । एवकारेण व्यापारस्य वाच्यत्वव्यवच्छेदः । ___ कृजो यत्नार्थकत्वे एव धातुमात्रस्य तदर्थकत्वसम्भावना । तदेव गगनकुसुमोपमानमित्याह-*रथो गमनं करोतीत्यादि । रथादावचेतने यत्नस्य बाधेन तादृशप्रयोगाऽनुपपत्त्या न कृतो यत्नार्थकत्वम् , अपि तु व्यापारार्थकत्वमेवेति, तेन विवरणाद्धातोर्व्यापारार्थकत्वमेव सिद्धयतीति भावः । ___ ननु 'रथो गच्छति' इति प्रयोगस्थधात्वर्थप्रतिपादककृतो व्यापारे लाक्षणिकत्वान्न तेन यत्नार्थकत्वक्षतिरत आह-*बीजादिनेति । तथाच कृतो व्यापारे प्रयोगप्राचुय्येण तत्रैव शक्तिया॑य्येति । तेन विवरणाद्धातोर्व्यापारार्थकत्वमवश्यमङ्गीकरणीयमिति भावः। अत्रेदमवधेयम्-वैयाकरणमतेऽपि पचत्यादेः फूत्कारादिव्यापारे व्यापारत्वेनैव परीक्षा तावच्छेदकत्वलक्ष्यतावच्छेदकत्वयोः । विवरणादिति । आख्यातार्थस्य विवरणादित्यर्थः । यत्नार्थककरोतिना विवरणादिति भवदुक्तिरेवासङ्गतेत्याह-*रथोगच्छतीत्यादिना* । तथा च कृमो व्यापारे प्रयोगप्राचुर्य्यात्तत्रैव शक्तिकल्पनमुचितम् । तेन च विवरणाद्धातुरपि व्यापारवाचक इति भावः । अत्रेदम्बोध्यम्-फूत्कारत्वादीनां बहुनां वाच्यतावच्छेदकत्वकल्पनापेक्षया व्यापारत्वस्य वाच्यतावच्छेदकत्वमेवोचितम् । अत एव व्यापारस्य व्यापारसामान्यार्थककरोतिना विवरणं सङ्गच्छते । फूत्कारत्वादिना बोधस्तु लक्षणया । अत एव तत्र तत्र पचतीत्यादेविवरणवाक्ये व्यापारत्वेन व्यापारील्लेखः प्रामाणिकानां दृश्यत इति । Page #82 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। किञ्च भावनाया अवाच्यत्वे घटं भावयतीत्यत्रेव घटो भवतीत्यत्रापि द्वितीया स्यात् । नचाऽत्र घटस्य कर्तृत्वेन तत्संशया कर्मसंज्ञायाः बाधान्न द्वितीयेति वाच्यम् । अनुगतकर्तृत्वस्य त्वन्मते दुर्वचत्वेन घटस्याकर्तृत्वात् । कृत्याश्रयत्वस्य कारकचक्रप्रयोक्तृत्वस्य वा घटादावभावात् । धात्वर्थानुकूलव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात् । दर्पणः शक्तिः, व्यापारसामान्यार्थककृता विवरणात् । एवञ्च व्यापारत्वेन कृतेरपि सङ्ग्रहात् 'मत्तो भूतं, न तु मया कृतम्' इति उपपद्यते इति तत्र तत्रोक्तं सङ्गच्छते। तत्तद्रूपेण क्वचिद् बोधस्तु पचत्यादीनां तत्तद्रूपावच्छिन्ने लक्षणयोपपाद्यः । 'शक्यादन्येन रूपेण ज्ञाने भवति लक्षणा' इत्यभियुक्तः। ____ अत एव वाक्यार्थप्रदर्शनाऽवसरे विक्लित्त्यनुकूलो व्यापारः, ज्ञानाऽनुकूलो व्यापार इति व्यापारसामान्यार्थकव्यापारपदेन स्वोत्कीर्तितस्य सङ्गतिरिति । 'जोऽकर्मकतापत्तेः' इति मूलमवतारयति-*किञ्चेति । *अवाच्यत्वे*-धात्वशक्यत्वे । द्वितीया स्यादिति । धात्वर्थोत्पत्तिरूपफलाऽऽश्रयत्वात् ।। ननु घटो भवतीत्यत्र कृत्याश्रयत्वरूपकर्त्तत्वबाधेऽपि धात्वर्थफलान्विताऽऽख्यातार्थव्यापाराश्रयत्वरूपकर्तृत्वसत्वात्तेन कर्मत्वस्याऽवश्यं बाधेन नोक्तस्थले द्वितीयाप्रसक्तिः । अन्यथा कर्तरि लकारोऽप्यनाकरतामापद्यतेत्याशय निराकुरुते-*नचेति*। *घटस्येति । घटं भावयतीत्यत्रेव, घटो भवतीत्यत्रापि द्वितीयाऽऽपत्तिः । मन्मते तु धातूपात्तव्यापाराऽऽश्रयत्वेन परया कर्तसंज्ञाया बाधान्न तदापत्तिरिति भावः । निराकरणप्रकारतामाह-*अनुगतेति । चेतनाऽचेतनसाधारणेत्यर्थः । *त्वन्मते* । भवदीयमते । *दुर्वचत्वेनेति । वक्तुमशक्यत्वेनेत्यर्थः । तदेवाऽऽह-*कृत्याश्रयत्वस्येति । तस्याऽचेतनेऽव्याप्तत्वादिति भावः । *कारकचक्रप्रयोक्तृत्वस्य वेति । तद्धात्वर्थीयनिखिलकारकप्रवर्तकत्वरूपस्य चेत्यर्थः । नैयायिकमतं निरस्य मीमांसकं प्रत्याऽऽह-*धात्वर्थेति* । *कारकमात्रेतिमात्रपदं कृत्स्नाऽर्थकम् । सर्वस्याऽपि कारकस्य धात्वर्थाऽनुकूलयत्किञ्चित् क्रियाश्रयत्वात् । क्रियाजनकत्वस्यैव कारकत्वादिति भावः। नन्वचेतने कृत्याश्रयत्वरूपकर्तृत्वस्य बाधेऽपीतरव्यापाराऽनधीनत्वप्रकारकविवक्षा परीक्षा कृज इत्यादिवक्ष्यमाणमूलमवतारयति-*किञ्चेत्यादिना*। *अवाच्यत्वे*-धात्ववाच्यत्वे । द्वितीया स्यादिति । धात्वर्थफलाश्रयत्वस्य द्वितीयोत्पत्तिप्रयोजकस्य सत्वात् । व्यापारस्यापि धातुवाच्यत्ववादिमते तु परया कर्त्तसंज्ञया बाधान्न द्वितीयेति भावः। ननु मन्मतेऽपि तया बाधोऽस्त्विति तदाशङ्कान्निरस्यति-*नचेति । नैयायिकैकदेशिमतन्निरस्यति-*कारकचक्रेति । तद्धात्वर्थीयनिखिलकारकप्रवर्त्तकत्वं हि तत्त्वमिति तेषां मतम् । *अतिव्यापकत्वादिति । स्वस्वव्यापारद्वारैव सर्वेषां क्रियाजनकत्वरूपकारकत्वादिति भावः। । Page #83 -------------------------------------------------------------------------- ________________ ५४ दर्पणपरीक्षासहिते भूषणसारेअपि च भावनाया अवाच्यत्वे धातूनां सकर्मकत्वाकर्मकत्वविभाग उच्छिन्नः स्यात् । स्वार्थफलव्यधिकरणव्यापारवाचकत्वं, स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सकर्मकत्वं भावनाया वाच्यत्वमन्तरेणासम्भवि । अन्यतमत्वं तत्त्वमिति दर्पणः विषयव्यापाराश्रयत्वरूपकारकचक्रप्रयोक्तृत्वरूपमेवकर्तसंज्ञानियामकम् । व्यापारश्च क्वचित् कृतिः, क्वचित् संयोगादिरेव । तादृशव्यापाराश्रय एव 'स्वतन्त्रःकर्ता' (पासू० ११४।१४) इति सूत्रे स्वतन्त्रपदार्थः। तत्सूत्रप्रणयनसामर्थ्यात् । तदुक्तं 'कारके (पासू० श६।८३) इति सूत्रे भाष्ये-"प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा। किं पुनः प्रधानं ? कर्ता । कथं ज्ञायते कर्ता प्रधानमिति । यत्सर्वेषु कारकेषु सन्निहितेषु कर्ता प्रवर्त्तयिता भवति" इति स्थाली काष्ठैः पचतीत्यादौ स्थाल्येव तत्त्वेन विवक्षिता इति तद्भावः । वक्ष्यते चाधिकमुपरिष्टात्।। मीमांसकमते प्रसक्तदूषणोद्धतिरपि वक्ष्यमाणैव। एवञ्च घटगततादृशव्यापारस्यैव स्वातन्त्र्यविवक्षया कर्तृत्वस्य निराबाधेन न द्वितीयाप्रसङ्गोऽत आह *अपि चेति । ____ *स्वार्थफलेति । शक्यतावच्छेदककोट्यप्रविष्टाऽऽश्रयकत्वेन फलस्य विशेषणान्न जीवत्यादावतिप्रसङ्गः । एवमविवक्षितकर्मकत्वाऽभावत्त्वेनाऽपि स्वार्थो विशेषणीयः, नाऽतोऽविवक्षितकर्मतयाऽभ्युपगतभावलकारप्रकृतिकस्मृधातौ सः। वैयधिकरण्यं त्वये विषेचयिष्यते। *असम्भवीति । तथाच व्यापारवाचकत्वं धातोरावश्यकमिति भावः। *अन्यतमत्वमिति । पच्यादिधातून् शृङ्गन्याहिकयोपादाय तावद्भिन्नभिन्नत्वमित्यर्थः। ' परीक्षा नन्वचेतनेऽपि कारकान्तरव्यापारानधीनव्यापाराश्रयत्वरूपस्वातन्त्र्यसत्वात्"स्वतन्त्रः कर्ता” इत्यत्र तादृशस्वातन्त्र्यस्य विवक्षया परया कर्त्तसंज्ञया बाधान्न द्वितीयापत्तिः । अत एव 'स्थाली पंचति इति प्रयोगो दृश्यते । तदुक्तं "कारके” इति सूत्रभाष्ये-"प्रधानेन समवाये स्थाली परतन्त्रा; व्यवाये स्वतन्त्रा। किं प्रधानम्कर्ता । कथं ज्ञायते कर्ता प्रधानमिति । यत्सर्वेषु कारकेषु सन्निहितेषु कर्ता प्रवर्त्तयिता भवतीति । एवं च यदा यस्य स्वातन्त्र्यविवक्षा; तदा तस्य कर्त्तत्वम् , तदा तन्निष्ठो व्यापारो यथायथमूहनीयोऽन्तत आश्रयत्वमेवेत्यत आह-*अपिचेति । *स्वार्थफलेति । नच जीवत्यादिष्वतिव्याप्तिः, तेषामपि प्राणधारणानुकूलव्यापारादिवाचकतया तादृशश्त्यादिरूपफलव्यापारवाचकत्वादितिवाच्यम् ? स्वशक्यतावच्छेदकघटकाश्रयाविशेषितत्वेन फलस्य विशेषितत्वात् । असम्भवीति । व्यापारस्य धात्ववाच्यत्वे उक्तस्यार्थस्य निर्वस्तुमशक्यतयोक्तव्यवस्थाया असम्भवादित्यर्थः । *अन्यतमत्वमिति* । सकर्मकत्वप्रकारकप्रामाणिकव्यवहारविषयान् पच्यादिधातून तत्तव्यक्तित्षेनोपादाय तत्तदन्यतमत्वं सकर्मकत्वम् (१)तत्तद्भिन्नत्वरूपं वाच्यमि (१) तत्तद्धात्वनुपूर्व्यवच्छिन्नप्रतियोगिताकभेदसमुदायवभिन्नत्वमिति यावत् । Page #84 -------------------------------------------------------------------------- ________________ धात्वर्थनिणयः। चेद् ? न । एकस्यैवार्थभेदेनाकर्मकत्वसकर्मकत्वदर्शनात् । तदेतदभिसन्धायाह-*कृञ इति* ॥ अयम्भावः-व्यापाराऽवाच्यत्वपक्षे फलमात्रम् अर्थ इति फलितम्। तथाच-करोतीत्यादौ यत्नप्रतीतेस्तन्मात्रं वाच्यमभ्युपेयम् । तथाच 'यति प्रयत्ने' इतिवत् फलस्थानीययत्नवाचकत्वाविशेषोदकर्मकतापत्तिरुक्तरीत्या दुर्वारेति । तथाच 'न हि यत्न' इत्यत्र दर्पणः *तत्त्वमिति । अनुगतं सकर्मकत्वमित्यर्थः। *दर्शनादिति । यथा जिधातोरभिभवाथंऽकर्मकत्वस्य न्यूनीकरणार्थे सकर्मकत्वस्याभ्युपगमात्सकर्मकधातुलक्षणे तत्प्रवेशेऽकर्मके तस्मिन्नतिव्याप्तेरप्रवेशे च न्यूनीकरणेऽथें तत्रैवाऽव्याप्तिरित्यर्थः ॥ ____ यद्यपि तत्तदर्थविशिष्टानेवोक्तरीत्योपादाय सकर्मकत्वनिर्वचने दोषाभावः, तथापि 'बहुलमेतन्निदर्शनम्' इति स्मरणात्तत्र तत्रावृत्तिकरणाच्च तावद्धातूनां युगपद ग्रहणाऽसम्भवे तात्पर्यमिति बोध्यम् । तदेतदिति । पूर्वोक्तदूषणगणमित्यर्थः॥ ____ ननु 'कृजोऽकर्मकतापत्तेः' इत्यस्य कृजो यत्नार्थकत्वनिरासप्रतिपादकस्य कथमुक्तार्थाभिसन्धायकत्वमित्याशङ्कयाभिसन्धानप्रकारं विशदयति-*अयम्भाव इति* । *फलमात्रमिति* । मात्रपदेन व्यापारव्यवच्छेदः । 'करोत्यादौ' इत्यादिना सविषयार्थधातुसंग्रहः। ___ *तन्मात्रमिति । यत्नादिरूपविषयिमात्रमित्यर्थः । *अकर्मकतापत्तिरिति । व्यापारस्य धात्ववाच्यत्वे उक्तलक्षणाऽऽक्रान्तस्येति भावः। केचित्तु अकर्मकत्वापत्तिरिति विषय्यर्थककृजाद्यभिप्रायेणैव तेषामेव प्रक्रान्तत्वात् । एवं च न तदप्रसिद्धिरित्याहुः। *उक्तरीत्येति । उक्तप्रायरीत्या सकर्मकधातुभिन्नधातुत्वमित्याकारिकयेत्यर्थः । यथाश्रुते धातोापाराऽवाचकत्वे स्वार्थफलसमानाधिकरणव्यापारवाचकत्वरूपाऽकर्मकत्वापादनस्याऽसम्भवदुक्तिकत्वापत्तेः।। नन्विदानी धातुमात्रस्यैव व्यापारवाचकत्वस्याऽसिद्धत्वात् सकर्मकरूपप्रतियोग्यप्रसिद्ध्या भवदुक्तार्थापादनस्याप्यसम्भवदुक्तिकत्वं समानम् । अन्यतमत्वरूपस्य तु स्वयमेव निराकृतत्वादुक्तपदेन तद्ग्रहणाऽसम्भवादिति चेद् ? न । नयत्यादिद्विकर्मकाणां संयोगाऽद्यनुकूलाऽजादिनिष्टक्रियात्मकफलार्थकत्वस्य धातोः फलमात्रार्थकत्ववादिनाऽप्यभ्युपगमादजादिनिष्ठक्रियायाः संयोगरूपफलजनकत्वाल्लोकप्रसिद्धेश्च व्यापारत्वात्तदर्थकधातून् ण्यन्तादिधातून वोपादायैव कथञ्चित्प्रसिद्धिसम्भवादिति नोक्तव्याख्याने दोषः। परीक्षा त्यर्थः । *एकस्य-यथा रुच् धातोः, अयं दीप्तावकर्मकः, अभिप्रीतौ सकर्मकः । ननु कृञोऽकर्मकत्वापत्तिमात्रकथनेन कथं वक्ष्यमाणार्थस्य लाभ इत्यतो भावं वर्णयति-*अयमित्यादिना । *यती प्रयत्ने इति वदिति । तस्य यथा यत्नतदाश्रयत्ववाचकता, तथेत्यर्थः। व्यापारस्यावाच्यत्ववादिनो मीमांसकस्य मतं नैयायिकविशेष्यस्य च मतं खण्ड Page #85 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - फलस्थानीयत्वेनेति शेषः । कृञ इति धातुमात्रोपलक्षणम् । सर्वेषामप्यकमकतासकर्मकता वा स्यादिति भावः । अथवा - 'व्यापारो भावना' इत्यर्धेन व्यापारस्य वाच्यत्वं प्रसाध्य फलांशस्यापि तत् साधयन् नैयायिकाभ्युपगतं जानातिकरोत्यादेः केवलज्ञानयत्नादिक्रियामात्रवाचित्वं दूषयति — #कृञ इति ॥ ५६ दर्पणः नन्वेतावता ज्ञाकृजादीनां व्यापारार्थकत्वं सिद्धम्, न धातुमात्रस्येत्यतः कृञ्पदं धातुमात्रपरतया व्याचष्टे -* इति । धातुमात्रोपलक्षणमिति । कृञ्पदं शक्यलक्ष्यसाधारणधातुत्वेनाऽजहत्स्वार्थलक्षणया धातुमात्रबोधकम् । तथाच धातुमात्रस्याकर्मकतापत्या न फल मात्रार्थकता, किं तु व्यापाराऽर्थकताऽपीत्यर्थः । *अकर्मकतेति । पूर्वोक्तभिन्नसर्व धातूनां सेत्यर्थः । यदि फलवाचकत्वमेव सकर्मकत्वं, तदा सर्वेषामविशेषेण सकर्मकतैव स्यादित्याह -*सकर्मकतेति । वस्तुतस्तु उक्तयुक्तया धातोर्व्यापारार्थकत्वसिद्धिस्तदैव स्याद्यदि स्वाऽथफलेत्यादि सकर्मक लक्षणं सकर्मकधातुमात्रसाधारणं स्यात् । तदेव न । अध्याद्युपसृष्टशीङ्गादिष्वव्याप्तेः । तस्माद् भ्वादीनां धातुत्वाऽनापत्तिः । मैत्रेण पाचयतीत्यादौ मन्त्रादीनां कर्तृत्वाऽनुपपत्तिश्च तथा । अत एव -- 1 निवृत्तप्रेषणाद्वातो: प्राकृतेऽर्थे णिजिष्यते । इत्याद्युपपत्तिरिति दिक् । ननु 'कृञो ऽकर्मकतापत्तेः' इति ग्रन्थो न मीमांसकमतनिराकरणपरः । तस्य तस्मात् करोतिरित्यादिना निराकरिष्यमाणत्वात् तैः कृत्रा यत्नार्थकत्वाऽनभ्युपगमाच्च । नापि नैयायिकमतनिरासपरः । नैयायिकैः फलव्यापारयोरुभयोरपि धातुवाच्यत्वाऽभ्युपगमात् । तदुक्तमाख्यातवाददीधितौ 'स्तां वा फलव्यापारौ पृथगेव धात्वर्थी' इति । धातोः फलाऽवच्छिन्नव्यापारार्थकत्वे कर्माख्याते फलस्य द्वेधा भानापत्या तयो. विंशकलितयोरेव शक्तिर्ज्यायसीति तद्भावः । फलस्य धातुवाच्यत्त्वे परं केषाञ्चिन्न्यायविदां विप्रतिपत्तिः । कर्माख्यातेन द्वितीयया च तद्भानसम्भवात् । किञ्चैतद्ग्रन्थस्य धातुमात्रस्य व्यापारार्थकत्वसाधकत्वे धातोरकर्मतापत्तेः, 'फलमात्राऽर्थता न हि' इत्येव ब्रूयान्न तु कृञ इत्यपरितोषादन्यार्थपरतया मूलमवतारयति -* अथवेति । 1 *प्रसाध्येति* । पूर्वाऽर्द्धस्य विवरणपरतया व्याख्यानादिति भावः । तदिति । धातुवाच्यत्वमित्यर्थः । *जानातिकरोत्यादेरिति । निर्दिष्टयत्नार्थकभिन्नसविषयार्थकधातुमात्रोपलक्षणम् । *क्रियामात्रेति । मात्रपदेन फलव्यवच्छेदः । सकर्मकाणां प्रायशः फलाऽवच्छिन्न व्यापारवाचकत्वं विशकलित फलव्यापारोभयाऽर्थवत्वं वा जानात्यादीनां तु ज्ञानादिव्यापारार्थकत्वमेव । अकर्मकाणां तु सर्वेषां न फलाऽर्थकत्वम् । तस्य ततोऽननुभवात् । किन्तु व्यापाराऽर्थकत्वमेवेति प्राचीननैयायिकाभ्युपगमात् । वक्ष्यमाणरीत्या कृञः फलार्थकत्वे तु तुल्यन्यायात् सर्वेषामेव तत्सिद्धिरिति भावः । परीक्षा नीयत्वेनाभिमतं तत्रार्थं निरस्य द्वितीयमपाकर्त्तुमाह - *अथवेति । * प्रसाध्येति । Page #86 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । अयम्भावः-फलांशस्यावाच्यत्वे व्यापार एव धात्वर्थः स्या ५७ दर्पणः ननु कृञः फलवाचकत्वे कथमकर्मकत्वमत आह-अयं भाव इति । वाचकत्वादीत्यादिना स्वार्थव्यापारव्यधिकरणफलवाचकत्वस्य नैयायिकनये फलाऽवच्छिन्नव्यापाराऽर्थकत्वस्याऽपि सकमर्कत्वात्तस्य च सङ्ग्रहः । जानात्यादीनामेव फलार्थकत्वानभ्युपगम उच्छेदपदार्थोऽव्याप्तिः, सर्वेषामेव तदनभ्युपगमे त्वसम्भवः । तथाच-कृञ्धातुः फलवाचकः; सकर्मकत्वात् पच्यादिवदित्यनुमाने विपक्षबाधकतर्क प्रदर्श कम् *कृञो ऽकर्मके*त्यादीति बोध्यम् । वस्तुतस्तु -- व्यापारो भावना सवेति पूर्वार्द्धमेव विवरणप्रतिपादनेन धातोः फलव्यापारोभयार्थत्वसाधकम् । तथाहि — धातोर्व्यापारार्थकत्वेऽसिद्धे भावनादिपदै - र्व्यापारपदविवरणपरतैव तस्य वाच्या । व्याख्यातं च तथैव सारकृता । तथाचव्यापारार्थककुजेव विक्लित्याद्यर्थ कपाका दिपदेनाऽपि विवरणादुभयोरपि धात्वर्थत्वसिद्धिः, तत्र जानात्यादौ फलांशे विप्रतिपन्नं नयायिकं प्रत्युक्तार्थोपष्टम्भकतया कृञो ऽकर्मकतेत्याद्युक्तम् । धातुमात्रे व्यापाराऽवाचकत्वं वदन्तं मीमांसकं प्रति तु तदुपपादकतयैव तस्मात्करोतिरित्यादि । यद्यपि व्यापारांशे विप्रतिपन्नं प्रत्यपि कृञ इत्याद्युपष्टम्भकम्, तथापि विवरणस्यैवाssख्यातपरतया सकर्मकत्वस्य व्यापारार्थकत्वं विनाऽप्यन्यथासिद्धावुद्भावितायां तदुग्रन्थस्याऽऽवश्यकत्वादिति । नव्यनैयायिकास्तु-सकर्मकधातूनां फले तज्जनकत्वेन विवक्षितव्यापारेषु चोपलक्षणीभूतसाधनाऽऽकाङ्क्षोत्थापकताऽवच्छेदकधर्म समानाऽधिकरणधर्मत्वाऽनुगतीकृततत्तद्धर्मावच्छिन्नेषु शक्तिः सम्भवति ; फलजनकतया विवक्षितानां तेषां विभिन्नधर्मवत्त्वम् । यत्र त्वेकधर्माऽवच्छिन्नस्यैव फलाऽनुकूलत्वं विवक्षाविषयस्तत्र तदवच्छिन्न एव धातोः सा । न हि सर्वत्र समुद्राय एव शक्तिरिति राजाऽऽज्ञाऽस्ति । 'क्रिया नामेयम्' इत्यादि भाष्यं तु बहुकालसाध्योक्तधात्वर्थविषयमिति न तद्व्याकोपः । अन्यथा सर्वत्राऽगतिकगत्यारोपाश्रयणापत्तेः । तेषामेव च व्यापारपदव्यपदेश्यत्वम् । कृतित्वस्य तादृशधर्मसमानाधिकर णधर्मत्वेऽपि न तस्य पच्याद्यर्थताऽवच्छेदकत्वम् । तदंशे तस्योपलक्षणत्वाऽनङ्गीकारात् । अत एव व्युत्पन्नानां न कदाचिदपि तत्तात्पर्येण यागपाकादिपदप्रयोगस्तथा प्रयुक्तादपि तस्मात्पाकादिकृतिबोधश्च । एतेन तस्या अपि व्यापारतया धातोरेव लाभान्न तिङस्तत्र शक्तिरितिनिराकृतम् । जानात्यादीनां तु विषयत्वं फलं तन्निर्वाहकज्ञानादिव्यापारश्च शक्यम् । कृञस्तु सांध्यत्वं यत्नश्चाऽर्थः । तेन तद्धात्वर्थ फलसम्बन्धित्वरूपं मुख्यकर्मत्वं घटादीनां निराबाधम् । एवं स्वार्थफलव्यधिकरणत्वरूपं सकर्मकत्वमपि । यत्याद्यकर्मकाणां तु तत्तद्धर्मावच्छिन्नयत्नादिरूपव्यापार एव सा । भोजनं यतते - इत्यप्रयोगेण तद्विषयत्वस्य धातुशक्यत्वाऽनुपगमात् । यतत इत्युक्ते कर्माकाङ्क्षाया अभावाच्च । अध्याद्युपसृष्टशीङादीनां तु फले निरूढलक्षणैव । शीङादितः सर्वत्र फलाबोधात् । तदर्थेऽनादितात्पर्य्यग्राहकतयैव च "अधिशीस्थासाम्” (पा० सू : ७१४:४६ ) इत्यादि ८ दु० प० Page #87 -------------------------------------------------------------------------- ________________ दर्पण परीक्षासहिते भूषणसारे - त् । तथाच स्वार्थफलव्यधिकरणव्यापारवाचित्वादिरूपसकर्मकत्वोच्छेदापत्तिः । न च कृञादौ सकर्मकत्वव्यवहारो भाक्त इति नैयायिकोक्तं युक्तम् । व्यवहारस्य भाक्तत्वेऽपि कर्मणि लकारासम्भवात् । न हि तीरे गङ्गापदस्य भाक्तत्वेऽपि तेन स्नानादिकाय्यं कर्त्तुं शक्यम् । एवञ्च 'न हि यत्त' इत्यत्र यत्त्रमात्रम् इत्यर्थः ॥ ५ ॥ ५८ दर्पण: 1 सूत्रोपयोगः । कर्त्तेत्यत्र तु कृञो यत्नबोधकत्वादेव नाऽचेतने स्वरसतः कर्त्तृपदप्रयोगः । एवञ्च कर्त्तृबोधनिर्वाहार्थं पचतीत्यादावाख्यातस्य कृतौ शक्तिरावश्यकी । तदर्थप्रयत्नस्याऽऽश्रयाश्रयिभावेन प्रथमान्तार्थेऽन्वयात् तद्बोधोपपत्तेः । यत्र तु न तद्बोfeat रथो गच्छतीत्यादौ, तत्र व्यापारे, आश्रयत्वादौ वा यथायथं लक्षणा । " स्वतन्त्रः कर्ता" ( पा० सू० ७ |४|५४ ) इतिसूत्रसामर्थ्येन, धात्वर्थव्यापाराऽऽश्रयं तत् प्रतियोगिनामपि कर्त्तत्वस्य परिभाषणान्न कर्तृबोधाऽनुपपत्तिः । यत्र प्रथमान्तसमभिव्याहारः । यत्र तु न समभिव्याहारस्तत्र कृत्यादिविशेष्यक एव बोधः । "अनभिहिते" इत्यस्याप्यबोधित इत्येवाऽर्थः । अबोधनं त्वाश्रयाऽतिरिक्तार्थे विशेषणतया कृत्याद्यर्थप्रबोधनमेवेतिनाऽभिधानाऽनभिधानव्यवस्थाऽनुपपत्तिः । चैत्रः पचतीत्यादौ कर्तृबोधस्य कृतिशक्त्यैव निर्वाहे तत्राऽख्यातशक्तिकल्पनाऽनौचित्याच्च । व्यापारव्यपदेशाऽभावेन विक्कत्त्यादीनामुक्तधर्मत्वस्योपलक्षणत्वाऽनुपगमात् पृथक् शक्तिरदुष्टैव । फलत्वं तु पूर्व निरूपितमेव । एवं सति क्वचिद् दूषणं प्रसक्तमवगणयिष्यते इत्याहुः । एवं सकर्मकत्वादिनिर्वचनानुपपत्त्या धातोरुभयार्थकत्वमावश्यकमिति पर्यवसितम् । व्यापारमात्रशक्तिवादिनस्तु — द्वितीयाद्यर्थान्वय्यर्थकत्वं सकर्मकत्वम् । पच्यादिसमभिव्याहारे द्वितीयाया विक्लत्याद्यर्थकत्वात् । जानात्यादिसमभिव्याहारे च विषयत्वाऽद्यर्थकत्वात् तदन्वयित्वं तदर्थेऽक्षतमित्याहुः । जानात्यादियोगे घटादीनां गौणकर्मत्वमिति वदतां मतमाशङ्कय निराचष्टेन चेति । *भाक्त इति । भज्यते आमृद्यते सेव्यते वा शक्यार्थोऽनयेति भक्तिर्लक्षणा तया शक्यार्थस्य तिरोधानात् । स्वज्ञाने घटकतया शक्यार्थस्यापेक्षणाच्च । तत आगतो भाक्त इत्यर्थः ॥ *भाक्तत्वेऽपि*— लक्षणा निबन्धनत्वेऽपि ॥ *कर्मणीति ॥ मुख्यसकर्मत्वमादाय शास्त्रस्य चारितायें गौणे तद्व्यापारे मानाभावादिति भावः । तत्र लाकिकं दृष्टान्तमाह-न हीत्यादि । भाक्तराजपदव्यवहाय्र्येण पुरोहितादिना तदीयकार्यप्रवर्त्तनापरीक्षा पूर्वार्द्धनोक्तरीत्या साधयित्वा । *भाक्तो - गौणः, सविषयकार्थवाचक धातुसमभिव्याहारे विषयत्वरूपं गौणं कर्मत्वमिति तदीयव्यवहारात् । *नैयायिकोक्तम्*प्राचीननैयायिकोक्तम्, नवीनैरुभयोर्वाच्यतायाः स्वीकारात् भज्यते - आश्रीयते, स्वप्रयोजकतया शक्यार्थोऽनया सा भक्तिर्लक्षणा 'तत आगतः, तत्परत्वाभावसम्पादकतया लक्ष्यार्थस्तस्या भक्तः सम्बन्धी भाक्तः । *भाक्तत्वेऽपीत्यर्थः - गौणत्वेऽपीत्यर्थः । *असम्भवादिति* । मुख्ये कर्मणि 'पच्यते तण्डुल' इत्यादौ "लः कर्मणि” इत्यस्य चरितार्थत्वात् । तत्र लौकिकं दृष्टान्तमाह-न हीति-अधिकमन्यत् ; तद् ऊहनीयम् ॥५॥ Page #88 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। अत एवाहकिन्तूत्पादनमेवातः कर्मवत् स्याद् यगाद्यपि । कर्मकर्तय॑न्यथा तु न भवेत् तद् दृशेरिव ॥ ६॥ उत्पादनम्-उत्पत्तिरूपफलसहितं यत्नादि कृअर्थ इत्यर्थः । फलस्य वाच्यत्वे युक्त्यन्तरमाह-*अत इत्यादि* ॥ यतः कृतो यत्नमात्रमों नेष्यते, अतः कर्मवत् स्यादिति पदेन "कर्मवत् कर्मणा तुल्यक्रियः" (पासू०३।१।७) इति सूत्रं लक्ष्यते । अयमर्थःयत एवास्योत्पादनार्थकता, अतः पच्यते ओदनः स्वयमेवेतिवत् क्रियते घटः स्वयमेवेति यगादयोऽप्युपपद्यन्ते । अन्यथा यत्नस्य कर्मनिष्ठत्वाऽभावात् तन्न स्यात्, इशिवत् । यथा दृश्यते घटः दर्पणः न्महद्भूतश्चन्द्रमा इत्यादावात्ववारणायाऽऽश्रितस्य गौणमुख्यन्यायस्य विशिष्यार्थीपस्थापकविशिष्टरूपोपादानपुरस्सरपदकार्यविषयकत्वस्याऽन्यत्र व्यवस्थापनाच नाऽत्र तद्विषयतेत्यन्ये। परे त्वेतच्छास्त्रीयकर्मसंज्ञकार्यान्वय्यर्थकत्वमेव सकर्मकत्वम् । सकर्मकपदात्, कर्मणा सहेत्यर्थकाच्छब्दमर्यादया पूर्वोक्तार्थालाभाच्च "लः कर्मणि" इत्यादौ सकर्मकपदादुभयबोधाऽनापत्तेः । तदनन्वय्यर्थकत्वमकर्मकत्वम् । अत एवाऽध्यासिता भुमयः इत्यादौ कर्मणि तोपपत्तिः । अन्वयस्य पृथगुपस्थितसंसर्गरूपतया न जीवत्यादिषुदोष इत्याहुः। ___ अयमेव पक्षः 'फलाऽवच्छिन्नव्यापारबोधकत्वं सकर्मकत्वम्' इति वदनिराश्रितः । फलस्य कर्मतायाः सर्वैरेवोपगमात् । फलाऽन्वय्यर्थकत्वस्य सकर्मकेषु सत्त्वात् । यदि चैकोपस्थितिविषयत्वानोक्तः प्रकारः सम्भवतीति विभाव्यते तदा पृथक् शक्तिवादिमते निर्दुष्टत्वमेव । अवच्छिन्नपदस्य सम्बन्धपरत्वेन कर्मीभूतफलसम्बन्धिव्यापाराऽर्थकत्वस्य सुस्थत्वात् । अकर्मकाणां फलार्थत्वाऽनङ्गीकारेणातिव्याप्त्यव्याप्त्योरनवकाशादित्यवधेयम् । 'अध्यासिताभूमय' इत्यादौ यथोक्तोपपत्तिस्तथोपपादितं प्राक्॥६॥ । ननु 'कर्मवत् स्याद् यगाद्यपि' इति मूलस्य कर्मवद् यगाद्यपि भवेदित्यर्थो लभ्यते । स च बाधितोऽविवक्षितश्चेत्यत आह-*कर्मवत्स्यादिति पदेनेति* ॥ *सूत्रं लक्ष्यत इति । सूत्रविहितं लक्ष्यते इत्यर्थः। यथाश्रुते कर्मपदात् स्वघटितत्वेन लक्षणया सूत्रोपस्थितावपि तस्य यगादिकमित्यनेनाऽनन्वयापत्तेः । एतबोधनायैव, परीक्षा *अत एव*-उक्तरीत्या धातूनां फलव्यापारोभयवाचकत्वादेव । *फलसहितमिति* । उत्पत्त्यनुकूलव्यापारस्य कृज्वाच्यत्वमित्यर्थः। अतः पूर्वोक्तं सकर्मकत्वं सुगमतयोपपद्यते, कर्मणि लकारश्वोपपद्यते । 'क्रियते कटः' इत्यादौ तेषामुत्पत्त्यादिरूपव्यापारव्यधिकरणफलाश्रयत्वेन कर्मत्वादिति भावः । *सूत्रं लक्ष्यते इति । सूत्र Page #89 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - स्वयमेवेति न दर्शनस्य घटावृत्तित्वात्, तथा यत्नस्यापि इति तथा प्रयोगाना पत्तेरिति ॥ ६ ॥ ६० नन्वेवं कृञदेवि जानातीत्यादेरपि विषयावच्छिन्नावरणभङ्गादिफलवाचित्वमावश्यकम् । अन्यथा सकर्मकतानापत्तेः । तथाच दर्पणः स्यादिति लक्ष्यकोटावुपात्तमिति ॥ *घटावृत्तित्वादिति ॥ घटमात्रवृत्तित्वाऽभावेन कर्मस्थक्रियकत्वाभावादिति तु परमार्थः ॥ ६ ॥ * एवमिति ॥ कर्मवद्भावाऽनुरोधेन करणाऽर्थ करोतेरुत्पत्तिसहितयत्नाऽर्थकत्वाऽभ्युपगमे इत्यर्थः । जानात्यादेरपीत्यादिपदाद् गम्यादिपरिग्रहः । आवरणभङ्गादीत्या - दिपदेन तु संयोगादेः सः । आवश्यकमित्यनेन तत्र ज्ञानस्यव फलत्वाङ्गीकारे तदना• श्रयत्वाद् घटादेः कर्मत्वानुपपत्तिरपि सूच्यते । आवरणभङ्गस्याऽप्यतीतादौ यथा फलत्वं तथा सारे एव सुबर्थनिर्णये वक्ष्यते ॥ *सकर्मत्वाऽनापत्तेरिति ॥ स्वार्थफलव्यधिकरणेत्याद्युक्तरूपस्य तत्राऽसम्भवादिति भावः । वस्तुतस्तु-जानातेर्ज्ञानरूपफलार्थकत्वमेव युक्तम् । 'नच कर्तृस्थभावकानां कर्मणि क्रियायाः प्रवृत्तिरस्ति' इति भाष्येण कर्तृस्थभावकानां क्रियाफलस्य कर्ममात्रे वृत्ति - र्नास्तीत्यर्थकेन कर्त्तृकर्मोभयसाधारणफलार्थकत्वं कर्त्तृस्थक्रियकत्वं वदता कर्ममात्रवृत्तिफलार्थत्वरूपकर्मस्थक्रियकत्वस्यैवाऽभ्युपगमेन तत्राऽऽवरणभङ्गस्य फलत्वे तत्पक्षे कर्मवद्भावस्य दुर्निवार्यतापत्तेः । तादृशश्चायमेव पक्षो जनातीत्यादौ ज्ञानेच्छाद्यनुकूलो व्यापार इति शाब्दबोधप्रकारं दर्शयता ग्रन्थकृताऽपि । प्रकृते आशङ्कासमाधाने तु भाष्यहर्य्याद्युक्तप्रथमकल्पाऽभिप्रायेणेति सारे एव स्फुटम् । नचोक्तकल्पे ज्ञानस्य समवायेन घटादावसत्त्वात्तेषां जानातिकर्मत्वानुपपत्तिः । ज्ञानस्य तदनुकूलव्यापारस्याश्रयतादेश्व सामानाधिकरण्यादकर्मकत्वापत्तिः, कर्तृस्थभावकत्वानुपपत्तिश्चेति वाच्यम् । शास्त्रे ज्ञानं, घटे ज्ञानमिति प्रतीत्या विषयतया तस्य ज्ञानाश्रयताभ्युपगमेनाद्यदोषस्य फलताऽवच्छेदकसम्बन्धघटितसामानाधिकर परीक्षा विहितं लक्ष्यत इत्यर्थः । *घटावृत्तित्वादिति । घटमात्रवृत्तित्वाभावादित्यर्थः । यत्र फलताव्यापारजन्यतान्यतरावच्छेदकसम्बन्धेन कर्तृकर्म्माभयसाधारणं फलं धातुना प्रतिपाद्यते, तत्र क्रियायाः कर्त्तस्थत्वव्यवहारात् । यथा दृश्धातुना । अयं हि फलतावच्छेदकविषयतया कर्मनिष्टं ज्ञानरूपं व्यापारजन्यतावच्छेदकसमवायेन कर्त्तृनिष्टं फलं प्रतिपादयति, एवं यत्नस्यापि बोध्यम् ॥ ६ ॥ *एवमिति । कर्मवद्भावानुरोधेन करोतेरुत्पत्यनुकूलव्यापारार्थकत्वस्वीकारे इत्यर्थः । *जानातीत्यादेरिति । आदिना गम्यादिपरिग्रहः ॥ *विषयावच्छिन्नेति। विषयसम्बद्धेत्यर्थः। इदं स्वरूपकीर्त्तनम्, न तु धात्वर्थकुक्षिप्रविष्टम् । आवरणभङ्गानुकूलव्यापारस्यैव तदर्थत्वात् । अन्यथाऽकर्मकत्वापत्तिः स्यात् । आदिपदेन संयोगस्य परिग्रहः । *अन्यथा * -- उभयोर्ज्ञानसंयोगमात्रार्थकत्वे । *सकर्मकतानापत्तेरिति । फलव्यापारोभयवाचकत्वाभावेन स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपसकर्मकत्वाभावापत्तेरित्यर्थः । Page #90 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। ज्ञायते घटः स्वयमेवेति किन्न स्यात् । एवं ग्रामो गम्यते स्वयमेवेत्याद्यपीत्याशङ्कां मनसि कृत्वाहनिर्वत्यै च विकार्ये च कर्मवद्भाव इष्यते न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः ॥७॥ ईप्सितं कर्म त्रिविधं-निर्वत्यं विकायं प्राप्यञ्च । तत्राद्ययोः कर्मवद्भावो, नान्त्ये । प्राप्यत्वञ्च-क्रियाकृतविशेषानुपलभ्यमान दर्पणः ण्यघटिताऽकर्मकत्वस्य तत्राऽभावेन द्वितीयस्य विषयतासमवायाभ्यां कर्मकठुभयवृत्तित्वेनाऽन्त्यदोषस्य वाऽभावात् । अधिकमग्रे वक्ष्यते। प्रकृतमनुसरामः-*किन्न स्यादिति ॥ क्रियते घटः स्वयमेवेत्यत्र घटस्योत्पत्तिरूपफलाश्रयत्ववदावरणभङ्गरूपफलाश्रयत्वस्यापि सत्वादिति भावः । ननु निर्वर्त्यविकार्यकर्मणोः कर्मवद्भावो, न प्राप्यकर्मणीत्यत्र किं मानमत आह मूले-सिद्धान्तोऽत्रेति* ॥ अत्र “कर्मवत् कर्मणा तुल्यक्रियः” (पा० सू० ३।११८७) । इतिसूत्रभाष्ये । तत्र हि "धातोरेकाच" इति सूत्रादनुवर्तमानधातुग्रहणेन धातुवाच्यक्रियया इत्यर्थलाभेन 'साध्वसिश्छिनत्ति 'स्थाली पचति' इत्यादौ करणाधिकरणाभ्यां तुल्यक्रिये कर्त्तरि वस्तुतः सतोऽपि व्यापारस्य धातुवाच्यत्वाऽभावादेवाऽनतिप्रसङ्गे कर्मग्रहणमतिरिच्यमानं कर्मस्थक्रियां लक्षयतीति सिद्धान्तो व्यवस्थित इत्यर्थः। कर्मस्थक्रियकत्वं च प्राप्यभिन्नकर्मण्येव सम्भवतीति दर्शयितुमादौ वक्ष्यमाणमपि विभागं सुखबोधायाऽऽह- ईप्सितङ्कमेति ॥ यद्यपि द्वेष्याऽऽद्यनीप्सितस्याऽप्येष्वेवान्तर्भावात् कर्म त्रि परीक्षा अत्रेदं बोध्यम्-गमिजानात्योरुक्तोभयार्थकत्वं व्यवस्थाप्य 'ज्ञायते घटः स्वयमेव, 'ग्रामो गम्यते स्वयमेव' इत्यस्यापत्तिरुक्ता सा, विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थितेति प्रथमकल्पाभिप्रायेणः क्रिया व्यवस्था तु अन्येषां शब्दैरव प्रकल्पितेति । द्वितीये कल्पे तु जानातेः केवलज्ञानार्थकत्वेऽपि पूर्वोक्तरीत्या कर्तस्थक्रियकत्वस्य सत्वेन कर्मवभावस्य न प्राप्तिः, सकर्मकस्योपपत्यर्थन्तु ज्ञानानुकूलव्यापारार्थकत्वमभ्युपेयमिति । एवं च “कर्मवत्कर्मणा तुल्यक्रियः” इत्यस्य यथाश्रुतार्थकत्वाभिप्रायेण शङ्का प्राप्यकर्मत्वदर्शनेन समाधानमुत्तरश्लोकेन करिष्यमाणमपि प्राचीनसम्मतरीत्यैव । एतेन जानातीत्यत्र ज्ञानानुकूलव्यापारविषयकशाब्दबोधप्रदर्शकपूर्वग्रन्थविरोधोऽपि नेति । *मनसि कृत्वेति । अत्र मनसीत्यस्य गतिसंज्ञाऽनत्याधाने तेन यथाशङ्का, तथैवोत्तरमितिध्वनितम् । सिद्धान्तः*-वैयाकरणसिद्धान्तः । अयम्भावः-“कर्मवत्कर्मणा" इति सूत्रे तुल्यक्रिय इत्येवास्तु "धातोरेकाच" इति सूत्राद्धातोरित्यस्यानुवृत्या धातोर्वाच्यक्रियया तुल्यक्रिय इत्यर्थस्य करणाधिकरणाभ्यान्तुल्यक्रियकर्त्तावर्त्तकस्य लाभे सूत्रे ऽतिरिच्यमानं कर्मपदं कर्मस्थक्रियको योधातुस्तदीयकर्मणो लाभार्थमिति । तत्र कर्मस्थक्रियकत्वं कस्यास्ति कस्य नेति दर्शयितुं कर्मणां विभागमादौ करोति-ईप्सितमिति* । *अन्त्ये*-प्राप्ये, विशेषेति । धात्वर्थव्यापारजननात्प्राक् Page #91 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेत्वमिति सुबर्थनिर्णये वक्ष्यते । न ह्ययं घटः केनचिद् दृष्टो प्रामोऽयं केनचिद् गत इति शक्यं कर्मदर्शनेनाऽवगन्तुम् । घटं करोतीति निर्वत्त्ये सोमं सुनोतीति विकार्येच तज्ज्ञातुं शक्यमिति न तत् प्राप्यम् । तथा च घटादेद्वेश्यादौ प्राप्यकर्मत्वानोक्तातिप्रसङ्ग इति भावः।। दर्पणः विधमित्येवं वक्तुं युक्तम् । तथाहि हरिणा "तयोरेभ्यस्त्रिधा मतम् । तच्चेप्सिततमम्"इत्यादिना पार्थक्येन विभजनात् तदनुसृत्याऽत्रापि तथैवोक्तमिति ध्येयम् ॥ *प्रा. प्यत्वञ्चेति* ॥ आद्ययोर्लक्षणे तु सुबर्थनिर्णये वक्ष्यते ॥ *वक्ष्यत इति* ॥ क्रियाकृतविशेषाणामिति कारिकयेत्यर्थः। कर्मगतविशेषाधायकक्रियार्थकत्वं कर्मस्थक्रियकत्वं कर्मवद्भावप्रयोजकमिति दर्शयितुं तदन्वयव्यतिरेको दर्शयति-* न हीत्यादि* ॥ *सोमं सुनोतीति विकार्य इति* ॥ नन्वाद्ययोः कर्मस्थक्रियकत्वेन कर्मवद्भावविषयत्वेऽपि तत्र कथं सोमं सुनोतीत्यस्य विकार्यलक्षणाक्रान्तत्वम् । प्रकृतेः सोमस्य परिणामित्वाऽनवगमात् । तदुक्तम् –'प्रकृतेस्तु विवक्षायां विकार्य्यम्' इति । विवक्षायामित्यस्य परिणामित्वेनेत्यादिरिति चेदित्थं चूर्णीकरणरूपाऽभिषवैकदेशचूर्ण प्रति प्रकृतिसोमस्य परिणामित्वविवक्षया तदुपपत्तिः । ____ अन्ये तु-क्रिया यद्धर्मनाशकं फलं जनयति तद्विकार्यमिति लक्षणाऽभिप्रायेण सोमे विकार्यनिर्देशः। तथाहि-आरम्भकसंयोगनाशकविभागानुकूला क्रिया सुनोतेरर्थः। सोमपदं च प्रकृते तदवयवे लाक्षणिकम् । तथाच होमावयवरूपसोमपदार्थवृत्यारम्भकसंयोगस्य धात्वर्थक्रियाजन्यविभागेन नाशाद्विकार्य्यत्वोपपत्तिरित्याहुः । ____ *ज्ञातुं शक्यमिति ॥ एतेन क्रियाकृतविशेषधर्मप्रकारकप्रतीतियोग्यत्वं कर्मवद्भाव. प्रयोजकमित्युक्तं भवति। प्राचीननैयायिकमते तु प्रकृते कृज उत्पत्तिरूपफलावच्छिन्ने यत्ने लक्षणयाकर्मवदावोपपत्तिः ॥ *नोक्तातिप्रसङ्ग इति* ॥ न कर्मवदावापत्तिरित्यर्थः । प्राचीननैयायिकमते तु ज्ञानं करोतीत्याद्यप्रयोगात् साध्यत्वे फले यत्ने च कृतः शक्तिरेव। तथाच घटादौ साध्यत्वरूपविशेषधर्मप्रकारकप्रतीतेः सार्वजनीनत्वात् , परीक्षा स्थिता याशी सत्ता कर्मणस्तदपेक्षया व्यापारोत्पत्यनन्तरं कर्मस्वरूपावस्थायास्तादृशत्वमेव यत्र, तत्र न कर्मवद्भाव दति फलितोऽर्थः । ईप्सितस्यैव त्रैविध्यप्रदर्शनम्, हरिणा ईप्सितकर्मापेक्षयाऽनोप्सितयोद्वेष्योदासीनयोः पार्थक्यं वर्णितम् । तदभिप्रायेण । वस्तुतस्तु तयोरपि उक्तेष्वन्तर्भावः सम्भवतिः निर्वादीनां स्वरूपनिर्णयोऽग्रे भविष्यति। तथाच कर्मगतो यो विशेषो व्यवहारयोग्यस्तत्प्रयोजकव्यापारार्थको यो धातुस्तत्कर्मणः कर्त्तत्वविवक्षायां कर्मवद्भाव इति सिद्धम् । तदेतस्पष्टतया बोधयितुमन्वयव्यतिरेकावाह-*न ह्ययमित्यादिना । अत्रेदमवधेयम्करोतेर्यत्नमात्रार्थकत्वे या कर्मवभावानुपपत्तिर्वर्णिताः सा शक्यार्थमादायैव, यदि तूत्पत्यनुकूलव्यापारे लक्षणा प्राचीननैयायिकानुसारिभिरभ्युपेयते तदा तेषामपि मते नानुपपत्तिः । किञ्च फलव्यापारोभयोर्वाच्यताया नव्यनैयायिकैः स्वीकारा Page #92 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। ६ दर्पणः तादृशप्रतीतियोग्यतायास्तत्राऽनपायादनायासेनैव कर्मवद्भावोपपत्तिः । यदि च कर्तृगतविशेषाऽऽधायकक्रियार्थकत्वं तत्स्थक्रियकत्वमिति लक्षणे पच्यादिकर्तरि श्रमरूपविशेषदर्शनाजानात्यादिकर्तरि तददर्शनाच्चाऽतिव्याप्त्यादिदोषादुक्तभाष्येण विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता । क्रियाव्यवस्था त्वन्येषां शब्दै रेव प्रकल्पिता इति हरिकारिकोत्तरार्धेन च पूर्वोक्तलक्षणयोरेव निर्भरः प्रतीयते इत्युच्यते तदाऽपि न क्षतिः । कर्मस्थक्रियकलक्षणे जानात्यादिभिन्नत्वस्य षोपदेशलक्षणे वष्काद्यन्यतमत्वस्येव कर्तृस्थक्रियकुलक्षणे जानात्याद्यन्यतमत्वस्यापि निवेशेन करोतो कर्मस्थक्रियकत्वस्य जानात्यादौ कर्तृस्थक्रियकत्वस्य चोपपत्तेः । अत एव हरिणाऽपि'शब्दैरेव प्रकल्पिता' इत्यत्र शब्दपदमुपात्तम् । शब्दप्रतिपाद्याऽर्थगतविशेषैः शब्दैश्चे परीक्षा करोतेरपि साध्यत्वाख्यविषयताविशेषानुकूलव्यापारवाचकतया तस्याः कर्मनिष्ठत्वान्नानुपपत्तिः । प्रकृते नैयायिकमतखण्डनपरो ग्रन्थस्तु केवलयत्नमात्रप्रतिपादकत्वपक्षे प्राप्यत्वस्य क्रियाकृतविशेषानुपलभ्यमानत्वस्वरूपत्वस्य कथनेन दूषणमपि तथैव । न च यत्र कर्मणि क्रियाकृतो विशेष उपलभ्यते; तत्र क्रिया कर्मस्था इति यथोच्यते, तथा यत्र कर्तरि क्रियाकृतो विशेष उपलभ्यते तत्र क्रियाकर्तृस्था इत्यपि स्यात् । एवञ्च पच्यादिकर्तरि क्रियाकृतस्य श्रमस्योपलम्भात्, तस्य कर्तृस्थक्रियकत्वव्यवहारोऽपि स्यादिति वाच्यम् ? एकीयमतत्वेन तथा वर्णनात् । अत एव हरिणा "विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ॥ इति प्रदर्श्य सिद्धान्त उक्तः । क्रियाव्यवस्थात्वन्येषां शब्दै रेव प्रकल्पिता। ___ इत्यनेन । अन्येषां भाष्यानुसारिणां शब्दैः लक्षणविशेषप्रतिपादकशब्दर्यत्रोक्तान्यतरावच्छेदकसम्बन्धेन कर्तृकर्मोभयसाधारणं धातुवाच्यं फलं भवतिः तत्र क्रियायाः कर्तृत्वमिति । यत्र तु न तथा, तत्र क्रियायाः कर्मस्थत्वमिति । एवं च पच्धातुप्रतिपाद्यस्य विक्लित्तिरूपफलस्योक्तान्यतरावच्छेदकसम्बन्धेन नोभयसाधारण्यमिति । पच्-धातुकर्मस्थक्रियक एव, न च पूर्वकालस्थितरूपादिध्वंसपूर्वकरूपान्तराद्युत्पत्तिरूपफलस्य या व्यापारजन्यता तदवच्छेदकसम्बन्धः स्वरूपसम्बन्ध एव वाच्यः । उत्पत्तेराद्यलक्षणसम्बन्धरूपत्वात् । एवं च कार्यतावच्छेदकसम्बन्धेन फलाधिकरणे तण्डुलादौ क्रियारूपस्य व्यापारस्यावृत्तित्वेन कथं तयोः कार्यकारणभावः । यदि स्वजन्यरूपादिध्वंसवत्वमेव कारणातावच्छेदकसम्बन्ध इत्युच्यते, तदा फलसमा. नाधिकरणव्यापारवाचकतया ऽकर्मकत्वापत्तिरिति वाच्यम् ? व्यापारनिष्ठायाः फलकारणतावच्छेदकसम्बन्धः स एव फलव्यधिकरणव्यापारवाचकत्वमित्यत्र व्यापारे फलवैयाधिकरण्यं तु फलतावच्छेदकसम्बन्धेन यत् फलानधिकरणं तन्निरूपितव्यापारतावच्छेदकसम्बन्धावच्छिन्नाधेयत्वरूपम् । व्यापारतावच्छेदकसम्बन्धस्तु न फलकारणतावच्छेदकसम्बन्धः किन्तु समवायादिरूपो विलक्षण एवेति । तेन सम्बन्धेन फलवैयधिकरण्यस्याक्षतत्वात् । उक्तं हि भाष्ये-*अन्येषां मतम् । न च कर्तृस्थभावकानां Page #93 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - धातूनां फलावाचकत्वे त्यजिगम्योः पर्य्यायतापत्तिः । क्रियावाचकत्वाविशेषात् । फलस्योपलक्षणत्वे ऽप्येकक्रियाया एव पूर्वदेशविभागोत्तरदेशसंयोगजनकत्वादुक्तदोषतादवस्थ्यमित्यपि वदन्ति । ६४. दर्पणः ति । दर्शनान्तरीयां युक्तिमुपन्यस्यति धातूनामिति ॥ त्यजिगम्योरित्युपलक्षणं तादृशधातुमात्रस्य ॥ *पर्यायतापत्तिरिति ॥ तच्छक्यताऽवच्छेदकावच्छिन्नशक्तत्वस्यैव पर्य्यायतापदार्थत्वादिति भावः । ननु त्यजिगम्योः क्रमेण विभागसंयोगोपलक्षितव्यापाराऽर्थकत्वम् एवञ्च पर्यायलक्षणे तदुपलक्षणेतरानुपलक्षितत्वस्याऽपि विशेषणान्नोक्ताऽऽपत्तिरत आह-*उपलक्षणत्वेऽपीति । उपलक्षणत्वं च तत्पदजन्यबोधविषयत्वेन शक्त्यविषयत्वे सति शक्तिविषयत्वम् । *जनकत्वादिति ॥ तथाच संयोगविभागयोः स्वार्थव्यापारजन्यत्वाऽविशेषाद् गम्यर्थ व्यापारे संयोग एवोपलक्षणं, नो विभाग इत्यत्र विनिगमकाऽभावादुभयस्यैवोपलक्षणत्वे उक्तापत्तिर्दुर्वारेति फलेऽपि शक्तिरावश्यकीति भावः । अत्र 'ग्रामं परीक्षा " कर्म्मणि क्रियायाः प्रवृत्तिरस्तीति । कर्मणि- कर्ममात्रेः स्वसिद्धान्तरीत्या फलव्यापारोभयवाचकत्वं धातूनां सकर्मकत्वाकर्मकत्वं कर्म्मस्थक्रियकत्वं च यथायथमूहनीयम् । अथ नैयायिकैर्नवीनैर्यथाफलस्य धातुवाच्यत्वं व्यवस्थापितं तद्रीत्या स्वयमप्याह - *धातूनामित्यादिना । त्यजिगम्योरिति । इदमुपलक्षणं धातुमात्रस्य । *प यत्वापत्तिः- पर्यायवाचकत्वापत्तिः । इयमापत्तिर्व्यापारत्वस्य शक्यतावच्छेदकत्वमतेन । यदि तु फूत्कारत्वादेः पचादिवाच्यतावच्छेदकस्य न गम्धातुवाच्यतावच्छेदकत्वमितिरीत्या न सर्वेषां पर्य्यायत्वापत्तिरित्युच्यते; तथापि त्यजिगम्योः पर्यायत्वापत्तिरस्त्येव । अत्रैकधर्मावच्छिन्नस्य व्यापारस्य द्विविधफलजनकत्वात् । ननु त्यज्धातोर्विभागोपलक्षिते गम्-धातोः संयोगोपलक्षिते व्यापारे शक्तिरिति न पर्यायत्वापत्तिरत आह-फलस्येति । अशक्यत्वे सति शक्यव्यावर्त्तकत्वमुपलक्षणत्वम् । तद्यद्यपि विभागादेः स्वीक्रियते, तथापि शक्यतावच्छेदकधम्मै क्यात्पर्य्यायत्वापत्तिरस्त्येव । स्वार्थ व्यापारजन्यतायाः संयोगविभागयोः सत्वात्- गम्धात्वर्थव्यापारस्य संयोग एवोपलक्षको न विभाग इत्यस्य विनिगमनाविरहेण वक्तुमशक्यत्वात् । नचास्मिन्मते फलस्य शाब्दबोधविषयत्वोपपत्तये द्वितीयादिकर्मप्रत्ययवाच्यत्वं तस्य स्वीकार्यम् । एवञ्च त्यजिगम्योः पर्यायत्वे सति त्यजतीति यत्र प्रयोगस्तत्र गच्छतीति प्रयोगापत्तिरिति हि दोषो वक्तव्यः; स नास्ति द्वितीयार्थसंयोगनिष्टजनकतासम्बन्धावच्छिन्नप्रकारता निरूपितव्यापारनिष्ठविशेष्यताशालिशाब्दबोधे गम्धातुसमभिव्याहारस्य तादृशसम्बन्धावच्छिन्न विभागप्रकारताकशाब्दबोधे त्यज्धातुसमभिव्याहारस्य यज्ञानं तस्य कारणत्वं स्वीकार्य्यमिति न दोष इति वाच्यम् ? एवमपि गमनं त्याग इत्यनयोः पर्यायेण प्रयोगापत्तेर्दुर्वारत्वात् । नचात्रापि भावार्थ कल्युडा - देः संयोगविभागयोर्लक्षणास्वीकारेण तत्तत्फलप्रकार कशाब्दबोधे तत्तद्धातुसमभिव्याहारज्ञानस्य कारणत्वकल्पनया न दोष इति वाच्यम् ? “प्रकृतिप्रत्ययौ सहार्थं ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्” इति नियमस्य कृदन्ते क्लृप्तस्य भङ्गापत्तेः । किञ्च सर्वत्र Page #94 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । ६५ तस्मादावश्यकं सकर्मकाणां फलवाचकत्वम् । कर्मकाणां तु तन्निविवादमेव । “भू सत्तायाम्" (भ्वा० ग० ) इत्याद्यनुशासनाच्च । श्रुत एव-“ड्यर्थः पचिः” इति भाष्यं सङ्गच्छते इति दिकू ॥ ७ ॥ एवं सिद्ध्यतु फलव्यापारयोर्वाच्यत्वम् ; किन्तु आख्यातवाच्यैव सा दर्पणः गच्छतीत्यादौ द्वितीयाऽर्थसंयोगादिरूपफलाऽन्वयित्वस्यैव विनिगमकत्वाद् गमनक्रियायां संयोगस्यैवोपलक्षणत्वमित्यस्य सुवचतयाऽन्यत्र लक्षणयोपपत्तेश्च नोकरीतिः साध्वीत्यस्वरसोऽपि वदन्तीभ्यां सूचितः । उपसंहरति-— तस्मादिति ॥ उक्तयुक्तिसङ्गतेरित्यर्थः । *निर्विवादमेवेति ॥ स्वार्थफलसमानाऽधिकरणव्यापारवाचकत्वरूपाऽकर्मकत्वस्य धातोः फलवाचकत्वं विनाऽनुपपन्नत्वादिति भावः । ननु सकर्मकत्वं पूर्वोक्तमेव तद्भिन्नधातुत्वं चाऽकर्मकत्वमिति नोक्ताऽनुपपत्तिरत आह-भू सत्तायामिति ॥ गणेषु फलस्यैव निर्देशादिति भावः ॥ *अत एवेति ॥ धातुमानस्य फलवाचकत्वादेवेत्यर्थः ॥ *द्वयर्थ इति ॥ द्वयर्थपदं फलव्यापारोभयार्थकमित्याशयः । ननु 'द्वयर्थः पचिः' इति भाष्यं पचेरुपादानात्सकर्मकाणां फलार्थकत्वे साधकमस्तु, न त्वकर्मकाणामत आह*दिगिति* ॥ तथा सति सत्ताद्यर्थनिर्देशवैयर्थ्याऽऽपत्तेः । धातुसामान्यशक्त्या पच्यादेवि भवत्यादेरपि व्यापारबोधसम्भवादिति दिगर्थोऽवसेयः ॥ ७ ॥ 'व्यापारी भावना सैव' इत्युक्तविवरणेन न व्यापारस्य धात्वर्थतानिर्णयः । पचति पार्क करोतीति विवरणेन आख्यातार्थताया अपि वक्तुं शक्यत्वादिति मीमांसकाशङ्कासमाधानपरतया मूलमवतारयति - एवमित्यादिना ॥ *वाच्यत्वमिति ॥ परीक्षा लाक्षणिकार्थविषयकशाब्दबोधजनक सामग्री कल्पना तत्तद्धातूत्तरत्वस्य तत्तत्प्रत्यये विशेष्यत्वस्य तत्तत्फले विशेषणत्वस्य च कल्पना तत्तद्धातुसमभिव्याहारज्ञानस्य कारणत्वस्य कल्पना च काय्र्येति महागौरवमिति फलव्यापारयोर्धातुशक्यत्वकल्पनमेवोचितमित्युपसंहरति — तस्मादिति । पूर्वोक्तयुक्तिकदम्बादित्यर्थः । अकर्मकाणामिति । एषां फलवाचकतां विना स्वार्थं फलसमानाधिकरणव्यापारवाचकत्वरूपाकर्मकत्वस्य निर्वक्तुमशक्यत्वादिति भावः । न च सकर्मकभिन्नत्वमकर्मकत्वम् । सकर्मकत्वं च द्वितीयाद्यर्थ फलव्यधिकरणव्यापारवाचकत्वमित्येवास्त्विति वाच्यम् ? एकस्यैवार्थभेदेन सकर्मकत्वाकर्मकत्व स्वीकारस्योच्छेदापत्तेः । किञ्चाधुनिकैः सर्वत्रार्थकथनावसरे फलस्यव निर्देशःस्वीक्रियतेः तदसङ्गतिः स्यात्तदाह-भू सत्तायामिति । *अनुशासनात्*-अभियुक्तोक्तः । अत एव - फलव्यापारोभयवाचकत्वादेव । *चिरिति । इदं धातुसामान्योपलक्षणम् । *दिगिति । दिगर्थस्तूक्तो भाष्ये पचिरित्युपादानात्सकर्मकाणामेवोभयार्थत्वमिति शङ्कायास्तु नावसरः । सत्तायामित्यादिफलनिर्देशस्य तेष्वसङ्गत्यापत्तेः । किञ्च तेषामपि धातुत्वावच्छिन्नस्य व्यापारत्वावच्छिन्नशक्यत्वमिति सामान्यतः क्लृप्तो यो निश्चयस्तद्विषयत्वमावश्यकमिति ॥ ७ ॥ 1 अथ व्यापारी भावनेत्युक्तरीत्या न व्यापारस्य धातुवाच्यत्वसिद्धिः ; पचतीत्यस्य पार्क करोतीति विवरणदर्शनेन भावनायाः प्रत्ययार्थत्वमेवास्ता मिति कस्य९ द० प० Page #95 -------------------------------------------------------------------------- ________________ ६६ दर्पणपरीक्षासहिते भूषणसारे - भावना, न धातोः । प्राधान्येन प्रतीयमानस्य व्यापारस्य धात्वर्थतायाः प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति न्यायविरुद्धत्वात् । "तदागमे हि दृश्यते" इति न्यायविरुद्धत्वाच्च । एवञ्च 'स्वयुक्ताख्या दर्पणः तिङन्तजन्यबोधविषयत्वमित्यर्थः । तथाच - पाकाऽनुकूला भावनेत्यादिविवरणेनाऽपि पचतीत्यस्य पाकाऽनुकूलभावनाबोधकत्वमस्त्वित्यर्थः । यथाश्रुते विवरणेन धातोर्भावनावाचकत्वनिर्णये, किं त्वाख्यातवाच्यैव सा इत्युत्तरग्रन्थाऽसङ्गतेः । 'प्रकृतिप्रत्ययौ' इति न्यायस्य संख्यादौ व्यभिचारमाशङ्कयाह -* तदागमे हीति* ॥ इदं च यः प्रधानं स प्रत्ययार्थ इति न्यायाssकार इत्यभिप्रेत्य तन्मूलसूनालोचने तु यः प्रत्ययार्थः स प्रधानमिति न्यायाकारो लभ्यते । तथाहि - 'पशुना जेत' इति श्रूयते । तत्रैकवचनोपात्तमेकत्वं यागे विशेषणमुत प्रकृत्यर्थे इति संशये, पशुपदार्थस्य यागं प्रति गुणत्वात् सम्भावितयावत्पशुकरणेन प्रधानावृत्तौ प्रधानभङ्गापत्त्या यावद्गुणप्रधानाऽऽवृत्तेरयोगादेकत्वविशिष्टपशोर्विधाने त्वेकत्वस्य पशुविशेषणतया यागाङ्गत्वाऽभावात्तदविवक्षितमेव स्यादित्यर्थकेन, “तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्” इति सूत्रेण पूर्वपक्षिते, “शब्दवत्तूपलभ्यते तदागमे हि दृश्यते तस्य ज्ञानं यथाऽन्येषाम्” ( जै० अ० ४ पा० १ सू १५ ) इति सिद्धान्तसूत्रम् । शब्दवत्शब्दवाच्यं, यथा भवति तथोपलभ्यते । एकत्वं हि यतस्तदागमे एकवचनसमवधाने दृश्यते । अतस्तस्य प्राधान्येन प्रतीतिर्यथान्येषामरुणादीनामित्यर्थः । यद्वा 'तदागमे' तत् - एकत्वम् । आगमे - एकवचनविधायकागमे "द्वयेकयोः" इत्यत्र । दृश्यतेएकवचनरूपप्रत्ययार्थत्वेन प्रतीयते, अन्येषां करणादीनामिवेत्यर्थः । 1 एवञ्च समानप्रत्ययोपात्तत्वप्रत्यासत्त्या विभक्त्यर्थ करणाऽन्वितस्याऽरुणाधिकरणन्यायेन प्रथमं क्रियायामन्वयः पश्चात् प्रकृत्यर्थे । तथाच पश्वेकत्वोभयकरणको याग इति बोधेनैकत्वस्य यागाङ्गत्वाऽवगमान्नानेकपशुभिर्याग इति तद्भावः । प्राधान्यं च प्रकृत्यर्थाविशेषणत्वमेव, प्रत्ययार्थमादाय न्यायावताराद्यः प्रत्ययार्थ इति भागस्य न्यायघटकत्वम् । प्रकृते आख्याताऽसमवधाने भावनाऽबोधात् तस्याप्राधान्येन भानमिति तत्सङ्गतिरिति बोध्यम् । ननु सकर्मकत्वाऽनुगतकर्त्तृत्वयोदुर्वचत्वमेवैतन्मते दूषणमत आह-*एवञ्चेति* । परीक्षा चिच्छङ्कासम्भवादिति तत्समाधानपरतया मूलमवतारयति - * एवमित्यादिना* । *एवम्*-उक्तहेतोः । *वाच्यत्वम् - तिङन्तजन्यशाब्दबोधविषयत्वम् । विरुद्धत्वादिति । यदि भावना प्रकृतिवाच्या स्यात्, तदा तस्याः प्राधान्यं न स्यादिति भावः । * इति न्यायेति । तदागमे हि यद् दृश्यते तत्तस्य वाच्यमिति न्यायेत्यर्थः । आगमनमागमः, प्रयोग इति यावत्; तस्मिन् सति दृश्यते ज्ञायते इति तदर्थः । पूर्वोक्तसकर्मकत्वाकर्मकत्वविभागस्याप्युपपत्तिः कर्त्तुं शक्येत्याह - * एवमिति । स्वं धातुः पचनादिक्रियायाः प्रारम्भेऽपि फलानुत्पादकाले पाको जातो नवेति संशयो दृश्यते; इत्यतः फलस्य धातुवाच्यत्वमावश्यकम् तेनैव च सकर्मकत्वाकर्मकत्वविभाग उक्त Page #96 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। तार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम् । आख्यातार्थव्यापाराश्रयत्वञ्च कर्तृत्वं वाच्यम्' इत्यादि वदन्तं मीमांसकम्मन्यं प्रत्याहतस्मात् करोतिर्धातोः स्याद् व्याख्यानं, न त्वसौ तिङाम् । पक्ववान् कृतवान् पाकं किं कृतं पक्वमित्यपि ॥८॥ तस्मात्-अभिप्रायस्थहेतोः । सचेत्थम्-फलमात्रस्य धात्वर्थत्वे ग्रामो गमनवानिति प्रतीत्यापत्तिः। संयोगाश्रयत्वात् । फलानुत्पाददशायां व्यापारसत्त्वे पाको भवतीत्यनापत्तिः। व्यापारविगमे फलसत्त्वे पाको विद्यत इत्यापत्तिश्च । यत्तु-भावप्रत्ययस्य घनादेरनुकूलव्यापारवाचकत्वान्नानुपपत्ति दर्पणः भावनाया आख्यातवाच्यत्वे चेत्यर्थः । तथाचाऽऽरब्धे पाके फलाऽनुत्पत्तिदशायां, पाको जातो न वेति प्रश्ने, भविष्यतीत्युत्तराऽनुरोधात् फलमानं धातुवाच्यमिति मीमांसकाशयः। हेतोः पूर्वमनुपादानादाह-*अभिप्रायस्थेति* । त्यदादीनां बुद्धिस्थपरामर्शकत्वादिति भावः। ___ *प्रतीत्यापत्तिरिति । भावल्युडन्तगमनपदार्थसंयोगात्मकफलस्य ग्रामे सत्त्वाद् ग्रामः संयोगवानितिवद् ग्रामो गमनवानिति प्रयोगस्य प्रामाण्यापत्तेरित्यर्थः । एवमग्रेऽप्यूह्यम् । *फलाऽनुत्पादेति । फलानुत्पादे तादृशप्रयोगस्य सर्वाऽननुमतत्वादुक्तम्-*व्यापारसत्त्व इति*। *भवतीत्यनापत्तिरिति । पाकपदार्थस्य विक्लित्तेरवर्त्तमानत्वादित्यर्थः । फलोत्पाददशायामाऽबाधात्ताशप्रयोगस्येष्टत्वादाह-विद्यत इत्यापत्तिश्चेति । व्यापारांशपरित्यागेन फलमात्रस्य धात्वर्थत्वाऽभिप्रायेण तु भविष्यतीत्युत्तरं पाकमुत्पादयतीति विवरणञ्चेति भावः । ___*अनुकूलेति । अनुकूलत्वोत्कीर्तनं त्वन्विताऽभिधानवादिनां मतमेतदिति सूचयितुम् । *नानुपपत्तिरिति । भावविहितल्युड्घजाद्यर्थव्यापारस्य ग्रामादौ बाधान्न पूर्वोक्तप्रयोगापत्तिरित्यर्थः । विक्लित्त्यनुकूलघजाद्यर्थव्यापारस्य कर्त्ततया भावनादाव. न्वयान्न पूर्वोक्तप्रयोगाऽनुपपत्त्यापत्तिरिति भावः । परीक्षा दिशा कार्य इति तेषां भावः। *मीमांसक*-विचारशीलो धातुप्रकृतिकारकाख्यातमागमोक्तरीत्या यथाकथञ्चित् तथोक्तावपि तत्प्रकृतिककृत्प्रत्ययसमभिव्याहारेऽपि सकर्मकत्वादिव्यवहारो दृश्यते तस्य तेनानुपपादनान्मन्यतेःप्रयोगः । *अभिप्रायस्थेति*सर्वनाम्नांबुद्धिविशेषविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्तः स्वीकारादिति भावः। *संयोगेति । तद्रीत्या गमनशब्दस्य संयोगपर्यायत्वात्। *अनापत्तिरिति*-तन्मते फलस्यैव पाकपदार्थत्वात् । *इत्यापत्तिरिति*-तदा तादृशप्रयोगस्य सर्वाननुमततयेष्टापत्तिन्न सम्भवतीति भावः । *अनुकूलेति। कस्यचिन्मतेऽन्वि Page #97 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेरिति; तन्न । क ख्यातवत् "कर्तरि कृदइत्यत एव तद्विधानलाभे, भावे विधायकाऽनुशासनवैयापत्तो, तद्विरोधापत्तेश्च । __अथ व्यापारोऽपि धात्वर्थ इत्यभ्युपेयमिति चेद् ? तर्हि धातुत एव सकलव्यापारलाभसम्भवेनाख्यातस्य पृथकशक्तिकल्पने गौरवमिति । पचतीत्यस्य पाकं करोतीति विवेजात्मा करोतिर्धातोरेव व्याख्यानं-विवरणम् । अतस्तदपि नाख्यातार्थत्वसाधकमिति भावः । दर्पणः ननु “कर्तरि कृद् इति विहितस्य कृतः पक्ता पाचक इत्यादौ कर्थत्वदर्शनात्तद्विहितघजादीनां व्यापारार्थत्वदौर्लभ्यात्तदर्थत्वबोधनाय भाव इत्यनुशासनं चारितार्थ्यमित्याशङ्कामपाकरिष्यस्तदनुगुणं दृष्टान्तमाह-*कळख्यातवदिति । तथाच"लकर्मणि इति विहितकाख्यातस्य त्वन्मते व्यापाराऽर्थकत्ववत् "कर्त्तरि कृत्" इति विहितघनादीनामपि व्यापाराऽर्थकत्वसम्भवादित्यर्थः।। _ विरोधाऽऽपत्तेश्चेति । चो हेतौ; यतो वैयर्थ्यमतस्तद्विरोधापत्तिरित्यर्थः । उक्तिवैचित्र्यमेतत् । यद्वा भावविहितप्रत्ययानां धात्वर्थानुवादकत्वात् प्रयोगसाधुतामात्रार्थकत्वमिति त्वदीयसिद्धान्तविरोधापत्तेरित्यर्थः । व्याख्यानमित्यस्य विवरणम्*विवरणमिति । *अतस्तदपीति* । पचतीत्यस्य पाकं करोतीति विवरणमपीत्यर्थः । अपिना दूषयिष्यमाण"प्रकृतिप्रत्ययौ"इति न्यायसमुच्चयः। धातोः पृथग्विवरणं तु तवाऽऽख्यातार्थसंख्याकालव्यापाराणां मध्ये व्यापारस्य कृजा संख्यादेस्तदुत्तरतिङा विवरणवदात्वर्थव्यापारस्याऽप्यपपन्नमिति न तदाख्यातार्थत्वसाधकम । अत एव "कथं जायते क्रियावचनाः पच्यादयः यदेषां करोतिना सामानाधिकरण्य, किं करोति पचति" इति भूवादिसूत्रभाष्ये उक्तम् । तेन विवरणमपि धातोरेवेति स्पष्टमेव बोध्यते इति भावः । __ परीक्षा तस्य वाच्यत्वमिति मतेन । वस्तुतो व्यापारमात्रस्य तद्वाच्यत्वशङ्का बोध्या। *लाभ इति-तत्सूत्रस्थकर्तृपदस्य कर्तृत्वपरत्वात् । नचैवं 'पक्ता देवदत्तः इत्यादौ सामानाधिकरण्यानुपपत्तिरिति वाच्यम् । तत्र 'कर्त्तरि' इति यत् तस्यावृत्तिं कृत्वा कर्तपदस्यकत्र कर्त्तत्वपरत्वसम्भवादिति भावः । *तद्विरोधापत्तेश्चेति । चो हेतौ यतो भावे विधायकानुशासने वैयर्थ्यमतः कर्तपदस्य कर्तृत्वपरत्ववर्णनेन कर्तृत्वे विधानानुपपत्तिरित्यर्थः। यत्तु तद्विरोधेति तद्भाष्यविरोधेति-तद्भाष्यविरोधापत्तेरित्यर्थ इति तन्न । भाष्यस्याप्रक्रान्तत्वात् । व्यापारस्यधातुवाच्यत्वानुग्राहक "भावे इति सूत्रमित्याशयः, करोतिनाख्यातस्य योऽर्थस्तस्य कथनानावनाख्यातवाच्येति तदुक्ति खण्डयति*पचतीत्यस्येति । तदपि-पचतीत्यस्य पार्क करोतीतिविवरणमपि। अपिना-"प्रकृतिप्रत्ययौ” इति वक्ष्यमाणन्यायसमुच्चयः । न च पृथक् विवरणादित्थं कल्प्यते इति वाच्यम् ? त्वन्मते संख्याकालभावनानामाख्यातवाच्यत्वेऽपि कृजा तदर्थभाव. नायास्तदुत्तरतिडा संख्याकालयोरिवास्मन्मतेऽपि सम्भवात् । करोतिना धात्वर्थ Page #98 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। मीमांसकोक्तं बाधकमुद्धरँस्तन्मतं दूषयति-न त्वित्यादिना । नाऽसौ तिङां व्याख्यानम् । पक्कवानित्यादावनन्वयापत्तेः। - अयं भाव:-"प्रकृतिप्रत्ययौ सहाथं ब्रतस्तयोः प्रत्ययार्थस्य प्राधान्यम्" इत्यत्र हि विशेष्यतया प्रकृत्यर्थप्रकारकबोधं प्रति तदुत्तरप्रत्ययजन्योपस्थितिहेतुरिति कार्यकारणभावः फलितः। तथाच पकवानित्यत्र पाकः कर्मकारकं, क्तवतुप्रत्ययार्थः कर्तृकारकम् । तयोश्चारुणाधिकरणोक्तरीत्या वक्ष्यमाणाऽस्मद्रीत्या चान्वयासम्भव इति प्रकृतिप्रत्ययार्थयोरन्वयनियमस्यैवाऽभावे व प्राधान्यबोधक उक्तकार्यकारणभावः। न च दर्पणः पक्कवानिति मूलमपि करोतेराख्यातविवरणत्वाऽभावसाध्यतया व्याचष्टे-*पक्ववानित्यादाविति । अनन्वयमेव विशदयति-*अयम्भाव इत्यादि। ___ *सहार्थमिति । सम्बद्धार्थमित्यर्थः। ब्रूतः-बोधयतः । तयोः प्रकृतिप्रत्ययाऽ. र्थयोर्मध्ये प्रत्ययाऽर्थः प्रत्ययवृत्तिग्रहविशेष्यः प्रधानमिति प्रकृत्यर्थप्रकारातानिरूपितविशेष्यताशालीत्यर्थः । तादृशव्युत्पत्तिसिद्धिकार्यकारणभावमभिनयेन दर्शयति-- विशेष्यतयेति । प्रत्ययस्य प्रकृत्यर्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रतीत्यर्थः । हेतुरित्यस्य विशेष्यतासम्बन्धेनेति शेषः। ___ *अरुणाधिकरणोक्तरीत्येति । अरुणयेति पदोपात्ताऽऽरुण्यस्य प्रथमं करणत्वेनेतरक्रियायामन्वयो; नामार्थाऽन्वयस्तु पार्टिक इति तत्रोक्तम् । *वक्ष्यमाणेति* । कारकत्वस्य क्रियाजनकत्वरूपत्वेन क्रियाजनकमिति ज्ञाते, का सा क्रियेत्याकासोदयेन क्रि परीक्षा स्यैव विवरणमित्यत्र भूवादिसूत्रस्थं भाष्यमपि साधकम्। तत्र हि धातो:-क्रियावचनत्वोक्त्यनन्तरम् "कथं ज्ञायते क्रियावचनाः, पचादयः ?" इति प्रश्नानन्तरम् , यदेषां करोतिना सामानाधिकरण्यं “किं करोति, पचतीत्युक्तम्"। *बाधकमिति । भावनायाः प्रत्ययार्थत्वाभावे तस्याः प्राधान्यं न स्यात्, वक्ष्यमाणन्यायादिति बाधकमित्यर्थः । *पकवानिति । मूलमपि करोतेराख्यातार्थविवरणाभावसाधकमित्याशयेन तव्याचष्टे-*पक्ववानित्यादिना* । अनन्वयापत्ति विशदयति-*अयम्भाव इत्यादिना । *प्रधानमिति । प्रकृत्यर्थनिष्ठप्रकारतानिरूपितविशेष्यताश्रयः। एतादृशव्युत्पत्तिसिद्धकार्यकारणभावमाह-विशेष्यतया इत्यादिना* । पक्ववानित्यस्य पाकं कृतवानिति विवरणदर्शनादाह-*तथाचेति* । *कर्त्तकारकमिति* । “कतरि कृत्" इत्यनुशासनादिति शेषः। *रीत्येति । तत्र हि 'अरुणया इति पदोपस्थितारुण्यस्य प्रथममन्यवत् क्रियायामेवान्वयोः नामार्थान्वयस्तु पाठिक इत्येवमुक्तरीत्येत्यर्थः । *वक्ष्यमाणेति । कारकत्वस्य क्रियाजनकत्वरूपत्वेन तज्ज्ञानोत्तरं का सा क्रियेत्याकाडया क्रियायाः सा ध्यत्वेन बोधोत्तरं जनकाकांक्षया च कारकक्रिययोरेव परस्परमन्वय इति रीत्येत्यर्थः। *अन्वयासम्भव इति* । कारकयोः परस्परमन्वयासम्भव इत्यर्थः । वाजपेयाधिकरणोक्तरीत्याऽन्वयमाशय निराचष्टे-*न चेत्यादिना* । तत्र हि 'वाजपेयेन यजेत इति वि Page #99 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - सम्बन्धमात्रमुक्तञ्च श्रुत्या धात्वर्थभावयोः । तदेकांश निवेशे तु व्यापारोऽस्या न विद्यते ॥ इति भट्टपादोक्तरीत्या सम्बन्ध सामान्येन कारकाणामन्वयः शङ्कयः । योग्यताविरहाद् अन्वय प्रयोजकरूपवत्त्वस्य तथात्वात् । क्रियान्वयि - ७० दर्पणः I याया अपि साध्यरूपायाः साधकाकाङ्क्षया च परस्पराऽन्वयौचित्यमित्याशयेन क्रियात्वमेव हि कारकाsन्वयितावच्छेदकमिति सुबर्थनिर्णये वक्ष्यमाणरीत्येत्यर्थः । *सम्बन्धमात्रमिति* । “ज्योतिष्टोमेन यजेत" इत्यत्र यजेतेति श्रुत्या धात्वाख्यातार्थयागभावनयोः सम्बन्धसामान्यं प्रतिपाद्यते । तयोः क्रियाकारकभावरूपसम्बन्धविशेबोधने तु नास्याः श्रुतेः कश्चिदभिधादिरूपो व्यापारस्तद्वाचकपदाऽभावादिति तदर्थः । तथा च यजेतेत्यत्र यागसम्बन्धिभावनेति बोधो, न यागकरणकभावनेति, तद्वप्रकृते पाकसम्बन्धी कर्त्तेति बोधः । कर्मत्वादिना तत्संसर्गकबोध एव क्रियाया अपेक्षणादित्याशङ्कितुराशयः । फलस्य कारकत्वेनाऽयोग्यत्वात्तादृशाऽन्वयबोधोऽप्यसम्भवदुक्तिक इत्याह-योग्यता विरहादिति । ननु तत्पदार्थे तत्पदार्थवत्वं योग्यता, अस्ति च सा प्रकृते, पाकप्रयोजकत्ववत्पाकसम्बन्धित्वरूपाऽकर्तुरत आह-*अन्वयप्रयोजकरूपवत्त्वस्येति* ॥ तथाच तत्प्रदार्थे तत्पदार्थतावच्छेदकावच्छिन्नत्वस्यव योग्यत्वे जलाहरणे घटकरणत्वस्य सत्त्वात्तस्मिन् सुषिघटस्यापि करणत्वेनाऽन्वयापत्तिः । अस्मन्मते तु सच्छिद्रेतरघटस्य जलाऽऽहरणाऽन्वयप्रयोजकत्वेन तादृशघटे तादृशा हरणान्वयप्रयोजकत्वमिति न तदन्वयापत्तिरिति भावः । ननु 'घटेन जलमाहर' इत्यत्र घटे छिद्रेतरघटत्ववत् प्रकृते किं कारकान्वयितावच्छेदकं यदभावादनन्वयापत्तिरुद्भाव्यतेऽत आह—* क्रियान्वयित्वमेव हीति । परीक्षा पयवाक्ये यद्वाजपेयपदं तद्यागसाधनद्रव्यपरमुत कर्मनामधेयमिति संशये द्रव्यपदमिति पूर्वपक्षे वाक्यभेदरूपो दोषः कथितः । वाजपेयेन यागं भावयेद् यागेन च स्वर्ग भावदिति बोधात् - यागभाव्यकभावनायां वाजपेयस्य करणत्वात्स्वर्गभाव्यकभावनायां च यागस्य करणत्वान्नामधेयपरत्वे तु वाजपेयाभिन्नयागकरणिका स्वर्गभाव्यिका प्रथाजादीति कर्त्तव्यताका भावनेति बोधान्न स दोषः, यागे करणत्वं तु भावनाभाव्यनिर्वत्तकत्वरूपं पारिभाषिकम् । तत्र पूर्वपक्षे वाक्यभेदापत्तिपरिहारायेयमुक्तिः । श्रुत्या 'वाजपेयेन यजेत' इति श्रुत्या, शब्देन सम्बन्धमात्रमुक्तम्, तस्य सम्बन्धस्यैकांशनिवेशे सम्बन्धविशेषनिवेशेऽस्याः श्रुतेर्व्यापारोऽभिधारूपो व्यापारो नास्तीत्यर्थः । एवं च वाजपेयकरणिका यागसम्बन्धिनी भावनेति बोधान्न वाक्यभेद इति तात्पयम् । उत्तरपक्षे तु यागभाव्यकत्वस्वर्गभाव्यकत्वादिना भावनाभेदाद्यस्यां यागकर - णकत्वम् ; तस्यां न वाजपेयसम्बन्ध इति नेत्थं सम्बन्धसम्भव इति दूषणमुक्तम् । तथा प्रकृतेऽपि पाकसम्बन्धिकर्त्तेति बोधस्य सम्भवाभिप्रायेण शङ्केयम् । कर्मत्वसंefeat क्रियापेक्षेति तात्पर्य्यम् । फलस्य कारकत्वेन क्रियायामेव योग्यतया ऽन्वयबोधो न तु कारकान्तर इत्याशयेन दूषयति-योग्यतेति । तामेवोपपादयति* अन्वयप्रयोजकेति । अयम्भावः - अन्वयप्रयोजकरूपवत्वमेव योग्यता; न तु तत्प Page #100 -------------------------------------------------------------------------- ________________ ७१ धात्वर्थनिर्णयः । त्वमेव हि कारकान्वयितावच्छेदकमिति वक्ष्यते। तदेतदाविष्कर्तुं विवरणेन धात्वर्थक्तवत्वर्थयो कर्मत्वकर्तृत्वे दर्शयति-कृतवान् पाकमिति॥ वस्तुतस्तु प्रत्ययार्थः प्रधानमित्यस्य य प्रधानं स प्रत्ययार्थ एवेति वा; यः प्रत्ययार्थः स प्रधानमेवेति वा; नार्थः। अजा, अश्वा, छागी इत्यत्र स्त्रीप्रत्ययार्थे स्त्रीत्वस्यैव प्रधान्यापत्तेश्छाग्यादेरनापत्तेश्व । किन्तूत्सर्गोऽयम् । विशेष्यत्वादिना बोधस्तु तथा व्युत्पत्त्यनुरोधात् । दर्पणः ननु कृदर्थक क्षिप्तभावनायां पाकादीनां कर्मत्वेनान्वयसौलभ्यान्नोक्तदूषणमत आह-*वस्तुतस्त्विति ॥ प्रधानप्रत्ययार्थवचनमिति सूत्रस्वरसो यः प्रधानं स प्रत्ययार्थः । 'तदागमे हि' इति न्यायश्च, यः प्रत्ययाऽर्थ इत्यर्थे मूलमिति ध्येयम् । अजेत्यादौ विशेष्याजादिपदार्थस्य प्रत्ययार्थत्वाऽभावेन व्यभिचारस्य स्फुटत्वात् तदुपेक्ष्य द्वितीयकल्प एव व्यभिचार दर्शयति-*अजेति* ॥ ___ इष्टापत्तावाह-*छाग्यादेरिति* ॥ स्त्रीत्वविशेषणछाग्यादेश्छागनिष्ठस्त्रीत्वादेरिति वाऽर्थः। एकत्र विशेषणतयाऽन्वितस्यापरत्र विशेषणतयाऽन्वये नैराकाट्येण छागीमानयेत्यादौ कर्मत्वादिकारके छागी गच्छतीत्यादौ छागनिष्टस्त्रीत्वस्य छागीपदार्थस्यायोग्यतयाऽऽख्यातार्थकर्तरि वाऽनन्वयापत्तेश्चेति भावः । छाग्यादेरनापत्तेश्चेति पाठे प्राधान्यानापत्तेरित्यर्थः। . ननु सा व्युत्पत्तिरपार्थंव स्यादत आह-किन्त्विति । तथाच तादृशव्युत्पत्तेः कृत्तद्धितमात्रविषयकत्वं न प्रत्ययमात्रविषयकत्वमिति न तबला व्यापारस्याख्यातार्थत्वमिति भावः । ननु कथं तर्हि व्यापारविशेष्यको बोधोऽत आह-*विशेष्यत्वादिनेति । तथाच व्युत्पत्त्यनुसारी बोधो, न तु बोधानुसारिणी व्युत्पत्तिः । एवञ्च तादृशव्युत्पत्त्यङ्गीकर्तृणां तथैव बोधोऽन्यादृग् व्युत्पत्तिमतां त्वन्यथापीति भावः । परीक्षा दार्थे तत्पदार्थतावच्छेदकधर्मावच्छिन्नसंसर्गवत्वम् । 'घटेन जलमाहर' इति वाक्यात् जलाहरणे घटत्वावच्छिन्नसंसर्गः प्रतिपाद्यः स तु यस्य कस्यचिद् घटस्य कारणतारूपोऽपि सम्भवतीति सुषिरेतरत्वस्य लाभो न स्यात् । यदि चान्वयप्रयोजकरूपवत्वं योग्यताः तदा-सुषिरस्य करणत्वासम्भवादन्वयप्रयोजकस्य सुषिरेतरत्वस्य लाभ , इति शडकोक्तरीत्याऽन्वयासम्भवमुपपादयति-*क्रियान्वयित्वमेवेति। ननु कृत्प्रत्ययार्थो यः कर्ता तेन भावनाया आक्षेपे सति तस्यां कारकान्वयो भविष्यतीति. भवदक्तदषणानवसर इत्यत आह-*वस्तुत इति* । 'तदागमे हि इति । तदक्तन्यायेन यः प्रधानं स प्रत्ययार्थ इति लभ्यतेः अस्य च नियमस्याऽजेत्यादौ व्यभिचारः स्फुट एवः तथाऽपि सम्भवाभिप्रायेण यः प्रत्ययार्थः स प्रधानमेवेत्यपि तदर्थ इत्युक्तं तत्र व्यभिचारमाह-*अजेत्यादाविति । *अयम्*-"प्रकृतिप्रत्ययौ सहार्थे ब्रूत” इति न्यायः । *उत्सर्गः । इत्यनेन तस्य सार्वत्रिकत्वं ना किन्तु कृत्तद्वितप्रत्ययमात्रविषयकत्वम् । स्त्रीप्रत्ययानान्तु द्योतकतया तद्योत्यस्य स्त्रीत्वस्य विषणत्वमेव Page #101 -------------------------------------------------------------------------- ________________ 'दर्पणपरीक्षासहिते भूषणसारे - अत एव नैयायिकानां प्रथमान्तविशेष्यक एव बोधः । लक्षणायामालङ्कारिकाणां शक्यतावच्छेदकप्रकारक एव बोधो, न नैयायिकादीनाम् । घटः कर्म्मत्वमानयनं कृतिरित्यादौ विपर्य्ययेणापि व्युत्पनानां नैयायिकनव्यादीनां बोधो, न तु तद्व्युत्पत्तिरहितानाम् । दर्पण: ७२ तदेव विशदयति—*अत एवेति । *शक्यताऽवच्छेदकप्रकारक इति ॥ 'लक्षणrssरोपिता क्रिया' इति काव्यप्रकाशीयसूत्रपर्यालोचनया शक्यतावच्छेदकारोपविषयनिष्टसंसर्गस्यैव लक्षणात्वलाभाद्, 'गङ्गायां घोष' इत्यत्र गङ्गात्वेनैव लक्ष्याप्रतीतिरत एव ततो वैयञ्जनिकी शैत्यपावनत्वादिप्रतीतिः । ' जाता लता हि शैले इत्यादौ च कनकलतात्वेनैव रूपेण बोधस्य चमत्काराऽऽधायकत्वादिति तदाशयः ॥ *नैयायिकादीनामिति* । सम्बन्धितावच्छेदकरूपेणैव लक्ष्यार्थस्य भानम् । अत एव ‘कचतस्त्रस्यति वदनम्' इत्यादौ सम्बन्धितावच्छेदकराहुत्वादिनैव बोधस्य त्रासाssधायकस्योपपत्तिः । कचत्वादिशक्यतावच्छेदकरूपेण लक्ष्यार्थबोधाङ्गीकारे तदनुपपत्तिः स्पष्टैव । किञ्च शक्यतावच्छेदकं, न लक्ष्यतावच्छेदकम् । “शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा" इत्यभियुक्तोक्तिविरोधादिति तद्भावः ॥ परीक्षा तथा तिर्थस्यापि सुबर्थसंख्याया विशेषणत्वमेवान्येषां प्रकृत्यर्थनिरूपितं विशेषणत्वमिति सिद्धान्तस्तदनुसारिणी व्युत्पत्तिः कार्य्यकारणभावमूला कल्पनीया । व्युत्पत्यनुसारी बोध एव प्रमाणम् । यस्त्वतादृशो बोधः सोऽप्रमाणमेव । न हि कस्यचिद्वाष्यकारादिसम्मतमार्ग विपरीतक्रमेण बोधस्य प्रामाण्यमाश्रित्य तदनुसारेण व्युत्पत्यन्तरकल्पनं न्याय्यमिति भावः । भाष्याद्यनुसारिणी व्युत्पत्तिर्येषां नास्तिः तेषां त्वन्यादृशोऽपि बोधो भवतीत्येतद्विशदयति-अतएवेति । अत एव विपरीतव्युत्पत्तिसत्वादेव । *प्रथमान्तविशेष्यक एवेति* । तिङन्तप्रथमान्तसमभिव्याहारे प्रथमान्तविशेष्यक एव चैत्रः पचतीत्यादितः पाकानुकूलकृतिमांश्चैत्र इत्यन्वयबोधस्य तेषामुद्भवात् । *आलङ्कारिकाणामिति । अत एव काव्यप्रकाशकृता मुख्यार्थबाधे तद्योगे रूढ़ितोऽर्थप्रयोजनात्, अन्योऽर्थो लक्ष्यते यत्सा लक्षणाsरोपिता क्रियेति प्रतिपादितम् । शक्यतावच्छेदकारोपविषयविशिष्टो यः क्रियारूपो व्यापारः सैव लक्षणाः स च व्यापार आरोपरूप एव । अत एवजाता लता हि शैले जातु लतायां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ ४१ ॥ कचतस्त्रस्यति वदनं वदनात् कुचमण्डलं त्रसति । मध्याद्विभेति नयनं नयनादधरः समुद्विजतीति ॥ ४२ ॥ समुद्विजतीत्यादौ शक्यतावच्छेदकप्रकारबोध एव चमत्कारः । 'गङ्गायां घोष' इत्यतो गङ्गावृत्तिर्घोष इति बोध एव शैत्यपावनत्वादिप्रतीतिः । *नैयायिकानामिति । तेषां मते हि यद्धर्मावच्छिन्ने शक्यार्थसम्बन्धग्रहस्तद्धर्मप्रकारक एव बोधः । कचत - स्यतीत्यादौ तेषां मते राहुत्वादिना बोधः । अत एव शक्यादन्येन रूपेण ज्ञाते भवति लक्षणेति तेषामुक्तिः सङ्गच्छते । नैयायिकनव्यादीनामू*- — यस्य पदस्य यत्पदव्यति Page #102 -------------------------------------------------------------------------- ________________ ७३ धात्वर्थनिर्णयः । अन्येषां तन्निराकाइमेवेत्यादिकं सङ्गच्छते । अत एव "प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वाद्” (पासू० १॥२॥ ५४) इत्याह भगवान् पाणिनिः । प्रधानं प्रत्ययार्थ इति वचनं न इत्यनुवर्त्य न कार्यम् , अर्थस्य-अर्थावबोधस्यान्यप्रमाणत्वाद्व्युत्पत्त्यनुसारित्वादिति हि तदर्थः। एवं सत्यपि नियामकापेक्षणे च "भावप्रधानमाख्यातम्" इति वचनमेव गृह्यतामिति सुधीभिरूह्यम् । 'तदागमे हि' इति न्यायो विवरणञ्चाऽतिव्याप्तमित्याह-*किं दर्पणः *घटः कर्मत्वमिति ॥ नव्यमते एकपदेऽपरपदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वस्याकाङ्क्षात्वोपगमेन घटपदे कर्मत्वपदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वज्ञानदशायां तादृशवाक्यात्तैः शाब्दबोधाऽभ्युपगमादित्यभिप्रेत्य नव्यानामित्युक्तम् । निराकाङ्क्ष• मित्यस्याऽऽधेयतासंसर्गेण बोध इति शेषः । *अत एवेति । बोधस्य व्युत्पत्यनुसारि त्वादेवेत्यर्थः। *व्युत्पत्त्यनुसारित्वादिति । कार्यकारणभावग्रहाधीनत्वादित्यर्थः । बोधानुसारिणो हि व्युत्पतिर्न हि बोधो व्युत्पत्त्यनुसारी । अत एवारोपे सति निमित्ताऽनुसरणं, न तु निमित्तमस्तीत्यारोप इति प्रामाणिकाः। ___ अर्थस्य विशेष्यत्वादिना प्रतीयमानस्य अन्यप्रमाणत्वात् स्वविशेषणीभूतप्रतीत्यनुरोधकव्युत्पत्तिकत्वादित्यर्थः। 'प्रधानं प्रत्ययार्थ' इति नियमस्य पाणिनिनाऽनाहतत्वेऽपि, 'योः यः प्रत्ययार्थः स प्रधानम् इत्यर्थस्य, 'तदागमे हि' इति सूत्रयता जैमिनिनाऽऽहतस्याऽदुष्टत्वादाख्यातार्थतयव व्यापारस्य प्राधान्यम् । टाबादीनां द्योतकत्वेन संख्यावाचकत्वेऽपि प्रत्ययजन्योपस्थितौ संख्याद्यवृत्तित्वस्य विशेषणाञ्चोक्तकार्यकारणभावस्य निर्दुष्टत्वादित्यन्ये प्रतीयमानाऽर्थस्य प्राधान्यमिति 'तदागमे हि' इति न्यायाकार इत्याशयेनाह-*वदागमे हीतीति*।। . *अतिव्याप्तमिति । "नपुंसकमनपुंसकेन" इति क्लीबशेषतैकवचनान्ततायां च परीक्षा रेकप्रयुक्तमन्वयाननुभावकत्वं तयोः समभिव्याहाररूपाकाङ्क्षायाः घटकर्मत्वमित्यत्रापि सत्वभ्रमवताम् । *तद्वयुप्तत्तिरहितानाम्*-तादृशभ्रमशून्यानाम् । *अन्येषाम्*सिद्धान्तिनाम् । *अत एव*-शाब्दबोधस्य स्वस्वव्युत्त्पत्यनुसारित्वादेव । ननु प्रत्ययार्थस्य कचित् प्राधान्यं क्वचिद्विशेषणत्वमित्यत्र यदि न किञ्चिन्नियामकम् , तदा भवन्मते आख्यातसमभिव्याहारेऽपि धात्वर्थस्य प्रकारतया भानं कुतो नेत्यत आह-*एवं सत्यपीति । यदवष्टम्भेन भावनाया आख्यातार्थत्वं मीमांसकमन्यैरुक्तम् । तदेव व्यभिचरितमित्याह-*तदागमे हीति* । विवरणम्-कृना विवरणम् । *व्यभिचरितमिति । व्यभिचरितश्च-व्यभिचरितं च व्यभिचरितम् , “नपुंसकमनपुंसकेनैकवच्चास्यान्यतर १० द. प० Page #103 -------------------------------------------------------------------------- ________________ ७४ दर्पणपरीक्षासहिते भूषणसारेकृतम्, पक्वमिति* ॥ कृत्रा विवरणं प्रतीतिश्च पक्वमित्यत्रापि, इति . तत्रापि भावना वाच्या स्यादिति भावः । नन्वस्तु तिङ इव कृतामपि भावना वाच्येत्यत आह -*अपीति ॥ तथाचोभयसाधारण्येन तत्प्रतीतेरुभयसाधारणो धातुरेव वाचक इति भावः । भवद्रीत्या प्रत्ययार्थत्वात् प्रधान्यापत्तिश्चेति द्रष्टव्यम् ॥८॥ दर्पणः व्यभिचरितमित्यर्थः । तदेव विशदयति-*कृति । पक्वमित्यत्रापिनाऽनुपदोक्तपक्ववानित्यस्याऽपि संग्रहः । तत्र भावनाया आक्षेपात् प्रतीयमानत्वेऽपि प्रत्ययार्थत्वाऽभावेन व्यभिचारसम्भवात् । किं कृतमित्यतो व्यापारविषयस्य जिज्ञास्यत्वाऽवगमात् पक्वमित्यतस्तदनवबोधेनाऽस्योत्तरत्वाऽनुपपत्त्या व्यापारबोधकत्वध्रौव्ये तस्य प्रत्ययार्थत्वाऽभावादव्यभिचार इत्यर्थः॥ *विवरणमिति* । विवरणं चाऽत्र प्रश्नोत्तररूपमेव । तद्बोधनार्थमेव किमनुल्लेखः । अन्यथा केवलकृतशब्दस्य पक्वपदविवरणतया लोकाऽप्रसिद्धेविवरणं चातिव्याप्तमित्यस्याऽसङ्गतेः । *वाच्या स्यादिति* । प्रत्ययवाच्या स्यादित्यर्थः । अपिशब्दः पूर्वोतार्थस्यैव न समुच्चायकः, किन्त्वर्थान्तरस्यापीति वक्तुमाशइते-*नन्विति । तथाचोक्तापत्तिरिष्टैवेति भावः। अपिसमुच्चितार्थ प्रकटयति-*तथाचेति*। *उभयेति । आख्यातकृदन्तोभयेत्यर्थः । *साधारण्येनेति । साधारण्यमत्र समभिव्याहारविशेषः । *प्रतीतेरिति । भावनाप्रतीतेरित्यर्थः ॥ *उभयसाधारण इति* ॥ घटकतया प्रयोगद्वयाऽनुस्यूत इत्यर्थः । तथाच प्रयोगद्वये नियतवृत्तित्वेन धातोरव भावनावाचकत्वसिद्धिः। धातुत्वस्य शब्दतावच्छेदकत्वेन लाघवान्न तु तिकृतोस्तित्वस्य चाननुगतस्य शक्ततातक्छेदकत्वे गौरवात् । परस्परव्यभिचाराच्चेत्युक्तापत्तेनेंष्टत्वसम्भावनेति भावः । ___ ननु धातुत्वस्य शक्ततावच्छेदकतायाः प्रागेव निराकृत्वान्नोक्तदूषणस्याऽपिशब्दसमुच्चयत्वमत आह-*भवद्रीत्येति । स्वमते भावनायाः प्रकृत्यर्थत्वादुक्तं भवदिति प्रत्ययार्थत्वादित्यनेन पूर्वोक्तमतद्वयमध्ये त्वस्यैव मीमांसकसम्मतत्वमिति सूच्यते । परीक्षा स्याम्" इत्येकशेषः । व्यभिचरितत्वमुपपादयति-*कृना विवरणमिति । अपिना पक्ववानित्यस्य पूर्वोक्तस्य समुच्चयस्तन्मते पक्वमित्यत्र धातुना फलस्य प्रत्ययेन कर्मणः प्रतिपादनेऽपि भावनायाः प्रतीतिविषयत्वसिद्धये तस्याक्षेपो वाच्यः । तथा सति प्रतीतिविषयत्वसिद्धावपितस्याः प्रत्यार्थवत्वाभावेन व्यभिचारः किं कृतमित्यतो व्यापारस्य जिज्ञास्यत्वावगमे तस्या जिज्ञासायाः पक्वमित्यतो निवृत्तिरवश्य वाच्या। अन्यथा तथोत्तरं न स्यात् । भवन्मते तस्य व्यापाराबोधकत्वाद् । यदि च तस्य व्यापारबोधकताप्युच्यते तदा तस्य प्रत्ययार्थत्वाभावेन व्यभिचार इति भावः। अत्र विवरणपदं प्रश्नोत्तरभावपरम् । श्वाच्या स्यादिति । प्रत्ययवाच्या स्यादित्यर्थः । *उभयेति । कृदाख्यातोभयेत्यर्थः । साधारण्यं समभिव्याहारः। एवं धातावप्युभयसाधारण्यं बोध्यम् । *वाचकः*-भावनावाचकः । किंवाऽऽख्यातकृदुभयसा Page #104 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । व्यपारस्य धात्वर्थत्वे साधकान्तरमाह किं कार्य्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि । किञ्च क्रियावाचकतां विना धातुत्वमेव न ॥ ९ ॥ ➖➖➖➖➖➖➖➖ ७८५ कार्य्यमित्यत्र “ऋहलोर्ण्यत् ” ( पा०सू०३ | १ | १८४) इति कर्मणि ण्यत् । पचनीयमित्यादौ चानीयर । आदिना ज्योतिष्टोमयाजी इत्यादौ करणे उपपदे कर्त्तरि णिनिः । एते च क्रियायोगमन्तरेणासन्तस्तद्वाच्यतां बोधयन्ति । विना क्रियां कारकत्वासम्भवेन तद्वाचकप्रत्ययस्याप्यऽसम्भवात् । न च ' गम्यमानक्रियामादाय कारकयोगः' इति भाट्टरीतिर्युक्ता । आख्यातेऽपि तथात्वापत्तौ तत्रापि भावनाया वाच्यत्वासिद्ध्यापत्तेः । अथ लिङ्गसङ्ख्यान्वयानुरोधात्कर्तुर्वाच्यत्वमावश्यकमिति, तेना दर्पणः 1 व्याख्यातं च तथैव । अवतरणे तन्न्यायविरोधोपदर्शनं तु प्रत्ययाऽर्थत्वप्राधान्ययोः प्रायशः समनैयत्येन, प्रधानस्य प्रत्ययार्थत्वसाधकत्वस्याऽपि ततो लाभेन प्रकृतिवाच्यत्वे तदनुपपन्नमित्याशयेनेति बोध्यम् ॥ ८ ॥ साधकान्तरमित्यस्य धातोर्व्यापारवाचकत्वे इत्यादिः । किं कार्यमित्यत्र प्रश्नोत्तरभावरूपविवरणेनैव व्यापारस्य धात्वर्थत्वसिद्धिरित्यत्र न तात्पर्यम्, किन्तु प्रश्नोत्तरभावरूपविवरणस्य प्रक्रान्तत्वात् किमनुल्लेख इति सूचयन्नाह — कार्यमित्यत्रेति । *णिनिरिति*। “भूते” इत्यधिकृत्य, "करणे यजः” ( पा०सू० ३।२।५ ) इति सूत्रेणेति शेषः ॥ एते ण्यदादय इत्यर्थः ॥ *क्रियायोगमन्तरेणेति । क्रियान्वयिनामेव कारकतया धातोर्व्यापारावाचकत्वे ara इत्यादौ कर्मादिसंज्ञानां "कारके" इत्यधिकृत्य विहितानां घटादावसम्भवेन तत्र विधीयमानण्यदाद्यनुपपत्तिर्धातोस्तदाक्षिपति-देवदत्तस्य पीनत्वानुपपत्तिरिख रात्रिभोजनमिति भावः । तदेवाह - विना क्रियामिति । * गम्यमानेति । अस्य तदुपस्थापकपदाभावेऽपीत्यादिः । * तथात्वापत्ताविति । गम्यमानक्रियामादायैव कर्त्तृकर्माऽर्थकप्रत्ययोपपत्तावित्यर्थः । तत्राऽपि । तिङ्संज्ञकाऽऽख्याते ॥ ́*लिङ्गसंख्यान्वयाऽनुरोधादिति । अस्य पाचक इत्यादावित्यादिः ॥ आवश्य परीक्षा . धारणधर्मस्य वाचकतोच्छेदकत्वापेक्षया धातुत्वस्यैकस्य वाचकतावच्छेदकत्वे लाघवमिति बोध्यम् । एते - ण्यदादिप्रत्ययाः ; क्रियान्वयिनामेव कारकत्वादिति भावः ॥ ८ ॥ *गम्यमानेति । तद्बोधकपदानुच्चारणेऽपीत्यादिः । *तथात्वापत्तौ । गम्यमानक्रियामादाय कर्तृत्वकर्मत्वार्थकप्रत्ययस्योपपत्तावित्यर्थः । तत्रापि* — तिङ्सवस्थलेsपि । *आवश्यकमिति* | कृतीति शेषः । एवं च पाचक इत्यादौ कृदवाच्यकर्त्रा स्वनि Page #105 -------------------------------------------------------------------------- ________________ दर्पण परीक्षासहिते भूषणसारे - क्षेपाद् भावनाप्रत्ययः स्यादिति मतम् । तर्हि सङ्ख्यान्वयोपपत्तये आख्यातेऽपि कर्त्ता वाच्यः स्यात् । पक्कवानित्यादौ कालकारकान्वयानुरोधाद् भावनाया अपि तस्याऽऽवश्यकत्वाश्चेति भावः । अपिना हेत्वन्तरसमुच्चयः । तथा हि-नखैर्भिन्नो नखभिन्नः, हरिणा त्रातो हरित्रात इत्यादौ " कर्तृकरणे कृता बहुलम्” (पा०सू०२/१/३२) इति समासो न स्यात् । पुरुषो राज्ञो भार्य्या देवदत्तस्य इतिवद् असामर्थ्यात् । नचाध्याहृतक्रियाद्वारा सामर्थ्यं वाच्यम्, दध्योदनो गुडधाना इत्यादिवत् । अन्यथा - अत्रापि "अन्नेन व्यञ्जनम्" (पा०सू० २|१|३४) "भक्ष्येण मिश्रीकरणम्” (पा०सू०२ । १ । ३५) इति समासो न स्यादिति वाच्यम् । तत्र विध्यानर्थक्याद्गत्या तथा स्वाकारेऽपि दर्पणः कमित्यस्य कृतीति शेषः । कृन्निरूपितवाच्यत्वं कर्त्तुरवश्यमङ्गीकरणीयमित्यर्थः । तेन कर्त्रा आक्षेपादित्यस्य स्वरूपनिरूपकतयेत्यादिः । *प्रत्यय इति । बोध इत्यर्थः ॥ *तस्य* । वाच्यत्वस्येत्यर्थः ॥ 1 *असामर्थ्यादिति । विशिष्टार्थोपस्थित्यजनकत्वादित्यर्थः । निराकाङ्क्षत्वादिति यावत् । त्रातभिन्नपदान्तर्गतधात्वर्थक्रिययोः कर्त्तृकरणकारकसाकाङ्गत्वेन, हरिणेत्यादिपदोपस्थितकर्त्तृकरणयोश्च कारकत्वेन क्रियासाकाङ्गत्वेन परस्परसाकाङ्क्षत्वरूप सामर्थ्य व्यर्थतावादिमते । भवन्मते तु पुरुषो राज्ञो भार्या देवदत्तस्येत्यादिवन्निराकाङ्क्षत्वात् समासाऽनुपपत्तिरिति भावः । इदमुपलक्षणं कारकविभिक्तेरपि ॥ *अध्याहृतक्रियामादायेति । करोत्यर्थव्यापारमादायेत्यर्थः । *सामर्थ्यमिति। तथाच नखैः कृत्वा भिन्न इति बोधाभ्युपगमेनाऽध्याहृतार्थमादाय सामथ्योपपत्तिरित्यर्थः । अध्याहृतक्रियामादाय सामर्थ्याऽभ्युपगमे दृष्टान्तमाह - * दध्योदनेत्यादि* ॥ *विध्यानर्थक्यादिति ॥ 'अन्नेन व्यञ्जनम्' इत्यादेरपि पदविधित्वेन समपरीक्षा रूपकतया भावनाया आक्षेपो भविष्यतीति भावनायाः प्रत्ययः - प्रतीतिर्भविष्यतीति तदनुरोधेन धातुवाच्यत्वं तस्या न स्वीकार्य्यमिति भावः । आख्यातेऽपीति वाच्यः कर्ता - निरूपकता सम्बन्धेन तिष्ठेत् । तस्य वाच्यत्वस्य न स्यादिति उभयत्राक्षिप्तभावनायां तृतीयान्तार्थस्यान्वयोः न तु कृदर्थ इत्यसामर्थ्यमिति भावः । इतिवदिति । तत्र राज्ञो भाय्येति समुदायस्य विशिष्टोप स्थित्यजनकतया यथासामर्थ्यं तद्वत् निराकाङ्गत्वादिति शेषः । तत्राभिन्नपदान्तर्गतो यः कर्तृकर्म वाचकः कृत्प्रत्ययः, तस्य तादृशसमुदायघटकधातुप्रतिपाद्यफलेना क्षिप्ता या भावना तस्यामन्वयी योऽर्थः ; तद्वाचकतया तस्यामेव हरिणेत्यादिपदोपस्थितकारकस्याप्यन्वयेन परस्परसाकाङ्क्षत्वरूपसार्थ्यस्य सत्वात्तत्र समासो भविष्यतीत्याशङ्कां निरस्यति नचेत्यादिना । अन्यथा - आक्षिप्तभावनायामन्वयेऽपि असामर्थ्याङ्गीकारे । अर्थाध्याहारवा दिनामस्माकमध्याहृतान्वये न सामर्थ्यमस्तीति शेषः । *तत्र* - दध्योदन इत्यादौ । *विध्यानर्थक्यात् * = "अन्नेन व्यञ्जनम्" इत्यादिसूत्रद्वया Page #106 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। 'हरिकृतम्' इत्यादौ साक्षाद्धात्वर्थान्वयेनोपपद्यमानस्य “कर्तृक रणे” इत्यस्याक्षेपेण परम्परासम्बन्धे प्रवृत्त्ययोगात् ।। नचैकस्यां क्रियायामन्वयित्वमेव सामर्थ्यमिति शङ्कयम् । असूर्यम्पश्या इत्यादेरसमर्थसमासत्वानापत्तेः । इष्टापत्तौ कृतः सो मृत्तिकयेत्यत्र कृतसमृत्तिक इत्यापत्तः। नचाऽत्र समासविधाय दर्पणः र्थपरिभाषाविषयतया स्वतोऽसमर्थदध्यादिपदानां समासविधानवैयापत्त्योपसेचनादिक्रियाध्याहाराऽभ्युपगमेऽपीत्यर्थः ॥ . __*हरिकृतमिति* ॥ कृधातोर्व्यापारार्थकत्वस्वीकारात्तन्निरूपितकर्त्तत्वस्य हरौ साक्षात्सत्वादध्याहारं विनैव शास्त्रवारितार्थे 'हरित्रात' इत्यादावध्याहृतक्रियाद्वारकसामर्थ्यमादाय तत्प्रवृत्तौ मानाभावादित्यर्थः । कृजो व्यापारार्थकत्वानभ्युपगमे त्वध्याहृतार्थस्यापि सामर्थ्यानुपपादकत्वाच्छास्त्रवैयर्थ्यमेव स्यादिति सूचनाय कृतामित्युक्तम् । आदिना, शरकृतमित्यादिकरणतृतीयातत्पुरुषपरिग्रहः। केचित्तु-कृदर्थकत्रैव तृतीयार्थक क्षिप्तभावनामादाय हरित्रात इत्यादौ, नखैभिन्न इत्यादौ तु करणसामर्थेनाध्याहृतां तामादाय सामोपपत्तौ न तदनुपपत्तिर्धातो - वनावाचकत्वसाधिका । एवञ्च कृनः फलार्थकत्वेऽपि न समासानुपपत्तिरित्याहुः। तच्चि न्त्य म्॥ एकक्रियान्वयित्वमेवेति ॥ धवखदिरावित्यादौ तस्य दृष्टत्वेनान्यत्रापि साक्षात्परम्परया वा तस्यैव समासप्रयोजकत्वमिति भावः ॥ *असूर्यम्पश्या इति। नार्थप्रसज्ज्यप्रतिषेधस्य क्रियान्वयित्वस्य वक्ष्यमाणतया सूर्यस्यापि कर्मकारकतया तदन्वयित्वेन भवदुक्तसामर्थ्यस्य तत्र सत्त्वादिति भावः ॥ *कृतसर्वमृत्तिक इति* ॥ मृत्तिकायाः करणतया, सर्वपदार्थस्य कर्मतया कृधात्व परीक्षा नर्थक्यात् । *तथास्वीकारेऽपीति । अध्याहृतक्रियाऽवयित्वेन सामर्थस्य स्वीकारेऽपीत्यर्थः । *हरिकृतमित्यादाविति । आदिना हिरण्यकृतमित्यस्य संग्रहः । परम्परासम्बन्धे नखभिन्न इत्यादौ नखैः कृत्वा भिन्न इति बोधस्याङ्गीकारेण स्वान्वय्यन्वयित्वरूपपरम्परासम्बन्धेनान्वय इत्यर्थः । *न स्यादिति* । कृधातोर्भावनावाचकतया तत्प्रयोगे साक्षाच्छब्दवाच्य एवार्थेऽन्वयेन सूत्रस्य सार्थक्यादिति भावः। ___ एकक्रियाऽन्वयित्वमेव सामर्थ्य प्रयोजकं यथा-'धवरादिरौ छिन्धि' इत्यादौ धवखदिरपदार्थयोः साक्षादन्वयाभावेऽपि छेदनरूपेऽर्थे द्वयोरप्यन्वयेन सामर्थ्य तद्वदित्यर्थाभिमानेनाशङ्काया निरासङ्करोति-*नचेति । *अनापत्तेरिति । तत्र प्रसज्यप्रतिषेधार्थकस्य नञः क्रियायामेवान्वयेन सूर्यपदार्थस्यापि तस्यां कर्मतयाऽन्वेन परम्परासम्बन्धेनान्वयित्वरूपं भवदुक्तं सामर्थ्यमस्तीति भावः । *इष्टापत्ताविति । एतादृशसामर्थ्यस्य समाससज्ञाप्रयोजकत्वे इत्यादिः । *इत्यापत्तेरिति । अत्रापि कृअर्थभावनायां मृत्तिकापदार्थस्य करणतयाऽन्वयः सर्वपदार्थस्य तत्र कर्मतयाऽन्वयेन परम्परान्वयित्वं भवदुक्तं वक्तुं शक्यमिति भावः । *विधायकाभावः -“कर्तृकरणे" इति सूत्रस्य हिरण्यकृतमित्यत्र साक्षासम्बन्धे चरितार्थत्वेनैतादृशसामर्थेऽप्रवृत्त्या Page #107 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेकाभावः । “सह सुपा" (पासू०२।१।४।) इत्यस्य सत्त्वात् । अन्यथा असमर्थसमासोऽपि विधायकाभावान्न स्यादिति । किञ्चभावनायास्तिर्थत्वे 'भावयति घटम् इतिवद्भवति घटम्' इत्यपि स्यात् ; धात्वर्थफलाश्रयत्वरूपकर्मत्वसत्त्वात् । नचाख्यातार्थव्यापाराश्रयत्वेन कर्तृत्वात्तत्संज्ञया कर्मसंज्ञान बाधान्न द्वितीयेति वाच्यम् । आख्यातार्थव्यापाराश्रयस्य कर्तृत्वे 'पाचयति देवदत्तो विष्णुमित्रेण' इत्यत्र विष्णुमित्रस्याकर्तृत्वापत्तौ तृतीयानापत्तेः । 'ग्रामं गमयति देवदत्तोविष्णुमित्रम्' इत्यत्र विष्णुमित्रस्याकर्तृत्वापत्तौ ग्रामस्य गमिकर्मत्वानापत्तश्च । तथाच 'ग्रामाय गमयति देवदत्तो विष्णुमित्रम् इत्यपि न स्यात् । “गत्यर्थकर्मणि द्वितीयाचतुथ्यौँ चेष्टायामनध्वनि" (पा० सू०२।३।१२) इति गत्यर्थकर्मण्येव चतुर्थीवि दर्पणः र्थाऽन्वयित्वादितिभावः । योगविभागस्यानिष्टानापादकत्वादाह-*किन्चेति॥ ___ *अकर्तृत्वापत्ताविति ॥ आख्यातार्थव्यापारानाश्रयत्वादिति शेषः। अस्मन्मते तु णिच्प्रकृत्यर्थव्यापाराश्रयत्वेन कर्त्तत्वान्न तदनुपपत्तिरिति भावः। ननु विष्णुमित्रस्याऽकर्तृत्वेऽपि करणत्वविवक्षयैव तत्र तृतीया सुलभेत्यत आह-*ग्रामं गमयतीति* ॥ "कर्तुरीप्सितमम् इत्यनेन प्रकृतिकर्तुनिष्ठव्यापारजन्यफलसम्बन्धिन एव कर्मसंज्ञाविधानेन त्वन्मते विष्णुमित्रस्याकर्तृतया तव्यापारजन्यफलाश्रयस्यापि ग्रामस्याकमत्वेन तद्वाचकपदोत्तरं द्वितीयानापत्तिः। विष्णुमित्रस्य करणत्वे णिचोऽसम्भवश्च । धात्वर्थव्यापारजन्यफलाश्रयस्यैव कर्मत्वाङ्गीकारे तु णिजन्तकर्मतैव स्यान्न गमिकर्मतेति भावः। इष्टापत्तावाह-*तथाचेति । परीक्षा विधायकाभावः । *अन्यथा*- "सुप्सुपा" इत्यस्यापि साक्षात्सम्बन्ध एव प्रवृत्यङ्गीकारे । *असमर्थसमासोऽपीति* असूर्य्यम्पश्या' इत्यादावित्यादिः। __उक्तरीत्या भावनाया धातुवाच्यत्वं प्रसाध्य 'द्विर्बद्धं सुबर्द्ध भवति' इति न्यायेन पुनस्तस्या धातुवाच्यत्वं साधयति-*किञ्चेति । *सत्वादिति । फलमात्रस्य धात्वर्थत्वे धात्वर्थफलाश्रयत्वस्यैव कर्मत्वादितिशेषः । कर्तृसंज्ञया कर्मसञ्ज्ञाबाधमाशङ्कय निराचष्टे-*नचेति । विष्णुमित्रस्येति । तस्याख्यातार्थानाश्रयत्वादिति शेषः । ननु विष्णुमित्रस्याकतत्वेऽपि करणतयाऽन्वयेन ततस्तृतीया भविष्यतीत्यत आह*ग्राममिति । *गमिकर्मत्वानापत्तेश्च । “कर्तुरीप्सिततमम्” इति सूत्रेण प्रकृतधात्वर्थप्रधानीभूतव्यापाराश्रयरूपकर्तुनिष्ठव्यापारप्रयोज्यफलाश्रयस्य कर्मसज्ञा विधीयत इत्यभिप्रायेणाऽभिहिता । तन्मते विष्णुमित्रस्याकर्त्तत्वेन तस्य सूत्रस्याप्राप्तः। एवं विष्णुमित्रस्याकर्तृत्वे णिजनुपत्तिरपि बोध्या, कर्तृप्रयोजकस्यैव हेतुसज्ञा विधानात् । यदि तु यत् किञ्चिद्धात्वर्थव्यापारप्रयोज्यफलाश्रयस्य कर्मत्वम् । तदा णिजन्तधात्वर्थव्यापारप्रयोज्यफलाश्रयत्वेन णिजन्तकर्मत्वमेव स्यात् । अत्रेष्टापत्तावाह-*तथा Page #108 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । धानात् । एतेन णिजन्ते आख्यातार्थ उभयं तदाश्रयत्वाद्देवदत्तयज्ञदत्तयोः कर्तृतेत्यपास्तम् । " किञ्च तस्मिन् प्रयोगे य आख्यातार्थ इत्यस्यावश्यकत्वेनाख्यातशून्ये 'देवदत्तः पक्ता' इत्यादौ देवदत्तस्याऽकर्तृतापत्तेरिति दिकू ॥ दर्पणः ७९ *एतेनेति* । आख्यातार्थव्यापाराश्रयस्य कर्तृत्वनिरासेनेत्यर्थः । ऋणिजन्ते*पाचयत्यादौ । *उभयमिति । प्रयोज्यप्रयोजकव्यापारद्वयमित्यर्थः । * तदाश्रयत्वादिति । आख्यातार्थ व्यापारद्वयान्यतरत्वादित्यर्थः ॥ *अपास्तमिति । अयम्भावः - आख्यातस्य व्यापारद्वयाऽभिधायकत्वेन विष्णुमित्रस्य कर्तृत्वोपपादनेऽपि तत् । कर्तृत्वस्याख्याताभिधानाद्देवदत्तपदोत्तरमिव विष्णुमित्रपदोत्तरं तृतीयादौर्लभ्यमेवमाख्यातार्थव्यापाराश्रयत्वस्योभयोरप्यविशिष्टत्वात् प्रधानव्यवहारोच्छेदापत्त्या “हेतुमति च” ( पा० सू० ३ | १| २६ ) इत्यनुशासनविरोधश्चेति । ननु णिजाख्यातार्थान्यतरार्थ व्यापाराश्रयत्वं कर्तृत्वम् । अस्मन्मते फलमात्रस्य गणपठितधात्वर्थत्वेन तदनुकूलणिजर्थ व्यापाराश्रयत्वेन विष्णुमित्रस्याऽपि कर्तृत्वाद्दौर्लभ्येन नोक्ताऽनुपपत्तिरत आह- किञ्चेति । आख्यातार्थव्याराश्रयत्वस्य केवलान्वयितया अव्यावर्त्तकत्वेनाऽऽख्यातं तद्वाक्यस्थत्वेनाऽवश्यं विशेषणीयम् । एवञ्च - 'चैत्रः पक्ता' इत्यादावाख्यातशून्ये वाच्ये कृदर्थकर्त्तर्यव्याप्तिर्दुवारेत्यर्थः । नन्वस्तिर्भवन्तीपर इति भाष्येणाख्यातप्रयोगस्य तत्राऽवश्यम्भावान्नोक्तापत्तिः । किञ्च धातुविहितप्रत्ययवाच्यतदाक्षिप्ताऽन्यतरव्यापाराश्रयत्वं कर्त्तृत्वम् । धातुविहितेति प्रत्ययविशेषणाच्च न करणतृतीयार्थव्यापाराश्रयेऽतिव्याप्तिः । उक्तस्थले कृद्वाच्यकर्त्राक्षिप्तव्यापाराश्रयत्वान्नोक्तदोषोऽत आह-दिगिति । तदर्थस्त्वितर निवृत्तितात्पर्यकतादृशवाक्येऽस्त्यध्याहारस्यानावश्यकत्वादुक्तप्रकारस्य न साधीयस्त्वम् । किञ्चैवं रीत्या कर्त्तृत्वनिर्वचनाऽपेक्षया धातोर्व्यापारार्थकत्वमभ्युपगम्य तदाश्रयत्वमेव कर्त्तृत्वं निर्वक्तुमुचितम्, लाघवादित्यादिः ॥ परीक्षा च ग्रामायेति*। *एतेन* - आख्यातार्थव्यापाराश्रयस्य कर्तृत्वनिराकरणेन । *उभयमू*प्रयोज्यप्रयोजकव्यापारद्वयम् । अपास्तमिति । यद्युभयोर्व्यापारयोराख्यातार्थत्वम्, तदा विष्णुमित्रस्य कर्तृत्वोपपादनेऽपि तत् कर्त्तृत्वमाख्यातेनापिहितमिति । 'पाचयति देवदत्तो विष्णुमित्रेण' इत्यत्र विष्णुमित्रपदात्तृतीयाऽनापत्तिः । एवं प्रयोज्यप्रयोजकयोराख्यातस्य व्यापाराश्रयतया प्रधानाप्रधानव्यवहारानुपपत्तिरपीति भावः । ननु णिजाऽऽख्यातान्यतरार्थव्यापाराश्रयत्वं कर्त्तृत्वमित्यस्तु । एवं च विष्णुमित्रस्य णिजर्थव्यापाराश्रयत्वेन कर्त्तृत्वं सुलभमेवेत्यत आह- *किञ्चेति । * इत्यस्यावश्यकत्वेन—तन्निवेशस्यावश्यकत्वेन । अन्यथा पदार्थमात्रस्य यत्किञ्चिदाख्यातार्थव्यापाराश्रयत्वेन तन्निवेशस्याव्यावर्त्तकत्वापत्तिरिति भावः । नन्वस्तिभवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीति न्यायेनाख्यातस्यास्तीत्यस्य 'देवदत्तः पक्ता' इत्येत Page #109 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - सूत्रानुपपत्तिमपि मानत्वेन प्रदर्शयन्नुक्तार्थस्य स्वोत्प्रेश्चितत्वं निरस्यति-#किञ्चेति ॥ धातुसंज्ञाविधायकम् - "भूवादयो धातवः” ( पा० सू० १|३ | १ ) इति सूत्रम् । तत्र भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोर्व्यवस्थाप्रकारकवाचिनोरेकशेषः । आदिश्च श्रादिश्व आदी, ततो भूवौ आदी येषां ते भूवादयः । तथाच भूप्रभृतयो वासदृशा धातवः इत्यर्थः । तच्च क्रियावाचकत्वेन । तथाच क्रियावाचकत्वे सति भ्वादिगणपठितत्वं धातुत्वं पर्य्यवसन्नम् । अत्र हि क्रियावाचित्वमात्रोक्तौ वर्जनादिरूपक्रियावाचके 'हिरुकू; नाना' इत्यादावतिव्याप्तिरिति भ्वादिगणपठितत्वमुक्तम् ॥ ६ ॥ ८० तावन्मात्रोक्तौ चाहसर्व्वनामाव्ययादीनां यावादीनां प्रसङ्गतः ॥ न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् ॥१०॥ - गणपतित्वमात्रोक्त सर्व्वनामा यो 'या' तस्यापि धातुत्वं स्यात् । तथाच — याः पश्यसीत्यादौ " आतो धातोः " ( पा० सू० ६ । ४ । १४० ) इत्याकारलोपापत्तिः । ननु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव दर्पणः *स्वोत्प्रेक्षितत्वमिति । निर्मूलस्वकल्पना विषयत्वमित्यर्थः । *हिरुगिति । यथाश्रुतमनुरुध्य चेदम् । तदर्थस्य कालानन्वितत्वेन क्रियात्वासम्भवात् । किन्तु तावमात्रोक्ता वाणवयतीत्यादावतिव्याप्तिर्बोध्या । तेषां धातुत्वे च शास्त्रविषयतया साधुत्वापत्तेरिति बोध्यम् ॥ ९ ॥ I तावन्मात्रोक्तावित्यत्र मात्रपदेन क्रियावाचकत्वदलव्यवच्छेदः । इष्टापत्तिमाशयाह -* तथाचेति । या इत्यस्य द्वितीयान्तत्वं सूचयितुमाह-* पश्यसीति । *लक्षणप्रतीति* । लक्ष्यतेऽन्वाख्यायते साधुशब्दोऽनेनेति लक्षणं सूत्रम् । तदनुपरीक्षा तद्वाक्यशेषत्वमपि सम्भाव्यत इत्यत आह - * दिगिति । यद्वाक्यमितरनिवृत्तिमात्र तात्पर्य्यकं तस्य तच्छेषित्वासम्भव इति । किञ्च एवं क्लेशेन कर्त्तत्वस्योक्तस्थले . उपपादनापेक्षया लाघवाद्धातोः फलव्यापारोभयवाचकत्वमेवोचितमिति । * सूत्रेति । “भूवादय" इति सूत्रेत्यर्थः । *स्वोत्प्रेक्षितत्वम् । स्वीयकल्पनाविषयत्वम् । *हिरुगिति । इदं यथाश्रुते । यदि तु तदर्थस्य कालान्वयित्वेना क्रियात्वमिति ब्रूषे-आणवयति वयतीत्यादौ तद्वटकस्य धातुत्वापत्तौ साधुत्वापत्तिर्दोषो बोध्यः ॥ ९ ॥ - *तथाचेति । यवादीनां धातुत्वापत्तौ च । लक्षणेति । साधुत्वान्वाख्यानकरणत्वेन लक्ष्यतेऽनेनेति व्युत्पत्या लक्षणशब्दस्य सूत्रापरत्वेऽपि लक्षणया परिभाषाघ Page #110 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। ग्रहणान्न सर्वनाम्नो ग्रहणम् , तस्य लाक्षणिकत्वादित्यत आह*वेत्यादि* ॥ अव्यये--'वा' इत्यादावतिप्रसङ्गः। तादृशस्यैव गणेऽपि पाठेन निर्णयासम्भवात् । तथाच विकल्पार्थको वातीति प्रयोगः स्यादिति भावः।न चगतिगन्धनाद्यर्थनिर्देशो नियामकः; तस्य"अर्थानादेशनादू" इतिभाष्यपालोचनया आधुनिकत्वलाभात् ॥१०॥ दर्पणः सन्धानसापेक्षत्वोपचारेण लाक्षणिकमपि लक्षणशब्देनोच्यते । यथा-पै-इत्यस्य, पा इति रूपं विलम्बोपस्थितिकम् । लक्षणाऽनुसन्धानसापेक्षत्वात् । प्रतिपदोक्तं तु तद्विभक्तिविशेषानुवादेन पठितं शीघ्रोपस्थितिकम् । लक्षणानुसन्धानानपेक्षणात् इति । यथा पिबतेः पा इति रूपं तथा च शीघ्रोपस्थितिकत्वं प्रतिपदोक्तग्रहणे बीजं, तच्च या इति गणपठिते एव सर्वनाम्नि लक्षणानुसन्धानसापेक्षेति भावः । अव्यये, वा-इत्यादावित्यादिना, सु-इत्युपसर्गस्य, मामाङिति स्वरायोश्च संग्रहः । षत्वप्रकरणपाठादुपसर्गव्यावृत्तिर्न शङ्कया । साधादिसंग्रहाय परिभाषितषोपदेशत्वस्य तत्रापि सत्त्वात्॥ ___ *प्रयोगः स्यादिति । उपलक्षणं चैतत्सुवति, माति, मिमीते, इत्यादिप्रयोगाणाम् । षुप्रसवे, मा, माङ्माने इत्यादिधातूनां सत्त्वेन तन्निर्णयासम्भवात् । सत्यन्तोक्तौ तु न दोषः। वाद्यर्थस्य विकल्पादेर्भूतादिकालासम्बन्धेन क्रियात्वाभावादिति भावः । *नियामक इति*। गणे पठितानामेव धातुत्वस्याभिप्रेतत्वेऽर्थनिर्देशवैययापत्त्या निर्दिष्टार्थानामेव धातुत्वं ज्ञाप्यते इत्यर्थः । *तस्य*-अर्थनिर्देशस्य । *अर्थानादेशनादिति । अर्थस्य सत्तादेः, अनादेशनादनाम्नानादित्यर्थः। ___ *आधुनिकत्वलाभादिति । भीमसेनादिप्रणीतत्वावगतेरित्यर्थः । तथा च भूवादिसूत्रे-परिमाणग्रहणं कर्त्तव्यम् । कुतो ह्येतत् । भूशब्दो धातुसंज्ञको भवति, न पुनर्वेधशब्द इति । यद्यप्यर्थनिर्देशस्य सूत्रकृत्प्रणीतत्वमपि । तथाच "चुटू" (पासू० २३७) इति सूत्रे 'यदयमिरितः काश्चिन्नुमनुषक्तान् पठति, उबुन्दिर निशामने, स्कदिर्गतिशोषणयोः इति तेन नेरितामिदिद्विधि रिति' भाष्ये उक्तम् । तथापि भाष्यद्वयप्रामाण्यात्सर्वधात्वर्थनिर्देशस्याऽपाणिनीयत्वेन न तन्निर्देशस्य नियामकतेति भावः । चुलुम्पादीनां स्तम्भ्वादीनां च कास्यनेकाचामितिवचनादुदित्वरणाच्च धातुतेति दिक् ॥ १०॥ परीक्षा टको लक्षणशब्दो लाक्षणिकपरः । वादीत्यादीना सोरुपसर्गस्य माङो निषेधार्थस्य च ग्रहणम् । *तस्य*-अर्थनिर्देशस्य । *अर्थानादेशनात् । अर्थस्य सत्तादेरनादेशनात् , अकथनात् । तथाच-भूवादिसूत्रे भाष्यम्-"परिमाणग्रहणं कर्त्तव्यम् , कुतोऽन्वेतत् भूशब्दो धातुसंज्ञो न पुनर्वेधशब्द इति।आधुनिको भीमसेनः, यद्यपि “चुटू-" इति सूत्रे भाष्यकृता-“इर् इत्संज्ञा वक्तव्या” इत्यस्य प्रत्याख्यानसमये-इकाररेफयोः पृथगित्संज्ञया निवृत्तिपो-नुमागमाशङ्कायां “यदयमिरितः, कांश्चिन् नुमनुषक्तान्पठतिउबुन्दिनिशामने, स्कन्दिर गतिशोषणयोरिति । तेन नेरितामिदिदिधिरिति प्रतिपादितम् । तथाप्यर्थादेशनस्योक्तभाष्यात्सर्वत्र पाणिनीयत्वं नेति बोध्यम् । सत्यन्तोपपादने तु यद्यर्थस्य कालान्वयित्वेनाक्रियात्वान्न तद्वाचकानां धातुत्वम् ॥ १०॥ ११ द० प० Page #111 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहित भूषणसारेनन्वस्तु क्रियावाचकत्वे सति गणपठितत्वं धातुत्वम् , क्रिया च धात्वर्थ एव, न व्यापार इत्याशङ्कां समाधत्तेधात्वर्थत्वं क्रियात्वचेद्धातुत्वं च क्रियार्थता । अन्योऽन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाकरम् ।। ११॥ यदि क्रियात्वंधात्वर्थत्वमेव तर्हि धातुत्वग्रहे तदर्थत्वरूपक्रियात्वग्रहः, क्रियात्वग्रहे च तदवच्छिन्नवाचकत्वघटितधातुत्वग्रह इत्यन्योन्याश्रय इति ग्रहपदं पूरयित्वा व्याख्येयम् । यथाश्रुते चान्योन्याश्रयस्योत्पत्ती ज्ञप्तौ वा प्रतिबन्धकत्वाभ्युपगमेनासङ्गत्यापत्तेः । नचान्यतमत्वं धातुत्वम्-“भूवाय” इत्यस्य वैयर्थ्यापत्तरित्यभिप्रेत्याह-*अस्त्विति ॥ दर्पणः *धात्त्वर्थ एवेति । फलमेवेत्यर्थः। तथाच नैतत्सूत्रानुपपत्तिर्धातोर्व्यापारार्थत्वसाधिकेति भावः । *उत्पत्ताविति । यथा बीजाऽङ्कराद्युत्पत्तौ अनादित्वेन तत्परिहार इत्यन्यत् । यथा वा चैत्रपुत्रश्चैत्र इत्यादौ । तत्राप्येकोत्पत्ति विनाऽपरानुपपत्तेः । *ज्ञप्ताविति । “हलन्त्यम् इत्यादौ प्रसिद्धः । *असङ्गत्यापत्तेरिति । यथा पृथिवीजलयोराधाराधेयभाव इत्यादावुभयोः परस्पराधाराधेयभावेन स्थितेः सर्वैरेवाभ्युपगमात् । प्रकृते वस्तुतो धात्वर्थस्य क्रियात्वे क्रियात्वस्य धात्वर्थत्वे बाधकाभावेन तत्र दूषणदानस्यानुचितत्वापत्तेरित्यर्थः। *अन्यतमत्वमिति। भ्वादिभिन्नभिन्नत्वमित्यर्थः॥ *वैयापत्तेरिति । तावतैगतिप्रसङ्गभङ्गे गुरुधर्मावच्छिन्नशक्तिप्रतिपादकस्य तस्यानतिप्रयोजनकत्वापत्तेरित्यर्थः । दृष्टफलाभावादिति भावः । केचित्तु भ्वादिषु धातुरित्यनुगतव्यवहारात् क्रियात्वमपि जातिरेव शक्यतावच्छेदकतयेव शक्ततावच्छेदकतयाप्यसति बाधके जातिसिद्धनिष्प्रत्यूहत्वात् । भूवादिसूत्रं त्वनभिज्ञप्रतीतिपरं, ताहशजातिपरिचायकप्रदर्शकमित्याहुः । नन्वस्मन्मते पूर्वापरीभूतावयवसमुदायरूपक्रियाया धात्वर्थत्वेन तद्गृहीतपौर्वापर्यारोपेण फलस्य क्रियात्वोपपत्तिः । भवन्मते तु क्रियाया धात्वर्थत्वानुपगमेन कथं परीक्षा एवं मीमांसकमते निरस्ते सिद्धान्त्येकदेशिनो मीमांसकानुसारिणी शङ्कां निर. सितुमाशङ्कते-*नन्वित्यादिना । *धात्वर्थ एव*-फलमेव । तथाच कथं भूवादिसूत्रस्य धातोर्व्यापारवाचकत्वसाधकता इति भावः । *यथाश्रुते*-ग्रहपदस्थापूर्णे । *उत्पत्ताविति । यथा मैत्रपुत्रो मैत्र इत्युक्ते । *ज्ञप्ताविति । "हलन्त्यम्" इत्यत्र यथा उत्पत्तौ यत्र आनादित्वं तत्रान्योन्याश्रयस्तु नक्षतिकरो बीजाकुरवत् । यत्र च नोत्पत्ती न वा ग्रहेऽपेक्षा, किन्तु स्थितौ तत्र नान्योन्याश्रयो दोषाधायकः, यथा भूमिजलयोः । *अन्यतमत्वमिति*-भ्वादिभिन्नत्वमित्यर्थः। *आपत्तेरिति । दृष्टफलासाधकत्वापत्तेः । यत्तु धातु तुरित्यनुगतप्रतीत्या धातुत्वं जातिरितिः तन्न । विभुविभुरित्यनुगतप्रतीत्या विभुत्वजातिसिद्धथापत्तेः । स एव पुनः शङ्कते Page #112 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। . व्यापारसन्तानः क्रिया, तद्वाचकत्वे सति गणपठित्वमित्यर्थः। ननु सत्तादीन् फलांशानन्यतमत्वेनादाय तद्वाचकत्वे सति गणपठितत्वं लक्षणमुच्यताम् । धात्वर्थत्वात् तेषां क्रियाशब्देन व्यवहारो भाष्यादौ कृतोऽप्युपपत्स्यत इति चेद् ? न। अन्यतममध्ये विकल्पस्यापि विकल्पयतीति प्रयोगानुसारात् प्रवेशावश्यकत्वेन तदर्थके वेत्यव्यये उक्तरीत्या गणपठितत्वसत्त्वेनाऽतिव्याप्तेरिति ॥११॥ नन्वस्यैव धातुत्वे अस्तीत्यादौ क्रियाप्रतीत्यभावादस्त्यादीनां तवाचकानामधातुत्वप्रसङ्ग इत्यत आह अस्त्यादावपि धयंशे भाव्येऽस्त्येव हि भावना॥ अन्यत्राशेषभावात्तु सा तथा न प्रकाशते ॥१२॥ । अस्त्यादौ, अस् भुवि इत्यादौ । धयंशे-धम्मिभागे। भाव्ये-भा दर्पणः तत्र तव्यवहारोऽत आह-*धात्वर्थत्वादिति । तथाच-तत्र फलत्वव्यवहार इव क्रियात्वव्यवहारोऽपि धात्वर्थत्वप्रयोजकत्वाऽभ्युपगमेन तदुत्पत्तेरिति भावः । *भाष्यादौ कृत इति* । “कर्मवत्कर्मणा" इति सूत्रे भूवादिसूत्रे च भाष्यादावित्यर्थः । आदिपदादू वृत्त्यादिपरिग्रहः ॥११॥ __*अस्यैवेति । क्रियावाचकस्यैवेत्यर्थः । एवकारेण फलमात्रवाचकत्वव्यवच्छेदः । एतदवाचकत्वे हेतुः-*क्रियाप्रतीत्यभावादिति*। *तदवाचकानाम्-व्यापारावाचकानामित्यर्थः। *अधातुत्वप्रसङ्ग इति । आपत्तेरिष्टत्वं तु न, ततो लकाराद्यनुत्पत्तिप्रसङ्गादिति भावः॥ धर्म्यशे, फलरूपे इत्यर्थः । अंशपदोपादानात् धर्मिणो धर्मघटितमूर्तिकत्वादकर्मकस्थले कर्तृवृत्तित्वाच्च फलस्यापि तदंशत्वात् । तस्य भाव्यतायामेव विवादादाह परीक्षा *नन्विति । ननु फले पूर्वापरीभूतावयवकत्वाभावेन क्रियात्वव्यवहारः कथमित्यत आह-*धात्वर्थत्वादिति* । धातुवाच्यत्वमेव (फलत्वमेव ) फलत्वव्यवहारे यथा प्रयोजकम् , तथा क्रियात्वव्यवहारोऽपि भविष्यतीति भावः । नचैवं व्याख्यानेशडूकमतेऽन्योन्याश्रयपरिहारः कथमिति वाच्यम् ? धात्वर्थः क्रियेत्येतत् प्रविष्टं धातुत्वं त्वन्यदेवेत्याशयात् । *आवश्यकत्वनेति । अन्यथा कृपशब्दस्य सज्ञा न स्यादिति भावः॥११॥ ... ___ *अस्यैव*-व्यापारवाचकस्यैव । *क्रिया*-व्यापारः। *अभावादिति* । पौपर्याप्रतीतेरिति भावः। *तदवाचकानाम्-क्रियाया अवाचकानाम् । *धाशे*-फले, धर्मी कर्ता, तदंशः फलम् , अकर्मकधातुस्थले फलाश्रयस्य कर्तत्वात् । धर्मिणो धर्मघटितमूर्तिकतयांशव्यवहारो नासमञ्जसः। तस्य भाव्यतायां विवादादु. Page #113 -------------------------------------------------------------------------- ________________ ८४ दर्पणपरीक्षासहिते भूषणसारेव्यत्वेन विवक्षिते । अस्त्येव-प्रतीयत एव । अयमर्थः 'स ततो गतोन वा' इति प्रश्ने, महता यत्नेन तिष्ठतीति प्रयोगे सत्तारूपफलानुकूला भावना प्रतीयत एव । उत्पत्यादिबोधने तु सुतराम् । रोहितो लोहितादासीद् धुन्धुस्तस्य सुतोऽभवद् । (रामायणम्) इत्यादिदर्शनात् । दर्पणः *भाव्यत्वेनेति । भावनानिष्पाद्यत्वेनेत्यर्थः । फलसाध्यव्यापारस्य जिज्ञास्तित्वे इति यावत्। अत एव वक्ष्यति, 'आसन्नविनाशम्' इति । विवक्षास्थलमेव प्रश्नोत्तरभावेन दर्शयति-* स ततो गतो न वेति । “गत्यर्थाऽकर्मक इति कतरिक्तः। प्रश्न इत्यनेन भाव्यत्वस्य जिज्ञास्यत्वं ध्वन्यते । तथाच-गतो न वा किर्मिति प्रश्नाऽऽकारः । ___ *प्रयोग इति । प्रश्ननिवर्त्तके वाक्य इत्यर्थः। प्रतीयते एवेत्यस्यास्धातुनेति शेषः। ननु स ततो गतो न वेति वाक्याद् गेहाधवधिकविभागानुकूलव्यापाराश्रयत्वतदभावाऽन्यतरस्य जिज्ञास्यत्वमवगम्यते । महता यत्नेनाऽस्तीति, वाक्यात्त्वस्ते ापारार्थकत्वाभ्युपगमेऽऽपि चैत्रादिकर्तृकसत्ताऽनुकूलव्यापार एवेति कथमेतयोः प्रश्नोत्तरत्वम् । तथाहि-यद्धर्मावच्छिन्ने जिज्ञासितयद्धर्माऽवच्छिन्नस्य सम्बन्धो यत्प्रश्नवाक्यात् प्रतीयते तद्धर्मावच्छिन्ने जिज्ञासिततद्धर्मावच्छिन्नसम्बन्धबोधकवाक्यस्योत्तरता । यदाहु: जिज्ञासितपदार्थस्य संसर्गो येन गम्यते। तदुत्तरमिति प्रोक्तमन्यदाऽऽभासशब्दितम् ॥ इति । यथा घटत्वावच्छिन्नजिज्ञासितधर्मावच्छिन्नसम्बन्धबोधकस्य, कस्माद् घट इति प्रश्नवाक्यस्य घटत्वाऽवच्छिन्ने जिज्ञासितदण्डत्वाऽवच्छिन्नस्य हेतुहेतुमद्भावबोधकं दण्डाद् घट इति वाक्यमुत्तरम् । प्रकृते तु, गत, इति, नेति, वेत्युत्तरं युज्यते। किञ्चोक्तप्रश्नेन सत्तासाधकव्यापारस्य जिज्ञास्यत्वानवगमात् कथमेतस्योत्तरत्वम् । तथाऽत्वेऽपि पूर्वोत्तरवाक्ये यत्नेनेत्युपादानाद्यनपदोपस्थाप्ययनानिष्पाद्यत्वबोधेनैवोत्तरत्वसिध्या, न ततो धातोर्व्यापारार्थकत्वसिद्धिरत आहे-*उत्पत्त्यादीति*। सुतरामित्यस्य व्यापारार्थकत्वमिति शेषः । अन्नाश्रयताबोधस्योभयमतसिद्धत्वेन सैव साध्यत्वेनाभिधीयमानत्वाद् व्यापारः, पौर्वापर्ये च परमते सत्तायामिव कालगतं तत्रारोपितमेवेति भावः। परीक्षा क्तम्-*विवक्षित इति । *अस्तीति । तिष्ठतीत्यर्थः । उत्पत्यादीत्यादिनाऽस्तीति परिग्रहः । उत्पत्त्याद्यर्थकत्वे मानन्तु "धान्यानां भवने" "तत्र जात" "तत्र भव”इति भिन्ननिर्देशः । 'गत इति प्रश्न' इत्यनेन भाव्यत्वजिज्ञासा ध्वनिताः सा भाव्यत्वबोधेनैव निवर्तते । यदि भाव्यत्वबोध उत्तरवाक्यान्न स्यात्तदा तस्या निवृत्तिन्न स्यादिति भावः । यद्यप्युत्पद्यते-इत्यत्र व्यापार-आश्रयता, तथापि 'साध्यत्वेन प्रतीयते' इत्यतस्तस्याः क्रियात्वव्यवहारविषयता। नन्वाश्रयतारूपव्यापारप्रतीतिरपि स विवाद एवेत्याशङ्कां साधकान्तरोपन्यासेन Page #114 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। किञ्च अत्र भावनाविरहे लडादिव्यवस्था न स्यात् । तस्या एव वर्तमानत्वादिविवक्षायां तद्विधानात् ।। __ "क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका" इति वाक्यपदीयादिति । __ नन्वेवमस्तीत्यत्र स्पष्टं कुतो न बुद्ध्यत इत्यत आह-*अन्यत्रेति* ॥ *अशेषभावाद्-भावनायाः फलसमानाधिकरणत्वात्। तथाच भावनायाः फलसामानाधिकरण्यं तत्स्पष्टत्वे दोष इति भावः। नन्वेवं किं करोतीति प्रश्ने, पचतीत्युत्तरस्येवास्तीत्युत्तरमपि स्यादिति चेत् ? इष्टापत्तः। श्रासन्नविनाशं कश्चिदुद्दिश्य किं करोतीति प्रश्ने, अस्तीत्युत्तरस्य सर्वसम्मतत्वात् । दर्पणः ननु तत्राप्याश्रयताया धात्वर्थत्वकल्पनमप्याग्रहमूलकमेव। तत्रोत्पत्तिमात्रार्थकत्वेऽपि रोहिताश्रयिका भूतानद्यतनोत्पत्तिरित्यभिमतार्थबोधलाभादत आह-किञ्चेति*। *तस्या एवेति । भावनाया एवेत्यर्थः । एवकारेण फलव्यवच्छेदः । यथा चैतत्तथोक्तं सार एव । तद्विधानात्*-लडादिविधानात् । तत्र हरिसम्मतिमप्याह-*क्रियाभेदायेति । “तुमर्थात् इति चतुर्थी, वार्तिकेन तादयें वा । क्रियां भेत्तु-विशेषयितुं कालो-लडादि|ध्यः। अस्तीति शेषः । लडाद्यर्थकालः क्रियामात्रभेदकः इति यावत् ; विभक्त्यर्थरूपासंख्या तु सर्वस्याख्यातप्रतिपादकार्थस्य भेदिकेति तदर्थः । मतान्तरेषु धातुप्रतिपादकार्थस्येति बोध्यम् । *एवम्*-धातोर्व्यापारवाचकत्वे । मूले-*अशेषभावादिति । शेषः-फलव्याप्त्यतिरिक्तो, भवत्यस्मिन्निति परीक्षा निरस्यति-*किञ्चेति । *भावना विरहे*-अकर्मकधातुस्थले भावनाप्रतीत्यस्वीकारे । *कालस्त्विति । अङ्गीक्रियत इति शेषः । *सर्वस्य-*क्रियायास्तद्भिन्नस्य । *एवम्*-धातुमात्रस्य क्रियावाचकत्वे । अन्यत्रेत्यस्य सकर्मकभिन्नस्थल इत्यर्थः । नन्वशेषभावादित्यस्मात् फलसमानाधिकरणत्वादित्यर्थप्रतीतिः कथमिति चेदित्थम्-भावशब्दोऽधिकरणघनन्तोऽधिकरणवाची तस्य शेषशब्देन बहुव्रीहिसमासः । शेषफलव्याप्त्यतिरिक्तः-फलानधिकरणम् । एतेन फलानधिकरणवृत्तितो लाभे ततो नञ्समासे फलसामानाधिकरण्यस्य लाभ इति। न च फलसामानाधिकरण्यं सकर्मकगम्यादिधात्वर्थस्थलेऽपीतिः तत्रापि भावनाप्रतीतिर्न स्यादिति वाच्यम् ? एकमात्राधिकरणकभावनायां सामानाधिकरण्यस्य प्रतिबन्धकत्वात् । तथाच विषयतासम्बन्धेन भावनाप्रतीतिः, स्वरूपसम्बन्धेन फलानधिकरणावृत्तिप्रतिबन्धकत्वात् भावनानिष्ठं फलसामानाधिकरण्यं स्वरूपतः प्रतिबन्धकम् , न तु तद्ग्रहापेक्षया । __ सा च प्रतिबन्धकता मणिमन्त्रन्यायेनेत्याशयेनाह-*दोष इति* । *एवम्*अस्त्यादीनामकर्मकाणामपि भावनावाचकत्वे । न च दिगस्त्यात्मास्तीत्यादौ दिगा. दिसत्ताया नित्यत्वात्कथं भावनाप्रतीतिरिति वाच्यम् ? स्वरूपधारणानुकूलव्यापार Page #115 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेइतरत्र तु सुस्थतया निश्चिते किं करोतीति प्रश्नः पच्यादिविशेषगोचर एवेत्यवधारणादस्तीति नोत्तरमिति ॥ १२॥ नन्वेवं भावनायाः फलनियतत्वात् फलाश्रयस्य च कर्मत्वात् सर्वेषां क्रियावाचकत्वे सकर्मकतापत्तिरित्यत आह फलव्यापारयोरेकनिष्ठतायामकर्मकः ॥ धातुस्तयोर्धार्मभेदे सकर्मक उदाहृतः॥ १३ ॥ एकनिष्ठतायाम्-एकमात्रनिष्ठतायाम् , भिन्नाधिकरणावृत्तितायामिति यावत् । तेन गम्यादौ फलस्य कर्चुनिष्ठत्वेऽपि नातिव्याप्तिः। दर्पणः भावोऽधिकरणं यस्येति बहुव्रीहिणा शेषभावशब्दः फलव्यधिकरणार्थकः भावप्रधाननिर्देशः। तस्मान्नसमस्तात्पञ्चम्येकवचने फलव्यधिकरणत्वाभावादित्यर्थावगतिः॥१२॥ ___ फलितमाह-सारे *भावनायाः फलेति । एकमात्राधिकरणकफलसामानाधिकरण्यस्य स्वरूपतो भावनास्पष्टभानप्रतिबन्धकत्वाऽभ्युपगमान्न स्पष्टं तत्प्रतीतिः । स्पष्टत्वं च-फलप्रतीत्यनभिभूतत्वमिति भावः । एवम्-अस्त्याद्यकर्मकाणां व्यापाराऽर्थकत्वे । *फलनियतत्वादिति । फलव्याप्यत्वादित्यर्थः। भावनावाचकत्वस्य फलवाचकत्वव्याप्यत्वादिति यावत् । *सकर्मकतापत्तिरिति । फलव्यापारोभयवाचकस्य पच्यादेः सकर्मकत्वदर्शनादिति भावः।। ___ ननु फलव्यापारयोरेकनिष्ठत्वस्याकर्मकतायां तन्त्रत्वे गम्यादीनामप्यकर्मकतापत्तिस्तदर्थफलव्यापारयोरेककर्त्तवृत्तित्वादतो व्याचष्टे-*एकमात्रनिष्ठतायामिति । एकमात्रनिष्ठत्वमेकेतरावृत्तित्वे सत्येकवृत्तित्वम् । तत्र प्रयोजनाभावाद्विशेष्यांशमपहाय फलितार्थमाह-भिन्नाधिकरणेति । भिन्नत्वं च व्यापाराधिकरणापेक्षया बोध्यम् । तथाच स्वार्थव्यापारानधिकरणावृत्तिफलवाचकत्वं पर्य्यवसितं लक्षणं लक्ष्ये ग्राहयति परीक्षा स्यैतादृशस्थलेऽस्त्यर्थत्वात् । एवं च यथा 'पच्यते तण्डुलः स्वयमेव' इत्यत्राश्रयतारूपव्यापारस्य प्रतीतिस्तथाऽत्रापि-आश्रयतारूपस्य व्यापारस्य साध्यत्वेन भान दिगादिकर्तृकं स्वरूपधारणमिति बोधः ॥ १२ ॥ *फलनियतत्वात*-फलव्यापकत्वात् । एवं च यत्र फलवाचकताःतत्र भावनावाचकत्वमपि वर्तत इत्युभयसद्भावेन सकर्मकता पच्यादिवत् स्यात् । *फलव्यापारयोरिति* । एकनिष्ठतायां धातुरकर्मक इति सम्बन्धः।। ननु गम्यादिधात्वर्थसंयोगादिफलस्य तदनुकूलव्यापारस्य च पुरुषनिष्ठत्वात्तेषामप्यकर्मकत्वापत्तिरत आह-*एकाधिकरणमात्रेति । ननु मात्रपदनिवेशे तदर्थस्य एकेतरावृत्तित्वे सत्येकवृत्तित्वस्य विवक्षणे-एकेतराप्रसिद्धयाऽप्रसिद्धिरत आह*भिन्नेति । नचैवमपि भेदस्य केवलान्वयित्वादसम्भव इति वाच्यम् । भेदस्य सप्रतियोगिकत्वेन प्रतियोग्याकाङ्क्षायां व्यापाराश्रयस्यैव तथात्वात् । लक्षणं ग्राहयति Page #116 -------------------------------------------------------------------------- ________________ धात्वथ निर्णयः । अकर्म्मको यथा-भ्वादिः । तयोः - फलव्यापारयोः, आश्रयभेदे सकर्मक इत्यर्थः । उक्तञ्च वाक्यपदीये— श्रात्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः ॥ इति । *बिभ्रदिति । तेन स्वधारणानुकूलो व्यापारोऽत्रापि गम्यत इति भावः । तेन - कर्म्मणा, सकर्मकत्वन्तु न, अन्तर्भावात् - फलांशेन दर्पणः *भ्वादिरिति । तत्र सत्ताऽऽत्मकव्यापारस्यैकमात्रनिष्ठत्वस्याऽविकलत्वादितिभावः । ननु मूले-‘तयोर्धर्मिभेदे' इत्यनेन स्वार्थफलव्यधिकरणव्यापारवाचकत्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सकर्मकत्वमुक्तम् । तत्र वैयधिकरण्यम्-तदधिकरणावृत्तित्वम् । तथाच गमादावव्याप्तिः । तदर्थफलव्यापारयोः परस्पराऽधिकरणवृत्तिभिन्नत्वाऽभावादतो व्याचष्टे भूषणसारे आश्रयभेद इति । तथाच प्रथमलक्षणे कर्त्तभिन्नतदधिकरणावृतित्वरूपस्य द्वितीये तदनधिकरणावृत्तित्वरूपस्य निवेशान्नाऽनुपपत्तिरिति भावः । अस्तेः फलव्यापारोभयार्थकत्वे हरिसम्मतिमप्याह-उक्तञ्चेति । *व्यपदिश्यते*व्यवह्रियते । अन्तर्भावादिति । धात्वर्थतावच्छेदककोटिप्रविष्टत्वादित्यर्थः । I पृथुगुपस्थितयोरेवान्वयनियमात् कर्मसंज्ञकाऽर्थान्वय्यर्थकरूपसकर्मकत्वस्य तत्रानवकाशादिति भावः । स्वोक्तलक्षणानुसारेण सारकृद् व्याचष्टे -*फलांशेनेति । स्वकर्मक धारणरूपफलेन सह तदनुकूलव्यापारस्यका धिकरण्यादित्यर्थः । आत्मरूपकर्मणा सकर्मकत्वं कुतो नेत्याकाङ्क्षायाम् एतत्समाधानस्योदक्षरत्वदोषदुष्टस्य योग्यत्वमीहशव्याख्याने सुधीभिर्विभावनीयम् । परीक्षा *तेनेति* । *यथा भ्वादिरिति । सत्वरूपफलस्य तदाश्रयत्वस्य चैकनिष्ठत्वात् । मूले—* तयोर्द्धर्मिभेद इति । फलव्यापारयोर्द्धर्मिभेद इत्यर्थः । तथाच यत्र फलव्यापारयोराश्रयभेदः; स धातुः सकर्मकः । नचैवमपि गमित्यजिधात्वर्थफलसंयोगविभागयोर्व्यापारस्य चैकनिष्ठत्वादव्याप्तिरिति वाच्यम् ? व्यापाराश्रयातिरिक्तनिरूपितफलतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वस्य विवक्षितत्वात् । - अत्रार्थे हरिसम्मतिमाह -* उक्तञ्चेति । * आत्मानम् — स्वस्वरूपम् । *बिभ्रत्* - धारयत् । एतेन स्वस्वरूपधारणानुकूलो व्यापारो धात्वर्थ इति लब्धम् । *व्यपदिश्यते* — व्यवह्रियते । नन्वेवमात्मानं धत्ते इति वदात्मानमस्तीत्यपि प्रयोगोऽविशेषात्स्यादत आह--*अन्तर्भावादिति । अन्तर्भावादित्यस्य धात्वर्थतावच्छेदकशरीरे कर्मणः प्रवेशादित्यर्थः । तथाच सकर्मकपदस्य कर्मणा सह वर्तते कर्मान्वय्यर्थप्रतिपादक इत्यर्थः । अन्वयश्च पृथग्बद्धसंसर्गः । प्रकृते तु -- कर्मणः स्वस्वरूपस्य पृथग् बुद्ध्यभावात् न तेन कर्मणा सकर्मकत्वव्यवहार इति भावः । एवमेव सर्वत्र धात्वर्थसङ्गृहीतकर्मस्थले बोध्यम् । स्वरीत्यानुसार कृदाह--*फलांशेनेति । स्वस्वरूपधृत्यात्मकफलेन व्यापारस्यैकाधिकरण्यादिति यावत् । Page #117 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - सामानाधिकरण्यसत्त्वादित्यर्थः । श्रात्मानं जानाति इच्छतीत्यादौ च द्वावात्मनौ - शरीरात्मान्तरात्मा च । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति “कर्मवत्कर्मणा” (पा०सू०३/१.८७) इति सूत्रीय भाष्योक्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्मकत्वमित्यवधेयम् ॥ १३ ॥ ८८ नन्वसत्त्वभूतक्रियाया धात्वर्थत्वे पाक इत्यत्रापि तत्प्रत्ययापत्तिः । नचेष्टापत्तिः । “कृदभिहितो भावो द्रव्यवत् प्रकाशते " इति भाष्यविरोधादित्यत आह - आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता ॥ प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥१४॥ दर्पणः । 1 नवात्मानं जानातीत्यादावनुपदोक्तसकर्मकलक्षणस्याऽव्याप्तिः । तत्र ज्ञानरूपफले तदर्थव्यापारस्य वैयधिकरण्याऽभावादतिव्याप्तिश्च फलसमानाधिकरणेत्याद्यकर्मकलक्षणस्येत्याशङ्कय समाधत्ते-आत्मानं जानातीत्यादिना* | *अन्तरात्मेति । अन्तःकरणावच्छिन्नात्मा शरीरात्मा तदवच्छिन्नः सः । तथाचाऽऽत्मन एकत्वेऽपि ततः शरीररूपोपाधिभेदपरिकल्पितं भेदमादाय वैयधिकरण्यस्य सूपपादत्वादुक्तलक्षणयोर्नाव्याप्त्यतिव्याप्तीत्याह -*भिन्नाधिकरणेति ॥ १३ ॥ *असत्त्वभूताया इति । क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकधर्माक्रान्ताया इत्यर्थः । तदिति । तेन रूपेण प्रतीत्यापत्तिरित्यर्थः । *कृदभिहित इति । कृदर्थ इत्यर्थः । *द्रव्यवदिति । द्रव्येण नामार्थेन तुल्यं प्रकाशते भासते इत्यर्थः । द्रव्यधर्माणि – लिङ्गसंख्याकारकत्वानि गृह्णातीति यावत् । यद्वा द्रव्यं क्रियाकाङ्क्षोत्थापकतावच्छेदकरूपासिद्धत्ववत् तेन तुल्यं प्रकाशते इत्यर्थः । सिद्धत्वेन भासत इति यावत् । तथा च तादृशभाष्येणापाद्यव्यतिरेकनिर्णये तद्धेतुभूते प्रामाण्योपगमादिष्टापत्तेरसुकरत्वादिति भावः । परीक्षा अत्रेदम्बोध्यम्-- आत्मस्वरूपकर्मणा कुतो न सकर्मकत्वमिति शङ्कायामेवं व्याख्यानमनुचितम्, कर्मणोऽन्तर्भावस्यैवाक्षरमय्र्यादया लाभात् । नन्वेवमात्मानं जानातीत्यादौ ज्ञानरूपफलस्य तदनुकूलव्यापारस्य चैकत्र सत्वादकर्मकत्वापत्तिरत आह* आत्मानमित्यादि । एवं च शरीरात्मनः कर्मत्वमन्तरात्मनः कर्त्तृत्वमिति पृथक् बुद्धिसंसर्गोऽस्त्येवेत्याह-वस्तुत आत्मन एकत्वेऽपि अवच्छेदकभेदाद भेदकल्पनया फलव्यापारयोर्वैय्यधिकरण्यम् ॥ १३ ॥ असत्वभूता या भावना तस्या धातुवाच्यत्वमिति सिद्धान्ते शङ्कते — नन्वसत्वे - ति । क्रियान्तराकांक्षानुत्थापकतावच्छेदकधर्मविशिष्टेत्यर्थः । * द्रव्यवदिति । द्रव्येण नामार्थेन लिङ्गसंख्यान्वयिना तुल्यं प्रकाशते इत्यर्थः । आख्यातशब्दे - इत्यस्य आख्यातयोः शब्द इत्यर्थः । घटितत्वं षष्ठ्यर्थः । ' पश्य मृगो धावति' इति समुदायः Page #118 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । ८९ आख्यातशब्दे - पश्य मृगो धावतीत्यादौ । भागाभ्यां तिङन्ताभ्याम् । प्रकृतिप्रत्ययभागाभ्यामिति । विवरणकारोक्तमपव्याख्यानं पचतीत्यत्राऽपि भागद्वयसत्त्वात् । साध्यसाधनरूपता यथाक्रमं ग्राह्या । साध्यत्वम्-क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवत्त्वम् । साधनत्वं कारकत्वेनान्वयित्वम् । स घञादिष्वपीति । प्रकृत्या साध्यावस्था, प्रत्ययेन साधनावस्था । इयान् परं विशेषः । घञाद्युपस्थाप्या लिङ्गसंख्यान्वयिनी कारकान्वयिनीच आख्यातान्तोपात्ता तु नैवम् । तथापि कारकत्वेनान्वयित्वमात्रेण दृष्टान्तदाष्टन्तिकतेत्यवधेयम् । दर्पण: आख्याते शब्दौ यस्मिन्निति बहुव्रीहिणा वाक्यमन्यपदार्थ इत्याशयेनाह - *पश्येत्यादि* | *तिङन्ताभ्याम् - पश्यधावतिभ्याम् ॥ धावतेः साधनत्वेनः पश्यतेः साध्यत्वेन क्रियाबोधकत्वाद् दृष्टान्ततोपपत्तिरत एव 'वक्ष्यति इयान् परं विशेष' इति । *प्रकृत्यादीति* । व्याख्यानं विवरणस्थम् । आख्यातशब्द इति कर्मधारय इति तद्भावः । अपव्याख्याने हेतुमाह -* पचतीत्यत्रेति । तथाच तिङन्तरूढेन केवलाख्यातपदेनैव पचत्यादितिङन्तरूपार्थलाभे शब्दपदवयर्थ्यम् । मन्मते तु तस्य बहुव्रीहिलाभसम्पादकतयाऽऽख्यातशब्दपदस्य तिङन्तद्वयघटितवाक्य परतोपपत्तिः, पचत्यादेर्भागद्वयस्य साध्यसाधनवत्तित्वेऽपि क्रियायास्ततः साधनत्वेनाऽबोधाद् दृष्टान्तत्वासम्भवश्चेति भावः । तदेव विशदयति-साधनरूपतेति । प्रकृत्येत्यादौ पाक इत्यादाविति शेषः । नन्वनयोर्लिङ्गसंख्यान्वयित्वानन्वयित्वेन वैषम्यात् कथं दृष्टान्तदाष्टन्तिकभावोऽत आह-*इयान् परमिति । तथाच यत्किञ्चिद्धर्मवत्त्वेन सादृश्यविवक्षणान्नोक्तदोष इति भावः । ननु धावत्यर्थस्य कारकत्वेनाऽनन्वयित्वे कारकानन्वयित्वरूपमसत्त्वं तस्या भज्ये - तेति चेत् ? तत्र क्रियानाधारत्वविशेषणेन कर्तुर्व्यापाराधारत्वेन कर्मणः फलाधारत्वेन कर्तृत्वेन कर्मत्वेनान्वयेऽप्युक्तरूपस्यासत्त्वस्याऽक्षतत्वात् । उक्तञ्च क्रिया न युज्यते । लिङ्ग क्रिया नाssधारकारकैः । असत्त्वरूपता तस्याद्वयमेवाऽवधार्यताम् ॥ इति । क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकधर्मवत्त्वमसत्वभूतत्वमिति मते त्वत्र दोषः प्रागुक्त एव । साधनाकाङ्क्षोत्थापकतावच्छेदकधर्मवत्त्वरूपतया परिष्कृते तु न क्वापि परीक्षा समासार्थस्तज्जन्यबोधे धावतेः साधनत्वेन पश्यतेः साध्यत्वेन क्रियाबोधकत्वाद् दृष्टान्तता । तथा विधाने साध्यत्वेन क्रियाबोधकत्वे मानत्वादिति साध्यावस्थापन्नक्रियान्वयित्वे कारकविभक्तेः साधुत्वात् । यदि - साधुता तथाभिधानान्न स्यात्, तदा कारकत्वाभावात्तदधिकारीया विभक्तिर्न स्यात् । अकारकत्वात्षष्ठ्यभावापत्तौ परेणोक्तायां यथाकथञ्चित्कारकत्वे तथोपपादिते षष्ठी १२ दु० प० Page #119 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेनच घअन्ते धातुना तथाभिधाने मानाभावः । ओदनस्य पाक इति कर्मणि षष्ठया मानत्वात् । नच भवतीत्यध्याहृततिङन्तक्रियान्वयात् षष्ठी। "कर्तृकर्मणोः कृति” (पा० सू० २।३। ६५) इति कृदन्तेन योग एव तद्विधानात् । “न लोकाव्ययनिष्ठाखलर्थतनाम्" (पा० सू० २ । ३ । ६६) इति लादेशयोगे षष्ठीनिषेधाच्च । एवंरी दर्पणः दोषः इति । तथाभिधाने इति । उक्तसाध्यत्वेन रूपेण प्रतीतावित्यर्थः । ___ *ओदनस्येति । अत्रौदनपदं तण्डुलादिपरम् । अन्यथा विक्लिन्नस्यैवौदनपदार्थतया तस्य पाकासम्भवेन बाधितार्थकताऽऽपत्तः । *कर्मषष्ट्या इतिकर्मत्वेन कर्मशक्तायाः षष्टया एवेत्यर्थः। *मानत्वादिति। अनपपत्तिरूपप्रमाणत्वादित्यर्थः । घज न्तेन सिद्धभावस्यैवाऽभिधाने कारकाणां साध्यस्वभावक्रियाऽन्वयित्वनियमेनौदनस्याऽकारकतयाऽकर्मत्वेन तत्र षष्ठयनुपपत्तैरेव तस्य साध्यस्वभावक्रियार्थकत्वे मानत्वादिति भावः । *क्रियान्वयादिति । साध्यस्वभावाऽध्याहृतभवत्यर्थस्य परम्परयान्वयादित्यर्थः। नन्वोदनस्य कृदन्तार्थफलाश्रयत्त्वरूपकृदन्तयोगस्यापि सत्त्वेन कथं तदनुपपत्तिरतआह-*न लोकेति । इदं च समाधिसौकर्यादुक्तम् । प्रत्यासत्त्या यद्धात्वर्थफलाश्रयत्वं तद्धात्वर्थकारकस्यैव कर्मतालाभेन पाकपदार्थस्य क्रियात्वेन भवत्यर्थस्य क्रियात्वेऽपि तदर्थफलाश्रयत्वाभावेनौदने कर्मत्वस्यैव दुरुपपादत्वात् । ननु तत्र मा भूत् कृद्योगषष्ठी शेषषष्ठ्यैव तथा प्रयोगोपपत्तेरिति चेद् ? न । सर्वत्र सम्बन्धषष्ट्यैव प्रयोगोपपत्त्या "कर्तृकर्मणोः" इत्यादिविधिवैयर्थ्यापत्तेः । यदि च जगतः कर्तेत्यादौ कर्मत्वेन कर्मत्वप्रकारकसर्वसिद्धबोधोपपत्त्यर्थं समासस्थले "गतिकारकोपपदात्कृत्" ( पा० सू० ६।२।१३९) इत्यादिविहितस्वरनिर्वाहार्थे च तस्यावश्यकतेति विभाव्यते, तदा प्रकृते किं तत्प्रयोजनं पाणिपिहितमिति भावः । नन्वसत्त्वभूतक्रियाया भावप्रत्ययप्रकृत्यर्थत्वे काष्ठानां तन्निरूपितकरणत्वस्यापि सम्भवाद्भवत्यर्थाऽनध्याहारेऽपि, काष्ठैः पाक इत्याद्यपि प्रसज्ज्यतेत्याशङ्येष्टापत्त्या परिहरति-*एवं रीत्येति ॥ * अन्ये तु भावप्रत्ययस्थले सम्बन्धिभेदेनैकस्यैव पितृत्वभ्रातृत्ववद्धावत्यर्थस्य मृग. दर्शनसम्बन्धिभेदात् साधनवच्चैकस्या एवं क्रियाया वाचकप्रत्ययरूपसम्बन्धिभेदात् साध्यत्वसाधनत्वाभ्यामुपस्थितिर्न ताभ्यां भिन्नभिन्नक्रियोपस्थितिरित्याहुः। __ परीक्षा भविष्यतीत्यभिमानिनः शङ्कां वारयति-*नचेति । यथा-'कटे शेते' इत्यादौ कर्तद्वारकपरम्परतया क्रियायोगमाश्रित्य सप्तम्याः कारकविभक्तेः साधुत्वं भवति, तथा परम्परया भवति। क्रियान्वयात्कारकत्वं भविष्यतीत्यभिमानः । *तद्विधानादिति । प्रत्यासत्या कृदन्तार्थक्रियानिरूपितकर्तृत्वस्येव कारकत्वस्यापि तन्निरूपितस्यैवाश्रयणादिति भावः । प्रत्युत बाधकमप्यस्तीत्याह-*न लोकेति । ननु यदि कृदन्ते प्रकृत्या साध्यावस्थापन्नक्रिया प्रतिपाद्यते तदा तादृशक्रियानिरूपितकरणत्वस्य काष्ठेषु सत्वेन 'काष्ठः पाक' इत्यपि स्यादिति मीमांसकमन्यशङ्कामिष्टापत्या वार Page #120 -------------------------------------------------------------------------- ________________ धात्वर्थनिणयः । ९१ त्या 'काष्ठैः पाक' इत्याद्यपीष्टमेव । एवं फलांशोऽपि धातुना असत्त्वावस्थापन एवोच्यते । अत एव स्तोकं पचतीतिवत् स्तोकं पाक इत्युपपद्यते इति ॥ १४ ॥ एतदेव स्पष्टयति साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ॥ सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ १५ ॥ नच घञादिभिः सिद्धत्वेनाभिधाने मानाभावः पाक इत्युक्ते, भवति, जायते, नष्टो वेत्याद्याकाङ्क्षोत्थापनस्यैव मानत्वात् । धातूप दर्पणः *एवमिति*। यथौदनस्य पाक इत्यादावोदनस्य कर्मत्वाऽनुपपत्त्या सत्त्वभूतव्यापारो धातुवाच्यस्तथेत्यर्थः । तादृशफलस्यावाच्यत्वेऽनुपपत्तिं दर्शयति-अत एवेति । अन्यथा तादृशप्रयोगानुपपत्तिस्तादृशफलस्य वाच्यत्वे तु तस्य व्यपदेशिवद्भावेन स्वसम्बन्धितया कर्मत्वात्, तत्समानाधिकरणस्तोकादिशब्देभ्यो द्वितीयोपपत्तिः । तत्र स्तोकादिभ्यः “कर्त्तृकर्मणोः " इति षष्ठी तु न । कर्तृसाहचर्येण भेदान्वयिन एव कर्मणस्तत्र ग्रहणात् । अत एव “पूजनात्पूजितम्” इति सूत्रे भाष्ये दारुणं यथा भवति तथाssध्यापक इत्यर्थे दारुणाध्यापकसिद्ध्यर्थं मलोपवचनमारब्धं भाष्ये । अन्यथा “कर्तृकर्मणोः” इति विहितषष्ट्यन्तेन समासे तद्वैयथ्यं स्फुटमेवेत्यन्यत्र विस्तरः । अन्ये तु "ओजः सहोऽम्भसा वर्त्तत" इत्यधिकारे “तत्प्रत्यनुपूर्वमीपलोमकूलम्” ( पा० सू० ४।४।२८ ) इति सूत्रे द्वितीयान्तच्छब्दग्रहणं ज्ञापकम् । क्रियाविशेषणाद् द्वितीयेत्यस्यार्थस्य, न तु स्तोकाद्यर्थस्य कर्मत्वमपि । फलस्य फलाश्रयत्वाऽभावात् । एवञ्च न तद्वाचकेभ्यः षष्ठीप्रसक्तिरित्याहुः ॥ १४ ॥ परीक्षा यति - एवमिति । *एवम् — व्यापारवत् । *स्तोकं पाक इति । अत्र व्यवदेशिवद्भावेन साध्यावस्थफलाश्रयस्यैव कर्मत्वेन तत्समानाधिकरणात् स्तोकपदाद् द्वितीया । अत एव क्रियाविशेषणानां कर्मत्वमिति प्रवादः सङ्गच्छते । न च निर्मूलोऽयं प्रवादः इति भ्रमितव्यम् । "ओजः सहोऽम्भसा" इति सूत्राद्वर्त्तते इत्यनुवर्त्तमाने "तत्प्रत्यनुपूर्वमीप" इति सूत्रेण द्वितीयान्तात्प्रत्ययविधानं सङ्गच्छते । एवं च तस्मिन्नर्थे सकर्मका कर्म कसाधारण्येन ज्ञापकमस्तु ॥ १४॥ *तत्र* - पाकादिशब्दे । धातुरूपं - धातुस्वरूपम्, निबन्धनं प्रतिपादकं, यस्याः सा वाचकतासम्बन्धेनास्तीति शेषः । तस्याः क्रियायाः । *सिद्धभावः — सिद्धत्वं तद् घञादिप्रतिपाद्यमस्तीति शेषः । कारिका प्रतिपाद्यमस्तीति शेषः । कारिकाप्रतिपाद्यमर्थं शङ्कासमाधानाभ्यां द्रढ Page #121 -------------------------------------------------------------------------- ________________ ९२ दर्पणपरीक्षासहिते भूषणसारे - स्थाप्यायां तदसम्भवस्योक्तत्वात् । स्तोकः पाक इत्यनापत्तेश्च । तस्माद्धात्वर्थान्वये स्तोकादिशब्देभ्यो द्वितीया । घञर्थान्वये प्रथमा पुँल्लिङ्गता चेति - तत्सिद्धये घञादेः शक्तिरुपेया । एतेन घञादीनां प्रयोगसाधुतामात्रमिति नैयायि कनव्योक्तमपास्तम् । न च घञन्तशक्त्युपस्थाप्यान्वये स्तोकः पाक इति भवतीति दर्पणः *उक्तत्वादिति । क्रियान्तराकाङ्क्षाऽनुत्थापकतावच्छेदकरूपवत्त्वं साध्यत्वमित्यादिनेत्यर्थः । क्रियान्तराकाङ्क्षाऽनुत्थापकतावच्छेदकरूपेणोपस्थितेः क्रियान्वयास - म्भवादिति भावः । तेन रूपेणोपस्थितेः पश्य मृगो धावति' इत्यादौ व्यभिचरितत्वादाह - *स्तोकः पाक इति । घना सिद्धावस्थक्रियाया अबोधने धात्वर्थविशेषणवाचकस्तोकादिशब्दस्य लिङ्गसर्वनामनपुंसकत्वापत्तिरिति भावः । तदेव विशदयति-*तस्मादिति । एतेनेति । घजादीनां सिद्धावस्थाऽऽपन्नक्रियावाचकत्वव्यवस्थापनेनेत्यर्थः । *प्रयोगसाधुतामात्रमिति । मात्रपदेन वाचकत्वव्यवच्छेदः । *नैयायिकनव्योक्तमिति । धातूनां सुब्विभक्त्यप्रकृतित्वात्तदर्थे सुबर्थसंख्याकर्मत्वादीनामन्वयानुपपत्त्या धातोरिव घञन्तस्यापि क्रियावाचकत्त्वमभ्युपेयम् । प्रकृत्ये - कदेशार्थे तदन्वयाऽभ्युपगमे तु यत्र पाककर्त्रादेर्द्वित्वादिकं बाधितम्, पाकादेश्व तदबाधितं, तत्र पचन्तौ पश्यतीत्यादिप्रयोगापत्तेः । धातूपस्थाप्याऽर्थे सुबर्थान्वयबोधं प्रति तद्धातूत्तरधर्मिकयत्किञ्चिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वावगमे तु गौरवम् । एवञ्च यत्र धातुमात्रस्य पाकादौ तात्पर्य्यम्, तत्र तद्विशेषणतावाचकस्तोकपदाद् द्वितीयैव । यत्र तु कृदन्तसमुदायस्य तत्र तद्विशेषणवाचकपदं तत्समानविभक्तिकमेवेति कातन्त्र परीक्षा यति -- *नचेत्यादिना । *अनापत्तेरिति । यदि प्रत्ययेन सिद्धावस्थापन्नक्रियायाः अभिधानं न स्यात्तदा प्रकृतेऽपि धातुप्रतिपाद्यक्रियायामेवाभेदेन स्लोकपदार्थस्यान्वयः स्यात्, तदा द्वितीयैव स्यान्नतु प्रथमा । यदि प्रत्ययार्थोऽप्यस्ति तदा तस्यास्तिर्भवन्तिपर इति न्यायेन गम्यमानाऽस्तिक्रिया कर्तृतया ऽभिहितकारकत्वे - नाभिहिते प्रथमेति प्रथमा भवतीति भावः । सिद्धमर्थमुपसंहरति-तस्मादिति । *द्वितीयेति*। न च षष्ठी स्यादिति वाच्यम् ? कर्तृसाहचय्र्येण धात्वर्थे भेदेनान्वयिकवाचकादेव षष्ठीविधानात् । एतेन -उक्तरीत्या प्रकृतिप्रत्ययोरुभयोरपि वाचकताया आवश्यकत्वेन । कातन्त्रपरिशिष्टकृन्मतमनूद्य दूषयति — नचेत्यादिना * । एवं हि तैरुक्तं पार्क पश्येत्यादौघान्तानुपूर्व्याः शक्ततावच्छेदकत्वमावश्यकम् । अन्यथा तदुत्तरप्रत्ययार्थसंख्याकर्मत्वादेर्द्धात्विर्थेऽन्वयो न स्यात् – धातूनां प्रत्ययाप्रकृतित्वात् प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वनियमात् । न च प्रकृत्येकदेशार्थ एवान्वयोऽस्त्विति वाच्यम् ? यत्रैकेन कर्त्रा पाकद्वयं क्रियते, तत्र पाके द्वित्वस्याबोधेन पचन्तौ पश्यतीति प्रयोगापत्तेः । यदि तु धातूपस्थाप्यार्थे सुबर्थसंख्यान्वयबुद्धिं प्रति धातूत्तरप्रत्ययधर्मिककिञ्चिदर्थपरत्वज्ञानं प्रतिबन्धकमित्युच्यते, तदा गौरवमिति घञाद्यन्तसमुदायस्य Page #122 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। ९३ वाच्यम् । घअन्तानुपूाः शक्ततावच्छेदकत्वे गौरवादनुशासनाञ्च घनादेरेव तथा शक्तिकल्पनादिति दिक् । एवञ्च घनशक्त्यभिप्रायेण "कृदभिहित" इति भाष्यमतो न तद्विरोध इति भावः ॥ १५ ॥ ननु कारकाणां भावनान्वयनियम एव पाक इत्यत्रापि कर्मषष्ठयनुसारेण भावनाया वाच्यत्वं सिद्ध्येत् । तदेव कुत इत्याशङ्कां समाधत्ते सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः । धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ् ॥ १६॥ सम्बोधनान्तस्य क्रियायामन्वयः। 'त्वं ब्रूहि देवदत्त' इत्यादौ निघातानुरोधात् । 'सामानवाक्ये निघातयुष्मदस्मदादेशा” इत्य दर्पणः परिशिष्टकृन्मतं नव्यनैयायिकमतत्वेनानूद्य दूषयति-*नचेति ॥ *गौरवादिति ॥ ननु भावाख्यातवद्भावविहितघनादीनां धात्वर्थानुवादकत्वे स्थिते प्रागुक्तप्रयोगोपपत्तयेऽनायत्त्या घजन्तानुपूर्व्याः शक्ततावच्छेदकत्वस्वीकार आवश्यक इत्यत आह*अनुशासनादिति ॥ तथाच गुरुभूतानुपूर्व्याः शक्ततावच्छेदकत्वापेक्षयानुशासनानुगुण्यादुक्तप्रयोगोपपत्तये घञ्त्वस्यैव तत्त्वमुचितमिति भावः। ननु घनादीनां व्यापारावाचकत्वेऽपि क्रियाविशेषणत्वाद् द्वितीयेत्यत्र क्रियापदस्य पाकार्थकतया तथानुपस्थाप्यपरत्वात् 'स्तोकः पाक' इत्यादौ धातूपस्थाप्यपाकस्योक्तविशेषणवैकल्यान्न तद्विशेषणवाचकपदाद् द्वितीयापत्तिरत आह-दिगिति* ॥ तदर्थस्तु-स्यादेवं यदि क्रियाविशेषणाद् द्वितीयेति स्वतन्त्रमनुशासन स्यात् , किन्त्वस्मदुक्तफलितार्थकथनमेव तत्। तथात्वे वा त्वन्मते 'स्तोकं पाक' इत्यनापत्तेश्चेति॥१६॥ *क्रियायामिति ॥ प्रवर्त्तनाविषयक्रियायामित्यर्थः। तत्र तदनन्वये निघाताऽनुपपत्तिं प्रमाणयति-निधाताऽनुरोधादिति*। *समानवाक्य इति* । 'आख्यातं सविशेषणं वाक्यम्' इति समर्थसूत्रभाष्यात्साक्षात्परम्परया वा पदार्थान्तराऽन्वितक्रियाबोधकाख्यातस्यैकवाक्यतालाभेन सम्बोधनान्तार्थस्य क्रियायामनन्वये, 'त्वं ब्रूहि देवदत्त' परीक्षा शक्तिरूपेण । एवं च यत्र धातुमात्रस्य पाकप्रतिपादकताः तत्र तत्समानाधिकरणस्तोकपदादू द्वितीया । यत्र तु घजाद्यन्तसमुदायेन पाकादिः प्रतिपाद्यते, तत्र तत्समानाधिकरणपदात् प्रथमेति विवेक इति हि तेषां मतम् । ननु भावाख्यातवद्भावविहितघजादीनामपि धात्वर्थानुवादकत्वेन पूर्वोक्तव्यवस्थासिद्धये द्यजान्तानुपूर्व्याः शक्ततावच्छेदकत्वमगत्या स्वीकार्यमित्यत आह-*अनुशासनेति । तथा शक्तत्वं गुरुभूतानुपूर्व्याः शक्ततावच्छेदकत्वकल्पनापेक्षया घजादिनिष्ठधर्मस्य शक्ततावच्छेदकत्वे लाघवमिति भावः । उक्तार्थे भाष्यमपि साधकमित्याह-*एवमिति ॥ १५॥ तटस्थः शते-*नन्विति ।* *क्रियायाम्*-प्रवर्तनाविषयक्रियायाम् । *समान Page #123 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेनेन समानवाक्ये एव तन्नियमात् । उक्तं च वाक्यपदीये सम्बोधनपदं यच्च तत् क्रियायां विशेषणम् । • व्रजानि देवदत्तेति निघातोऽत्र तथा सति ॥ इति ॥ 'पचतिभवति देवदत्त' इत्यादौ तु सूत्रभाष्यादिरीत्यैकवाक्यता. दर्पणः इत्यादौ तदभावात् समानवाक्य इति "प्रकृत्यामन्त्रितस्य” इति विहितस्य निघातस्यानुपपत्तेरित्याखण्डलार्थः । तत्र 'शालीनां ते ओदनं दास्यामि' इत्यादौ शालीनामित्यादेः समानवाक्यत्वसिद्धये-परम्परयेति। पचतिभवतीत्यादिसाधारणं चैतत्। प्रकृते च सम्बोधनस्यानुवाद्यविषयतयाऽनुवाद्यस्य विधेयसाकाङ्क्षतया विधेयतायाश्च क्रियानिष्टत्वेन तत्रैव सम्बोधनान्तार्थान्वयौचित्यात् समानवाक्यस्थत्वमक्षतमिति भावः । बोधस्त्वत्राभिमुखीभवनानुकूलव्यापारविषयदेवदत्तोद्देश्यकप्रवर्त्तनाविषयत्वदभिन्नकर्तृके भाषणमिति । तत्र हरिसम्मतिमाह-*उक्तञ्चेति ॥ ___*सम्बोधनपदमिति ॥ तद्बोध्यमित्यर्थः ॥ विशेषणमिति ॥ स्वोदेश्यकप्रवर्त्तनाविषयत्वरूपपरम्परासम्बन्धेनेत्यर्थः । बजानीत्यस्य हि जानीहीति शेषः । सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः। प्राप्ताऽऽभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते ॥ इति कारिकान्तरे विनियुज्यत इति वदता प्रवर्तनाविषयक्रियायामेव तदन्वयबोधनात् । प्रवर्त्तनोद्देश्यस्यैव तद्विषयक्रियोद्देश्यत्वादुद्देश्यविधेयभावस्य तयोः संसर्गमर्यादया लाभादेकवाक्यतया निघात इति तदर्थः । शाब्दबोधस्त्वत्र सम्बोधनविषयदेवदत्तोद्देश्यकप्रवर्त्तनाविषयो मत्कर्तृकवजनकर्मकं ज्ञानमिति । *सूत्रभाष्या परीक्षा वाक्ये*-निमित्तनिमित्तिनोरेकवाक्यघटकत्वे । *तद्विधानात्*-निघातविधानात् । वाक्यं च-"सविशेषणाख्यातं सविशेषणं वाक्यम्" इति समर्थसूत्रस्थभाष्यात् साक्षात् परम्परया वा किञ्चिन्निष्ठप्रकारतानिरूपितक्रियानिष्ठविशेष्यताशाली समुदायो वाक्यमिति तदर्थः । एवं च सम्बोधनान्तार्थस्य क्रियायामन्वय एवोक्तसमानवाक्यत्वस्योपपत्तिरिति भावः। त्वं ब्रूहि' इत्यस्माद्बोधस्तु-अभिमुखीभवनानुकूलव्यापारविषयकदेवदत्तोद्देश्यकप्रवर्त्तनाविषयत्वभिन्नकर्तृकं भाषणमिति द्रष्टव्यः । उक्तार्थे हरिसम्मतिमाह-*उक्तं हीत्यादिना । विशेषणमिति । स्वार्थोद्देश्यकप्रवर्त्तनाविषयत्वसम्बन्धेनेत्यादिः । *वजानीति । जानीहीति शेषः(१)। प्रवर्त्तनाया य उद्देश्यः स एव प्रवर्त्तनाविषयक्रियोद्देश्य इत्युच्यते । एवं चोदूदेश्यता सिद्धस्यैवेति सम्बोध्यतावच्छेदकधर्मावच्छिन्नस्य सिद्धत्व एव सम्बोधनविभक्तिरिति सिद्धम् । 'बजानि देवदत्त जानीहिः इत्यस्मात्सम्बोधनविषयदेवदत्तविशिष्टं प्रवर्त्तनाविषयो मत्कर्त्तक-सज्ञानमिति बोधः। उक्तं वाक्यलक्षणं पचतिभवतीत्यादिसाधारणमित्याह-*पचतीति । *सूत्रभा (१) तेन ज्ञानक्रियायां देवदत्तस्योद्देश्यतया ब्रजनस्य कर्मतयाऽन्वयेन समानवाक्यत्वं शेयम्। Page #124 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। ९५ सत्वात् स्यादेव निघातः । "तिङङतिङ" (पा० सू० ७१) इति सूत्रयता तिङन्तानामप्येकवाक्यतास्वीकारात् । एकतिङ् वाक्यं - दर्पणः दिरीत्येति ॥ भूवादिसमर्थसूत्रस्थभाष्योक्तरीत्येत्यर्थः ॥ ___ *स्यादेवेति ॥ आमन्त्रितदेवदत्तपदस्येत्यर्थः । अत्र जानीहीति पदाध्याहारेणोक्तरीत्या देवदत्तपदस्यैकवाक्यस्थत्वाऽक्षतेरिति भावः। तत्र सूत्रकारसम्मतिमाहतिङतिङ इतीति* ॥ तिङन्तानामिति बहुवचनेन प्रकृते जानातिपदाऽध्याहारः सूच्यते । अन्यथा तत्र निघाताऽप्राप्त्या तत्पर्युदासबोधकतिग्रहणस्य वैयर्थ्यांपत्तेरिति भावः। सम्मतिरिय सूत्रकृत एकवाक्यतांशे निघातांशे च । भाष्यसम्मतिस्तु न, तेनातिग्रहणस्य प्रत्याख्यानात् । ___ नन्वेवं कथमतिग्रहणप्रत्याख्यानसङ्गतिः। पचतिभवतीत्यत्र निघातवारकतया तस्यावश्यकत्वादिति चेद् ? न । तत्र कारकान्वितक्रियाबोधकत्वरूपैकवाक्यत्वस्य सुपचयसुप्तिङ्न्तचयसाधारणस्य सत्त्वेऽपि वार्तिककारपरिभाषितश्रूयमाणैकतिङ्त्वरूपैकवाक्यत्वस्य तत्रासत्त्वादित्याशयात्। तथाचोक्तस्थले तादृशैकवाक्यत्वाऽभावान्निघाताऽप्रसक्तिरेवैतत्सूचनायैव स्यादेव निघात इति सम्भावनाद्योतकलिङ उपादा परीक्षा ष्येति । भूवादिसूत्रसमर्थसूत्रभाष्यरीत्येत्यर्थः। इदमुपलक्षणम् । ___ "सुतिङन्तचयो वाक्यं क्रिया वा कारकान्विता" इति कोशरीत्यापि बोध्यम् । *निघात इति । आमन्त्रितनिघात इत्यर्थः । किञ्च पाणिनीयसूत्रमपि मानमित्याह*तिङङतिङ इति*। *स्वीकारादिति । तिङन्तात्परस्य तिइन्तस्य निघातवारणायातिङ् इति पर्युदासः कृतः । स च तिङन्तद्वयघटितस्यैकवाक्यत्व एव सार्थको भवतीति भावः । तत्रातिङ्ग्रहणप्रत्याख्यातृवार्तिकरीत्या न भवति निघात इत्याह*एकतिङिति । एकम्-अद्वितीयम् तिङ्-तिङन्तम्, यत्रतद्वाक्यमित्यर्थः । इदं यथाश्रुतरीत्या प्रत्याख्यानं यदि सूत्रानुरोधेनैकतिङन्तार्थविशेष्यकबोधजनकत्वमित्यर्थः क्रियते तदाऽतिङ्ग्रहणमावश्यकमेव । अत एव हेलाराजेन बहुष्वपि तिङन्तेषु साका क्षेष्वेकवाक्यता तिङन्तेभ्यो निघातप्रतिषेध' इत्यभिहितम् । ___ एवं च 'सुप तिङन्तचयोवाक्यं क्रिया वा कारिकान्विता' इति यल्लौकिकवाक्यत्वं तदेव निघातनियामकमिति सिद्धम् । अत्र वाशब्दश्चेदर्थे सुप् च तिङ् च सुप्तिकावन्तौ यस्य तत्सुतिङन्तम् , सुविशिष्टं तिङन्तं सुप्तिङन्तम् । सुप्तिङन्तं च सुप्तिङन्तञ्च सुप्तिङन्ते तयोः समुच्चय इत्यर्थः । इदमेकवाक्यत्वम् । जैमिनिसम्मतमपि, "अर्थक्यादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात्" इति तत्सूत्रात् । अर्थक्यादित्यस्य विशेष्यभूतभावनैक्यादित्यर्थः । एतावानेव विशेषस्तस्य मते-भावना प्रत्ययवाच्या, अस्मन्मते तु धातुवाच्येति । ___ यत्तु-अर्थक्यादित्यस्य तात्पर्य्यविषयस्यार्थस्यैकत्वादित्यर्थ इतिः तन्न। "स्योनन्ते सदनं कृणोमि घृतस्य धारया सुषेवं कल्पयामि" इत्यस्य सदनप्रतिपादकवाक्यसमुदायस्य तस्मिन् सौदामृते प्रतितिष्ठेति सदनप्रकाशकस्य च यागाङ्गनिरूपणत्वेन तात्प Page #125 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेइति वदतां वार्तिककाराणां मते परं न । वस्तुत एकतिड्विशेष्यकं वाक्यमिति तदभिप्रायस्य हेलाराजीयादौ वैयाकरणभूषणेऽस्माभिश्च प्रतिपादितत्वात्तन्मतेऽपि भवत्येवेत्यवधेयम् ॥ *कृत्वोऽ र्थाः* ॥ “क्रियाभ्यावृत्तिगणने कृत्वसुच्” (पा० सू० ५।४।१७) इति क्रियायोगे तत्साधुत्वोक्तः। क्रियाया अभ्यावृत्तिः-पुनःपुनर्जन्म, तस्मिन् द्योत्ये इति तदर्थात् । ___ *कारकम् ॥ "कारके" इत्यधिकृत्य तेषां व्युत्पादनात् । कारकशब्दो हि क्रियापरः करोति कर्तृकांदिव्यपदेशानिति व्युत्पत्तेः । तथाचाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियाऽर्थककारकशब्दानुवृत्त्या क्रियान्वयिनामेव संक्षेति भाष्ये स्पष्टम् । - दर्पणः नम् । तदेतदाविष्करोति-वार्तिककाराणामिति ॥ यथाश्रुतसूत्रमनुरुद्धयाह-श्वस्तुतस्त्विति ॥ *हेलाराजीयेति ॥ बहष्वपि तिङन्तेषु साकाष्वेकवाक्यता। तिङन्तेभ्यो निघातस्य प्रतिषेधस्तथाऽर्थवान् ॥ ___ इति वाक्यपदीयव्याख्याऽवसर इति शेषः॥ *तन्मतेऽपि भवत्येवेति* ॥ इदञ्च निरुक्तलौकिकवाक्यत्वस्यैव निघातप्रयोजकत्वमित्याशयमूलकमित्यवधेयम् ॥ *पुनः पुनर्जन्मेति* ॥ अत एव सकृत्प्रवृत्तौ, द्विः पचतीति न । 'पञ्च कृत्वो भुङ्क्ते' इत्यादौ पञ्चादिशब्दाः संख्योत्पत्तिपराः । तस्या एव कृत्वसुजादिर्घोतकः । सूत्रस्वारस्याच्च तयोत्यार्थस्य क्रियायामन्वय इति भावः । क्रियान्वयिनामेव संज्ञेत्यपादानादिमध्यम् । क्वचित्तथैव पाठः ॥ ___ *स्पष्टमिति ॥ अन्ये तु-उत्तरभाष्ये करोति क्रियां निर्वर्त्तयतीति व्युत्पत्तिप्रदर्शनात्कारकत्वम् । अत एव ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ ब्राह्मणस्य न कारकत्वम् । पुत्रेणाऽन्यथासिद्धत्वात् । अत एव तेषां क्रियायामन्वयः। क्रियाजनकमिति ज्ञाते का सा क्रियेत्याकाङ्क्षोदयेन क्रियाया अपि जनकाकाङ्क्षया च तत्रैवान्वय परीक्षा य॑विषयैक्यादेकवाक्यत्वापत्तेः। यत्र तु वाक्ययोर्वाक्यानां वा आकाङ्क्षाः तत्र वाक्यैकवाक्यतेति व्यवहारः। यथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' 'समिधो यजतिइत्यनयोः । एतच्च वाक्यं द्विधा-वैदिकं, लौकिकं च । वैदिकम्-'सत्यं ज्ञानम. नन्तं ब्रह्म' इत्यादिकम् । लौकिकन्तु-काव्याकाव्यात्मकत्वेन द्विविधमिति बोध्यम् । *पुनःपुनर्जन्मेति । अत एव सकृत्पाकाय यत्र प्रवृत्तिस्तत्र द्विः पचतीत्यादिन भवति । एवं च यत्र पञ्चकृत्वो भुङ्क्ते-इत्यादिप्रयोगस्तत्र पञ्चादिशब्दाः क्रियोत्पत्तिपरा इत्यर्थे कृत्वसुजादिस्तात्पर्य्यग्राहक इति तेषां द्योतकत्वव्यवहारः । _____ *व्युत्पत्तेरिति । एवं च कारकशब्दः क्रियायां योगरूढः । *अनुवृत्येति । अन्वेतीत्यस्याध्याहारः । “वस्तुतस्तु करोति क्रियां जनयतीति भाष्यकारीयव्यु Page #126 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । ९७ *प्रथमो वतिः* ॥ “तेन तुल्यं क्रिया चेद्वतिः " (पा०सू० ५।१।१५) इति विहितः । तत्र यत्तुल्यं सा क्रिया चेदित्युक्तत्वात् ॥ धातुसम्बन्धाधिकारे - "धातुसम्बन्धे प्रत्ययाः" (पा० सू० ३।४।१) इत्यधिकृत्य तेषां विधानात् । *असमस्तनञ्*॥ समासायोग्यः प्रसज्ज्यप्रतिषेधीयो नञि - दर्पणः स्यौचित्यात् । अत एव “गतिकारकोपपदा कृत्" (पा०सू० ६।२।३९१) इत्यादौ कारकशब्दस्यापादानादिपरता सङ्गच्छते । " कारके" इति तु प्रथमार्थे सप्तमीत्याहुः ॥ *इत्युक्तत्वादिति* ॥ तथाच ब्राह्मणवदिति वृत्तौ ब्राह्मणशब्दस्य ब्राह्मणकर्त्तका - ध्ययनपरतया तत्तौल्यवत्यर्थसमभिव्याहृताध्ययनक्रियायां ब्राह्मणकर्तृकाध्ययनतुल्यमेककर्तृकमध्यययनमिति ब्राह्मणवदधीत इत्यतो बोधः । “तत्र तस्येव" इति विहितवर्द्रव्यगुणान्वयित्वान्मूले प्रथम इत्युक्तम् ॥ *विधानादिति ॥ तत्र धातुशब्दस्य धात्वर्थपरताया ' वसन् ददर्श' इत्यत्राऽतीतवासकर्त्तृकर्तृकं दर्शनमित्यादिरीत्या बोधादिति भावः ॥ *प्रसज्ज्येति* । प्रतिषेधशब्दः कर्मघञन्तो बाहुलकात् । प्रसज्ज्याऽऽपाद्य प्रतिषेधः-प्रतिषेधविषयः प्रतियोगी यस्य तादृशाऽभावोऽर्थो यस्येति व्युत्पत्त्याऽभावार्थक परीक्षा त्पत्तिप्रदर्शनपरग्रन्थात्कारकत्वं क्रियाजनकत्वमेव । अत एव कारकाणां क्रियान्वयित्वमिति वाक्यस्य नावबोधकता । अत एव च "अकथितं च" इति सूत्रे कारकपदस्य 'ब्राह्मणस्य पुत्रं पन्थानं पृच्छति' इत्यत्र ब्राह्मणशब्दस्य कर्मसञ्ज्ञाऽभावः प्रयोजनं ब्राह्मणस्यान्यथासिद्ध्या क्रियाजनकत्वाभावादित्युक्तिसङ्गतिः । यदि ' क्रियान्वयित्वं कारकत्वम्' इतिः तदाऽन्यथासिद्धिप्रदर्शनविरोधः स्पष्ट एव । ननु यदि 'क्रियाजनकत्वमेव कारकत्वम्' चेत् कारकस्य क्रियायामेवान्वय इति नियमः कथमिति चेदित्थम् - --क्रियाजनकमिति ज्ञाने का सा क्रिया; यस्या इदं जनकं क्रियायां ज्ञातायामस्याः किं जनकमिति रीत्या परस्या का इक्षादर्शनेन क्रियायां तदन्वयस्यौचित्यमिति । *इत्युक्तत्वादिति । एवं च 'पितृवदधीते पुत्र' इत्यादौ पित्रादिशब्दानां पितृकर्त्तकाध्ययनलाक्षणिकानां प्रकृतित्वेन तदर्थपितृकर्तृकाध्ययनस्य वेत्यर्थसादृश्येऽऽन्वयस्तवधीत इत्यत्र य-इङ धातुस्तदर्थ इति पितृकर्तृकाध्ययनतुल्यं पुत्रकर्तृकमध्ययनमिति बोधः । प्रथम इत्युपलक्षणं " तदर्हम्” इति सूत्रविहितवत्यर्थ सादृश्यस्यापि क्रियायामेवान्वयात् । *विधानादिति । तत्रत्यधातुपदस्य धात्वर्थपरतया धात्वर्थयोः सम्बन्धे - एककालिकत्वादिरूपे - विवक्षिते प्रत्ययानां विधानादित्यर्थः । एवं च प्राधान्येन या क्रिया प्रतीयते तस्या यत्- कालिकत्वं तस्मिन् काले गुणीभूतक्रियावाचिभ्यः प्रत्ययविधानाद् ' वसन् ददर्श' इत्यत्र दर्शनरूपक्रियायाः प्राधान्यात्तदनुरोधेनाप्रधानवासक्रियावाचकाद्वस्धातो ते लट् प्रत्ययः । अतीतवासकर्तृ कतृकं भूतानद्यतनपरोक्षमेककर्तृकमतीतं दर्शनमिति बोधः । * प्रसज्यप्रतिषेधीय इति* । प्रतिषेधशब्दे कर्म्मणि घञ् । प्रसज्य -- आपाद्य प्रतिषेधः - प्रतिषेधविषयो यस्य वाचकः स इति व्युत्पत्या अत्यन्ताभावार्थक इति फलितम् । प्रतियोग्यारोपस्याभावज्ञाने कारण१३ ५० प० Page #127 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेत्यर्थः । उत्तरपदाऽर्थान्वयेऽपि समासविकल्पेन पक्षेऽसमस्तत्वाद् यथाश्रुतग्रहणाऽयोगात् । नचासमस्तनञः क्रियान्वये मानाभावः । न त्वं पचसि, न युवां पचथः, चैत्रो न पचति, घटो न जायते, इत्यादौ क्रियाया एव निषेधप्रतीतेः। ___ अत एव विद्यमानेऽपि घटे तादृशप्रयोगः। तथाच-घटो नास्ती दर्पणः इत्यर्थः ॥ *यथाश्रुतेति ॥ न ब्राह्मणमानयेत्यादौ नजरोपस्य ब्राह्मणादावन्वयेन व्यभिचारापत्तेरिति भावः। निषेधप्रतीतेरिति* ॥ अत्यन्ताऽभावप्रतीतेरित्यर्थः । तथाच तादृशप्रतीतिरेवोक्तनअर्थस्य क्रियान्वयित्वे मानमिति भावः । ___ तस्य प्रतियोगितया युष्मदाद्यर्थाऽन्वयित्वे तु युष्मदादौ लकारवाच्यकर्त्तवाचकत्वरूपसामानाधिकरण्याभावान्मध्यमपुरुषाद्यनुपपत्तियुष्मदर्थप्रतियोगिकाभावस्यैकत्वेन द्विवचनाद्यनुपपत्तिश्चेति सूचयितुं, न त्वं पचसि, न युवां पचथ इत्युक्तम् । एवं चैत्रप्रतियोगिकाभावकर्तृत्वोपगमे पाके तत्कर्तृकत्वबाधः, पाकानुकूलकृत्यभावार्थकत्वे त्वन्मते पुरुषव्यवस्थापकाभावेन कदाचिन्मध्यमोत्तमयोरापत्तिश्चेति बोधयितुं चैत्रो न पचतीत्युक्तम् । अत एवेति । नञः क्रियाप्रतियोगिकाभावबोधकत्वादेवेत्यर्थः॥ ____ *तादृशप्रयोग इति । घटो न जायते इत्याकारक इत्यर्थः । घटस्य विद्यमानतादशायां घटकर्तृकोत्पत्त्यनुकूलव्यापाराभावाऽबाधात् त्वन्मते तु घटाऽभावे उत्पत्यनुकूलव्यापारकर्तृत्वाऽभावादुक्तप्रयोगानुपपत्तिरिति भावः । उक्तरीत्या नजः क्रियाप्रतियोगिकाऽभावबोधकत्वध्रौव्ये, घटो नास्तीत्यत्र घटाऽभावकर्त्तकत्वस्य धात्वर्थे अबाधेऽपि तद्बोधमनादृत्य घटास्तित्वाभावबोधाभ्युपगम उचितो वक्ष्यमाणकार्य परीक्षा तायाः प्राचीननैयायिकसम्मतत्वात् । *असमस्तेति । यथा श्रुतमसङ्गतं समासस्य वैकल्पिकत्वेन समासाभावेन ब्राह्मण इत्यत्र ब्राह्मणपदार्थ एवान्वयदर्शनेन व्यभिचारप्रसङ्गादित्याह--*उत्तरपदार्थेति । उत्तरपदार्थत्वेनाभिप्रेतेत्यर्थः। ____ असमस्तनञः--क्रियायामेवान्वय इत्येतत्साधयति-*न चेत्यादिना*। *न त्वं पचसीत्यादि । यदि नजर्थस्य विशेष्यतया युष्मदर्थेऽन्वयः स्यात्तदा सम्बोध्याभावस्य कर्तृत्वापत्तौ युष्मत्सामानाधिकरण्याभावेन पुरुषव्यवस्था न स्यात् , तथाऽभावस्यैकत्वेनैकवचनमेव स्यात्, न तु द्विवचनादिरपीति भावः। *अत एव*-प्रसज्यप्रतिषेधीयननः क्रियान्वयनियमादेव । *तथा प्रयोगः*--घटो न जायते इति प्रयोगः । यदि नञः क्रियायामन्वयस्तदा घटकर्त्तकोत्पत्यनुकूलव्यापारस्य सत्वेन तादृशप्रयोगस्योपपत्तिर्भवति। यदि तु नजथे घटस्य प्रतियोगितयाऽन्वयः, तदा घटाभावकर्तृकोत्पत्यनुकूलव्यापारस्य प्रतीतिर्वाच्या, तथाच बाध इति भावः। नचैवमपि लडर्थवर्तमानत्वस्य धात्वर्थ एवान्वयो वाच्यः। तथाच घटकर्तृकवर्तमानोत्पत्यनुकूलव्यापाराभावबोधो वाच्यः। स च न सम्भवतिः वर्तमानस्य तादृशप्रतियोगिनोऽप्रसिद्धेरिति वाच्यम् ? बौद्धस्य प्रतियोगिनः प्रसिद्धः। एवमेव वायौ रूपं नास्तीत्यादौ बौद्धस्य वाय्वधिकरणरूपकर्तृकसत्ताश्रयत्वस्य प्रतियोगिनः प्रसिद्धिर्द्रष्टव्या । *तथाच*-प्रस Page #128 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । ९९ त्यत्राप्यस्तित्वाभाव एव बोध्यते । न हि घटो न जायते, नास्तीत्यनयोर्धात्वर्थभेदमन्तरेणास्ति विशेषः । तथाच - 'भूतले न घट' इत्यत्राप्यस्तीत्यध्याहार्य्यम् । प्रकारतासम्बन्धेन नञर्थविशेष्यकबोधे, धातु दर्पणः 1 कारणभावबलादित्याह तथाच घट इति । तदेवोपपादयति- न हीत्यादिना । ननु यत्र न क्रियावाचकसमभिव्याहारो भूतले न घट इत्यादौ, तत्र नजा कथं क्रियाप्रतियोगि काsभावो बोधनीयोऽत आह--तथाचेति । *अध्याहार्य्यमिति । 'अस्तिर्भवन्तीपर' इत्यादिभाष्ये क्रियान्तराभावेऽप्यस्तिक्रियामादाय वाक्यपरिपूतिबोधनादिति भावः । *प्रकारतासम्बन्धेनेति । नञर्थाऽभावनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन शाब्दबुद्धित्वाऽवच्छिन्नं प्रति विशेष्यतासम्बन्धेन धातुजन्योपस्थितेर्हेतुत्वस्य 'न त्वं पचसि' इत्याद्यनुरोधेन क्लृप्तत्वादत्राऽपि तद्बोधोपपत्तयेऽस्त्यध्याहार आवश्यक इति भावः । ननु 'त्वं पचसि' इत्यादाविवाऽत्राऽपि नञः पर्युदासद्योतकत्वाऽभ्युपगमाद् युष्मलक्ष्यार्थ - त्वद्भिन्ने सामानाधिकरण्याऽबाधान्न पुरुषव्यवस्थाऽनुपपत्तिः । संख्यायास्तत्राबाधान्न द्विवचनानुपपत्तिरपीति । तादृशकार्य्यकारणभावस्यैवाऽप्रामाणिकतया कथं तदनुरोधोऽस्त्यध्याहारनियामकः । घटो न जायते इत्यादौ प्रसज्ज्यप्रतिषेधाऽर्थंकनञ्स्थले तु यथा नानुपपत्तिस्तथा वक्ष्यते । तथाच भूतले घटो नेत्यादौ । भूतलवृत्तिपरीक्षा ज्यप्रतिषेधार्थं कनजः क्रियान्वयनियमे च । अध्याहार्य्यमिति । यत्र क्रियावाचिपदं न श्रूयते; तत्र नञर्थान्वययोगिक्रियावाचकं पदमध्याहार्य्यमित्यर्थः । तत्राध्याहृतपदप्रतिपाद्यक्रियाया अनुयोगितासम्बन्धेन नज्जर्थाभावेऽन्वयः । यत्तु 'भूतले न घट' इति वाक्यस्य भूतलाधेयत्वाभाववान् घट इत्यर्थ इति, तन्न । कारकाणां क्रिययैवान्वयेन क्रियातिरिक्तेऽन्वयाभावात् । अत एव "सुडनपुंसकस्य" इति सूत्रे नपुंसकस्य न इत्यर्थे न हि नपुंसकेन सामर्थ्यम् ; केन तर्हि भवति, नेति भाष्यं सङ्गच्छते । नञर्थात्यन्ताभावस्य क्रियान्वयनियमस्य सिद्धौ यादृशः कार्य्यकारणभावः सिद्धस्तमाह-- * प्रकारतासम्बन्धेनेति । अत्र प्रकारता कार्य्यतावच्छेदकसम्बन्धो, विशेष्यता च कारणतावच्छेदकसम्बन्धः । प्रकारता चेह नजर्थाभावनिष्ठविशेष्यतानिरूपिता ग्राह्या । ननु 'भूतले न घटः' इत्यत्रास्तीत्यस्याध्याहाराभावेऽपि न क्षतिः । भूतलवृत्तित्वाभाववान् घट इति बोधाङ्गीकारात् । नचैवं सति, अहं नास्मि; घटो नास्तीत्यादौ पुरुषव्यवस्थाया घटा न सन्ति घटौ न स्तः, इत्यादौ वचनव्यवस्थायाश्च कथमुपपत्तिरिति वाच्यम् ? एतादृशे स्थले नञः पर्युदासद्योतकत्वस्याङ्गीकारादस्मच्छब्दस्यास्माद्भिन्ने लक्षणायाः स्वीकारेणास्मदर्थे नजन्तस्य सामानाधिकरण्यस्य त्वं पचसीत्यत्र युष्मत्सामानाधिकरण्यस्य च सत्वात्पुरुषव्यवस्थाया उपपत्तेः । एवं घटो न स्तो, घटा न सन्तीत्यादौ वचनानुपपत्तिरपि न । द्वित्वबहुत्वावच्छिन्ने-आख्यातार्थाश्रयत्वाभावाङ्गीकारात् । एवं घटो न जायते, इत्यस्मादाख्यातलक्ष्यार्थाश्रयत्वाभावबोध एवास्तु । एवं वायौ रूपं नास्तीत्यादौ रूपविशेष्यकवा Page #129 -------------------------------------------------------------------------- ________________ १०० दर्पणपरीक्षासहिते भूषणसारेजन्यभावनोपस्थितेहेतुत्वस्य क्लृप्तत्वात् । शेषं नअर्थनिर्णये वक्ष्यते१६ तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् ॥ साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ॥१७॥ “यस्य च भावेन भावलक्षणम्" (पा० सू० २।३।३७) इत्यत्र भावनार्थकभावशब्देन तद्योगे साधुत्वाख्यानलाभात् “षष्ठी चानादरे" (पा० सू० २।३।३८) इति तदग्रिमसूत्रेऽपि चकाराद्यस्य च भावेनेत्यायातीत्यर्थः ॥ *साधुत्वमिति* ॥ तत्स्वरूपं तु वक्ष्यते ॥ दर्पणः घटाऽभाव इति बोधे बाधकाभावोऽत आह-*शेषमिति । तथाच यदा युष्मदर्थभिन्नकर्त्तको न पाकस्तदा 'न त्वं पचसि' इति प्रयोगाऽनापत्तिः पर्युदासद्योतकतावादिमते, अतस्तत्र प्रसज्ज्यप्रतिषेधार्थकत्वमेवाऽङ्गीकरणीयमित्युक्तयुक्त्या कार्यकारणभावस्यावश्यकतेत्यादिशेषपदार्थः । नैयायिकमतमपि तत्रैव व्यक्तीभविष्यति ॥१६॥ *साधुत्वाऽऽख्यानलाभादिति । अयम्भावः-“यस्य च भावेन भावलक्षणम्" । (पासू० २।३।३७) इति सूत्रेण क्रियाज्ञापकक्रियाश्रयवाचकपदात् सप्तमी विधीयते । भावलक्षणमित्युपादानाऽज्ज्ञापकत्वरूपसप्तम्यर्थस्य क्रियायायामेवाऽन्वयः । अत एव 'गोषु दुह्यमानासु गत' इत्यादौ दोहनक्रियाऽऽधारकालेन गमनपरिच्छेदकत्वं बुध्यते इति ___ *आयातोति* । समस्तसूत्रमेव तत्रानुवर्तत इत्यर्थः। तथाचाऽनादरे गम्यमाने यनिष्ठक्रियायाः क्रियान्तरज्ञापकत्वं तद्वाचकतेति तदर्थात् तदविहितयोरपि तयोः क्रियायोग एव साधुत्वं लभ्यत इत्यर्थः । ननूक्तानां क्रियान्वयाभावेऽपि शक्तत्वरूपसाधुत्वं सुलभमत आह-*तत्स्वरूपमिति* । साधुत्वस्वरूपमित्यर्थः । *वक्ष्यत इति । _परीक्षा युवृत्तित्वाभावबोध एवास्तु । तथा सति प्रतियोग्यप्रसिद्धिरपि न भविष्यतीत्युक्तका र्यकारणभावो न स्वीकार्य इति नैयायिकमतानुसारिणः । __ शङ्काया निरासायाह-*शेषमिति* । यदा कोऽपि पुरुषः पाकं न करोति तस्मिन्कालेऽपि न त्वं पचसीति प्रयोग इष्यते, तदनुपपत्तिः । युष्मद्भिन्नकर्तृकपाकाभावात् । न च देशान्तरे युष्मदिन्नः कर्ताऽस्त्येवेति वाच्यम् ? इदानीमिह 'न त्वं पचसि' 'नाहमिह पचामि' इत्यत्र चानुपपत्तेस्तादवस्थ्यात् । एवं सामान्यादिषु समवायेन सत्ता नास्तीत्यादौ न प्रतियोगिप्रसिद्धिः। तन्मते समवायसम्बन्धावच्छिन्नसामान्यादिवृत्तित्वस्याप्रसिद्धः। सामान्यादिवृत्तित्वस्य समवायसम्बन्धावच्छिन्नप्रतियोगिताकाभावबोधस्तु वक्तुमशक्यः, तादृशाभावस्य व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकतया तादृशाभावतात्पर्यण पृथिव्यादिषु सत्ता नास्तीति प्रयोगापत्तेरिति ॥१६॥ . *उदितं द्वयमिति*--विहितं द्वयम् , षष्टीसप्तमीद्वयम् । “यस्य च भावेन भावलक्षणम्" इति सूत्रेण 'गोषु दुह्यमानासु गत' इत्यत्र लक्षकक्रियाश्रयवाचकात्सप्तम्याः षष्ठी चानादरे" इत्युत्तरसूत्रेण लक्षकक्रियाश्रयवाचकात् षष्ठीसप्तम्योर्विधानात् क्रियायोग एव तयोः साधुत्वमिति भावः । *वक्ष्यत इति । साधुत्वनिरूपणावसरे इति शेषः। ननु क्रियाशब्दस्य धात्वर्थ Page #130 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । १०१ *क्रिययैवेति* ॥ अयं भावः - भूवादिसूत्रादिषु प्रायशः क्रियाशब्देन भावनाव्यपदेशात् । तत्र तस्य साङ्केतिकी शक्तिः । फलांश क्काचित्कः, क्रियत इति यौगिकः प्रयोगः । तथाच सञ्ज्ञाशब्दस्यानेपक्षप्रवृत्तत्वेन बलवत्त्वाद्भावनान्वय एव साधुता लभ्यते । अत एव संज्ञाशब्दप्राबल्याद्, रथन्तरमुत्तराग्रन्थपठितऋक्ष्वेव गेयं, न तु वेदे तदुत्तरपट्यमानऋक्ष्विति नवमे निर्णीतम् । दर्पणः साधुत्वनिर्वचनावसरे इति शेषः । साधुत्वं न शक्तत्वमपशब्दादपि अर्थोदयात्, किन्तु व्याकरणैकव्यञ्जिका पुण्यजनकतावच्छेदकातिरिति वक्ष्यत इत्यर्थः । प्रकृते च व्याकरणेन क्रियान्वितेष्वेव तद् व्यज्यत इति तदन्यस्याऽसाधुतैवेतिभावः । 'क्रिययैवावधार्य्यताम्' इति मूलेन क्रियाऽन्वय एवोक्तानां साधुत्वं लभ्यते इति सत्यमेव तथापि भाष्ये क्रियापदस्य फलेऽपि प्रयोगात्साक्षात्परम्परया वा क्रियाफलान्वयेनाऽपि तेषां साधुत्वोपपत्तौ नोक्तरीतिर्धातोर्व्यापारवाचकत्वसाधिकेत्याशrssशयं प्रकाशयति-अयम्भाव इति । प्रायशः क्रियाशब्देनेति । तथाच प्रयोबाहुल्यं रूढिसद्भावे प्रयोजकमिति भावः ॥ 1 *साङ्केतिकोति* । सङ्केताभिव्यङ्गया रूढिरित्यर्थः । तत्र हेतुः *क्काचित्क इति । तत्र नियामकमाह-यौगिक इति । क्रियते व्यापारेण निष्पाद्यत इति व्युत्पत्तेरिति भावः । *अनपेक्ष्येति । प्रकृतिप्रत्ययशक्तिमनुसन्धायेत्यर्थः । अत एवेति । सञ्ज्ञाशब्दस्याऽनपेक्ष्य प्रवृत्तिकत्वेन बलवत्त्वादेवेत्यर्थः ॥ *नवमे इति । मीमांसानवमाऽध्याये इत्यर्थः । तथाहि - रथन्तरं हि "यद्योन्यां परीक्षा 1 परतया फलयोगे भवदुक्ताष्टकानां साधुत्वमस्तुः न तु भावनान्वयनियमस्य लाभ इति तदनुरोधेन भावनाया वाच्यत्वं न सिद्ध्यतीत्याशङ्कानुत्थानायाह-अयम्भाव इति । *तस्य*-क्रियाशब्दस्य, सङ्केतादागता शास्त्रकारीयव्यवहारादागता शक्तिः । एवं च क्रियाशब्दस्तत्र योगरूढ़ः । एतेन भावनायां क्रियाशब्दस्य योगरूढ़त्वे प्रयोगप्राचुर्य्य नियामकमित्युक्तम् । यौगिक इति । एवं च रूटेर्योगापेक्षया बलवत्त्वात्तस्य झटिति भावनाबोधकत्वमेव पङ्कजशब्दवत् । *अनपेक्ष्येति । प्रकृतिप्रत्ययविशेषशक्तिमननुसन्धायेत्यर्थः । *अत एव* --सञ्ज्ञाशब्दस्यानपेक्ष्य प्रवृत्तिकत्वेन बलवत्वादेव । *रथन्तरम् -- सामविशेषः । *उत्तराग्रन्थेति । उत्तरासञ्ज्ञकग्रन्थविशेषपठितऋवित्यर्थः। *तदुत्तरपठ्यमानेति । रथन्तरयोनेः परतः पठ्यमानऋक्ष्वित्यर्थः । *नवमे*नवमाध्याये मीमांसायाम् । तत्र हि - ' रथन्तरं हि यद्योन्यान्तदुत्तरयोगायति' इति श्रूयते, तत्र रथन्तरयोनेः परतो बृहद्योनेः पठितत्वाद्र्थन्तरं तस्यां गेयमुत उजराग्रन्थे न त्वा वा मन्यते - इत्यादिपठिते गेयमिति संशयेऽविशेषादुभयत्र गेयमिति पूर्वपक्षे, उत्तराग्रन्थे -- उत्तराशब्दस्य प्रवृत्तिः शब्दस्वरूपमात्रापेक्षाः न तु तत्रोत्तरकालपटतक्रियापेक्षा रथन्तरयोनेः परतः पठ्यमान-ऋक्षु तु तादृश क्रियापेक्षा । एवं पूर्वग्रन्था I Page #131 -------------------------------------------------------------------------- ________________ १०२ दर्पणपरीक्षासहित भूषणसारे. किञ्च फलांशोऽपि भावनायां विशेषणं कारकाण्यपि क्वचित्तथाभूतानीति । "गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यात्" (जै० सू० ३।१। २२) इति न्यायेन सर्वे सेवका राजानमिव भावनायामेव परस्परनिरपेक्षाण्यन्वियन्ति । 'न हि भिक्षुको भिक्षुकान्तरं याचितुमहति सत्यन्यस्मिन्नभिक्षुके' इति न्यायेनापि फलं त्यक्त्वा भावनायामेवाऽन्वियन्तीति मीमांसका अपि मन्वते । एवञ्च विशेष्यतया कारकादिप्रकारकबोधं प्रति धातुजन्यभावनोपस्थितहेतुरिति कार्य दर्पणः तदुत्तरयोर्गायति" इति श्रूयते । तत्र स्थन्तरयोनेः परतो बृहद्योनेः पठितत्त्वान्थन्तर तस्यां गेयम् ? उतोत्तराग्रन्थे, "न त्वा वा मन्यते” इत्यस्य पठितत्वात् तत्र गेयमिति संशयेऽविशेषादुभयत्र गेयमिति पूर्वपक्षे उत्तराग्रन्थे उत्तराशब्दस्य सज्ञारूपेण प्रसिद्धिर्बहधोनौ तु तस्याः पूर्वग्रन्थाऽपेक्षिकोत्तरत्वबलाद्यौगिकी, इति संज्ञाशब्दस्याऽनपेक्ष्य. प्रवृत्तिकत्वेन बलवत्त्वादुत्तराशब्दसङ्केतित-"नत्वा वा मन्यत" इत्याक्ष्वेव तद्गेयमिति नवमे निर्णीतम् । तद्वत्तत्रापीति भावः । ननु भावनायां क्रियापदस्य साङ्केतिकी शक्तिः; फले तु यौगिकः प्रयोग इत्यत्रैव न दृढतरं मानम् , येनोक्ताधिकरणावतारः सम्भाव्येत । प्रायेण तस्य तु यौगिकत्वेनाऽप्युपपत्तेरत आह-किञ्चेति ॥ __ *तथाभूतानीति* । विशेषणानीत्यर्थः। कर्ताऽऽख्यातस्थले क्वचित् दृष्टत्वादितिभावः । *गुणानामिति । विशेषणानां परार्थत्वादन्योपकारकत्वादत एव समत्वा समानधर्मत्वात्तेषां परस्परं सम्बन्धो न भवेदिति न्यायार्थः । तथा च यथा फलस्योपकारकत्वाद् विशेष्यभावनायामन्वयस्तथा कारकाणामपि साक्षात्परम्परया वा तत्रैवान्वयोऽन्यथा कारकत्वस्यैवाऽनुपपत्तेनं तु फले निराकाङ्क्षत्वादिति भावः । तदनुसारिलौकिकन्यायमप्युपन्यस्यति-*न हि भिक्षुक* इन्यादि। ___ *मीमांसका अपीति* । उक्तन्यायेन कारकप्रकारबोधं प्रत्याख्यातजन्यभावनोपस्थितेहेतुतायास्तैः क्लृप्तत्वादिति भावः ॥ कारकादीत्यादिना लडाद्यर्थकालपरि परीक्षा पेक्षा चेति विलम्बितप्रवृत्तिकत्वेन न बृहद्योनौ पठितानां ऋचां ग्रहणम् , किन्तु उत्त. राशब्दस्य स्वरूपमात्रापेक्षा या सुप्रवृत्तिस्तासां नत्वा वा मन्यते-इत्यादि ऋचामेव बोधकोऽयमुत्तराशब्द इति तास्वेव गेयमितिनिर्णीतम्। ' कारकाणां भावनायामेवान्वये युक्त्यन्तरमाह-किञ्चेत्यादिना । *तथाभूतानि*-विशेषणाभूतानि। *गुणानामिति । विशेषणानां परार्थत्वात्परोपकारक त्वात्समत्वात्परस्परमसम्बन्धः। फलस्यात्र विशेष्यभावनोपकारकत्वं चेतरभेदसाधकत्वम् ; कारकाणान्तु तनिष्पादकत्वमिति तस्यामेवान्वयः, फलस्य कारकाणां च, न तु फले कारकाणामन्वयो निराकाङ्कत्वात् । अस्मिन्नर्थे लोकप्रसिद्धं दृष्टान्तमाह*नहीति । *मीमांसकेति-कारकप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति आख्याता Page #132 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। . . . १०३ कारणभावस्य क्लुप्तत्वात् यत्रापि पक्ता पाचक इत्यादौ भावना गुणभूता; तत्रापि क्लुप्तकार्यकारणभावाऽनुरोधात् तस्यामेवान्वय इत्यवसीयते इत्यादिभूषणे प्रपश्चितम् । केचित्त-भूतले घटः, देवदत्तो घटमित्यादावन्वयबोधाकाङ्क्षानिवृत्त्योरदर्शनान्न तद्वयतिरेकेण साधुत्वलाभ इत्याहुः॥ १७ ॥ स्वयमुपपत्तिमाह दर्पणः ग्रहः ।। *गुणभूतेति । तृजाद्यर्थकर्तरि विशेषणीभूतेत्यर्थः । एतेन पूर्वोक्तन्यायस्य तत्राऽसम्भवो दर्शितः। *तस्यामेषेति* । धात्वर्थभावनायामेवेत्यर्थः । *प्रपञ्चितमिति* । फलांशे तु न कारकाणामन्वयः, मीमांसकमतेऽपि तस्या अव्युत्पन्नत्वात् । अन्यथा कारकान्वितस्य कारकत्वाऽसम्भवेन,यागरूपफलस्य करणतया क्रियायामनन्वयाऽऽपत्तरिति तत्रोक्तम् । ___ *अदर्शनादिति। 'सर्व हि वाक्यं क्रियया परिसमाप्यते' इति न्यायेन तत्राsस्तिजानात्यादिक्रियामन्तरेणाऽन्वयबोधनिराकाङ्क्षत्वयोरदर्शनादित्यर्थः । तत्र 'चैत्रः सुन्दरः' इति क्रियासाकाङ्क्षवाक्यस्याऽसाधुतापत्तिः । फलांशान्वयलाभेनैवोपपत्तो भावनावाचकत्वालाभश्चेत्यस्वरस आहुरित्यनेन सूच्यते ॥ १७॥ ___*उपपत्तिमिति* । उक्ताष्टकस्य भावनायामन्वये साधकोपमासरूपां तामुक्त्वानन्वये बाधकोपमासरूपां तामाहेत्यर्थः । ननु सम्बोधनान्तादीनां क्रियान्वय एव परीक्षा र्थभावनोपस्थितेः कारणतया अनेन न्यायेन तैः साधनादिति । कारकादित्यादिना कालस्य परिग्रहः । ननु यत्र न भावनायाः प्राधान्येन भानम् । तत्र का गतिरत आह*यत्रापीति* । *गुणभूताः*-प्रत्ययार्थकर्तरि विशेषणीभूताः। *क्लति* । विशेब्यतासम्बन्धेन कारकादिप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति भावनात्वसमानाधिकरणविषयतासम्बन्धेनोपस्थितिः कारणमिति कार्यकारणभावात्। *तस्यामेव*भावनायामेव । *अन्वयः* । करणादिकारकाणामिति शेषः । *प्रपञ्चितमिति*। फलांशे न कारकाणामन्वयः, किन्तु भावनायामेव मीमांसकसम्मतत्वात् । अन्यथा कारकान्वितस्य तद्धात्वर्थकारकत्वाभावेन 'सोमेन यजेत' इत्यादौ सोमादिपदार्थयागरूपफलांशस्य करणतया भावमायामन्वयो न स्यादितिरीत्या प्रपञ्चितमित्यर्थः । *अदर्शनादिति । क्रियावाचकपदाकाङ्क्षासत्वेन तद्वाचकपदाध्याहारं विनेति शेषः । *तद्वयतिरेकेण*-क्रियावाचकपदव्यतिरेकेण । *साधुत्वेति । अन्वयबोधजनकत्वं हि साधुत्वमिति तेषामाशयः । *आहुरिति । अनारुचिबीजन्तु साधुत्वस्य व्याकरणव्यङ्गयजातिविशेषरूपतया क्रियावाचकपदसाकाङ्क्षत्वेऽपि 'नीलो घट' इत्यादावस्त्येव तत् । अत एव “गामित्युक्ते कर्मनिर्दिष्टम् , कर्ता क्रिया चानिर्दिष्टे” इत्यादि भाष्यं सङ्गच्छत इति ॥१७॥ ___*स्वयमिति। अस्य-ननु भूतलेन घटः इत्यत्र सप्तम्यर्थाभावः; महानसवदित्यत्र च पक्षानुयोगिकसादृश्यबोध इति दूषयन्नित्यादिः। कचित्पुस्तके तु-इत्थमेव पाठः । Page #133 -------------------------------------------------------------------------- ________________ १०४ दर्पणपरीक्षासहिते भूषणसारेयदि पक्षेऽपि वत्यर्थः कारकश्च नमादिषु ॥ अन्वेति त्यज्यतां तर्हि चतुर्थ्याः स्पृहिकल्पना ॥१८॥ पर्वतो वह्निमान् धूमाद् महानसवत, भूतले न घटः । भूतले घट इत्यादिपदात् । एवमादिष्वनुशासनविरोधेऽपि यदि साधुत्वमन्वयश्वाभ्युपेयते; तर्हि चतुर्थ्याः स्पृहिकल्पनाऽपि त्यज्यतामित्यर्थः । अनुशासनानुरोधतौल्ये अर्द्धजरतीयमयुक्तमिति भावः ॥ १८ ॥ दर्पणः साधुत्वे, पर्वतो वह्निमान् महानसवदित्यादौ वत्यर्थसादृशस्य कथं पर्वतेऽन्वयः ? कथं वा भूतले न घटः' इत्यत्र सप्तम्यर्थभूतलाधेयत्वस्य तथाऽभावे इत्यत आह मूले-“यदि पक्षेऽपीति । पने प्रतिज्ञावाक्यजन्यबोधविशेष्ये सन्दिग्धसाध्यके धर्मिणि पर्वतादाविति यावत् । कारकमधिकरणादि, ननादिषु-नार्थाऽभावे; इतरनामार्थे चेत्यर्थः । तमेव विषदयति सारे-*पर्वतो वह्निमानित्यादिना* ॥ *आदिपदादिति ॥ नजादिष्वित्यादिपदादित्यर्थः । तदेव विवृणोति-*एवमादिष्विति । भूतले घट इत्यादावित्यर्थः॥ ___ *अन्वयश्चेति । महानससदृशः पर्वतो, भूतलवृत्तित्वाऽभाववान् घटो, भूतलवृत्तिर्घटाऽभाव इति वा बोधश्चेत्यर्थः । “तेन तुल्यम्" इत्यनुशासनेन क्रियागतसाहश्यबोधन एव वते: “कारक" इत्यधिकृत्य “सप्तम्यधिकरणे च" इत्यनुशासनेन क्रियान्वय एव सप्तम्याश्चः साधुत्वबोधनादुक्तम्-*यदीति*। *चतुर्थ्या इति । पुष्पेभ्य इत्यत्र "स्पृहेरीप्सित" (पा० सू० १।४।३६ ) इति विहितचतुर्थ्याः स्पृहयत्युपात्तार्थे एव स्वार्थाऽन्वयबोधकत्वम्, न पदान्तरोपात्ते, अध्याहृते वा तदर्थेऽनुशासनविरोधादिति स्वसिद्धान्तस्त्यज्यतामित्यर्थः ॥ *अर्द्धजरतीयमिति*। इदमर्थे गहादित्वाच्छः क्वचिदनुशासनाऽनुरोधः क्वचिन्नेत्यर्द्धजरतीसदृशमित्यर्थः । तथा च स्वीयसिद्धान्तप्रच्युतिरूपबाधकभियाऽत्राऽपि पर्वतो वह्निमान् भवितुमर्हतीत्येव प्रतिज्ञाऽङ्गीकरणीया, न तु क्रियावाचकपदशून्या परीक्षा *उपपत्तिमिति । अनन्वये बाधकोपन्यासरूपां तामित्यर्थः । *यदीत्यादि* । पर्वतो वह्निमान् , धूमात् , महानसवदित्यादौ पक्षे पर्वतादावित्यर्थः-सादृश्यम् । *कारकम्*-अधिकरणादि । *नजादिषु*-नजाद्यर्थोऽभावे। आदिना नोशब्दपरिग्रहः । *त्यज्यतामिति । पुष्पेभ्य इत्यत्र चतुर्यो श्रुतायां स्पृहयतीति पदमेवाध्याह्रियते न तु पदान्तरमिति कल्पना त्यज्यताम् । “स्पृहेरीप्सित" इत्यनुशासनानुरोधेन तथा कल्प्यते इति चेद् ? अन्यत्रापि तथैवानुशासनानुरोधः स्वीकार्यो न तु तत्त्यागः। एवं चोक्ताष्टकस्योक्तरीत्या साधुत्वस्योक्तत्वेन क्रियायामेव कारकाणां वत्यर्थस्य चान्वयः, यद्यनुशासनानुरोधेन पुष्पेभ्य इत्यत्र स्पृहयतीति पदाध्याहारस्तदाऽन्यत्रापि अनुशासनानुरोध एवास्तु; न तु तस्य त्यागः। *अर्द्धजरतीयमिति* । “गहादित्वाच्छः” अर्द्धजरतीसादृश्यमित्यर्थः । क्वचिदनुशासनानुरोधोपादानं क्वचित्तु त्याग Page #134 -------------------------------------------------------------------------- ________________ _धात्वर्थनिर्णयः। १०५ एवं कर्नादौ विहितानामिन्यादीनां क्रिययैवान्वय इत्याह अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः॥ क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ॥१९॥ नविविच्य ग्रहो ग्रहणं यस्याः सा अविग्रहा गुणीभूतेति यावत् । तथा च ग्रामं गत इत्यत्र यथा-क्तप्रकृत्यार्था गुणीभूतापि क्रिया प्रामादिकर्मभिः सम्बध्यते; तथा कृतपूर्वी कटमित्यत्रापि । दर्पणः सेति नोक्तनियमे व्यभिचारः । 'भूतले न घटः' इत्यादौ यद वक्तव्यं तत्तूक्तम् । वक्ष्यते वाधिकमिति भावः ॥१८॥ कृतपूर्वीत्यत्र भावविहितक्तेन सिद्धाऽवस्थापन्नो भाव उच्यते । तद्विशेषणं च प्रकृत्यर्थक्रियेत्याशयेन मूलमवतारयति-*एवमित्यादिना । कळदावित्यादिना भावपरिग्रहः । इन्यादीनामित्यादिना क्त्वातुमुनादीनाम् । *सम्बध्यते इति । कारकप्रकारकबोधं प्रति विशेष्यतया धातुजन्यभावनोपस्थितेहेतुतायाः पूर्वमुक्तत्वादिति भावः॥ *कृतपूर्वी कटमिति । नन्वत्र कर्मणि क्ते कटशब्दादनभिहिताऽधिकारीयद्वितीयानुपपत्तिः । भावे क्तस्तु सकर्मकाद्गगनकुसुमायमान एव । तयोरेवेति नियमात् । अत एव नपुंसके भावेऽपि न सः, तथाच कथमुक्तदाान्तिकवाक्योपपत्तिरिति चेदत्राहुः-- कर्मणो विशेषरूपेण प्रागविवक्षया अकर्मकत्वाद्भावे प्रत्यये तदन्तस्य पूर्वशब्देन समासे “सपूर्वाच्च" इतीनिः, पश्चात्तु कर्मणो विशेषरूपस्य विवक्षया तत्र द्वितीयेति । इदं च "कर्तृकर्मणोः कृति" ( पा० सू० २।३।६५ ) इति भाष्ये स्पष्टम् । ईदृशविवक्षाऽविवक्षे . परीक्षा इतिरीत्या त्यागोपादानाभ्यामर्द्धजरतीसादृश्यम् । एवं च स्वसिद्धान्तानुरोधेन 'भूतले न घट' इत्यस्यान्वयबोधजननायास्तीति पदमध्याहार्य्यम् । 'पर्वतो वह्निमान्' इत्यत्रापि भवितुमर्हतीति पदमध्याहार्यम् । प्रतिज्ञावाक्यमपि 'पर्वतो वह्निमान्भवितुमर्हति' इत्याकारकमेव प्रयोक्तव्यम् । तत्रार्हणक्रियायामुदाहरणवाक्यघटकवतिप्रत्ययार्थसादृश्यस्यान्वयः । वत् प्रकृातमहानसादिशब्दानां महानसादिकर्तृकभवने लक्षणा च स्वीकार्यो । “तेन तुल्यम्" इत्यनुशासनानुरोधादिति भावः ॥१८॥ ____ *एवम्*-उक्ताष्टकवत् । *कादावित्यादिना*-भावस्य । *इन्यादिना*-इत्यादिना-क्वातुमुनादीनां च परिग्रहः । तत्र कारकप्रकारकबोधं प्रति धात्वर्थभावनोपस्थितेः कारणता पूर्वमुक्तैव । क्त्वान्तार्थस्य तत्रान्वये प्रमाणन्तु "समानकर्तृकयोः पूर्वकाले” इति सूत्रमेव । एवम्-"तुमुन्ण्वुलौ” इति सूत्रेऽपि क्रियार्थायां क्रियायामित्युक्तिरिति । ___ ननु कृतपूर्वीत्यत्र कर्मणो विशेषेण रूपेण प्रागन्वयाविवक्षया कृधातोरकर्मकत्वं सम्पाद्य तस्माद्भावे प्रत्ययः स.च सिद्धावस्थां क्रियामभिधत्ते इति । तस्या धात्वर्थभावनाया विशेषणत्वात्कथं तत्र पुनः कर्मणोऽन्वय इत्याशङ्कानिरासायाह-*अविग्रहे १४ द. प० Page #135 -------------------------------------------------------------------------- ________________ १०६ दर्पणपरीक्षासहिते भूषणसारेगुणभूता इन्यादिभिरित्यर्थः। नच वृत्तिमात्रे समुदायशक्तेर्वक्ष्यमाणत्वात् तत्रान्तर्गता भावना पदार्थेकदेश इतिकथं तत्रान्वय इति वाच्यम् । नित्यसापेक्षेष्वेक दर्पणः च तद्भाष्यप्रामाण्यात् कृतपूर्वीत्यादिविषये एव, नाऽन्यविषय इति बोध्यम् । *इन्यादिभिरिति । तदर्थकादिभिरित्यर्थः । वस्तुतस्तु दार्शन्तिके स्ववाचकप्रकृतिकप्रत्ययार्थेऽन्यस्मिन् वा गुणीभूतकटादिकर्मभावादिभिरिति व्याख्येयम् । नातः, कृतपूर्वीति प्रयोगघटकक्तस्य धात्वर्थाऽनुवादकत्वेऽपि क्षतिः। पूर्वकालिकक्रियाकर्तेति ततो बोधेन तादृशक्रियाया इन्यर्थकर्तरि गुणत्वात् । नाप्ययं भावाधिकारीयस्वातन्त्र्येणाऽप्रयोगात् । अत एव 'भोक्तुं गतमेतेन' इत्यादिप्रयोगोपपत्तिः । भावाऽनधिकारीयभावविहितप्रत्ययस्य धात्वर्थानुवादकत्वात्प्रकृत्यर्थक्रियाया अगुणत्वात्। एवम् “अव्ययकृतो भाव" इत्युक्ते पाक इत्यादिप्रयोगस्थघमर्थात्तुमुनाद्यर्थे वैलक्षण्यानुभवात् तुमुनादीनामपि साध्यमात्रस्वभावभावार्थकत्वमित्यन्यत्र विस्तरः। *वृत्तिमात्रे इति* । मात्रपदं कृत्स्नार्थकम् । *वक्ष्यमाणत्वादिति । 'समासे खलु भिन्नैव' इत्यनेनेत्यादिः । तत्र समासपदस्य वृत्तिसामान्यपरत्वेन व्याख्यास्यमानत्वादिति भावः । *कथमिति* । गत इत्यादौ कृवृत्तिसत्त्वेन गमनकर्तृरूपगतपदार्थकदेशभावनायां कान्वयासम्भवाद् दृष्टान्तासिद्धिरिति भावः । नित्यसापेक्षस्थले हि पक्षद्वयम् । 'चैत्रस्य गुरुकुलम्' इत्यत्र विशेषणस्य चैत्रादेर्गुर्वादिद्वारकसम्बन्धेन कूलादिरूपविशेष्य एवान्वय इति तत्रैकः पक्षः । सचोक्तो हरिणा समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥ इति । उक्तस्थले समुदायनिरूपितसम्बन्धे षष्ठी अवयवद्वारकश्च समुदायेन सम्बन्ध इति सामर्थ्याद् अवयवमपीति विशेषणं स्पृशतीति तदर्थः । अपरस्तु गुर्वादिनिरूपितसम्बन्धे एव, देवदत्तस्येति षष्ठी तत्रैव तदन्वयः । उक्तञ्च सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते। वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते ॥ इति । नित्यमपि साऽपेक्षपदार्थाऽन्वयि, हि-यतो देवदत्तस्य गुरोः कुलमित्यादिव्यस्ते या व्यपेक्षा सा समासेऽपि न हीयत इति कारिकार्थः । ‘पदार्थः पदार्थेनाऽन्वेति' इति परीक्षा त्यादि । *इन्यादिभिरिति । इन्याद्यर्थकादिभिरित्यर्थः। ननु दृष्टान्ते प्रकृत्यर्थ क्रियायाः स्ववाचकप्रकृतिकप्रत्ययार्थे गुणत्वात्तस्यां बहिर्भूतग्रामादिपदार्थान्वयः । दान्तिके तु न तस्यामिन्प्रत्ययार्थक रन्वय इति वैषम्यमिति चेद ? न। विशेष्यत्वविशेषणत्वाभ्यां वैषम्येऽपि परान्वयित्वमात्रे दृष्टान्ततयोपपादनात् । तत्राय विशेषः-दृष्टान्ते गुणीभूता क्रिया ग्रामादिकर्मभिः साक्षादन्वेति, दार्शन्तिके तु गुणीभूता क्रिया परम्परयाऽन्यस्मिन् विशेषणमिति । एककटाभिन्नायिका या उत्पत्तिस्तदनुकूलव्यापारवानिति ह्यस्माद बोधः। - *वक्ष्यमाणत्वादिति । “समासे खलु” इत्यादिनेत्यादिः। *कथमिति । गौ Page #136 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। १०७ देशेऽपि, देवदत्तस्य गुरुकुलं, चैत्रस्य नप्ता, इत्यादाविवान्वयाभ्युपगमात् । एवं भोक्तुं पाकः, भुक्त्वा पाक इत्यत्रापि द्रष्टव्यम् ॥१६॥ दर्पणः व्युत्पत्तिस्तु नित्यसापेक्षाऽतिरिक्तविषये तद्भावः। तत्रान्तिमपक्षमभिप्रेत्य समाधत्तेअनित्यसापक्षेष्विति। तथाच गुरुत्वादेरन्यनिरूप्यत्वेन तदुपस्थितौ नियमेन जायमानाया निरूपकाकाझाया निवृत्तये देवदत्ताद्यन्वयवत्' प्रकृतेऽपि, किं साधकं गमनरूपसाध्यमिति साधनाकाङ्क्षानिवृत्तये ग्रामादिकर्माऽन्वयस्याऽऽवश्यकत्वान्न दृष्टान्तासङ्गतिरिति भावः । आदिना "शरैः शातितपत्रः" इत्यादेः सङ्ग्रहः। अवतरणिकास्थादिपदग्राह्यं स्पष्टयति-*एवं भोक्तुमिति । अत्राऽप्यादिपदग्राह्यम्-*भुक्त्वा पाक इति* । घनर्थभावगुणभूतायां पच्यर्थक्रियायां तुमुनन्तार्थक्रियान्वय इति बोध्यमित्यर्थः। अत्र नव्याः-तुमुविधायके “क्रियार्थायां क्रियायाम्" इत्युक्तया प्रत्त्यासत्त्या क्रिययोरेकजातीयत्वलाभेन स्ववाचकप्रकृतिकप्रत्ययार्थे प्रत्यगुणीभूतायाः साध्यमात्रस्वभावाया एव, क्रियायामित्यनेन ग्रहणादोक्तुं गतं भोक्तुं पाक इत्यसाध्वेव । ध्वनितं चेदम् "उपपदमति” इति सूत्रभाष्ये । यत्र तु क्रियामानार्थकस्य ग्रहणम् , तत्र क्रियामात्रविशेषणादपीतिगतपाकादियोगेऽपि सूचक्त्वा दीत्याहुः । तेषामयमाशयः-घजाद्यन्तस्थले प्रकृतिप्रत्ययाभ्यां विशेष्यविशेषणभावापन्नसत्वाऽसत्वस्वभावक्रियाद्वयमुपस्थाप्यते। तत्र प्रत्ययार्थक्रियायाः प्राधान्यम् । एवञ्च धातूपस्थाप्यक्रियायाः साध्यमात्रस्वभावत्वेऽपि तस्या घार्थ प्रति गुणत्वान्न तत्र तुमुनादीति। परीक्षा नित्या पशुरपशुरित्यादिशब्दानां प्रामाण्यापत्तिवारणाय ‘पदार्थः पदार्थेनान्वेति, न तु पदार्थकदेशेन' इति व्युत्पत्तिस्वीकाराद्भावनायाः पदार्थेकदेशत्वात्। 'देवदत्तस्य गुरुकुलम्' इत्यस्माहेवदत्तस्य यो गुरुस्तस्य कुलमिति बोधः । 'चैत्रस्य नप्ता' इत्यस्मात्तु चैत्रस्येत्यस्य नप्तृपदार्थे जन्यजन्यः पुमान् तदेकदेशजन्यतायामन्वयः । *अभ्युपगमादिति* । उक्तव्युत्पत्तेः सम्बन्धिकातिरिक्तविषयत्वात् । तदुक्तं हरिणा सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते ।। वाक्यवत् सा व्यपंक्षा हि वृत्तावपि न हीयते ॥१॥ इति । नित्यं सापेक्ष इत्यन्वयः । एतेनैतादृशस्थले एकदेशान्वयेऽपि साधुत्वमिति सूचितम् । अथवा 'चैत्रस्य गुरुकुलम्' इत्यादौ षष्ठयन्तार्थस्य चैत्रसम्बन्धस्य स्वाश्रयगुरुसाध्यत्वरूपपरम्परासम्बन्धेन कुले एवान्वयः-अयमपि पक्षस्तेनोक्तः समुदायेन सम्बन्धो येषां गुरुकुलादिना।। ___संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥ इति । अवयवद्वारकसम्बन्धेन समुदायाथन सम्बन्धेऽवयवमपि विशेषणं सामर्थ्यात्स्पृशतीति फलितम् । अत्रत्यो नित्येत्यादिग्रन्थ आदिरीत्या द्रष्टव्यः। *इत्यत्रापीति । गुणभूतधात्वर्थक्रियायामन्चयो भुजेः ॥१९॥ ननु यदि गुणीभूतक्रियामादाय पूर्वोक्तरूपाणां साधुत्वम् , तदा सकृत् पाको, द्विः Page #137 -------------------------------------------------------------------------- ________________ १०८ दर्पणपरीक्षासहिते भूषणसारे अतिप्रसङ्गमाशङ्कय समाधत्तेकृत्वोर्थाः क्त्वातुमुन्वत्स्युरिति चेत् सन्ति हि कचित् ॥ अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् ॥ २० ॥ __ भोक्तुं पाकः ; भुक्त्वा पाक इत्यादौ "तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् " (पा०सू० ३।३।१०॥) “समानकर्तृकयोः पूर्वकाले" (पासू० ३२॥२१) इति क्रियावाचकोपपदे क्रिययोः पूर्वोत्तरकाले विधीयमानापि तुमुन्नादयो गुणभूतां तामादाय यथा जायन्ते, तथा कृत्वोऽर्था अपि स्युः । एकः पाक इत्यत्र, “एकस्य सकृच्च" (पा०सू० ५।४।१६) द्वौ पाको, त्रयः चत्वार इत्यत्र “द्वित्रिचतुर्व्यः सुच्" (पा०सू० ५।४।१७)। पञ्चेत्यत्र कृत्वसुच स्यात् । तथाच सकृत् पाकः द्विस्त्रिश्चतुः पाका इत्याद्यापत्तिरिति चेदिष्टापत्तिः। “द्विर्वचनम्" इत्यादिदर्शनात् । अतिप्रसङ्गस्त्वनभिधानान्नेत्याह- *अतीति* ॥ “न हि वचिरन्तिपरः प्रयुज्यते” इत्याद्यभियुक्तोक्तरीत्या समाधेयमिति भावः। दर्पणः तत्रेदं चिन्त्यम्-भावाऽनधिकारीयधात्वर्थाऽनुवादकप्रत्ययान्तयोगे तुमुनो दुर्वारत्वात् । किञ्च सुविधायकेऽप्युक्तविशेषणविशिष्टायास्तस्या ग्रहणमावश्यकम् । तत्तद्विशेषणीभूतक्रियायाः साध्यमात्रस्वभावत्वेन तज्जन्मगणने द्वौ पाकावित्यत्र सुजापत्तेरशक्यवारणत्वात् । नच तत्रेष्टापत्तिः। क्रियापदोपादानवैयर्थ्यादभ्यावृत्तिपदसामर्थ्येनैव क्रियाया लाभादिति वक्ष्यमाणत्वात् । किञ्च साध्यत्वेन क्रिया तत्र' इति हरिपद्यव्याख्यावसरे, एकस्यव सम्बन्धिभेदादाचार्यत्वमातुलत्वादिवदेकस्या एव क्रियायाः प्रकृतिप्रत्ययरूपवाचकसम्बन्धिभेदादुपस्थितिरिति स्वोक्तिविरोधः क्रियाद्वयाबोधाङ्गीकार इति ॥१९॥ *अतिप्रसङ्गमिति । गुणभूतक्रियामादाय कृत्वोपत्तिरूपमित्यर्थः ॥ तुमुन्नादीत्यादिना, 'कृष्णं दर्शको याति' इत्यत्र ण्वुलः सङ्ग्रहः । क्रिययोरित्यस्योद्देश्यत्वरूपे तादर्थे इति शेषः ॥ विधीयमाना इत्यस्य घोतकतयेत्यादिः ॥ द्विर्वचनमित्यादीत्यादिना द्विः प्रयोगपरिग्रहः । तत्र ल्युड्घार्थगुणीभूतक्रियामादाय सुचो दर्शनादिति परीक्षा पाकस्त्रिः पाक इत्यपि स्यादित्याशङ्कां निराचष्टे-*अतिप्रसङ्गमित्यादिना । *इत्याद्यापत्तिरिति । आदिना पञ्चकृत्वः पाक इत्यस्य संग्रहः । *इष्टापत्तिः* । ल्युडाद्यर्थे गुणीभूता या क्रिया तस्या जन्मगणने कृत्वसुजादिप्रत्ययोत्पत्ताविष्टापत्तिः । तत्र मानमाह-द्विर्वचनमित्यादीति । आदिना "द्विः प्रयोगोर्द्विवचनम्" इति भाष्यप्रयोगसंग्रहः । 'सकृत्पाक' इत्यादिकं चानभिधानान्न भवतीत्याह-*अतिप्रसङ्ग इति । “अनभिधाने दृष्टान्तमाह-*नहि वचीति । अभिधानलक्षणा:-कृत्तद्धितसमासा इत्यभि Page #138 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । १०९ केचित्तु – “क्रियाभ्यावृत्ति गणने" इत्यत्र क्रियाग्रहणं व्यर्थम् । तस्या एवाभ्यावृत्तिसम्भवेन सामर्थ्यात्तल्लाभात् । तथाच साध्यमात्रस्वभावक्रियालाभाय तदिति वाच्यम् । नच पाक इत्यादौ तानशीति नातिप्रसङ्गः । द्विर्वचनमिति च, द्विःप्रयोगो द्विर्वचनमिति दर्पणः भावः ॥ *ता एवेति । क्रियाया एवेत्यर्थः । एवकारेण द्रव्यगुणव्यवच्छेदः । तयोः सकृदेवोत्पत्तेः । क्रियायास्तु नैकस्या अपि निवृत्तिभेदाया धातुवाच्यत्वापगमेन तत्सम्भवादिति भावः । *साध्यमात्रेति । यद्यपि धातूपस्थाप्यायां तत्वमक्षतमुक्तयुक्तेः, तथाऽपि साध्यमात्रस्वभावपदस्योक्तप्रत्ययार्थगुणीभूतसाध्यस्वभावमात्रपरत्वान्न दोषः ॥ *तादृशी परीक्षा युक्तोक्तेर्येषां तद्धितप्रत्ययान्तानां प्रयोगः प्रामाणिकस्तेषां साधुत्वान्वाख्यानम् । सकृ त्पाकः' इत्यादिप्रयोगे तु विवादसत्वात्तस्य साधुत्वान्वाख्याना य“एकस्य सकृच्च" इत्येतत्र न प्रवर्त्तते इति भावः । न च गुणप्रधानभावो भिन्नयोः पदार्थयोर्भवति ; पाक इत्यादौ च पच् - धातुप्रतिपाद्यक्रियाया एकत्वात्कथं गुणप्रधानभाव इतिवाच्यम् ? साध्यत्वसिद्धत्वाभ्यामसत्वसत्वाभ्यां च धर्माभ्यामुपाधिभ्यां कल्पितभेदमादाय विशेष्यविशेषणभावोपपत्तेः । तत्र “प्रकृतिप्रत्ययौ सहार्थम्" इत्यादि क्लतन्यायेन प्रत्ययप्रतिपाद्यायाः सिद्धस्वभावक्रियायाः प्राधान्यम् । प्रकृत्यर्थभूतसाध्यस्वभावा क्रिया तस्यां विशेषणतया भासते । एकज्ञानविषयत्वं च संसर्गो विशेषणतया भासमानक्रियायामेव कारकान्वयो यथा ; तथा कृत्वोऽर्था अपि भवन्ति । अनभिधानं विनापि 'सकृत्पाक' इत्यादिप्रयोगापत्तिं वारयतां मतमाह- केचि त्वित्यादिना* | *तस्या एवेति । सा साध्यमात्रस्वभावा पूर्वापरीभूतावयवकक्रियोक्ता तस्या एवेत्यर्थः । एवकारेण द्रव्यगुणव्यवच्छेदः । अयम्भावः - ययोर्द्रव्यगुणयोरेकवारमुत्पत्तिस्तयोर्न पुनरुत्पत्तिरित्यनुभवसिद्धम्, किन्तु सकृदेव क्रिया तु यद्यपि पूर्वापरीभूता नानावयवकत्व विशिष्टाभिन्ना भिन्नकालिकप्रवृत्या साध्यते; तथाऽपि निवृतिभेदाद् धातुना प्रतिपाद्यते, शब्दशक्तिस्वभावादिति तस्या जन्मनि पौनःपुन्यम्, अस्यां कल्पनायां “संख्यायाः क्रियाभ्यावृत्ति" इति सूत्रमेव मानमिति, एतदेवाह — सामर्थ्यादिति । अभ्यावृत्तिपदोपादानसामर्थ्यादित्यर्थः । *तत्* - क्रियापदम् । *नचेति* । नहीत्यर्थः । तादृशी * - साध्यमात्रस्वभावा । नच प्रागुक्तरीत्या प्रकृतिप्रतिपाद्या साध्यमात्रस्वभावैवेति वाच्यम् ? तस्याः कृदविहिता या द्रव्यभावमापन्ना क्रिया तां प्रति विशेषणतया तस्या जन्मगणनासम्भवेन या विशेष्यविधया भासते तस्याः जन्मगणनं वाच्यम् । तच्च न सम्भवतीत्याशयात् । द्विर्वचनमित्यादेस्तु सौत्रवात्साधुत्वम् । अत एव द्विः प्रयोगाविति न ज्ञापकमिति । साध्यमात्रस्वभावत्वाभावेऽपि सुज्न भवतीत्याद्यर्थे ज्ञापकमित्यर्थः । एवमेव द्विः प्रयोग इत्यस्याऽपि साधुत्वम् । इदमुपलक्षणं तुमुन्विधायकसूत्रेऽपि क्रियाग्रहणादुभयोः क्रिययोः साजात्यलाभात् । साजात्यस्य च साध्यमात्रस्वभावकल्पनवत् । स्ववाचकप्रकृतिकप्रत्ययार्थ Page #139 -------------------------------------------------------------------------- ________________ ११० दर्पणपरीक्षासहिते भूषणसारे - व्युत्पत्त्या " द्विर्वचनेऽचि " ( पा० सू० १।१।५६ ) इति ज्ञापकं वा श्राश्रित्योपपादनीयमित्याहुः ॥ २० ॥ ननु सिद्धान्ते बोधकतारूपा शक्तिराख्यातशक्तिग्रहवतां बोधादावश्यकी इति धातोरेव भावना वाच्या, नाख्यातस्येति कथं निर्णय इत्याशङ्कां समाधत्ते - भेद्यभेदकसबन्धोपाधिभेदनिबन्धनम् ॥ साधुत्वं तदभावेऽपि बोधो नेह निवार्यते ॥ २१ ॥ भेद्यं - विशेष्यम्, भेदकं-विशेषणं तयोर्यः सम्बन्धस्तस्य यो भेदस्तन्निबन्धनं साधुत्वम् । अयमर्थः - व्याकरणस्मृतिः शब्दसाधुत्व दर्पणः ति-धजुपस्थाप्योक्तरूपेत्यर्थः । * व्युत्पत्त्येति ॥ विवरणपरभाष्यकारप्रयोगादित्यर्थः ॥ * ज्ञापकमिति ॥ तादृशसूत्रकृत्प्रयोगम् । 'हतशायिकाः शय्यन्ते' इतिवदिति भावः । *आहुरिति ॥ सारग्राहिण इति शेषः ॥ २० ॥ *सिद्धान्त इति ॥ वैयाकरणसिद्धान्ते । 'इन्द्रियाणां स्वविषयेषु' इत्यादिना प्रतिपादिता बोधकतारूपा शक्तिराख्यातेऽप्यबाधितैव । ततो भावनाबोधस्य जायमानत्वादित्यर्थः । साधुत्वपरेति* ॥ तथाच हरि: साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः ॥ इति परीक्षा विशेषणतानापन्नत्वेनैवाश्रयणाद्भोक्तुं गतो भोक्तुं पाक इत्यादि न भवति, किन्तु भोक्तुं पचति भोक्तुं गच्छतीत्याद्येवेति । *आहुरिति । आहुरित्यस्वरसबीजन्तु कृत्वसुविधायके क्रियाग्रहणम्, अभ्यावृत्तिग्रहणम्, अभ्यावृत्तिगणनं क्रियाया एव, न तु द्रव्यगुणयोरित्यर्थबोधकमेवास्तु । तावताऽपि तस्या चारिताथ्येंन साध्यमात्रस्वभावेत्यत्र मानाभावात् । एवं च ' सकृत् पाक' इत्यादिप्रयोगाणामनभिधानमेवोचितम् । एवं “द्विर्वचनम्” इत्यादिलौकिकप्रयोगाणां स्वरसत एवोपपत्तौ सौत्रत्वाश्रयणमनुचितम् । एवं तुमुन्विधायक सूत्रस्योक्तरीत्या विलक्षणविषयत्वकल्पनेऽपि धात्वर्थमात्रानुवादकक्तान्तयोगे तस्य दुर्वारकतेति भोक्तुं गतमित्यादि भवत्येवेति ॥ २० ॥ * सिद्धान्ते* — वैयाकरणसिद्धान्ते । *बोधकतारूपेति । "इन्द्रियाणां स्वविषय" इत्यादिना बोधकता रूपव शक्तिः प्रतिपादिता । यद्यभेद्यशब्द इतरभिन्नत्वेन ज्ञायमानपर इत्याशयेन व्याचष्टे -* भेद्यं विशेष्यमि - त्यादिना* | *तस्य यो भेद इति । तस्य विशेष इत्यर्थः । तन्निबन्धनम्*:-तत्प्रयोज्यम् । अयम्भावः- यादृशसम्बन्धेन यादृशविशेषणान्विते विशिष्ये यादृशानुपूर्व्याः सूत्रकाराद्यन्यतमेन साधुत्वमुक्तम्, स शब्दस्तस्मिन्नर्थे साधुः, अन्यत्रासाधुः । अत एव दन्त्यमध्यो अस्वशब्दोऽश्वत्वप्रवृत्तिनिमित्तमुपादायाश्वे न साधुः, किन्तु दरिद्र एव एवमाख्यातस्य "लः कर्मणि" इत्यादिना कर्त्रभिधायकत्वस्य युक्तिसिद्धत्वात्तत्रैव साधुता, न त्वन्यत्र । धातोश्च भावनानभिधायकत्वेऽसाधुता व्याकरणसिद्धान्तविरोधा Page #140 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। १११ परा तत्रैवावच्छेदकतया कल्प्यमानधर्मस्य शक्तित्वं वदतां मीमांसकानां पुनः शक्तत्वं साधुत्वमित्येकमेवेति तद्रीत्या विचारे साधुत्वनिर्णय एव शक्तिनिर्णय उच्यते। अतिरिक्तशक्तिवादेऽप्याख्यातानामसाधुता भावनायां स्यादेव । एवञ्च चतुर्थ्यर्थे तृतीयाप्रयोगवद्धात्वर्थभावनायामाख्यातप्रयोगे, याशे कर्मण्यसाधुशब्दप्रयोगान्नाऽनृतं वदेदिति निषेधोल्लङ्घनप्रयुक्तं प्रायश्चित्तं दर्शनान्तरीयव्युत्पत्तिमतां स्यादेवेति । दर्पणः तत्र-साधुशब्दे । *अवच्छेदकतया । बोधजनकताऽवच्छेदकतयेत्यर्थः । *अतिरिक्तशक्तिवादेऽपीति* । साधुत्वं न शक्तत्वमसाधोरपि बोधात्किन्तु बोधकत्वमिति वक्ष्यमाणसिद्धान्तिमतेऽपीत्यर्थः। *असाधुता स्यादेवेति । आख्याताच्छक्तिभ्रमेण भावनाबोधेऽपि तत्र तस्याsसाधुता स्यादेवेत्यर्थः । तथाच भाष्यकृता-"सिद्धे शब्दार्थसम्बन्धे" (म भा० आ०२) एत्यत्र "समानायामर्थावगती साधुभिर्भाषितव्यम् , नाऽसाधुभिरिति गम्यागम्येतिवन्नियमः । क्रियते" इति पस्पशायामुक्तम् । एवं यादृशविशेषणान्वितयाहशविशेष्यबोधे यादृशानुपूर्व्याः सूत्रकृदाद्यन्यतमसम्मतत्वं तादृशबोधे तादृशानुपूर्वीकः शब्दः साधुर्नान्यत्र । अत एवास्वशब्दोऽश्वे न साधुः, किन्तु निःस्वे । अश्वशब्दो निस्वे न साधुः, किन्तु तुरग इति सङ्गच्छते । नन्वस्तु साधुतेत्यत आह-*एवञ्चेति* याज्ञकर्मणीत्यनेन "नानृतं वदेन्नाऽपभ्रंशितं वा” इत्यादिश्रुतिः क्रतुप्रकरणे पाठादितरत्र तत्प्रयोगे प्रत्यवायाऽभावं सूचयति-*स्यादेवेति । भावनाबोधकत्वेनाख्या परीक्षा दिति, एतदेव विशदयति-*अयमर्थ इत्यादिना । *तत्र-'साधुशब्दे । *अवच्छेदकतया*-तन्निष्ठा या बोधजनकज्ञानविषयता तदवच्छेदकतया। *एकमेवेति । साधुशब्दज्ञानाच्छाब्दबोध इति तदुक्तेः । ननुसाधुत्वं न शक्तत्वमसाधोरपि बोधात् , किन्तु शक्तत्वमतिरिक्तमेवेत्याशयेनाह-*अतिरिक्तेति । *स्यादेवेति । आख्यातस्य भावनायां शक्तिभ्रमात्ततो भावनाया बोधेऽपि तत्र तस्यासाधुता स्यादेव; सूत्रकाराद्यन्यतमेन तत्र तस्य शक्तरबोधनात् । अत एव गम्यागम्या दृष्टान्तेन पस्पशायां भाष्यकृता-"समानायामर्थावगतौ शब्दैश्चापशब्दैश्च तत्र धर्मनियमः क्रियते” साधुभिर्भाषितव्यम् , नासाधुभिरिति । भावनायामाख्यातस्यासाधुत्वसिद्धौ यत् फलितं तदाह-*(१)तथाचेति । तत्र तस्यासाधुत्वे च । *नानृतमिति । अत्रानृतं वैधा शब्दानृतमर्थानृतञ्चेति, शब्दानृतं गाव्यादि । अर्थानृतमस्वेऽश्वशब्दप्रयोगः। *प्रायश्चित्तमिति । ऋतुप्रकरणे 'नानृतं वदेन्नापभ्रंशित वै' इति पाठादिति शेषः । *दर्शनान्तरीयेति* । मीमांसकरीत्या भावनामायाख्यातस्य शक्तिरिति भ्रमवतां सूत्रकारा (१) एवञ्चेति पाठान्तरम् । . , . Page #141 -------------------------------------------------------------------------- ________________ ११२ दर्पणपरोक्षासहिते भूषणसारे ननु त्वन्मते 'नानृतम् इति निषेधः क्रत्वर्थ एव न सिद्ध्येद्, आख्यातेन कषुरुक्तत्वाच्छुत्या पुरुषार्थतैव स्यात् । प्रकरणा दर्पणः तस्य सूत्रकारादिभिरनुशिष्टत्वात् कत्तबोधकत्वेनैव तदनुशासनादिति भावः । ___ मीमांसकः शङ्कते-नन्विति। त्वन्मते-वैयाकरणमते। नानृतमिति । दर्श पूर्णमासप्रकरणे हि 'नानृतं वदेत्' इति श्रूयते । तत्र किमयं प्रतिषेधः पुरुषार्थः, आहोस्वित् क्रत्वर्थ इति संशये, वदेदित्याख्यातात् कर्तृप्रतीत्या कर्त्तवाचकत्वनिर्णयो, “ल: कर्मणि" इत्यनुशासनात्तस्य कर्तपरत्वलाभाच्च । प्रत्ययार्थत्वेन वदनं प्रति प्राधान्यादू वदनं तावत् पुरुषार्थोऽतः प्रतिषेधोऽपि पुरुषार्थः । निषेधप्रतियोगित्वेन वदनक्रियामनुवदता वदेदिति शब्देन पुरुषार्थतयैव बोधनात् तादृशस्यैवाऽनृतवदनस्यानिष्टसाधनताया विपरीतस्वभावबोधकनना बोधनादन्यादृशाऽनृतवदनस्य चाऽनुपस्थितत्वात्। अत एवऽनारभ्याऽधीतस्मातवदननिषेधस्याऽप्येतदेव मूलं भवतीति लाघवम् । अन्यथा तन्मूलभूतः पुरुषार्थोऽन्यो निषेधः कल्प्यः इति गौरवं प्रसज्येतेति पूर्वपक्षे, 'अनन्यलभ्य एव शब्दार्थः' इति न्यायाद्भावनैवाख्यातवाच्या, कर्ता त्वाख्यातवाच्यभावनाया अविनाभावादाक्षेपलभ्य एवेति न तत्र तस्य शक्तिः । “लः कर्मणि" इत्यादिस्मृतिरपि "द्वयेकयोः" इत्यनेनैकवाक्यतया तत्संख्यातवाचित्वपरैव । पचति देवदत्त इत्यादौ च गौः शुक्ल इतिवत् सामानाधिकरण्यं लक्षणयैवेति नाख्यातस्य कर्तृवाचित्वमिति कर्तुः श्रुतेरनुपस्थितत्वान्न पुरुषार्थता तस्य, किन्तु प्रकरणात् क्रत्वर्थतैवेतिनिर्णीतं कर्त्रधिकरणे। *आख्यातेनेति । तिडेत्यर्थः । परीक्षा दिभिः कर्त्तय्येवाख्यातस्य शक्तिबोधनात्-तस्मादेतद्दोषवारणाय कर्तृकर्मणोराख्यातवाच्यत्वमावश्यकम्। ननूक्तरीत्या कर्तुराख्यातार्थत्वे व्याकरणसङ्गतावपि दर्शपूर्णमासप्रकरणपठितस्य नानृतं वदेत्' इति निषेधस्य क्रत्वर्थत्वं न स्यात् । तथा च ऋतौ-अपभाषणे क्रतुवैगुण्यनिवारणार्थ प्रायश्चित्तानुष्ठानं न स्यादिति सकलमीमांसकशिष्टाचारविरोध इत्याह-*नन्वित्यादिना* । *त्वन्मते*-वैयाकरणमते । *क्रत्वर्थः*-क्रतूपकारकः । किमयं प्रतिषेधः पुरुषार्थ-आहोस्क्त् िक्रत्वर्थ इति संशये वदेदिति श्रुत्या कर्तुः पुरुषस्य प्रतिपादनात् पुरुषार्थः स्यात् , अनृतवदनकर्तुः पुरुषस्य नसमभिव्याहारादनिष्टसाधनता प्रवीयेत । तथा चानभ्याधीतस्य नानृतमिति निषेधस्याऽपि एतदेकवाक्यतया पुरुषार्थतव स्याल्लाघवात्, नतु तस्यान्यपदार्थत्वमपि, स्मार्तस्य श्रौतमूलत्वेन वैलक्ष्यण्यकल्पनायां गौरवात् । अनेनाख्यातेनेत्यादिना काधिकरणीयपूर्वपक्षानुवादः कृतः, तत्र हि-'अनन्यलभ्य एव शब्दार्थः' इति न्यायेन भावनाया अविनाभावात्कर्ता आक्षेपलभ्य एव, न तु तत्राख्यातस्य शक्तिः "लः कर्मणि" इति सूत्रंतु "कयोः" इति सूत्रैकवाक्यतया।आक्षिप्तकर्तृनिष्ठसंख्याबोधकं देवदत्तः पचति इत्यादौ सामानाधिकरण्यं तु 'गौः शुक्ल' इतिवत् । एवं श्रुत्या पुरुषस्यानुपस्थितत्वात् , न तस्य 'नानृतम्' इति निषेधस्य पुरुषार्थत्वं, किन्तु प्रकरणात् क्रत्वर्थत्वमिति निर्णीतम् । यदि Page #142 -------------------------------------------------------------------------- ________________ ११३ धात्वर्थनिर्णयः। द्धि क्रत्वर्थता, तच्च श्रुतिविरोधे बाध्यत इति चेद् ? न । दर्पणः ___ *तच्चेति । प्रकरणं चेत्यर्थः । *श्रुतिविरोध इति । निरपेक्षरवरूपश्रुति प्रातिकूल्य इत्यर्थः। तथाहि-श्रुत्यादयः षडिह विनियोजकाः। तत्र विरुद्धयोरकत्रोपनिपाते समुच्चयदौर्लभ्यादेकेनाऽपरस्य बाधो वक्तव्यः स च बलवता दुर्बलस्येति कस्य दौर्बल्यमित्याकाङ्क्षायां परदौर्बल्यप्रतिपादक, श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्' इति सूत्रं प्रणिनाय महर्षिजैमिनिः। श्रुत्यादीनां पठितानां समवाये एकत्रोपनिपाते पारदौर्बल्यमिति। पर एव पारः । उत्तरपठितम् । तथा चैषां मध्ये यदपेक्षया यत्परं तत् दुर्बलमित्यर्थः । तत्र हेतुमाह-अर्थविप्रकर्षादिति । अर्थस्य विनियोजकस्य लिङ्गादितो विप्रकर्षादुत्तरवर्तित्वात् । लिङ्गादेविलम्बेन पूर्वापेक्षया विनियोजकत्वागतेरिति यावत् । तत्र श्रुत्यादीनामुदाहरणानि निरपेक्षाण्येव स्युः । इतरप्रामाण्याऽनधीनप्रामाण्यकत्वं च निरपेक्षत्वम् । यथा-'ब्रीहीनवहन्ति' इति । अत्र क्रियाजन्यफलभागित्वं कर्मत्वं बोधयन्ती द्वितीयाश्रुतिरितरनिरपेक्षैव व्रीहीणामवघातशेषित्वं प्रतिपादयति॥१॥ अर्थविशेषप्रकाशनसामर्थ्य लिङ्गम् । यथा-'बहिर्देवसदनं दामि' इति । अत्र लवनार्थप्रकाशकतया लवनस्य विनियोगः ॥२॥ __ परस्पराकाङ्क्षावशादेकस्मिन्नर्थे पर्यवसन्नानि पदानि वाक्यम् । यथा 'देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्' 'अग्नये त्वा जुष्टं निर्वपामि' इति। अत्र मन्त्रलिङ्गेन निर्वापे प्रयुज्यमानस्य समवेताऽर्थभागस्यैकवाक्यताबलेन, 'देवस्य त्वा' इत्यादिभागस्यापि तत्रैव विनियोगः॥३॥ परीक्षा भवता कर्तुराख्यातवाच्यता स्वीक्रियते, तदातु पुरुषार्थत्वं स्यादिति भावः । *श्रुतिविरोध इति । अत्र श्रुतिशब्दो निरपेक्षरवपरः । निरपेक्षो रवःश्रुतिरिति तैः कथनात् । "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्"इति जैमिनिसूत्रं हि प्रकरणस्य दौर्बल्यबोधकम् । श्रुत्यादीनां पठितानामेकत्र समवाये एकत्र समवधाने परस्यैतत्सूत्रपठितेषु परस्य दुर्बलत्वमिति तदर्थः । परस्य दुर्बलत्वे हेतुरर्थविप्रकर्षादित्यर्थस्य विनियोज्यस्य विप्रकर्षाद्दूरवर्तित्वात् । लिङादेविलम्बेन विनियोजकत्वावगतेरिति यावत् । _ आद्यस्योदाहरणं यथा-ब्रीहीनवहन्तीति । अत्र द्वितीयाश्रुत्या निरपेक्षतया वीहीणामवघातशेष प्रतिपादयति ॥१॥ लिङ्गमर्थविशेषप्रतिपादनसामर्थ्यम् , यथा 'बर्हिदेवसदनं दामि' इत्यादि। अत्र दामीत्यस्य लवनरूपार्थप्रकाशकतया लवनेऽस्य विनियोग इति वाच्यम् ? परस्पराकासावशादेकस्मिन्नर्थे पर्य्यवसितानि पदानि यथा-"अग्नये त्वा जुष्टं निर्वपामि' इति मन्त्रस्य निर्वपामीति मन्त्रलिङ्गन निर्वापे प्रयुज्यमानस्य समवेतार्थे भागस्यैकताबलेन "देवस्य त्वा सवितुः प्रसवेऽश्विनोः” इत्यस्याऽपि तत्रैव विनियोगः॥२-३॥ १५ द० प० Page #143 -------------------------------------------------------------------------- ________________ ११४ दर्पणपरीक्षासहिते भूषण सारे - दर्पण: लब्धवाक्यभावानां पदानां कार्य्यान्तरापेक्षावशाद्वाक्यान्तरेण सम्बन्ध आकाङ्क्षापर्यवसन्नं प्रकरणम् । यथा - 'समिधो यजति' इति । अस्य हि दर्शपूर्णमासे कथम्भावाकाङ्क्षायाः प्रकरणपाठवशाच्छेषत्वम् ॥ ४ ॥ स्थानम् - क्रमः । स चानेकस्याम्नातस्य सन्निधिविशेषाम्नानम् । यथा - दधिरसीत्यत्राग्नेयोपांश्वग्नीषोमीययागाः क्रमेण पठिताः । एवं मन्त्रभागेऽपि क्रमेणानुमन्त्रत्रयं पठितम् । तत्राग्नेयाग्नीषोमयोर्द्वयोर्लिङ्गेनैव विनियोगसिद्धिः । ' दधिरसिः' इत्यत्र तु न लिङ्गादिविनियोजक, किन्तु यस्मिन् प्रदेशे ब्राह्मणे उपांशुयागविधानं तस्मिन् प्रदेशे मन्त्रेऽप्यस्य पाठ इति क्रमादुपांशुयागानुमन्त्रेण तस्य विनियोगः ॥ ५ ॥ समाख्या-योगबलम् । तथा हौत्रमौद्गात्रम्' इत्यादि । तत्र हि होतुरिदं हौत्रमित्यादियोगबलेन हौत्रादिसमाख्यातानि कर्माणि होत्रादिभिरनुष्ठेयानीति ॥ ६ ॥ विरोधोदाहरणादि यथा- - श्रुतिलिङ्गयोर्विरोधे श्रुतिर्बलीयसी, लिङ्ग तु दुर्बलम्, अर्थविप्रकर्षात् । यथा - ' कदाचनस्तरीरसी' इत्यादिकाया ऋचो विनियोजिका श्रुतिः 'ऐन्द्रया गार्हपत्यमुपतिष्ठते' इति इन्द्रप्रकाशनसामर्थ्याल्लिङ्गादिन्द्रोपस्थापने विनियोगोऽस्याः प्रतिभाति । अन्यप्रकाशकस्याऽन्यत्र विनियोगायोगात् । श्रुत्या गाईपत्योपस्थाने स प्रतीयते । गार्हपत्यमिति द्वितीया हि कर्मविभक्तितया कामपि क्रियामपेक्ष्य प्रकृत्यर्थस्य शेषित्वं बोधयति । क्रियाजन्येष्टफलभागित्वस्य तदर्थत्वात् । एवमैन्द्रयेति तृतीयाप्रकृत्यर्थस्य शेषत्वं क्रियां प्रति साधकतमत्वरूपकरणत्वस्य तदर्थ - त्वात् । तदनयोर्विरोधः । तत्राऽयं पूर्वपक्षः, सामर्थ्यज्ञानमपेक्ष्य श्रुतिर्विनियोजिका । न ह्यसमर्थं श्रुतिसहस्त्रमपि विनियोक्तुमलम् । अतो लिङ्गस्य बलवत्त्वादिन्द्रोपस्थानेऽस्या विनियोगः । तदनुरोधितया द्वितीया सप्तम्यर्थतया व्याख्येया । गार्हपत्यसमीपे इन्द्रोऽनया उपस्थातव्य इत्यर्थः पर्यवस्यतीति । सिद्धान्तस्तु श्रुतिः स्वरूपसत्सामर्थ्यमपेक्षते, न तु तज्ज्ञानमपि । येन लिङ्ग बलवद्भवेत् । तस्य च पूर्वसत एव विनियोगोऽन्यथानुपपत्त्या ज्ञानं पश्चादुपजायते । लिङ्ग तु विनियोजने श्रुतिमपेक्षते । न ह्यनयेन्द्र उपस्थातव्य इति लिङ्गात् स्वरसतः प्रतीयते, किन्त्विन्द्र एतादृगित्येतावन्मात्रम् । तथाच प्रकरणाम्नानसामर्थ्यादिन्द्र परीक्षा प्रकरणन्तु — लब्धवाक्यभावानां पदानां कार्य्यान्तरापेक्षया वाक्यान्तरेणाकाङ्ख्या सम्बन्ध एव । यथा-समिधो यजतीति, अस्य कथं भावाकाङ्क्षा दर्शपौर्णमासप्रकरणपाठवशात्तच्छेषत्वम् ॥ ४ ॥ स्थानं - क्रमः । स च पाठसादृश्यात्, पाठसादृश्यं च द्विविधम्, यथासंख्यपाठेन संनिधिपाठेन च । यथा - ऐन्द्रानमेकादशकपालं निर्वपेत् । वैश्वानरं द्वादशकपालमिति रीत्या क्रमविहीनेष्टिषु - 'इन्द्राग्नीरोचनादिव' इत्यादीनां याज्यानुवाक्यानुमन्त्राणां यथासंख्यं प्रथमस्य प्रथमम्, द्वितीयस्य द्वितीयमिति । एवं यो विनियोगः स यथासंख्यपाठात् प्रथमपठितमन्त्रस्य कैमर्थ्याकांक्षायां प्रथमतो विहितं कर्मैव प्रथममुपतिष्ठते समानदेशत्वादिति ॥ ५ ॥ Page #144 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । ११५ 'तिङर्थस्तु विशेषणम्' इत्यनेन परिहृतत्वात् । नहि गुणभूतः कर्ता निषेधं स्वाङ्गत्वेन ग्रहीतुमलम् । भावना तु प्रधानं तं ग्रहीतुं समर्थेति प्रकरणा दर्पणः प्रकाशनसमर्थाया ऋचोऽन्यथानुपपत्त्या लिङ्गेनाऽनयेन्द्र उपस्थातव्य इति श्रुतिः कल्पनीया, यथा विनियोगो भवेत् । ततो यावल्लिङ्गं श्रुतिकल्पनाय प्रक्रान्तव्यापार, तावत् प्रत्यक्षश्रुत्या विनियोगः सिद्ध इति प्रकरणे निराकाङ्क्षे कयानुपपत्त्या श्रुतिः कल्पनीया । तस्माच्छ्रुतेर्बलवत्त्वात्तदनुगुणतया सामर्थ्यं नीयमाने इन्द्रपदं परमश्वर्यायवाचकतया गार्हपत्यतात्पर्य्यकमित्यवधार्य्यत इति । विरोधोदाहरणान्तराणित्वन्वत्यतोऽवधार्य्याणि, गौरवभयान्नेह प्रपञ्चितानि । तदयं निर्गलितोऽर्थः - श्रुतिर्निरपेक्षत्वात् सर्वतो बलवती, लिङ्ग तु विनियोगे एकान्तरितत्वाद् द्व्यन्तरितवाक्याद् बलवत् । एवं वाक्यादावप्यूह्यम् । समाख्या तु पञ्चान्तरितत्वात्सर्वतो दुर्बलेति । प्रकृते आकाङ्क्षापर्यवसन्नप्रकरणेन वाक्यं कल्पनीयम् । तेन च लिङ्ग, लिङ्गेन श्रुतिस्तयाऽनृतवदन निषेधस्य क्रतौ विनियोगः । यावच्च प्रकरणं वाक्यकल्पनायै प्रक्रान्तव्यापारं तावत्प्रत्यक्षया कर्त्रर्थे काख्यातश्रुत्या तस्य पुरुषार्थत्वविनियुक्त क्तमपि वाक्याद्यत्किञ्चित्कारकमिति श्रुतिविरोधे बाध्यत इत्यस्यार्थः । लिङ्गादीनामुक्तप्रकारेण श्रुत्यपेक्षया दुर्बलत्वादिति भावः । 1 समाधत्ते—*तिङर्थस्तु विशेषणमिति ॥ तथाचाख्यातश्रुत्या कर्तुरुपस्थापनेऽपि न भावनावत् तस्य प्रधान्येन भानं, येन निषेधस्य पुरुषार्थता शङ्कयेत, किन्तु विशेपणतयैव तथोपस्थितस्य च विशेषणाऽन्तरनैराकाङ्क्ष्येण कर्त्तुः श्रौतननर्थ सम्बन्धाभावान्नाऽत्र श्रुत्या प्रकरणबाध इत्याशयं विशदयति-स्वाङ्गत्वेनेति । स्वविशेषणतयेत्यर्थः । नन्वेवं निषेधस्य क्वापि श्रौतपुरुषार्थता न स्यात् । 'न कल भक्षयेत्' इत्यत्राप्युक्तरीत्या कर्तरि नञर्थासम्बन्धेन श्रौतत्वात्, यदि च कर्तुरप्राधान्येऽपि कर्तृवृत्तिभावनायाः प्राधान्यात्तस्या नञर्थाऽन्वये तद्द्वाराख्यातार्थकर्त्तुरप्यन्वयान्न तस्य श्रौतपुरुषार्थत्वानुपपत्तिरिति विभाव्यतेः तदा प्रकृतेऽपि तुल्यमत आहपरीक्षा समाख्यावाचको यौगिकः शब्दः । यथा - हौत्र मौद्गात्रमिति । अत्र होतुरिदं हौत्रमिति योगबलेन हौत्रादि समाख्यानि कर्माणि हौत्रादिभिरनुष्ठेयानीति ॥ ६ ॥ *परिहृतत्वादिति । यदुक्तं तत्प्रकारं दर्शयति-नहीति । यदि कर्त्ता प्रधानं स्यात्तदा निषेधस्य पुरुषार्थता शुडूयेत, तथा तु नास्ति ; किन्तु विशेषणमेव ; तस्य च विशेषणान्तरनैराकांक्ष्येण कर्तुः श्रौतनञर्थसम्बन्धाभावात् । *स्वाङ्गत्वेन – स्वविशेषणतया । *तम् — निषेधम् । *प्रकरणात् क्रतुप्रकरणात् । नन्वेवं 'न (१) कलजं भक्षयेत्' इत्यादिनिषेधस्यापि पुरुषार्थत्वं न स्यात्पुरुषस्य कर्त्तु विशेषणत्वात् । यदि च कर्त्तुरप्राधान्येऽपि कर्तृवृत्तिभावनायाः प्राधान्यात्तस्या नञर्थान्वये तद्वारा ( १ ) कलअं च विषलिप्तशत्रहतमृगमांसमिति यावत । उक्तं च विषलिप्तेन शस्त्रेण यो मृगः परिहन्यते । अभदयं तत्तत्कलअस्य तन्मासमिहेष्यते इति । Page #145 -------------------------------------------------------------------------- ________________ ११६ दर्पणपरीक्षासहिते भूषणसारेत् क्रत्वर्थतैव । अस्तु वा क्रतुयुक्तपुरुषधर्मः । अनुष्ठाने विशेषाभावात् । “जअभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू"इति वाक्योक्त दर्पणः *अस्तुवेति। *अनुष्ठान इति* ॥ 'नाऽनृतं वदेत्' इति निषेधस्य क्रतुयुक्तपुरुषधर्मत्वे यजमानस्य प्राधान्यात्प्रधानीभूतकत्रेवानृतवदनं वयं स्यात् । क्रत्वर्थत्वे च यज्ञप्रवृत्तेन यजमानेन ऋत्विग्भिश्च वर्जनं सिध्यतीति विशेषात् कथमेतदिति वाच्यम् । श्रुतिप्रकरणाभ्यां क्रतुसम्बन्धपुरुषकर्तृकानृतवदनाभाव इति बोधेन क्रतुकर्तृकेतिबोधे मानाभाव इति क्रतुयुक्तेति वदतोऽभिप्रेतत्वादिति ।। ___ तत्र दृष्टान्तमाह-*मयि दक्षिक्रतू इति* । दर्शपूर्णमासप्रकरण एवैतन्मन्त्रवचनं श्रूयते-“जञ्जभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू" इति । तत्र किमेतन्मत्रवचनं शुद्धपुरुषधर्मः उत क्रतुयुक्तपुरुषसंस्कारकतया क्रत्वङ्गमिति सन्देहे, वाक्येन तावज्जञ्जभ्यमानपुरुषधमतयैवाऽयं प्रतीयते । कृत्प्रत्ययस्य शानचः कर्तृवाचकत्वात् । प्रकरणेन तु क्रत्वङ्गतयाः प्रकरणं च वाक्यापेक्षया दुर्बलमिति पुरुषधर्मतैव युक्ता। सत्यां च फलाकांक्षायां "प्राणापानावेवात्मानं धत्ते” इति वाक्यशेषे श्रुतस्य फलस्य रात्रिसत्रन्यायेनकल्पनादिति पूर्वपक्षे, सिद्धान्तः-वाक्यप्रकरणयोर्विरोधे बाध्यबाधकभावो, नत्वत्रास्ति विरोधः। जञ्जभ्यमानपदस्य कर्तवाचकतया तादृशपुरुषस्य क्रतावपि सत्त्वात् तत्संस्कारमुखेन क्रत्वङ्गतासम्भवात् । एवञ्चाऽर्थवादोपस्थितफलकल्पनागौरवमपि नेति। तथाच बलाबलचिन्ताया विरोध एवौचित्येन जञ्जभ्यमानवाक्या परीक्षा कर्तुरप्यन्वय इत्येतावतैव पुरुषार्थत्वमिति ब्रूषे; तदा प्रकृतेऽपि सममित्याह-*अस्तु वेति । ऋतुयुक्तपुरुषसंस्कारद्वारा क्रतुयुक्तपुरुषधर्मः । न च क्रतुयुक्तः प्रधानीभूतो यजमानस्तेनैव प्रधानतयाऽनृतं वर्जनीयमिति कर्तुंर्वाच्यत्वे समायाति भावनाया वाच्यत्वे तु प्रधानन्यायानवतारात्सर्वेरिति विशेषःप्राप्नोतीति वाच्यम् । श्रुतिप्रकरणाभ्यां क्रतुसम्बद्धपुरुषकर्तृकानृतवदनाभावबोध एव लभ्यते न तु क्रतुकर्तकर्त्तक इत्याशयात्। *अनुष्ठाने*-क्रत्वङ्गक्रियाकरणे जञ्जभ्यमानवाक्यवदिति । यथा दर्शपूर्णमासप्रकरणपठितमिदं वाक्यम् , तत्र 'जञ्जभ्यमान' इत्यत्र कतरिशानच् प्रत्यय इत्यस्य शुद्धपुरुषसंस्कारकत्वमुत ऋतुसम्बद्धपुरुषसंस्कारकतया क्रत्वङ्गत्वमिति सन्देहे, अनेन वाक्येन तावज्जञ्जभ्यमानपुरुषधर्मतैव प्रतीयते, प्रकरणेन तु क्रत्वङ्गत्वमिति विरोधस्य सत्वाकेवलपुरुषसंस्कारकत्वमिति पूर्वपक्षे सिद्धान्तितम्। यत्र विरोधस्तत्र श्रुतिप्रकरणयोबर्बाध्यबाधकभावः । यत्र तु न तथा तत्रोभयोः समावेश एव, न तु बाध्यबाधकभाव इति प्रकृते जाभ्यमानपदस्य कर्तृवाचकतया तादृशपुरुषस्य क्रतावपि सत्वेन तत्संस्कारमुखेन क्रतुसंस्कारकत्वमिति तथा प्रतीतेऽपीति भावः । तदुक्तम्भट्टपादैः स्त्र्युपायमांसभक्षादिपुरुषार्थत्वमपि श्रितः। प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ॥ इति स्त्र्युपायः-स्त्र्युपगमनं, प्रतिषेधो 'न स्त्रियमुपेयात्' 'न मांसमश्नीयात्! 'नानृतं वदेत्' इति प्रतिषेधः । Page #146 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । मन्त्रविधिवदित्यादिभूषणे प्रपञ्चितम् । नन्वाख्यातस्य भावनायामसाधुत्वे ततस्तद्बोधो न स्यात्, साधुत्वज्ञानस्य शाब्दबोधहेतुत्वादित्यत आह - *बोध इति ॥ असाधुत्वेऽपि साधुत्वभ्रमाद् बोधोऽस्तु नाम, अपभ्रंशवत् । असाधुत्वन्तु स्यादेवेति भावः । वस्तुतः साधुत्वज्ञानं न हेतुस्तद्व्यतिरेकनिर्णयोऽपि न प्रतिबन्धक इति 'असाधुरनुमानेन' इत्यत्र वक्ष्यामः ॥ २१ ॥ ११७ रङ्गोजि भट्टपुत्रेण कौण्डभट्टेन निम्मिते । पूर्णो भूषणसारेऽस्मिन् धात्वाख्यातार्थनिर्णयः ॥ १ ॥ इति श्रीकौण्डभट्टविरचिते वैयाकरणभूषणसारे धात्वर्थाख्यातसामान्यार्थनिर्णयः समाप्तः ॥ १ ॥ दर्पणः ऽनुवचनस्य वाक्यप्रकरणाभ्यां क्रतुयुक्तपुरुषधर्मतावत् प्रकृतेऽप्यनृतवदननिषेधस्य श्रुतिप्रकरणाभ्यां क्रतुसम्बन्धपुरुषधर्मतैवोचिता । उक्तञ्च भट्टपादैःस्त्र्युपायमांसभक्षा दिपुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयाद् ॥ इति भावः ॥ * प्रपञ्चितमिति ॥ प्रपञ्चस्तु उक्तः । ननु साधुत्वज्ञानं विनाऽपि शाब्दबोधोदयेन व्यभिचारात् कथमेतत् साधुत्वस्य शक्तत्वरूपताया निराकरिष्यमाणत्वाच्चात आह*वस्तुत इति । *तद्व्यतिरेकनिर्णय इति । असाधुत्वनिश्चये इत्यर्थः । तन्निश्चयेऽप्यपभ्रंशाद् बोधदर्शनात् । तथाचाख्याताद्भावनाबोधे बाधकाभाव इति भावः ॥ २१ ॥ इति भूषणसारदर्पणे धात्वाख्यातार्थनिरूपणम् ॥ १ ॥ परीक्षा मीमांसकः शङ्कते-नन्विति । साधुत्वज्ञानस्य शाब्दबुद्धिं प्रति कारणत्वमभ्युपेत्य साधुत्वभ्रमादित्युक्तम् । वस्तुतस्तदेव नेत्याह - * वस्तुत इति । ननु यत्संशयव्यतिरेकनिश्चयौ यदुत्पत्तिप्रतिबन्धकौ तन्निश्चयस्तद्धेतुरिति सामान्यतो व्याप्त्या साधुत्वनिश्चयस्य शाब्दबुद्धित्वावच्छिन्नं प्रति हेतुत्वादत आह-तद्व्यतिरेकनिर्णय इति । *न प्रतिबन्धक इति । तद्व्यतिरेकनिर्णयेऽप्यसाधोर्लोकिकैः प्रयुज्यमानाच्छाब्दबोधस्य दर्शनेन व्यभिचारात् असाधुत्वनिश्चयस्य प्रतिबन्धकत्वासिद्धावुक्तव्याप्त्यनवसर इति 1 भावः ॥ २१ ॥ इति श्रीमद्भूषणसारटीकायां परीक्षानामिकायां धात्वाख्यातार्थविवरणं समाप्तम् । .... Page #147 -------------------------------------------------------------------------- ________________ अथ लकारार्थनिर्णयः। अथ प्रत्येकं दशलकाराणामर्थे निरूपयतिवर्तमाने परोक्षे श्वो भाविन्यर्थे भविष्यति । विध्यादौ प्रार्थनादौ च क्रमाज्ज्ञेया लडादयः ॥२२॥ लडादयष्टितः षट् क्रमेणैवर्थेषु द्रष्टव्याः। तथाहि-वर्तमानेऽर्थे लट् । “वर्तमाने लट्" (पा०सू० ३।११-३) इति सूत्रात् । प्रारब्धा दर्पणः अथ लकारार्थनिर्णयः। लकारसामान्याथें निरूपिते तद्विषयकजिज्ञासानिवृत्ताववश्यवक्तव्यत्वज्ञानाद्विशेपार्थनिरूपणेऽवसरस्य सङ्गतित्वं सूचयन्नाह-*प्रत्येकमिति । *दशलकाराणामिति । लट् लिट् इत्यादिक्रमेण पठितानामित्यर्थः । आदेशानां वाचकत्वमिति पक्षेऽपि तिङाचादेशनिष्ठां बोधकतारूपां शक्ति लडादिष्वारोप्य तद्विधानात् तदर्थकत्वं तेषामनभिमतमिति भावः। ___ *प्रारब्धापरिसमाप्तत्वमिति । विनष्टा द्यवयवप्रागभावकत्वे सत्यनुत्पन्नध्वंसान्त्यावयवकत्वमित्यर्थः । भाविभूतक्रिययोरतिप्रसङ्गवारणाय क्रमेण पदद्वयम् । लक्ष्ये परीक्षा लकारसामान्यस्यार्थे निरूपिते तद्विषयकसामान्यार्थाजिज्ञासानिवृत्तौ विशेषार्थविषयकजिज्ञासोत्पत्ताववसरसङ्गत्या लकारविशेषार्थ निर्वक्ति-*वर्तमान इत्यादिना* । लडादयः षट् टितः क्रमाद्वर्त्तमानादिषु कालेषु द्रष्टव्या इत्यर्थः । नच वर्त्तमानत्वादिप्तीतिर्लकारादेशज्ञानादिति बोधकत्वरूपा शक्तिरादेशेष्वेवोचिता, एवं चैते षट् वर्तमानादिष्वित्यनुपपन्नमिति वाच्यम् ? शास्त्रीयानुवादवशात्तस्याः शक्तेलडादिष्वारोपेण विधानाभ्युपगमात् । *प्रारब्धपरिसमाप्तत्वमिति । अयं भावःवर्तमानत्वं न शब्दप्रयोधिकरणकालवृत्तित्वम् । तादृशदिनादिरूपकालमादाय विनष्टेऽपि पाके पचतीति प्रयोगापत्तिः । नापि तादृशक्षणवृत्तित्वम् , क्रियायाः पूर्वापरीभूतावयवकसमुदायरूपायास्तादृशैकक्षणवृत्तित्वासम्भवात्। किन्तु विनष्टप्रागभावकाद्यवयवकत्वे सति, अनुत्पन्नध्वंसान्त्यावयवकव्यापारसमुदायनिष्ठं तादृशशब्दप्रयोगाधिकरणबुद्धिस्थक्षणसमूहावयवाश्रयकालवृत्तित्वमेव विवक्षितमिति । नचैवमपि यत् किञ्चिदेकक्षणे तादृशसमूहाभावादनुपपत्तिरेवेति वाच्यम् । क्रियाया यत्किञ्चिदेकक्षणवृत्त्ययं पचेत् तादात्म्यारोपेण पचतीत्यादिव्यवहाराभ्युपगमात् । अत एव निवृत्तभेदादतिकथनमिति । यद्यपि "भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्य" इति निरुक्तभाष्ये प्रतिपादितमिति वर्तमानत्वादिकं क्रियाऽतिरिक्तमादाय कालवृत्ति निर्वक्तुमुचितम्, तथापि उपाधिमन्तरा तस्य निर्वक्तुमशक्यतया धातुवाच्यक्रियाभि Page #148 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः । परिसमाप्तत्वं, भूतभविष्यद्भिन्नत्वं वा वर्त्तमानत्वम् । पचतीत्यादावधिश्रयणाद्यधःश्रयणान्ते मध्ये तदस्तीति भवति लट्प्रयोगः । ११९ दर्पणः लक्षणं ग्राहयति - पचतीति । अधिश्रयणादीति । साध्यत्वप्रकारकप्रतीतिविषयपूर्वापरीभूतावयवसमुदास्यैव क्रियात्वादिति भावः । *तदिति । उक्तवर्त्तमानत्वमित्यर्थः । यद्यपि भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्येति निरुक्तभाष्यात् क्रियातिरिक्तकालस्यैव वर्त्तमानत्वादिकं प्रतीयते, तथापि निरुपाधिकस्य तस्य वर्त्तमानत्वादिना प्रत्येतुमशक्यत्वादुपाधिभूतक्रियामादायैव तत्र तत्त्वस्य वक्तव्यतयाssवश्यकत्वात् क्रियायामेव तत्त्वमुक्तमित्यवधेयम् । वस्तुतस्तु दण्डमुहूर्त्ताद्यात्मकः खण्डकाल एव वर्त्तमानत्वादिना लडादिवाच्यः । तद्गतं वर्त्तमानत्वं च तत्तच्छब्दप्रयोगाधिकरणत्वमेव तदादिन्यायेन तत्तच्छब्दप्रयोगाधिकरणत्वेनाऽनुगमाच्च न शक्त्यानन्त्यम् । यद्येवमपि तत्तत्त्कालत्वेन तत्तत्कालबोधस्यानुभवसिद्धानुपपत्तिरिति विभाव्यते; तदास्तु शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षिततत्तत्कालत्वावच्छिन्न एव लटः शक्तिः । क्रियारम्भात् पूर्व्वं समाप्त्युत्तरं चाऽधीते पचतीत्यादिप्रयोगापत्तिस्तु स्ववृत्तिप्रागभावाऽप्रतियोगिवृत्तित्वस्ववृत्तिध्वंसाऽप्रतियोगिप्रकृतक्रियाऽनुयो परीक्षा नक्रियामादायव काले वर्तमानत्वादिकं निर्वचनीयम्, तदपेक्षया तत्तद्धात्वर्थक्रियामादाय तन्निर्वचनीयमित्येवोचितम् । वस्तुतस्तु तत्तत्कालत्वेनोपाधिना वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितेन तत्तत्काल एव लडादीनां शक्तिः कल्प्यते । एवं च तदादिन्यायेन तदाख्याने सा । न च तत्कालत्वावच्छिन्नेष्वाद्यादिरूपे काले लडादीनां शक्तिरचेतादृशकालाधारकक्रियायां देवदत्ताश्रयकत्वमबाधितमादाय पचिक्रियाया आरम्भात्पूर्वं तादृशक्रियाध्वंसानन्तरं च पचतीतिप्रयोगापत्तिरिति वाच्यम् । कर्ता ह्याख्यातार्थः ; स च व्यापाराश्रय एव । तत्र व्यापारस्य धातुलभ्यत्वादनन्यलभ्यस्य तत्तच्छब्द प्रयोगकालावच्छिन्नव्यापारतावच्छेदकसम्बन्धावच्छिन्नाश्रयता या लडर्थतावच्छेदकता तया दोषाभावात् । एवं वर्तमानसामीप्यमपि लडर्थः क्वचित् । “वर्तमानसामीप्ये वर्तमानवद्वा" इति सूत्रात् । वर्तमानसामीप्यं चातीतानागतसाधारणम् । तच्च क्रियानिष्ठम् । प्रकृतशब्दप्रागाधिकरणक्षणध्र्वसाधिकरणक्षणोत्पत्तिकत्वप्रकृतशब्दप्रयोगाधिकरणक्षणवृत्तिध्वंसप्रतियोगिक्षणवृत्तित्वान्यतररूपम् । 'कदाऽऽयास्यसि' इत्युक्ते एष आगच्छामीत्युक्ते आये कदा गतोऽसीत्यादौ अन्त्यम्प्रतीयते । वर्तमानसामीप्यं च विवक्षाधीनं क्रियायां प्रधानभूतायां विशेषणतया भासते । निरुक्तवर्त्तमानसामीप्याश्रयगमनानुकूला क्रियेति बोधात् । *भूतभविष्यद्भिन्नत्वं वेति । अत्र वाकारोऽनास्थायां पूर्वापेक्षयाऽस्य गुरुत्वात् । एवं भूतत्वभविष्यत्वयोरप्येवं निर्वचनस्यैतत्तुल्यतया एतत्पक्षे कार्यमित्यन्योन्याश्रयापत्तिश्च स्यादितिपूर्वलक्षणमेव युक्तमिति । *मध्ये तदस्तीति । मध्यकालवृत्तिव्यापारे निरुक्ते वर्तमानत्वमस्तीत्यर्थः । Page #149 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - आत्माऽस्ति पर्वताः सन्तीत्यादौ तत्तत्कालिकानां राज्ञां क्रियाया अनित्यत्वात्तद्विशिष्टस्योत्पत्यादिकमादाय वर्त्तमानत्वमूह्यम् । उक्तं हि भाष्ये - " इह भूतभविष्यद्वर्त्तमानानां राज्ञां क्रिया स्तिष्ठतेरधिकरणम्" इति १२० दर्पण: गिकत्वाभ्यां विशेषितेन आधेयतासम्बन्धेनाऽन्वयनियमोपगमेन वारणीया । यत्र तु खण्डक्रियैव धात्वर्थस्तत्र शुद्धाधेयतासम्बन्धेनैव तदन्वयान्नाऽऽत्मास्तीत्यादा दोष इति । भूतभविष्यद्भिन्नत्वं वेत्यत्र वाकारोऽनास्थायाम् । पूर्वलक्षणापेक्षयाऽस्य गुरुत्वाद्भविष्यत्त्वस्यापि वर्त्तमानत्वघटितत्वेन तद्ग्रहे, भविष्यत्वग्रहे च तदवच्छिन्नभिन्नत्वरूपवर्त्तमानत्वग्रह इत्यन्योऽन्याश्रयाच्च । एवं भूतत्वमादायाप्यन्योन्याश्रयो द्रष्टव्यः । ननु सत्ताश्रयत्वादीनां धात्वर्थत्वे तत्राऽसङ्गतिः तेषामखण्डत्वेनाऽवयवघटितोक्तलक्षणवर्त्तमानत्वासम्भवादत आह-आत्मास्तीति । अनित्यत्वादिति । सावयवत्वेन प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वादित्यर्थः । तद्विशिष्टस्यानित्यराजक्रियादिविशिष्टसत्तादिरूपार्थस्येत्यर्थः । तथाच केवलसत्तादिरूपार्थे तदसत्त्वेऽप्युक्तविशेषणविशिष्टे तस्मिन् विशेषणांशमादाय तत्सत्त्वं नाऽनुपपन्नमिति भावः । यद्वा तद्विशिष्टेत्यस्य तदा अव्यहितत्वादनित्यत्वस्यैव परामर्शात् तादृशक्रियागतं वर्त्तमानत्वमारोप्य सत्ताद्यर्थको लडित्यर्थः । तत्र स्वोत्प्रेक्षितत्वं निरस्यति-उक्तं हीति । तिष्ठतेरधिकरणमिति । आधेयतासम्बन्धेन तादृशक्रियात्मककालविशिष्टत्वात् तासामिति भावः । अनेन साधुत्वं लभ्यते । लक्षितकालस्येव वस्तुतस्त्वत्यादिना उक्तकल्पस्यैव क्रियायामाधेयतयान्वयलाभात् । परीक्षा नन्वात्मास्ति पर्वताः सन्तीत्यादौ प्रधानीभूता याssत्मधारणानुकूलक्रिया व्यापारभूता तस्यां निरुक्तप्रारब्धापरिसमाप्तत्वं नास्तीति कथं लटः साधुत्वमत आह*आत्माऽस्तीति । * राज्ञामिति । इदमुपलक्षणं यस्य कस्यचित् क्रियायाः (१) । राज्ञामिति तु राज्ञः प्राधान्यात्तदुक्तिः । अनित्यत्वादिति । राजादिकर्तृकक्रियायां प्रागभावप्रतियोगित्वध्वंसप्रतियोगित्वरूपमनित्यत्वमस्तीति प्रारब्धापरिसमाप्तत्वस्य वर्तमानत्वस्य सत्वादित्यर्थः । तद्विशिष्टस्य * - राजा दिक्रियाविशिष्टस्य । अयम्भावः—आत्मास्तीत्यादौ धातूनामनेकार्थत्वाद्वाजादिकर्तृकक्रियाविशिष्टा आत्मधारणरूपफलानुकूलव्यापाररूपा क्रिया धारणार्थः । एवं च विशेष्यतया भूतक्रियाया अनित्यत्वात्तद्विशिष्टस्याप्यनित्यत्वमितिनिरुक्तवर्तमानत्वस्य सम्भव इति । उक्तार्थे भाष्यकारसम्मतिमाह — उक्तञ्चेत्यादिना । राजा तिष्ठतीत्यादौ स्वतो वर्तमानत्वस्य सम्भवः । आत्मा तिष्ठति, पर्वतास्तिष्ठन्तीत्यादौ तु राजादिक्रियामादायोक्तरीत्या वर्तमानत्वम् । *तिष्ठतेरिति । स्थित्यादेरप्युपलक्षणम् । एवञ्च राज्ञः स्थितिर्भूतादिभेदेन भिन्ना, आत्मादिस्थितेभेदिका, अस्मिन्नर्थे हरिसम्मतिमप्याह 1 ( १ ) अधिकरणमिति शेषः । Page #150 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः। १२१ परतो भिद्यते सर्वमात्मा तु न विकम्पते । पर्वतादिस्थितिस्तस्मात् पररूपेण भिद्यते ॥ इति वाक्यपदीये च । एवम् "तम आसीत्" "तुच्छेनाभ्यपिहितं यदासीत्। "हमेकः प्रथममासम् , व मि च भविष्यामि च" इत्यादिश्रुतयोऽपि योज्याः। तच्च वर्तमानत्वादि लडादिभिर्योत्यते । क्रियासामान्यवाचकस्य तद्विशिष्टे लक्षणायां लडादेस्तात्पय्यंग्राहकत्वेनोपयोगात् । दर्पणः *परतो भिद्यते इति । सर्व पच्यादिधात्वर्थसामान्यं परतः-स्वाऽपेक्षयाऽन्येन वर्तमानत्वादिना । भिद्यते*-व्यावर्तते । आत्मास्तीत्यत्रात्मादिपदमात्मसत्ताधर्थक न विकल्पते सनातनत्वेन निरवयवत्वादुक्तविशेषणसम्बन्धाभावेन भेदाऽनुमितिविषयो न भवतीत्यर्थः । तथाचाऽत्मास्तीति प्रयोगाऽनुपपत्तिरिति पूर्वार्द्धार्थः । समाधत्ते-*तस्मादिति । विशेषाऽतिरिक्तपदार्थस्य स्वतो व्यावृत्तत्वासम्भवादित्यर्थः । पर्वतादीत्यादिनाऽत्यादिपरिग्रहः। _*पररूपेणेति । परस्य राजक्रियादिरूपार्थस्य, रूपेण-धर्मेण वर्तमानत्वादिना भिद्यते इत्युक्त एवार्थः। *तम इत्यादि । तम आसीदित्यादयो भूतक्रियागतभूतत्वारोपात् । *भविष्यामि चेति । भाविक्रियागतभविष्यत्त्वारोपाच्च योज्या इत्यर्थः । पक्षद्वयस्यैवाऽऽकरारूढतां प्रदर्शयन् प्रथमद्योतकत्वपक्षे उपपत्तिमाह-*तच्चेति। *क्रियासामान्येति । कालसामान्यवृत्तिक्रियावाचकस्येत्यर्थः । ___ *तद्विशिष्टे* । वर्तमानकालादिविशिष्टे, वर्तमानत्वादिविशिष्टे वा व्यापारे इत्यर्थः । लडादेरित्यादिना लिडादिपरिग्रहः । *उपयोगादिति । स च प्राक्प्रतिपादितः । तथाच लडाद्यादेशत्वेन तिबादीनां वर्तमानत्वादिद्योतकत्वान्नापाक्षीदित्यादा वर्तमानक्रियाप्रतीतिः । क्रियासामान्यशक्तधातोस्तत्तद्विशिष्टे लक्षणयैव तत्तद्विशिष्टक्रियाबोधोपपत्तौ पृथग्वर्त्तमानत्वादा तेषां शक्तिकल्पने गारवादिति भावः । वाच परीक्षा *परत इत्यादिना । आत्मा-विशेष्यतया भासमानम् । न विकम्पते-न तस्य रूप भिन्नं भवति । *तस्माद*-विशेष्यस्य स्वतो व्यावृतत्त्वासम्भवात् । ____ *पररूपेणेति । परस्य राजादेर्या क्रिया तस्या यद्रूपं तद्धर्मो वर्तमानत्वादिस्तेन भिद्यत इत्यर्थः। एवं वर्तमानत्ववभूतत्वभविष्यत्वविषयेऽपि तथैव भूतत्वं भविव्यत्वं चोपपादनीयम्। - एवमेव श्रौतप्रयोगस्याप्युपपत्तिः कार्येत्याह-*तुच्छेनेति । *तुच्छेन-अज्ञानेन। प्रभुनित्यमात्मस्वरूपम् । *अभ्यपिहितम्*-आवृत्तस्वरूपम् यदासीदित्यर्थः। ___ नासम् अत्र भूतत्वस्य, भवामीत्यत्र निरुक्तवर्तमानत्वस्य । यदुक्तं दशलकाराणामर्थ इति तत्राद्यशब्दो न वाच्यार्थपरः, किन्तु द्योत्यार्थपर इत्याह-*तच्चेति । *वाचकस्येति । धातोरिति शेषः । तद्विशिष्टे*-वर्तमानत्वादिविशिष्टे । *लडादे:*-लडाधादेशस्य । *तात्पर्यग्राहकत्वेन*-इत्यनेन द्योतकत्वं स्पष्टतयैवोक्तम् । १६ द० ५० Page #151 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - अन्वयव्यतिरेकाभ्यां तद्रूपं लडादिवाच्यमेव । अन्यथा प्रत्ययानां वाचकत्वविलोपापत्तिरित्यपि पक्षान्तरम् । १२२ लिडर्थमाह-परोक्षे इति । "परोक्षे लिट्” (पा०सू०३।२।११५) इतिसुत्रात् । कालस्तावद्यतनानद्यतनभेदेन द्विविधः । द्विविधोऽपि भूतभविष्यद्रूपः । तत्रानद्यतने भूते परोक्षे लिडित्यर्थः । तेनाद्यतने भूते, अनद्यतने भविष्यति, भूतेऽप्यपरोक्षे च न लिट्प्रयोगः । परोक्षत्वं चसाक्षात्करोमीत्येतादृशविषयताशालिज्ञानाविषयत्वम् । दर्पणः कत्वपक्षमवलम्ब्याऽऽह - *अन्वयव्यतिरेकाभ्यामित्यादि । I नच कौण्डिन्यन्यायात् कर्त्राद्यर्थबाधः, शक्तताऽवच्छेदकभेदात् । किञ्चैवं “लः कर्मणि" इति सूत्रं निरवकाशं स्यात् । स्थलान्तरेऽपि विध्याद्यर्थैर्बाधसम्भवादितिभावः । *अन्यथा*—अन्वयव्यतिरेकयोः शक्त्यग्राहकत्वे । *विलोपापत्तिरिति । सर्वत्र प्रकृत्यैव तत्तत्प्रत्ययार्थत्वाभिमतबोधसम्भवादिति भावः । अधिकं सुबर्थनिर्णये वक्ष्यते । *अनद्यतने भूत इति । “भूते" ( पा० सू० ६।२।४ ) इति “अनद्यतने लड्” (पा० सू० ३।२।१११ ) इति सूत्राभ्यां तत्तत्पदानुवुत्तिरिति भावः । *न लिट्प्रयोग इति । उक्तार्थस्य बाधात् पपाचेत्यादिजबोधानन्तरमनद्यतनत्वादिसन्देहाऽनुदयाद् भूतत्वादिवत्तयोरपि तद्वाक्यजत्रोधे क्रियांशे विशेषणतया भानमभ्युपेयम् । तच्च वाचकतां द्योतकतां वा विनाऽनुपपन्नमिति लिटस्तदभ्युपगम आवश्यक इति भावः । ननु परोक्षत्वं प्रत्यक्षान्यज्ञानविषयत्वम् । तथाच प्रत्यक्षक्रियायामपि श्रुतानुमितत्वयोः सत्त्वात् पपाचेत्यादिप्रयोगापत्तिरत आह-परोक्षत्वञ्चेति । यथाश्रुतप्रत्यक्षाविषयत्वस्योपनीतक्रियायामभावेन तत्र पपाचेत्यादिप्रयोगानुपपत्तिरत आह—*साक्षात्करोमीति । साक्षात्करोमीत्येतत्प्रतीतिसाक्षिकलौकिकविषयत्वाभा परीक्षा 1 1 अथ लडादीनां वर्तमानत्वादिवाचकत्ववादिनो मतमाह - अन्वयेत्यादिना । कर्त्रा - द्यर्थबाधस्तु वक्तुमशक्यः । “लः कर्मणि” इति सूत्रारम्भसामर्थ्यात् । शक्ततावच्छेकभेदाच्च । अन्यथा विध्याद्यर्थैरपि बाधापत्तिरितिभावः । अन्यथा - शक्तिग्राहकयोरन्वयव्यतिरेकयोरनङ्गीकारे । एतत्पक्षे वर्तमानलस्य प्रत्ययार्थत्वेऽपि प्रत्ययार्थः कर्ता यथा भावनायां विशेषणं भवति; तथा वर्तमानत्वमपि व्युत्पत्तिवैचित्र्यादिति बोध्यम् । *विलोपापत्तिरिति । सर्वत्रैव लक्षणया प्रकृत्यर्थत्वस्योपपादनसम्भवादिति भावः । *अनद्यतन इति* । “अनद्यतने लङ्” इति सूत्रादनद्यतन इत्यस्य तन्त्रानुवृत्तेः । भूते इति त्वधिकारब्धम् । * तेन* - - ' अनद्यतन' इति विशेषणेन । *प्रयोग इति । उक्तार्थस्य बाधादिति शेषः । लिटः प्रागुक्तार्थद्योतकत्वाभ्युपगमेन 'पपाच' इत्यादिवाक्यजन्यशाब्दबोधानन्तरं क्रियाविशेष्यको भूतत्वभावित्वप्रकारकोऽनद्यतनत्वापरोक्षत्वप्रकारको वा सन्देहोऽत एव न भवति । ननु परोक्षत्वं प्रत्यक्षान्यज्ञानविषयत्वम् । एवं च या क्रिया प्रत्यक्षा तस्यामप्यनुमित्साजन्यानुमितिविषयत्वसम्भवात् 'पाच' इति प्रयोगापत्तिरत आह-*परोक्षत्वं चेति । * इत्येतादृशविषयताशालि - एता Page #152 -------------------------------------------------------------------------- ________________ १२३ लकारार्थनिर्णयः। नच "क्रिया नामेयमत्यन्तापरदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुम्" . इतिभाष्यात् तस्या अतीन्द्रियत्वेन परोक्षे इत्यव्यावर्तकमितिशयम् । पिण्डीभूताया निदर्शयितुमशक्यत्वेऽप्यवयवशः साक्षात्करोमीति प्रतीतिविषयत्वसम्भवात् । मन्यथा 'पश्य मृगो धावति' इत्यत्र तस्या दर्शनकर्मता न स्यादिति प्रतिभाति। दर्पणः ववत्त्वमित्यर्थः । उक्तस्थले प्रत्यक्षविषयतासत्त्वेऽपि तादृशविलक्षणविषयत्वाभाववत्त्वमक्षुण्णमिति न तदनुपपत्तिः । प्रत्यक्षं तादृशशब्दप्रयोक्तुर्ग्राह्यम् । ननु दशमस्त्वमसीत्यादौ शब्दादप्यपरोक्षज्ञानस्य दृष्टत्वेन शब्दजन्यतादृशज्ञानविषयेन्द्रियासम्बन्धक्रियायां लिडनुपपत्तिरितिचे ? न । तत्रापि शाब्दज्ञानसहकृतमनसैव दशमसाक्षात्कारो, न तु शब्दात् । लौकिकविषयतानियामकेन्द्रियसंयोगादेरभावेन शाब्दे तद्वत्त्वाऽसम्भवात् । अत एव तत्त्वमसीत्याद्याचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने कारणमिति गीताभाष्ये उक्तमिति सर्व समञ्जसम्।। ___ "क्रिया नामेयम्" इति भाष्ये साऽसावनुमानगम्येति शेषः । क्रिया-साध्यत्वेन प्रतीयमाना, इयं पचतीत्यादिव्यवहारविषयीभूता। यतः पूर्वापरीभूता क्रमिकानेकव्यापारसमूहात्मिका, अतोऽत्यन्तापरदृष्टा-परेण प्रत्यक्षप्रमाणेनाऽत्यन्तमदृष्टा तज्जन्यज्ञानाविषया इति यावत् । पिण्डीभूतेति । अवयवानामाशुविनाशित्वेन पिण्डस्यैवाभावादिति भावः । ननु तर्हि तस्यां किं प्रमाणमत आह-*साक्षादिति । विक्लित्यादिरूपकार्याऽनुमेयेति । *अन्यथेति । क्रियाया अवयवशोऽपि साक्षात्काराऽनभ्युपगमे इत्यर्थः । *प्रतिभातीति । उक्तार्थ एवाऽस्मबुद्धिविषयो भवतीत्यर्थः। . ननु क्रियाऽवयवा अपि क्रियावदतीन्द्रिया एव ; यथा पचेल्दकसेचनादयोऽवयवास्तथा तेषामन्यवयवास्तेऽपि समूहरूपेणैव धातुवाच्याः। यस्तु क्षणाऽवच्छिन्नस्तद्रूपो __परीक्षा दृशानुव्यवसायनिरूपितविषयताशालि। एवं च प्रत्यक्षविषयक्रियायां तादृशानुव्यवसायनिरूपितविषयताश्रयप्रत्यक्षविषयत्वसत्वेन बाधान्न तत्र 'पपाच' इति प्रयोगः। ____ परोक्ष इति विशेषणस्य व्यावर्त्य दर्शयितुमाह-*नचेति । *अत्यन्तापरदृष्टा*परेण सर्वतो बलवता प्रत्यक्षेणात्यन्तमदृष्टा । अत्र हेतुमाह-पिण्डीभूतेति । समुदायभावमापन्नानामवयवानामाशुविनाशित्वेन पिण्डीभावस्यैवासम्भवादिति भावः । अत एवानुमानगम्येति भाष्ये उक्तम् । अनुमानं च तत्कृतदर्शनेन बोध्यम् । एकावयवस्य प्रत्यक्षत्वमादाय यथा-'पश्य मृगो धावति' इति प्रयोगस्तथा पच्धात्वर्थक्रियाया अपि यत्र प्रत्यक्षत्वम् । तत्र लिडन्तप्रयोगवारणाय परोक्षे इति विशेषणमित्याशयेनाह-पिण्डीभूताया इति* । *अन्यथा*-अवयवशोऽपि तस्याः साक्षात्कारानभ्युपगमे। Page #153 -------------------------------------------------------------------------- ________________ १२४ दर्पणपरीक्षासहिते भूषणसारे व्यापाराविष्टानां क्रियानुकूलसाधनानामेवात्र पारोक्ष्यं विवक्षितमतोनोक्तदोषः । 'अयं पपाच' इत्याद्यनुरोधाद् व्यापाराविष्टानामितीत्यपि वदन्ति । __ कथं तर्हि "व्यातेने किरणावलीमुदयनः" इति स्वक्रियायाः स्व दर्पणः ऽवयवः स तु न धातुवाच्यः, किन्त्ववसमूहाऽऽत्मनैव । आश्रितक्रमरूपत्वात्तद्वाच्यस्य । एवञ्च सदसद्रूपा क्रिया न सद्विषयेन्द्रियग्राह्या । तदुक्तम् क्रमात् सदसतां तेषामात्मना न समूहिनः । सद्वस्तुविषयैर्यान्ति सम्बन्ध, चक्षुरादिभिः॥ इति । अत्यन्तापरदृष्टेति भाष्यस्याऽप्यवयवरूपेण समूहात्मना चाऽदृष्टेत्येवाऽर्थः । अत एव "वर्तमाने लट्" इति सूत्रे भाष्ये, “अस्ति वर्तमानो कालः, परं त्वाऽऽदित्यगतिक्नोपलभ्यते” इत्युक्तम् । तस्य प्रत्यक्षेणेति शेषः।। ___ एवञ्च वर्तमानत्वाक्रान्तक्रियाणां स्पष्टमेवाऽप्रत्यक्षत्वं तत उपलभ्यते । 'पश्य मृगो धावति'इत्यादौ तु दृशिर्ज्ञानार्थको, धावतिर्वा फलपर इति न कश्चिद्दोषः । किञ्च अवयवस्य प्रत्यक्षत्वे, प्रकृतः कटमित्यादाववयवातीतत्वेन समुदायातीतत्वमादाय ताद्युपपादनवदवयवप्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमादाय, परोक्ष इत्यस्य चारितायें भाष्यस्थपूर्वपक्षस्य निईलत्वापत्तिरित्यपरितोषान्मतान्तरमाह-*व्यापाराविष्टानामिति* । एवञ्चातीतानद्यतनव्यापाराविष्टपरोक्षकर्तृकक्रियावृत्ते तोलिडिति, "परोक्षे लिट् ( पा०सू० ३।२।११५ ) इति सूत्रार्थः। - *अयं पपाचेति । तदानीं कर्तुरपारोक्ष्येऽपि व्यापारदशायां पारोक्ष्यसत्त्वादुक्तप्रयोगोपपत्तिरिति भावः । *इत्यपि वदन्तीति । मतान्तरानादरेऽत्रापि पूर्वोक्तार्थस्याऽऽपातरमणीयत्वं मन्वाना भाष्याऽनुसारिण इति शेषः॥ . ___ अत्राहुर्नेयायिकाः-पूर्वाऽपरीभूताऽवयवसमुदायात्मकपारिभाषिकक्रियावाच्यप्रत्यक्षत्वं युक्तमेव । समूहस्यैवाभावात् । तदवयवानामपि पारोक्ष्यं तु सर्वानुभवविरुद्धम् । तत्र प्रत्यक्षकारणचक्षुःसंयुक्तसमवायादेः सत्त्वात् । अन्यथा घटपुस्तकादेरप्यप्रत्यक्षत्वाऽऽपत्तिरिति बहुव्याकोपः। अधिश्रयणं साक्षात्करोमीति सार्वजनीनप्रतीतेश्च । प्रतीतेः पदार्थाऽसाधकत्वे व्यवहारमात्रोच्छेदाऽऽपत्तिश्च । “क्रिया नामेयं" इति भाष्य परीक्षा ___ यत्तु परोक्षत्वं च वक्तृभिन्नकर्तृकत्वम् । अत एव चैत्रसमक्ष मैत्रेण गमने कृतेऽपि 'मैत्रो जगाम' इति चैत्रीयप्रयोगस्योपपत्तिः । स्वकर्तृकगमनस्य चित्तविक्षेपादिना परोक्षत्वेऽपि स्वयं जगाम' इति न प्रयोग इति तन्नामाहं पपाचेति प्रयोगानुपपत्तेः। अस्मत्सामानाधिकरण्य एवोत्तमपुरुषविधाने वक्त्रभिन्नकर्तृकस्थबाधादिति । 'स्वयं जगाम' इत्यस्य प्रथमान्तप्रयोगस्य तु नापत्तिः। शेषत्वाभावात्। मतान्तरमाह-*व्यापारेति । केवलसाधनप्रत्यक्षत्वेऽपि नानुपपत्तिरित्याह*अयमिति । *कथन्तहीति* । स्वकर्तृकक्रियायाः स्वीयप्रत्यक्षविषयत्वसम्भवादिति भावः । Page #154 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः। १२५ प्रत्यक्षत्वादिति चेत् ? असङ्गतमेव। व्यासङ्गादिना स्वव्यापारस्य परोक्षत्वोपपादनेऽपि, बहुतरमनःप्रणिधानसाध्यशास्त्रार्थनिर्णयजनकशब्दरचनात्मके ग्रन्थेऽनद्यतनत्वाऽतीतत्वयोविस्तारक्रियायामसत्त्वेन दर्पणः स्यापि इयं सावयवपच्याद्यर्थरूपेत्यर्थान्न तद्विरोधः । सदसतां तेषामित्यस्य विद्यमानाविद्यमानावयवरूपाणामित्यर्थात् समूहात्मकक्रियायाः पारोक्ष्यप्रतिपादनपरत्वान्न हरिवाक्यविरोधोऽपि । अन्यथा क्रिया सदसपेति वदतोव्याघातः स्पष्ट एव । ____ कालस्य प्रत्यक्षत्वाभावेन तदनुवादकभाष्योपष्टम्भोपन्यासोऽपि नावयवानां पारोक्ष्योपपादकः । प्रकृतः कटमित्यत्राप्यवयवातीतत्वमादायैव प्रयोगोपपत्तौ समुदायातीतत्वारोपे मानाभावेन तद्दृष्टान्तासङ्गतिश्च । दान्तिकेऽवयवप्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमारोप्य पूर्वपक्षस्य निर्दलत्वापादनमपि स्वाग्रहमूलकमेव । अत एव भाष्ये 'पश्य मृगो धावति' इत्यनेन लौकिकविषयताशाल्यर्थकहशिकर्मत्वं धावतेः प्रतिपादितम् । कथमन्यथा आगारान्तरस्थितस्य न तादृशप्रयोगः । मृगकर्त्तकधावने ज्ञानविषयत्वरूपज्ञानकर्मत्वाऽबाधात् ॥ धावतेः संयोगरूपफलार्थकत्वे व्यापारवाचकत्वाभावादधातुत्वप्रसङ्गश्च । स्वजनकव्यापारगतपौर्वापर्यारोपेण क्रियात्वोपपादने चाप्रत्यक्षत्वापत्तिस्तदवस्थैवेति न किञ्चिदेतत् । तस्मात् पूर्वोक्तमतमेव निराबाधमिति ॥ *व्यासङ्गादिनेति । यथा-"मत्तोऽहं किल विललाप" इत्यत्र मदादिना मनोs परीक्षा *उपपादनेऽपीति*। बहुतरमनःप्रणिधानसाध्य किं ग्रन्थरचनात्मकक्रियायाः इति शेषः। ___अत्रेदं बोध्यम्-प्रागुक्तमतयोः व्यापाराविष्टानामिति मतमेव युक्तमिति प्रतिभाति। क्रियावयवानामपि सावयवत्वात्तेषामपि समूहरूपत्वात्सर्वाऽपि क्रिया परोक्षैव । एवं चेन्द्रियाणां सद्वस्तुग्राहकत्वेन क्रियायाः सदसद्वस्तुरूपायास्तेन प्रत्यक्षस्य न प्रसक्तिः। तदुक्तं हरिणा क्रमात्सदसतां तेषामात्मनां न समूहिनः । सद्वस्तुविषयैर्यान्ति सम्बन्धं चक्षुरादिभिः ॥ इति अत एव भाष्य-अत्यन्तापरदृष्टेत्यत्रात्यन्तपदस्वारस्यसङ्गतिरिति । न च 'पश्य मृगो धावति' इत्यस्य प्रयोगस्यानुपपत्तिरिति वाच्यम् । तत्र देशे ज्ञानसामान्यार्थत्वात् । एवमधिश्रयणं साक्षात्करोमीत्यस्यापि यथा कथञ्चिदुपपत्तिः कार्या। अत एवागारान्तःस्थितयोरेकस्य परं प्रति खुरविक्षेपादिजन्यशब्दश्रवणानन्तरं मृगकर्तृकगमनानुमानानन्तरं पश्य मृगो धावति' इति प्रयोगस्याप्युपपत्तिरिति । किञ्च वास्तवं पारोक्ष्यादि न लिटः प्रयोगे नियामकम् । किन्तुविवक्षानिबन्धनमत एव 'अध्यास्त सर्वर्तुसुखामयोध्याम्' इति लङन्तप्रयोगस्योपपत्तिः । एवं च 'व्यातेने किरणावलीमुदयनः' इति प्रयोगस्यापि शीघ्रानायासनिष्पन्नत्वप्रतीतिफलकभूतानद्यतनत्वविवक्षाया एव सूक्ष्मकालेन करिष्यामि यत्र मयाऽपि साक्षात्कर्तुमशक्यमिति ज्ञानफलकपारोक्ष्यविवक्षायाश्च सम्भवाल्लिट उपपत्तिरिति साधुत्वमेव । एवमत्यन्तापह्नवेऽपि लिट् भवति । “अत्यन्तापह्नवे लिट् वक्तव्य' इति वचनात् । यथा केचित्पुरुषेण चैत्रं प्रत्युक्तं 'मया कलिङ्ग दृष्टोऽसि तत्र गन्ता तु पुनः संस्कारयोग्यो भवति । Page #155 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारै अनद्यतनातीतत्वयोरभावेन तदर्थकलिडसम्भवात् ॥ लुडर्थमाह-श्वो भाविनीति ॥ अनद्यतने भाविनीत्यर्थः । " अनद्यतने लुटू” ( पा०सू० ३।३।१५) इति सूत्रात् । यथा वो भवितेत्यादौ । १२६ लुडर्थमाह-#भविष्यतीति ॥ भविष्यत्सामान्ये इत्यर्थः । " लुटू शेषे चं" (पा०सू०३।३।१३) इति सुत्रात् । यथा घटो भविष्यतीत्यादौ । दर्पणः सन्निधानात् क्रियापारोक्ष्यं, तद्वदित्यर्थः । लिडसम्भवादिति* । अत्रेदं चिन्त्यम्-न वास्तवं पारोक्ष्यादि लिडादिनियामकम् । 'अध्यास्त सर्वर्त्त सुखामयोध्याम्' इत्यत्र लङोऽसाधुतापतेः । किन्तु वैवक्षिकं तत् । तथा वक्ष्यति च स्वयमेव सारकृत् 'अनयनभूतत्वेन विवक्षिते लङ्, तत्रैव पारोक्ष्यविवक्षायां लिट्‍ इति । प्रकृते चाsनायासनिष्पन्नत्व- शीघ्रनिष्पन्नत्वप्रतीतिफलकभूतानद्यतनत्वविवक्षायाः, एवं सूक्ष्मकालेन करिष्यामि यत्र काले मयाऽपि साक्षात्कर्त्तुमशक्यमिति प्रतीतफलकपारोक्ष्यविवक्षायाश्च सत्त्वाल्लिडुपपत्तिसम्भवादिति ॥ 1 *अनद्यतन इति* । अतीताव्यवहितरात्रिपश्चार्द्धविशिष्टाऽऽगामिरात्रिपूर्वार्द्धापेतं दिनमद्यतनम् । एतद्भिन्न कालत्वमनद्यतनत्वमिति वृत्तिकारादयः । कैयटस्तु - लुड्सूत्रे - ऽतीतरात्रेरन्त्ययामेनाऽऽगामिरात्रेराद्ययामेन सहितो दिवसोऽद्यतन इत्यूचे । अत्रेदमवधेयम् - अनद्यतनभूते यदा भूतत्वमात्रविवक्षा ; तदा लुङेव । तेन ह्योऽपाक्षीदित्यादौ भूतत्वमात्रविवक्षायां लुङि, पश्चाद् ह्यः पदेन सम्बन्धे नाद्यतनत्वप्रतीतिरिति न लुडोsसाधुता । एवमनद्यतनभविष्यति भविष्यत्त्वमात्रविवक्षया लट्-श्वो यक्ष्यमाणे- 'देवता यक्ष्यति' इत्यत्र पश्चाद्ध्यनद्यतनत्वप्रतीतिरिति ॥ परे तु साङ्गयागस्य द्वयहात्मकका लसाध्यत्वात्तदधिकरणद्वयहात्मककालस्यानद्यतनत्वाभावेन लुटोsनवसरालडुपपत्तिः । 'अद्यप्रभृति मे द्वारा ! ब्रह्मचर्य भविष्यति' इतिवदित्याहुः ॥ परीक्षा अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गत्वा पुनः संस्कारमर्हति ॥ ' इति वचनात् । तद्वाक्यश्रवणानन्तरं चैत्र आह- 'नाहं कलिङ्ग जगाम इति । तदपह्नवश्व तन्निश्चयोत्पत्तिप्रतिबन्धकज्ञानजनकशब्दः । तस्मिन्नात्यन्तिकत्वं च प्रश्नविषयविपरीतकथनाभावपूर्वकप्रश्नविषयोपपादकविपरीतकथनम् । अत्र कलिङ्गाधिकरणकदर्शनविषयताप्रश्नविषयः तद्विपरीतं न दृष्टोऽस्मि इति कथनम् । तदकरणेऽपि तादृशविषयताया यदुपपादकं तद्देशाधिकरणकं गमनं तस्यैवाभावबोधकशब्दोच्चारणमिति । एवमन्यत्रापि बोध्यम् । *भाविनीति*। भविष्यत्वं च वतमानप्रागभावप्रतियोगित्वम् । अनद्यतनत्वं चाद्यतनभिन्नकालवृत्तित्वम् । अद्यतनं च - अतीतायाः रात्रेः पश्चार्धेनागामिन्याः पूर्वार्धन च सहितो दिवसः । *भविष्यत्सामान्य इति । अत्र सामान्यपदे नानद्यतनत्वस्याविवक्षा प्रतिपा Page #156 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः। तस्वञ्च-वर्तमानप्रागभावप्रतियोगिसमयोत्पत्तिमत्त्वम् । ... ... ... लेटोऽर्थमाह-*विध्यादाविति ॥"लिङ\ लेट" (पासू०३।४।७) इति सूत्रात् । लिङर्थश्च विध्यादिरिति वक्ष्यते । लोडर्थमाह दर्पणःननु 'अहमेकः प्रथममासं वामि भविष्यामि च' इत्यत्र धात्वर्थसत्तायां वर्तमानप्रागभावप्रतियोगित्वस्य भविष्यत्वस्य बाधात्तदर्थकाद्भविष्यदर्थकप्रत्ययाप्रसक्तिरत आह-*तत्वञ्चेति । वर्तमानप्रागभावप्रतियोग्युत्पत्तिकसमयवत्त्वमिति पाठः । तथाच तदर्थव्यापाराधिकरणस्य कालस्यानित्यराजक्रियाऽऽद्यात्मकस्योक्तभविष्यत्त्वात् तदादायैव लडुपपत्तिरिति यथाश्रुतार्थानुसारिणः॥ ____अन्ये तु-ननु येषां मते नश्यत्यादिधातूनां नाशमात्रमर्थस्तेषां भविष्यत्त्वस्य वर्तमानप्रागभावप्रतियोगित्वसत्वे श्वो भाविनाशके 'परऽश्वो नङ्ख्यतीति प्रयोगापत्तिः । वर्तमाननाशप्रागभावप्रतियोगिनि तन्नाशे परश्वस्तनकालवृत्तित्वसत्त्वात् । - नच परश्वस्तनकालस्य भविष्यत्त्वघटकप्रागभावेऽन्वयाभ्युपगमात्तस्यच तत्प्रागभावे बाधान्नोक्तप्रयोगापत्तिरिति वाच्यम् । तथा सति श्वोभाविनाशकेऽपि श्वो नयतीति प्रयोगाऽनुपपत्तिः। तन्नाशप्रागभावे श्वस्तनकालसम्बन्धबाधादत आह*तत्त्वञ्चति । अत्र समयपदोपादानं कालो लडाद्यर्थ इत्यभिप्रेत्य, न तु तस्य लक्षणे निवेशः, प्रयोजनाभावाद् विद्यमानप्राग्भावप्रतियोग्युत्पत्तिकत्वस्यैव सम्यक्त्वात् । यत्र तूत्पत्तिरेव धात्वर्थस्तत्र तदूधटितमेव तनिर्वक्तव्यम् । अन्यथोत्पत्तेढेधा भानप्रसङ्गात् । एवञ्चोक्तस्थले भविष्यत्त्वघटकोत्पत्ती परश्वस्तनकालवृत्तित्ववाधानोक्तप्र. योगापत्तिरितीत्थमवतारयन्ति ।। ____ अत्रेदमवधेयम्-इहाद्य घटो भविष्यतीत्यादौ देशकालविशेषादेरधिकरणत्वेन धात्वर्थोत्पत्तावेवाऽन्वयः। ननु भविष्यत्त्वघटकप्रागभावे उत्पत्तिमति वा, तथा सति परीक्षा दिता। एवं चानद्यतनत्वविशिष्टभविष्यत्ववत्यपि यदा भविष्यत्वमात्रविवक्षाः तदा लट् भवतीति बोध्यम् । पूर्वोक्तकालनिष्ठभविष्यत्वघटितं क्रियानिष्ठं भविष्यत्वमाह*तत्वं चेति । ननु यथा यत्किञ्चित् क्रियायामतीतायामपि यत्किञ्चिद्दीपरिवर्तनादिक्रियासत्वकाले पचतीति प्रयोगो भवति, तथा तस्मिन्काले यत्किञ्चित् क्रियाया भविध्यत्वात् पक्ष्यतीति प्रयोगापत्तिः। नचोद्देश्यतावच्छेदकतक्रियात्वावच्छेदेन भविष्यत्वस्यान्वय उपेयत इति वाच्यम् । तथा सति कदापि पक्ष्यतीति न स्यात्। कस्मिनपि काले विक्लित्यनुकूलव्यापारसामान्यप्राग्भावासत्वात्। न च प्रकृतपाकत्वावच्छेदेन तादृशभविष्यत्वस्यान्वयं स्वीकुर्म इति वाच्यम् । उद्देश्यतावच्छेदकस्य प्रकृतपाकत्वस्य शब्दादनुपस्थितेः । एतादृशे विषये धातोस्तादृशेऽर्थे लक्षणायां तु लक्षणैवगौरवरूपदोषप्रयोजिकेति चेद् ? न। पक्ष्यतीत्यादौ तत्तत्पाकतात्पर्यकधातुसमभिव्याहृते लडादिप्रत्ययेन भविष्यत्वप्रकारकशाब्दबोधे जननीये तत्तत्पाकीयाद्यव्यापारविशेष्यकवर्तमानप्रागभावप्रतियोगित्वप्रकारकं ज्ञानं सहकारिकारणमिति स्वीकारात्। यदा तु आद्यव्यापारनाशेऽपि तत्र वर्तमानप्रागभावप्रतियोगित्वभ्रमः, तदा पक्ष्यतीति प्रयोगो भवत्येवेति। Page #157 -------------------------------------------------------------------------- ________________ १२८ दर्पणपरीक्षासहिते भूषणसारेप्रार्थनादाविति । मादिना विध्याद्याशिषो गृह्यन्ते । “आशिषि लिङ्लोटी" (पा०सू०३।३।१७३) "लोट् च” इति (पा०सू०३।३।१६२) सूत्राभ्यां तथाऽवगमात् । यथा- भवतु ते शिवप्रसादः' इत्यादौ । एतयोरो लिङर्थ एव, त्रयाणां समानार्थत्वादिति तन्निर्णयेनेव निर्णयः ॥२२॥ दर्पणः कपालनाशजन्यघटनाशस्थले, इह कपालेऽद्य घटध्वंसो भविष्यतीति प्रयोगाऽऽपत्तेर्घटरूपप्रतियोग्यात्मकघटध्वंसप्रागभावस्य कपाले सत्त्वादेव श्वो भाविन्यद्य भविष्यतीति प्रयोगप्रसङ्गश्च । अद्यतनकालवृत्तित्वस्य प्रागभावे सत्त्वात् । तथा-भवने श्वः समुस्पद्य प्राङ्गणे परश्वो गमिष्यति मैत्रे, प्राङ्गणे परश्वो भविष्यतीति प्रयोगाऽऽपत्तिः । उत्पत्तिमतो मैत्रस्य प्राङ्गणवृत्तित्वात् , परश्वस्तनकालवृत्तित्वाच्च । यथोक्ते तु तस्य परम्चस्तनकालवृत्तित्वेऽप्युत्पत्तेस्तत्कालावृत्तित्वान्न कश्चन दोषः।। . एवञ्च वर्तमानप्रागभावप्रतियोग्युत्पत्त्यनुकूलो घटाश्रयको व्यापार इति वैयाकरणमते बोधः । तथावोत्पत्त्यघटिते भविष्यत्त्वे लडादेः शक्तिलाघवात्तदघटिते तु लक्षणेति न नङ्ग्यतीत्याद्युक्तस्थले उत्पत्तिबोधानुपपत्तिरिति ॥ विध्याद्याशिषाविति। आशीस्तु सम्बोध्यरहितविषयकलोडायन्तशब्दप्रयोक्त्रिच्छा। *भवतु ते इति । हितविषयकमदिच्छाविषयत्वसम्बन्धिशिवप्रसादकर्तकं भवनमिति बोधः । एतयोरिति । लेट्लोटोरित्यर्थः। *त्रयाणाम् । लेट्लोटलिडामित्यर्थः । *तन्निर्णयेनैवेति । लिङर्थनिर्णयेन इत्यर्थः ॥ २२ ॥ परीक्षा इदमत्र बोध्यम्-इहाय घटो भविष्यतीत्यादौ भूधात्वर्थ उत्पत्यनुकूलो व्यापारस्तघटकोत्पत्तौ देशस्य कालस्यान्वयाधिकरणत्वेनान्वयो न घटे । इह चत्वरे श्वः समुत्पद्यपरचो गोष्ठे गमिष्यति घटे गोष्ठे, परचो घटो भविष्यतीति प्रयोगापत्तेः । घटे परथः कालवृत्तित्वगोष्ठवृत्तित्वयोः सत्वात् । वर्तमानप्रागभावप्रतियोगिसमये उत्पत्तिमत्वस्य सत्वाच्च । एवं च धातुनोत्पत्तिलाभे टुडर्थभविष्यत्वस्य वर्तमानप्रागभावप्रतियोगिसमये वृत्तित्वरूपत्वमेवास्तु, न तु तत्रोत्पत्तेः प्रवेशो, गौरवात् । एवं चोत्पत्तेः शाब्दबोधे वारद्वयं भानापत्तिरपि नः तथा धात्वर्थे सप्तम्यन्तार्थत्वनियमस्याप्युपपत्तिरिति । विध्याशिषाविति । अत्राशीः प्रयोक्तृनिष्ठा या हितप्राप्तिविषयकेच्छा सैव । हितं च स्वस्य परस्य वेत्यत्र नाग्रहः । तस्या इच्छाया 'भवतु ते शिवप्रसादः' इत्यत्र धात्वर्थे शिवप्रसादकर्तृकभवनेऽन्वयो विषयतया बोध्यः। वक्तृसमवेततादृशेच्छाविशिष्टत्वसंबन्धिशिवप्रसादकर्तृकं भवनमिति शाब्दबोधः। यत्र तु वक्ता कश्चन नास्ति, किन्तु स्वयमेव भवतु मे शिवप्रसादः' इतीच्छति, तत्र प्रत्यासत्या तस्यामिच्छायां मवृ. त्तित्वस्य भानमित्यभ्युपेयमिति । एतयोः -लेट्लोटोः। *तन्निर्णयेन-लिङर्थनिर्णयेन ॥ २२ ॥ Page #158 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः । १२९ लडादिक्रमेण ङितामर्थमाहह्योभूते प्रेरणादौ च भूतमात्रे लङादयः॥ . . सत्यां क्रियातिपत्तौ च भूते भाविनि लुङ् स्मृतः ॥२३॥ लङर्थमाह-ह्योभूत इति* ॥ अनद्यतने भूत इत्यर्थः। “अनद्यतने लङ् ” (पा०सू०३।१।१११) इति सूत्रात् । यथा-'अस्य पुत्रोऽ भवत्' इत्यादि। लिङर्थमाह-*प्रेरणादाविति* ॥ “विधिनिमन्त्रणामन्त्रणाधीष्टसप्रश्नप्रार्थनेषु लि (पासू०३।२।१६१)इति सूत्रात् । तत्र-विधिःप्रेरणम् , भृत्यादेनिकृष्टस्य प्रवर्त्तनम् । निमन्त्रणं नियोगकरणम् , दर्पणः ह्यः पदस्याव्यवहितातीतदिवसे रूढतया तदात्मककालस्य लङर्थत्वेनैकदिनान्तरितभूते लङनुपपत्तिरत आह-*अनद्यतन इति । तथाच ह्यःपदं लक्षणयाऽनद्यतनत्वेनानद्यतनमात्रबोधकमिति नोक्तदोषावकाशः। एवं श्चोभाविनीत्यत्रापि बोध्यम् । ___ *अस्य पुत्र इति। वर्तमानध्वंसप्रतियोग्यनद्यतनकालवृत्तिरेतत्सम्बन्धिपुत्रकर्तकोत्पत्त्यनुकूलो व्यापार इति बोधः। अध्यास्तेत्यादौ तु भूताऽनद्यतनत्वमात्रविवक्षया लपपत्तिः । सूत्राद् विध्यादीनां लिङर्थत्वप्रतीतेः, कथं प्रेरणादेर्विध्यर्थत्वमत आह-*तत्रेति । तेषु मध्ये इत्यर्थः। विधिः प्रेरणमिति* | प्रेरणापर्यायो विधिशब्दइत्यर्थः । प्रेरणाया लिङादिशब्दस्वरूपतां वदतां मतं निराकर्तुं प्रेरणायाः स्वरूपं दर्शयति-*भृत्त्यादेरित्यादि। __ अयम्भावः-यद्विषकत्वेन ज्ञानस्य प्रवृत्तिजनकत्वं सैव प्रवर्त्तना । तादृशविषयतानिरूपकत्वं चेष्टसाधनताया एव, न तु लिङादानाम् । तद्विषयकत्वेनैव स्वपरज्ञानात्प्रवृत्तेः सर्वसम्मतत्वात्। तद्विषयकज्ञानात् प्रवृत्त्यनुदयात् । सा यदि वक्त्रपेक्षयाऽप्रकृष्टोदूदेश्यकप्रवर्तकज्ञानविषयीभूता तदा प्रेरणेत्युच्यते । अन्यादृक् तु निमन्त्रणादिपदव्यपदेश्या। तथाच स्वाभिलषितोपायाऽज्ञानादप्रवृत्तापकृष्टप्रयोज्यस्योपायविषयकप्रवृ. परीक्षा *ह्यो भूत इति । अत्र ह्यःपदं नातीतदिनान्तराव्यवहितदिवसपरम् । परथोऽभवदित्यत्रानुपपत्तेः। किन्तु अनद्यतनमात्रस्य बोधकमित्याशयेनाह-*अनद्यतन इति । *भूत इति । एवं चातीतदिवसमात्रमादाय तादृशप्रयोगस्योपपत्तिः । अद्यतनभिन्नत्वं चानद्यतनत्वम् । अद्यतनत्वं च-स्वाव्यवहितोत्तरत्वसम्बन्धेन वर्तमानध्वंसप्रतियोगिरात्र्यविशिष्टत्वे सति वर्तमानप्रागभावप्रतियोगिरात्र्यधेन स्वाव्यवहितपूर्वत्वसम्बन्धेन विशिष्टं यद्दिनं तत्त्वम् । *अस्य पुत्रोऽभवदित्यादीति । प्रकृतशब्दप्रयोगाधिकरणदिनप्राग्वृत्तिव्यवहितमव्यवहितं वा तत्र सर्वत्रायं प्रयोगो भवति । वर्तमानध्वंसप्रतियोगि अनद्यतनकालवृत्तिरेतत्सम्बन्धिपुत्रकर्तृकोत्पत्यनुकूलो व्यापार इति बोधः। . ननु सूत्राद्विध्यादीनां लिङर्थत्वं प्रतीयत इति कथं प्रेरणाया लिङर्थत्वमित्याह विधिः प्रेरणमिति। प्रेरणं च-प्रवर्तनमेव । तदतिरिक्तांशस्य प्रकरणादिना लाभसम्भवात् , तत्वंन्तु-प्रवर्तनात्वावच्छिन्नस्यैवेत्याशयेनाह-*प्रवर्तनात्वेनेति । १७ ९० प० Page #159 -------------------------------------------------------------------------- ________________ १३० दर्पणपरीक्षासहिते भूषणासरेआवश्यके प्रेरणेत्यर्थः । आमन्त्रणम् , कामचारानुज्ञा । अधीष्टःसत्कारपूर्वको व्यापारः। दर्पणः त्यनुकूलो व्यापारः प्रेरणेति पर्यवस्यतीति । अधिकमग्रे वक्ष्यते । .. तत्र वैदिकमुदाहरणम्-'स्वर्गकामो यजेत इत्यादि। स्वर्गकामाभिन्नकर्त्तकयागभावना स्वर्गादीष्टसाधनमिति वैयाकरणमते बोधः । भावनायामिष्टसाधनत्वं तु प्रत्यात्या स्वर्गकामस्यैव, तादृशश्चाहमिति अभिसन्धाय यागादौ नियोज्यस्य प्रवृत्तिनिवहति । लौकिके तु 'जलमाहर' इत्यादि बोधः स्वयमूह्यः॥ - नियोगकरणमिति । 'विप्रं निमन्त्रयत' इत्यादितो विप्राश्रयकप्रवृत्तिजनकभावनाबोधेन प्रकृते विनियोगपदार्थः प्रवृत्तिस्तत्करण-तदनुकूलो व्यापार इत्यर्थः । *आवश्यक इति । श्राद्धभोजनादिश्च तथा । *प्रेरणेति । प्रवर्त्तनेत्यर्थः । अस्य दौहित्रादेरित्यादिः । तत्राप्रवृत्तस्य प्रवृत्त्यनुकूलव्यापार इति यावत् । यथेह-'इह भुञ्जीत भवान्' इत्यादि। .. ___ *कामचारानुज्ञेति । स्वेच्छया प्रवृत्तस्येतरत्र प्रवृत्तिप्रतिबन्धफलकस्वाभिलषितविषयकप्रवृत्त्यनुकूलो व्यापार इत्यर्थः । यथा-'इहासीताऽऽरब्धं कुरुत तत्त्कुरुष्व यथा हितम्' इत्यादि । उपवेशनादिव्यापार इष्टसाधनताज्ञानात् प्रवृत्तावितरत्राप्रवृत्तिरर्थतः फलति । . *सत्कारपूर्वको व्यापार इति । अध्यापनादिव्यापारे सम्मानपूर्वकप्रवृत्त्यनुकूलो व्यापारोऽधीष्टपदार्थ इत्यर्थः । इयमेवाऽभ्यर्थनेच्युते । यथा-'माणवकमध्यापयाइति उक्तेष्विष्टसाधनत्वे-अनुकूलत्वं च-प्रवृत्तिजनकतावच्छेदककोटिप्रविष्टतया बोध्यम् ॥ *सम्प्रधारणमिति । उपस्थितक्रिययोर्मध्ये एकतरक्रियाधर्मिकेष्टसाधनत्वनिर्णयेच्छेत्यर्थः। यथा-कि भो वेदमधीयीय उत तर्कमिति । स्वोद्देश्यकत्वसम्बन्धेन सम्बोध्यविशिष्टा मन्निष्ठा च वेदाध्ययनताध्ययनान्यतरभावनेष्टसाधनत्वप्रकारकनिर्णयेच्छाविषय इति बोध एवमग्रेऽपि। विधिः प्रेरणमिति । प्रेरणम्-प्रवर्तनमित्यर्थः । अप्रवृत्तप्रयोज्यस्याऽज्ञातस्वाऽभिलषितोपाय इष्टसाधनताबोधनमिति यावत् । अपकृष्टोद्देश्यकतादृशेष्टसाधनत्वबोधविषयाऽप्रयुक्तं लिङादिघटितं वाक्यमेवाऽऽज्ञोपदेशपदाभ्यां व्यपदिश्यते । तदेवाऽऽह-*भृत्यादेरिति । आदिना शिष्यादिपरिग्रहः। तत्र लौकिकमुदाहरणं, भवाञ्जलमानयेदित्यादि । वैदिके-'स्वर्गकामो यजेत' इत्यादि । *नियोगकरणमिति । निमन्त्र्ययते नियुज्यतेऽनेनेति व्युत्पत्त्या नियोगानुकूलो व्यापारो निमन्त्रणपदार्थ इत्यर्थः॥ *आवश्यक इति । श्राद्धभोजनादावित्यर्थः । प्रेरणेत्यस्य दौहित्रादेरित्यादिः । तथाचावश्यके श्राद्धभोजनादौ दौहित्रादेरिष्टसाधनताबोधनं निमन्त्रणमिति फलितम्। यथेह भुञ्चीत भवानिति । *कामचारेति । स्वाभिलषिते कामचारेण प्रवृत्तस्येष्टसाधनताबोधनमित्यर्थः । *यथेहासीतेति । अनुज्ञातुः प्रवृत्तिप्रयोजनस्येतरप्रवृत्तिप्रबन्धेनैतत्प्रवृत्तिविषय इष्टसाधनताबोधनम् । यथारब्धं कुरुत, तत्कुरुष्व यथा हितमिति च एतदादि सर्वोपलक्षणम् आमन्त्रणम् । *सत्कारपूर्वको व्यापार इति । सम्मानपूर्वकाध्यापनादिव्यापार इष्टसाधनताबो Page #160 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः। १३१ एतश्चतुष्टयानुगतप्रवर्त्तनात्वेन वाच्यता लाघवात् । उक्तश्च अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्वपि । तत्रैव लिङ्क विधातव्यः किं भेदस्य विवक्षया ॥ न्यायव्युत्पादनार्थ वा प्रपश्चार्थमथाऽपि वा । विद्ध्यादीनामुपादानं चतुर्णामादितः कृतम् ॥ इति । र प्रवर्द्धनात्वञ्च-प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् । तच्चेष्टसाधनत्वस्यास्तीति तदेव विध्यर्थः। - ___ दर्पणः धनमित्यर्थः । अयमेव चाऽभ्यर्थनेति व्यवहियते । उदाहरणम्-माणवकमध्यापयेद्भवानिति । सम्प्रश्नः-सम्प्रधारणम् । प्रार्थना तु-स्वाभिलषितवस्तुदानादौ स्वीयेच्छाबोधनम् । यथाभोजनं लभेयेति ) *एतच्चतुष्टयेति । विध्यादिचतुष्टयेत्यर्थः । *लाघवादिति । तस्य शक्यताऽवच्छेदकत्वकल्पने लाघवादित्यर्थः । विधिवाक्याद्विध्यादीनां बोधस्य सर्वसिद्धत्वेऽपि तत्तद्रूपस्य शक्यतावच्छेदकत्वकल्पने गौरवादुक्ताऽनुगतरूपस्यैव शक्यतावच्छेदकत्वमुचितमिति भावः । तत्र हरिसम्मतिमाह-*उक्तजेति । किम्भेदस्येति । तत्तद्रूपेण पार्थक्यस्येत्यर्थः । तत्तद्रूपेण शक्तेरनङ्गीकारादिति भावः । तर्हि-तथोपादानं सूत्रकृता किमिति कृतमत आह-*न्यायेति ॥ न्यायः-शक्तिः । तदव्युत्पत्तये-तद्ग्रहायेत्यर्थः ॥ __ ननु प्रवर्त्तनात्वेन प्रवर्त्तनायां शक्तिग्रहो विध्यादिसमस्तधर्मिक एवेत्यत आह*प्रपञ्चार्थमिति* ॥ प्रवर्त्तनं प्रवृत्तिकरणमिति व्युत्पत्तेर्ण्यन्ताद् युचि निष्पन्नप्रवर्त्तनाशब्दात् प्रवृत्त्यनुकूलव्यापारलाभ इत्याह-*तच्चेति ॥ निरुक्ताऽवच्छेदकत्वं चेत्यर्थः॥ ___ *तदेवेति ॥ इष्टसाधनत्वमेवेत्यर्थः। एवकारेण कृतिसाध्यत्वादिव्यवच्छेदः । इष्टत्वं च-समभिव्याहृतपदोपस्थापितकामनाविषयत्वम् । 'स्वर्गकामो यजेत' इत्यत्र स्वर्गकामपदोपस्थापितकामनाविषयत्वस्य स्वर्गे सत्वादिष्टत्वं तस्याऽक्षतम् । तेनैव च स्वर्गादीष्टानामनुगमः । यदि च सामान्यत इष्टसाधनत्वज्ञाने प्रवृत्यनुदयात् तत्तद्रू परीक्षा *उक्तं चेति। हरिणेति शेषः। *प्रवर्तनारूपमिति*। प्रवर्तनाया धर्म इत्यर्थः। तत्रैव-तदवच्छिन्न एव । यद्रूपं चतुषु अनुस्यूतं संबद्धम्, तदवच्छिन्ने शक्तिकल्पने शक्यतावच्छेदकस्यैक्याच्छक्तरैक्यमिति भावः। *न्यायेति । 'सामान्यधर्मस्य' व्याप्यधर्मव्यापकत्वम् इतिन्यायेनेत्यर्थः। तस्य व्युत्पादनार्थतस्याव्यभिचरितत्वप्रदर्शनार्थम् । भेदेनोपादाने छात्राणां तत्पापबोध्यार्थस्य सम्यग् ग्रहो भविष्यतीति भावः । *प्रपञ्चार्थमिति। प्रवतैनात्वस्य शक्यतावच्छेदकत्वे तदवच्छिन्ननिरूपितशक्तिग्रहो विध्यादिविषयक एवेत्यस्य प्रदर्शनार्थमिति भावः। प्रवर्त्यतेऽनया सा प्रवर्तनेतिव्युत्पत्या प्रोपसृष्टवतेयॆता करणे युच्प्रत्ययेन निष्पन्नप्रवर्तनाशब्देन प्रज्ञेत्यनुकूलज्ञानविषयस्य लाभ इत्याशयेनाह*प्रवर्तनात्वचेति । *इष्टसाधनत्वस्येति । प्रवृत्तित्वावच्छिन्नं प्रति क्रियाविशेष्यकेष्टसाधनताज्ञानस्य प्रयोजकतया तद्विषयतावच्छेदकत्वमिष्टसाधनत्वेऽस्तीत्यर्थः। एवकारेण कृतिसाध्यत्वव्यवच्छेदः । इष्टत्वं च-इच्छाविषयत्वम् । यथा-'स्वर्गकामो यजेत Page #161 -------------------------------------------------------------------------- ________________ १३२ दर्पणपरीक्षासहिते भूषणसारे - दर्पणः पेण स्वर्गत्वादिना स्वर्गसाधनताज्ञानं तथा वाच्यम् । तथाच तेन रूपेणेष्टसाधनत्वस्य श्रुतेरनवगमाद्विधिवाक्यात् कथं प्रवर्त्तकज्ञाननिर्वाह इति विभाव्यतेः तष्टतावच्छेदकत्वेन स्वर्गत्वादीननुगमय्य तदवच्छिन्नसाधनत्वे विधेः शक्तिरुपगन्तव्या, एवञ्च न विधेर्नानार्थत्वमपि । तदादिवत् । इष्टताऽवच्छेदकत्वस्योपलक्षणत्वोपगमाच्च न स्वर्गत्वादीनां तद्रूपेण भानापत्तिः । अथ 'स्वर्गकाम ज्योतिष्टोमेन यजेत' इत्यत्र श्रुत्या स्वर्गसाधनत्वं ज्योतिष्टोमे बोधनीयम् । तच्च न सम्भवति । वाजपेयादपि स्वर्गोत्पत्तेर्व्यभिचाराद्, वैजात्यस्य चोत्तरकालकल्प्यत्वेन पूर्वमनुपस्थितत्वादिति चेद् ? न । घटं द्रव्यत्वेनैव जानातीत्यादौ घटत्वोपलक्षितव्यक्तिविशेष्यकद्रव्यत्वप्रकारकज्ञानाऽवगमवत् स्वर्गत्वाश्रययत्किञ्चिदूव्यक्तिसमानाधिकरणाऽभावाऽप्रतियागित्वमेव श्रुत्या यागेऽवगम्यते, अथवा यागाsनुत्तरकालाऽवृत्तित्वमेव स्वर्गत्वसामानाधिकरण्येनेति न कश्चिद्दोषः । अत एव साध्येष्टकत्वस्य विध्यर्थत्वमामनन्ति । अन्यथासिद्धत्वं तु विधेः प्रवृत्तितात्पर्य्यकत्वाऽवधारणादुत्तरकालकल्प्यम् । इत्थञ्च ग्रहणश्राद्धादौ नित्यत्वनैमित्तिकत्वयोरिव नित्यश्राद्धसन्ध्यादौ नित्यत्वकाम्यत्वयोरप्यविरोधाल्लाघवाद्रा त्रिसत्रन्यायेन । - दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् । सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ परीक्षा इति वाक्यात्स्वर्ग का पदोपस्थाप्यस्य स्वर्गकामनावत् उपस्थितौ स्वर्गष्टत्वस्य लाभः । न च इच्छा विषयात्मक सामान्यधर्मावछिन्न साधनताज्ञानमात्रेण प्रवृत्तिर्न भवति, किन्तु स्वर्गत्वादिरूप विशेषधर्मावच्छिन्न साधनताज्ञानादेवेति तत्तद्धर्मावच्छिन्नसाधनत्वं विध्यर्थ इति वक्तव्यम् । तच्च श्रुतिवाक्यान्नावगम्यत इति कथं प्रवर्तकज्ञाननिर्वाह इति वाच्यम् । इष्टतावच्छेदकत्वेन स्वर्गत्वादीनामनुगतेनोपलक्षणीभूतस्येष्टतावच्छेदकस्यैकत्वेन शक्तेरै क्य; शक्यतावच्छेदकं च स्वर्गत्वावच्छिन्न साधनत्वमेवेति विधिवाक्यातस्य लाभात् । ननु 'स्वर्गकामो व्योतिष्टोमेन यजेत' इति वाक्याज्योतिष्टोमे स्वर्गtataछन्न कार्यतानिरूपितकारणतावाच्या, सा न सम्भवति । वाजपेयादपि स्वर्गीस्पत्तेः प्रत्येकं व्यभिचारात्स्वर्गनिवृत्ततद्धर्मावच्छिन्नसाधनता च वक्तुमशक्या । तत्तद्धर्मस्य पूर्वमनुपस्थितत्वादिति चेद् ? न स्वर्गत्वसामानाधिकरण्येन कार्यत्वोपगमस्य श्रुतिवाक्यात्कल्पनात् । 'घटं नीलं जानाति' इतिवाक्यात्स्वघटत्वसामानाधिकरण्येन नीलाभेदज्ञानविषयत्वलाभात् ॥ इत्थं च यत्र स्वर्गकामादिपदसमभिव्याहारस्तत्र स्वर्गविशेषसाधनत्वं कल्प्यते । यत्र तु न तत्तत्समभिव्याहारस्तत्र 'अहरहः सन्ध्यामुपासीत' 'अहरहः श्राद्धमुपासीत' इत्यादौ अर्थवादवाक्यापस्थितफलसाधनत्वस्य विध्यर्थत्वं स्वीकार्यम् । रात्रिसत्रन्यायात् । अर्थवादवाक्यं तु दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् । सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् । इति । Page #162 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः। १३३ दर्पणः इत्याग्रर्थवादोपस्थितपितृतृप्तिब्रह्मलोकावाप्त्यादिकमेव फलं कल्प्यते । यद्यप्यन्यत्र समवायघटितसामानाधिकरण्येनैव यागस्वर्गयोः कार्यकारणभावः क्लप्तः, तथाप्युक्तवाक्यप्रामाण्याच्छ्राद्धपितृतृप्त्योदेश्यत्वसमवायघटितसामानाधिकरण्येन स कल्पनीयः । कर्तनिष्ठाऽदृष्टस्य तु न पितृतृप्तिजनकत्वम् । व्यधिकरणत्वात् । श्राद्धानन्तरकृतकर्मनाशाजलस्पर्शादिनातन्नाशेन पित्रादिस्वर्गाऽनापत्तेश्च । पितॄणां मुक्तत्वेऽनुष्टातर्येव तत्कल्प्यताम् । अत एव शास्त्राऽऽदेशितं फलमनुष्ठातरीत्युत्सर्ग इति वृद्धाः। स्वतः पुरुषार्थदुःखप्रागभावः, प्रत्यवायाऽनुत्पादो वा तथा कल्पनीयः । तत्साधनत्वं च योगक्षेमसाधारणम् । नित्ये कृते प्रत्यवायाऽनुत्पादनियमात् । तत्सत्त्वे दुःख. प्रागभावाऽवश्यम्भावाच्च । तथा च "सर्वशक्तो प्रवृत्तिः स्यात् तथा भूतोपदेशात्। इति सर्वशक्त्यधिकरणपूर्वपक्षसूत्रपुरुषार्थस्य भाव्यस्योभयत्र तौल्येन यथा काम्यं फलायालं तथा नित्यमपीति व्याख्यातं भाटैः। ___ नन्विष्टसाधनत्वस्य विध्यर्थत्वे साधनत्वस्याऽऽख्यातेनाऽभिधानाज्ज्योतिष्टोमेनेत्यत्र तृतीयाऽनुपपत्तिरिति चेद् ? न। द्रव्यं कारकमिति पक्षे शङ्काऽनवकाशात् । शक्तिः कारकमिति पक्षेऽपि यज्यर्थ व्यापारनिष्ठभावनाभाव्यनिवर्तकत्वरूपकरणत्वस्याभिधानेऽपि यागनिष्ठस्य तस्याऽनभिधानेन तत्समानाधिकरणज्योतिष्टोमपदात्तदुपपत्तेः । 'न कलज भक्षयेत्' इत्यादेनिषेधविधित्वोपपत्तये नजसमभिव्याहारे विधेरनिष्टसाधनत्वे शक्तिरुपगन्तव्या। तस्याऽपि धात्वर्थेऽन्वयः। नञ् तात्पर्त्य ग्राहकः । कलाकर्मकभक्षणमनिष्टसाधनमिति बोधः । ___यद्वा नअर्थाभावविशेष्यक एव बोधः। नजा विधेनिवृत्तितात्पर्यकत्वावधारणात्। तेन च स्वप्रतियोगिन्यनिष्टसाधनत्वाक्षेपात्ततो निवृत्युपपत्तिरिति भावः । बलवदनिष्टाजनक इष्टसाधने चन्द्रमण्डलानयने बलवदनिष्टाननुबन्धिनि साध्ये निष्फले, तृप्तिरूपेष्टसाधने कृतिसाध्यमधुविषसंपृक्ताऽन्नभोजने च प्रवृत्यदर्शनात् । प्रवर्तकज्ञाने विषयता परीक्षा नित्यत्वस्य काम्यत्वेन विरोधान्न नित्यस्य फलविशेषसाधनत्वकल्पनमिति तु न वाच्यम् । तयोरविरोधस्य कल्पनात् । ननु यागस्येच्छाविशेषरूपस्य सुखविशेषरूपस्वर्ग प्रति समवायघटितसामानाधिकरण्यात् 'ज्योतिष्टोमेन स्वर्गकामो यजेता इत्यत्र भवतु स्वर्गसाधनत्वम् 'अहरहः श्राद्धस्य तु कर्मविशेषरूपस्य पुत्रसमवेतस्य पितृप्रीतिसाधनत्वं तु न सम्भवति ; व्यधिकरणत्वादिति चेद् ? न । एतादृशे विषये स्व. साध्यकत्वमुद्देश्यत्वसम्बन्धस्य कारणतावच्छेदकत्वकल्पनात् । पितृणां मुक्तत्वे तु कर्माः नुष्टातुरेव तत्फलम् । ___यद्वा-नित्यसन्ध्यावन्दनकर्मणः प्रत्यवायानुत्पाद एव फलमित्यस्तु । तस्य जन्यत्वन्तु क्षैमिकमस्तु । न च 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यत्र स्वर्गविशेषजनकत्वस्याख्यातेन प्रतिपादनात् तृतीयाया अनुपपत्तिरिति वाच्यम् । फलनिष्टं यदभावनाभाव्यनिवर्तकत्वरूपं पारिभाषिकं करणत्वं तस्याख्यातेनानभिधानेन तृतीयोपपत्तः। नन्विष्टसाधनत्वस्यैव विध्यर्थत्वेन भुसमभिव्याहारे 'न कलों भक्षयेत् , नागम्यां गच्छेत्' इत्यादावनुपपत्तिः। धात्वर्थव्यापारे इष्टसाधनत्वस्याबाधादिति चेद् ? न । एतादृशे विषयेऽनिष्टसाधनत्व स्यलक्षणया विध्यर्थत्वात्। नजस्तात्पर्यग्राहकत्वकल्प Page #163 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - यद्यप्येतत् कृतिसाध्यत्वस्यापि, तज्ज्ञानस्यापि प्रवर्त्तकत्वात्, तथापि यागादौ सर्वत्र तल्लोकत एव अवगम्यत इत्यन्यलभ्यत्वान्न दर्पण: १३४ वच्छेदककोट तेषां निवेशस्याऽवश्यकतया विधिवाच्यत्वं श्रुतेः प्रवर्त्तकत्व निर्वाहार्थ - मावश्यकमिति नैयायिकमतं निराकर्तुमाशङ्कते - यद्यपीति ॥ एतत् प्रवर्तकज्ञानविषयतावच्छेदकत्वम् । तत्सत्वे युक्तिमाह - तज्ज्ञानस्येति ॥ कृत्यऽसाध्येऽपि तज्ज्ञानात् प्रवृत्तिदर्शनादिति भावः । निराचष्टे – तथापीति । *लोकत एवेति । लौकिकप्रमाणादेवेत्यर्थः । ' अनन्यलभ्यो हि शब्दार्थ' इति न्यायादिति भावः । वस्तुतस्तु उक्तन्यायस्य पदान्तरलभ्यैव शक्तिरन्यथा कस्यापि पदस्य शक्तिर्न सिध्येत् । सर्वस्यापि शब्दातिरिक्तप्रमाणगम्यत्वात् । किञ्च इष्टसाधनत्वादीनां स्वातन्त्र्येण यदि शक्यत्वं स्यात् ; तदा स्यादप्युक्तरीतिर्निराकरणक्षमा, किन्तु प्रवर्तकज्ञानविषयतावच्छेदकत्वोपलक्षणानुगती कृतेषु तेषु सा । उपलक्षणस्य च कृतिसाध्यत्वसाधारणतया तत्रापि सिध्यन्ती शक्तिः केन प्रतिषेद्धयेति सन्त एवाऽधारयन्तु । यत्तु - कृतिसाध्यत्वे वेदा इवगतेऽप्यशक्तस्य यागादौ प्रवृत्त्यनुयात् मदंशविशिष्टतज्ज्ञानस्यैव प्रवृत्तिहेतुत्वं वाच्यम् । तस्य च यागो मत्कृतिसाध्यो, मत्कृतिसाध्यत्वविरोधिधर्माऽनधिकरणत्वान्मत्कृतिसाध्यपाकवदित्यनुमानेनैवाऽवगमान्नास्य शक्यत्वमित्याशय इति; तन्न । इष्टसाधनताज्ञानस्याऽपि मदंशविषयकस्यैव प्रवर्त्तकतया तस्य विधिवाक्यादला भेनेष्टसाधनत्वे शक्त्यभ्युपगमेऽपि प्रवर्तकत्वानुपपतेरपरिहारात् । यदि तु प्रतिपुरुषविधेरावृत्या बोधकत्वा तेनैव तत्पुरुषीयेष्टसाधनताबोधकत्वात्प्रवर्तकत्वोपपत्तौ नानुमानावगमकत्वमिति विभाव्यतेः तदा कृतिसाध्यत्वेऽपि तुल्यमिति बलवदनिष्टाऽननुबन्धित्वस्य विध्यशक्यत्वे "न कलञ्ज भक्षयेत्" इत्यत्र भक्षयेदि - त्यस्य भक्षणेऽनिष्टसाधनत्वाबोधकतया निषेधविधित्वानुपपत्तिरिति तत्रापि विधिशक्तिरभ्युपेया । अनिष्टे बलवत्वं चेष्टोत्पत्तिनान्तरीयकदुःखातिरिक्तत्वम् । तेन नाऽऽयासाध्ये कर्मणि प्रवृत्यनुपपत्तिः । 'कष्टं कर्म' इति न्यायेन सुखमात्रजनककर्माऽसम्भवाच्च नोक्तार्थस्य सिद्धिः । यदि च कदाचित्तत्सम्भवस्तदेष्टोत्पत्यनान्तरीयकत्वमेव तद्वाच्यम् । 1 एतेन बलवदनिष्टाऽननुबन्धित्वज्ञानस्य प्रवर्त्तकत्वमेव न बह्वायाससाध्ये कर्मणि प्रवृत्यनापत्तेः । बहुतरदुःखस्य तत्र जायमानत्वादल्पदुःखस्यापि कुतश्चित् बलवत्त्वेना. नुगतबलवत्त्वस्य निर्वक्तुमशक्यत्वाच्चेति क्व तस्य विधिशक्यत्वसम्भावनेति केषाचित् प्रलपितं प्रत्युक्तम् । अथोक्तयुक्त्याऽनिष्टत्वेनाऽनिष्टसाधनत्वाऽभावाज्ञानस्य न प्रवर्त्तकत्वम्, किन्तु 'अगम्यां न गच्छेत्' 'शाकं न भुञ्जीत' इत्यादिवाक्यानां प्रामाण्योपपत्तये विशिष्य नरकत्वादिरूपेण तदसाधनत्वस्य तथात्वं वाच्यम् । तथाच शक्त्याऽऽनन्त्यं, शक्तिग्रहाऽनुपपत्तिश्चेति चेद्र ? न । द्वेषविषयताऽवच्छेदकत्वोपलक्षितनरकत्वाद्यवच्छिन्नसाधन परीक्षा नात् । इष्टसाधनताज्ञानमिव कृतिसाध्यताज्ञानमपि प्रवृत्तिजनकमिति कृतिसाध्यत्वस्यापि विध्यर्थत्वमस्त्वित्याशङ्कते - यद्यप्येतदिति । 'अनन्यलभ्यो हि शब्दार्थ' इति न्यायावष्टम्भेन समाधत्ते तथाऽपीति । *लोकत एव लौकिकप्रमाणादेव । Page #164 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः । तच्छक्यम् । बलवदनिष्टाननुबन्धित्वज्ञानं च न हेतु" द्वेषाभावेनान्यथासिद्धत्वात् । आस्तिककामुकस्य नरकसाधनताज्ञानदशाया. - दर्पणः तात्वावच्छिन्नाऽभावकूटे तादृशाऽभावत्वेनाऽनुगते एकैव विधिप्रत्ययस्य शक्तिः । उपलक्षणत्वादेव च द्वेषविषयताऽवच्छेदकत्वं परित्यज्य. नरकत्वाचवच्छिन्नाऽसाधन. त्वमात्रं प्रतीयते। क्वचिच्च नरकासाधनत्वं, क्वचिद्रोगाऽसाधनत्वं प्रतीयते इत्यत्र तात्पर्यमेव नियामकम् ।। ___ नचाऽतिप्रसक्तस्योपलक्षणत्वाभ्युपगमे प्रमेयत्वस्यैव तथात्वमस्तु, साम्यादिति वाच्यम् । सुखाद्यसाधनत्वस्य विध्यर्थताविरहेण तत्साधारणप्रमेयत्वस्योपलक्षणत्वासम्भवात् । अत्यन्ताऽजनकसाधारणरूपस्य कारणतावच्छेदकत्ववद् अद्विष्टसाधारणरूपस्यापि द्विष्टोपलक्षणताकल्पनानौचित्यात् । तात्पर्याऽभावादेव सुखाद्यसाधनताबोधानापत्तौ तस्य विध्यर्थत्वेऽपि न क्षतिरिति तु न युक्तम् । तथा सति तु तत्तात्णाधुनिकानां 'न भुञ्जीत इति प्रयोगापतेः। तस्माद् द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्यवच्छिन्नसाधनतात्वावच्छिन्नप्रतियोगिताकाभावत्वेनानुगते तादृशाभावे विधिप्रत्ययस्य शाक्तरिति परिष्कृतं प्राचीननैयायिकमतं नव्यरीतिमवलम्ब्य दूषयति-*बलवदनिष्टेति ॥ निरुक्तबलवदनिष्टाजनकत्वज्ञानं चेत्यर्थः॥ *न हेतु*:-न प्रवृत्तिहेतुः । क्वचित् तथैव पाठः। तथाच न तद्विषयस्य विधिवाच्यत्वमिति भावः । तस्य प्रवृत्यजनकत्वे हेतुमाह-द्वेषाभावेनेति ॥ मधुविषसम्पृक्तान्नभोजने द्विष्टसाधनताज्ञानात् द्वेषविषये प्रवृत्तिवारणाय तद्विषयकप्रवृत्तिं प्रति तद्विषयकद्वेषस्य क्लसप्रतिबन्धकतया प्रतिबन्धकाभावविधयावश्यक्लप्सनियतपूर्ववर्तिताकद्वेषाऽभावेनैवोपपत्तौ बलवदनिष्टासाधनत्वस्य न हेतुत्वम् । तेनान्यथासिद्धरित्यर्थः । नन्वन्वयव्यतिरेकसहचारज्ञानस्य कारणताग्राहकस्योभयत्र साम्यात् तेनैवास्यान्यथासिद्धिर्दुवारेत्यत आह-*आस्तिकेति। स च परलोकाऽङ्गीकारवान् । तदनङ्गीकर्तुर्नरकसाधनताज्ञानासम्भवात्तद्विशेषणमुपात्तम् । आस्तिकस्य नरकसाधनताज्ञानेन तत्र द्वेषावश्यम्भावेन प्रवृत्त्यसम्भवादाह-*कामुकेति । तत्त्वञ्चोत्कटरागवत्त्वम् । रागे उत्कटत्वं जातिविशेषो, विषयताविशेषो वा । प्रवृत्तेरित्यस्यागम्यागमने इत्यादिः । द्वेषाऽभावदशायामित्यनेन द्वेषसामग्रीवैकल्यं दर्शितम् । तच्च विषयतया द्वेष प्रति उत्कटेच्छासामग्रीविरहविशिष्टद्विष्टसाधनताज्ञानस्य हेतुतया तादृशसामग्यः स्वातन्त्र्येण प्रतिबन्धकतया बोध्यम् ॥ . परीक्षा तत्र प्रमाणम्-अनुमानम् । विधिवाक्यजन्यशाब्दबोधानन्तरं यागो मत्कृतिसाध्यः, मत्कृति विनाऽनुपपद्यमानत्वे सति मदिष्टसाधनत्वादित्यनुमानस्य सम्भवात् । मधुविषसम्पृक्तान्नभक्षणे प्रवृत्तिवारणाय बलवदनिष्टाजनकत्वज्ञानमपि प्रवृत्तिकारणमिति बलवदनिष्टाजनकत्वमपि विध्यर्थः। नसमभिव्याहारे च धात्यर्थे तदभाव एव प्रतीयत इति नैयायिकमतं निरसितुमाह-*बलवदनिष्टेति । *अन्यथासिद्धत्वादिति । तथा चानन्यथासिद्धत्वघटितकारणत्वं न सम्भवतीति भावः । व्यापकत्वांशाभावादपि तस्य कारणत्वं सम्भवतीत्याह-*आस्तिकेति । Page #165 -------------------------------------------------------------------------- ________________ दर्पणपरोक्षासहिते भूषणसारे - मप्युत्कटेच्या द्वेषाभावदशायां प्रवृत्तेर्व्यभिचाराश्च । तस्मादिष्टसाधनत्वमेव प्रवर्त्तना । उक्तञ्च मण्डनमिश्रैः १३६ पुंसां नेष्टाभ्युपायत्वात् क्रियास्त्वन्यः प्रवर्त्तकः । प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्त्तनाम् । इति ॥ प्रपञ्चितं चैतद् वैयाकरणभूषणे । दर्पणः *व्यभिचाराच्चेति ॥ न हेतुरिति पूर्वेणान्वितम् । अत एव " श्येनेनाभिचरन् यजेत" इत्यत्र न विध्यर्थबाधः । बलवदनिष्टाननुबन्धित्वज्ञानस्याप्रवर्त्तकत्वेन तद्विषयस्य तस्य विध्यर्थत्वस्यवाऽभावादिति भावः । उपसंहरति- तस्मादिति ॥ इष्टसाधनत्वमेवेत्येवकारेण कृतिसाध्यत्वबलवदनिष्टाऽननुबन्धित्वयोर्व्यवच्छेदः । आद्यस्य लौकिकप्रमाणेनैवावगमादन्त्यस्य प्रवर्त्तकज्ञानाविषयत्वादिति भावः । I *प्रवर्त्तनेति* । लिङाद्यर्थ इत्यर्थः ॥ इष्टाभ्युपायत्वादित्यादि । इष्टसाधनत्वादन्यः । कृतिसाध्यत्वादिः । क्रियासु यागादिरूपासु । पुंसां प्रवर्त्तको न, ज्ञाननिष्ठप्रवृत्तिजनकतायां विषयतयावच्छेदको नेत्यर्थः । यजेतेत्यादिवाक्यान्तर्गतलिङादिशक्यो नेति यावत् । चो हेतौ । यतः प्रवृत्तिहेतुं तद्धेतुतावच्छेदकमेव प्रवर्त्तनापदेन व्यपदिशन्तीत्यर्थः । परे तु बलवदनिष्टाननुबन्धित्वज्ञानस्य द्वेषाभावेनान्यथासिद्धत्वेन अप्रवर्तकत्वेऽपि कृतिसाध्यताज्ञानस्य प्रवर्तकतायाः सर्वसिद्धत्वेन तद्विषयस्य तस्य विध्यर्थत्वमावश्यकम् । नच तद्धेतुतायामेव मानाभावः । कृत्यसाध्ये प्रवृत्तिस्तु कृत्यसाध्यताज्ञानस्य प्रतिबन्धकतया तत्र तदभावादेव नेति वाच्यम् । कृत्यसाध्यताज्ञानस्य प्रतिबन्धकत्वे कृतिसाध्यत्वाऽभावतद्व्याप्यतदवच्छेदकधर्म दर्शनादीनां प्रतिबन्धकत्वस्य वक्तव्यतया तावदभावानां प्रवृत्ति प्रति हेतुताकल्पनापेक्षया कृतिसाध्यताज्ञानत्वेन हेतुतायां लाघवस्य स्फुटतरत्वात् । कृतिसाध्यताज्ञानाऽभावस्य सर्वदा सत्त्वेन प्रवृत्यापत्तेश्च । अपि च कृतिसाध्यताज्ञानस्य प्रवर्तकत्वे कृतिसाध्यत्वप्रकारकपाकविशेष्यकज्ञानत्वावच्छिन्नाभावमानसं प्रति पाकादिगोचरप्रवृत्तिसामग्र्याः प्रतिबन्धकत्वं न कल्प्यते परीक्षा ननु सामान्यत इष्टसाधनताज्ञानं न प्रवृत्तिहेतुः अन्येष्टसाधनताज्ञानात् प्रवृत्त्यदर्शनात् ; किन्तु मदिष्टसाधनताज्ञानमेव । एवं च मदिष्टांशविशिष्टस्य विधिवाक्यादलाभादस्यापि लौकिकप्रमाणादवगम इति न लिङ इष्टसाधनत्वे शक्तिरिति चेद्र ? न लत्वरूपसामान्यधर्मप्रकारेण लिङः कर्तर्यपि शक्तिस्वीकारात् । कर्तुस्तेनोपस्थितौ तस्य कर्तुरिष्टांशे विशेषणतया भानाङ्गीकारेणानुपपत्तिपरिहारात् । स्वर्गकामादिपदसमभिव्याहारे तु तदर्थस्यैव तत्र विशेषणतया भानसम्भवाच्च । द्वेषाभावस्य तु कारणताऽवश्यमभ्युपेयैव । प्रतिबन्धकाभावस्य कार्यमात्रं प्रति जनकतायाः क्लृप्तत्वात् । स्वोक्तार्थे सम्मतिमाह - *उक्तञ्चेति । *इष्टाभ्युपायत्वात् * - इष्टसाधनत्वात् । अतः कृतिसाध्यत्वादिप्रवर्तकः प्रवृत्तिजनकज्ञाननिष्टकारणतायां विषयतासम्बन्धेनावच्छेदकहेतुः । (हेतुतावच्छेदकम् ) । * प्रवदन्तीति । प्रवर्तनापदं व्यपदिशन्तीत्यर्थः । Page #166 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः । १३७ दर्पणः इति लाघवम् । तादृशप्रवृत्तिसामग्रीकाले पाकविशेष्यककृतिसाध्यत्वप्रकारकनिर्णय. स्याऽऽवश्यकत्वेन, तस्य च स्वरूपसत एवोक्तज्ञानाऽभावमानसे क्लप्तप्रतिबन्धकतयैवोपपत्तेः। ___ भवन्मते तादृशमानसे तादृशप्रवृत्तिसामग्याः , प्रतिबन्धकत्वकल्पनेन गौरवं स्पष्टमेव । एवमप्रामाण्यविशिष्टपाकविशेष्यककृतिसाध्यत्वप्रकारकज्ञानवानहमिति मा. नसे पाकगोचरप्रवृत्तिसामग्याः प्रतिबन्धकत्वाऽकल्पनेनापि लाघवम् । तादृशविशिष्टविषयिताशालिमानससामग्रीकाले अप्रामाण्यज्ञानास्कन्दितोक्तज्ञानस्यावश्यकत्वेनाप्रामाण्यज्ञानानास्कन्दितपाकादिविशेष्यककृतिसाध्यत्वप्रकारकज्ञानघटिततादृशप्रवृत्तिसामग्रीतादृशमानससामग्रयोमेलनस्यैवाऽभावात् । ___ भवन्मते कृतिसाध्यत्वाभावप्रकारकपाकादिविशेष्यकज्ञानाभावघटिततादृशप्रवृ. त्तिसामग्रीतादृशमानससामग्रयोर्मेलने बाधकाभावेन तादृशमानसे तादृशप्रवृत्तिसामप्रयाः प्रतिबन्धकत्वस्यावश्यकल्पनीयत्वेन गौरवस्यातिस्फुटत्वादनयैव दिशानिष्टसाधनत्वज्ञानाभावादीनामपि हेतुता निरसनीयेत्याहुः । ____ गुरवस्तु-नेष्टसाधनत्वं विध्यर्थः क्षणिकतयावगते यागे तस्य बोधयितुमशक्यत्वादेवं परम्परासाधनत्वमपि । तथा द्वाराऽनुपस्थितेः शाब्दबोधप्रयोजकान्वयप्रयोजक परीक्षा अत्रेदम्बोध्यम्-उक्तरीत्या बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्तिजनकत्वाभावेऽपि कृतिसाध्यताज्ञानस्य हेतुत्वमावश्यकम् । कृत्यसाध्ये वृष्ट्यादौ प्रवृत्यदर्शनात् । न च कृत्यसाध्यताज्ञानस्य प्रवृत्तिप्रतिबन्धकतया तदभावस्यावश्यक्लप्सनियतपूर्वत्वेन तदभिनस्य कृतिसाध्यताज्ञानान्यथासिद्धस्य सम्भवेन न कारणत्वमिति वाच्यम् । कृतिसाध्यताज्ञानशून्यतादशायामधिकृत्य साध्यताज्ञानाभावस्य सत्वेन तदा प्रवृत्तिः स्याद् , अतः कृतिसाध्यताज्ञानस्य कारणताया आवश्यकत्वात् । एवञ्ज कृत्यसाध्यज्ञानादीनां कारणीभूतज्ञानप्रतिबन्धकत्वमेव, नतु प्रवृत्तिप्रतिबन्धकत्वमिति स्वर्गकामादिपदसमभिव्याहारवशात् तदर्थसमवेतत्वस्य कृतौ भानस्वीकारेण प्रकृतिसाध्यत्वस्याप्यन्यथालाभ इति। न च यागस्येच्छाविशेषरूपस्याऽशुविनाशितयो कालान्तरभाविस्वर्गजनकत्वमनुपपन्नम् , कार्याव्यवहितप्रारक्षणाद्यवच्छेदेन कार्याधिकरणे कारणतावच्छेदकसमवायसम्बन्धावच्छिन्नप्रतियोगिताकस्य यागाभावसत्वादिति वाच्यम् । अपूर्वद्वारा तस्य स्वर्गप्रयोजकत्वस्य कल्पनात् । अपूर्वस्यैव स्वर्गजनकत्वमस्तु, यागस्तु पूर्वस्यावश्यकत्वनियतपूर्ववर्तिनः स्वर्गजनकत्वसम्भवे तद्भिन्नत्वादन्यथासिद्धो भविष्यतीति तु न वाच्यम् ? व्यापारेण व्यापारिणोऽन्यथासिद्धिविरहात् यागस्य स्वर्गविशेष प्रति शास्त्रबोधितकारणत्वान्यथाऽनुपपत्यामध्येऽपूर्वः कल्पते यदि यागस्य तं प्रति कारणत्वमेव न स्यात्तदाऽपूर्वस्य सिद्धिरेव न स्यात् । न चैवमपि 'तृप्तिकामः पचेत' इत्यादिलोकिकविधिस्थले तृप्त्यव्यवहितप्राक्क्षणावच्छेदेन तृप्तिरूपकार्याधिकरणे पचिक्रियाया अभावात् कृमर्थमिष्टसाधनत्वस्य विध्यर्थत्वम् । अपूर्वस्य कल्पकवेदाभावेनासिद्धत्वादितिवाच्यम् ? एतादृशे विषये-इष्टप्रयोजकस्यैकविध्यर्थत्वकल्पनादिति द्वेषाभावस्य त्वावश्यक्लप्सत्वमुपपादितम् । १८ द० प० Page #167 -------------------------------------------------------------------------- ________________ १३८ दर्पणपरीक्षासहिते भूषणसारे दर्पणः त्वरूपवत्त्वयोग्यतायास्तत्राभावात् । साधनतासामान्यबोधस्त्वेकविशेषबाधे तदितरप्रकारकत्वनियमादसम्भवदुक्तिकः । किञ्च यागो न कर्तव्यतया प्रतीयते; काम्यादन्यकाम्याव्यवहितपूर्ववर्तिसाधनमेव कामी कर्तव्यतयाऽवैतीत्यस्यान्यत्र क्लप्तत्वात् । तस्माद् द्वारीभूतं काम्याऽव्यवहितपूर्ववर्तिसाधनमपूर्वमेव कार्य्यत्वेन शक्यम् । कार्य्यत्वं च कृत्युद्देश्यत्वम् । तत्र विशेषणीभूतकृतेराश्रयविषययोराकाङ्क्षायां विषयतया यागः आश्रयतया स्वर्गकामः सम्बद्धयते । सुखदुःखाभावादेर्लोकिकप्रमाणेनैवापूर्वस्यापि वेदेन कृत्युद्देश्यत्वबोधनादपौरुषेये तस्मिन्नप्रामाण्यशङ्कानवकाशात् तस्य तत्त्वम् । तथाच 'स्वर्गकामो यजेत'इत्यत्र स्वर्गकामकृत्युदेश्यो यागविषयको नियोग इति बोधः। अत्रापूर्वस्य यागविषककृत्युदेश्यत्वमेव यागविषयकत्वम् । यागस्य तादृशकृतिविषयत्वे पुरुषस्याश्रयत्वे चान्वयितावच्छेदकमपूर्वकारणत्वम् । सैव योग्यता यथा-घटेन जलमाहर' इत्यत्र छिद्रेतरघटत्वं योग्यतावच्छेदकोपस्थितिघंटेनेत्यादावाध्याहारात् । प्रकृते चौपादानिकप्रमाणवशात्तच्छक्यैव । तच्छक्त्यैवाशक्योपस्थित्याभ्युपगमे लक्षणोच्छेद इति न साम्प्रतम् । स्वशक्त्यान्वयबोधकस्यैव स्वोपपादकसकलपदार्थबोधकत्वोपगमात्।। -- न च 'गङ्गायां घोषः, इत्यादौ गङ्गादिपदानां स्वशक्त्यान्वयबोधकत्वं, येन तदुपपादकसकलपदार्थबोधनायौपादानिकप्रमाणाऽवकाशः स्यात् । अजहत्स्वार्थलक्षणा तु नाऽस्मन्मतसिद्धाः तथाच स्वीयत्वेन कार्य्यबोद्धा नियोज्यः; समभिव्याहृतपदोपस्थापितफलाकामश्च तथेति काम्ये स्वर्गकामो नियोज्यः । एवञ्च वेदबोधितमपूर्वमुद्दिश्य पुरुषप्रवृत्त्युपपत्तौ नेष्टसाधनत्वं विध्यर्थः । इच्छाविषयसाधनतात्वेन तत्र शक्तौ प्रवर्तकज्ञानानिर्वाहः स्वर्गजनकतात्वेन शक्तौ नानार्थतापत्तेरिति तन्मतस्य विकल्पग्रस्तत्वाच्च । अपिच नित्यनैमित्तिकस्थले 'शुचित्वकालजीविनो राहूपरागवतश्च मम सन्ध्यास्नानविषयको नियोगः इति बोधान्न फलाऽपेक्षा, भवन्मते तु “चन्द्रसूर्यग्रहे स्नायात्" "अहरहः सन्ध्यामुपासीत" इत्यादौ फलाश्रवणाद्विध्यर्थबाधः प्रसज्ज्येत; मम तु वैदिके कर्मणि वेदबोधितमपूर्वमुद्दिश्यैव पुरुषः प्रवर्त्तते । तस्यैव वेदेन पुरुषार्थत्वबोधनात् । काम्ये फलावाप्तिरानुषङ्गिक्येव । अत एव नित्येऽपि तदुद्देशेन प्रवृत्तिरुपपद्यते इत्याहुः। तदपरे न क्षमन्ते । लोके प्रवर्तकत्वेनं सर्वसम्मतं यदिष्टसाधनत्वज्ञानं तद्विषये इष्टसाधनत्वे विधिशक्तिकल्पनयैव विधेः प्रवर्तकत्वोपपत्तौ नियोगस्य विधिवाच्यत्वे मानाऽभावात् । वेदबोधितस्वर्गसाधनत्वानुपपत्त्या हि तत्कल्पनात् । न च तस्य पूर्वमुपस्थितिरस्ति येन तत्र शक्तिग्रहः । एकविशेषबोधे सामान्यज्ञानस्य तदितरप्रकारकत्वनियमेऽपि साक्षात्साधनतातिरिक्तसाधनतात्वेन बोधे बाधकाभावात्। तादृशसाधनत्वे योग्यतावच्छेदकं च परम्पराघटकमपूर्वम् । तथाच स्वर्गसाधनत्वशक्त्यैव निर्वाहे औपादानिकप्रमाणवशादपूर्वोपस्थितावपि न तद्वाच्यम् । अपूर्वानुपस्थिती परम्परासाधनत्वमपि कथं वेदो बोधयेदिति त्वनुपस्थितेऽपूर्वे कथं शक्तिग्रह इत्यनेन तुल्ययोगक्षेमम्। Page #168 -------------------------------------------------------------------------- ________________ - लकारार्थनिर्णयः । दर्पणः • एवं काम्याssव्यवहितापूर्वसाधनं कामी कर्त्तव्यतयाऽवैतीत्यपि न, काम्यसाधनताज्ञानस्यैव प्रवर्त्तकत्वान्न तु तत्राऽव्यवहितत्वनिवेशोऽपि, गौरवान्मानाऽभावाच्च । दृश्यते च तृप्त्यर्थिनस्तत्प्रयोजके जलाहरणादौ प्रवृत्तिः । इष्टसाधनत्वे यथा शक्तिग्रहस्तथोक्तम् । अपूर्वस्याशक्यत्वेऽपि यथा नित्यनैमित्तिके प्रवृत्तिस्तथोपपादितम् । प्रत्युत तंत्र तवैव सा दुरुपपादा | निष्फलत्वात् । दुःखैकफलत्वाच्च । प्रवृत्तिमात्र इष्टसाधनताज्ञानस्य हेतुत्वावधारणात् । प्रवृत्तिविषयसाध्यत्वे सतीष्टत्वरूपसाध्यत्वमपिनाsपूर्वस्य, येन तदुद्देशेनापि प्रवृत्तिः सम्भाव्येत । निष्फलतयावगते प्रवृत्तिस्तु श्रुतिसहस्रेणाप्युत्पादयितुमशक्येति वेदबोधितत्वान्नित्ये प्रवृत्तिरिति छात्रप्रतारणामात्रम् । अत एव 'यज्ञो दानं तपः कर्म' इत्यादिनाऽनिर्दिष्टोऽपि प्रत्यवायपरीहारः स्वर्गादिफलमनुद्दिश्य क्रियमाणानामेषां फलं भवतीत्यर्थकेनाऽष्टादशाध्याये भगवद्गीतासु पावनत्वमुक्तम् । किञ्च पचेतेत्यादिलौकिक विधेरिष्टसाधनत्वबोधकत्वेन प्रवर्त्तकत्वव वैदिकविधेरपि तच्छक्त्यैव प्रवर्त्तकत्वज्ञाननिर्वा हे तस्यानुपस्थितापूर्वं शक्तिकल्पनं निष्प्रमाणकमेवेति । १३९ परे तु - लिङादिश्रवणेऽयं मां प्रेरयतीति नियमेन प्रतीतेरभिधानामकः प्रेरणापरपयो व्यापारो लिङ्गादिवाच्यः । सा च लिङ्गसंख्यानन्वयित्वाद् व्यापारपदेन प्रव कनिष्ठत्वात् प्रवर्त्तनापदेन च व्यवहियते । प्रेरणात्वेन तस्याः सविषयत्वमपि शक्यताऽच्छेदकं च प्रेर्य्यादिधात्वर्थतावच्छेदकतया सिद्धं प्रेरणात्वमखण्डोपाधिः । स च व्यापारः सम्भवाल्लोके प्रवर्त्तकपुरुषनिष्ठोऽभिप्रायविशेष एव । तत्प्रवर्तकत्वञ्च - लिङाद्युच्चारयितृत्वम् । वेदे तु प्रयोक्तुरसम्भवाल्लिङ्गाद्यन्तशब्दस्वरूप एव तत्त्वे सति स्वतन्त्रत्वम् । राजादिप्रेरितपदा तेर्लिङाद्युच्चारयितृत्वेऽपि प्रवर्त्तकत्वेनाव्यवहियमाणत्वात् - स्वतन्त्रेति । अद्विष्टयाऽऽप्तोक्तया च तथा स्वविषये इष्टसाधनत्वानुमानम् । ततश्च प्रयोज्यप्रवृत्तिः । 'शत्रूक्ता द्विषं भुङक्ष्व' इत्यतो विषभोजने इष्टसाधनत्वानवरातोक्तयेति । आप्तोक्तयापि ' - 'विषं भुङक्ष्व मा चास्य गृहे भुक्ङथाः' इत्यादिकयापि तस्मिन्निष्टसाधनत्वाननुमानादद्विष्टेति । तत्र विषभोजन विषयकाsभिप्रायस्य तदीयद्वेषविशिष्टत्वान्न व्यभिचारः । भवतु वा लिङादिसमभिव्याहारे व्यापारान्तरस्याननुभवात्सर्वत्र लिङाद्यन्तशब्दस्वरूपैव सा । अत एव " हेतुमति च" (पा०सू० ३।१।२६) इति सूत्रे भाष्ये-लिङादिशब्दप्रयोग रूपप्रयोजककर्तृव्यापारस्य सत्त्वादित्याशयेन 'पृच्छतु मां भवान्' इत्यत्र णिच् कस्मान्न भवतीति प्रश्ने - अकर्तृत्वादित्युत्तरम् । सक्रियप्रेरणायां णिच्, निष्क्रिप्रेरणाभ्यां लोडादि । तत्प्रयोजक इत्यत्र तत्पदेन व्यापाराविष्टः कर्त्तोच्यते इति तद्भावः । अथापि कथञ्चित् कर्ता स्यादेवमपि न दोषो लोटोक्तत्वात्; प्रेषणस्य णिज् न भविष्यतीत्युक्तम् । तत आहत्यैव प्रेरणाया विध्यर्थत्वं लभ्यते । “विधिनिमन्त्र" इति सूत्रभाव्येऽपि विधिः प्रेरणमित्युक्तेश्च । तस्मान्नेष्टसाधनत्वादि विध्यर्थः । किञ्चेदं ते इष्टसाधनं, तस्मात् त्वं कुर्विति स्वारसिकव्यवहारादपि न तस्य विध्यर्थत्वं, पौनरुक्त्यापत्तेः । पौनरुक्तस्य सर्वश्रेष्टसाधनत्वबोधनतात्पय्र्यकत्वेऽपि तस्मादित्यस्यानन्वयापत्तेश्चेत्याहुः । तच्च-प्रायशो भट्टमताऽनुवाद एव । यतो भट्टमते लिङर्थोभिधाख्यो व्यापारः । स च लोके प्रयोक्तृपुरुषनिष्ठोऽभिप्रायविशेष एवेत्यादि प्रा Page #169 -------------------------------------------------------------------------- ________________ १४० . दर्पणपरीक्षासहिते भूषणसारे दर्पणः ग्वत् । वेदे त्वन्यस्याऽसम्भवालिङाद्यन्तशब्दनिष्ठ एव सः, समवेतश्चात एव सा शाब्दी भावनेति व्यवहियते । , भावनायाः शब्दार्थभेदेन द्वैविध्यादाख्यातवाच्याऽऽर्थीति व्यवहियते । भावनाधेन लिङर्थशाब्दभावनायाः सविषयत्वमपि भावनाया भाव्यकरणेतिकर्तव्यतारूपांशत्रयविशिष्टत्वादभिधाभावनायाःसविषकत्वेनागतायाः किं भावयेदिति भाव्याकाङ्क्षायां समानप्रत्ययोपात्तत्वप्रत्यासत्त्यांऽशत्रयविशिष्टा स्वविषयप्रवृत्तिरूपाख्यातवाच्यार्थीभावना विषयत्वेनोपतिष्ठते । इयमेव साध्याकाङ्केति व्यवह्रियते। साध्यताख्यविषतयव तस्याः सविषयत्वात् । ___ एवञ्च तस्याः साध्यत्वेऽवगते केनेति करणकाङ्क्षायां लिडादिपदज्ञान करणत्वेनान्वेति । करणत्वं च भावनाभाव्यनिर्वर्तकत्वमेव । कुठारादेरपि पुरुषव्यापारनिर्वत्यछिमा निर्वर्तकत्वेनैव करणत्वात् । इयमेव भावना करणाकाडेत्यच्यते । कष्ट कति न्यायादपाये ट्रेषेणाऽलस्यादिना वा अप्रवर्त्तमानं पुरुषं प्रति प्रशस्तफलवत्ताबोधनेन द्वेषायपसारणेनाऽर्थवादवाक्यजन्या प्राशस्त्यरूपा स्तुतिः सहकारिकारणमितीयमितिकर्तव्यतेत्युच्यते । एवमा भावनाया अप्यंशत्रयवैशिष्टयेन तदवगतौ किं भावयेदित्याकाङ्कायां स्वर्गकामादिपदसन्निधानात् स्वर्गो भाव्यतयाऽन्वेति स्वर्ग भावयेदिति । यद्यपि स व्यापारस्त्यागविषयोऽपि, तथापि तस्याऽसुखरूपतयाऽपुरुपार्थत्वेन करणत्वेनैवोपस्थित्या च न भाव्यत्वम् । अत एव तत्समानाधिकरणज्योतिष्टोमादिपदात्तृतीया। केनेत्याकाङ्क्षायां यागः करणत्वेनान्वेति । करणत्वं तूक्तमेव । सहकार्याकाङ्क्षारूपे कथं भावाकाङ्क्षायां च 'स. मिधो यजति' इत्यादिवाक्यावगतसामिन्नामकयागादिक्रियाजातमितिकर्तव्यतयाऽन्वेतीत्यधिकमन्यतोऽवधार्यम् । तदुक्तम् अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सा चाख्यातस्य गोचरः ॥ लिडोऽभिधा सैव च शब्दभावना भाव्या च तस्याः पुरुषप्रवृत्तिः । सम्बन्धबोधः करणं तदीयं प्ररोचना चाऽङ्गतया प्रयुज्यते ॥ इति ॥ उक्तोऽर्थः । तत्र पूर्वोक्तमते भट्टमतादियान् विशेषो-यगट्टमतेऽभिधाख्यो वैदिकलिङ्गों व्यापारः शब्दसमवेतस्तदतिरिक्तश्च । तस्मिस्तु लिङ्गाद्यन्तशब्दात्मक एव लोकवेदसाधारणश्च । सविषयकत्वं तु मतद्वयेऽप्यविशिष्टमिति ॥ ___ अत्र वदन्ति-अभिधा लिङादिनिरूपिता शक्तिरेव, न तु तदतिरिक्तः कश्चन शब्दसमवेतो व्यापारः । मानाऽभावात् ; विधेः प्रवर्तकत्वस्य पूर्वमुपपादनात् तदनुपपत्तेरप्यभावात् । अन्यथा स्पन्दातिरिक्तः शब्दसमवेत एको व्यापारः कल्पनीयः। तस्य च स्वप्रवृत्तौ परवृत्तौ वा कारणत्वेनाऽक्लप्तस्य तत्त्वेन कारणत्वम् । प्रवर्तनात्वेन परनिष्ठव्यापारबोधकत्वेन क्लप्तस्य शब्दस्य स्वनिष्ठव्यापारबोधकत्वं सविषयकत्वं च कल्पनीयमिति गारवस्य स्फुटत्वाच्च। प्रेरणाया विध्यर्थत्वेऽपि सामान्यस्य विशेषे पर्यवसानात् कोऽसौ व्यापार इति विशेषगवेषणायां, समीहितसाधनत्वमेव स इत्येव वक्तुमुचितम् । लिडस्तदर्थकत्वं विना प्रवर्तकत्वस्यैवासम्भवात् । प्रेरणाविषयः पाक इति बोधस्येष्टसाधनत्वाद्यविषय Page #170 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः। १४१ दर्पणः कस्य प्रवर्तकत्त्वं लोकविरुद्धमेव । न खल्वागमसहस्रप्रेरितोऽपि स्वेष्टसाधनत्वमज्ञात्वा प्रवर्तते कश्चिदित्यपि सर्वसिद्धमेव मखकरणस्य स्वनिष्ठ व्यापारद्वारैव फलजनकत्वमिति नियमस्तु नास्त्येव । व्याप्तिज्ञानादौ व्यभिचारात् । तस्माल्लिङादिजन्यबोध. विषयाऽभिधाया इष्टसाधनत्वादिज्ञाननिरपेक्षायाः प्रवर्तकत्वं नियुक्तिकमेव ।। __ शब्दरूपप्रेरणावादिनाऽपि तद्विषय इष्टसाधनत्वानुमितिद्वारैवोक्तयुक्त्या प्रवर्तकत्वं वाच्यम् । तच्च वैदिकविधिस्थले न सम्भवति । "तस्यैव महाभूतस्य निश्चसितमेतद् यदृग्वेदो यजुर्वेदः सामवेद" इति श्रुत्युपष्टम्भेन निःश्वसितववेदे तैर्जन्यत्वाऽङ्गीकारेण यथार्थज्ञानवदुच्चरितत्वरूपाऽप्तोक्तत्वरूपविशेषणवैकल्येनोक्तानुमानाप्रवृत्तेः । एवं सविषयत्वमप्यात्मविशेषगुणाऽतिरेकिण्यास्तस्याः सर्वतन्त्रविरुद्धम् । ___ न च प्रेरणैव स्वातन्त्र्येण प्रवृत्तिहेतुः । स्वतन्त्रप्रवृत्तौ व्यभिचारात् । “सर्व इमे स्वभूत्यर्थ प्रवर्त्तन्ते” इति समीहितसाधनताज्ञानवत्प्रवर्तकताप्रतिपादक हेतुमति च' इतिसूत्रभाष्यविरोधाच्च । “कः प्रयोज्यस्य प्रेरणयाऽर्थो यदभिप्रायेषु सज्जते” इति तत्सूत्रस्थभाष्येण णिजर्थप्रेरणाया अपि स्वातन्त्र्येणाप्रवर्तकत्वबोधनाच्चेति वैदिकविधेःप्रेरणाऽर्थकत्वासम्भवेन प्रवर्तकत्वानुपपत्त्येष्टसाधनत्वाऽर्थकत्वमेवाऽङ्गीकरणीयम् । ___ एवञ्च लौकिकविधेरपि तच्छत्त्येव प्रवर्तकत्वोपपत्तौ न तदर्थेऽपि सा। अभिप्राय एव तत्र विध्यर्थ इति कल्पस्तु वक्ष्यमाणाऽऽचार्यमतनिरासेनैव निरस्तः । "विधिःप्रेरणम्" इति भाष्यं तु प्रेर्य्यते-प्रवर्ततेऽनेनेति व्युत्पत्त्या प्रवर्तकज्ञानविषयेष्टसाधनत्वपरम् । ज्ञानस्य तद्विषयकत्वेनैव प्रवर्तकत्वात् । यदपि तदुपष्टम्भकतया 'पृच्छतु मां भवान् इत्यादिभाष्योपन्यसनम् , तदपि नाऽ. स्माकं प्रतिकूलम् । यतस्तेन प्रवर्तकज्ञानजनकत्वेन प्रवर्त्तनापदव्यपदेश्याया लोडाद्य- . न्तशब्दप्रयोगरूपायाः प्रेरणाया णिजर्थत्वं प्रतिपाद्यते, न तु विध्यर्थत्वमपि । अर्थभेदस्य दर्शितत्वात् । अकर्तृत्वादित्यनेनाऽपि गमयत्यादेर्गच्छन्तं प्रेरयतीतिवत् , पृच्छ. त्वित्यस्य पृच्छन्तं प्रेरयतीतिविग्रहस्याऽदर्शनेन कञसम्बद्धधात्वर्थविषयकप्रवृत्तिजनकज्ञानाऽनुकूलायास्तस्या णिजर्थत्वाऽभावप्रतिपादनात् तद्विरोधाभावात् । ___अथापीत्याद्युक्तिस्त्वेकदेशिनः । विध्यर्थप्रत्ययप्रकृत्यर्थस्य स्वाभाव्येन भविष्यत्तयैव प्रतीतेः। तदानी प्रयोज्यस्य निर्व्यापारत्वेन कर्तृत्वासम्भवादेव लोटा प्रेषणस्य धात्वर्थविशेषणतयैव भानात् तद्विशेष्यतया प्रेरणविवक्षायां णिचो दुर्वारत्वम् लोडन्ताद्धात्वर्थविशेष्यतया प्रेरणायाः प्रतीतेः पूर्वपक्षस्यैव निर्दलतापत्तेश्च । इदं ते इष्टसाधनमित्याद्युक्तिस्तु सर्वथेष्टसाधनत्वबोधनपरैव । इष्टसाधनत्त्वस्य प्रवर्तनात्वेन . विधिवाच्यत्वमिति पक्षे पौनरुक्त्यसम्भवात् । नैयायिकमते कृत्यात्मकव्यापारस्य पच्याद्यर्थत्वाभावेन तन्मते इष्टसाधनतात्वेनेष्टसाधनत्वस्य विध्यर्थत्वे पौनरुक्त्यापादनानवकाशाच्चेति । ___ वस्तुतस्तु भाष्ये बहुषु स्थलेषु प्रेरणाया विध्यर्थकत्वकथनात् प्रामाण्याल्लिङाद्य. न्तशब्दप्रयोगरूपाया एव तस्या विध्यर्थत्वमुचितम् । श्रुतेस्तु "तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे” “धाता यथापूर्वमकल्पयत्" इत्यादिश्रुतिबलात् पौरुषेयत्वम. भ्युपेत्यैकरूपेणैव लोकवेदयोस्तद्विषये इष्टसाधनत्वाऽनुमानेन विधेः प्रवर्तकत्वं निर्वाह्यमिति सर्व चतुरस्रमिति ॥ Page #171 -------------------------------------------------------------------------- ________________ १४२ दर्पणपरीक्षासहिते भूषणसारेआदिना "हेतुहेतुमतोर्लिङ् (पा०सू०३।३।१५६) 'आशिषि लिङ्लोटौ" (पा०सू०३ ३।१७३) इतिसूत्रोक्ता हेतुहेतुमद्भावादयो गृह्यन्ते । “यो ब्राह्मणायावगुरेत्तं शतेन यातयेत्” इति यथा ॥ __लुङर्थमाह-*भूतमात्र इति* ॥ भूतसामान्ये इत्यर्थः। भूते इत्य दर्पणः आचार्यास्तु-आताऽभिप्रायो विध्यर्थः। पाकं कुर्याः, पार्क कुर्यामिति मध्यमोत्तमपुरुषयोलिङ इच्छाविशेषात्मकाज्ञाध्येषणानुज्ञाप्रश्नप्रार्थनार्थकतया प्रथमपुरुषेऽपीच्छायामेव शक्तेरुचितत्वात्। तत्र भयजनिकेच्छा आज्ञा । अध्येषणीये प्रयोक्तुरनुग्रहद्योतिका साऽध्येषणा । निषेधाभावव्यक्षिकेच्छाऽनुज्ञा । उत्तरप्रयोजिका तु प्रश्नः । प्रातीच्छा प्रार्थनेति विवेकः । तथाच-'स्वर्गकामो यजेत' इत्यत्र यागः स्वर्गकामनिष्ठतयातेच्छाविषय इति बोधः । । ____ यद्वा कर्त्तव्यत्वेनेच्छैव विध्यर्थः । तयाचेष्टसाधनत्वाऽनुमानम् । तद् यथा स्वर्गकामस्य मम याग इष्टसाधनं, कर्तव्यत्वेनाऽऽप्तोक्तलिङ्बोध्येच्छाविषयत्वात् । मत्पिवेष्यमाणमनोजनवत् । विषभोजनादेरपि कस्यचित्कृतिसाध्यतया कर्त्तव्यत्वेनेश्वररूपप्रासेच्छाविषयत्वेन तत्रेष्टसाधनत्वरूपसाध्याभावाद् व्यभिचारवारणाय लिङ्पदबोध्येति । आप्तस्तु-वैदिकस्थले ईश्वर एव । तस्मिन् विधिरेव तावत् , कुमार्या गर्भ इव पुंयोगे मानमित्याहुः। - तदपि न । कृत्यसाध्यनिष्फलानिष्टे प्रवृत्तिवारणायेष्टसाधनतादिज्ञानहेतुताया आवश्यकत्वेन तद्विषयेष्टसाधनत्वादीनां विध्यार्थत्वोपगमेनैव प्रवृत्तिनिर्वाहे आताभिप्रायस्य विध्यर्थत्वे मानाभावात् । न हीष्टसाधनत्वज्ञानमन्तरेणाप्तेच्छाविषयत्वज्ञानमात्रात् प्रवृत्तिः कस्यापि दृश्यते । स्वतन्त्रप्रवृत्तौ व्यभिचारेणाप्ताऽभिप्रायज्ञानस्य प्रवर्तकत्वाऽसम्भवाच्चेत्यलम् । प्रकृतमनुसरामः ॥ *प्रपञ्चितचैतदिति । बलवदनिष्टाऽननुबन्धित्वज्ञानस्य प्रवर्तकतानिराकरणमिष्टसाधनताज्ञानस्य प्रवर्तकत्वाऽवधारणं चेत्यर्थः । प्रपञ्चत्तूक्तप्रायः॥ *आदिनेति ॥ प्रेरणादौ चेत्यत्रोपात्तादिशब्देनेत्यर्थः ॥ *यो ब्राह्यणायाऽवगुरेदि. ति* । यत्कर्तृको ब्राह्मणोद्देश्यको वधोद्यमस्तत्कर्मिका तादृशवधोद्यमजन्या शतसंवत्सरयातनेति बोधः । “हेतुहेतुमतोर्लिङ्” (पासू० ३.१९६) इत्यनेन प्रकृत्यर्थयोर्भावे लिङो विधानात् । प्रवर्तकत्वेन निवर्तकत्वेन वा वेदस्य प्रमाण्यात्तेन वधोद्यमनिवृत्तिपरत्वग्रहे तस्मानावगुस्तिव्यमिति विधिः कल्प्यत इति भावः । मात्रपदं कृत्स्नार्थकमित्यभिप्रा. यवानाह-*भूतसामान्य इति । तेन विशेषविवक्षायां लङादीनामवकाशं सूचयति*भूते लुङिति । भूत इत्यधिकृत्य "लुङ्” इति सूत्रादित्यर्थः। ननु वर्तमानध्वंसप्र. परीक्षा आदिना हेतुहेतुमद्भावस्य लिडर्थत्वं यत्र तदुदाहरणमाह-*यो ब्राह्मणायेति । "विधिः प्रेरणम्” इति भाष्यन्तु प्रेर्यतेऽनेनेति व्युत्पत्या प्रवर्तकज्ञाननिष्ठकारणतावच्छेदकपरमेव । *अवगुरेदित्यत्र-* कर्ता यमदूतः यत्कर्त्तको ब्राह्मणवधोधमस्तत्कमिका तादृशवधोद्यमजन्या यमदूतकर्तृका शतसम्वत्सरव्यापिका यातनेति बोधः । एतद्वाक्यदर्शनेन नावगुरितव्यमिति विधिः कल्पनीयः। Page #172 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः। १४३ धिकृत्य "लुङ, (पा०सू०३।२।१०) इति सूत्रात् । अत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् । तञ्च क्रियायां निर्वाधमिति विद्यमानेऽपि घटे घटोऽभूदिति प्रयोगः। विद्यमानध्वंसप्रतियोगी घटाभिन्नाश्रयक उत्पत्त्याद्यनुकूलो व्यापार इति बोधः॥ अयमत्र संग्रहः-कालो द्विविधः। अद्यतनोऽनद्यतनश्च । आद्यस्त्रिविधः । भूतभविष्यद्वर्त्तमानभेदात् । अन्त्यो द्विविधः। भूतो भविष्यश्च । तत्र वर्तमानत्वे लट् । भूतत्वमात्रे लुङ् । भविष्यत्तामात्रे लट् , हेतुहेतुमद्भावाद्यधिकार्थविवक्षायामनयोर्लङ । अनद्यतने भूतत्वेन विवक्षिते ला । तत्रैव परोक्षत्वविवक्षायां लिट् । तादृशे भविष्यति लुट् , इति द्रष्टव्यम् ॥ - लुङर्थमाह-*सत्यामिति ॥ क्रियाया अतिपत्तिरनिष्पत्तिस्तस्यां - दर्पणः तियोग्युत्पत्तिकत्वं भूतत्वम् । अत एव नाशस्य विद्यमानतादशायामपि, विनष्टो घट इति प्रयोगः । तदुत्पत्तेर्वर्त्तमाननाशप्रतियोगित्वात् । तथाच यत्रोत्पत्तिरेव धात्वर्थस्तत्रोत्पत्तेटेंधाभानप्रसङ्गोऽत आह-*अत्रेति । भूत इति सूत्रे इत्यर्थः ॥ वर्तमान . इत्यादि । नचोक्तदोषः । अस्मन्मते नश्यत्यादे शाऽनुकूलव्यापाराऽर्थकतया काला. ऽन्वयस्यापि व्यापार एव समर्थितत्वेन च तदप्रसक्तरुत्पत्त्यघटितत्वेन द्वेधाभानाऽसम्भवाच्च । *क्रियायामिति । फलानुकूलायां तस्यामित्यर्थः। विद्यमानेऽपीत्यपिना समानप्रत्ययोपात्तत्वप्रत्यासत्त्याऽऽख्यातार्थकारके कालान्चयोपगमे उक्तप्रयोगानुपपत्तिः सूच्यते ॥ .. नैयायिकास्तु-उत्पत्तिघटितत्वेन लाघवादुक्तार्थ एव भूतपदस्य शक्तिः । परन्तु नश्यत्यादौ नाशातिरिक्तस्य व्यापारान्तरस्याननुभवात्तत्रोत्पत्तिघटिते प्रत्ययस्य लक्षणावश्यकीत्याहुः ॥ *भूतसामान्य इति । एतेन परोक्षत्वानद्यतनत्वयोर्व्यवच्छेदः । *विद्यमान इति। प्रकृतशब्दप्रयोगाधिकरणक्षणे विद्यमान इत्यर्थः। अत्रापि पूर्ववन्मध्यवर्तिक्रियाक्षणे पूर्व क्रियाध्वंसमादायापाक्षीदित्यादिप्रयोगापत्तिवारणाय 'तत्तत्फलजनकचरमक्रियाविशेष्यकस्य तादृशातीतत्वस्य ज्ञान कारणमिति वाच्यम् । *क्रियायाम्-* धात्वर्थक्रि. यायाम् । एवं च 'नष्टो घट' इत्यादौ नाशोत्पत्यनुकूलव्यापारस्य धात्वर्थत्वं वाच्यम् । तदघटकोत्पत्तौ वर्तमानध्वंसप्रतियोगित्वस्यान्वय इति । ... *अनयोः-भूतभविष्यतोः । *अनिष्पत्तिरिति । अनिष्पत्तिसम्भावनमिति यावत् । अनिष्पत्तिरित्यत्र यः पत-धातुस्तस्य सम्भावनार्थत्वात् । यस्मिन्देशे काले वा ययोः क्रिययोः सम्भवस्तदन्यस्मिन् देशे काले वा तयोः सम्भावनं प्रसञ्जनम् , यन्त्र बाधापत्तिस्तत्र चाहार्य एव ज्ञानं धातुवाच्यम् । यत्र तु न तथा तत्रोत्कटकोटिकज्ञानरूपसंशय एव । यथा-'यदि वर्षसहस्रमजीविष्यत्तदा पुत्रशतमजनिष्यत्' इति । अत्र यदि शब्दार्थोऽनिर्धारणं कालविशेषश्चार्थः । व्यापकत्वम्-द्वितीयार्थः, एवं परीक्षा Page #173 -------------------------------------------------------------------------- ________________ १४४ दर्पणपरीक्षासहिते भूषणसारेगम्यमानायाम् , भूते भाविनि हेतुहेतुमद्भावे सति टुङित्यर्थः । “लिङ्निमित्त लङक्रियातिपत्तौ” (पा०सू० ३।३।१३६) इति सूत्रात्। लिङो निमित्तं हेतुहेतुमद्भावादि । यथा-'सुवृष्टिश्चेदभविष्यत् सुभिक्षमभ दर्पणः *भूते भाविनीति* ॥ कार्यकारणभावापन्नप्रकृत्यर्थयोर्भूतत्वे भविष्यत्त्वे वा गम्यमान इत्यर्थः ॥ हेतुहेतुमद्भावादीति* ॥ आदिना शक्तयादिपरिग्रहः । तत्र भविष्यदर्थे उदाहरणमाह-*सुवृष्टिश्चेदिति* ॥ अत्रैकस्यैव धात्वर्थस्य कर्तृरूपोपाधिभेदेन कार्य परीक्षा चानिर्धारितकालविशेषवृत्तिभविष्यद्धंतुभूतसहस्रवर्षव्यापकजीवित्वप्रकारकसम्भावनापकर्त्तका तत्कर्त्तकालकालिकभविष्यकार्यभूतशतपुत्रकर्मकोत्पत्यनुकूलफलव्यापारसम्भावनेति बोधः। अत्र सहस्रजीवित्वस्य कर्तरि बाधज्ञानसत्वे-आहार्यज्ञानात्मकमेव सम्भावनम् , तस्यासत्वे तु तादृशसंशयरूपं तच्छाब्दबोधविषय इति बोध्यम् । एवं भूतेऽप्युक्तार्थे लङ् । यथा-'यदि पर्वताः कोमला अभविष्यन् , तदा आरण्यकै रेवाभक्षयिष्यन्' इति । अत्र यदि शब्दस्यातत्वं कालविशेषश्चार्थः लुङश्वातीतत्वं हेतुहेतुमत्वप्रसक्तिसम्भावनाचार्थः। असत्वम्-अभावप्रतियोगित्वं तदूघटकाभावप्रतियोगितया धात्वर्थोऽन्वेति । तत्रैवाधिकरणत्वेन प्रथमान्तार्थस्याऽप्यन्वयः। एवं च पर्वतवृत्यभावप्रतियोगिहेतुभूतवर्तमानध्वंसप्रतियोगिकोमलकर्त्तकभवनप्रसत्तिसम्भा. वनासमानकालिकारण्यककर्त्तककार्य्यभूतातीतव्यापारजन्यभक्षणसम्भावनाविषय इति बोधः । यदि त्वेतादृशे विषये योग्यतानिश्चयरूपबाधकसत्वान्न संशयसम्भव इति विभाव्यते तदा-आहार्य एव बोधः । नन्वेवं 'वह्निना सिञ्चति इति वाक्यादप्यहार्यबोधः स्यात्, इष्टत्वात् । अथवा यदिपद-तदापद-लिङ्समभिहारे एवाहार्यबोधः । आहार्यज्ञानस्येच्छाजन्यतया वह्निकरणकसेचनज्ञानं जायतामितीच्छासत्वे तु पदार्थोपस्थितिमूलको मानस बोध एव वह्निना सिञ्चतीत्यादिभ्यो भवति । एवं 'पर्वतो यदि निर्वह्निः स्यात्तदा, निर्धूमः स्यादित्यादितर्कस्थलेऽपि । “हेतुहेतुमतोलि इति लिङ् । तदर्थश्च वर्त्तमानत्वं प्रसञ्जनं च । आपाद्यव्याप्यापादकवत्ताज्ञानानन्तरपर्वतमाननिर्वह्नित्वसत्ताप्रसञ्जनजन्यतत्कालिकनिघूमत्वप्रसञ्जनमिति बोधः । अत्राप्याहार्यबोध एव । यदित्वाहार्यशाब्दबोधो नास्तीत्येव सिद्धान्तः, तदा यत्र हेतुहेतुमदावे लिङ्लटौ, तत्रापि तत्तद्वाक्यघटकपदजन्याविश्यवलपदार्थोपस्थितिरेव तदनन्तरं विशेष्ये विशेषणं, तत्रापि विशेषणान्तरमिति रीत्या मानससंशय एव स्वीकार्य्यः। ___ अन्ये तु हेतुहेतुमद्भावे यन्त्र लिङ्, तत्र तत्समभिव्याहृतधातोस्तत्तत् क्रियाप्रसक्त्यभावे लक्षणादिपदसमभिव्याहारस्तात्पर्यग्राहकः । यथायथमतीतानागतत्वं हेतुहेतुमनावश्च लुङर्थस्तस्याभावेऽन्वयः । एवं च 'पर्वता यदि कोमला अभविष्यन्' इत्यादौ अतीतकालसम्बन्धिपर्वतकर्तृककोमलभवनाभावप्रयोज्य–अरण्यककर्तृकातीतव्यापारजन्यभक्षणाभाव इत्येवान्वयबोधः । प्रतियोगिप्रसिद्धिश्च बौद्धी द्रष्टव्या । एवमेव 'यदि वर्षसहस्रम्' इत्यादावनागतकालविषयको बोधोऽभावविषयकः तर्कस्थले तु पूर्वोक्त एवार्थ इत्याहः। तत्राभावबोधस्य वक्ततात्पर्याविषयत्वात् चमत्कारानाधायकत्वाच्च । यत्र त्वभावबोध एव वक्तृतात्पर्यम्, तत्र भवत्येवाभावबोधस्तदाह-*यथा सुवृष्टिश्चे Page #174 -------------------------------------------------------------------------- ________________ लकारार्थनिर्णयः। १४५ विष्यत्' । 'वह्निश्चेत् प्राज्वलिष्यद् ओनमपदयत् इत्यादौ । अत्र वह्नयभिन्नाऽऽश्रयकप्रज्वलनाऽनुकूलव्यापाराभावप्रयुक्त-ओदनाभिन्नाश्रयकविक्लित्यनुकूलव्यापाराभाव इति शाब्दबोधः । एवं रीत्या द्रष्टव्यम् । अयश्च अर्थनिर्देश उपलक्षणम् । अर्थान्तरेऽपि बहुशो विधानदर्शनात् । प्रसिद्धत्वादेष्वेवार्थेषु शक्तिरन्यत्र लक्षणेति मतान्तररीत्या चोक्तम् । एतेषां क्रमनियामकश्चानुबन्धक्रम एव । अत एव 'पञ्चमो दर्पणः कारणभावाऽवगतिरुत्तरत्र तु स्वरूपतो भिन्नयोस्तयोरिति विशेषः । *व्यापाराभाव इति ॥ धात्वर्थयोभविष्यत्त्वप्रदर्शनार्थ परमभावविशेष्यकबोधोत्कीर्तनम् । वह्नयमिनाश्रयकभाविप्रज्वलनजन्यौदनाऽऽश्रयकविक्लित्त्यनुकूलव्यापार इति शाब्दबोधस्तूचितः ॥ *प्रयोज्य इति ॥ व्यापाराभावान्वयिप्रयोज्यत्वोत्कीर्तनं च वह्निप्रज्वलनौदनपाकयोः कार्यकारणभावप्रदर्शनाय । यदभावो यदभावप्रयोज्यः स तज्जन्य इति नियमात् । तथाच प्रकृते ओदनपाकाभावे वह्निप्रज्वलनाभावप्रयोज्यत्वेऽवगते तत्प्रतियोगिनोस्तयोः कार्यकारणभावः सुबोधो भवतीति भावः । एवं भूते । परस्परेण स्पृहणयिशोभं न चेदिदं द्वंद्वमयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नतः पत्युः प्रजानां विफलोऽभविष्यत् ।। यदि देवदत्तो नाऽभविष्यदित्यादि बोध्यमित्याह-*एवं रीत्येति* ॥ *अयञ्चेति॥ "वत्तमाने लट्इत्यादिनोपात्त इत्यर्थः ॥ *अर्थान्तरेऽपि* ॥ अर्हप्रशंसाप्राप्तकालाद्यर्थेऽपीत्यर्थः । एषु-वर्तमानत्वादिषु, शक्तिः-सङ्केतरूपा पदार्थान्तररूपा वा, अन्यत्र-अर्हाद्यर्थे ॥ *मतान्तररीत्या चेति* ॥ बोधकत्वमेव शक्तिरिति वदतामस्माकं तु केषाञ्चित् प्रयोगोपाधित्वमितरेषां शक्यत्वमेवेति भावः ॥ *अनुबन्धक्रम इति* ॥ अकाराद्यनुबन्धक्रम इत्यर्थः । ननु यत्र प्रत्ययस्य तिबादेरदर्शन तत्र द्योतकत्वं वाचकत्वं वेति पक्षद्वयेऽप्यनुपपत्तिः । वाचकस्य द्योतकस्य वा सत्त्वेन वर्त परीक्षा त्यादिना* । अत्राभावयोः प्रयोज्यप्रयोजकभावप्रदर्शनं प्रतियोगिनोः प्रयोज्यप्रयोजकभावप्रदर्शनाय कारणाभावस्य कार्याभावप्रयोजकत्वात् । *अयञ्चेति* । “वर्तमाने लट्" "परोक्षे लिटा इत्यादिनोक्तः । *अर्थान्तरेऽपि*-अर्हः प्रशंसाप्राप्तकालादिषु । *एष्वेव* । वर्तमानत्वादिष्वेव । *शक्तिः-* सङ्केतरूपा, पदार्थान्तररूपा वा । *मतान्तररीत्येति । नैयायिकमीमांसकरीत्या। एतेन बोधकत्वं शक्तिरिति वदतामस्माकमर्हाद्यर्थविषयेऽपि । यदि शाब्दबोधस्तद्विषयकोऽनुभवसिद्धः, तदा शक्तिरेव; नोचेत्प्रयोगोपाधित्वमिति ध्वनितम् । *अनुबन्धक्रमः*-अकाराद्यनुबन्धक्रमः । *अत एव-* १९ द० ५० Page #175 -------------------------------------------------------------------------- ________________ १४६ दर्पणपरीक्षासहिते भूषणसारेलकार' इत्यनेन मीमांसकैलेंट व्यवह्रियत इति दिक् ॥ २३ ॥ व इति श्रीकौण्डभट्टविरचिते वैयाकरणभूषणसारे लकारविशेषार्थनिरूपणम् ॥ २॥ दर्पणः मानत्वादिबोधस्योपपादयितुमशक्यत्वादत आह-*दिगिति ॥ तदर्थस्तु पदं वाचकमिति पक्षे प्रकृतिप्रत्ययविभागकल्पनया वाचकत्वं तत्रारोप्य पदशक्तिरेव व्युत्पाद्यते । यत्र प्रत्ययस्य प्रकृतेर्वा अश्रूयमाणत्वं तत्र श्रूयमाणस्यैव तदर्थकत्वं कल्प्यते । तदाहुः"शिष्यमाणं लुप्यमानाऽर्थाभिधायि” इति । अत एव 'व्यतिसे, इरियान्' इत्यादौ प्रत्ययमात्रात्प्रकृत्यर्थविषयको बोध इत्यादिः ॥ २३ ॥ ॥ इति भूषणासारदर्पणे लडाद्यर्थनिर्णयः ॥ २ ॥ परीक्षा अकाराद्यनुबन्धक्रमस्य नियामकत्वादेव । दिगिति। दिगर्थस्तु-यत्र लादेशानामपहारो लोपेनः तत्र तेषामश्रवणाद्वाचकताद्योतकतावैषूभयमपि न सम्भवति, किन्तु श्रूयमाणस्य परिनिष्ठितपदस्य वाक्यस्य वाचकत्वमिति स्वीकार्य्यम् । अत एव 'व्यतिसे' 'इयान्' इत्यस्मात्प्रकृतिलोपे ऽप्यर्थस्य प्रकृत्यर्थसम्ब. न्धस्य बोधः, स्फोटस्यैव सिद्धान्तितत्वादिति । इति श्रीमद्भुषणसारटीकायां परीक्षानामिकायां लडाद्यर्थविवरणम् । Page #176 -------------------------------------------------------------------------- ________________ अथ सुबर्थनिर्णयः । सुबर्थमाह आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा । `यथायथं विभक्त्यर्थाः, सुपां कर्मेति भाष्यतः ॥ २४ ॥ द्वितीया तृतीयासप्तमीनामाश्रयोऽर्थः । तथाहि - "कर्मणि द्वितीया" ( पा०सू० २।३।२) तच्च कर्त्तुरीप्सिततमम् । क्रियाजन्यफलाश्रय इत्यर्थः । क्रियाजन्यफलवत्त्वेन कर्मण एव कर्त्तुरीप्सिततमत्वात् । दर्पणः अथ सुबर्थनिर्णयः । अवसरसङ्गत्या सुबन्तार्थे निरूपणीये प्रातिपदिकार्थविशेष्यत्वात् क्रियाकाङ्क्षितत्वाच्चादौ विभक्त्यर्थनिरूपणमित्यभिप्रायवानाह - *सुबर्थमिति * ॥ *आश्रयोऽर्थ इति ॥ किञ्चिद्धर्मानवच्छिन्नाश्रयतावानित्यर्थः । तेन चतुर्थीपञ्चम्योरर्थयोरुद्देश्यावध्योराश्रयात्मकत्वेऽपि न क्षतिः । तत्र द्वितीयाया आश्रयार्थकत्वे मानमाह -तथाहीत्यादिना ॥ ननु यथाश्रुते "कर्त्तुरीप्सिततम" इत्यनेन कर्तृसम्बन्धिप्राप्तीच्छाविशेष्यस्यैव कर्मत्वं प्रतिपाद्यते, न तु क्रियाजन्यफलाश्रयस्येत्यत आह-*क्रियाजन्य फलाश्रयत्वेनेति ॥ अयं भावः - सूत्रे ईप्सिततमशब्द आप्नोतेरिच्छासन्नन्तात् कर्मक्कान्तात् प्रकृ- त्यर्थाऽतिशयद्योतके तमपि निष्पन्नः । तद्योगाच्च कर्त्तशब्दात्, “तस्य च वर्त्तमाने " ( पा०सू० २।३।६७ ) इति कर्त्तरि षष्ठी । तथाच कर्त्रीपस्थितत्वात् स्वीयव्यापारेण परीक्षा अथ सुबर्थनिर्णयः । क्रियायाः कारकाकाङ्क्षितत्वात्कारका भिधायिप्रत्ययस्य स्मृतत्त्वात्तेषां निरूपणमाक्श्यकमिति तेषामर्थानाह-मूले- * आश्रय इत्यादिना* | *आश्रयः * - आश्रयत्वावच्छिन्नः, चतुर्थीपञ्चम्यौ यावुद्देश्यतावधिरूपौ वाच्यौ तयोराश्रयरूपत्वेऽपि न क्षतिः । तयोर्वाच्यतावच्छेदकताया आश्रयत्वे विरहात् । आश्रयत्वावच्छिन्नस्य द्वितीयावाच्यत्वे युक्तिमाह-*तथाहीत्यादिना* | *कर्मणि द्वितीयेति । कर्मवाचिका द्वितीयेत्यर्थः । * - * कर्म च । ननु “कर्त्तुरीप्सिततमम्" इत्यनेन कर्तृविषया प्राप्तीच्छा तद्विशेष्यस्य लाभात्कथं तेन सूत्रेणाश्रयस्य द्वितीयावाच्यत्वलाभ इत्यत आह-क्रियाजन्येति* । कथमस्य लाभ इति चेच्छृणु ? 'ईप्सिततमम्' इत्यत्राप्नोते रिच्छासन्नन्ताकर्मणि क्तप्रत्यये ततः प्रकृत्यर्थघटकेच्छायाः प्रकर्षविवक्षायां तमुपस्थितस्य व्यापारस्य तत्रान्वय इति स्वीयव्यापारेणाप्तुमुत्करेच्छा विषय इत्यर्थो लभ्यते । आतिश्व फलव Page #177 -------------------------------------------------------------------------- ________________ १४८ दर्पणपरीक्षासहिते भूषणसारे "तथा युक्तञ्चानीप्सितम्" (पासू० १४५०) इत्यादिसंग्रहाच्चैवमेव युक्तम् । ईप्सितानीप्सितत्वयोः शाब्दबोधे भानाभावेन दर्पणः व्याप्तुमिष्यमाणतमं व्यापारजन्यफलसम्बन्धित्वप्रकारककर्तुनिष्ठोत्कटेच्छाविषयः कति पर्यवसानात् क्रियाजन्यफलाश्रयस्य कर्मतालाभ इति । न चेच्छाकर्मीभूतार्थधातोरेव “धातोः कर्मण” इति सूत्रेणेच्छायां सनो विधानाद् व्याप्तीच्छार्थकसन्नन्तधातुना व्याप्तिरूपकर्मोपसंग्रहान्जीवत्यादिवदकर्मकतया ततः कथं कर्मक्तोपपत्तिरिति वाच्यम् । धात्वर्थोपसंग्रहीतकर्मत्वमित्यत्र कर्मणा तद्धात्वर्थीयकर्मान्तरानाकाङ्क्षात्वविशेषेण सन्प्रकृतिधात्त्वर्थकर्मणः कर्मान्तरसाकाङ्कत्वेनोक्ताऽकर्मकत्वस्य सन्नन्ते असम्भवात् । एवं सन्नतस्य वृत्तितया तद्घटककर्माऽऽदाय कर्मसंज्ञाकान्वय्यर्थकत्वरूपसकर्मकत्वाभावेऽपि तबहिर्भूतकर्मान्वयित्वमादायैव सकर्मकत्वं बोध्यम् । एवं फलतावच्छेदकसम्बन्धेन तद्धात्वर्थफलव्यधिकरणव्यापारवाचकत्वरूपं तदपीतिनेप्सेत्यादितः कर्मप्रत्यायानुपपत्तिः । जिघ्रतेरपि स्वार्थाऽन्तरभूतकर्मणस्तदीयपुष्पादिकर्मान्तरसाकानत्वमस्त्येव । गन्धनिरूपितलौकिकविषयतायां पुष्पादेराधेयत्वीयसांसर्गिकविषयतानिरूपितप्रकारतानिरूपकत्वेनाऽन्वयेनाऽकर्मत्वात् । - 'कृष्णाय राध्यति इत्यस्य कृष्णस्य शुभाऽशुभं पर्यालोचयतीत्यर्थान्न धात्वर्थान्तर्भूतशुभकर्मणः कर्मान्तरसाकासत्वमिति न तत्रातिप्रसङ्गः। बुभूषत्यादीनां तु भवनाऽऽदिकर्मणः कर्मान्तरानाकाङ्क्षस्य धात्वर्थतावच्छेदककोटिप्रविष्टत्वादकर्मकत्वं व्यक्तमेव । एवं स्वर्यत इति भाष्यप्रयोगस्थस्वरवदूरूपविकृतिकर्मणः सन्निहितशब्दरूपप्रकृतिकर्मसाकाङ्क्षातया, करोत्यर्थणिजन्तात् कर्मप्रत्ययोपपत्तिरिति बोध्यम् ॥ केचित्तु-सनाद्यन्तस्य धात्वर्थोपसगृहीतत्वेनाऽकर्मकत्वेऽपि तत्प्रकृतेः सकर्मकत्वमादाय तस्मात् कर्मप्रत्ययोपपत्तिमाहुः। ननु तथापीष्टाऽघटितस्य भवदुक्तस्य कथं कर्मलक्षणत्वमत आह-*तथा युक्तमिति* ॥ कर्मव्यवहारस्य द्वेष्योदासीनयोरप्यविशिष्टत्वात्तत्साधारणस्यैव लक्षणत्वमुचितम् । इच्छाघटितस्यैव तस्य लक्षणत्वे तु द्वेष्यादिकर्मण्यव्याप्तिः स्यात्। तथाव तत्साधारण्यायेदमेवाश्रयितुं युक्तमिति भावः । *एवमेवेति । इत्थमेवेत्यर्थः। ननु द्वितीयाया उक्तकर्मार्थकत्वे, हरिं भजतीत्यादौ हसंदेरीप्सितत्वादिना भानाऽनुपपत्तिरत आह-ईप्सितानीप्सितत्वयोरिति* *भानाऽभावेनेति । सार्वजनीनतयानुभवा परीक्षा त्वम् । एतेन कर्त्तवृत्तिव्यापारजन्यफलवत्वेनेच्छाविषयत्वलाभः । नचेच्छाकर्मार्थकधातोरिच्छायां सनो विधानाव्याप्तिरूपकर्मणोऽन्तर्भावादकर्मकत्वापत्तिरिति कथं सन्नतात्कर्मणि प्रत्यय इति वाच्यम् ? एकस्य कर्मणोऽन्तर्भावेऽपि बहिर्भूतकर्मसाकाङ्कत्वेन सकर्मकत्वोपपत्तेः। 'पुष्पं जिघ्रति' इत्यत्र घ्राधातोरिव । यद्वा सन्नन्तस्याकर्मकत्वेऽपि सन्प्रकृतेः सन्कर्मकतया कर्मान्वयसम्भव इति बोध्यम् । - नन्वेवमिच्छाघटितमेव कर्मत्वलक्षणमस्तु, इच्छाया निवेशमकृत्वा किमेतादृशकर्मत्वलक्षणेनेत्यत आहु--*तथायुक्तमिति । एवमेव*-इच्छाघटितमेव । नन्वेवं सति 'हरिं भजति' इत्यादौ कर्मणो भानमिच्छाघटितरूपेण न स्यादत आह-ईप्सितेति । Page #178 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः। . १४९ संज्ञायामेव तदुपयोगो, न तु वाच्यकोटौ तत्प्रवेशः। तथाच क्रियायाः फलस्य च धातुनैव लाभादनन्यलभ्य आश्रय एवार्थः। तत्वञ्चाखण्डशक्तिरूपमवच्छेदकम् । 'ओदनं पचति इत्यत्र विक्लित्याश्रयत्वात् दर्पणः दितिभावः। ननु तर्हि क्रियाजन्यफलाश्रयः कमेंत्येव सूत्र्यतामत आह-*संज्ञायामेवेति । अयमाशयः-क्रियाजन्यफलाश्रयः कर्मेति सूत्रप्रणयने यद्यपीप्सितानीप्सितयोरविशेषेण संज्ञा सिद्धयति; तथापि 'अग्नेर्माणवकं वारयति' इत्यादौ क्रियाजन्यफलभागित्वेनेष्टस्य माणवकस्याऽपि विशेषविहितेन "वारणार्थानाम्" (पा० सू० १।४।२७) इत्यनेनापादानसंज्ञा प्रसज्ज्येत । सूत्रं तु 'हरिं भजति इत्यादौ चरितार्थम् । तत्परिहारायेप्सिततमत्वस्य संज्ञिकोटौ निवेशे अप्राप्तद्वेष्योदासीनसंज्ञाविधानार्थमुत्तरसूत्रमिति तथा नोक्तमिति । ननु तथापि पञ्चम्या इव न द्वितीयाया अप्याश्रयमानार्थकता, किन्तु विशिष्टस्यैवेत्यत आह-*तथाचेति । आश्रय एवेत्येवकारेण विशिष्टार्थस्य शक्यत्वव्यवच्छेदः। नन्वाश्रयत्वस्य तत्तत्स्वरूपात्मकस्य तत्तदाश्रयभिन्नत्वात् कथं तस्य शक्यतावच्छेदकत्वम् । अनुगतधर्मस्यैव तत्त्वादत आह-*तत्वञ्चेति* । आश्रयत्वं चेत्यर्थः । *अखण्डशक्तिरूपमिति* । शक्तिधर्मः । इतरपदार्थाघटितमूर्तिकधर्मरूपमिति यावत्। आश्रय इत्यनुगतव्यवहागदाश्रयपदे शक्यतावक्छेदकत्वाच्च तत्सिद्धिर्द्रव्यत्वादिवदिति भावः ॥ नैयायिकास्तु-आश्रताया नियतान्यनिरूपितस्वरूपाया अनुगमकत्वाऽसम्भवः । शक्यतावच्छेदकत्वस्यापि विभुत्वान्यतरत्वादी व्यभिचारेण नाऽखण्डत्वसाधकत्वमिति न द्वितीयाया आश्रयोऽर्थः। तस्य प्रकृत्यैव लाभात् ; प्रकृत्यर्थभिन्नत्वेन तत आश्रयस्याऽननुभवाच्च । किन्तु फलान्वयिनी कृतिरेव तदर्थः । “कर्मणि द्वितीया" इत्यस्य फलनिष्ठाऽऽधेयत्वान्वये प्रकृतितात्पय्ये तदुत्तरं द्वितीयेत्यर्थात् न तदूविरोधोऽपि । अनादितात्पर्यग्राहकत्वेन परम्परया शक्तिमाहकत्वाच्च न तद्वैय्यर्थ्यम् । आश्रयत्वं तु न तच्छक्यम् । तस्य निरूपकतासम्बन्धेनैव फलाऽन्वयित्वस्याभ्युपगन्तव्यतया निरूपकत्वस्य च वृत्त्यनियामकतयाऽभावप्रतियोगिताऽनवच्छेदकत्वेन 'विहगो भूमिं गच्छति, न महीरुहम् इत्यादौ धात्वर्थफले संयोगे महीरहनिष्ठाश्रयतायास्तेन सम्बन्धेनाभावस्याऽप्रसिद्धतया तत्राबोधत्वाऽसम्भवात्। न च सूत्रस्वरसभङ्गः। शक्तिः कारकमितिपक्षे तदयोगात् । आधेयताया अपि निरूपकतया कारकधर्मत्वादित्याहुः ॥ विक्लित्त्याश्रयत्वात्कर्मतेति । कर्मसंज्ञेत्यर्थः । एतेन कर्तगतप्रकृतधात्वर्थव्यापारप्रयोज्यतव्यधिकरणप्रकृतधात्वर्थफलाश्रयत्वं कर्मत्वमुक्तम्भवति । यदू वक्ष्यति परीक्षा *संज्ञायामेव तदुपयोग इति । अयम्भावः-क्रियाजन्यफलशालिकमेंत्युक्तावपि सूत्रदृष्टफलं यद्यपि सिध्यति, तथापि "वारणार्थानाम्" इति सूत्रं निरवकाशः स्यादिति वारणयोगे-'अग्नेर्माणवकं वारयति' इत्यत्र माणवकस्य कर्मत्वन्न स्यादत इच्छाऽर्थकसन्घटितं पूर्वसूत्रमारब्धम् । तथाच द्वेष्योदासीनसंग्रहार्थे "तथा युक्तम्" इत्यस्य आरम्भ इति । तथाच*-क्रियाजन्यफलाश्रयत्वस्य कर्मत्वरूपत्वे च । *तत्वम्*आश्रयत्वम् । *अखण्डशक्तिरूपम्*-अखण्डोपाधिरूपम् । इतरपदार्थघटितमूर्तिकध Page #179 -------------------------------------------------------------------------- ________________ १५० दर्पणपरीक्षासहिते भूषणसारेकर्मता। घटं करोतीत्यत्र उत्पत्त्याश्रयत्वाद् उत्पत्तेर्धात्वर्थत्वात् । दर्पणः 'उक्तप्रायत्वात्' इति ॥ 'अग्नेर्माणवकं वारयति' इत्यादावग्न्यादावतिव्यातिनिरासाय व्यापारे कर्तगतत्वमुपात्तम् । वारयतेश्च संयोगानुकूलव्यापाराभावानुकूलव्यापारोऽर्थः। चैत्रो ग्रामं गच्छति इत्यादौ चैत्रादेरिणाय व्यधिकरणेति । वैयधिकरण्यं च-तदनधिकरणवृत्तित्वं, न तु तदधिकरणावृत्तित्वम् । तस्य संयोगे असत्त्वेन ग्रामादावव्याप्तः । ताशवैयधिकरण्यविशिष्टाऽधिकरणतायाश्चैत्रादावसत्त्वान्नातिप्रसङ्गसम्भावनापि । 'माषेष्वश्वं बध्नाति' इत्यादौ बन्धनप्रयोज्यभक्षणाश्रयमाषाणां तत्त्ववारणाय प्रकृतधात्वर्थत्वं फलविशेषणम् । प्रकृतत्वं च-तत्र तत्र विशिष्योपादेयम् । पयसौदनं भुङ्क्ते' इत्यादौ तु कर्मत्वाविवक्षणान्न द्वितीया । कृतभोजनस्य पयो लोभेन प्रवृत्तावीप्सिततमत्वस्यापि पयसि सम्भवादिति। ___ ननु परैः कृतो यत्नमात्राऽर्थकत्वाभ्युपगमात् कथमुत्पत्तेः प्रकृतधात्वर्थत्वमत आह-*उत्पत्तेरिति । तथाच-कृज उत्पत्तिरूपफलार्थकत्वस्य प्रागुपपादनान्नार्थास परीक्षा `भिन्नोऽखण्डोपाधिः । अत एव तस्यैकस्य वाच्यताऽवच्छेदकत्वे लाघवम् । आश्रय आश्रयानुगताकारव्यवहाराच्च तस्यैकस्य सिद्धिः। ननु विभुष्विति व्यवहारस्य सर्वविभुषु दर्शनेन विभुत्वस्याप्यखण्डस्य सियापत्तिरिति चेद् ? न। इष्टत्वात् । अत्रापिशब्दानां प्रवृत्तिपक्षे जातिः पदार्थमते चाभावत्वादिवत् सामान्यादीनि निःसामान्यानि इति परिभाषाया नैयायिकसम्मताया अनाश्रयणात् । जातीयताया अपि व्यक्तियतावदभावात् । 'प्रामं गच्छति'इत्यादौ कर्मणो द्वितीयार्थाश्रये अभेदेनान्वयः । तस्य फले संयोगादिरूपे स्वनिष्ठाश्रयतानिरूपितत्वसम्बन्धेनान्वयः। नचैवमाश्रयत्वं निरूपकभेदेन भिद्यतेति कथं तस्यासिद्धिरितिवाच्यम् ? समवायस्य प्रतियोग्यनुयोगिभेदेऽप्येकत्ववनिरूपकभेदेऽपि तद्भेदाकल्पनात् ।न चैवं सति भूमि गच्छति' "न मही. रूहं विहगः' इत्यादौ द्वितीयार्थाश्रयस्य महीरुहाभिन्नस्य स्वनिष्ठाश्रयनिरूपकत्वस. म्बन्धावच्छिन्नप्रतियोगिताकाभावो धात्वर्थमूले वाच्यः, स च न सम्भवति। शक्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वादिति वाच्यम् ? स्वनिष्ठाश्रयतानिरूपकस्थले स्वस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावश्च नैयायिकसम्मत्या शक्यसमनियताभावानामेकत्वमपि तन्मतेऽस्त्येवेति वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य सत्वाद् वृत्यनियामकसम्बन्धाभावरूपतया-इतिरिक्ताभावकल्पनाविरहात्। वृत्त्यनियामकसम्बन्धावच्छिन्नातिरिक्ता प्रतियोगिता कल्पनीयेति गौरवं परमतिरिच्यते तच्च नास्माकं प्रतिकूलम् । सर्वस्य पदार्थस्य मायापरिणामरूपतया तस्य नियमाभावात् इति ध्येयम् । *कर्मतेति । कर्मसंज्ञेत्यर्थः। एतेन प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वं कर्मसंज्ञा प्रयोजकमित्युक्तं भवति । 'अग्नेर्माणवकं वारयति' इत्यादौ वारयतेः उत्तरदेशसंयोगानुकूलव्यापाराभावानुकूल. व्यापारार्थकतयाऽग्निवृत्तिसंयोगरूपफलस्य प्रधानीभूतव्यापारप्रयोज्यताविरहेण नाग्नेः कर्मसंज्ञाप्राप्तिरिति "वारणार्थानाम्” इति सूत्रस्य नानवकाशत्वम् । “चैत्रो ग्राम गच्छति' इत्यादौ तु चैत्रादेः प्राप्ताऽपि कर्मसंज्ञा कर्त्तसंज्ञया बाध्यते । 'माषेष्वश्वं Page #180 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । १५१ जानातीत्यत्र आवरणभङ्गरूपज्ञाधात्वर्थफलाऽऽश्रयत्वात् । अतीताऽनागतादिपरोक्षस्थलेऽपि ज्ञानजन्यस्य तस्यावश्यकत्वात् । अन्यथा यथापूर्व्वं न जानामीत्यापत्तेः । अतीतादेराश्रयता च विषयतया दर्पणः ङ्गतिरिति भावः । धात्वर्थत्वादित्युक्तया कृञः केवलयत्नार्थकत्वे घटादीनां कर्मत्वानुपपत्तिरति दोषत्वेन ध्वन्यते । *आवरणभङ्गेति । प्राचीनमतानुसारेणेदम् । निष्कृष्टमते तु ज्ञानरूपफलस्यविषयतया घटादौ सत्त्वात्कर्मतेति बोध्यम् । न चाकमैकतापत्तिः । फलतावच्छेदकसम्बन्धेन सामानाधिकरण्याभावात् । नैयायिकमते त्वेतास्थले यथा घटादीनां कर्मत्वं तथोपपादितं धात्वर्थनिरूपणावसरे । .. ननु विद्यमानव ज्ञानजन्यावरणभङ्गस्य सम्भवेऽपि भाविविनष्टघटे निराश्रयस्य तस्यासंभवेन तस्य कर्मत्वानुपपत्तिरत आह-अतीतानागतेति । तत्राश्रयताङ्गीकारे युक्तिमाह —* अन्यथेति । विनष्टे तत्रावरणभङ्गा स्वीकारे इत्यर्थः ॥ यथापूर्वमिति जानाति क्रियाविशेषणम् । पदार्थानतिवृत्तावव्ययीभावः । पूर्व मनतिक्रम्येत्यर्थः । पूर्वज्ञानानतिक्रमो यस्मिंस्तदिति यावत् । घटस्य विद्यमानतादशायां तात्कालिकज्ञानस्य तदूघटे आवरणभङ्गजनकतयाऽतीतदशायामाधुनिकज्ञानस्य तदजनकत्वेन पूर्वातिक्रमस्य तत्वात् पूर्वानतिक्रान्तज्ञानाभावस्य विषयस्याऽबाधात्तादृशप्रयोगस्य प्रामाण्यापत्तेरित्यर्थः । अतीतघटे आधुनिकज्ञानेनावरण भङ्गोत्पादाभ्युपगमे तु तेन पूर्वज्ञानानतिक्रमात् तदभावस्य बाधाद्भवति तस्याप्रामाण्यमिति भावः । ननु विनष्टे घटे वास्तवतदाश्रयतैव कथमत आह-अतीतादेरिति । आदिना परीक्षा बध्नाति' इत्यादौ माषाणां प्रधानीभूतबन्धधात्वर्थव्यापारप्रयोज्यभक्षणाश्रयत्वेऽपि भक्षणस्य प्रकृतधात्वर्थ फलाश्रयत्वाभावान्न कर्मत्वस्य प्राप्तिः, यदा कृतभोजनोऽपि पयो लाभेच्छ्या पुनः पयोभोजतात्पर्येणौदनभोजने प्रवर्तते तादृशस्थले - पयसा ओदनं भुङ्क्ते इति प्रयोगो दृश्यते ; तत्र पयसः प्राप्ताऽपि कर्मसंज्ञा न भवति, पयसः साधकतमत्वविवक्षया करणसंज्ञाप्रवृत्तेः । ' स्थाल्यां पच्यते' इत्यत्राधिकरणत्वाविवक्षावत् । *उत्पत्तेरिति । उत्पत्तिरूपफलानुकूलव्यापारस्येत्यर्थः । *आवरणभङ्गेति । आवरणमज्ञानं तस्य भङ्ग इत्यर्थः । न चाज्ञानस्य ज्ञानाभावरूपतयाऽभावस्य नित्यत्वेन तद्भङ्गानुपपत्तिरिति वाच्यम् । अज्ञानस्य मायापरिणामरूपतया तस्य भावरूपत्वात् । इदं प्राचां मतेन । वस्तुतस्तु ज्ञानानुकूलव्यापार एव जानातेरर्थः । विषयता च फलतावच्छेदकसम्बन्धः ; तेन सम्बन्धेन घटादेः फलाश्रयत्वात्कर्मता । नन्वसमानकालिकपदार्थयोराधाराधेयभावविरहेणातीतानागतकर्मणः फलाश्रयत्वविरहान्न कर्म संज्ञाप्राप्तिरत आह-*अतीतेति । तस्य- आवरणभङ्गरूपफलस्य । *अन्यथा*तयोस्तादृशफलाश्रयत्वविरहे । यथा पूर्वमिति । पदार्थाऽनतिवृत्तावव्ययीभावः । जानातीति क्रियाया विशेषणमेतत् । यथा घटादेर्विद्यमानतादशायां तस्मिन्नावरणभङ्गस्य ज्ञानेनोत्पादनं सम्भवति ; तथा तस्यातीतत्वेऽनागतत्वे वा न सम्भवत्याश्रयाभावादिति पूर्वानतिक्रान्तज्ञानाभावसत्वेनैता दृशप्रयोगापत्तिरिति । तत्राप्यावरणभङ्गाभ्यु Page #181 -------------------------------------------------------------------------- ________________ १५२ दर्पणपरीक्षासहिते भूषणसारे - ज्ञानाश्रयताया नैयायिकानाभिव सत्कार्य्यवाद सिद्धान्ताद्वोपपद्यत इति । उक्तञ्च - तिरोभावाभ्युपगमे भावानां सैव नास्तिता । लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥ इति । ननु चैत्रो ग्रामं गच्छतीत्यत्र ग्रामस्येव चैत्रस्यापि क्रियाजन्यग्रा दर्पण: भाविपरिग्रहः । *नैयायिकानामिवेति । यथाऽनुभवानुरोधेन तस्मिन् विषयतया ज्ञानाश्रयताङ्गीकारस्तेषां तथास्माकमपीति भावः । नन्वतीतो घटो ज्ञानविषय इति प्रतीतेरस्तु नामः तादृशघटस्य विषयतया ज्ञानाश्रयता; आवरणभङ्गाश्रयतायां तु न तथा साधकोपलब्धिरत आह-सत्कार्य्येति । तमेव दर्शयति — *उक्तञ्चेति । “सदेव सौम्येदमग्र आसीत्” इति श्रुतेः कार्य्यजातं सूक्ष्मरूपेण प्रागवस्थितमेव । परमते जनकत्वेनाभिमतसामग्रीसमवधानात्तु तदभिव्यक्ती भवति । कारणे सूक्ष्मरूपेणावस्थानमेव तत्प्रागभावः । तस्यामेवावस्थायां स भविष्यतीति व्यवहियते । ततः प्रच्युतमभिव्यक्तिलक्षणं धर्ममप्राप्तं जायत इति प्राप्ताभिव्यक्तिस्त्वस्तीति । 1 सर्वदैव सति तस्मिन् कथं नाऽस्ति नश्यतीति व्यवहारोऽत आह-तिरोभावाभ्युपगम इति । तिरोभावाभिव्यञ्जकसामग्न्या तिरोभावेऽभिव्यञ्जिते सति, नास्ति नष्ट इति व्यवहारः । लब्धक्रमायां तु तस्यां नश्यतीति सत्कार्यवादसिद्धान्तः; प्रकृते घटस्य तिरोधानेऽपि सूक्ष्मरूपेण सत्वात्तत्रावरणभङ्गरूपफलाश्रयत्वं सुलभमिति भावः । उक्तनिष्कृष्टकर्मत्वं विशदीकर्तुमाशङ्कते -*नन्विति ॥ विभागस्येत्यस्य क्रियापरीक्षा पगमे तु पूर्वाऽनतिक्रान्तज्ञानस्यैव सत्वेन न तादृशप्रयोगापत्तिरिति भावः । *नैयायिकानामिवेति । शास्त्रपुराणादिजन्यज्ञानानन्तरं नलं कलङ्किनं च जानामीत्यनुभवानुरोधेनासमानकालिकत्त्वेऽपि ज्ञानाश्रयत्वं तैर्यथा कल्प्यते । असमानकालिकयोर्नाधाराधेयभाव इत्येतद्विषयतासम्बन्धस्य यत्राधारतावच्छेदकत्वं तद्भिन्नस्थले इति वाङ्गीक्रियते तथाऽनुभवानुरोधेनावरणभङ्गोऽप्यभ्युपेयत इति भावः । सांख्यमताश्रयणेनाह*सत्कार्येति* । सत एव कार्यस्य सूक्ष्मरूपेण स्थितस्य सामग्रीवशात्स्थूलरूपेणाभिव्यक्तिरेवोत्पत्तिर्नाशोऽप्यभिव्यक्तस्य पुनः सूक्ष्मरूपेणाहङ्कारपरिणामे सत्वरूप इति हि तेषां मतम् । तन्मतेऽतीतानागतयोरपि सूक्ष्मरूपेण स्थितत्वात् नावरणभङ्गाश्रयत्वानुपपत्तिरिति भावः । तमेव मतमुपदर्शयति-उक्तञ्चेति । *भावानाम् * - पदार्थानाम् । *सैव - तिरोभावावस्थैव । *नास्तिता - नास्तीति व्यवहारविषयताश्रयः । लब्धक्रमे* — तिरोभावस्य क्रमेण प्रारम्भे । सत्कार्यवादश्च - "सदेव सौम्य इदमग्र आसीत्” इति श्रुतिप्रसिद्ध एव कारणेऽभि व्यक्तेः प्राक् सूक्ष्मरूपेणावस्थानमेव प्रागभावस्तमादाय भविष्यतीति व्यवहारः । तस्या अवस्थायाः प्रच्युतोऽभिव्यक्तिमप्राप्तो जायते इत्युच्यते । यदा तु सम्यगभिव्यक्तिस्तदाऽस्तीति कर्तृसंज्ञायाः कर्मसंज्ञावाचकत्वमजानन् शङ्कते - नन्विति* संज्ञाया बाधकत्वप्रदर्शनेनं समाधत्ते - ग्रामस्येवेति । तस्याः Page #182 -------------------------------------------------------------------------- ________________ १५३ सुबर्थनिर्णयः। मसंयोगरूपफलाश्रयत्वात् कर्मतापत्तौ, चैत्रश्चैत्रं गच्छतीत्यापत्तिः । प्रयागतः काशीं गच्छति चैत्रे प्रयागं गच्छतीत्यापत्तिश्च । क्रियाजन्यसंयोगस्य काश्यामिव विभागस्य प्रयागेऽपि सत्त्वादिति चेद् ? न । ग्रामस्येव चैत्रस्थापि फलाश्रयत्वेऽपि तदीयकर्त्तसंशया कर्मसंशाया बाधेन, चैत्रश्चैत्रमिति प्रयोगासम्भवात् । द्वितीयोत्पत्तो संज्ञाया एव नियामकत्वात् । अन्यथा 'गमयति कृष्णं गोकुलम् इत्यत्रेव, पाचयति कृष्णेनेत्यत्रापि कृष्णपदादु द्वितीयापत्तः।। शाब्दबोधश्चत्रश्चैत्रमित्यत्र स्यादिति चेद् ? न । तथा व्युत्पनानामिष्टापत्तेः। उच्यतां वा प्रकारतासम्बन्धेन धात्वर्थफलविशेष्य दर्पणः जन्येत्यादि । ननु कर्मसंज्ञायाः परया कर्तृसंज्ञया बाधनेऽपि वास्तवकर्मत्वस्य तत्राsबाधात् स्यादेव तादृशप्रयोगोऽत आह-*द्वितीयोत्पत्ताविति* ॥ इदं च प्रकृताऽभिप्रा. येण । कारकविभक्त्युत्पत्तिमात्रस्यव तनियम्यत्वात् । अन्यथेति* ॥ संज्ञाया अनियामकत्व इत्यर्थः॥ __अद्वितीयोपत्तेरिति ॥ गम्यति कृष्णं गोकुलमित्यत्र णिच्प्रकृत्यऽर्थव्यापारजन्यसंयोगानुकूलव्यापाररूपधात्वर्थफलाश्रयत्वस्येव, पाचयति कृष्णेनौदनमित्यत्रापिताशव्यापारजन्यविक्लित्यनुकूलव्यापाराश्रयत्वस्य तत्र सत्वादिति भावः ॥ *शाब्दबोध इति ॥ चैत्रनिष्ठसंयोगानुकूलश्चैत्रकर्तृको वर्तमानो व्यापार इति शाब्दबोध इत्यर्थः । तद्विषयस्याऽबाधादिति भावः ॥ *तथा व्युत्पन्नानामिति* ॥ सामान्यतो धात्वर्थफलविशेष्यतानिरूपितप्रकारतासम्बन्धेन शाब्दबोधे आश्रयोपस्थितेहेतुत्ववादिनामित्यर्थः । बोधस्य स्वस्वव्युत्पत्त्यनुसारित्वादिति भावः । चत्रकर्मकचैत्रकर्तृकव्यापारशाब्दबोधस्य चैत्रो ग्रामं गच्छतीत्यादावननुभवादाह परीक्षा ननु कर्तृसंज्ञाया नियामकत्वाऽकल्पने कर्मसंज्ञाबाधकत्वमस्तु; तथापि वस्तुगत्योक्तकर्मत्वसत्वाद् द्वितीयास्यादेवेत्यत आह-द्वितीयोत्पत्ताविति । *अन्यथा. संज्ञाया नियामकत्वाऽकल्पने । *द्वितीयोपत्तिरिति । कृष्णस्योक्तरीत्या णिजन्तधातुप्रतिपाद्यप्रयोजकव्यापारजन्यफलाश्रयतया कर्मत्वापत्तौ द्वितीयापत्तिः । संज्ञाया नियामकत्वे तु “गतिबुद्धि" इति सूत्रस्य नियमार्थत्वान्न कर्मसंक्षेति न द्वितीयापत्तिरिति भावः। ननु विषयाबाधाच्चैत्रनिष्ठसंयोगानुकूलश्चैत्रनिष्ठो वर्तमानो व्यापार इत्याकारकः शाब्दबोधः स्यादित्याह-*शाब्दबोध इति । तथाव्युत्पन्नानाम्*-व्युत्पत्तिः कार्यकारणभावग्रहस्तद्वताम् । समवायसम्बन्धेन धात्वर्थफलप्रकारतानिरूपितव्यापारनिष्ठविशेष्यताशालिबोधे-आश्रयोपस्थितिः कारणमिति कार्यकारणग्रहवताम् । 'चैत्रश्चैत्रं गच्छति' इति शब्दात्तादृशशाब्दबोधाननुभवादाह-*उच्यतामिति । *फलविशेष्यकबोधं प्रतीति । फलनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन शाब्दबोधं प्रती Page #183 -------------------------------------------------------------------------- ________________ १५४ दर्पणपरीक्षासहिते भूषणासरेकबोधं प्रति धात्वर्थव्यापोरानधिकारणाश्रयोपस्थितिहेतुरिति कार्यकारणभावान्तरम् । प्रकृते चैत्रस्य व्यापारानधिकरणत्वाभावान्न दोषः । प्रयागस्य कर्मत्वन्तु सम्भावितमपि न । समभिव्याहृतधात्वर्थफलशालित्वस्यैव क्रियाजन्येत्यनेन विवक्षणस्य उक्तप्रायत्वात् । नैयायिकास्त्वाद्यदोषवारणाय परसमवेतत्वम् , द्वितीयदोषवारणाय धात्वर्थतावच्छेदकत्वं फले विशेषणम् ; द्वितीयावाच्यमित्युपाददते । परसमवेतत्वं धात्वर्थक्रियायामन्वेति । तथैव कार्यकारणभावा दर्पणः *उच्यतां वेति* ॥ *कार्यकारणभावान्तरमिति* । सामान्यतः कार्यकारणभावकल्पेने उक्तातिप्रसङ्गन्नाश्रयं प्रकृतधात्वर्थव्यापारानधिकरणत्वेन विशेष्य तादृशाश्रयोपस्थितेहेतुत्वस्य कल्पनान्न तादृशशाब्दबोधापत्तिरिति भावः । *समभिव्याहृतेति* । प्रकृतेत्यर्थः । *उक्तप्रायत्वादिति । धात्वर्थविक्लित्याश्रयात् कर्मतेत्यादिनन्थेनेत्यस्यादिः। गमेस्तत्र पार्थक्येनाऽनुपादानादुक्तम्- *प्रायेति । वस्तुतस्तु, फलव्यापारयोरित्यत्र फलत्वस्य तद्धात्वर्थजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वरूपस्य निर्वचनाद् व्यापारव्यधिकरणफलाश्रयत्वरूपकर्मत्वोक्त्यैवानति प्रसङ्ग नोक्तविशेषणस्य पार्थक्येन निवेश इति ध्येयम् ॥ नैयायिकमतं दूषयितुमुपन्यस्यति-*नैयायिकास्त्विति । *आद्यदोषेति । चैत्रश्चैत्रं गच्छतीति प्रयोगापत्तिरूपेत्यर्थः । *धात्वर्थतावच्छेदकत्वमिति । फलावच्छिन्नव्यापारस्य धात्वर्थत्वमिति वादिनां मतेनेदम् । तथाच तन्मते धात्वर्थताऽवच्छेदकफलशालित्वं कर्मत्वं द्वितीयाऽर्थः पर्यवस्यति । *कार्यकारणभावेति । द्वितीयाऽर्थपरसमवेतत्वस्य स्वनिष्टप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति भावनात्वावच्छिन्नविशेष्यतासम्बन्धेन धातुजन्योपस्थितेहेतुत्वान्तरकल्पनादित्यर्थः । • ननु भेदस्य केवलाऽन्वयितया सर्वस्यैव परत्वेन चैत्रक्रिया अपि मैत्राऽन्यसमवेतत्वात् तद्वाच्यताङ्गीकारेऽप्युक्तदोषतादवस्थ्यमत आह-*परत्वञ्चेति । व्युत्पत्ति. परीक्षा त्यर्थः । *कार्यकारणभावान्तरम्-विषयनिष्टप्रत्यासत्या कार्यकारणभावान्तरम् । द्वितीयस्य दोषस्यापत्तिं वारयति-*प्रयागस्येति । *उक्तप्रायत्वादिति । विभागस्य फलस्य क्रियाजन्यत्वेऽपि तस्य गमधात्वर्थत्वाभावान्नापत्तिरिति भावः । अयं चार्थो धात्वर्थफलाश्रयत्वादिति पूर्वोपादानेन सूचितो न तूक्त इत्यतः प्रायपदम् । वस्तुतस्तु विभागस्य फलत्वमेव न। तस्य तद्धात्वर्थव्यापारजन्यत्वे सति तद्धा. स्वर्थरूपतया तस्याभावादिति नाधिकविशेषणनिर्देश इति बोध्यम् । नैयायिक मतं दूषयितुं तन्मतमुपन्यस्यति-*नैयायिकास्त्विति*। *आयेति । चैत्रश्चैत्रं गच्छतीति प्रयोगापत्तिरूपदोषेत्यर्थः। द्वितीयेति । प्रयागस्य कर्मत्वापत्तिरूपेत्यर्थः। द्वितीयावाच्यमिति । परसमवेतत्वं धात्वर्थतावच्छेदकत्वं च द्वितीयार्थ इति तेषां मतम् । ननु परसमवेतत्वं भेदाश्रयसमवेतत्वं भेदस्य च केवलान्वयितया मैनप्रतियोगिकभेदस्य चैत्रे सत्त्वादुक्तातिप्रसङ्गस्तदवस्थ इत्यत आह-*परत्व Page #184 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । १५५ न्तरकल्पनात् । परत्वमपि द्वितीयया स्वप्रकृत्यर्थापेक्षया बोध्यते । तथाच चैत्रस्तण्डुलं पचतीत्यादौ तण्डुलान्यसमवेतव्यापारजन्यधात्वर्थतावच्छेदकविक्लित्तिशालित्वात् तण्डुलानां कर्म्मता । शाब्दबो दर्पणः वैचित्र्यात्तु पदार्थैकदेशेऽपि प्रतियोगितया प्रकृत्यर्थाऽन्वयः, प्रकृते चैत्रसंयोगजनक क्रियायां चैत्रभिन्नसमवेतत्वबाधान्न चैत्रश्चैत्रं गच्छतीति प्रयोगः । यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मल्लान्तरक्रियाया: स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतcase areशक्रियायाः स्वस्मिन् बाधान्न मल्लः स्वं गच्छतीति प्रयोगः । स्वनिष्टसंयोगजनकस्वक्रियायां स्वभिन्नसमवेतत्वस्या योग्यत्वेनाभानेऽप्यबाधितसंयोगजनकत्वं विषय कृत्य, "अभिचरन् यजेत" इत्यादाविव शाब्दबोधसम्भवात् तदर्थतात्पर्येण 'स्वं गच्छति' इति प्रयोगो दुर्वार इति तु नाशङ्कनीयम् । परसमवेतत्वांशाऽविषयकस्य द्वितीयाधीनफलजनकत्वबोधस्य कुत्राप्यऽनभ्युपगमेन तादृशबोधे तद्वानसामन्या अप्यपेक्षणात् तस्याश्च प्रकृतेऽसत्त्वात् । अथ स्वस्यापि द्वित्वावच्छिन्नभिन्नत्वात् स्वं गच्छतीतिप्रयोगवारणाय द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्न प्रतियोगिताकत्वसम्बन्धेनाऽन्वयो वाच्यः । तथाच — 'चैत्रो द्रव्यं गच्छति' 'मल्लो मल्लं गच्छति' इत्यादिवाक्यानामप्रामाण्यापत्तिः । चैत्रमल्लादिनिष्ठक्रियाया द्वितीयाप्रकृत्यर्थताऽवच्छेदकद्रव्यत्वमल्लत्वावच्छिन्नाभिन्नाऽसमवेतत्वात् तद्व्यक्तित्वानुपस्थितावपि शाब्दबोधस्यानुभवसिद्धतया तत्तद्व्यक्तित्वोपस्थापकत्वाऽवच्छिन्नप्रतियोगितयान्वयासम्भवात्, तद्व्यक्तित्वोपस्थापकपदाऽभावाच्च । एकधर्मावच्छिन्नप्रतियोगिताया अन्यधर्मावच्छिन्नसंसर्गत्वे मा नाभावाच्च प्रतियोगि विशेषिताभावबुद्धेर्विशिष्टवैशिष्ट्याऽवगाहित्वनियमात् । तदुक्तं दीधितिकृता-प्रतियोगिविशेषिताभावभानं तु विशिष्टवैशिष्टयमर्यादां नातिशेत इतीति चेत् ? तर्हि क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वं द्वितीयार्थः । भेदे परीक्षा मपीति । ननु प्रकृत्यर्थस्य प्रत्ययाथकदेशे भेदे प्रतियोगितासम्बन्धेनान्वये चैत्रघटोभयभेदस्य चैत्रे सत्त्वादुक्तापत्तिस्तदवस्थैव । प्रकृत्यर्थतावच्छेदकावच्छिन्न प्रतियोगिताकत्वसम्बन्धेनान्वय इत्यपि न, 'मल्लो मल्लं गच्छति' 'विहगः पृथिवीं गच्छति'इति प्रयोगानापत्तेः । प्रकृत्यर्थनिष्ठतत्तद्वयक्तित्वावच्छिन्नप्रतियोगिताया अन्यधर्मावच्छिन्नसंसर्ग त्वविरहादिति चेद् ? न । भेदप्रतियोगितावच्छेदकत्वं द्वितीयार्थः । भेदे च प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः भेदप्रतियोगितावच्छेदकत्वस्य तु धात्वर्थता - वच्छेदकफलान्वितेऽन्वय इत्यत्र तात्पर्यात् । यदि तु — उभयनिष्ठक्रियाजन्यसंयोगस्यैकत्वात् तादृशसंयोगावच्छिन्न व्यापारनिष्ठावच्छेदकताकप्रतियोगिताकभेदस्य कर्मभूतमल्लेऽसत्वात् 'मल्लो मल्लं गच्छति' इत्यत्रानुपपत्तिरस्त्येवेति विभाव्यतेः तदा द्वितीयार्थभेदप्रतियोगितावच्छेदकत्वस्य धात्वर्थप्रधानीभूते केवलव्यापारेऽन्वयाभ्युपगमान्नोक्तानुपपत्तिःः क्रियाया भेदादिति । नचैवमपि 'चैत्रश्चैनं न गच्छति' इत्यादौ नज्समभिव्याहारे प्रथमान्तपदार्थे 'चैत्रो न पचति' इत्यत्रेव द्वितीयार्थान्वितत्वावच्छिन्नव्यापारान्विताख्यातार्थाभाव एव प्रतिपाद्यः । स च न सम्भवतिः चैत्रवृत्तिभेद Page #185 -------------------------------------------------------------------------- ________________ १५६ दर्पणपरीक्षासहिते. भूषणसारे दर्पणः प्रकृत्यर्थस्याधेयतयान्वयान्न पूर्वोक्तापत्त्यनुपपत्ती। नसमभिव्याहारे च नजा तात्पयंवशाचैत्रश्चैत्रं न गच्छतीत्यादौ द्वितीयाप्रकृत्यर्थवृत्तित्वविशिष्टतदपरार्थभेदप्रतियोगितावच्छेदकत्वाभावः । क्वचिच्च चैत्रो ग्रामं न गच्छतीत्यादौ द्वितीयाऽर्थवृत्तित्वविशिष्टधात्वर्थसंयोगजनकत्वाभावः क्रियायां बोध्यते। ये तु प्रकृत्यर्थवृत्तित्वविशिष्टसंयोगादिरूपफलस्यैव जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन क्रियायामन्वयोपगमाद् भेदप्रतियोगितावच्छेदकत्वस्य द्वितीयार्थत्वमन्तरेणाप्युक्तापत्तिमुद्धरन्ति तन्मते वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकतयोक्तस्थले उक्तसम्बन्धेन नना संयोगाभावबोधाऽनुपपत्तिः । परसमवेतत्वं द्वितीयार्थ इति दीधितिविरोधश्च । __ एवञ्च 'चैत्रो ग्रामं गच्छति'इत्यत्र ग्रामवृत्तिसंयोगजनिका ग्रामवृत्तिभेदप्रतियोगि तावच्छेदिका च या क्रिया तदनुकूलकृतिमांश्चैत्र इति नैयायिकमतपरिष्कारः। __ अत्र प्रत्यवतिष्ठन्ते । नमर्थप्रसज्यप्रतिषेधस्य प्रतियोगितया क्रियाऽन्वयित्वमिति व्यवस्थापनात् कथं चैत्रो ग्रामं न गच्छतीत्यादौ नञः संयोगजनकत्वाभावबोधकत्वम् । उक्तञ्च पयंदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । प्रसज्ज्यप्रतिषेधस्तु क्रियया सह यत्र नञ् ॥ इति । यत्र नअर्थाभावः क्रियया धात्वर्थव्यापारेण प्रतियोगितया सम्बन्धो भवतीत्युत्तरार्धाऽर्थः। तस्मात् तिङन्ते नसमभिव्याहारे क्रियाप्रतियोगिकाऽभावबोध एव न्याय्यो न तु क्रियायां फलाभावस्य विभक्त्यर्थाभावस्य वा प्रथमान्तार्थे वा तिर्थाsभावस्य क्लप्तकारणविरहादिति ॥ अत्र वदन्ति-यद्धाऽवच्छिन्ने यद्धाऽवच्छिन्नत्वं येन संसर्गेण नसमभिव्याहारे प्रतीयते तद्धावच्छिन्ने तद्धर्मावच्छिन्नस्य तत्संसर्गावच्छिन्नप्रतियोगिता परीक्षा प्रतियोगिताकत्वस्य व्यापारे विरहादिति चैत्रपदाद्वितीयानुपत्तिरिति वाच्यम् । एतादृशे विषये तत्समभिव्याहारे धात्वर्थव्यापारे चैत्रवृत्तिभेदप्रतियोगितावच्छेदकत्त्वाभावस्य भावोपगमेन सामञ्जस्यात् । नचैवमपि 'विहगो भूमिं गच्छति न महीरुहम्। इत्यादौ व्यापारे महीरहवृत्तिभेदप्रतियोगितावच्छेदकत्वाभावस्य बाधादनुपपत्तिरिति वाच्यम् , अत्र संयोगजनकत्वविशिष्टव्यापारस्य धात्वर्थतयाऽनुरूपसमभिव्याहारवशात्संयोगजनकत्वस्याभावो धात्वर्थव्यापारे कल्प्यते इत्यनुपपत्तिपरिहारात् । यदि तु पदार्थकदेशस्याभावो बोधयितुं न शक्यते इत्युच्यते तदा संयोगजनकत्वं व्यापारश्च पृथगेव धातुवाच्यावित्याश्रयणीयम् । केचित्तु फलव्यापारयोः पृथक् शक्तिः, फले च द्वितीयाप्रकृत्यर्थस्याधेयतासम्बन्धेन फलस्य च जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन व्यापारे ऽन्वयापगमान्न चैत्रश्चैत्रं गच्छति इत्यादिप्रयोगापत्तिरित्याहुः, तन्न । 'प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ' इति न्यायेन चैत्रश्चैत्रं गच्छति' इत्यादौ निरूतोभयसम्बन्धावच्छिन्नप्रतियोगिताकस्य फलाभावस्य व्यापारे भानमुपेयम् । स च Page #186 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः। १५७ धस्तु तण्डुलसमवेतधात्वर्थतावच्छेदकविक्लित्त्यनुकूलतण्डुलान्यसमवेतक्रियाजनककृतिमाँश्चैत्र इत्याहुः । तन्न रोचयामहे; परसमवेतत्वादेर्गौरवेणावाच्यत्वात् । अतिप्र. सङ्गः किं द्वितीयायाः, शाब्दबोधस्य वा । नाद्यः । तावद्वाच्यकथनेऽपि तत्तावस्थ्यात् । गमयति कृष्णं गोकुलमितिवत् पाचयति कृष्णं दर्पणः काभावो नन्समभिव्याहारे बुद्धयते इति सकललोकानुभवसिद्धोऽयमर्थः । प्रतियोग्यभावाऽन्वयौ तुल्ययोगक्षेमौ' इति वदता दीधितिकृतोपनिबद्धः । एवञ्च-चैत्रो ग्राम गच्छतीत्यत्र नसमभिव्याहारे क्रियायां द्वितीयाऽर्थवृत्तित्वविशिष्टसंयोगजनकत्वस्य बोधात् तत्समभिव्याहारे तत्र तदभावस्य बोधो जायमानः केन वारणीयः। न च कारणाभावः । नर्थाभावप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे प्रतियोग्यन्वययोग्याऽर्थोपस्थितेहेतुतया तस्याश्च क्रियायां सत्वात् । न तु नमर्थनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन बोधे धातुजन्यभावनोपस्थितेतुता । चैत्रश्चैत्रं न गच्छतीत्यादिवाक्यानामप्रामाण्यापत्तेः । चैत्रकर्मकचैत्रकर्तृकगमनक्रियारूपप्रतियोगिनोऽप्रसिद्धया नना तदभावस्य बोधयितुमशक्यत्वात् । ___ मन्मते तु चैत्रकर्तृकक्रियायाम् चैत्रवृत्तिसंयोगजनकत्वेऽपि चैत्रवृत्तिभेदप्रतियोगितावच्छेदकत्वस्य तस्यामसत्त्वेन नजा तदभावस्य प्रत्यायनात् प्रामाण्योपपत्तेः । अत एव परसमवेतत्वस्य द्वितीयोपपत्तिरुक्तस्थले इति वाच्यम् । 'मैत्रो गच्छति चैत्रीन चैत्र' इत्यत्र मैत्रक्रियावच्छिन्नप्रतियोगिताकंभेदवत्त्वतदीयसंयोगाश्रयत्वयोरुभयोढितीयार्थयोरबाधेन तदुपपत्तेः । अधिकमग्रे वक्ष्यते । ___ तस्मात् 'चैत्रो गच्छति' इत्यादौ चैत्रो न कमेंति व्यवहाराच्च,. सर्वथा कर्तव्या. वृत्तं धात्वर्थव्यापारप्रयोज्यतव्यधिकरेणधात्वर्थफलाऽऽश्रयत्वं कर्मत्वं निर्वाच्यम् । तत्र फलव्यापारयोर्धातुलभ्यत्वेऽपि वृत्तित्वे भेदप्रतियोगितावच्छेदकत्वपर्य्यवसिते वैयधिकरण्ये च द्वितीयादेः शक्तिरनन्यलभ्यत्वात् स्वीकरणीयेति । प्रकृतमनुसरामः॥ ___ *विक्लित्त्यनुकूलेति । इदं तण्डुलाऽन्यसमवेतक्रियाऽन्वयि । यथाश्रुतं दूषयति*तन्न रोचयामहे इत्यादिना । ननु परसमवेतत्वस्य द्वितीयार्थत्वं विनाऽतिप्रसङ्गाऽनिरासाद् गोरवं न दोषायेत्यत आह-*अतिप्रसङ्गः किमिति*। *तावदिति । परसमवेतक्रियाजन्यधात्वर्थताऽवच्छेदकफलशालित्वरूपकर्मत्वस्य द्वितीयार्थत्वस्वीकारेऽपि द्वितीयातिप्रसङ्गस्य तादवस्थ्यादित्यर्थः। तमेवाह-गमयति कृष्णमित्यादि. परीक्षा न सम्भवति। वृत्यनियामकसम्बन्धस्याभावप्रतियोगिताऽनवच्छेदकत्वमते तादृशप्रयोगानुपपत्तेरिति दिक् । _ नैयायिकमतं खण्डयति-*तन्नेति । ननु तस्यावाच्यत्वे कथमुक्तातिप्रसङ्गवारणमित्यत आह-*अतिप्रसङ्ग इति । *तावदिति । परसमवेतत्वघटितेत्यर्थः ।। *तत्तादवस्थ्यात्-*अतिप्रसङ्गतादवस्थ्यात् । तमेवातिप्रसंगमाह-*गमयतीति । ननु "गतिबुद्धि"इतिसूत्रोपात्तधात्वतिरिक्तधातुविषयैतादृशकर्मत्वाविवक्षया बोधनान्नोन Page #187 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेगोपःइति द्वितीयापत्तेः । तण्डुलं पचति चैत्र इतिवत् , तण्डुलं पच्यते स्वयमेवेत्यापत्तेश्च । विक्लित्त्यनुकूलतण्डुलान्यसमेवताग्निसंयोगरूपधात्वर्थाश्रयत्वात् । शाब्दबोधातिप्रसङ्गोऽप्युक्तरीत्यैव निरस्तः। परसमवेतत्वस्य शक्यत्वेऽपि परत्वस्य परसमवेतत्वस्य च इष्टाऽन्वयलाभायाऽनेकशः कार्यकारणभावाऽभ्युपगमे गौरवा दर्पणः ना*। *द्वितीयापत्तेरिति । द्वितीयोत्पत्तायुक्तकर्मत्वस्य तन्त्रत्वे, गमयति गोकुलं कृष्णमित्यत्र णिजथनिरूपितनिरुक्तकर्मत्वस्येव पचिप्रकृतिकणिजर्थकर्मत्वस्य कृष्णे सत्त्वेन पाचयत्यादिप्रयोगेऽपि प्रयोज्यकर्त्तवाचकाद् द्वितीयापत्तेः । अतः संज्ञाया एव द्वितोयोत्पत्ता प्रयोजकताऽङ्गीकरणीया । एवञ्च तत एवातिप्रसङ्गभङ्गे, कृतं तत्र द्वितीयशक्त्येति भावः । . ननु तादृशकर्मत्वमेव द्वितीयानियामकम् । निरुक्तस्थले कृष्णे तत्सत्त्वेऽप्युपात्तगत्यर्थकाद्यतिरिक्तणिजन्तधातुयोगे "गतिबुद्धि" इति सूत्रेण तदविवक्षाबोधनान्नोक्तापत्तिः। विवक्षाया एव विभक्त्युत्पत्तौ नियामकताया वक्ष्यमाणत्वादत आह-*तण्डुलं पच्यत इति । तण्डुले भवदुक्तद्वितीया नियामककर्मत्वस्य सत्त्वात्तदापत्तिः, मन्मते तु कर्तसज्ञया बाधान तदापत्तिरिति भावः। तण्डुलान्यसमवेतेत्यनेन परसमवेतक्रियाजन्यत्वं विल्कित्तावस्तीति बोधितम् । धात्वर्थाश्रयादित्यनेन कर्तृसंज्ञासत्त्वमावेद्यते। *उक्तरीत्यैवेति । तथा व्युत्पन्नानामित्याधुक्तरीत्यैवेत्यर्थः। धात्वर्थव्यापाराऽनधिकरणाश्रयोपस्थितिरूपहेत्वभावादिति भावः । ननु नाऽस्मन्मतेऽप्युक्तप्रयोगापत्तिस्तत्र व्यापारत्वेन फलस्यैव भानाऽङ्गीकारेण तण्डुलस्य धात्वर्थतावच्छेदकफल. शालित्वाऽभावात् । निष्कृष्टभवन्मतेऽपि व्यापारगतपौर्वापारोपेण फलस्य व्यापाररतायाः स्वीकाराच्चेत्यतो दूषणान्तरमाह *परसमेवतत्वस्येति । इष्टाऽन्वयेति । इष्टस्य प्रकृत्यर्थस्य प्रतियोगितासम्बन्धेन परसमवेतत्वस्यैकदेशे परत्वे परसमवेतत्वस्य चाश्रयतया क्रियायामन्वयस्य लाभाय-भानायेत्यर्थः । *अनेकश इति । प्रकृत्यर्थप्रकारकशाब्दबुद्धिं प्रति द्वितीयाs परीक्षा क्तदोष इत्यत आह-तण्डुलमिति । *तण्डुल:* पच्यत इति । अत्र तण्डुलमिति द्वितीयान्तपदघटितयादृच्छिकसमुदायरूपमेतत् । स्वमते तु न तादृशः प्रयोगः । आख्यातेन कर्मणा उक्ततया द्वितीयाया असाधुत्वात । *धात्वर्थाश्रयत्वादिति । एतेन कत्तसज्ञाऽप्यस्तीति कर्मवद्रावविषयता सूचिता। *उक्तरीत्येति । विपरीतव्युत्प. त्तिमतां भवत्येव । यदि न ज्ञायते तदा विशेष्यतासम्बन्धेन द्वितीयाप्रकृत्यर्थप्रकारकशाब्दबुद्धि प्रति विशेष्यतासम्बन्धेन धात्वर्थव्यापारानधिकरणाश्रयोपस्थितेः, सहकारिकारणत्वं स्वीकार्यमिति न शाब्दबोधापत्तिरितिरीत्येत्यर्थः । ननु 'तण्डुलं पच्यते, स्वयमेव इत्यस्यानापत्तिः, तत्र कर्मण एव कर्तत्वेन फलव्यधिकरणव्यापारस्य त्यागस्तत्समानाधिकरणव्यापारस्य धातुवाच्यलविवक्षा चास्ति फलव्यापारयोस्तु पृथग धातुवाच्यताऽऽश्रीयते । एवं च धात्वर्थतावच्छेदकफलाश्रयत्वविरहान्न कर्मतापत्तिरिति कथं द्वितीयामापादयतीत्यत आह-परसमवेतत्वस्येति । *इष्टान्वयेति । Page #188 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । न्तरत्वादिति स्पष्टं भूषणे । एतच्च सप्तविधम् निर्वर्यञ्च विकार्य्यश्च प्राप्यश्चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म चतुर्द्धान्यत्तु कल्पितम् ॥ औदासीन्येन यत् प्राप्यं यच्च कर्त्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ इति वाक्यपदीयात् । यदसजायते सद्वा जन्मना यत्प्रकाशते । दर्पण: धीनाधेयत्वोपस्थितेरिव तदधीनपरसमेवतत्वोपस्थितेः प्रकारतासम्बन्धेन । एवं परसमवेतत्वप्रकारक बुद्धिं प्रति धातुजन्योपस्थितेर्व्यापारत्वावच्छिन्न विशेष्यतासम्बन्धेन हेतुत्वकल्पने चातिगौरवादित्यर्थः । मन्मते तु फलप्रकार कशाब्दबोधक्लृप्तहेतुताकव्यापारोपस्थितिविषयव्यापारांशे द्वितीयाप्रकृत्यर्थावृत्तित्ववैशिष्ट्य निवेशेनैव नातिप्रसङ्ग इति भावः । ननु 'चैत्रो मैत्रश्च परस्परं गच्छतः' इत्यादौ धात्वर्थव्यापारस्य द्वितीयां प्रकृत्यर्थवृत्तित्वात्तत्तत्फला नन्वयप्रसङ्गोऽत आह-स्पष्टमिति । तथाच द्वितीयाप्रकृत्यर्थावृतीत्यनेन द्वितीयाप्रकृत्यर्थवृत्तिभेदप्रतियोगिताऽवच्छेदकत्वस्याविवक्षणात्, 'परस्परं गच्छत' इत्यादौ क्रियायाः परस्परावृत्तित्वबाधेऽपि परस्परनिष्टभेदप्रतियोगितावच्छेदकत्वस्याबाधान्न फलान्वयानुपपत्तिरित्यादि तत्रोक्तमिति । हरिकृतं कर्मविभागमाह*तच्चेति* । क्रियाजन्यफलाऽश्रयरूपं कर्मत्यर्थः ॥ *यदसज्जायत इति । असत्कार्य्यवादमवलम्ब्य । सहेत्यादि तु सांख्यमतेन । प्रकाशत इत्यनन्तरं “प्रकृतेस्तु विवक्षायां विकार्य्यं कैश्चिदन्यथा । परीक्षा द्वितीयार्थपरसमवेतत्वैकदेशभेदे प्रकृत्यर्थस्य तथा परसमवेतत्वस्य धात्वर्थप्रधानीभूत-व्यापारे विशेषणत्वस्य लाभायेत्यर्थः । *अनेकश इति । प्रकृत्यर्थनिष्ठप्रका रता निरूपितविशेष्यतासम्बन्धेन बोधं प्रति द्वितीयाजन्यभेदोपस्थितिः द्वितीयार्थपरसमवेतत्वनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति धातुजन्यव्यापारोपस्थितिश्च कारणमिति कार्य्यकारणभाव इत्यर्थः । न च भवन्मते व्यापारांशे प्रकृत्यर्थस्याश्रयस्य च फले प्रकारतया तदनुरोधेन कार्य्यकारणभावस्य द्वैविध्यमस्त्येवेति वाच्यम् ? भवन्मतेऽप्यपर द्वितीयार्थाधेयत्वांशे प्रकृत्यर्थस्य तस्य च फलांशे प्रकारतामादाय कार्य्यकारणभावान्तरस्य च कल्पनीयतया तेन साम्यादिति । हर्यादिसम्मतं कर्मणो विभागमाह - एतच्चेति । ईप्सिततमं कर्म निर्वर्त्यादिभेदेन त्रिधा । *अन्यत्*- ईप्सितमादन्यत् कर्म । औदासीन्यादिभेदेन चतुद्धेत्यर्थः । निर्वर्त्यस्य स्वरूपमाह - * यदसदिति । इदं नैयायिकमतेन । जन्मनेति । साङ्ख्यमतेन निर्वर्त्यते निष्पाद्यते इति व्युत्पत्तिरुभयथा निर्बाधा । एवं च यत्न विशेष प्रयोज्योत्पत्ति 1 Page #189 -------------------------------------------------------------------------- ________________ १६० दर्पणपरीक्षासहिते भूषणसारेतन्नित्यं विकायं तु द्वेधा कर्म व्यवस्थितम् ॥ . . दर्पणः तन्निर्वर्त्यम्" इत्येव वाक्यपदीयपाठः । अन्यथा सामान्यधर्मेण अलक्षितस्य विकार्य्यस्य विशेष्यरूपेण प्रदर्शनेऽर्थान्तरतापत्तेः। तदर्थस्तु-कैश्चित् प्रसिद्धराचार्यः प्रकृतिविवक्षायां निष्पाद्यं विकार्यमित्युच्यते । अन्यथा तदविवक्षायां तन्निष्पाद्यं निर्वर्त्यमिति तदर्थः । तत्र घटं करोतीत्यादौ सत्या अपि मृदादिप्रकृतेः परिणामित्वे. नाविवक्षा । 'भस्म करोति' इत्यादौ त्वसत्या एव तस्यास्तत्त्वेन सा। .. यद्यपि निर्वय॑ते निष्पाद्यते इति व्युत्पत्या निर्वय॑त्वम् । तण्डुलानोदनं पचतीत्यादावोदनादौ विकार्य्यकर्मण्यप्यस्तिः तथापि प्रकृतिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति निष्पाद्यत्वरूपपारिभाषिकनिर्वय॑त्वस्य विवक्षणान्न दोषः ॥ तदुक्तम् –सती वा विद्यमाना वा प्रकृतिः परिणामिनी।। ___ यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ इति । यस्य विकृतिकर्मणो नाश्रीयते-न प्रयुज्यते, न विवक्ष्यत इति यावत् । अन्यत्उक्तार्थम् । विकायं त्विति । तल्लक्षणं तु प्रतीयमानप्रकृतिविकृतिभावकत्वे सति क्रियानिर्वाह्यविशिष्टासत्त्वोत्पत्यन्यतरफलवत्त्वम् । घटं करोतीत्यादिनिर्वत्ये क्रियानिर्वाह्योत्पत्तिमत्यपि प्रकृतिविकृतिभावाभानान्नातिप्रसङ्गः। प्रकृतिकर्मणस्तादृशविशिष्टासत्त्वाद् विकृतिकर्मणश्च तादृशोत्पत्त्याश्रयत्वाल्लक्षणसङ्गतिः। ईदृशस्थले फलद्वयप्रयोजकव्यापाराऽर्थकत्वं धातोरावश्यकम् । उक्तञ्च भाष्ये-'व्द्यर्थः पचिः' इति । अन्यथैकफलैकव्यापारार्थकत्वस्याकर्मकेष्वपि सत्त्वाद् विशेषोपादनानर्थक्यप्रसङ्गात् ॥ परे तु-"द्वयर्थः पचिः” इति भाष्याद् , बिक्लेदन निर्वर्त्तनं च पचेरर्थः । 'तण्डुला नोदन पवति'इत्यस्य तण्डुलान् विक्लेदयन्नोदनं निवर्तयतीति विवरणात् । तथाच प्रकृते तण्डुलाश्रयविक्लित्त्यनुकूलव्यापाराश्रयाश्रयक ओदनाश्रयकोत्पत्यनुकूलो व्यापार इति बोधः । एवं 'काष्ठं भस्म करोति' इत्यादावप्यूह्यमित्याहुः॥ तदसत् । भावनाप्रकारकबोधे हेतुत्वेन क्लप्तायाः कृद्धात्वन्यतरजन्योपस्थितेर्विशेप्यतासम्बन्धेनाख्यातार्थेऽभावेन तादृशबोधासम्भवात् । एकयैव क्रियया फलद्वयोत्पत्तिसम्भवेन तद्वाक्यजन्यबोधस्य व्यापारद्वयविषयकत्वकल्पनानौचित्यादाख्यातश परीक्षा मत्वं लब्धम् । नचैवं सति विकार्ये कर्मणि निर्वर्त्यकर्मणो लक्षणमव्याप्तम्, तस्यापि यत्नसाध्यत्वादिति वाच्यम् ? प्रकृतिवाचकपदसमभिव्याहृतपदोपस्थाप्यत्वस्यापि निवेशात् । तदुक्तम् सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ · इति सती विद्यमाना अविद्यमानाऽसती, यस्य विकृतिकर्मणः, प्रकृतिः-प्रकृतिवाचकः शब्दः, नाश्रीयते--न प्रयुज्यते । एवं चैकस्य विवक्षाभेदेनोभयरूपत्वेन व्यवहार इत्युक्तम्भवति । विकार्यन्त्विति । प्रकृत्युच्छेदसम्भूतम् । यत्नप्रयोज्यो यः प्रकृतेरुच्छेदो-नाशः, तज्जन्यनाशश्चात्रात्यन्ताप्रतीयमानपूर्वकालिकस्वस्वरूपफल Page #190 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत् । . दर्पणः १६१ ब्दान्निवृत्तभेदाया एव क्रियया अवगमादिति रूपप्सूत्रीयकैयटाच्च । किञ्च पचेर्व्यापारद्वयार्थकत्वे नव्यमते क्रियायां द्वित्वाबाधेन द्विवचनापत्तिर्दुर्वारा । वस्तुतस्तु विक्लेदनं विक्लित्तिर्निर्वर्त्तनमुत्पत्तिरेवोक्तपदयोर्भावल्युडन्तत्वात् । तथाच-फलद्वयाऽनुकूल एक एव व्यापारो धात्वर्थतया भाष्यकृत्सम्मतः । व्यापारद्वयार्थकत्वोक्तिस्तु केषाञ्चित् तत्पदयोर्णिजन्तप्रकृतिकल्युडन्तत्वभ्रम निबन्धनैवेत्यव - धेयम् । यद्यपि विकार्य्यं द्वेधा - प्रकृतिर्विकृतिश्चेत्येव वक्तुमुचितम्, तथापि विकृतिद्वैविध्येऽवगते प्रकृतावपि विकार्यत्वं ज्ञातप्रायं भवतीत्याशयेन तदनुक्त्वैव विकृतिकर्म विभजते-प्रकृत्युच्छेदेति । एतेन क्रिया निर्वाह्याभावः प्रतियोगिताऽवच्छेदकधर्मवत्वं प्रकृतिकर्मत्वमिति ध्वनितम् । 'काशानू कटं करोति, कुसुमानि स्रजं करोति, सुवर्णं कुण्डलं करोति, मृदं घटं करोति, काष्ठं भस्म करोति, तण्डुलानोदनं पचति' इत्यादौ क्रियानिर्वाह्यो यः पूर्वभावविशिष्टकाष्टकाशादिप्रतियोगि काभावो विशिष्टाऽसत्त्वरूपस्तत्प्रतियोगितावच्छेदकवैशिष्ट्यवत्वं काशकाष्ठादेरिति तत्तत्प्रकृतौ लक्षणसङ्गतिः । सर्वत्र विशिष्टाभावप्रतियोगिनि तादृशप्रतियोगितावच्छेदकव शिष्टयसत्वादतिप्रसङ्ग वा रणाय क्रियानिर्वाह्येति प्रकृतधात्वर्थव्यापारनिर्वाह्यार्थकम् । क्वचित् काष्ठतण्डुलादिधर्मिनाशादेव विशिष्टाऽभावो भस्मौदनादिसम्पादकः । क्वचिद्धर्मिणः सत्त्वेऽपि कटस्त्रगादिसन्दर्भविशेषविरहरूपपूर्वभावविशिष्टाऽसत्त्वं कटसन्दर्भादिनिष्पादकं क्रियातो निर्वहति ॥ *सम्भूतमिति* ॥ प्रकृतिनाशप्रयोज्योत्पत्तिमदित्यर्थः । इदं च भस्मवदित्यन्वयि । काष्ठादीति पृथक् पदम्, अन्यथा काष्ठसुवर्णादेस्तुरीयतापत्तेः ॥ *भस्मवदिति ॥ तत्तौल्येन वर्त्तमानमन्यदपि विकारजातमित्यर्थः । सादृश्यं च प्रकृतिनाशप्रयोज्योत्पत्तिमत्त्वेनैव । एवमग्रेऽपि । तथाच प्रकृतिविकृतिभावापन्नकाष्ठभस्मादिविकार्य्यमित्यर्थः पर्य्यवस्यति । एवञ्च - 'काष्ठं भस्म करोति' इत्यत्र करोतेः प्रतियोगित्वविशिष्टनाश उत्पत्तिश्च फलद्वयम्, तदनुकूलव्यापारश्चाऽर्थः । नाशे प्रतियोगितया काष्ठस्योत्पत्ता भस्मन आधेयतया काष्ठप्रतियोगिकनाशानुकूलो भस्मोत्पादको वर्त्तमानो व्यापार इति बोधः । एवं तण्डुलानोदनं पचतीत्यादावपि । नैयायिकास्तु- 'तण्डुलानोदनं पचति' इति विकार्य्यस्थले प्रकृतिकर्मात्तरद्वितीयाया नाशकत्वमर्थः । विकृतिकर्मोत्तर द्वितीयायाश्चोत्पादकत्वम् । तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । ओदनाऽन्वितोत्पादकत्वस्य नाशकत्वविशिष्टे पाकेऽन्वयः । नाशे चोत्पत्तेः प्रयोजकत्वमुद्देश्यविधेयभावमहिम्ना भासते । तेन पाकस्य तण्डुलारम्भकः संयोगनाशकत्वेऽपि 'संयोगमोदनं पचति इति न प्रयोगः । तण्डुलारम्भकसंयोगनाशस्यौदनोत्पत्तौ तण्डुलनाशेनाऽन्यथासिद्धतया अप्रयोजकत्वात् । परीक्षा कः, किञ्चिद्गुणान्तरोत्पत्या पूर्वकालस्थितावयवसंस्थानविजातीयावयवसंस्थानविशिष्टासत्वं विलक्षणोत्पत्तिमत्वान्यतरत्वं सामान्यलक्षणं द्रष्टव्यम् । 'काष्टं भस्म करोति' 'सुवर्ण कुण्डलं करोति' इत्यादौ प्रकृति विकृत्योरुभयोरपि सत्वालक्षणानुगतिः । प्राप्यस्य २१ ५० प० Page #191 -------------------------------------------------------------------------- ________________ १६२ दर्पणपरीक्षासहिते भूषणसारेकिश्चिद् गुणान्तरोत्पत्या सुवर्णादिविकारवत् ॥ दर्पणः वस्तुतस्तु विकृतिकर्माऽसमभिव्याहृते, 'तण्डुलं पचति इतिवत् संयोगं पचतीति प्रयोगवारणाय नाशद्वारा नाशकत्वमेव द्वितीयाऽर्थो वाच्य इति प्रकृते प्रयोज्यप्रयोजकभावाऽभानेऽपि न क्षतिः । तथाच तण्डुलनाशक ओदनोत्पादको यो व्यापारस्तदनुकूलकृतिमानिति बोधः । ईशस्थले च कर्माख्यातेन प्रकृतं कर्मत्वमेवाभिधीयते । अत एव काष्टानि भस्मराशिः क्रियन्ते इत्यादौ काष्टपदसमानवचनत्वमाख्यतस्य, न तु भस्मादिविकारवाचकपदसमानवचनत्वम् । भावनाऽन्वयिनि संख्यान्वयनियमात् । । ननु प्रधानाऽप्रधानकर्मवाचककर्मपदसमभिव्याहृत-नी-वहादि-दुहादिप्रकृतिककर्माख्यातस्यैवाप्रधाने दुहादीनां 'प्रधाने नीहृकृट्वहाम् इत्यनुशासनात् कर्मत्वद्वयाऽनभिधायकत्वाऽनियमेन प्रकृते कर्मत्वद्वयस्यैव तुल्यतया विकृतिगतकर्मत्वस्यापि लकारेणाभिधाने बाधकाभावः। आख्यातस्य विकृतिसमानवचनत्वप्रसङ्गस्तु ___ "गृह्णाति वाचकः संख्यां प्रकृतेविकृतेन हि"। इत्यनुशासनसिद्धविकृतिसंख्यान्वयबुद्धिं प्रति प्रकृतिसंख्यान्वयपरत्वेनाऽगृह्यमाणाख्यातजन्योपस्थितेहेतुत्वकल्पनया निरसनीयः । कथमन्यथा "भस्मीभवन्ति काष्ठानि" इत्यादिप्रयोगा इति चेद् ? न । 'घटपटौ दृश्येते' इत्यत्र द्वित्वस्यैवोभयसाधारणविशेष्यतावच्छेदकाऽपरिचयेन विकारविकारिणोईयोरेवाख्याताऽर्थविशेष्यत्वे वा वाक्यभेदापत्तेः । न चेष्टाऽपत्तिः । तथा सति 'काष्टं नाश्यते भस्म क्रियत' इति वाक्यजबोधस्येव 'काष्ठं भस्म क्रियत' इति वाक्यजबोधस्यापि भस्म काष्टविकृतिरन्यविकृतिवेतिसंशयनिर्वर्तकत्वानुपपत्तेः । समूहालम्बनजनकत्वाविशेषेण काष्टभस्मनोः प्रकृतिविकृतिभावस्योक्तवाक्यादलाभात्। सत्यामेवैकवाक्यतायां कर्तृप्रत्यये प्रयोज्यप्रयोजकभावस्य विशिष्टाऽन्वयविवक्षानियमेन लाभ इव कर्मप्रत्ययस्थलेऽपि तथा विवक्षाया नियमवशादेव कर्माऽऽत्मनेपदेन भस्मनि काष्टोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठविकृतित्वस्य लाभात् । ___ न च विकृतिवाचकाद् द्वितीयापत्तिः । लकारेण विकृतिकर्मत्वस्यानभिधानेऽपि कर्मत्वान्तरविशेषणतापन्नक्रियायां तस्य विकृत्यर्थसंसर्गत्वाऽभ्युपगमेनैव द्वितीयापत्यसम्भवात् । प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयाद्यवसरात्॥ न चैवं घटः करोतीत्यापत्तिः। कर्मत्वान्तरविशेषणतानापन्नक्रियायां क्रियान्तरकर्तृत्वविशेष्यतापन्नाऽर्थकस्यैव कर्मतासंसर्गेण भानाभ्युपगमात् । अत एव 'काष्ठं भस्मराशिः करोति' इति न प्रयोगः । भस्मराशेः क्रियान्तरकतत्वविशेष्यतानापन्नत्वात्। उपपद्यते च पश्य मृगो धावति' इत्यादिः। . प्रकृते च 'नीलो घटो भवति इत्यादावसाधारणधर्मरूपभवने नीलादेराधेयत्वरूपकर्तृतासम्बन्धेनाऽन्वयवदव्युत्पत्तिवैचित्र्येण प्रकृतिकर्मत्वविशेषणतापन्नायां कृधात्वर्थकृतौ भस्मादिरूपविकृतिकर्मणः कर्मतासम्बन्धेनान्वयोपगमेन एकवाक्यत्वोपपत्त्योक्तसंशयनिवर्तकत्वोपपत्तेः । तथाचोत्पादकत्वेन भस्मसम्बन्धिकृतिप्रयोज्यनाशप्रतियोगीनि काष्ठानीति 'काष्ठं भस्मराशिः क्रियत' इति वाक्यजो बोधः । सम्बन्धस्य प्रातिपदिकार्थविशेष्यतया अविवक्षणादेव न तत्र षष्ट्यपि । Page #192 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः। १६३ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ इति च तत्रैवोक्तम् । दर्पणः एवम्-"मृदो न घटो" इत्यत्रापि प्रकृतिविकृतिभावस्थले कर्मत्वान्तरविशेषणतानापन्नधात्वर्थान्वय्यर्थबोधने द्वितीयायाः साधुत्वमितिनियमोपगमे नोक्तस्थले द्वितीयाप्रसङ्गो, नापि 'दुह्यते गोः क्षीरम्' इत्यादौ तदनुपपत्तिः । एवमेकत्वावच्छिन्ने द्वित्वा. वच्छिन्नारोपस्थलेऽप्येको द्वौ ज्ञायते इत्यादौ आरोग्यविशेष्यवाचकसमानवचनत्वमाख्यातस्य । प्रयुञ्जन्ते च कवयः-"एकोऽपि त्रय इव भाति कन्दुकोऽयम्” इति । न च तत्रापि भान्तीत्येव पाठः, कथमन्यथा "अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुरारिशरः स्थितम्" । इत्यत्राऽऽरोप्यनिजायशोयुगसमानवचनममानीत्याख्यातं प्रयुक्तं श्रीहर्षेणेति वाच्यम् । तत्रापि पूर्वार्द्धसमर्थितायशोयुगस्य वास्तवत्वेन तस्मिन् फालद्वयबद्धचिकुराणामेव राज्ञ आरोप्यत्वेन कवेरुत्प्रेक्षितत्वात् । अत एव न तत्राविमृष्टविधेयांशतादोषावकाश इत्याहुः। अत्र केचित्-"पुनरावृत्तः सुवर्णपिण्डः पुनरपरयाऽऽकृत्या युक्तः खदिराङ्गारसवर्णे कुण्डले भवतः" इति महाभाष्यप्रयोगादाख्यातस्य विकृतिसमानवचनत्वमेव । गृह्णाति वाचकः संख्यां प्रकृतेविकृतेनहि। ___इति तु विप्रत्ययमात्रविषयकम् । एवञ्च 'काष्ठानि भस्म राशिः क्रियन्त' इत्यादिप्रयोगाणामसाधुत्वमेवेति ॥ . .. अपरे तु-खदिराङ्गारसवणे' इति विशेषणेन तत्र कुण्डलयोः प्रकृतित्वं गम्यते । सिद्धाया विकृतेः पाकानपेक्षणात्। पुनरपरयाऽऽकृत्या युक्त इति विशेषणेन तु सुवर्णपिण्डस्य विकृतित्वम् , आकृत्यन्तरयोगस्य प्रकृतित्वाप्रयोजकत्वात्। युज्यते चैतत् । "मृत्तिकेत्येव सत्यम्" इतिवत् संहृतिमुखेन पुनरावृत्त इति विशेषणेनापि सुर्वणपि. ण्डस्य विकृतित्वं गम्यते। . तथाहि-पूर्वोपक्रान्ताऽऽकृतिपरम्परायास्तत्पर्य्यवसायित्वेन सिषाधयिषितसुवर्णनित्यत्वस्य सिद्धः । तस्मात् पूर्व निर्दिष्टाऽऽकृतिविशिष्टसुवर्णस्य कुण्डलादिप्रकृतेरप्यनिर्दिष्टाऽप्रकृतिविशिष्टस्य तस्य विकृतित्वमेव भाष्यकृत्तात्पर्यविषय इत्यस्यापि वक्तुं शक्यतया न तन्निर्देश आख्यातस्य विकृतिसमानवचनत्वे उपष्टम्भक इति । ____ अत्रेदमाभाति-वैयाकरणमते प्रकृते प्रकृतिविकृत्योर्द्वयोरपि कर्तृत्वेनाख्यातेन कर्तद्वयमेव अभिधानीयम् । एवं तद्तसंख्याऽपि तत्रैकेनाख्यातेन विरुद्धसंख्यावतोस्तयोःसंख्याया अभिधातुमशक्यतया भगवता, कुण्डले भवत इति विकृतिसंख्यैवोक्ता, न तु प्रकृतिगता नाख्यातप्रतिपाद्येति मुनित्रयस्याऽऽज्ञाऽस्ति । एवञ्च प्रयोगवशेन पर्यायेणाऽन्यतरसमानवचनत्वमाख्यातस्य निराबाधमिति ॥ . *क्रियाकृतेति ॥ क्रियाप्रयोज्याऽसाधारणधर्मप्रकारकप्रतीतिविषयताऽनाश्रयत्वे . परीक्षा लक्षणमाह--*क्रियाकृतेत्यादिना*। *दर्शनात्*-प्रत्यक्षात्, प्रत्यक्षप्रमितिकरणादिति यावत् । *अनुमाना--अनुमितिकरणात् , तत्रैव-वाक्यपदीय एव । आद्यम् Page #193 -------------------------------------------------------------------------- ________________ १६४ दर्पणपरीक्षासहिते भूषणसारे - 'घटं करोति' इत्याद्यम् । काष्ठं भस्म करोतीति, सुवर्णं कुण्डलं करोतीति च द्वितीयम् । घटं पश्यतीति तृतीयम् । तृणं स्पृशतीत्युदासीनम् । विषं भुङ्क्ते इति द्वेष्यम् । गां दोग्धीति संज्ञान्तरैरना दर्पण: सति फलाश्रयत्वम् । निर्वर्त्त्यादावतिव्याप्तिवारणाय सत्यन्तम् । तत्रापि विषयतानाश्रयत्वस्य धर्मप्रकारकप्रतीतिविषयतानाश्रयत्वस्याऽसाधारणधर्मघटितस्य वा तस्य 'घट जानाति' इत्यादौ घटादावसम्भव इति प्रयोज्यान्तं धर्मविशेषणम् । तत्रैव क्रियाप्रयोज्या साधारणधर्म संयोगप्रतीतिविषये ग्रामादिकर्मण्यव्याप्तिनिरासाय - असाधारणेति । क्रियाजन्यफलानाश्रये अतिप्रसक्तिनिरासाय - विशेष्यम् । न च 'घटं जानाति' इत्यादौ क्रियाजन्य फलाभावात् सामान्यलक्षणस्याऽव्याप्तिः । तद्वारणाय तत्राऽऽवरणभङ्गाऽभ्युपगमे तु तस्यैव क्रियाप्रयोज्याऽसाधारणधर्मतयाऽयं घट एतेन ज्ञात एतद्व्यवहारविषयत्वादित्यनुमानजन्यप्रमाविषयत्वेन सत्यन्ताभावाद्विशेषलक्षणाऽव्याप्तिरिति वाच्यम् । कर्तृभिन्नत्वे सति कर्तृकर्मो भयसाधारणक्रियाजन्यफलाश्रयत्वे उक्तलक्षणवाक्यतात्पर्य्याद्विषयताज्ञानरूपफलाश्रयत्वाच्च न सामान्यलक्षणाऽव्याप्तिरावरणभङ्गफलमादाय जानात्यादिकर्मणि लक्षणसङ्गमनेऽपीच्छत्यादिकर्मण्यव्याप्तिवारणायोक्तरीतेरेवानुसर्तव्यत्वादिति । निर्देशक्रमेणोदाहरणान्याह - *घटमिति । *आद्यमिति । निर्वर्त्त्यमित्यर्थः । एवमग्रेऽपि । *संज्ञान्तरैरनाख्यातमिति । अपादानत्वादितत्तद्रूपविशेषैरविवक्षितमित्यर्थः । “अकथितञ्च” इत्यत्राऽकथितशब्दोऽविवक्षित परो, नत्वप्रधानपरः । तथा सति 'पाणिना कांस्यपात्र्यां दोग्धि' इत्यत्र करणाधिकरणयोः कर्मसंज्ञा प्रसज्ज्येतेति । दुहादीनां परिगणनात् तत्संज्ञयोः करोत्यादियोगे सावकाशत्वादिति भावः । तथाच पूर्वविधिप्रसक्तिपूर्वकं तदविवक्षायां सर्वथा पूर्वविधेरप्रसक्तौ च तत्प्रवृत्तिरिति बोध्यम् । यद्यपि विभागानुकूलव्यापारानुकूलव्यापारस्यापि दुह्यर्थत्वेन " कर्त्तुरीप्सिततमम्" इत्यनेनैव कर्मसंज्ञा सिद्ध्यति । कर्तृनिष्टव्यापाराविशेषणफलाश्रयतया गोः प्रधानकर्मतया न तत्र लाद्यनुपपत्तिः । पयोनिष्ठविभागानुकूलगोनिष्टव्यापारानुकूलव्यापारस्य शब्दतः प्राधान्याद्, अन्यथा सिद्ध प्रयोजनकमेतत्सूत्रमित्याभाति, तथापि विभागानुकूलव्यापार एव यदि धात्वर्थस्तदा अपादानत्वाद्यविवक्षायामन्यसूत्राप्राप्तकर्मत्वार्थमिदमावश्यकम् । एतस्मिन्नर्थे त्वप्रधाने दुहादीनामित्यनुशासनाद्द्ववादावेव लादयः । प्रधानकर्मत्वं चोक्तकर्मभिन्नत्वम् । तच्चोक्ताऽर्थे गवादीनामक्षतम् । धात्वर्थफलानाश्रयत्वात् । तथाचैतत्कल्पे अन्तः स्थितद्रवद्रव्यनिष्ठविभागानुकूलव्यापारो दुहेरर्थः । तत्र गोरपादानत्वाऽविवक्षायामनेन कर्मत्वम् । तद्विवक्षायां पञ्चमी । गोः पयस्यन्वये तु षष्ठी । एवञ्च गोकर्मकपयोनिष्ठविभागानुकूल एककर्तृको व्यापार इति परीक्षा निर्वर्त्यम् । द्वितीयम् - विकार्यम् । सञ्ज्ञान्तरै रनाख्यातम् * - - " अकथितं च" इति सूत्राधीनकर्मसञ्ज्ञावत् । एवं चापादानादिना विशेषरूपेण यत्र विवक्षितं तदित्युकम् | अविवक्षा च पूर्वविधेः प्रसक्तिपूर्विका सर्वथा पूर्वविधेरप्रसक्तावप्यविवक्षा च । Page #194 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । ख्यातम् । क्रूरमभिक्रुद्धयतीत्यन्य पूर्व्वकम् ॥ १६५ दर्पणः बोधः । विभागावधित्वमेव गोः कर्मत्वम् । आद्यकल्पे तु पयोनिष्ठ विभागानुकूलगोनिष्टव्यापाराsनुकूल एककर्त्तको वर्त्तमानो व्यापार इति । तत्र विभागाश्रयत्वात् पयसः कर्मता । तदनुकूलव्यापाराश्रयत्वात्तु गोः, न तु विभागाश्रयत्वेन । पयोनिष्ठविभागीयसम्बन्धस्यैव फलतावच्छेदत्वादेवमन्यत्राप्यूह्यम् । *अन्यपूर्वकमिति । अन्यसंज्ञाबाधनपूर्वं शास्त्रबोधितमित्यर्थः । ' क्रूरमभिक्रुध्यति' इत्यत्र “क्रुधदुहेर्ष्या" इतिप्रसक्तसम्प्रदानसंज्ञायाः “कुधद्रुहोरुपसृष्टयोः कर्म" (पा० सू० १|४| ३८ ) इति बोधनात् । एवं 'वैकुण्ठमधिशेते' इत्यादावपि बोध्यम् । 'अजां ग्रामं गमयति, 'शिष्यं शास्त्रं बोधयति' 'ब्राह्मणमन्नं भोजयति' 'यजमानं मन्त्रं पाठयति, ' 'घटं जनयति' 'नाशयति' इत्यादौ “गतिबुद्धि” इति सूत्रेण गम्यादिधात्वर्थकर्तुः कर्मसंज्ञाविधानात् गम्यादिप्रकृतिकणिजन्तधातुसमभिव्याहृतद्वितीयाया अप्याश्रयोऽर्थः । यद्यपि णिजन्तधात्वर्थप्रेरणाजन्यव्यापाररूपफलाश्रयत्वादजादीनामपि कर्मत्वं “कर्तुरीप्सिततमम्" इत्यनेनैव सिद्धं, तथापि णिजन्तेन आप्यमानस्य चेद्भवति गत्याद्यर्थ व्यापाराश्रयस्यैवेति नियमार्थं सूत्रम् । तेन 'पाचयत्योदन देवदत्तेन' इत्यादौ न । तदुक्तम् गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते । इति । वाचकतासम्बन्धेन स्वनिष्ठया तृतीययेत्यर्थात् । यद्यपि कर्त्तृसंज्ञायाः परत्वात् " हेतुमति च" इत्यनुशासनात् स्वकारकविशिष्ट क्रियाया णिजर्थसम्बन्धाऽवगतेरन्तरङ्गत्वाच्च कर्मसंज्ञायास्तया बाध एवोचितस्तथाप्यन्यानधी नत्वलक्षणार्थ प्राधान्यशाब्दप्राधान्ययोः प्रयोजकव्यापारे सत्त्वेन प्रधानकार्य्यस्य च सर्वतो बलवत्त्वस्य “आकडार' ( पा० सू० १।४।१ ) सूत्रे कैयटेनोक्तत्वात् " हेतुमति च" इतिसूत्रस्थभाष्यप्रामाण्याच्च तदनुरोधिकर्मत्वस्यान्तरङ्गादपि कर्तृत्वाद्बलवत्त्वाऽनियमत्वमेव साम्प्रतम् । परे तु — " हेतुमति च" इत्यनुशासनादन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपा स्वतन्त्रप्रेरणा णिजर्थः । कर्तृत्वं च क्वचित् प्रयत्नः क्वचिदाश्रयत्वादि । येन यादृशधातूत्तराख्यातेन यादृशं कर्तृत्वमभिधीयते ; तादृशधातूत्तरणिच्प्रत्ययेन तादृशकर्तृत्वनिर्वाहको व्यापारोऽभिधीयते । निर्वाहकत्वं च स्वरूपसम्बन्धविशेषो, नाडतो नाशयतीत्यादावन्वयाऽनुपपत्तिः । एवञ्च पाकादिकर्तुस्तत्कर्मत्वविरहेऽपि ण्यन्तधातुप्रतिपाद्यताऽवच्छेदककर्तृत्वस्य फलत्वेन तदाश्रयत्वात् पाकादिकर्तुः कर्मत्वं तादृशकर्तृत्वविशेषणतया सहायादिरूपस्वतन्त्रकर्तृवृत्तित्वविवक्षायां पाचयत्योदनं सहायमित्यपि प्रयोगः साधुरेव । अत एव “अजिग्रहत्तं जनको धनुस्तद्” इति भट्टिप्रयोगः स्वरसतः सङ्गच्छते । ग्रहेर्ज्ञानलाक्षणि परीक्षा * अन्यपूर्वकमिति । शास्त्रान्तरप्राप्तसंज्ञान्तरबाधकशास्त्रप्रयोज्यकर्मसंज्ञकमित्यर्थः । “क्रुधद्रुहेर्ष्याणाम्” इति यथा । एवं वैकुण्ठमधितिष्ठतीत्याद्यन्यस्मिन्नेवान्तर्भ Page #195 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - कर्त्तृतृतीयाया आश्रयोऽर्थः । तथाहि - "स्वतन्त्रः कर्त्ता" (पा० I १६६ दर्पणः 1 कतया तदुपपादनं त्वगतिकगतिः । यदा तु णिच्प्रकृत्यर्थव्यापारे स्वतन्त्रकर्तृवृत्तित्वस्य विशेषणतया विवक्षा तदा सहायेनेत्येव । “गतिबुद्धि” इति सूत्रात् गत्याद्यर्थकधातुयोगे तादृशकर्तृत्वविशेषणतया स्वतन्त्रकर्तृवृत्तित्वविवक्षा नियता, नाऽन्यत्रेत्यबोधनद्वारा तत्र कर्तृप्रत्ययाऽसाधुत्वज्ञापकम् । तेन 'पाचयत्योदनं सहायेन' इतिवद्'अजया ग्रामं गमयति' इति न | एवञ्च 'अजां ग्रामं गमयति' इत्यत्र ग्रामनिष्ठसंयोगानुकूलव्यापारस्य यदजानिष्टं कर्तृत्वं निर्वाहकत्वसम्बन्धेन तद्विशिष्टो यो व्यापारस्तदनुकूलकृतिमानिति बोधः । 'पाचयत्योदन सहायेन' इत्यत्र सहायकर्तृको यो विक्लिस्यनुकूलो व्यापारो, निर्वाहकत्वसम्बन्धेन तत्कर्तृत्वसम्बन्धेन तत्कर्तृत्वविशिष्टव्यापारानुकूलकृतिमानिति बोधः । 'चैत्रेण ग्रामं गम्यतेऽजा' इत्यत्र कर्माख्याते तु तादृशव्यापार निर्वाह्यकर्तृकव्यापारनिर्वाह्य कर्तृत्वनिरूपकं यद् ग्रामवृत्तिसंयोगानुकूलं गमनं तत्कर्त्यजेति बोधः । 'सहायेन पाच्यते तण्डुल चैत्रेण' इत्यत्र तु चैत्रकर्तृकप्रेरणा निर्वाह्यकर्तृत्वनिरूपको यः सहायरूपस्वतन्त्रकर्तृवृत्तिव्यापारस्तज्जन्यविक्लित्त्याश्रयस्तण्डुल इति बोधः । अर्थविवेकः स्वयमूह्यः । ये त्वनुकूलव्यापार एव णिजर्थस्तदन्वयिनी गमनादिक्रियैव धात्वर्थतावच्छेदकं फलं, तच्छालितयाऽजादीनां प्राप्तमेव कर्मत्वं “गतिबुद्धि” ( पा० सू० १।४।१२ ) इति सूत्रेण नियम्यत इति वदन्ति । तेषां मते 'पाचयत्योदनं सहायेन इत्यादौ द्वितीया तृतीययोर्नियामकोऽलाभः । अधिकमन्यत्राऽनुसन्धेयमित्याहुः । 'वैकुण्ठमधितिष्ठति' इत्यादावपि द्वितीयाया आधार एवार्थः । अध्याद्युपसृष्टशीङादियोगे “अधिशीङ्” (पा० सू० १।४।४५) इत्यादिसूत्रैराधारस्य कर्मसञ्ज्ञाविधा - नात् । यदपि कृञर्थ व्यापारान्तर्भावेणाऽध्याद्युपसृष्टशीङादीनां लक्षणामुपगम्य "कर्नु - रीप्सिततमम्" इत्यनेनैव कर्मसञ्ज्ञा सुसाधा, तथापि मुख्याऽर्थकतद्योगेऽपि कर्म - प्रत्ययसाधुत्वबोधनार्थमपि “अधिशीस्थासाम्" इत्यादिसूत्राणामप्यावश्यकतेति । कर्मप्रवचनीययोगविहितविभक्तेस्तु यथायथं लक्ष्यलक्षणभावादिः सम्बन्धो द्योत्य fad उपपदविभक्तीनां तु षष्ठयपवादकत्वात् सम्बन्ध एवार्थः । " कालाऽध्वनोरत्यन्तसंयोगे" ( पा० सू० २।३।५ ) इति विहितद्वितीयाया व्यापकत्वमर्थः । 'मासमata' इत्यादौ मासव्यापकाऽध्ययनमिति बोधात् । द्वितीयादीनामाश्रयोऽर्थ इत्यत्र विभक्तिपदस्य कारकविभक्तिपरत्वेन तदविरोधादित्यन्यत्र विस्तरः । क्रमप्राप्तं तृतीयार्थं निरूपयति-कर्तृतृतीयाया इति । करणतृतीयाया व्यापारार्थकत्वस्यापि वक्ष्यमाणत्वादुक्तम् - *कत्रिति । *आश्रय इति । आश्रयमात्रमि - त्यर्थः । आश्रयार्थकत्वे मानमुपन्यस्यति - तथाहीत्यादिना । ननु स्वातन्त्र्यमितव्यापारानधीन व्यापारवत्वम् । तच्च 'काष्टं पचति' इत्यादौ काष्ठादावप्रसक्तं, तद्वया Page #196 -------------------------------------------------------------------------- ________________ - सुबर्थनिर्णयः। सू० १।४।५४) । स्वातन्त्र्यञ्च-धात्वर्थव्यापाराश्रयत्वम् । . .. धातुनोक्तक्रिये नित्यं कारके कर्त्ततेष्यते ॥ .. ... इति वाक्यपदीयात् । अत एव यदा यदीयो व्यापारो धातुनाउं. भिधीयते तदा स कतति, स्थाली पचति, अग्निः पचति, एधांसि दर्पणः । पारस्य चेतनव्यापाराधीनत्वादत आह-*स्वातन्त्र्यञ्चेति । व्यापाराश्रयत्वस्य करणे धात्वर्थाश्रयत्वस्य कर्मण्यतिप्रसक्तत्वात् तद्वयावृत्तये क्रमेणोभयम् । __अन्ये तु-कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदकसम्बन्धेन धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयतद्धात्वर्थाश्रयत्वं स्वातन्त्र्यम् । तदेव च कर्तृत्वम् । कालिकसम्बन्धेन व्यापाराश्रयेऽतिप्रसङ्गवारणाय व्यापारतावच्छेदकसन्बन्धेनेति । 'ग्रामं गच्छति इत्यादावुत्तरसंयोगात्मके फले तादृशधात्वर्थत्वाभावान्न तदाश्रयेऽतिप्रसङ्गः । 'पक्वस्तण्डुलो देवदत्तेन इत्यादौ फलस्य विशेष्यत्वेन देवदत्तेऽव्याप्तिपरिहाराय कर्तृप्रत्ययसमभिव्याहार इति । सामग्रीसाध्यायां क्रियायां सर्वेषां स्वस्वव्यापारे स्वातन्त्र्येऽप्युक्तस्वातन्त्र्यस्य युगपत्सर्वेष्वभावान्न सूत्राऽनर्थक्यमिति, तत्तुः कर्मप्रत्ययसमभिव्याहृतकर्तृव्यावृत्तधात्वर्थव्यापाराश्रयत्वस्यैव सम्यक्त्वे गुरुविशेषणस्याऽनतिप्रयोजनकत्वाच्चोपक्ष्यम् । कर्मकर्तरि तु नव्यमते फले व्यापारत्वाऽऽरोपानाsव्याप्तिः । व्यापारत्वेन क्रतेरपि सङ्ग्रहान्न तदनाश्रयेऽचेतने स्वरसतः कर्तव्यवहार: तदरिक्तव्यापारस्य धातुना विवक्षायां तु क्वचित् कर्तृत्वव्यवहारोऽपि । वक्ष्यति चयदा यदीयो व्यापार इत्यादि । एवमेव 'मत्तो भूतं न तु मया कृतम् इत्याद्युपपाद्यमिति भावः । तत्र हरिवाक्यं प्रमाणयति-*धातुनेति । उक्तक्रिय इति विशेषणादस्मदुक्तमेव स्वातन्त्र्यं हरिसम्मतमिति सूचयति-*अत एवेति । उक्तस्वातन्त्र्यस्य कर्तत्वादेवेत्यर्थः। परीक्षा वति । *आश्रय इति । आश्रयत्वमात्रं वाच्यतावच्छेदकम् । *धात्वर्थव्यापारेति । धात्वर्थप्रधानव्यापारेत्यर्थः। प्राधान्यं च-कारकान्तराप्रयोज्यत्वम् । एतच्च विवक्षाधीनम् । यत्र काष्टं पचतीति प्रयोगस्तत्र काष्ठस्य कर्तत्वविवक्षायां यद्यपि तदीयव्यापारस्यान्यप्रयोज्यत्वम् , तथापि तस्यामवस्थायां यत्कारकान्तरं तदनधीनत्व. मस्त्येवेति बोध्यम्। _ तदाह-*धातुनेति*। *अत एव*-स्वतन्त्रस्योक्तरूपत्वादेव । यत्र तु करणे तृतीया तत्र तृतीयार्थो व्यापारः, तदीयव्यापारस्य करणत्वविवक्षायां धातुवाच्यत्वविरहात् । नचैवं चैत्रेण पाचयति मैत्रः' इत्यत्र चैत्रस्य मैत्रीयव्यापारप्रयोज्यत्वेन कारकान्तराप्रयोज्यत्वविरहात्कर्त्तत्वं न स्यादिति वाच्यम् ? तधात्वर्थप्रधानीभूतव्या. पाराप्रयोज्यत्वस्य विवक्षितत्वात् । एवं च तत्र चैत्रस्य णिजप्रकृतिधातुनिरूपितकर्तृत्वं तस्य तद्धातुवाच्यव्यापाराप्रयोज्यव्यापाराश्रयत्वमक्षतमेव । न च फूत्कारादिव्यापारकाले-"चैत्रस्तण्डुलं पचति" इतीष्यते, तत्र चैत्रस्य कर्तत्वं न स्यात् । फूत्काररूपव्यापारस्य चैत्रीययत्नसाध्यत्वादिति वाच्यम् । फूत्कारस्य प्राधान्यविवक्षायां कारकान्तराप्रयोज्यत्वस्यभू कारकनिष्टप्रधानीतव्यापाराप्रयोज्यत्वरूपस्य सत्वात्। Page #197 -------------------------------------------------------------------------- ________________ १६८ दर्पणपरीक्षासहिते भूषणसारेपचन्ति, तण्डुलः पच्यते स्वयमेवेत्यादि सङ्गच्छते। __ नन्वेवं “कर्मकर्तृव्यपदेशाच्च” (ब्र०सू०१।२।४) इति सूत्रे, “मनोमयः प्राणशरीरः" इति वाक्यस्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य “एतमितः प्रेत्याभिसम्भवितास्मि” इति प्राप्तिकर्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भगवता व्यासेन निर्णीतं कथं सङ्गच्छताम् । उच्यते-जीवस्यैव शेयत्वे प्राप्तिकर्मत्वमपि वाच्यम् । कर्तृत्वञ्च तस्य आख्यातेनोक्तम् । नकस्यैकदा संज्ञाद्वयं युक्तम् । कर्तृ- । संज्ञया कर्मसंज्ञाया बाधात् । तथाचैतमिति द्वितीया न स्यात्। दर्पणः ___ *सङ्गच्छत इति । कृत्याश्रयत्वादेस्तत्त्वे तु तदसङ्गतिरिति भावः । उक्तविवक्षायाः प्रयोगनियामकत्वं दृढयितुं पृच्छति-*नन्वेवमिति । एवं विवक्षाया एव प्रयोग नियामकत्वे मनोमयस्य मनोमयशब्दप्रतिपाद्यस्येत्यर्थः । जीवत्वे सङ्कल्पकर्तृरूपत्वे ब्रह्मभिन्नत्वे इति यावत् । एतमित इत्यादेरितः शरीरात् प्रेत्य निःसृत्य एतच्छरीरं परित्यजेति यावत् । एतं स्वप्रकाशत्वादिगुणविशिष्टं पूर्वोक्तमात्मानम् , अभिसम्भवितास्मि प्राप्तास्मीत्यर्थः । *कथं सङ्गच्छतामिति । भवन्मते वैवक्षिकयोः कर्त्तत्वकर्मत्वयोरेकस्मिन्नपि सम्भवादिति भावः। ___ सज्ञानिबन्धनविरोधं समर्थयन् कर्त्तत्वकर्मत्वयोर्वास्तवाविरोधं दर्शयति-*उच्यते इत्यादिना*। *जीवनस्यैव ज्ञेयत्व इति । ‘स क्रतुं कुर्वीत इत्यनेन जीवस्यैवो. पास्यत्वबोधने इत्यर्थः । *प्राप्तिकर्मत्वमिति । अन्योपासनाया अपरप्राप्त्यफलकत्वादिति भावः। *आख्यातेनेति। अभिसम्भाविताऽस्मीत्येतद्घटकेनेत्यर्थः। *बाधा 'परीक्षा विवक्षायाः प्रयोगनियामकत्वमित्येतद्गढयितुं शङ्कते-*नन्वेवमिति । *एवम् - विवक्षाया एव प्रयोगनियामकत्वे। *इतिसूत्रम् इत्यस्य निर्णातमित्यत्रान्वयः। मनोमयत्वादिभिर्धर्मः शरीरात्मा उपास्यत्वेन विवक्षितः उत परब्रह्मेति सन्देहे पूर्वपक्षे दूषणदानप्रस्तावे इत्थमुक्तम्-मनोमयः प्राणशरीरोसत्यकामः सत्यसङल्पो यः इत्यादिकं ब्रह्मैवोपास्यत्वेन विवक्षितमित्यत्र हेतुः। “एतमितः प्रेत्याभिसम्भवितास्मि" इति व्यपदेशात् । एवं प्रकृतं मनोमयत्वादिगुणकमुपास्यमात्मानमितः अस्माल्लौकिकशरीरात् , प्रेत्य निःसृत्य । एतच्छरीरं परित्यज्येति यावत् । *अभिसम्भवितास्मि - प्राप्स्यामीत्यर्थः। जीवत्वे ऽब्रह्मपरत्वे तस्यैकस्य जीवस्य यदि जीव एवोपास्यस्तटेकस्य कर्त्तत्वं कर्मत्वं चैतमित इत्यनेनोक्तं तद्विरुद्धमापद्येत इत्युक्तमित्यर्थः । *कथं सङ्गच्छतामिति । भवन्मते वैवक्षिकयोः कर्तृत्वकर्मत्वयोरकस्मिन्नपि सम्भवादिति भावः । कर्तृत्वकर्मत्वयोर्न सर्वथा विरोधः, किन्तु संज्ञानिबन्धन इत्यभिप्रायकं व्याससूत्रमित्याशयेन समाधत्ते-*उच्यत इति । *जीवस्यैव*-अब्रह्मण एव । *ज्ञेयत्वेउपास्यत्वेन ज्ञानविषयत्वे । *वाव्यमिति । यस्योपासनं भवति, स एव प्राप्यते नान्य इति भावः । *आख्यातेन-अभिसम्भवितास्मीत्येघटकेनाख्यातेन । *बाधादिति ) कर्मकर्तृसंज्ञयोराकडारीयत्वेन बाध्यबाधकभावस्य सत्वात् । ननु 'पच्यते Page #198 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । १६९ कर्मकर्तृतायाञ्च यगाद्यापत्तिरिति शब्दविरोधद्वारा भवति स भेदहेतुः । एवञ्च व्यापारांशस्य धातुलभ्यत्वादाश्रयमात्रं तृतीयार्थः । कारकचक्रप्रयोक्तृत्वं, कृत्याश्रयत्वं वा, दण्डः करोतीत्यत्रा व्याप्तम् । दर्पणः दिति । सञ्ज्ञयोराकडारीयतया समावेशाऽसम्भवेन परया कर्तृसज्ञया बाधादित्यर्थः । *यगाद्याऽऽपत्तिरिति । अभ्युच्चयवादः । प्राप्ये कर्मणि कर्मवद्भावाऽप्रसक्तेः । शब्दविरोधद्वारा - एकदा सज्ञाद्वय प्रयुक्तकार्य्याऽनुत्पत्तिद्वारा, सः - सञ्ज्ञद्वयविरोधस्तत्र कर्त्तृकर्मत्वव्यवहारभेदहेतुरित्यर्थः । न तु कर्त्तृत्वकर्म्मत्वयोः पारमार्थिक भेदमादायेति भावः । ननु विशिष्टाश्रयस्य तावत् तृतीयाऽर्थत्वमायातमत आह—*एवञ्चेति । धातूपात्तव्यापाराश्रयस्य कर्त्तृत्वे चेत्यर्थः । *आश्रयमात्रमिति । अनन्यलभ्यत्वादिति भावः । मतान्तरं दूषयति — कृत्याश्रयत्वमित्यादिना* | * अव्याप्तमिति । अचेतने तस्मिंस्तद्वाधादिति भावः । अत्र वदन्ति — दण्डादिनिष्ठव्यापारस्य धात्वर्थत्वविवक्षया भवदुक्तस्वातन्त्र्यवत् वास्तवकारकचक्रप्रयोक्तृत्वस्य दण्डादावभावेऽपि तदारोपात्कर्तृत्वव्यवहारस्तस्मिन् सूपपादः । अत एव हरिणा प्रागन्यतः शक्तिलाभान्न्यग्भावाऽऽपादनादपि । तदधीनप्रवृत्तत्वात् प्रवृत्तानां निवर्त्तनात् ॥ अदृष्टत्वात्प्रतिनिधेर्व्यतिरेके च दर्शनात् । आरादप्युपकारित्वे स्वातन्त्र्यं कर्त्तरिष्यते ॥ इत्यनेन करणादिव्यापारात् पूर्व करणादिसम्पादकशक्तिमत्वेन करणादीनामात्माधीनत्वसम्पादनेन च तदायक्तव्यापारत्वेनाऽतिप्रवृत्तानां निवर्त्तनेन कर्त्तुः फलप्राप्तौ स्वत एव निवृत्त्या प्रतिनिध्यभावेन कारकान्तराभावेऽप्यस्त्यादौ कर्त्तुर्दर्शनेन च दूरादप्युपकारित्वेऽपि स्वातन्त्र्यमित्यर्थकेन कारकचक्रप्रयोक्तृत्वमेव स्वातन्त्र्यमभिहितम् । वस्तुत एषां धर्माणामभावेऽपि शब्देन यस्यते प्रतिपाद्यन्ते स कर्त्तेति तदाशयः । 'पाचयति मैत्रेण चैत्र' इत्यादौ प्रयोज्यस्य प्रयोजकव्यापाराधीनत्वेऽपि णिच्प्रकृत्यर्थसाधनान्तरविषये उक्तस्वातन्त्र्यस्य सत्त्वात् कर्तृत्वोपपत्तिः । धातुवाच्यक्रिया कृतपरीक्षा तण्डुलः स्वयमेव' इत्यन्नैकस्योभयरूपत्वं दृष्टमेवेत्यत आह-* -*कर्मकर्त्तृतायामिति* । अभ्युपगम्यवादोऽयम् उक्तार्थकत्वे - एवमुक्त्यसम्भवात् । *सः* – कर्मकर्तृव्यपदेशः । *भेदहेतुः *-उपास्योपासकयोर्भेदहेतुः । एतेन संज्ञयोर्विरोध उपास्योपासकयोर्भेदप्रयोजको, नतु तयोर्वास्तवो भेद इति दर्शितम् । एवं च धात्वर्थव्यापाराश्रयस्य कर्तत्वे च । मानान्तरं दूषयति-कारकचक्रे ति* । *अव्याप्तमिति । दण्डस्या चेतनत्वेन द्विविधमपि कर्तृत्वं तत्र न सम्भवतीति भावः । २२ द० प० Page #199 -------------------------------------------------------------------------- ________________ १७० दर्पणपरीक्षासहिते भूषणसारे दर्पणः स्वातन्त्र्यस्यैव विवक्षणात् कर्तुपरतन्त्रकरणादेर्न स्वव्यापारमादाय कर्तुत्वम्, प्रयोज्यस्य स्वार्थसिध्यमर्थपि प्रवृत्या करणादीनां कर्बधीनत्ववत् प्रयोज्यस्य प्रयोजकाऽनधीनत्वाच्च । न हि फलोद्देशाऽधीना करणादीनां व्यापारवत्ता । प्रयोज्यस्य तु तादृशप्रवृत्तौ “सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते” इति "हेतुमति च” इतिसूत्रस्थभाष्यमनुभवश्व सार्वजनीनः प्रामाणमित्याहुः।। ___ कृत्याश्रयत्वं. दण्डादावव्याप्तमित्युक्त्या नैयायिकोक्तकर्तत्वस्योपेक्षणीयत्वमावेदितम् । तेषां त्वयमाशयः-कर्तृत्वं मुख्यं पूर्वोक्तमेव, आश्रयप्रतियोगित्वादिरूपं तु गौणम् , उभयमपि कर्तृतृतीयया प्रतिपाद्यते । ___ तथाहि-'चैत्रेण पच्यते' इत्यादौ कृतिमदभेदेन तज्जन्यत्वं वा क्रियाविशेषणतया तृतीयया भिधीयते । अचेतनकाष्ठादेरपि कर्तृत्वविवक्षायां तु काष्ठं पचतीतिवत् 'काष्ठेन पच्यते तण्डुल' इत्यत्रापि प्रयोगाद् व्यापाररूपे कर्तृत्वे तज्जन्यत्वरूपे सकर्तृकत्वे वा तस्य लक्षणा । एवं 'चैत्रेण ज्ञायते' इत्यादावाश्रयत्वरूपे कर्तृत्वे आवेयत्वरूपे कर्तृमत्वे वा नश्यते घटेन' इत्यादौ प्रतियोगित्वात्मककर्तृत्वे अनुयोगित्वरूपकर्तृमत्वे वा लक्षणा । 'चैत्रः पचति'इत्यादावुक्तस्थले कर्तृत्वमेव मुख्यं गौणं वा क्रियाविशेष्यतया. ऽऽख्यातेन बोध्यते। अचेतने स्वरसतः कर्तृव्यवहाराभावेन तत्र कर्तृपदमपि भाक्तमेव । ___ नच यत्नवत एव मुख्यकर्तृत्वे तदादायैव "कर्तृकरणयोः" (पा० सू० २३।।६२ ) इत्यादेश्चारितायें गौणकर्तृत्वे तृतीयाद्यनुपपत्तिरिति वाच्यम्। तत्सूत्रस्थकर्तृपदस्य पारिभाषिककर्तृपरत्वात्। तत्सूत्रप्रणयनस्यैव तत्परत्वे मानत्वात् । सूत्रे स्वातन्त्र्यं च समभिव्याहृतकारकान्तराऽनधीनत्वे सति कारकत्वम् । पुरुषव्यापाराऽधीनक्रियाऽनुकूलव्यापारवतामेव काष्ठादीनामन्यानधीनत्वविवक्षया 'काष्ठं पचति इत्यादौ कर्तृ. त्वम् । अनधीनत्वान्तविशेषगं च 'चैत्रः काष्ठः स्थाल्यां पचति इत्यत्र 'चैत्रः काष्टानि स्थाली पवन्ति इति प्रयोगवारणाय चैत्रः पचति, स्थाली पचतीत्यादौ यत्र कारकान्तराप्रसिद्धिस्तत्रानधीनान्तविशेषणं न प्रतीयत एव । तन्निर्वाहश्च स्वतन्त्रशक्तिकल्प. नात् । विशिष्टशक्तविशेषणविषयकविशेष्यबोधाजनकत्वात् । विशिष्टशक्त्या निर्वाहात्। चैत्रेण पाचयतीत्यादौ हेतुकर्तृसमभिव्याहारे प्रयोज्यस्य हेतुकर्बधीनत्वेऽपि ण्यन्तप्रतिपाद्यपाचनादिक्रियायामेव प्रयोजकस्य कारकतया प्रयोज्यस्य पच्याद्यर्थक्रियाकारकाऽनधीनताया अवैकल्येन न तद्वाचकपदोत्सरं तृतीयानुपपत्तिः । स्वतन्त्रकर्तृप्रयोजकव्यागरस्य तण्डुलक्रयणादिवत् पाकादावन्यथासिद्ध त्वादकारणत्वेन तस्य पाकादिप्रयोजकव्यापारवत्वेऽपि तत्क्रियाकारकत्वाभावाच्च । अत एव 'चैत्रेण मैत्रः पाचयति' इत्यत्र, मैत्रः पचतीति न। - नन्वस्तूपदर्शितरीत्या चैत्रादेः स्वतन्त्रकर्तृतानिर्वाहः, तथापि तद्वाचकपदोत्तरं तृतीयाऽनुपपत्तिः कर्तृवनिर्वाहकव्यापारस्य णिजर्थत्वेन स्वतन्त्रनिष्टस्य तस्य णिचाs. भिधानादिति चेद् ? न । कर्तृत्वनिर्वाहकत्वसम्बन्धेन पाकाद्यन्वितहेतुकर्तृव्यापारस्य णिजयंतापक्षेऽदोषात्। कर्तृत्वरूपफलाऽवच्छिन्नव्यापारस्स्य णिजयंतामतेऽपि तदुपरक्ताश्रयस्थाऽन्यतो मानानिर्वाणानभिधानस्याऽक्षतत्वात् । अबोधनस्यैव तत्राऽनभिधानपदार्थत्वादभि Page #200 -------------------------------------------------------------------------- ________________ ......सुबर्थनिर्णयः १७१ :: अयञ्च त्रिविधः-शुद्धः, प्रयोजको हेतुः, कर्मकर्ता च । 'मया हरिः सेव्यते' 'कार्यते हरिणा' 'गमयति कृष्णं गोकुलम्' । मदभिन्नाश्रयको हरिकर्मक सेवनानुकूलोज्यापारः। हर्यमिन्नायकउत्पादनानुकूलो व्यापारः। गोकुलकर्मकगमनाऽनुकूलकृष्णाश्रयकताद्वशव्यापाराऽनुकूलो व्यापारः इति शाब्दबोधः । करणतृतीयाया दर्पणः धानस्य " तिकृतद्धित्तसमासैः” इति परिगणनाच्च । आख्यातस्य धर्म्यवाचकत्वेऽपि कृत्यादिविशिष्टकर्तृबोधकत्वरूपाऽभिधानस्य तत्र सत्वान्न 'चैत्रः पचति' इत्यादौ तृतीयाऽऽपत्तिः । मुख्यविशेष्यतया तद्विवक्षायां 'चैत्रेण पचति इत्यादिप्रयोगापत्तिरित्यपिन । आश्रयातिरिक्त विशेषणतया कृतिबोधनस्यैवाऽनभिधानपदार्थत्वात् । तथाभिधानं च 'लकृत्तद्धितसमासैः एवेति त एवाभिधायकतया वृत्तिकृतोपात्ताः। - यद्यपि स्वतन्त्रव्यापार एव तृतीयादेरनुशासनम् , तथापि कृतिरूपकर्तृत्व एव लाघवाच्छक्तिर्व्यापारादौ तु लक्षणेत्युक्तमनुशासनस्याऽनादितात्पर्य्यमात्राग्राहकत्वाल्लाघवसहकृतस्यैव तस्य शक्तिकल्पकत्वात् । व्यापारे तत्सत्वेऽपि गौरवेण तदसिद्धेः। एवञ्च कृतिरूपकर्तृत्वबोधस्थले कारकान्तरव्यापारानधीनत्वं न प्रतीयत एवेति न तदन्तर्भावेण शक्तिः । प्रमाणाऽभावात् । व्यापारलाक्षणिककर्तृप्रत्ययेन लक्षणया तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गस्य वारणात् । अन्यथा तदन्तर्भावेण कृती शक्तावपि पूर्वोक्तातिप्रसङ्गस्य दुष्परिहरत्वात् । 'घटो जायते 'ओदनः सिध्यति' इत्या. दौ घटादेः कारकत्वं कर्तृत्वं च सत्कार्यवादमवलम्ब्यैवोपपादनीयम् । मुख्य क्रियाकर्तृत्वं च न तदनुकूलकृतिमात्रम् । एकक्रियाविषककृतेर्यत्र नान्तरीयंककियानिर्वाहस्तत्र तत्क्रियाकर्तृत्वाऽव्यपदेशात् । किन्तु तक्रियाविषयकत्वे सति तदनुकूलकृतिस्तत्कर्तृत्वम् । गुरुतरभारात्तोलनादौ तु यत्र क्रियाया अनिष्पत्तिस्तत्र गतिरुक्कैव । अन्योद्देशेन नाराचक्षेपाद् यत्र ब्राह्मणवधस्तत्र मरणाऽनुकूलनाराचक्षेपरूपव्यापारस्य कृतिविषयत्वेऽपि हिंसा । लक्षणस्योद्देश्यताघटिततया तस्य विप्रमरणानुकूलव्यापारत्वेनानभिसंहितत्वात्तेन रूपेण कृतिविषयत्वस्य तादृशव्यापारे असत्त्वेन न ब्राह्मणत्वविशिष्टवधकर्तृत्वं तादृशव्यापारकर्तुरिति न सम्पूर्ण प्रायश्चितं तस्येति ॥ कर्तृविभागमाह-*अयञ्चेति । अनुपदं तृतीयार्थत्वेन निरुक्तः कर्तेत्यर्थः । *शुद्ध इति । हेतुत्वकर्मकर्तृत्वानधिकरणमित्यर्थः । प्रेरणार्थकणिप्रकृतिधातूपात्तव्यापाराश्रय इति यावत् । हेतुरिति । णिजर्थप्रेरणाश्रय इत्यर्थः । *कर्मकर्तेति । धातूपात्तव्यापाराऽऽश्रयत्वे सति णिजर्थव्यापारेणाऽऽप्यमानत्वेन विवक्षित इत्यर्थः । क्रमेणोदाहरणान्याह-*मया हरिः सेव्यत इत्यादिना* । अत्र व्यापारविशेष्यबोधोत्की . परीक्षा *अयम्*, कर्ता । आधे हरिः शुद्धः कर्ताः द्वितीये प्रयोजककर्ता, तृतीये-कृष्णः कर्मकर्ताः प्रत्यर्थे प्रति कर्ता णिजथे प्रति कर्म । कैयटानुरोधेन त्रिषु स्थलेषु बोधप्रक्रिया• माह-*मदभिन्नेत्यादिना*। *करणतृतीयाया इति। करणे विधीयमानतृतीयाया Page #201 -------------------------------------------------------------------------- ________________ १७२ दर्पणपरीक्षासहित भूषणसारेस्त्वाश्रयव्यापारौ वाच्यौ । तथाहि-"साधकतमं करणम्" (पा० सू० १।४४९)। तमबर्थः प्रकर्षः । सचाव्यवधानेन फलजनकव्यापारवत्ता । तादृशव्यापारवत्कारणञ्च करणम् । उक्तञ्च वाक्यपदीये क्रियायाः परिनिष्पत्तिर्यदु व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥ दर्पणः र्तनं तु कैयटानुसारेण । तत्वं तु प्रागेवाऽवोचाम। *स्वाश्रयव्यापाराविति ॥ ननु व्यापारस्य धातुत्वेनैव लाभात् तत्र शक्तिकल्पनमपार्थमित्याशङ्ककस्य कर्तृनिष्ठव्यापारस्य धातोर्लाभेऽप्यनुभूयमानकरणनिष्ठव्यापारस्य पदार्थत्वमन्तरेण शाब्दविषयतयाऽनुपपत्त्या शक्तिरावश्यकी । आख्यातानिवृत्तिभेदाया एव क्रियाया अवगमाद् व्यापारद्वयस्य धात्वर्थत्वासम्भवाच्चेत्यभिप्रेत्य. स्वोक्तार्थस्य सप्रमाणतां दर्शयितुं करणसंज्ञाप्रतिपादक सूत्रमुपन्यस्यति-*तथाहीत्यादिना । "साधकतमम्" इति सूत्रस्य कारकाधिकारीयत्वात् सूत्रोपात्त साधकशब्दादेव प्रकर्षलाभेऽपि गौणाधाराधिकरणसंज्ञाफलकस्य "कारकप्रकरणे शब्दसामर्थ्यगम्यः प्रकर्षों नाश्रीयत' इत्यर्थस्य बोधनाय तमबुपादानमिति सूचयन्नाह-*तमबर्थः प्रकर्ष इति । प्रकर्षश्चकारकान्तरापेक्षो न तु करणान्तरापेक्षः । कारकसामान्यवाचिसाधकशब्दादुत्पन्नेन तमपा तदवधिकप्रकर्षस्यैव द्योतनात् 'तेनाश्वेन दीपिकया व्रजति' इति प्रयोगोपपत्तिः । अन्यथा करणान्तराऽपेक्षिकप्रकर्षस्य करणान्तरे अभावेन तदनुपपत्तेः ॥ *तादृशेति । फलोत्पत्त्यव्यवहितपूर्ववर्तीत्यर्थः। परे तु-फलायोगव्यवच्छिन्नकारणत्वं करणत्वम् । स्वव्याप्येतरयावत्कारणसमषधाने सति यदव्यवहितोत्तरक्षणे फलनिष्पत्तिस्तत्त्वमिति यावत् । स एव तृतीयार्थः । सत्यन्तनिवेशाच्चक्षुषोऽन्धःकारे फलाऽयोगेऽपि न तत्राऽप्रसङ्गः । प्रयोजकेऽतिप्रसङ्गनिरासायाऽव्यवहितेति वदन्ति ॥ - तत्र हरिसम्मतिमप्याह-*उक्तञ्चेति । अत्र क्रियापदं फलपरम् । 'बाणेन हत' इत्यत्र बाणव्यापाराव्यवहितोत्तरक्षणे प्राणवियोगरूपफलाऽवश्यम्भावाल्लक्षणसमन्वयः। विवक्ष्यते इत्यनेन विवक्षव विभक्ता प्रयोजिका, न वास्तवकरणत्वादिसत्तेत्युक्त परीक्षा इत्यर्थः । स च प्रकर्षश्च अप्रकर्षश्च कारकान्तरापेक्षया बोध्यः, नतु करणान्तरापेक्षया । कारकसामान्यवाचकसाधकशब्दात्तमपो विधानात् , तेन अश्वेन दीपिकया पथा व्रजतीति प्रयोगस्योपपत्तिः, राजा चक्षुरिन्द्रियेण चाराणां प्रवर्तनं कृत्वा शत्रूणां सैनिकानवकलयति यत्र, तत्र राजा चक्षुषा परसैनिकान् पश्यतीति प्रयोगापत्तिवारणायाव्यवधानफलकन्तमब्ग्रहणम् तस्य कारकाधिकारात् कारकजाते सिद्धे पुनः साधकशब्दोपादानादेवसाधकतमस्य लाभो भविष्यतीति वैयर्थ्यमिति यदि ब्रूषे ? तदा कारकाधिकारे 'शब्दसामर्थ्यगम्यः प्रकर्षा नाश्रीयते' इत्यर्थज्ञापकतया चारितार्थ्य बोध्यम् । तेन गौणाधारस्याप्यधिकरणसंज्ञेत्यन्यत्र विस्तरः। अव्यवधानेन फलोत्पादकवतः करणसंज्ञायां हरिसम्मतिमाह-*उक्तं चेत्यादिना*। *क्रियाया:*-फलस्य, *अनन्तरम्*-अनन्तरकाले, विवक्ष्यते* इत्यनेन विवक्षया . Page #202 -------------------------------------------------------------------------- ________________ ..... सुबर्थनिर्णयः । . वस्तुतस्तदनिदेश्यं न हि वस्तु व्यवस्थितम् । ....... स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥ इति ।विवक्ष्यत इत्यनेन सकृदनेकेषां तदभावात् द्वितीयासप्तम्यादेरवकाशं दर्पणः म् । अत एव दात्राऽनादरेण बलस्य तत्त्वविवक्षायां, बलेन लुनातीति प्रयोगः । *वस्तुत इति। यत इदमेव वस्तु करणमिति न नियमोऽत एव निश्चिताऽधिकरणत्वाऽपि स्थाली तनुतरकपालत्वाद्वेवक्षिककरणत्ववतीत्यर्थः। *अवकाशमिति । 'तण्डुलं स्थाल्यां पचति' इत्यादौ करणत्वाऽविवक्षायां न तत् संज्ञाप्रयुक्तद्वितीयादेरवकाशमित्यर्थः । तथाच 'काष्ठैः पचति इत्यादौ प्रकृत्यर्थकाष्ठादेरभेदेनाश्रयरूपतृतीयाऽर्थेऽन्वयः। तस्य च व्युत्पत्तिवैचित्र्येण समानप्रत्ययोपात्तत्वप्रत्यासत्त्या व्यापाररूपतदर्थान्तरे आधेयतासम्बन्धेन फलोपहिततादृशव्यापारस्य चानुकूलतासम्बन्धेन विक्लित्त्यनुकूलव्यापारे । एवञ्च काष्टाऽभिन्नाश्रयको यः फलोपहितव्यापारस्तद्विशिष्टो विक्लित्त्यनुकूल एकाश्र. यको वर्तमानो व्यापार इति बोधः। वैशिष्टयं च-जन्यजनकभावसम्बन्धेन बोध्यम् । अत्र च “यत्सन्निहितेषु सर्वेषु कारकेषु कर्ता प्रवर्त्तयिता भवति" इति सकलकारक. व्यापारस्य कर्बधीनत्वप्रतिपादक, “कारके" इति सूत्रस्थं भाष्यं प्रमाणम् ॥ . : अपरे तु-'क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम्' इति वाक्यस्थाऽनन्तरपदस्वारस्यात् तृतीयार्थव्यापारस्य जन्यतासम्बन्धेन फलेऽन्वयः । तथाच जन्यतासम्बन्धेन काष्ठाश्रयकव्यापारविशिष्टफलानुकूलो व्यापार इति बोधमाहुः । तृतीयार्थकरणत्वस्य व्यापार एवाऽन्वयः, शब्दशक्तिस्वभावान्न फलांशे। अत एव मत्वर्थलक्षणया सोमादिपदस्य नामधेयत्वं सिद्धान्तितम् । अन्यथा व्यापार प्रति करणत्वेनान्विते फलांशे करणत्वेनाऽन्वयोपपत्तो लक्षणाया अप्रसङ्ग एव । अत एव सोमेन यजेता इत्यत्र मत्वर्थलक्षणेति मीमांसका इत्यन्ये। ... वस्तुतस्तु "आश्रयोऽवधिरुद्देश्य" इति मूलस्वारस्यात्. करणतृतीयाया अप्याश्रयमात्रमर्थः । प्रकृत्यान्वितस्य स्वनिष्ठव्यापारजन्यत्वसम्बन्धेन धात्वर्थव्यापारे। न्वय इत्येव ज्यायः। नैयायिकास्त्वसाधारणं कारणं करणम् । कारणे असाधारण्यं च-व्यावारवत्त्वमेव। न तु फलाऽयोगव्यवच्छिन्नत्वम् । तस्य यावत्कारणघटिततया गौरवेण तद्धर्माऽवच्छिन्ने शक्तयसिद्धः । स एव च प्रकर्षः "साधकतमम्" इति तमपा बोध्यते । व्यापारस्य तज्जन्यत्वविशिष्टतज्जन्यजनकत्वरूपतयाऽव्यवधानांशस्यापि जनकत्वघटकतया ला परीक्षा एवान करणत्वादिव्यवहारनियामकतेति ध्वन्यते। एतदेव स्पष्टयति-*वस्तुत इति। वस्तुनीत्यर्थः । *तत्*-करणत्वादिषट्कम् । *अनिर्देश्यम् ,-इदं वस्तुकरणमेवेत्येवंप्रकारेण निर्देष्टुमशक्यम् । *हि*यतः, *वस्तु व्यवस्थितं न*-करणत्वादिरूपेण व्यवस्थितं नास्तीत्यर्थः। निश्चिताधिकरणत्वादपि स्थाल्याः अधिकरणत्वेनाविवक्षायां करणत्वेन तु विवक्ष्यत इति तात्पर्यम् , तदाह-*स्थाल्येति । *तदभावादिति* । करणत्वाभावादित्यर्थः । *अवकाशमिति । यदा काष्ठस्यैव क Page #203 -------------------------------------------------------------------------- ________________ १७४ दर्पणपरीक्षासहिते भूषणसारेसूचयति । नचैवं "कर्ता शास्त्रार्थवत्वात्” (ब्र०सू० २।३।३३) इत्युत्तरमीमांसाधिकरणे "शक्तिविपर्ययात्" इति सूत्रेणान्तःकरणस्य कर्तृत्वे करणशक्तिविपर्ययापत्तिरुक्ता न युज्यतेति वाच्यम्। 'तदैतेषां प्राणानां विज्ञानेन विज्ञानमादाय" इति श्रुत्यन्तरे करणतया क्ल दर्पणः भात् । तत्र पृथक्शक्त्यभावेन व्यापारमात्रं करणतृतीयार्थः । तस्मिन् प्रकृत्यर्थस्याधेयतासम्बन्धेनाऽन्वयः । शेषं पूर्ववदित्याहुः। *एवमिति । एकस्मिन्नपि धर्मिणि कर्त्तकरणशक्तयोरविरोध इति यावत् । *शक्तिविपर्ययादिति । 'एष हि द्रष्टा श्रोताऽनुमन्ता बोद्धा विज्ञानाऽऽत्मा पुरुष' इत्यादीनां तथा कः कर्त्तव्यविशेषप्रतिपादकानां यजेत जुहुयादित्यादीनां च सार्थक्याय जीवस्य, “कर्ता शास्त्रार्थवत्त्वात्" इत्यनेन कर्तृत्वे बोधिते बुद्धिपदव्यवहा. ये विज्ञानमेवाऽस्तु कत्रित्याशङ्कायां विज्ञानशब्दवाच्यबुद्धेः कर्त्तत्वाऽभ्युपगमे लोके समर्थस्याऽपि कर्तुः सर्वाऽर्थकारिकरणान्तरसापेक्षस्यव कार्यकारित्वदर्शनेन विज्ञानपदव्यपदेश्यत्वबुद्धेः करणशक्तिहान्यापत्तिरतस्तदतिरिक्तजीवस्यैव कर्तृत्वमुचितमित्यर्थप्रतिपादकेन, “शक्तिविपर्ययात्" इति सूत्रेणेत्यर्थः। ___ *न युज्यतेति । कर्तृकरणशक्तयोरविरोधस्यैव भवद्भिरभिधानादिति भावः । *तदेतेषामिति । *प्राणानाम्-इन्द्रियाणां, विज्ञान-ग्रहणशक्ति, विज्ञानेन-विज्ञानशब्दवाच्येन मनसा तजन्यबुद्धयात्मकप्रवृत्त्येति यावत् । आदाय-गृहीत्वा हृदयं स्वापे गच्छतीति श्रुत्यर्थः। ___ *करणतयेति । विज्ञानेनेत्यत्र करणतया क्लुप्तस्येत्यर्थः। निष्प्रमाणेत्याः कर्तरि करणशक्तिस्वीकारेऽपि द्वयोः शक्तयोरेकदा विवक्षायामसम्भवेन "विज्ञानं यज्ञं तनुते" परीक्षा रणत्वविवक्षा, तदा 'काष्ठैः स्थाल्यां तण्डुलं पचति' इति भवति । *नचैवम्-विवक्षाया एव नियामक वे। *कतेंति । तत्र हि बुद्ध्यात्मकस्य विज्ञानस्य कर्तृत्वं जीवस्य वेति सन्देहे जीवस्यैवेन्युत्तरपक्षसाधकेयमुक्तिः। *जीवः*-कर्ता, शास्त्रस्य-विधिनिषेधशास्त्रस्य, *अर्थवत्वात्*-उपपन्नत्वात्। । प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा।। पुंसो येनोपदिश्येत शास्त्रं शास्त्रविदो विदुः॥ इति शास्त्रलक्षणम् । नित्येन श्रुत्या, कृतकेन स्मृत्या, जीव एव विहितंक निषिद्धं चाकर्तुमलम् । एवं रीत्या जीवस्य कर्तृत्वं व्यवस्थाप्य विज्ञानस्याकर्त्तत्वे युक्तिरुक्ता। *शक्तिविपर्ययेति । विज्ञानस्य कर्त्तत्वे करण वशक्तिविलोपापत्तिः, करणस्याकर्तृत्वादिति भावः । विज्ञानम्*-बुद्धिः । *न युज्यतेति । यथा करणस्यापि काष्ठस्य काष्ठं पचतीत्यत्र कर्तत्वं भवतीत्यत्र करणत्वकर्तत्वशक्तरविरोधः, तथेहापि भविष्यतीति भावः । तदेवेतेषामिति । तदा स्वापकाले विज्ञानेन मनसा तजन्यबुद्ध्यात्मकवृत्या करणभूतया एतेषामिन्द्रियाणां प्राणपदवाच्यानां विज्ञानमादाय ज्ञानजननशक्तिमादाय तिष्ठति । करणतया क्लप्तस्य विज्ञानस्य इत्याशयात् , शक्तिविपर्ययापत्तिरित्यस्याशयात् । Page #204 -------------------------------------------------------------------------- ________________ ..... सुबर्थनिर्णयः । १७५ सस्य कर्तृतां प्रकल्प्य शक्तिविपर्ययापत्तिनिष्प्रमाणा कल्प्येतेत्यभिप्रायात् । वस्तुतस्तु अन्वाचंयमात्रमेतदिति, “यथा च तक्षोभयथा" 'दर्पणः इत्यादौ कर्तृत्वविवक्षायां करणशक्तिविवक्षाप्रयुक्तविज्ञानेनेति तृतीयान्तनिर्देशादपादानाऽसम्भवेन तद्विपर्ययप्रसङ्गाभावादित्याशयादित्यर्थः। ___नन्विदमयुक्तम् , आपादनप्रतिपादकग्रन्थस्यैवापत्तावप्रामाण्यप्रतिपादकत्वाऽसम्भवात् , आपत्तेः प्राक्तनसूत्रादप्रक्रान्तत्वाञ्चेत्यत आह-*वस्तुतस्त्विति । *अन्वाचयमात्रमेतदिति । एतत्-शक्तिहान्यापत्तिरूपं दूषणम् । मात्रपदेन तात्पर्यविषयत्वस्य व्यवच्छेदः । अन्वाचयत्वं च, तात्पर्य्यज्ञानविषयाऽर्थसन्निहितत्वम् । उपेक्षाविषयत्वं वा । तच्च बुद्धेः करणशक्तिविपर्ययेऽस्ति । दृष्टान्तप्रतिपादकसूत्रादू बुद्धः कर्तृत्वनिरासस्यव मुख्यत्वावगतेरिति भावः। . भूषणे तु तदेतेषामित्याद्यभिप्रायादित्यन्तः पाठो नास्त्येव । नन्वं कर्तेत्यादिः न युज्यतेति चेत् ? सत्यम् । 'अन्वावयमात्रमेतद् इति पाठः । *अन्वाचयेति । विज्ञानशब्दार्थस्य जीवत्वे शक्तिविपर्यायापत्तिः सम्भाव्यते, न तु निर्भरस्तत्रेत्यर्थः । उपाधिवशेन परमात्मन्येव तत्सम्भवादिति भावः । तदेव विशदयति-*यथा चेति । सूत्रे च-शब्दस्त्वर्थे, पराऽभिमतबुद्धिकर्तृत्वनिरासाऽर्थः । न हि परमात्मनोऽन्यो जीवो नाम कर्ता भोक्ता वा सम्भवति। नित्यशुद्धबुद्धमुक्तात्मनः कर्तृत्वाऽऽद्यसम्भवादनिमोक्षप्रसङ्गाच्च । • किन्तु “ध्यायतीव लेलायतीव" इति श्रुतरेध्यस्तं तत्तत्र वाच्यम् । अविद्योपस्थापितं तत् परस्यापि सम्भवति । “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति" इति श्रुतेः विद्याऽवस्थायां तु तदभावो “यत्र तु सर्वमात्मैव स्यात्, किं केन पश्येत्। परीक्षा यद्वा-इता जीवस्य कर्तृत्वं पदस्य लौकिकक्रियासु कर्तृत्वं व्यपदिशति-विज्ञान यज्ञं तनुते' कर्माणि तनुत इति। .. . ननु विज्ञानशब्दो बुद्धौ समधिगतः कथमेतेन जीवस्य कर्तृत्वं सूच्येतेति चेद् ? उच्यते-जीवस्यैवैष निर्देशो न बुद्धेः । नचेज्जीवस्य स्यात्ततो विपर्ययः स्यात् । विज्ञानेनेत्येव निहिश्येता तथा पत्र बुद्धिविवक्षायां विज्ञानशब्दाकरणविभक्तिनिर्देशो दृश्यते। तदेतेषां प्राणानां 'विज्ञानेन विज्ञानमादाय' इति । इह तु कर्त्तसामानाधिकरण्येन निर्देशाद् बुद्धिव्यतिरिक्तस्यैवात्मनः कर्त्तत्वं सूच्यत इत्यदोष इति श्रुतिष्टान्तत्वेनोपात्ता भाष्ये। । नन्विदमयुक्ततापत्तेरप्रक्रान्ततयाऽस्यापादनप्रतिपादनपरग्रन्थस्याप्रामाण्यापत्तिरत आह-*वस्तुतस्तु अभ्युच्चयेति । *अभ्युच्चयमात्रम्-अन्वाचयमात्रम् । *एतत्-शक्तिहान्यापत्तिरूपदूषणम् । मात्रपदेन तात्पर्यविषयत्वव्यवच्छेदः । अन्वाचयत्वं च-तात्पर्यज्ञानविशेष्यार्थसन्निहितत्वम् । बुद्धेः करणत्वे शक्तिविपर्ययापत्तिप्रतिपादनग्रन्थस्य बुद्धेः कर्तत्वनिरास एव तात्पर्यमित्येव कल्प्यते इति । *यथा च तक्षोभयथेति । तथाचोभयरूपत्वसम्भवान्न तद्विरोधोनावनं दूषणतामावहति । तत्र Page #205 -------------------------------------------------------------------------- ________________ १७६ दर्पणपरीक्षासहिते भूषणसारे(ब्र०सू०२।६।४०) इत्यधिकरणे भाष्य एव स्पष्टमित्यादि प्रपश्चितं भूषणे ॥ .. सप्तम्या अप्याश्रयोऽर्थः। “सप्तम्यधिकरणे च" (पासू०२।३।३६) इत्यधिकरणे सप्तमी । तच "आधारोऽधिकरणम्" (पासू०१।४।३४) इति सूत्रादाधारः । तत्त्वश्चाश्रयत्वम्। तत्राश्रयांशः शक्यः। तत्त्वमवच्छेदकम् । नचाश्रयत्वमात्रेण कर्तृकर्मकरणानामाधारसंज्ञा स्यात् । स्यादेव यदि ताभिरस्या न बाधः स्यात् । “कारके" (पा० सू०१।२३) इत्यधिकृत्य विहितसप्तम्या:क्रियाश्रय इत्येव यद्यपि दर्पणः इति श्रुतेः । यथा तक्षा वास्यादिकरणहस्तः कर्ता दुःखी भवति, स एव गृहस्थो विमु. क्तवास्यादिनिर्व्यापारः सुखी भवतीति तदर्थः । तथाच शक्तिविपर्ययादित्यस्य पराभ्युपगतबुद्धिकर्तृत्वनिरासे तात्पर्य्यम्, न तु बुद्धः कर्तृत्वेन करणशक्तिपरित्याग इति न तदूविरोध इति भावः ॥ . - सप्तम्यर्थनिरूपयति-*सप्तम्या अपीति* । ननु तावता सूत्रादोधारस्य वाच्यत्वं लभ्यते, नाश्रयस्येत्यत आह-*तत्वञ्चेति । आधारत्वं चेत्यर्थः । *आश्रयत्वमिति* आश्रयत्वविशिष्टत्वमित्यर्थः । विशिष्टे सूत्रेण शक्तिबोधनेऽप्याश्रयांऽश एव सा, न तु विशेषणीभूताश्रयत्वेऽपि । तत्प्रकारकशाब्दबोधे आश्रयशक्तिज्ञानस्य हेतुताकल्पनयैव तदानोपपत्तेरित्याशयेनाह-*तत्राश्रयांशः शक्य इति । यद्वा ननु तावता परम्परया क्रियाश्रयस्य सप्तम्यर्थत्वं लब्धं, नाऽऽश्रयमात्रस्येत्यत आह-*आश्रयांश इति* पूर्वोक्तरीत्या क्रियाया धातोरेव लाभादनन्यलभ्याश्रय एव शक्य इत्यर्थः । तत्त्वम्आश्रयत्वम् । *आश्रयत्वमात्रेणेति। शक्यताऽवच्छेदकस्य कादिसाधारण्यात् करणतृतीयायाश्च व्यापारोऽपीत्यपिना आश्रयार्थकत्वप्रतिपादनादिति भावः॥ ..... परीक्षा दृष्टान्तस्य तक्ष्णः प्रदर्शनेन स्वाभाविकमेवात्मनः कर्तत्वमग्नेरूष्मत्वमिव । यथा लोके तक्षा वास्यादिकरणयुक्तः कर्ता भवति दुःखी भवति ततो गृहं प्राप्नोति,विमुक्तवास्यादिकरणः स्वस्थो निवृत्तव्यापारः सुखी भवत्येवमविद्याप्रत्युपस्थितद्वैतसम्पृक्त आ. त्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति तत्क्लमापनुत्तये तमात्मानं परब्रह्म प्रविश्य वियुक्तसङ्गः सुखी भवतीति । तक्षा दृष्टान्तश्वांशेन द्रष्टव्यः। तथाहि-सत्सु तक्ष्णादिव्यापारेषु वास्यदिनोपपत्यैव कर्ता भवति। एवमयमात्मा सर्वव्यापारेषु मन आदीन्यपेक्षैव कर्ता भवतीति विज्ञेयम् । *भाष्ये*-शाङ्करभाष्ये। तथा च बुद्धःकरणशक्तिविपर्यासे न तात्पर्यम् , किन्तु पराभ्युपगतबुद्धिकर्त्तत्वनिरास एवेति हृदयम् । ____ *तच्च*-अधिकरणं च । तच्च*-आधारत्वं च । *आश्रयांश इति । क्रिया. या धात्वर्थत्वादाश्रयांश एव शक्यः । *तत्त्वम्*-आश्रयत्वम् । क्रियाधारमावस्याधिकरणसंज्ञा चेद् कर्तृकर्मणोरप्यधिकरणसंज्ञप्राप्नोतीत्याशङ्कां निराचष्टे-*नचेत्यादिना* । *आधारसंक्षेति । आधारस्य संज्ञाऽऽधारसंज्ञा, आधारस्य विधीयमाना ऽधिकरणसंज्ञेत्यर्थः । *ताभिः कर्मकर्तृकरणसंज्ञाभिः । *अस्याः-अधिकरण Page #206 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः। १७७ तात्पर्यम् , तथाप्यत्र कर्तृकर्मद्वारा तदाश्रयत्वमस्त्येव स्थाल्यादेर्भूतलकटादेश्चेति 'स्थाल्यां पचति' 'भूतले वसति, 'कटे शेते' इत्याधुप. पद्यते । उक्तञ्च वाक्यपदीये कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्खतक्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ इति । एतञ्च त्रिविधम् । औपेश्लेषिक, वैषयिकमभिव्यापकञ्च । 'कटे शेते' 'गुरौ वसति' 'मोक्षे इच्छास्ति' 'तिलेषु तैलम् ' इति एतच "संहितायाम्" (पासू०६।१।७२) इति सूत्रे भाष्ये स्पष्टम् । दर्पणः *कर्तृकर्मद्वारेति । एतादृशार्थलाभश्च तत्सूत्रसामर्थ्यादेव । तथाहि-कारकाधिकारीयेणैतेन क्रियाऽन्वय्याधारस्याऽधिकरणसंज्ञा विधीयते। क्रिया च धात्वर्थः । साक्षात्तदाधारयोः पराभ्यां कर्तृकर्मसंज्ञाभ्यामाक्रान्तत्वादिदं सूत्रमनवकाशं सत्परम्प. रया धात्वर्थाश्रयस्याधिकरणसंज्ञाविधानेन चरितार्थम् । परम्पराघटके च कर्तृकर्मणी एवेति परया कर्मसंज्ञया बाधादेव, मोक्षे इच्छास्तीतिवन्मोमे इच्छतिभवतीति न प्रयोगः॥ ___ *औपश्लेषिकमिति । सामीप्यसम्बन्धनिबन्धनमित्यर्थः । सामीप्यस्यापि संयुक्तसंयोगरूपतया संयोगपदेन तस्याऽपि सङ्गहात्, आधेयव्याप्यतावच्छेदकयत्किञ्चिदवयवकमिति यावद् । वैषयिकमिति । विषयतासम्बन्धनिरूपकमित्यर्थः । *अभिव्यापकमिति* । आधेयव्याप्यतावच्छेदकयावदवयवकमित्यर्थः । तत्राद्यस्य 'कटे शेते' 'गुरौ वसति' इत्युदाहरणे, द्वितीयस्य-मोक्षे इच्छास्तीति, अन्त्यस्याऽन्त्यम् । 'कटे शेते' इत्यत्र परम्परया कटाभिन्नाश्रयकः शयनाऽनुकूलो व्यापार इति बोधः । एवमन्यत्राऽप्यूह्यम् ॥ *भाष्ये स्पष्टमिति । तत्र हि संहिताधिकारखण्डनाय "संयोगः शक्योऽवक्तुम् । परीक्षा संज्ञायाः । *कर्त्तकर्मद्वारेति । अयमर्थश्च सूत्रारम्भसामर्थ्याल्लभ्यते। कारकाधिकारात् क्रियाजनकस्याधारस्यषा संज्ञा, तत्र साक्षात् क्रियाया आधारस्ताभ्यां संज्ञाभ्यामाक्रान्त इति परम्परयाधारे सूत्रारम्भादेषा पर्यवस्यति। ___ अत्रार्थे हरिसम्मतिमाह-*उक्तञ्चेति । कतकर्मव्यवहितामित्यनेन परम्पराघटके कर्तकर्मणी इति सूचितम् ।। *औपश्लेषिकमिति । उपश्लेषः संयोगस्तत्कृतमित्यर्थः । “तत आगत' इत्यर्थे प्रत्ययः, अत्र उपेत्यविवक्षितं श्लेषमात्रे तात्पर्यम् । यत्र कटे वस्त्राथन्तरिते शेते तत्र कटे कर्तुः संयुक्तसंयोगस्य सत्त्वेऽपि तस्य संयोगाभिन्नत्वमेव । एवं 'गुरौ वसति इत्यत्र 'मासे दीयते'मसिकमित्यादौ च बोध्यम् । *वैषायिकम्*-विषयतासम्बन्धप्रयोज्यम् । *अभिव्यापकमिति । आधेयत्वनिष्ठावच्छेदकतासम्बन्धावच्छिन्नव्याप्यतानिरूपितसमवायसम्बन्धावच्छिन्नव्यापकम् । अत्र यावदवयवमादाय व्याप्यव्यापकभाव उपपादनीयः । 'कटे शेते' गुरौ वसतीत्याद्यस्य । मोक्षे-इच्छास्तीति द्वितीयस्य । तिलेविति तृतीयस्योदाहरणम् । *भाष्ये स्पष्टमिति । तत्र हि-संहिताधिकारखण्डना २३ द० प० Page #207 -------------------------------------------------------------------------- ________________ दर्पण परीक्षासहिते भूषणसारे - अवधिः पञ्चम्यर्थः । “अपादाने पञ्चमी” (पा०सू०२।३।२६) | तश्च ध्रुवमपायेऽपादानम्" ( पा०सू०२|४ | ०४ ) इति सूत्राद्, अपायो-विश्लेषस्तज्जनकक्रिया, तत्रावधिभूतमपादानमित्यर्थकादवधिभूतमिति भावः । उक्तञ्च वाक्यपदीये - १७८ दर्पण: afaari नाम त्रिप्रकारं व्यापकमौपश्लेषिकं वैषयिकमिति । इक्शब्दस्य अच्छब्देन कोsन्योऽभिसम्बन्धो भवितुमर्हत्यन्यदत उपश्लेषात् "इको यणचि” उपश्लिष्टस्येति तत्राऽन्तरेण संहिताग्रहणं संहितायामेव भविष्यति । इत्युक्तम्' अत्रोपश्लि पदाध्याहारेण सप्तमीत्यर्थे इदमेव भाष्यं मानम् । संहितायामित्युपलक्षणम् । “तत्र च दीयते कार्य्यं भववत्" इत्यादिसूत्रस्थभाष्यस्यापि । तत्राऽधिकरणत्रैविध्यप्रतिपादनादिति ॥ नैयायिकास्तु-संयोगेनाधारः समवायेनाधार इत्याद्यनुगतप्रतीतिबलादाधारत्वमखण्डोपाधिः । संयोगादिरूपं तु न तत् । कुण्डसंयोगिनो बदरादेरपि कुण्डाधारतापत्तेः । ननु बदर प्रतियोगित्व विशिष्टसंयोगानुयोगितायाः कुण्डाधारताव्यवहारनियामकत्वाऽभ्युपगमान्नोक्तदोषो, न वा कुण्डे कुण्डसंयोगाऽनुयोगितासत्त्वेऽपि कुण्डे कुण्डमिति प्रतीत्यापत्तिः । कुण्डप्रतियोगिकत्वविशिष्टसंयोगानुयोगितायास्तत्र विरहादिति चेदेवमपि मल्ले मल्लाऽन्तरसंयोगसत्त्वे उक्तानुयोगिताध्रौव्यान्मल्ले मल्ल इति व्यवहारापत्तेरशक्यवारणत्वेनोक्तप्रकारस्यैवाऽनुसर्त्तव्यत्वात् । तथाच तादृशमाधारत्वमाधेयत्वं वा सप्तम्यर्थः । कस्याधारत्व इत्याकाङ्क्षायां क्रियानिरूपितस्य तस्य बाधादुपस्थितत्वात् कर्तृकर्मणोराधार एव सेति तयोरेव तदन्वयः । 'भूतले घट' इत्यादौ न यत्र क्रियाश्रवणं तत्राऽपि कारकत्वनिर्वाहाय तदध्याहारस्यावश्यकता । ईदृशस्थले परम्परासम्बन्धस्याऽपि क्रियाऽन्वयित्वरूपकारकत्वघटकता, शास्त्रप्रामाण्यात् । अत एवाऽक्षशौण्ड इत्यादौ सामर्थ्योपपत्तिः । एवञ्च भूतले घटोऽस्तीत्यत्र भूतलवृतिर्घटो वर्त्तमानसत्ताऽऽश्रय इति बोधः । नञ्समभिव्याहारे तु तादृशसप्तम्यर्थाभाव घटांशे भासत इत्याहुः ॥ पञ्चम्यर्थं निरूपयति-*अवधिः पञ्चम्यर्थ इति । *विश्लेष इति । विभाग इत्यपरीक्षा वसरे संयोग: शक्यो वक्तुम् । अधिकरणं नाम त्रिप्रकारकं भवति । व्यापकमौपश्लेषिक वैषयिकमिति । इक् शब्दस्याच्छब्देन कोऽन्योऽभिसम्बन्धो भवितुमर्हत्यन्यदत उपश्लेषात् "इको यणचि” उपश्लिष्टस्येति तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्य ति" इत्युक्तम् । एतद्भाष्यदर्शनेन यत्र यत्र कार्यविधौ सप्तमी दृश्यते । तत्रोपश्लिष्टपदाध्याहारेण सा साध्येति बोध्यम् । अथ पञ्चम्यर्थमाह-*अवधिरिति । “अपादाने पञ्चमी” इत्यस्यापादानकार के पञ्चमी भवतीत्यर्थादपादानं पञ्चम्यर्थः । *तच्च - अपादानञ्च । *तज्जनकेति * - वि श्लेषजनकेत्यर्थः । ध्रुवपदार्थमाह-*अवधिभूतमिति । अत्र हरेः सम्मतिमाह - *उक्तञ्चेति । चलं वा यदि वाचलमित्यनेन ध्रुव Page #208 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः। १७९ आपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदविशात्तदपादानमुच्यते ॥ पततो ध्रुव एवाश्वो यस्मादश्वात् पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ॥ उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मके । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते ॥ मेषान्तरक्रियापेक्षमवधित्वं पृथक पृथक । . मेषयोः स्वक्रियापेक्षं कर्तृत्वञ्च पृथक् पृथक् ॥ इति। अस्यार्थः-अपाये विश्लेषहेतुक्रियायाम् । उदासीनम्अनाश्रयः। अतदावेशात्=तक्रियानाश्रयत्वात् । एवञ्च विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वं फलितम् । वृक्षात् पणं पततीत्यत्र पर्णस्य तद्वारणाय सत्यन्तम् । धावतोऽश्वात् पततीत्यत्राश्वस्य क्रियाश्रयत्वाद्विश्लेषत्विति । कुड्यात् पततोऽश्वात् पततीत्यत्राऽश्वस्य विश्लेषजनकक्रियाश्रयत्वेऽपि तन्न विरुद्धमित्याह-*यस्मादश्वादिति । तद्विश्लेषहेतुक्रियानाश्रयत्वे सतीति विशे दर्पणः र्थः । अवधित्वं च, प्रकृतधात्वर्थविभागजनकतक्रियाऽनाश्रयत्वे सति प्रकृतधात्वर्थजन्यविभागाश्रयत्वम् , करणादिकारकेऽतिव्याप्तिवारणाय विशेष्यम् । यत्किञ्चित् क्रियाजन्यविभागस्य तत्रापि सत्त्वादतिप्रसङ्गतादवस्थ्यमतस्तविशेषणम्-प्रकृतेति । एवञ्च वृक्षात् पततीत्यादौ विभागजनकक्रिया पतत्यर्थः । यद्वक्ष्यति-यत्र धातुना गतिनिर्दिश्यते तन्निर्दिष्टविषयमिति । अधिकं हरिपद्यव्याख्याऽवसरे ग्रन्थकृतैव स्फु. टीकरिष्यते। ___ उदासीन-विभागजनकक्रियानाश्रयः तद्वैविध्यमाचष्टे-*चलमित्यादि । चलोsश्वादिरचलो प्रामादिः ॥ *तक्रियानाश्रयत्वादिति । तद्विभागजनकतत्क्रियाऽनाविष्टत्वादित्यर्थः॥ क्रियाश्रयत्वादिति ॥ स्थाचाऽव्याप्तिरिति भावः ॥ *विशेषणीयमिति । तथाच विभागस्तत्तव्यक्तित्वेन निवेशनीय इति भावः। समाधत्ते-प्रविभक्त त्वित्यादिना* । तत्तन्मेषवृत्तित्वविशिष्टत्वेन भिन्नतयाऽवगत इत्यर्थः । *व्यवस्थिते इति । तत्तन्मेषवृत्तित्वविभागजनकक्रिये तत्तन्मेषानाश्रिते भवत एवेत्यर्थः । तदेवाऽऽह-*मेषान्तरक्रियापेक्षमित्यादि* । परस्परपदोपात्तयोरपादानत्वं, तत्तत्क्रियाश्रयत्वान्मेषपदोपात्तयोः कर्तृत्वञ्चोपपद्यत इत्यर्थः। तत्तद्वयक्तित्वेनाऽपि धात्वर्थ परीक्षा शब्दस्य निश्चलार्थकत्वं प्रकृते नास्तीति सूचितम् । तस्याः-क्रियायाः, आवेशस्तदावेशः, तत्क्रियाश्रयत्वं तदभावादित्यर्थः। फलितार्थमाह-*एवञ्चेति । करणादिकारकेऽतिप्रसङ्गवारणाय विशेष्यदलम् । अत्र करणस्य यत्किञ्चित् क्रियाजन्यविश्लेषाश्रयत्वादतिप्रसङ्गतादवस्थ्यमतो विश्लेषे प्रकृतधात्वर्थक्रियाजन्यत्वं विशेषणं देयम् । Page #209 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारै १८० षणीयमिति भावः । एवमश्वनिष्ठक्रियानाश्रयत्वात् कुड्यादेरपि ध्रुवत्वमित्याह -* तस्यापीति । उभयकर्मजविभागस्थले विभागस्यैक्यात् तद्विश्लेषजनकक्रियानाश्रयत्वाभावात् परस्परस्मान्मेषावपसरत इति न स्यादित्याशङ्कय समाधत्ते-उभावपीति । *मेषान्तरेति । यथा निश्चलमेषादपस द्वितीयमेषस्थले निश्चलमेषस्यापसरन्मेषक्रियामादाय ध्रुवत्वम् I तथापि विभागक्येऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति । तथा च विश्लेषाश्रयत्वे सति तज्जनकतत्क्रियानाश्रयत्वं तक्रियायामपादानत्वं वाच्यम् । क्रिया चात्र धात्वर्थो न तु स्पन्दः । तेन वृक्षकर्म्मजविभागवति वस्त्रे, वृक्षाद् वस्त्रं पततीति सङ्गच्छते । दर्पण: क्रियाविशेषणीयेत्याह - *क्रिया चेति । धात्वर्थ इति । प्रकृतधात्वर्थ इत्यर्थः । *न तु स्पन्दमात्रमिति । यथाकथञ्चित्प्रतीयमानक्रियापीत्यर्थः । वृक्षकर्मजविभागaft वस्त्रे इत्युक्त्या वस्त्रद्वारकसम्बन्धेन क्रियान्वयित्वं वृक्षस्य सूच्यते । क्रियाजनकत्वं कारकत्वमिति मते तु तत्र वृक्षस्याऽपादानत्वं दुरुपपादमेव ॥ सङ्गच्छत इति । तादृशवृक्षनिष्ठक्रियायाः प्रकृतपतधात्वर्थत्वाऽभावेन तद्वति वृक्षे नाव्याप्तिरिति भावः । अत्र वदन्ति - पञ्चम्या आश्रय इव विभागोऽप्यर्थोऽविभागार्थकपतत्यादिसमभिव्याहारे करणतृतीयाया व्यापारवद् अनेकधातूनां विभागे शक्तिकल्पनाsपेक्षया एकस्या पञ्चम्यास्तत्र शक्तिकल्पनायां लाघवात् । विभागस्य धात्वर्थत्वे द्वितीयादिस्थले इव विभागस्य धातुना लाभादाश्रयमात्रं पञ्चम्यर्थ इत्येव ब्रूयात् । अवधेराश्रयात् पृथगुपादानवैयर्थ्यात् । त्यजिपत्त्योः पर्यायतापत्तेश्च । प्रकृतेऽधोदेशसंयोगाऽनुकूलक्रियैव पतत्यर्थः । अधोदेशश्च संयोगांऽशे उपलक्षणम् । गम्युपात्तसंयोगफल उत्तरदेशवत् विभागाऽधीनपूर्व देशसंयोगनाशमन्तरेण क्रियायाः संयोगजनकत्वाऽसम्भपरीक्षा 'वृक्षात्पर्ण पतति' इत्यत्र क्रियाजन्यविभागः पतत्यर्थः, तद्विश्लेषेत्यत्र तत्पदं विश्लेषस्य विशेषणम् । विश्लेषे हेतुपददानेऽप्युभयनिष्ठक्रियायां प्रविभाग एक एव । तत्र तद्विश्लेषहेतु क्रियानाश्रयत्वविरहादव्याप्तिवारणाय क्रियायामपि तत्पदं देयमित्याशयेनाह - *उभयेत्यादि । *तज्जनकक्रियेति । तज्जनकात् क्रियेत्यर्थः । क्रियायां प्रकृतधात्वर्थत्वमपि विशेषणं देयमित्याशयपरम्परया नोपपद्यते । पत्-धात्वर्थविश्लेजनक क्रियां प्रति अजनकत्वादित्यस्य प्रसङ्गः ; क्रियावाचकत्वं कारकत्वमिति मतेन । यत्तु सिद्धान्तरीत्या क्रियाजनकत्वं कारकत्वमिति मतम् ; तदा वृक्षस्य वस्त्रं पततीत्येव । अत्रेदमवधेयम् - वृक्षमजहत्यपि पर्णे शाखाया न्युब्जत्वेन यत्र - भूमिपर्णसंयोगस्तत्र वृक्षस्य पर्णे भूमि पततीति प्रयोग इष्यते - इत्यतः पत- धात्वर्थोऽधःसंयोगानुकूलक्रियामात्रम् ; न तु पत्धात्वर्थे विभागस्य प्रवेशः । तस्य प्रतीतिस्तु पञ्चम्याविभागे - आश्रये च शक्तिकल्पनयोपपाद्या । अत एव त्यजिपतत्योः पर्य्यायित्वं न । Page #210 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । . १८१ दर्पणः वात् । तस्याऽविभागजनकत्वमक्षुण्णमेव । समानप्रत्ययोपात्तत्वप्रत्यासत्त्या व्युत्पत्तिवैचित्र्येणाश्रयरूपपञ्चम्यर्थस्य विभागरूपाऽपरपदार्थे आधेयतयाऽन्वयस्तस्य चाऽनुकूलतासम्बन्धेन पतत्यर्थक्रियायाम् । एवञ्च विभागस्य धात्वर्थत्वाभावान्न कर्मताप्रसङ्गन्लेशोऽपि। यद्वा अवधिरित्यनुगतव्यवहारादवधित्वमाश्रयत्वव्याप्यमक्षुण्णोपाधिस्तदवच्छिन्न एव पञ्चम्यर्थः। एवञ्चावधेराश्रयात् पृथगुपादानम् , तस्य च स्वनिष्ठाऽवधित्वनिरूपकविभागजनकत्वसम्बन्धेन क्रियायामन्वयः । एवञ्च पूर्वकल्पे वृक्षात् पर्ण पततीत्यत्र वृक्षाऽभिन्नाश्रयकविभागजनकपर्णाऽऽश्रयकः संयोगानुकूलव्यापार इति बोधः। द्वितीये तु वृक्षाभिन्नाऽवधिविशिष्टा ताहा क्रियेति विभागजन्यसंयोगो विभागजनकक्रिया वा न पतत्यर्थः । पत्ल गतावित्यनुशासनादू गतिशब्दस्य, गम्लगतावित्यादौ संयोगानुकूलव्यापार एव प्रसिद्धेः । त्यजत्यर्थे गतिव्यवहाराभावाच्च । फलाऽवच्छिन्नव्यापारे व्यापारावच्छिन्नफले वा धातोः शक्तिमङ्गीकुर्वतः स्वोक्तफलत्वानाक्रान्तविभागस्य धात्वर्थव्यापारावच्छेदकत्वासम्भवाच्च । ___ पततेः संयोगरूपफलाऽर्थकत्वे ग्रामं गच्छतीतिवत् ग्राम पततीत्यापत्तिरिति तु न । शब्दशक्तिस्वाभाव्येन तदुपस्थितसंयोगस्याऽधोदेश एवान्वयात् । ग्रामस्य तत्त्वे तु विहगो ग्रामं पततीति त्विष्टमेव । अत एव नरकं पतित इति विग्रहे "द्वितीयाश्रित" इति द्वितीयासमासविधानं सङ्गच्छते। न च वृक्षमजहत्यपि पर्णे भूमि स्पृशति वृक्षात् पर्ण पततीत्यापत्तिः। तदुपस्थाप्यक्रियाजन्यदेशाऽन्तरविभागे वृक्षावधित्वानुपगमात् । अन्यथा क्रियाजन्यसंयोगमात्रस्यैव विभागजन्यत्वेन भूमिपर्णसंयोगस्यापि तथात्वाद् त्वन्मतेऽपि तादृशप्रयोगस्य दुर्वारतापत्तेः । अत एव गतिविना त्ववधिना नाऽपाय इति कथ्यते । वृक्षस्य पर्ण पततीत्येव भाष्ये निदर्शितम् ॥ इत्यवध्यन्वययोग्यविभागाऽनुकूलत्वं विना संयोगजनिका क्रिया नाऽपायः । अत एव पर्णविशेषणतया वृक्षविवक्षायामपायस्याविवक्षणाद् वृक्षस्य पर्ण पततीत्यत्र भाष्ये षष्ठयुक्तेत्येतदर्थक हरिणोक्तम् । विभागजन्यसंयोगस्य पूर्वापरीभूतानवयवकत्वेन च व्यापारत्वाभावेन विभागस्य तदुक्तफललक्षणानाक्रान्तत्वेन तदुभयार्थकस्य पततेर्धातुत्वानापत्तेश्च ।। ___ यत्र च 'वृक्षादपसरति' इत्यादौ विभाग एव धात्वर्थस्तत्राश्रयोऽवधिमात्रं वा पञ्चम्यर्थः। तस्याधेयतया स्वनिष्ठाऽवधित्वनिरूपकत्वेन वा यथायथं विभागेऽन्वयः । परीक्षा नचाधोदेशस्य पतधात्वर्थकुक्षौ प्रवेशे जीवत्यादिवद्धात्वर्थसंगृहीतकर्मकत्वेनाकर्मकत्वापत्तौ 'भूमिं पतति विहगः' इति प्रयोगानुपपत्तिरिति वाच्यम् । आधोदेशस्योपलक्षणत्वस्वीकारात् । गम्धात्वर्थः-उत्तरदेशसंयोगानुकूलो व्यापार इत्यत्रोत्तरदेशस्येव । नचाश्रयरूपप्रत्ययाथें प्रकृत्यर्थस्याभेदेनान्वयेऽपि तस्य विभागरूपापरार्थे कथमन्वयः, एकशब्दोपात्तत्वादिति वाच्यम् ? परेषां कृतीष्टसाधनत्वयोरिवैकशब्दोपातयोरपि व्युत्पत्तिवैचित्र्येणान्वयः । Page #211 -------------------------------------------------------------------------- ________________ १८२ दर्पणपरीक्षासहिते भूषणसारे वस्तुतो नैतावत् पञ्चम्या वाच्यम् । किन्तु अवधेर्लक्षणमात्रम् । द्वितीयार्थोक्तरीत्या प्रयोगातिप्रसङ्गस्यासम्भवेन वाच्यकोटौ प्रवेशस्य गौरवेणाऽसम्भवादिति तु प्रतिभाति । न चैवमपि 'वृक्षात् स्पन्दत' इति स्यादिति शङ्कयम् । आसनाच्चलितो, राज्याच्चलित इतिवद् इष्टत्वात् । एतेन पञ्चमीजन्यापादानत्वबोधे सकर्मकधातु दर्पणः 'परस्परस्मान्मेषावपसरत' इत्यादौ तु मेषपदवाच्यत्वावच्छेदेनैव कर्तृत्वविवक्षा, न परस्परवाच्यत्वावच्छेदेनेति, न पञ्चम्यनुपपत्तिरिति । __उक्ताऽपादानत्वस्य पञ्चमीवाच्यतावच्छेदकत्वे गौरवं मनस्याधायाह-*वस्तुत इति । *लक्षणमात्रमिति ॥ मात्रपदेन शक्यताऽवच्छेदकत्वव्यवच्छेदः। तथाच व्यावृत्यादिफलकं निरुक्ताऽवधित्वमेव । पञ्चम्यर्थस्तु विभामाश्रयमात्रमेवेति भावः । *द्वितीयार्थोक्तरीत्येति । चैत्रो ग्राम गच्छतीतिवच्चैत्रः स्वं गच्छतीति वारणाय परया कर्त्तसंज्ञया बाधादित्युक्तरीत्येत्यर्थः । नन्वेवं 'वृक्षात् पर्ण पतति' इत्यत्र पणेऽपि विभागाश्रयत्वस्यावैकल्यात् तदुत्तरं पञ्चम्यापत्तिरत आह-*अतिप्रसङ्गस्येति* । स्पन्द्यर्थप्रस्रवणजन्यविभागाश्रयत्वस्य वृक्षे सत्त्वादतिप्रसङ्गमाशय निषेधति*नचेति । एवमिति* । विभागाश्रयत्वमात्रस्याऽपादानसंज्ञानियामकत्वे इत्यर्थः । __ *स्यादिति । प्रस्रवणस्याऽधोदेशसंयोगाऽनुकूलद्रवद्रव्यक्रियारूपतया विभागस्य धात्वर्थाऽभावेन परमते आपत्त्यसम्भवादित्याशयः । *इष्टत्वादिति* । चलत्यर्थ परीक्षा पञ्चम्यर्थविभागस्य तु जनकतासम्बन्धेन धात्वर्थक्रियायामन्वय इति लाघवादाह-वस्तुत इति*। *अवधेर्लक्षणमात्रमिति* । किन्त्ववधिः पञ्चम्यर्थ इति शेषः । अत एवाश्रयोऽवधिरित्यत्र पृथगुपादानं संगच्छते । अवधित्वमखण्डोपाधिरनुगतव्यव. हारात्। अवधौ प्रकृत्यर्थस्याभेदेन, अवधेश्च स्वनिष्ठावधितानिरूपकत्वसम्बन्धेन क्रियायामन्वयः, यत्र तु ग्रामस्यैवाधोदेशत्वं तत्र तु 'ग्रामं पतति पतङ्गः' इतीष्टमेव । अत एव 'नरकं पतित' इति विग्रहे 'नरकं पतित' इति समासो "द्वितीयाश्रित" इति सूत्रेण भवति । यत्र तु 'वृक्षादपसरति' इति प्रयोगस्तत्र विभागाश्रयत्वमानं धात्वर्थः, पञ्चम्यर्थस्तत्रावधिमात्रम् । तस्योक्तसम्बन्धेन विभागेऽन्वयः। न च 'परस्परान्मेषावपसरत' इति प्रयोगानुपपत्तिः। मेषस्य क्रियाश्रयत्वेन कर्त्तसंज्ञया अपादानसंज्ञाबाधा. दिति वाच्यम् । शब्दरूपोपाधिभेदेनाश्रयस्य भेदकल्पनया परस्परशब्दोपात्तस्य कर्त्तत्वाप्रसक्तः। ननु आश्रयोऽवधिविभागाश्रयादिपञ्चम्यर्थस्तदा विभागाश्रयत्वस्य पर्णेऽपि सत्त्वाद् वृक्षात्पतति पर्ण इतिवत्पर्णात्पतति पर्ण, इति प्रयोगापत्तिरिति चेत् ? आश्रयमानं नावधिः, किन्तु-आश्रयत्वव्याप्यो धर्मविशेष एवावधित्वेन विवक्षित इति पर्णात्पर्णः पततीति न प्रयोग इति विभाव्यताम् । प्रकारान्तरेणाप्युक्तप्रयोगापत्तिं वारयति--द्वितीयाक्तिति । परया कर्तृसंज्ञया बाधान्न तादृशप्रयोगापत्तिरिति भावः। एवम्-विभागाश्रयत्वस्यापादानसंज्ञानियामकत्वे । अयमतिप्रसङ्गो द्वितीयपने-अर्थः । मम पक्षे तु न तत्र विभागस्य धात्वर्थत्वमेव, पञ्चमीस्वी. कारात् । *इष्टत्वादिति । चलधातोविभागजनकक्रियार्थत्वमुफ्यम्यासनादेरवधित्वा Page #212 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । जन्योपस्थितेर्हेतुत्वमिति समाधानाभासोऽप्यपास्तः । नचैवमपि 'वृक्षात् त्यजति' इतिदुर्वारम् । कर्मसंज्ञया अपादानसंज्ञाया बाधेन पञ्चम्यसम्भवात् । भ्रमात् कृते तथा प्रयोगे यदि बोधाभावोऽनुभवसिद्ध:, तर्हि पञ्चमीजन्यापादानत्वबोधे त्यज्यादि. भिन्नधातुजन्य बुद्धेर्हेतुत्वं वाच्यम् । 'बलाहकाद् विद्योतत विद्युत् ' इत्यादौ निःसृत्येत्यध्याहार्य्यम् । रूपं रसात् पृथगित्यत्र तु बुद्धिपरिक दर्पणः क्रियाजन्य विभागाश्रयत्वस्यैवेतदर्थक्रियाजन्यविभागाश्रयत्वस्यापि पञ्चमीनियामक - वे क्षतिविरहादित्यर्थः । चलतेर्गत्यर्थकत्वेऽपि राज्याच्चलित इति प्रयोगे विभागानुकूल क्रियापरत्ववत् स्यन्देरपि तदर्थत्वमुपगम्यापत्तेरिष्टत्वमिति भावः । जलमन्त्र क वृक्षस्यैव कर्तृत्वविवक्षायां तु परया कर्तृसंज्ञया बाधेनोक्तापत्तेरसम्भवादिति भावः । C १८३ *नचैवमपीति । एवमपि धात्वर्थविभागाऽऽश्रयत्वस्याऽपादानसंज्ञानियामकत्वेऽपीत्यर्थः । *दुर्वारमिति । धात्वर्थक्रियाजन्यविभागाऽऽश्रयत्वादिति भावः । *कर्मसंज्ञयेति । वृक्षस्य त्यजत्यर्थव्यापारजन्यविभागाश्रयत्वादिति भावः । पूर्वमतिप्रसङ्गः कर्तृसंज्ञामादायैवोक्तः । इदानीं तु कर्मसंज्ञामादाय प्राप्तः स निवारित इति बोध्यम् । *अनुभवसिद्ध इति । वस्तुतो विभागाsaधित्वस्य वृक्षेऽबाधात्तज्जन्यबोधस्य प्रमात्वमिष्टमेव । विभागाश्रयस्यैवाऽवधित्वोक्तेः । त्यजतेः पतत्यर्थे लक्षणाग्रहदशायां, वृक्षात् पर्णं त्यजतीति प्रयोगस्य प्रामाणिकत्वेन कारणतावच्छेदककोटौ त्यज्यादिभिन्नत्वस्य धात्वंशे निवेशयितुमशक्यत्वादित्यभिप्रेत्योक्तम्-*यदीति । *बलाहकादिति । धूममरुज्ज्योतिस्समूहो बलाहकः । ततोऽवयवभूतज्योतिषामेव विभागविवक्षणात् सोऽवधिः । युतिश्व लक्षणया निःसरणपूर्वकविद्योतनबोधकः । तथाच बलाहकाऽवधिकनिःसरणोत्तरका लिकं विद्युत्कक विद्यातनमिति बोधः । *निस्सृत्येति । निःसरणपूर्वके विद्योतने धातोवृत्तिमुपगम्य पञ्चम्युपपाद्येत्यर्थः । अत एवोपात्तविषयेऽस्याऽन्तर्भावो वक्ष्यमाणः सङ्गच्छते । *बुद्धिपरिकल्पितमिति । बौद्धविभागाऽवधित्वमाश्रित्येत्यर्थः । तादृशापादा परीक्षा द्यथाssसनाच्चलित इत्यादिप्रयोगस्तथा 'स्पदि किञ्चिच्चलन' इत्यभियुक्तोक्तेः । रूपन्देरपि तदर्थकत्वमुपगम्योक्तप्रयोगस्येष्टत्वादित्यर्थः । । विभागजनकव्यापारार्थकधातुयोगे चेत्पञ्चमी ; तदा वृक्षात्पततीति प्रयोगस्थापत्तिरिति शङ्कां वारयति - नचैवमिति । यदि बोधेति । वृक्षावधिकत्वस्य विभागे सत्वात् तादृशबोधस्य प्रमाणत्वमिष्टमेव । किञ्च त्यज्धातोर्यदा पतधात्वर्थशक्तिः, तत्र भ्रमोः लक्षणाग्रहो वा, तदा वृक्षात् त्यजतीत्यस्मात्तादृशशाब्दबोधस्य सर्वजनसिद्धृतया तादृशबोधाभावो नेत्याशयेन – यदीत्युक्तम् । विश्लेषजनकव्यापारवाचकधातुप्रयोगाभावे यत्र पञ्चमी दृश्यते, तत्रोपपत्तिमाह-*बलाहकादिति । निःसरणपूर्वकं द्योतनं द्युतधात्वर्थः । *रसात्पृथगिति । अत्र बौद्धसंश्लेषपूर्वको बौद्धो यो विश्लेषस्तदनुकूलव्यापारो रूपाश्रयको बौद्धः कल्पनीय इति भवत्येतादृशस्थले Page #213 -------------------------------------------------------------------------- ________________ १८४ दर्पणपरीक्षासहिते भूषणसारेल्पितमपादानत्वं द्रष्टव्यम् । “पृथग्विना” इति पञ्चमी वा । इदञ्च निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा । अपेक्षितक्रियञ्चेति त्रिधाऽपादानमुच्यते ॥ इति वाक्यपदीयात् त्रिविधम् । यत्र साक्षाद्धातुना गतिनिदिश्यते; तन्निर्दिष्टविषयम् । यथाऽश्वात् पतति । यत्र धात्वन्तरा ऑङ्गं स्वार्थ धातुराह तदुपात्तविषयम् । यथा बलाहलाद् विद्योतते । निःसरणाने विद्योतने द्युतिर्वर्त्तते । अपेक्षिता क्रिया यत्र तदन्त्यम् । यथा कुतो भवान् , पाटलिपुत्रात् । अत्रागमनमर्थमध्याहत्यान्वयः कार्यः। दर्पणः नत्वाश्रयणे प्रमाणशैथिल्यं मत्वाऽऽह-*पृथगिति* । *साक्षादिति । मुख्यवृत्त्येत्यर्थः । धातुनेत्यस्य समभिव्याहृतेत्यादिः । *गतिरिति । विभागजनकक्रियेत्यर्थः । *उपात्तविषयमिति । समभिव्याहृतधातुनोपात्तोऽलक्षितो गतिरूपो यत्रेत्यर्थः । *अपेक्षितक्रियमिति । अनुपात्तधात्वर्थक्रियासाकाङ्क्षमित्यर्थः। ___ *अध्याहृत्येति । अर्थाध्याहाराभिप्रायेण । पदाध्याहारवादे तु आकाशितक्रियावाचकपदाऽनुसन्धानेऽप्यनुपात्तत्वरूपविशेषणघटितलक्षणस्यावैकल्यं बोध्यम् । प्रमाणं तत्र 'पुष्पेभ्यः स्पृहयति' इत्यादौ स्पृहयत्यादियोगे सम्प्रदानादिसज्ञाविधायकानि, "स्पृहेरीप्सितः" ( पा० सू०१ । ४ । ३६ ) इत्यादिसूत्राणि। तैस्तत्तद्धातुयोग एव तदूबोधनात् । अर्थाध्याहारे तु "क्रियार्थोपपदस्य" इत्यादिसूत्रे "ल्यब्लोप" इत्यादिवात्तिकानि च। अन्ये त्विदमित्थं व्याचक्षते-यत्र विभागस्तज्जनकक्रिया चोभयं धातुनाऽभिधीयते तदाद्यम् । यत्र विभागोऽध्याहृतधातुना तथा तद्वितीयम् । यत्र तूभयमप्यध्याहृतधात्वभिधेयं तत्तृतीयमिति । अधिकमन्यतोऽवधाय॑म् । परीक्षा पञ्चमी । बौद्धविश्लेषाकल्पनेऽपि पञ्चम्युपपत्तिमाह-*पृथग्विनेतीति । ___*इदञ्च*-अपादानञ्च । निर्दिष्टः*-शब्दाबोधितो। विषयो*, निरूपकार्थो यस्य सः। *उपात्तः* सममिव्याहृतधातुलक्ष्यो, *विषयो यस्य सः। *अपेक्षितक्रियमिति । अनुपात्तधात्वर्थक्रियासाकाङ्क्षमित्यर्थः । *अचात्पततीति । अत्र गतिविश्लेषजनिकाक्रिया साक्षाच्छक्त्या पत्-धातुना प्रतिपाद्यतेऽतो निर्दिष्टविषयस्यैतदुदाहरणम् । धात्वन्तरस्यार्थोऽङ्ग विशेषणं यस्य तादृशं स्वार्थ यत्र धातुराह-*तदुपात्तविषयम् । *बलाहका विद्योतत इति । अत्र निःसरणरूपो यः सधात्वर्थस्सोऽङ्गभूतो यस्य एतादृशो यो विद्योतनरूपोऽर्थस्तं विपूर्वको द्युत्-धातुः प्रतिपादयति, स्वाव्यवहितोत्तरत्वसम्बन्धेन निःसरणविशिष्टे विद्योतने द्युतिर्वर्त्तते । *कुतो भवानिति । अत्र कुत इति पञ्चमी दृश्यते । सा च क्रिया विशेषज्ञानं विना निराकांक्षार्थप्रतिपादिका । नेत्यपेक्षितक्रियमित्युच्यते। अर्थाध्याहारावादाभिप्रायेणेदम् । पदाध्याहारवादे तु साकांक्षक्रियावाचकानुपात्तपदकमिति बोध्यम् । "क्रयार्थोपपदस्य” इति सूत्रद Page #214 -------------------------------------------------------------------------- ________________ सुबर्थनिणयः। १८५ उद्देश्यश्चतुर्थ्यर्थः । तथाहि-सम्प्रदाने चतुर्थी । तश्च “कर्मणा यमभिप्रेति स सम्प्रदानम्” (पासू०१।४।३२) इति सूत्रात् कर्मणाकरणभूतेन यमभिप्रैति-ईप्सति तत् कारकं सम्प्रदानमित्यर्थकादुद्देश्यम् । . दर्पणः चतुर्थ्यर्थं निरूपयति-*उद्देश्य इति । ननू द्देश्यत्वं कामनाविषयत्वं, तच्च 'विप्राय गां ददाति' इत्यत्र क्रियाजन्यफलभागितया कामनाविषये गवादावतिप्रसक्तमतस्तद्वयावृत्तम् , तत्सूत्रप्रामाण्येन दर्शयति-*तच्च कर्मणेत्यादि । कर्मणेत्यनन्तरम् , सम्बन्धुमिति शेषः । कर्म चाऽत्र पारिभाषिकम् । “कर्मणा यमभिप्रैति" (पा० सू०१ । ४ । ३२ ) इति क्रियाव्याप्यमानस्य सम्प्रदानसज्ञाविधानात् । अत एव तदकर्मकविषयम् । ननु 'प्रामं गच्छति' इत्यत्र ग्रामरूपकर्मजन्यसुखादिफलभागितयोद्देश्ये कर्तर्यप्यतिप्रसङ्गोऽत आह-*करणभूतेनेति । करणत्वं च सम्बन्धक्रियाऽपेक्षम् । क्रियाव्यवहितव्यापारवत एव करणतया व्यापारे कर्मवृत्तित्वलाभेन तवृत्तित्वस्य धात्वर्थतावच्छेदकफल एव सम्भवात् । कर्मवृत्तितज्जन्यत्वस्य ग्रामजन्यसुखे असत्त्वानोक्तातिप्रसङ्ग इति भावः । यमित्यस्यानुपादाने योऽभिप्रेतीत्यर्थस्थापि लाभात् प्रथमान्तकतर्यतिप्रसङ्गः स्यादतस्तदुपात्तम् । . यद्यपि 'गौर्ब्राह्मणस्य भवतु' इतीच्छाविशेष्यतया गामेवाऽवगाहते; तथापि तस्य सूत्रफलितार्थपरत्वान्न दोषः। तथाच-कर्मजन्यतवृत्तिफलभागित्वप्रकारको यद्वि . परीक्षा र्शनादर्थाध्याहा: "स्पृहेरीप्सित”सूत्रसत्वात्पदाध्याहारश्च क्लुप्तलक्ष्यानुरोधेन व्यवस्था कार्यो । चतुर्थीवाच्यो य उद्देश्यः स एव दर्शयस्तमाह-*तच्चेति । *यमभिप्रैति*-यमभिसम्बन्धुमिच्छति । एवं च क्रियाकर्मसम्बन्धजन्यफलवत्वेनेच्छाविविषयो यः स एवोद्देश्यपदेनोच्यते ; नत्विच्छाविषयमात्रम् । इच्छाविषयत्वस्य कर्मण्यपि सत्वात् । न च 'यः पुरुषो ग्रामं गच्छति, तस्य ग्रामसम्बन्धजन्यं सुखं मे जायताम्' इत्याकारेच्छावर्त्तत इति कर्तुरपि तादृशोद्देश्यत्वसत्त्वादतिव्यातिरिति वाच्यम् ? "कर्मणा" इति तृतीयोपादानेन कर्मणः करणत्वं लभ्यते, तत्र करणत्वमभिसम्बन्धक्रियां प्रति बोध्यम् । करणस्य च व्यापारत्त्वनियमादनुपस्थितस्य व्यापारस्य कल्पनापेक्षया कर्मत्वप्रयोजकफलस्य व्यापारत्वकल्पनालाघवमिति “धात्वर्थफलद्वारं कर्मजन्यत्वं लभ्यते, यथा-'विप्राय गां ददाति' इत्यत्र दाधात्वर्थः स्वस्वध्वंसविशिष्टपरसत्त्वानुकूलो व्यापारस्तत्र फले स्वस्वध्वंसविशिष्टपरस्वत्वं तदुद्वारा कर्मजन्यत्वं विप्रवृत्तिसुखस्य 'ग्रामं गच्छति' इत्यादौ तु न गम्धात्वर्थस्य संयोगस्य कर्त्तवृत्तिसुखं प्रति जनकत्वम् । अन्यथा सिद्धत्वात् । किन्तु ग्रामवासादेरित्यतिप्रसङ्गाभावात् । 'विप्राय गां ददाति' इत्यत्रोद्देश्यश्चतुर्थ्यर्थः । स्वस्वध्वंसविशिष्टेच्छा दाधा. त्वर्थः, गोपदोत्तरद्वितीयार्थः-आश्रयस्तस्य स्वस्वध्वंसविशिष्टे स्वत्वेऽन्वयः, इच्छैच व्यापारस्तस्मात् फलवैशिष्टयामनुकूलतासम्बन्धेनेति विप्रोद्देश्यिका गोवृत्तिस्वस्वध्वंसविशिष्टस्वत्वेच्छेति बोधः। २४ द० प० Page #215 -------------------------------------------------------------------------- ________________ १८६ दर्पण परीक्षासहिते भूषणासरे दर्पण: शेष्यकोऽभिप्रायः स सम्प्रदानमिति सूत्राऽर्थः । तादृशफलसम्बन्धिकप्रकारतानिरूपितविशेष्यताश्रय इति यावत् । 'विप्राय गां ददाति' इत्यादौ परस्वत्वजनकस्वस्वत्वध्वंसावच्छिन्नेच्छात्मकत्यागो दाधात्वर्थः । उद्देश्यत्वं चतुर्थ्यर्थः । गोरूपकर्मणश्चाऽऽश्रयत्वेन स्वत्वरूपफलेऽन्वयः । तथाच गोवृत्तिस्वत्वजनकस्वस्वत्वध्वं साऽनुकूलो विप्राऽभिन्नोद्देश्यकत्याग इति वैयाकरणमते बोधः । उद्देश्यत्वं च विप्रे गोजन्यस्वत्वभागितयेच्छाविषयत्वमेव । एवं 'वृक्षायोदकमा सिञ्चति' इत्यत्राप्युदकनिष्ठक्रियाजन्यसंयोगफलभागितयेच्छाविषयत्वात् सम्प्रदानत्वमूह्यम् । नैयायिकास्तु - परस्वत्वेच्छाधीनस्वसत्वध्वं सेच्छा त्याग इति मते स्वस्वत्वध्वंसावच्छिन्नत्यागो ददात्यर्थः । विशेष्यत्वं चतुर्थ्यर्थ्यः । तस्य स्वनिरूपकनिरुक्तेच्छाजन्यत्वसम्बन्धेन ददात्यर्थत्यागे गोरूपकर्मणस्त्वाधेयतया स्वस्वत्वध्वंसरूपफले । तथाच गोवृत्तिस्वस्वत्वध्वंसजनको निरुक्तसम्बन्धेन विप्रनिष्ठविशेष्यता विशिष्टो यस्त्यागस्तदाश्रयश्चैत्र इति वाक्याद् बोधः । यदि तु 'गौर्विप्रस्य भवतु न मम' इती च्छैव त्यागः । स च गवि स्वस्वत्वध्वंसमिव परस्वत्वमप्यवगाहते; तदा स्वस्वत्वध्वंसपूर्वक परस्वत्वोत्पत्यवच्छिन्नत्यागो दाधात्वर्थः । एवञ्च उक्तस्थले निरूपितत्वेने - च्छाविषयत्वं चतुर्थ्यर्थः । तस्य च स्वस्वत्वध्वंसेऽन्वयाद् विप्रनिरूपितत्वेन इच्छाविषयगोवृत्तिस्वस्वत्वध्वंस पूर्व कपरस्वत्वोत्पत्यवच्छिन्नत्यागाऽऽश्रय इति बोधः । जन्यस्वत्वस्य गोवृत्तित्वेऽवगतेऽर्थात्तस्मिस्तज्जन्यत्वं लभ्यते एवेति गोजन्यस्वत्वनिरूपकत्वेने च्छाविषयत्वरूपमुद्देश्यत्वं विप्रस्याऽक्षतम् । 'वृक्षायोदकमा सिञ्नति' इत्यत्र तु संयोगावच्छिन्नद्रवद्रव्यक्रियाऽवच्छिन्नव्यापारो धात्वर्थः । वृत्तित्वेने च्छाविषयत्वं चतुर्थ्यर्थः । स च धात्वर्थतावच्छेदकसंयोगाऽन्वयी । द्वितीयार्थवृत्तित्वं तु द्रवद्रव्य क्रियान्वयि । तथाच वृक्षवृत्तित्वे नेच्छाविषयो यः संयोगस्तदवच्छिन्नायोदकवृत्तिर्द्रवद्रव्यक्रिया तदवच्छिन्नव्यापारानुकूलकृतिमानितिबोधः । न चैवं सिच्धात्वर्थतावच्छेदकद्रवद्रव्यक्रियायां द्वितीयार्थवृत्तित्वान्वये पयसा वृक्षं सिञ्चति' इति न स्यात्, तादृशक्रियाया वृक्षावृत्तित्वादिति वाच्यम् । तत्र संयोगावच्छिन्नद्रवद्रव्य कियाया एव धात्वर्थतया तदवच्छेदकीभूतसंयोग एव वृक्षवृत्तित्वाऽन्वयान्नाऽनुपपत्तिरित्याहुः । अपरे तु - विजातीयत्यागजन्यफलभागितयोद्देश्यत्वं सम्प्रदानत्वं चतुर्थ्यर्थः । एवञ्च 'विप्राय गां ददाति' इत्यादौ त्यागजन्यफलभागित्वप्रकारक ब्राह्मणवृत्त्युद्देश्यताकगोविषयकत्यागाश्रय इति बोधः । रुद्राय गां ददातीत्यत्र रुद्रस्य त्यागजन्यफलभागितयोद्देश्यत्वमस्त्येव । स्वत्वं तु तस्य जायते न वेत्यन्यत् । त्यागजन्यं फलं तु स्वत्वरूपे ग्राह्यम् । तेन पितृस्वर्गमुद्दिश्य दत्तायां गवि ब्राह्मणस्य सम्प्रदानत्वोपपत्तिः । पितुः स्वत्वरूपं फलं नोद्देश्यं, किन्तु स्वर्ग: । 'पितृभ्यो दद्यात्' इत्यादौ तु 'रुद्राय गां ददाति इतिवत् सम्प्रदानत्वमस्त्येव । त्यागे वैजात्यनिवेशाच्च न कर्तुः सम्प्रदानत्वम् । 'वृक्षायोदकमा सिञ्चति' इत्यादौ तु चतुर्थ्यर्थं गौणसम्प्रदानत्वम् । तत्र सिचेद्रवद्रव्यवृत्तिसंयोगाऽनुकूला क्रिया । उदकादिपदसमभिव्याहारे च संयोगाऽनुकूलक्रियामात्रमर्थः । चतुर्थ्यर्थस्तु वृत्तित्वम् । Page #216 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । १८७ इदमेव शेषित्वम् । तदुद्देश्यकेच्छाविषयत्वं चं शेषित्वमित्येव पूर्वतन्त्र निरूपितम् । अत एव "प्रासनवन्मत्रावरुणाय दण्डप्रदानम्" (अ०४पा०अ०६) इत्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रय दर्पणः इत्थञ्च वृक्षवृत्त्युदकीयसंयोगाऽवच्छिन्नक्रियेत्यादिबोधः । ___ अत्र चतुर्थीद्वितीयाभ्यां तुल्यबोधजननात्तत्र द्वितीया माभूदिति सम्प्रदानसज्ञाऽनुशिष्यते । 'वृक्षं पयसा सिञ्चति' इत्यादौ तु वृक्षशब्दात् द्वितीया भवत्येव । तत्र तृतीयाऽर्थोऽभेदस्तस्य द्रवद्रव्येऽन्वयः। द्वितीयार्थवृत्तित्वस्य तु संयोगेऽन्वयः। तथा च-वृक्षवृत्तिसंयोगाऽनुकूलोदकाभिन्नद्रवद्रव्यक्रियेति बोधः। 'शत्रवेऽस्त्रं मुञ्चति' इत्यत्र दुःखोद्देश्यकत्वं चतुर्थ्यर्थः । मोचन विभागावच्छिन्नक्रिया, क्रियानुकूलव्यापारो वा प्रकृत्यर्थस्य वृत्तित्वेन चतुर्थ्यर्थकदेशे दुःखेऽन्वयः। एवं 'मित्राय दूतं प्रेषयति' इत्यत्र वार्तादानोद्देश्यकत्वम् 'पुत्राय धनं प्रेषयति' इत्यत्र प्रीत्युद्देश्यकत्वं चतुर्थ्यर्थ इत्याद्यूह्यमित्याहुः। . तन्न सम्यक् । सम्प्रदाने हि चतुर्थी। न च भवदुक्तसम्प्रदानत्वे किञ्चिन्मानं, येन वृक्षायेत्यत्र चतुर्थी स्यात् । किञ्च संयोगरूपधात्वर्थान्वयित्वाऽविशेषादुदकपदादपि चतुर्थ्यापत्तिः । बाधकं कर्मत्वं तु वृक्षेऽप्यक्षतमिति न किञ्चिदेतत् । इदमेवेति । निस्क्तोदूदेश्यत्वमेवेत्यर्थः । पूर्वतन्त्रे-मीमांसायाम् । *अत एवेति* । शेषित्वस्याऽर्थकर्मप्रयोजकत्वादेवेत्यर्थः। . *प्रासनवदिति* । “प्रासनवन्मत्रावरुणाय दण्डप्रदानं कृतार्थत्वात्" इत्यधिकरणे। प्रासनदृष्टान्तश्चायं ज्योतिष्टोमे श्रूयते-"नीतासु दक्षिणासु चात्वाले कृष्णविषाणं प्रास्यति" इति । यदा यजमानेन दत्ता दक्षिणा ऋत्विग्भिर्नीतास्तदा यजमानः स्वहस्ते धृतं कृष्णमृगशृङ्ग चात्वालनामकगर्ने प्रक्षिपेदिति तदर्थः। तत्रैवं सन्दिह्यते । किमेतत् प्रासनमर्थकमेंति, प्रतिपत्तिकर्मेति वा, अर्थकमैव भवितुमर्हति । सप्रयोजनत्वात् । प्रतिपत्तिकर्मतायां तु अपूर्वाभावे निरर्थकमेव स्यादिति पूर्वपक्षे"कृष्णविषाणया कण्डूयति" इति श्रुत्या कृतार्थस्य प्रतिपत्त्यपेक्षत्वात् प्रतिपत्तिकर्मतैव युक्ता । न चानर्थक्यम् । प्रासनक्रियाप्रयुक्तापूर्वाभावेऽपि चात्वाल एवेति निय परीक्षा - *इदमेव*-तादृशोद्देश्यत्वमेव । विप्रस्तादृशस्वत्वजन्यसुखादिवान् भवत्वितीचछादातुर्भवतीति विप्रस्य तादृशेच्छाविशेष्यत्वमेव शेषित्वम् । गवादेश्च तादृशेच्छाप्रकारकत्वमेव शेषत्वम् । इच्छाविषयत्वमित्यत्र विषयता प्रकारतारूपा पर्यवसन्ना। *पूर्वतन्त्रे-पूर्वमीमांसायाम् । कर्ता क्रियमाणं कर्म द्विविधम् । अर्थरूपं प्रतिपत्तिरूपं च । यनिरुक्तशेषित्वप्रयोज्यं कर्म तदर्थ कर्मेत्युच्यते । पदसङ्कीर्णतानिवर्तकं कर्म तत्प्रतिपत्तिकौत्युच्यते । *अत एव-निरुक्तोदेश्यत्वरूपशेषित्वस्यार्थकर्मप्रयोजकत्वादेव । *प्रासनवदिति । यथा नीतासु दक्षिणासु चात्वालनामकगर्ते विषाणं प्रास्यतीति शृङ्गक्षेपणं यथा प्रतिपतिकर्म भवतिः तद्वदण्डप्रदानमपि प्रतिपत्तिकमैव कुतो नेत्याशङ्कय द्वितीयापेक्षया बलीयस्या चतुर्थीश्रुत्याऽर्थकमेव न प्रतिपतिकर्मेति तन्निर्णीतमित्यर्थः । स्वस्वध्वंसविशिष्टपरस्वत्वानुकूलेच्छारूपदाधात्वर्थस्थल Page #217 -------------------------------------------------------------------------- ________________ १८८ दर्पणपरीक्षासहिते भूषणसारेच्छतीति विहितं दण्डदानं न प्रतिपत्तिः, किन्तु चतुर्थीश्रुत्यार्थकर्मेति तत्र निर्णीतम् । रजकाय वस्त्रं ददातीत्यपि, खण्डिकोपाध्यायः शिष्याय चपेटां ददातीति भाष्योदाहरणादिष्टमेव । वृत्तिकारास्तु-सम्यक् प्रदीयते यस्मै तत् सम्प्रदानमित्यन्वर्थसंज्ञया स्वस्वत्वनिवृत्तिपर्यन्तमथं वर्णयन्तो रजकस्य वस्त्रमित्येवाहुः । दर्पणः मापूर्वसद्भावादिति सिद्धान्तितम् । तद्वद्दण्डदानं न प्रतिपत्तिरिति योजना । *इत्यधिकरण इति । चतुर्थाध्याय इति शेषः । __ ज्योतिष्टोमं प्रकृत्यैव, 'मैत्रावरुणाय दण्डं प्रयच्छति" इति श्रूयते। तत्र दण्डदानस्याऽर्थप्रतिपत्तिकर्मभावसन्देहेऽध्वर्युणा दीक्षासिद्धय दत्तदण्डस्याऽऽसोमक्रयाद्यजमानधारणेन कृतार्थत्वादुपयुक्तस्य तस्य दानं प्रतिपत्तिकमवेति पूर्वपक्षे, "दण्डी प्रैषानन्वाह" इति श्रवणान्मन्त्रावरुणस्य प्रैषाऽनुवादेऽवलम्बनाय दण्डोऽपेक्षितः। एवञ्च भविष्यदुपयोगसद्भावात् दानव्याप्यमानदण्डव्याप्यमानत्वेन मैत्रावरुणस्य प्राधान्याच्च दण्डदानस्य प्रतिपत्तिकर्मण उपयुक्तसंस्काररूपादर्थकर्मेवोपयोक्ष्यमाणसंस्काररूपत्वेन प्राशस्त्याच्चार्थकर्मतैवोचिता । उपयोजयितुमेव सर्वत्र संस्कारप्रवृत्तः। उपयुक्त तु प्रतिपत्तिरूपसंस्कारस्यासत्कारमात्रपर्य्यवसायित्वेन कार्य्यपर्यावसानाऽभावादप्रशस्तत्वमतो मैत्रावरुणसंस्काराय तद्दानमर्थकर्म । तथा सति निरूढ. पशौ असत्यपि दीक्षिते दण्डसम्पादनस्यैतदू दानं प्रयोजकमिति सिद्धान्तितम् ।। ___ अर्थकर्मत्वे च शेषित्वं प्रयोजकम् । तच्च चतुर्थीश्रुत्या मैत्रावरुणस्य बोध्यत इत्याह--*चतुर्थीश्रुत्येति । ननु यत्रदा-धातुरधीनीकरणाद्यर्थस्तत्राऽधीनत्वादिरूपफलनिरूपकतयेच्छाविषयत्वरूपसम्प्रदानत्वस्य रजकादावपि सम्भवात् "रजकाय वस्त्रं ददाति" "होत्रे उष्ट्रं ददाति" इत्यादिप्रयोगाः प्रसज्येरन्नित्याशङ्कामिष्टापत्त्या परिहरति--*रजकायेति । तत्र प्रमाणमुपन्यस्यति--*खण्डकोपाध्याय इति । *ददातीति । दाधात्वर्थसंयोगसम्बन्धित्वेनेच्छाविषयत्वरूपोद्देश्यत्वस्य तत्र सस्वादिति तद्भावः । अस्मिन् प्रयोगे ददातिः संयोगानुकूलव्यापाराऽर्थकः । चपेटापदार्थस्तु प्रसृतकरतलम् । “न शूद्राय मतिं दद्यात्" इत्यत्र ददातिर्बोधनार्थकः । मतिपदार्थश्च तज्जनकम्-वेदादिशास्त्रमिति बोध्यम् । *स्वस्वत्वनिवृत्तीति । परस्वत्त्वोत्पत्त्यवच्छिन्नस्वस्वत्वध्वंसेच्छारूपं व्यापारम् , अर्थ--दाधात्वर्थमित्यर्थः । तथाचोक्काऽर्थकदाधात्वर्थकर्मनिष्ठफलभागितयेच्छा. परीक्षा एव सम्प्रदानसंज्ञेति न नियमः, किन्त्वन्यत्रापि इत्याशयेनाह-*रजकायेति । अत्राधीनीकरणं दाधात्वर्थः । 'चपेटां ददाति, इत्यत्र चपेटा-करतलम् । दाधात्वर्थः कपोलादिसंयोगानुकूलो व्यापार आहुरित्यस्वरससूचनाय । स चोक्तभाष्यप्रामाण्यात्स. म्प्रदानशब्दस्यान्वर्थत्वे न मानम् , महासंज्ञाकरणं तु सर्वनामस्थानसंज्ञावत् प्राचामनुरोधादिति । 'अजां ग्रामं नयति' इत्यादौ अजादेर्निरुक्तोद्देश्यत्वसत्त्वात्प्राप्तापि सम्प्रदानसंज्ञा कर्मसंज्ञया बाध्यते। इदं सम्प्रदान “कर्मणा यमभिप्रैति" इति सूत्रसङ्केतितम् । Page #218 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः। १८९ दर्पणः विषयत्वमेव सम्प्रदानत्वम् ।अन्वर्थमहासज्ञाकरणसामर्थ्यांदुक्तस्थले च ददातेस्तदर्थकत्वाभावेन 'रजकस्य वखं ददाति' इत्येवेति तेषामाशयः । उक्तभाष्यप्रामाण्यादन्वर्थत्वमेवाऽसिद्धम् , महासज्ञाकरणं तु प्राचामनुरोधादेव, सर्वनामस्थानसज्ञावदित्यस्वरसादाहुरिति । ननु 'अजां ग्रामं नयति' इत्यत्राजायां निरुक्तसम्प्रदानत्वस्य सत्त्वात्तद्वाचकाच्चतुझ्पत्तिरिति चेद् ? स्यादेक यदि परया कर्मसज्ञया सम्प्रदानत्वस्य न बाध इति । 'यूपाय दारु' इत्यादौ न सम्प्रदानचतुर्थी, अपि तु तादयें । तादर्थ्य च-स एवार्थः प्रयोजनमस्य तत्त्वम् । समभिव्याहृताऽर्थे तादर्थ्यविवक्षायां तद्वाचकाच्चतुर्थीति 'तादयें चतुर्थी वाच्या' इति वार्तिकार्थः।। प्रयोजनत्वं च न जन्यत्वं दःखाय पापमित्यस्याऽप्यापत्तेः। नाऽपि जन्यतयेच्छाविषयत्वम् । स्वर्गादेः पुण्यादिजन्यतयेच्छाविषयत्वेन स्वर्गाय पुण्यमित्यापत्तेः। नचेष्टापत्तिः। तथा सति पक्तुं व्रजतीत्यर्थे पाकाय व्रजतीति प्रयोगनिहाय "तुमर्थाच्च" (पा० सू० २।३।१५) इतिसूत्रप्रणयनवैयापत्तेः । पाकादेनिरुक्तव्रजनाद्यर्थतयैव तद्वाचकाद्वार्तिकेन चतुर्युपपत्तेः । अपितु समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुकूलेच्छाविषयत्वम् । तत्प्रयोजनकत्वरूपं तादर्थ्य तु तदिच्छाधीनेच्छाविषयव्यापाराश्र. यत्वम् । दारुणो यूपेच्छाधीनेच्छाविषयतक्षणादिरूपव्यापारवत्तया यूपाऽर्थत्वात्तद्विवक्षया यूपपदाच्चतुर्थी । तदर्थश्वेच्छाऽधीनेच्छाविषयव्यापाराश्रयत्वम् । प्रथमेच्छायां यूपादेः प्रकृत्यर्थस्य विषयित्वेनाऽन्वयः । तस्याऽऽश्रयतया दादौ, एवं 'रन्धनाय स्थाली'इत्यादावप्यूह्यमिति केचित् । __ तन्न मनोरमम् । तादर्थ्यस्योक्तरूपत्वे 'मुक्तये हरिं भजति' इत्यत्र चतुर्थ्यनुपपत्तेः । न हि भजनस्य मुक्तीच्छाऽधीनेच्छाविषयव्यापारवत्ता। नाऽपि मुक्तेः सम्प्रदानता, कर्मजन्यफलभागितयाऽनुद्देश्यत्वात् । तस्मात्तदिच्छाधीनेच्छाविषयत्वमेव तत्तादर्थ्यम् । 'स्वर्गाय पुण्यम्' इत्यादयस्त्विष्यन्त एव । वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेर्न "तुमर्थात्” इतिसूत्रानुपपत्तिरपीति । नमः स्वस्त्यादिशब्दयोगेऽपि तदर्थविशेषणवाचकात् “नमः स्वस्ति" (पा० सू० २।३।१६ ) इति सूत्रेण चतुर्थी विधीयते। तत्र नमः पदार्थस्त्यागो नतिश्च । तत्र नतिः स्वाऽपकर्षबोधनाऽनुकूलो व्यापारः । 'हरये नमः' इत्यादौ 'एषोऽर्धः शिवाय नमः' इत्यादौ च त्यागः । चतुर्थ्याच तत्रोद्देश्यत्वं प्रत्याय्यते । त्यागश्च यदि शिवस्यायं भवत्विति फलेच्छाऽधीनो न ममेत्याकारकः स्वस्वत्वेच्छाभावरूपस्तदा तदुद्देश्यत्वं त्यागजनकेच्छायाः स्वत्वभागिसया विषयत्वम् । यदि त्यागरूपेच्छैवाऽन्यदीयत्वेन त्यज्यमानगतं स्वत्वमपि विषयीकरोति तदा स्वत्वभागितया विषयत्वमेव तदुद्देश्यत्वम् । न तु स्वीकारायत्वम् । शिवादेविग्रहवतोऽपि स्वीकाराभावात्तदाऽकारकतयाध्यातस्य मन्त्रस्य त्यागोद्देश्यतामते तदभावाच्च । ___ त्यज्यमानोपचारादौ शिवादिनिरूपितस्वत्वाऽभावेऽपि तदीयत्वेन तत्र द्रव्ये स्वत्वाऽवगाहिनीच्छाविसम्वादिरूपैव । अन्यदीयस्वत्वे बाधितं शिवादिनिरूपितत्वं शिवादिनिरूपितप्रसिद्धस्वत्वान्तरे वा बाधितं तद्व्यसम्बन्धमवगाहते। तत्र प्रथमे स्वत्वप्रकारकेच्छाजन्यत्वं जन्यतासम्बन्धेन तादृशेच्छावत्त्वं वा चतु Page #219 -------------------------------------------------------------------------- ________________ दर्पण परीक्षासहिते भूषणसारे - अनिराकरणात् कर्त्तुस्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते सम्प्रदानताम् । इति वाक्यपदीयात् त्रिविधम् । 'सूर्यायार्घ्यं ददाति' इत्याद्यम् । नात्र सूर्यः प्रार्थयते, नानुमन्यते, न निराकरोति । प्रेरकम् – 'विप्राय गां ददाति' - 'अनुमन्तृ - ' उपाध्यायाय गां ददाति ॥ १९० इदञ्श्च दर्पणः यर्थः । तत्र प्रकृत्यर्थस्य शिवादेर्विषयताविशेषसम्बन्धेनाऽन्वयः, द्वितीये विषयताविशेष एव सः । तत्र च प्रकृत्यर्थशिवादेर्निरूपितत्वसम्बन्धेनाऽन्वयः । नमः पदार्थत्यागस्य विषयता विशेष सम्बन्धेनाऽर्घादिद्रव्येऽन्वयः । द्रव्यस्यैव वा विशेष्यतया भासमानत्यागेऽन्वयः । शिवायोत्सृजतीत्यादाविव नात्रानिराकर्तृ सम्प्रदानता, नमः पदस्याऽधातुत्वात् । नमः पदेन च स्वप्रयोक्तृपुरुषकर्त्तृकत्वोपरागेणैव त्यागो बोध्यते । अन्योच्चरितनमः - पदेनान्यदीयत्यागाबोधनात् । तत्पुरुषोच्चारितनमः पदात्यागबोधे त्यागे त्यज्यमानद्रव्ये च तदीयत्वसंशयानुदयात् । अत एव तदीयत्वबोधनायाऽहं दद इतिवद्, 'अहं नम' इत्यादि न प्रयुज्यते । ऋत्विजा च यजमानरूपपुरुषान्तरीयद्वव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमःपदं प्रयुज्यते । स चारोपस्तस्मिन् विशेषदर्शनदशायामहार्य - तोपपद्यते । प्रतिनिधिप्रयुक्तदानवाक्यस्येव च पूजायां नमःपदघटितवाक्यस्य बाधितार्थकत्वेऽप्यदृष्टजनकत्वं न विरुद्धम् । शास्त्रप्रामाण्यादित्याद्यन्यत्र विस्तरः । 1 1 तद् विभजते—*इदमिति ॥ " कर्मणा यमभिप्रैति” ( पा०सू०१ |४| ३२ ) इति सङ्केतितं सम्प्रदानं चेत्यर्थः । त्रिविधमित्यनेनाऽन्वितम् । त्यागाङ्गं कर्मणेप्सितं कर्तु - निराकरणादित्रिभ्यः सम्प्रदानव्यपदेशं लभत इति योजना | स्वनिष्ठोद्देश्यतानिरूपकत्वसम्बन्धेन त्यागे समभिव्याहृतधात्वर्थे विशेषणतया प्रतीयमानत्वं तदङ्गत्वम् । तेन 'वृक्षायोदकमा सिञ्चति' इत्यादौ न वृक्षादेराधिक्यम् ॥ *कर्मणेप्सितमिति । कर्मजन्य फलभागितयेच्छाविषयः । इदं च विशेष्यं तद्भेदनियामकमाह-अनिराकरणादिति । प्रवृत्तिनिवृत्यन्यत - राऽनुकूलव्यापारशून्यत्वादित्यर्थः । *प्रेरणेति । अप्रवृत्तस्य कर्त्तुस्त्यागादाविष्टसाधनताबोधनं प्रेरणाजातेष्टसाधनताबोधे अप्रामाण्यशङ्कया शिथिलस्य कर्तुस्तादृशाशङ्काविधूननक्षमप्रमाणोपन्यासेन प्रवर्त्तनं कर्मनिष्टस्वत्वादिफलाऽभ्युपगममात्राऽनुकूलव्यापारवत्त्वं वाऽनुमतिस्ताभ्यामित्यर्थः । एवञ्च प्रकृतधात्वर्थ कर्मजन्यफलभागितयेच्छाविषयत्वे सति कर्तृ प्रवृत्तिनिवृत्त्यन्यतरानुकूलव्यापाराऽभाववत्त्वमनिराकर्त्तृत्वम् । निरुक्तविषयकत्वे सति कर्त्तृसम्बन्धित्यागादिविषयकेष्टसाधनताबोधौपयिकव्यापारवत्त्वं प्रेरकत्वमित्याद्यूह्यम् । *सूर्याया ददातीति । अत्र मतभेदेन दाधातोः परस्वत्वेच्छाधीनस्वस्वत्वापरीक्षा *अनिराकरणादिति । कर्त्तुरनिराकरणात्त्यागाङ्गकर्मणा ईप्सितमेकम् । कर्त्तुः प्रेरगाङ्ग द्वितीयम्, स्वानुमतिप्रदर्शनेन त्यागाङ्गं तृतीयम् । Page #220 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः। १९१ अत्र सर्वत्र प्रकृतिप्रत्ययार्थयोरभेदः संसर्गः । विभक्तीनां धर्मि दर्पणः भावेच्छारूपः, परस्वत्वगोचरस्वस्वत्वाभावेच्छारूपो वा त्यागोऽर्थः । अन्वयबोधस्तु " नमः स्वस्ति" (पा०सू०२।३।१६) इतिसूत्रोक्तदिशोहनीयः । सर्वत्रेति । तत्तत्सूत्रविहितद्वितीयाद्यन्तप्रयोगेष्वित्यर्थः ॥ *अभेदः संसर्ग इति । अभेदात्मकः संसर्गो विशिष्टबुद्धिनियामको विशेष इत्यर्थः । अभेदसंसर्गकप्रकृत्यर्थ प्रकारकबोधं प्रति सम्बन्धार्थकविभक्तिभिन्नप्रत्ययजन्योपस्थितेर्हेतुत्वादिति भावः । यत्तु सम्बन्धस्य सम्बन्धिभेदनियतत्वादभेदस्य सम्बन्धत्वे मानाभावादभेदः संसर्ग इत्यस्य अभेदेऽपि संसर्गः - इतरसम्बन्धानवच्छिन्नविशेष्यविशेषणभाव इति; तन्न । विशेष्यविशेषणभावस्याऽपि सम्बन्धनियतत्वेन तदसत्त्वे तस्याऽप्यसम्भवात् । अत एव भासमान वैशिष्ट्यप्रतियोगित्वं विशेषणत्वमिति टीकाकृतः । कथमन्यथा 'द्विष्टोऽप्यसौ परार्थत्वात्' इति विशेषणत्वेन विवक्षितस्य सम्बन्धं विना विशेषणत्वाऽसम्भवेन तदाकाङ्क्षित्वादिति स्वयं व्याख्यातम् । न तस्य सम्बन्धत्वे 'नीलो घट' इत्यादौ षष्ठ्यापत्तिरिति वाच्यम् । 'शहोः शिर' इत्यादावौपाधिकभेदसम्बन्धमादाय षष्ठयुपपादनपरस्य " अनेकाऽवस्थायुक्तराहोः इदमेarsaस्थायुक्तं शिरोऽवयव" इति भाष्यप्रामाण्येन भेदमूलकसम्बन्ध एव षष्ठी इत्यर्थलाभादभेदसम्बन्धे तदापादनाऽसम्भवात् । तादृशभाष्येणाऽभेदसम्बन्धस्य प्रातिपदिकार्थविशेष्यत्वाऽविवक्षणाद्वा । सम्बन्धस्य सम्बन्धिभेदनियतत्वं त्वसिद्धमेव । यदि भेदनियतत्वमेवेत्याग्रहस्तदा सर्वसाधारण्याय सम्बन्धिताऽवच्छेदकभेद एव नियामकत्वेनाऽभ्युपेयताम् । न च तत्सम्बन्धवे मानाऽभावः । सर्वसिद्धनीलादिविशिष्टबुद्धेरेव मानत्वात् । शाब्दबोधे तद्वाननियामकं च प्रकृतिप्रत्ययविशेषयोः समानाधिकरणप्रातिपदिकार्थयोश्च समभिव्याहाररूपाकाङ्क्षादिः । अत एव “अर्थवत्सूत्रे” (पा०सू० १।२।४५) भाष्ये “एषां पदानां सामान्ये वर्तमानानां यद्विशेषे पर्यवसानं स वाक्यार्थः" इत्युक्तम् । अन्विताभिधानवादिमतेन चेदम् । तन्मतेऽन्वितस्यैव पदार्थत्वात् । तथाच सामान्यरूपेण सम्बन्धवाचकानां पदानां यद्विशेष इत्यादेस्तत्तदनुयोगिप्रतियोगिकत्ववैशिष्ट्यबोधकत्वम् । आकाङ्क्षादिसमवधानात् स एव वाक्यार्थो वाक्यजन्यबोधविषय इत्यर्थः । वाक्यशक्त्यभिप्रायेण वा तथाऽभिधानम् । प्रातिपदिकार्थसूत्रे भाष्ये “पदसामानाधिकरण्यमुपसङ्ख्यानमधिकत्वाद्" इत्यस्य तु 'वीरः पुरुष' इत्यादौ विशेष्यविशेषणभावप्रयोजकप्रातिपदिकार्थाऽतिरिक्ताऽभेदसंसर्गस्याऽपि भानात् प्रातिपदिकाऽर्थमात्राऽभावात् प्रथमा न प्राप्नोतीत्यतः प्रथमाया उपसङ्ख्यानमारब्धव्यमित्यर्थान्न तद्विरोधोऽपि । कैटेनाऽपि न वाक्यार्थत्वादिति तत्प्रत्याख्यानावसरे वीरप्रातिपदिकादनपेक्षि परीक्षा *सर्वत्र सर्वविधसम्प्रदानस्थले द्वितीयादिस्थले च । *अभेदः संसर्ग इति । तथाचा भेदसम्बन्धावच्छिन्नप्रकृत्यर्थनिष्ठ प्रकारता निरूपितविशेष्यता सम्बन्धेन शाब्दबोधं प्रति षष्ठीभिन्नविभक्तिजन्योपस्थितिर्विशेष्यतासम्बन्धेन कारणमिति कार्य्यकारणभावो Page #221 -------------------------------------------------------------------------- ________________ १९२ दर्पणपरीक्षासहिते भूषणसारेवाचकत्वात् । धर्ममात्रवाचकत्वे, “कर्मणि द्वितीया"(पासू०२॥ ३।२) इति सूत्रस्वरसभङ्गापत्तेः। कर्मार्थककृत्तद्धितादौ तथादर्शनाच । द्वितीयाद्यर्थकबहुव्रीहौ 'प्राप्तोदक' इत्यादौ धर्मिवाचकत्वालाभाच्च । दर्पणः तशब्दान्तरोहितविशेषणभावात् स्वार्थमात्रनिष्ठात् प्रथमा विधीयतेः इत्यत्र प्रतिपादितपदमपहायोहितशब्दप्रयुञ्जानेन विशेष्यविशेषणभावनियामकत्वमितरसम्बन्धस्यैवाङ्गीकृतम्। ___ वस्तुतस्तु प्रकृते विशेष्यविशेषणभावस्य सम्बन्धतानुपपन्नैव सम्बन्धस्य सम्बन्धिभेदनियतत्वादिति तदुक्तः। विशेष्यविशेषणयोर्भाव इति व्युत्पत्त्या तस्या विशेव्यत्वविशेषणत्वमात्रपऱ्यावसायितया प्रत्येकं तयोरद्विष्ठत्वाच्चाऽनुयोगित्वप्रतियोगित्वाभ्यां द्विष्ठत्वोपपादनेऽप्येकस्यैव सा स्यान्न समुदितयोर्द्वयोः, स्वस्वामिभाववत् शब्दानुगममात्रस्याऽर्थाऽपरिच्छेदकत्वात् सम्बन्धान्तरे षष्ठी, न विशेष्यविशेषणभावसम्बन्धे इत्यत्र मानाभावाच्च । तस्माद्यथोक्तमेव रमणीयमिति । ननु विभक्तीनां धर्मवाचकत्वस्य तन्त्रान्तरसिद्धतया कथं तत्र प्रकृत्यर्थस्याभेदेनाऽन्वयः, अयोग्यत्वादत आह-विभक्तीनामिति । कारकविभक्तीनामित्यर्थः । *धर्मिवाचकत्वात् । शक्तिमच्छक्तत्वादित्यर्थः । । नन्वस्तु शक्तिरेवाऽर्थोऽत आह-धर्मवाचकत्व इति*। *सूत्रस्वरसभङ्गापत्ते. रिति ॥ तद्घटककर्मादिपदानां धर्मपरतां विनोक्ताऽर्थाऽलाभात्तत्परत्वे तगङ्गः स्पष्ट एवेत्यर्थः । तथाऽर्थस्य सूत्रकारसम्मतत्वे, कर्मत्वे द्वितीयेत्याद्येव ब्रूयादिति भावः । ननु 'कर्मणि इत्यादौ विषयसप्तमीबोध्य इत्यर्थः । तथाच विभक्तीनां धर्माऽवाचकत्वेऽपि तस्याश्रयतया प्रकृत्यर्थेऽन्वयेन कर्मबोधात् तत्फलान्वयिनी वृत्तिरेव द्वितीयार्थ इतिमतेऽपि तुल्यवित्तिवेद्यतया तण्डुलादीनां फलाश्रयकर्मत्वादिना भानान्न सूत्रस्वरसभङ्गोऽत आह-*कर्मार्थकेति ॥ कृति-पक्कस्तण्डुल इत्यादौ । तद्धिते-शत्योऽश्व इत्यादौ । आदिपदात् , पच्यमानास्तण्डुला इत्यादौ लडादेशशानसंग्रहः ॥ ___ *तथा दर्शनादिति ॥ धर्मिवाचकतादर्शनादित्यर्थः । तथाच कर्मपरामर्शकतच्छब्दघटितयोरित्यादिसूत्रविहितक्तादीनां धर्मिवाचकत्ववदत्राऽपि तद्वाचकत्वमेव न्याय्यमिति भावः । ननु तत्र पदार्थान्तरसामानाधिकरण्याऽनुपपत्त्याऽस्तु तथात्वमत्र तूक्तापत्त्यभावेनाऽस्तु धर्मवाचकत्वमेवेत्यत आह-द्वितीयाद्यर्थकेति ॥ द्वितीयादिविभतीनां धर्मवाचकत्वे तदर्थविहितसमासस्यापि धर्मवाचकत्वापत्त्या 'प्राप्तोदकः' इत्या. परीक्षा द्रष्टव्यः। धर्मी वाच्य इत्यत्र दृष्टान्तमाह-*कर्मार्थकेति । प्रकृति-मधू इत्यादौ, *तद्धिते*-शत्योऽच इत्यादौ । आदिपदेन लादेशो ग्राह्यः । शतृशानचोर्गोबलीवर्दन्या. योक्तिः । *तथादर्शनात*-धर्मिवाचकतादर्शनात् । ननु 'पक्कस्तण्डुलः, 'शत्योऽन्यः, 'पालनं कुर्वन्तं कुर्वाणं वा राजानमीश्वरं जानातिइत्यादौ पदान्तरसामानाधिकरण्यानुरोधार्मिवाचकताऽस्तु । 'ग्रामं गच्छति' इत्यादौ द्वितीयायास्तथात्वे किमानमत आह-द्वितीयाद्यर्थकेति । तथास्वीकारे द्वितीयाद्यर्थप्राप्तोदको ग्राम इत्यादौ सा- • मानाधिकरण्यस्योपपत्तिर्भवति; नत्वन्यथेति । Page #222 -------------------------------------------------------------------------- ________________ १९३ सुबर्थनिर्णयः। । सुपा कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथा तिङाम् । . इति भाष्याच्चेति दिक् । दर्पणः दावुदककर्तृकप्राप्तिकर्मत्वस्य समासार्थस्य समानविभक्तिकपदोपस्थाप्यग्रामादावभेदान्वयाऽनुपपत्तेरत्राऽपि जागरूकतया द्वितीयादिविधायकसूत्रस्थकर्मादिपदानां धर्मिवाचकत्वमावश्यकमिति भावः। __ननु त्वन्मतेऽपि षष्टयाः सम्बन्धार्थकतया तदर्थविहितबहुव्रीहेः पदार्थान्तरसामा. नाधिकरण्यानुपपत्तेस्तौल्येन तत्र लक्षणया विशिष्टशक्त्या वा सामानाधिकरण्यस्योपपाद्यतयाऽन्यत्रापि तयैव रीत्या निर्वाहे कृतं सुपां धर्मिवाचकत्वेनेत्यत आह-सुपां कर्मादयोऽप्यर्था इति* ॥ __ यदि कर्मत्वादिधर्मो द्वितीयादिवाच्यतया विवक्षितोऽभविष्यत् । तदा कर्मत्वाद. योऽप्यर्था इत्येवाऽवक्ष्यत् । तदनुक्त्या तु तेषां द्वितीयाद्यर्थत्वमप्रामाणिकम् । मुनित्र परीक्षा . तथा भाष्यस्वारस्यमप्यत्रार्थेऽस्तीत्याह-*सुपामित्यादिना । ननु द्वितीयादीनां कर्मत्वाद्यर्थकत्वे तेषु प्रकृत्यर्थस्याधेयतारूपप्रसिद्धसम्बन्धेनान्वय उपपद्यते, धर्मिवाचकत्वे तु धर्मिषु प्रकृत्यर्थस्याभेदोवाच्यः, स च न सम्भवति । सम्बन्धोहि सम्बन्धिभ्यां मिन्नो द्विष्ठो विशिष्टबुद्धिनियामको भवति । न च तथात्वमभेदस्य सम्भवति । सम्बन्धिभिन्नत्वविरहादिति चेद ? न । सम्बन्धिप्रतियोगिको भेदस्त्वव्यावर्त्तक उभयभेदस्य सर्वत्र सत्वात् । किन्तु सम्बन्धितावच्छेदकानवच्छिन्नविषयताश्रयत्वरूपः पारिभाषिक एव सम्बन्धत्वनियामक इति वाच्यम् ? स चाभेदस्य संसर्गत्वेऽपि सम्भवत्येवेत्याशयात् । नचाभेदस्य संसर्गत्वे 'राहोःशिरइत्यादावोपाधिकभेदमादाय षष्ठ्युपादानं भाष्यकारीयं विरुध्येत । चैत्रस्य धनम् इत्यत्रेवानायासेनैवोपपत्तिसम्भवादिति वाच्यम् । तत्रानेकावस्थायुक्तराहोरेकावस्थायुक्तं शिरोऽवमतम्, इत्येवं रीत्या षव्युपपचि कुर्वता भाष्यकृता यत्र भेदमूलकः सम्बन्धस्तत्र षष्ठी भवतीति ध्वन्यत इति सम्बन्धस्य प्रकृत्यर्थनिरूपितविशेष्यतया भानं यत्र तत्र षष्ठी वा स्वीकारात् । सम्बन्धस्य विशेष्यत्वे मानं तु क्रियाकारकयोः सम्बन्धस्य वाचिका द्वितीयेति भाष्याद् विभक्त्यर्थस्य संसर्गविधया भानेऽपि 'काण्डे 'कुड्ये इति विभक्त्यर्थप्रधानमिति भाष्यमेव । अभेदस्य संसर्गत्वादेव 'नीलमुत्पलम् इत्यादिशब्दानां विशिष्टबुद्धिजनकत्वमुपपद्यते । ये त्वमेदस्य संसर्गतां विनाऽपि-इतरसम्बन्धानवच्छिन्नविशेषणविशेष्यभावमुभयपदार्थयोःस्वीकुर्वन्ति । तेषां मतं न सर्वसद्धदयमनोऽनुकूलम् । विशेषणविशेष्यभावस्यापि संसर्गः नियतत्वात्तस्येतरसम्बन्धानवच्छिन्नत्वस्य वक्तुमशक्यत्वात् । अत एव भासमानवैशिष्टयप्रतियोगित्वं विशेष्यत्वमित्यभियुक्ताः। किंचेतरसम्बन्धानवच्छिन्नविशेषणविशेष्यभाव एवाभेदः, स एवाभेदः संसर्ग इति व्यवहारविषय इति हि तन्मतम् । तदपि न चमत्कृतम् । तन्मतसिद्धाभेदेऽपि सम्बन्धिभेदानुपपादनात् । संसर्गतावच्छेदके प्रतियोगितावच्छेदकानुयोगितावच्छेदकयो दसत्वात्तस्य संसर्गत्वमिति चेदलंसिद्धाभेदातिरिक्ताभेदस्वीकारेणेति दिक् । . २५ द० प० Page #223 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - आश्रयस्यापि प्रकृत्यैव लाभान्न विभक्तिवाच्यता, किन्त्वाश्रयत्वमात्रं वाच्यम् । तदेव च तादात्म्येनावच्छेदकम् । करणतृतीयायाश्च १९४ दर्पणः यानुक्तत्वादिति भावः ॥ शक्तिवादपक्षमवलम्ब्याह - आश्रयस्यापीति ॥ आश्र यत्वेन भानं त्वसिद्धमेवेति भावः ॥ *आश्रयत्वमात्रमिति ॥ द्वितीयातृतीयासप्तमीनामिति शेषः । मात्रपदेनाश्रयव्यवच्छेदः । नवाश्रयत्वस्य शक्यत्वे आश्रयत्वं शक्यतावच्छेदकं वाच्यम् । तच्चाश्रयत्वे - तरावृत्तित्वघटितत्वाद् गुर्विति शक्यतावच्छेदकगौरवमेवैतस्मिन् कल्पे दोष इत्यत आह - * तदेवेति ॥ आश्रयत्वमेवेत्यर्थः । एवकारेण निरुक्ताश्रयत्वव्युदासः । तस्याखण्डत्वस्योपपादितत्वान्नानाव्यक्तिविशेष्यकशक्तिग्रह एव स्वेतरधर्म याव च्छेदकत्वापेक्षणादिति भावः । कर्त्ततृतीयाया आश्रयमात्रार्थकत्वादाह – *करणेति ॥ व्यापारोऽपीत्यपिनाऽऽश्रयसमुच्चयः ॥ परीक्षा —*आश्रय 1 'अनन्यलभ्यो हि शब्दार्थ' इति न्यायोपष्टम्भेन मतान्तरमुपपाद्यति -* स्यापीत्यादिना । नन्वेवमाश्रयतात्वस्य वाच्यतावच्छेदकत्वे गौरवमत आह*तदेवेति* । आश्रयत्वमेवेत्यर्थः । नचान्यस्मिन्पक्षे 'प्राप्तोदको ग्राम' इत्यादौ द्वितीयाद्यर्थबहुव्रीहौ सामानाधिकरण्यानुपपत्तिरिति वाच्यम् ? अप्रथमा विभक्त्यर्थे बहुव्रीहिरिति वाक्यघटकविभक्तिपदस्य विभक्तिप्रकृतिपरत्वात् । अन्यथा षष्ठ्याद्यर्थबहुव्रीहापि सामानाधिकरण्यं न स्यात् । एवं च 'चित्रगुं देवदत्तं पश्य' 'वीर पुरुषकाय ग्रामाय गच्छ' इति न स्यात् । अथ यत्र न सम्प्रदाने चतुर्थी ; तत्र कस्तस्यार्थ इति चेत् ? शृणु-'यूपाय दारु' इत्यादौ "तादयें चतुर्थी वाच्या" इति वार्त्तिकात्तादर्थ्य वाच्यम् ? तच्च तस्म इदं तदर्थम्, तदर्थस्य भावस्तादर्थ्यमिति व्युत्पत्या तदुपकारकत्वरूपमिति तु न सर्वत्रोचितम् । मृत्तिकानयनादिद्वारा रासभादेर्घटाद्युपकारकत्वात् 'घटाय रासभ' इति प्रयोगापत्तेः । नापि तज्जनकत्वम् ; रासभस्य त्वन्यथासिद्धत्वेन जनकत्वाभावान्नापत्तिरिति युक्तम् । 'दुःखाय पापं करोति' इत्यापत्तेः । नापि तादृशेच्छा जन्येच्छाविषयत्वम् । फलेच्छाया उपायेच्छां प्रति प्रयोजकतया 'तृप्तये पचति' इत्यादौ पाके तृप्तित्वसम्भवादिति युज्यते । 'यूपाय दारु' इत्यादावेवानुपपत्तेः । दार्वानयनतक्षणादीच्छाया एव यूपेच्छाजन्यत्वम् ; न तु दार्विच्छाया इति भवत्सम्म - ततादर्थ्यानुपपत्तेः, 'स्वर्गाय पुण्यम्' इत्यापत्तेश्च । नचेष्टापत्तिः । तथा सति 'पाकाय व्रजति' इत्यादावपि तादयें चतुथ्ये॑व निर्वाहे "तुमर्थाच्च भाववचनात्” इति सूत्रस्य वैयर्थ्यापत्तेः, किन्तु तदर्थनिष्टफलेच्छाधीन व्यापारेच्छा विषयव्यापारवत्वरूपमेव तत् । अस्ति चेदं 'यूपाय दारु' इत्यादिस्थले । अत्र हि यूपनिष्ठं फलं तस्य निष्पतिस्तदिच्छाधीना या इच्छा तक्षणादीच्छा तद्विषयो यो न्यूनीभवनादिरूपो व्यापारस्तदाश्रयत्वं दारुण्यस्ति, नहि तथात्वं स्वर्गाय पुण्यमित्यादौ सम्भवतिः स्वर्गादिनिष्पत्तिं प्रति यत्नत्वेन पुण्ये च्छाया एव जनकत्वम् । नतु पुण्यसम्पत्तीच्छायाः । एवं च तन्निष्टफलेच्छाजन्येच्छाविषयव्यापाराश्रयत्वम्, न पुण्यस्येति केचित् । तन्न । 'मुक्तये हरिं भजति' इति प्रयोगानुपपत्तेः । भजनरूपक्रियायां तादृशव्यापाराभावात् । किन्तु तदिच्छाधीनेच्छा Page #224 -------------------------------------------------------------------------- ________________ ..... सुबर्थनिर्णयः। . . १९५ व्यापारोऽपि, पञ्चम्या विभागमात्रम्, चतुर्थ्या उद्देश्यत्वमात्रम् । दर्पणः . *विभागमात्रमिति* ॥ मात्रपदेनाश्रयत्वव्यवच्छेदः । विभागस्याश्रयतयाऽन्वया परीक्षा विषयत्वमेव तत्। 'स्वर्गाय पुण्यम् , रन्धनाय स्थाली, 'मुक्तये हरिं भजति' इत्यादयः प्रयोगा इष्यन्त्येव । वार्तिकं दृष्ट्वा सूत्राप्रवृत्तेः, नतु सामर्थ्यादिति सूत्रवैयर्थ्यशङ्का । __ यद्वा 'यागाय याति' इत्यादौ तुमद्यत्र तादर्थस्योक्तत्वादप्राप्तचतुर्थीसिद्धयर्थ तदारब्धम् । 'ब्राह्मणाय दधि' इत्यादावपि तादथ्यें चतुयेव विप्राय आदिपदस्य विप्रादिसुखादिलाक्षणिकत्वात् । विष्णवे नमः, एषोऽर्धः सूर्याय नमः इत्यादौ “नमः स्वस्ति”इति सूत्रेण चतुर्थी। तत्र नमःशब्दो नमस्कारार्थकः त्यागार्थकश्च । नमस्कारश्चस्वनिष्ठापकृष्टत्वप्रकारकज्ञानानुकूलो व्यापारः । स एवाद्यस्थले प्रतीयते । द्वितीयस्थले तु त्यागः । प्रथमे-चतुर्थ्यर्थो निरूपितत्वम् , तस्य नमःपदार्थघटकाप्रकृष्टत्वेऽन्वयः । अत्रेदम्बोध्यम्-दाधात्वर्थस्त्यागविशेषस्य सूर्यायाय॑ ददाति' इत्यादिप्रयोगस्य दर्शनादभिधायको यद्यप्यस्ति; तथापि तत्र त्यागस्यान्यकर्त्तकस्यापि प्रतीतिरस्त्येव । उत्तमपुरुषप्रयोगे 'अहं ददे' इति प्रयोगः । नमःपदेन तु स्वभावतः स्वोच्चारणकर्तृपुरुष. कर्तृकत्वोपरक्त एव त्यागोऽभिधीयते। अतस्तत्र 'अहं नमः' इति न प्रयोग इति। नचैवं यत्र यजमानो द्रव्यस्य त्यागकर्ताऽस्तिः तत्र ऋत्विक् 'विष्णवे नमः' इति न प्रयुज्यतेति वाच्यम् ? तत्र त्यागे यजमानकर्त्तके स्वीयत्वारोपेण तथा प्रयोगात् । स च आरोपः आहार्यः । नचैवं तत्र नमःपदघटितवाक्यस्य ऋत्विगुच्चारितस्य बाधितार्थबोधकतयाऽप्रामाणिकत्वेनादृष्टजनकत्वं न स्यादिति वाच्यम् ? शास्त्रबलात्तथात्वेऽप्यदृष्टजनकत्वस्य कल्पनादिति । 'स्वस्ति राज्ञे' इत्यादौ स्वस्तिशब्दो मङ्गलार्थः । सम्बन्धचतुर्थ्यर्थः । राजसम्बन्धि मडालमिति बोधः । यत्र तु 'स्वस्त्यस्तु प्रजाभ्य' इति प्रयो. गस्तत्र प्रजासम्बन्धिमङ्गलस्य कर्त्ततया-आशंसाविषयभवनेऽन्वयः। प्रजासम्बन्धि मङ्गलकर्त्तकमाशंसाविषयो भवनमिति बोधः । स्वाहास्वधाशब्दौ त्यागार्थको । तत्रायं विशेषः देवताभ्यो दाने स्वाहाशब्दस्यः पितृभ्यो दाने च स्वधाशब्दस्य प्रयोगः । एवं वषट् शब्दोऽपि देवेभ्यो दाने। दैत्येभ्यो हरिरलमित्यादौ अलंशब्दार्थसामर्थ्यवान् तदेकदेशसामर्थ्य चतुर्थ्यर्थस्य मारणादिप्रयोजकत्वरूपसम्बन्धस्यान्वयः, दैत्यादिमारणप्रयोजकसामर्थ्यवान् हरिरिति बोधः। 'भक्तिर्ज्ञानाय कल्पते' इत्यादौ तु "क्लपि सम्पद्यमाने च” इति चतुर्थी । सा च प्रथमाया बाधिका । अराध्यत्वप्रकारकं ज्ञानं हि भक्तिः । 'वाताय कपिला विद्युत्' इत्यादौ "उत्पातेन ज्ञापिते च" इति चतुर्थी । प्राणिनां शुभाशुभसूचको भूतविकार उत्पातः। ज्ञाप्यज्ञापकभावरूपसम्बन्धश्चतुर्थ्यर्थः। वातज्ञापिका कपिला विद्युदिति बोधः । 'विप्राय हितम्' इत्यादौ हितशब्देन समासविधानज्ञापकात्, चतुर्थी । इष्टसाधनं हितशब्दार्थः सम्बन्धश्चतुर्थ्यर्थः। एवं च 'विप्राय हितं धनम्' इति शब्दाद्विप्रसम्बन्धीष्टसाधनमिति बोधः । विप्राय सुखमित्यत्रापि ज्ञापकादेव चतुर्थी, सापि सम्बन्धाथिकैव। *व्यापारोऽपीति*। अपिनाऽऽश्रयसमुच्चयः, आश्रयत्वस्य वा। विभागमा(१) 'बाधज्ञानसमकालीनेच्छाजन्यज्ञानम्' इति हि तदर्थः । Page #225 -------------------------------------------------------------------------- ________________ १९६ दर्पणपरीक्षासहिते भूषणसारे - अत एवाssकृत्यधिकरणमपि न विरुद्ध्यत इत्यभिप्रेत्याह-*शक्तिरेव ॥ वेति षण्णामपीति शेषः । “षष्ठी शेषे" (पा०सू०२ | ३ |५० ) इति सूत्रात् तस्याः सम्बन्धमात्रं वाच्यम् । कारकषष्ठयास्तु - शक्तिरेवेत्यूह्यम् ॥ दर्पणः देव वृक्षादाववधित्वलाभादिति भावः । वस्तुतस्तु वृक्षादेरवधित्वरूपसम्बन्धेन पञ्चम्यर्थविभागेऽन्वय इत्युक्तम् । उद्देश्यत्वमात्रमित्यनेनाप्याश्रयत्वस्य सः ॥ *अत एवेति* ॥ कर्मत्वादिशक्तेस्तत्तद्विभक्तिवाच्यत्वकथनादेवेत्यर्थः ॥ *न विरुद्ध्यत इति ॥ शक्तिग्रहे जातिव्यक्त्योरुभयोर्भानाविशेषेऽपि जातिरेव शक्या, 'नागृहीतविशेषणन्यायाद्' 'विशेष्यं नाभिधागच्छेत्' इतिन्यायाच्च । व्यक्तिशक्तौ व्यभिचारात् तासामानन्त्याच्चेति तत्र सिद्धान्तितमिति भावः ॥ कारकविभक्त्यर्थं निरूप्य प्रसङ्गात् षष्ठ्यर्थं निरूपयति — मूले - सम्बन्ध इति ॥ “षष्ठी शेषे" (पा०सू० २।३५०) इति सूत्रात् कारकप्रातिपदिकार्थभिन्नः स्वस्वामिभावादिसम्बन्धश्व तत्र शेषपदाऽर्थः । तत्राऽन्यविभक्तीनां मतभेदेन धर्मिधर्मवाचकत्ववदेतस्यास्तथा भ्रमो माभूदित्याशयेनाह सारे - *सम्बन्धमात्रमिति ॥ पक्षद्वयेऽपीति शेषः । परीक्षा त्रमिति । एवं च वृक्षादायातीत्यादौ वृक्षस्य विभागाश्रयत्वादवधित्वलाभादिति भावः । वस्तुतस्तु विभागस्य द्वेधाभानानुपगमादवधित्वरूपसम्बन्ध एव पञ्चम्यर्थस्तस्य धात्वर्थेकदेशविभागेऽन्वयः । अत एव - कर्मत्वादिशक्तेस्तत्तद्वाच्यत्वकथनादेव । न विरुध्यत इति । तंत्र हि (१) "नागृहीतविशेषण' न्यायेन धर्ममात्रस्य वाच्यत्वं व्यवस्थापितम् । अथ षष्ठयर्थमाह-षष्ठी शेष इति सूत्रादिति । अत्र शेषपदार्थः - कारकप्रातिपदिकार्थभिन्नसम्बन्ध एव । अत्र न मतभेदेन धर्मिधर्मोभयस्य वाच्यत्वमिति सूचनाय मात्रपदम् । तत्रायं विशेषः क्वचित्सम्बन्धत्वरूपसामान्यधर्मपुरस्कारेण वाच्यता, 'मातुः स्मरति' इत्यादौ यथा । क्वचित् स्वस्वत्वादिविशेषरूपेण । अत एव न विरोधधर्मावच्छिन्नप्रकारकसंशयः । अत एव चैत्रेण पालिते मैत्रीयहस्त्यश्वादिधने नेदं चैत्रस्येति प्रयोगः । ननु सम्बन्धस्योभयनिष्ठत्वाद्विशेषणाद्यथा षष्ठी भवत्येवं विशेष्यादप्येषा कथं न स्यादिति चेद् ? न । यद्यप्यसौ द्विष्टस्तथाऽपि यस्य विशेषणत्वविवक्षा तद्वाचकादेव षष्ठी, विशेष्यस्य तु प्राधान्यान्न ततः सा प्रतीयते । विशेषणतया विवक्षितस्य विशेषणत्वं सम्बन्धं विनाऽनुपपन्नमिति तदुपकारकत्वस्य सम्बन्धे सत्वादिति । तदुक्तं हरिणा“द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते । तत्राभिधीयमानश्च प्रधानेऽप्युपचर्यते ॥ इति । परार्थत्वाद्—गुणानां परं प्रतिविशेषणत्वाद् । गुणेष्वसौ व्यतिरिच्यते-अद्भुततया. प्रतीयते । तत्र - विशेषणे । अभिधीयमानो - राजादिनिरूपितविशेष्यताया राजपदसन्निधाने प्रतीयमानाया उपकारको भवति । एतेन विशेषणत्वस्य सम्बन्धं विनाऽनुपपत्या नियमेन तस्य साकाङ्क्षा दर्शिता । (१) 'नागृहीतविशेषणाबुद्धिर्विशेष्यं नाभिगच्छति' इति । Page #226 -------------------------------------------------------------------------- ________________ - सुबर्थनिर्णयः । १९७ "सप्तमीपञ्चम्यौ कारकमध्ये” (पा०सू०२।३।७) इति सूत्रे शक्तिः कारकमिति पक्षस्य भाष्ये दर्शनात् । एवञ्च 'देवदत्तस्य गौा । - दर्पणः स च क्वचित् सम्बन्धत्वेन सामान्यधर्मेण वाच्यः, कचिच्च विशेषरूपेणैव । तत्र सामान्यरूपेण "मातुः स्मरति" इत्यादौ । विशेषरूपेण विवक्षायां स्वस्वविषये तत्तद्विभक्तीनां प्रसरात्। "राज्ञः पुरुषः” इत्यादौ तु विशेषरूपेणैव । अनेकसम्बन्धसत्वेऽपि सम्बन्धविशेषविवक्षया 'नेदं चैत्रस्य' इति प्रयोगात् , सम्बन्धश्च सर्वत्र क्रियाकारकभावमूलक एव । “षष्टी शेषे” इति सूत्रे, 'राज्ञः पुरुष' इत्यत्र राजा पुरुषाय ददातीति सम्प्रत्ययाद्राजा कर्ता पुरुषः सम्प्रदान, वृक्षस्य शाखेत्यत्र वृक्षे शाखेति लौकिकप्रसिद्या वृक्षः शाखाया अधिकरणम् । यदेतत् सम्प्रदानं नाम चतुर्भिः प्रकारैरेंतद्भवति-'क्रयणादपहरणाद्याञ्चायाः परिवर्तनरूपाद्विनिमयादू इत्यनेन यत्राश्रूयमाणा क्रियाः तत्रापि तत्फलसम्बन्धानुमितकरणत्वादिशक्तर्वस्तुतः सत्त्वादित्यर्थकेन भाष्येण शेषपदार्थाऽप्रसिद्धिमाशङ्कयैवं तर्हि कर्मादीनामविवक्षा शेष इति शेषोक्तः । क्रियाकारकसम्बन्धस्य वस्तुतः सर्वत्र सत्त्वेऽपि तन्निमित्तस्य स्वस्वामिभावादेः सम्बन्धस्वेन विवक्षणे तस्याऽविवक्षा । अविवक्षणात् शेषपदार्थसौलभ्यमिति तद्भावः । न च सम्बन्धस्योभयनिरूप्यत्वात् 'राज्ञः पुरुष' इत्यत्र राजपदोत्तरमिव पुरुषपदो. त्तरं षष्ठ्यापत्तिरितिचेद् ? न यदा राज्ञः उपकारकत्वविवक्षा तदा राजपदादेव । यदा तु पुरुषस्य तद्विवक्षा तदा पुरुषपदादपि, पुरुषस्य राजेति । नचैकदोभयत्र सेति नोक्ताऽतिप्रसङ्गः । तदुक्तं हरिणा द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते । तत्राऽभिधीयमानश्च प्रधानेऽप्युपचर्य्यते ॥ इति । परार्थत्वात् = परं प्रति गुणानां विशेषणत्वाद् , विशेषणत्वेन विवक्षितस्य सम्बन्धं विना विशेषणत्वाऽसम्भवेन सम्बन्धो व्यतिरुच्यते ; उद्भूततया प्रतीयते इति तत्रैव षष्ठी। विशेष्यस्य तु पदाऽन्तराऽसमभिव्याहारे स्वरूपेणैव प्रतीयमानत्वान्न विशेष्यतानियामकसम्बन्धाकाङ्का । तत्र विशेषणे अभिधीयमानः षष्ठया प्रतीयमानः प्रधाने विशेष्येऽपि उपयुज्यते; तस्य द्विष्ठत्वस्वभावाद्राजनिरूपितविशेष्यताया राजपदसन्निधाने प्रतीयमानाया उपकारको भवतीति तदर्थः॥ ___*कारकषष्ठया इति* । “कर्तकर्मणोः कृति" (पा०सू० २।३।६५) इत्यादिसूत्रविहितषष्ठया इत्यर्थः । शेषविहितषष्ठयाः सम्बन्धरूपधर्मवाचकतया षष्ठीत्वेनैतस्या अपि तद्वाचकत्वस्य न्याय्यत्वादिति भावः। ननु कर्तृकर्मादिकारकविहिततृतीयादीनां कथं कादिधर्मवाचकत्वमत अत-*सप्तमीपञ्चम्याविति । तथाच-धर्मस्याऽपि कारकत्वस्य भाष्यसम्मतत्वेन तासां तद्वाचकत्वे न दोष इति भावः॥ *दर्शनादिति ॥ तत्र हि द्रव्यं कारकमिति पक्षे 'अद्य भुक्त्वाऽयं द्वयहे द्वयहाद्वा परीक्षा ननु कर्त्तकर्मादिकारके विहितविभक्तेः कथं कादिधर्मबाधकत्वमत आह*सप्तमीति । 'अध भुत्क्वाऽयं द्वयहे द्वयाहाद्वा भोक्ता' इत्यत्र कर्त्तकारकस्यैकत्वेन तन्मध्यत्वं कालस्य न सम्भवति । अतः कारकशब्दस्य तद्वयक्तिपरत्वमावश्यकमेव । Page #227 -------------------------------------------------------------------------- ________________ १९८ दर्पणपरीक्षासहिते भूषणसारे - ह्मणाय गेहादू गङ्गायां हस्तेन मया दीयते' इत्यत्र देवदत्तसम्बन्धिनी या गौस्तदभिन्नाश्रयकत्यागाऽनुकूलो ब्राह्मणोद्देश्य को गेहनिष्ठवि दर्पणः भोक्ता' इत्यादौ देवदत्त रूपकर्त्तृ कारकस्यैक्यान्मध्यव्यपदेशासम्भवादप्राप्तसप्तमी पञ्चम्योरुपपदनाय प्रवृत्तस्य 'क्रियामध्य इति वक्तव्यम्' इति वार्त्तिकखण्डनायोक्तम् । नान्तरेण साधनं क्रियायाः प्रवृत्तिर्भवति । क्रियामध्यं च कारकमध्यमपि भवति, तत्र कारकमध्ये इत्येव सिद्धमिति तत्र साधनमित्यस्य शक्तिमित्यर्थः । 1 तथाच देवदत्तादिरूपकर्त्तद्रव्यस्यैक्येऽपि कालभेदभिन्नभुजिक्रियाऽनुमितकारकपदार्थ कर्तृत्वशक्त्योर्भेदात् तन्निमित्तमध्यव्यपदेशाऽबाधाद्यथोक्तेऽनुपपत्त्याभावात् 'क्रियामध्ये' इति वार्त्तिकं नारम्भणीयमिति तद्भावः । इदमुपलक्षणमनभिहितसूत्रभाष्यस्य । तत्र 'संख्या विभक्त्यर्थ' इति पक्षेणाऽनभिहिताधिकारं समर्थ्य द्वयोः कारकयोरन्यतराऽभिधाने विभक्त्यभावप्रसङ्गः क्व ? प्रासाद आस्ते, शयन आस्ते, किम् कारणम् ? यदि प्रत्ययेनाऽभिहितमधिकरणमिति कृत्वा सप्तमी न प्राप्नोतीत्याशङ्कय, न वाऽन्यतरेणाभिधानात्, अनभिहिते विधानमित्यादिना प्रसज्ज्यप्रतिषेधे पर्युदासे वा नञर्थं दूषणं परिहृत्य यदि साधनं द्रव्यं स्यात् तदेकमेव तच्चाऽभिहितमिति पूर्वोक्तपरिहारो न सम्भवति । अथ शक्तिः साधन तदा तस्याभेदादनभिहितत्वसम्भवाद्भवत्युक्तपरिहार इत्यभिप्रेत्य किं पुनर्द्रव्यं साधनमा होस्विद् गुण इत्याशङ्कयोक्तं, किं पुनःसाधनं न्याय्यम् ? गुण इत्याह । कथं ज्ञायते । एवं हि कश्चित् कञ्चित् पृच्छति, क्व देवदत्त इति ? । स तस्मायाचष्टेऽसौ वृक्षे इति । कतरस्मिन् यस्तिष्ठति स वृक्षोऽधिकरणं भूत्वाऽन्यशब्देनाभिसम्बध्यमानः कर्त्ता सम्पद्यते । द्रव्ये साधने यत् कर्म कर्मैव स्याद्यत् करणं करणमेव यदधिकरणमधिकरणमेव" इति । कैटेनाsपि 'यदि द्रव्यं साधनं स्यात् तदा तस्यैकरूपत्वात् तन्निबन्धनाबाधितप्रत्यभिज्ञाविषयत्वाद् नानाऽर्थक्रियाकरणनिबन्धनो 'घटेन जलमाहर' 'घटं कुरु' घंटो sस्तीति व्यपदेशो न स्यात् । दृश्यते चाऽसौ । तस्मान्नानाशक्तिभावावगमः सिद्धः" इति तद्विवृतम् । एवं च शक्तिपक्षस्याssकरसम्मततया द्वितीयादीनां कर्मत्वादौ शक्तिरिति वदतां मतमपि सम्यगेवेति भावः । “प्रातिपदिकार्थ" इतिसूत्रविहितप्रथमाया यथायथं प्रातिपदिकार्थो लिङ्ग परिमाणं चाऽर्थः । कर्माssद्याधिक्ये प्रथमा मा भूदिति तत्र मात्रग्रहणम् । द्वन्द्वान्ते श्रूयमाणस्य तस्य प्रत्येकं द्वन्द्वघटकपदार्थेऽन्वयात् प्रातिपदिकार्थमात्रे प्रथमेत्यादिवाक्यभङ्गः । प्रातिपदिकार्थत्वं च नामनिष्ठशक्त्यवच्छिन्न जनकतानिरूपितजन्यताश्रयोपस्थितित्वव्यापकविषयताप्रतियोगित्वम् । उच्चैरित्याद्यर्थविषयितायास्तादृशोपस्थितित्वव्यापकत्वात् तत्र प्रथमोपपत्तिः । एवं कृष्ण इत्यादौ कृष्णादिविषयिताया इव पुंल्लिङ्गादिविषयिताया अपि तदुपस्थितित्वनैयत्यं व्यक्तमेव । यद्यपि 'द्विकं प्रातिपदिकार्थः' इति पक्षे लिङ्गस्योपस्थितिविषयत्वं दुर्घटं तथाप्यनुभवाऽनुरोधेन शक्यार्थोपस्थितेः प्राग् लिङ्गोद्बोधकसम Page #228 -------------------------------------------------------------------------- ________________ ... सुवर्थनिर्णयः। १९९ भागजनको गङ्गाऽधिकरणको हस्तकरणको मनिष्ठो व्यापार इति बोधः । *यथायथम्*-उक्तप्रकारेण ॥ अत्रमानमुपदर्शयन् 'घटंजानाति' इत्यादौ द्वितीयायाविषयतायां लक्षणेति बह्वाकुलं वदतो नैयायिकादीन् प्रत्याह-सुपां कर्मतीति ॥ . दर्पणः वधानस्य नियमेन कल्पनात् तस्य तत्त्वं बोध्यम् । एवञ्चालिङ्गा नियतलिङ्गाश्च प्राति. पदिकार्थमात्र इत्यस्योदाहरणोनि, तटादिशब्दजन्योपस्थितौ तु पुंलिङ्गादिभानस्या नयत्यात्तत्राऽप्राप्तप्रथमाविधानाय लिङ्गन्ग्रहणम् ।। __सिंहो माणवकः' इत्यादौ सादृश्याऽद्याधिकार्थस्य प्रतीतावप्यन्तरङ्गत्वात् स्वाऽर्थमाजनिष्टात् तस्मात् प्रथमा सुलभैव । तत्र प्रथमाऽर्थलिङ्गस्य विशेषणतया प्रकृत्यथेऽन्वयो योग्यताबलादनुभवाच्च । तथैव कार्यकारणभावकल्पनात् । एवं 'द्रोणो बीहिः' इत्यादौ द्रोणप्रातिपदिकार्थातिरिक्तद्रोणपदात् परिमाणस्याधिक्येन भानात्तत्र परिमाणग्रहणम् । न च ब्रीडादिपदसमभिव्याहारात् तद्भानेऽप्यन्तरङ्गत्वात् प्रातिपदिकार्थमात्र एव सास्त्विति वाच्यम् । तथा सति द्रोणपदार्थस्य भेदसम्बन्धेनाऽन्वयानुपपत्तेः । प्रथमार्थस्य तस्य तु भेदेनाऽन्वये न किञ्चिद् बाधकमिति सम्प्रदायः॥ नव्यास्तु-प्रातिपदिकार्थस्तत्तत्पदप्रवृत्तिनिमित्तं, तदाश्रयश्च । अत एव लिङ्गग्रहणं चरितार्थम् । अन्यथा “स्वामोर्नपुंसकात्" ( पासू० ७११८३ ) इति सूत्रप्रामा. ण्यात् तस्याऽपि प्रातिपदिकार्थतया तदुपपादनवैयापत्तेः। आश्रयत्वं च वैज्ञानिकम् । शक्यताऽवच्छेदकारोप एव लक्षणेत्यन्यत्र व्यवस्थापितत्वात् । गोपीत्यादौ प्रकृत्यर्थस्य लाक्षणिकत्वेऽपि न क्षतिः । तटादिशब्दानां लिङ्ग वाच्यमेव । विसर्गादयस्तयोतकाः। __ एवञ्च प्रातिपदिकार्थ इत्यस्यालिङ्गा लिङ्गप्रवृत्तिनिमित्तकाव्ययस्त्रीपुंसादिशब्दाश्चोदाहरणमितरे लिङ्गमात्राद्याधिक्यस्य । द्रोणत्वादिप्रवृत्तिनिमित्तकद्रोणादिशब्दानां परिमाणत्वेन परिमाणमपि लिङ्गवद् विशेष्यान्वय्यर्थः । एवञ्च लिङ्गवत् प्रातिपदिकार्थत्वाभावात् परिमाणग्रहणम् । “वीरः पुरुषः” इत्यादौ पुरुषादिपदसन्निधाने विशेष्यविशेषणभावस्याधिकस्यभानेऽपि तत्समभिव्याहारात् पूर्व स्वार्थमात्रनिष्टात्तस्मात् सेत्याहुः॥ . “सम्बोधने च" (पा०सू० २।३।४७ ) इति विहितप्रथमायास्तु सम्बोधनमर्थः । प्रातिपदिकार्थापेक्षया तस्याधिक्येन भानात् पूर्वसूत्राविषयत्वात् तत्सूत्रारम्भः । तच्चाभिमुखीभवनानुकूलो व्यापारः क्रियान्वय्येवेति प्रतिपादितं प्राक् । 'यथायथं विभक्त्यर्थाः' इत्यत्रत्यं यथायथपदं व्याचष्टे-*उक्तप्रकारेणेति । यदर्थबोधे या विभक्तिः समर्था तस्याः सोऽर्थोऽवसेयः। तथैवोक्तं प्राग् , द्वितीयातृतीयासप्तमीनामित्यादिनेति भावः॥ ____ *अत्रेति । सुपा कर्मादिवाचकत्व इत्यर्थः । *नैयायिकान् प्रतीति । प्राचीनान प्रतीत्यर्थः । यथा तन्मतं तथाख्यातशक्तिनिरूपणावसरे प्रतिपादितम् । . ननु 'सुपा कर्मादयोऽप्यर्थाः' इति भाष्यात् सिध्यतु तेषां कर्मादौ शक्तिः। विष. यत्वादौ लक्षणायां तु किं बाधकम् । क्रियाजन्यफलशालित्वरूपमुख्यकर्मत्वबाध एवं Page #229 -------------------------------------------------------------------------- ________________ २०० दर्पणपरीक्षासहित भूषणसारेअयम्भावः सुपा कर्मादयोऽऽप्यर्थाः सङ्ख्या चैव तथा तिङाम् । प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा ॥ इति वार्तिकतद्भाष्याभ्यां कर्मादेर्वाच्यतायास्तन्नियमस्य च लाभः । तथाहि-"स्वौजसमौट” (पासू०४।१।२) “कर्मणि द्वितीया" (पासू०२।३।२) इति "द्वयेकयोद्विवचनैकवचने" (पा०सू०१।४।२२) इत्यादेः, "लस्य" (पासू०३।४।७७) "तिपतसूझि" (पा०सू०३।४.७४) "तान्येकवचनद्विवचन" (पासू १।४।१०१) इत्यादेश्चैकवाक्यतया कर्मादेस्तत्सङ्ख्यायाश्च वाच्यता लभ्यते । तथा तन्नियमश्च द्विविधो लभ्यते । द्वितीया कर्मण्येव, तृतीया करण एवेत्येवमादिरनियमः । कर्मणि द्वितीयैव, करणे तृतीयैवेत्येवशब्दनियमश्च । उभयथा दर्पणः तत्प्रसरादत उत्तरार्द्धप्रदर्शितनियमं बाधकत्वेनोपदर्शयिष्यन्नाशयं प्रकाशयति-*अयम्भाव इत्यादि। "स्वाजसमौ” (पा०सू०४।१।२) इत्यत्र कारकविभक्तिष्वादा द्वितीयाया उपादानादू वार्तिकेऽपि तदर्थकर्मणः प्रानिर्देशः । कर्मादीत्यादिना कारकान्तरसंग्रहः, अपिना शक्तिः कारकमितिपक्षोक्तकर्मत्यादिशक्तीनां समुच्चयः। *तथा तिडामिति । तद्वत्तिकामपि सङ्ख्याकर्माद्यर्थ इत्यर्थः। तत्र-सुप्तिक्षु । प्रकृतेषु-अर्थेष्वित्यर्थः । *वार्तिकतद्भाष्येति । लोकादेव बहुत्वादिषु बहुवचनादि भविष्यति, किमर्थ, “बहुषु बहुवचनम्" । ( पा० सू० १।४।२१) इत्यादिसूत्रमित्याक्षेपे सुप्तिडामविशेषेण विधानाद् दृष्टविप्रयोगत्वाच्च नियमार्थे वचनमितिसन्धाय, नियमाकारप्रदर्शकमिदंश्लोकवार्तिकम् ।। ___ अथवा प्रकृतार्थानपेक्ष्य नियमः । के च प्रकृताः, एकत्वादयः एकस्मिन्नेवैकवचनं, न द्वयोर्न बहुषु इत्यादि तद्भाष्यं च ताभ्यामित्यर्थः । नियमाकारमाह-द्वितीया कर्मण्येवेति । प्रकृताऽभिप्रायम् । *उभयथापीति । विभक्त्यपेक्षया अर्थाऽपेक्षया चेत्यर्थः । विभक्तिनियमोऽपि द्विधा-अर्थविशेषाऽपेक्षस्तत्सामान्याऽपेक्षश्च । तत्राद्यः-कर्मार्थयोग्यप्रातिपदिकाच्चेद् द्वितीया तदा कर्मण्येव, न करणादौ । कर्मादियोग्ये तदहितप्रातिपदिकाऽर्थ एव प्रथमा, न कर्मादौ । संख्यावदर्थयोग्यप्रातिपदिकाच्चेदेकवचनं तदा एकत्वे एव न द्वित्वादावित्याकारकः । द्वितीयस्तु-प्रातिपदिकाच्चेद् द्वितीया कर्मण्येवेत्याकारकः । अर्थनियमस्तु-कर्मार्थयोग्यप्रातिपदिकाच्चेत् कर्मणि विभक्तिस्तदा द्वितीयैव । कर्मादिरहिते तद्योग्यप्रातिपदिकार्थे प्रातिपदिकात्प्रथमैवेत्याकारक इति । सिद्धस्यैकवाक्यताबलेनेत्यादिः । परीक्षा *अत्र-कादिवाचकत्वे । *तथातिकाम्-तिडामपि कर्मादयोऽर्थः, संख्या वार्थः । *तत्र*-कर्मादिषु। नियमः-प्रसिद्धः, कर्मणि द्वितीयैवेत्याद्यर्थनियमः प्रसिद्धः । यद्वा प्रकृतेषु नियमः, प्रकृताननपेक्ष्य नियमः, द्वितीयाकर्मण्येव न करणादावितिरीत्या एतद्वयनियमः-प्रत्ययनियमो अर्थनियमश्चेति। विनिगमनाविरहाद्विविधस्यापि Page #230 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । २०१ ऽपि सिद्धनियमविरुद्धं लक्षणादिकमसाधुत्वप्रयोजकमिति, याशे कर्मणि "नाऽनृतं वदेत्" इति निषेधविषयो भवत्येवेति स्वेच्छया लक्षणाऽपि विभक्तावप्रयोजिकैव । अत एव 'विभक्तौ न लक्षणा इत्यादिनैयायिकवृद्धानां व्यवहार इति दिक् ॥ २४ ॥ .... • इति श्रीरङ्गोजिभट्टात्मजकौण्डभट्टविरचितं वैयाकरणभूषणसारे । सुबर्थनिर्णयः समाप्तः॥ ३॥ दर्पणः तथाच विषयत्वस्य निरुक्तकर्मत्वाऽनात्मकत्वेन तत्र द्वितीयादेः शास्त्रेणाविधानाद तदर्थतात्पर्येण तदुच्चारणस्याऽनृतत्वादित्यर्थः । *अत एवेति । विभक्तो लक्षणाया अप्रयोजकत्वादेवेत्यर्थः । । ___ ननु व्याकरणस्य शक्तिनिरूढलक्षणान्यतरप्रतिपादकत्वेन यत्र मुख्याऽर्थबाधप्रतिसन्धानादि तत्र शक्यसम्बन्धिनि लक्षणास्वीकारे बाधकाऽभावः । 'घर्ट जानाति' इत्यादितो घटादिविषयकज्ञानबोधस्य सर्वानुभवसिद्धस्य द्वितीयाया वृत्तिं विनाऽनु पन्नस्यैव लक्षणाकल्पकत्वाच्च; "विभक्तौ न लक्षणा" इति प्रवादस्त्वेकविभक्तेरपरवि भक्तयर्थे न लक्षणेत्येतत्परोः अत एव न व्यत्ययानुशासनवयर्थ्यम् । 'सुपां कर्मादयोऽप्यर्था' इत्यत्र कर्मादिपदस्य गौणमुख्यसाधारणकर्मत्वपरतयाऽप्युपपत्तेर्न तदूविरोधोऽपी. त्यत आह-दिगिति*। - तदर्थस्तु मुख्यार्थमादाय शास्त्रचारितायें गौणे तव्यापारे मानाभावः । नच घट जानातीतिप्रसिद्धप्रयोगानुरोधेन गौणेऽपि तव्यापारकल्पनाऽवश्यिकेति वाच्यम् । जानातेर्ज्ञानविषयत्वापत्त्युपसर्जनविषयत्वापादनार्थकतया मुख्यकर्मतरवाऽस्मन्मते प्रयोगोपपत्तिसम्भवात्। स्वानुभवैकगम्येऽथे लक्षणाऽभ्युपगमेऽर्थनिर्देशस्य वैय. र्थ्यांपत्तेश्चेत्यादिः । परीक्षा तस्य सम्भवात्। *अत एव । उक्तनियमाविरोधादेव । दिगिति* । दिगर्थस्तु नराणां क्षत्रियः शूरतमः, 'गच्छतां गच्छत्सु वा धावञ्छीघ्रः' इत्यादौ “यतश्च निर्धारणम्" इति सूत्रेण षष्ठीसप्तम्यौ । जातिगुणक्रियासंज्ञाविशिष्टस्येत्यध्याहारः। एवं च जात्यादिविशिष्टस्य यतः स्वेतरेभ्यः स्वघटितसमुदायघटकेभ्यो व्यावृत्तेन धर्मेण पृथक्कणरूपन्निर्धारणम् , ततः षष्ठीसप्तम्यावित्यर्थः। पृथक्करणं च तदव्यावृतधर्मप्रकारकज्ञानविषयीकरणम् । . अत्र केचित्-षष्ठीसप्तम्योरभेदे भेदे च शक्तिस्तत्राभेदः प्रकृत्यर्थ प्रति विशेषणीभूय निर्धार्यपदार्थविशेषणतया भासेते । भेदस्तु निर्धार्यपदार्थस्य विशेष्यीभूयप्रकृत्यर्थविशेषणतया प्रकृत्यर्थनिरूपितविशेष्यतापन्नः सन् गुणक्रियादिरूपान्यतमावच्छेदकधर्मावच्छिन्नविशेषणतया च भासते । एवं च नराभिन्नः क्षत्रियः क्षत्रियान्यतमशूरतमाभिन्न इत्यन्वयबोधः। क्षत्रियेण रामत्वं शुरतमत्वावच्छेदेनान्वेतीभ्युपेयम् । तेन 'नराणां क्षत्रियो गौर' इति न प्रयोगः । गौरत्वावच्छेदेन क्षत्रियान्यनरान्यत्वस्य बाधात्। अभेदस्य षष्ठयर्थत्वाभावे 'घटानां क्षत्रियो गौर' इति 'नरः शूस्तम' इति प्रयोगापत्तिः । क्षत्रियान्यघटान्यशूरतमस्य सत्वात् । अभेदस्य संसर्गविधया भानं तु न २६ द० ५० Page #231 -------------------------------------------------------------------------- ________________ २०२ दर्पणपरीक्षासहित भूषणसारे दर्पणः अत्र वदन्ति-शास्त्रस्य गौणे प्रवृत्त्यनभ्युपगमे स्वादीनां फलत्वेनाभिमते गत्यभावे धात्वर्थव्यापारजन्यत्वाभायेन तद्घटितमुख्याकर्मकत्वाभावात्ततो भावे कर्त्तरि च प्रत्ययानुपपत्तिरेवं वारयतेः संयोगानुकूलव्यापाराऽभावानुकूलव्यापारार्थकतायाः सर्वसम्मततया तस्यापि मुख्यसकर्मकत्वाभावेन ततोऽपि कर्त्तरि कर्मणि च लकाराधनपपत्तिरतो गौणेऽपि शास्त्रविषयताऽवश्यमभ्युपेतव्येति न घट जानातीत्यादीनां विषयत्वलक्षणायामप्यसाधुता । ___ वस्तुतस्तु शक्तिः कारकमितिपक्षस्य तन्मतेऽतिसुप्सु व्यवस्थितत्वेन द्वितीयाया विषयत्वान्वय्याधेयत्वबोधकत्वेऽपि न क्षतिः । तादृशस्थले विषयरूपफलस्य धात्व. र्थपरतायाः प्रागुपपादनात् तन्मतेऽप्युक्तनियमविरोधस्य निषेधविषयतायाश्चाऽसम्भवादित्यलम् ॥ २४॥ इति श्रीभूषणसारदर्पणे सुबर्थनिर्णयः ॥ ३॥ परीक्षा सम्भवति । 'नराणां क्षत्रिय' इत्यादौ समानविभक्तिकपदोपस्थाप्यत्वस्य विरहात्। निर्धार्यपदार्थतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकश्च भेदोभासत इत्यभ्युपेयम् । तेन 'नराणां प्रमेयः शूरतम' इति न प्रयोग इत्याहुः । तन्न । 'नराणां क्षत्रियः क्षत्रियः' इति प्रयोगापत्तेः । किन्तु निर्धारकधर्मनिर्धारणावध्योावृतत्वाख्यः सम्बन्धः, अभेदश्च विभक्त्यर्थः । नरपदमत्र नरत्वेन रूपेण क्षत्रियस्तदन्यतरघटितसमुदायोपस्थाकम् । व्यावृतत्वं चाभावप्रतियोगित्वं तत्राभेदसम्बन्धेनान्वयि, विधेयबोधकपदसमभिव्याहारे ऽभावोऽन्योन्याभावो ग्राह्यः । 'नराणां क्षत्रिये शौर्य्यम्' इत्यादौ भेदसम्बन्धेवान्वयि बोधकं पदसमभिव्याहारे त्वत्यन्ताभावो बोध्यः । भेदे च प्रकृत्यर्थस्यउद्देश्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदविशिष्टप्रकृत्यर्थतावच्छेदकव्यापकत्वविशिष्टाधिकरणताधेयतासम्बन्धेनान्वयः। उभयत्र वैशिष्ट्यनियामकः सम्बन्धःसामानाधिकरण्यम्। तादृशव्यावृतत्वस्य चोद्देश्यतावच्छेदकभेदविशिष्टविधेयतावच्छेदकसमाना. धिकरणाश्रयतासम्बन्धेन विधेयेऽन्वयः। अभेदस्य विभक्त्यर्थत्वन्तु 'नराणां दैत्यः शूरतम इत्यादेरापत्तिवारणाय 'नराणां क्षत्रिये शौर्यम्' इत्यादौ भेदसम्बन्धेनान्वयिबोधकसमभिव्याहारे तूद्देश्यतावच्छेदकमभेदविशिष्टाश्रयतासम्बन्धेन विधेयेऽत्यन्ताभावप्रतियोगित्वरूपव्यावृतत्वस्यान्वयः। अत्रापि सामानाधिकरण्यसम्बन्धेन वैशिष्टयं ग्राह्यम् । यद्वा द्विविधस्य व्यावृतत्वस्य यथायथं विधेयतावच्छेदके विधेये वान्वयः । तेन नराणां क्षत्रिये प्रयेयमित्यनयो पत्तिः। एवं च नराभिन्नः क्षत्रियो नरव्यावृत्तशूरतमाभिन्न इति रीत्या बोधः। 'रुदति रुदतो वा प्रावाजी! इत्यत्र “षष्ठी चानादरे" इति सूत्रेण षष्ठीसप्तम्यौ अनादरविशिष्टं प्रव्रजनं धात्वर्थः । वैशिष्टयमत्र सामाना. धिकरण्यस्योत्तरकालिकत्वाभ्यां पुत्रादेरितिपदस्याध्याहारः । ज्ञाप्यज्ञापकभावाः षष्ठीसप्तम्योरर्थः । तथाच-रोदनकर्तृपुत्रादिज्ञाप्यमनादरविशिष्टं प्रव्रजनमिति बोधः । रोदनकभिन्नस्य ज्ञापकत्वबोधे रोदनकालावच्छिन्नत्वं क्रियायां प्रव्रजनरूपायामल्लभ्यत इत्यादि अधिकमन्यत्र द्रष्टव्यम् ॥२४॥ __इति श्री सुबर्थनिर्णयविवरणम् ॥३॥ Page #232 -------------------------------------------------------------------------- ________________ ॥ अथ नामाऽर्थनिर्णयः ॥ एकं द्विकं त्रिकं चाऽथ चतुष्कं पञ्चकं तथा ॥ नामाऽर्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥ २५ ॥ नामार्थानाह एकं जातिः लाघवेन तस्या एव वाच्यत्वौचित्यात् । अनेकव्यक्तीनां वाच्यत्वे गौरवात् । दर्पणः अथ नामार्थनिर्णयः । क्रमप्राप्तं नामार्थनिरूपणमित्याशयेनाह - * नामार्थानिति । *जातिरिति । तत्तत्पदार्थाऽसाधारणो धर्म इत्यर्थः । तेनाऽभावत्वाकाशत्वादीनां नित्याऽनेकसमवेतत्वरूपजातित्वाभावेऽपि न क्षतिः । एतस्यैव शास्त्रे स्वार्थपदेन व्यवहारः । जातेः पदार्थत्वे मानं तु – “जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" ( पा० सू० १ । २।५९ ) इति सूत्रे “सवर्णे ऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणात् सिद्धम् ” इति वार्त्तिकम् । “ आकृति वाजप्यायनः” इति सरूपसूत्रस्थं भाष्यं च । युक्तिमप्याह-*लाघवेनेति । एकाश्रयकशक्तेरेकस्या एव सम्भवादिति भावः । ननु शक्तिग्राहक शिरोमणिना व्यवहारेण व्यक्तावेव तत्परिच्छेदात् कथं जातौ तत्सिद्धिरत आह-*अनेकव्यक्तीनामिति । पूर्वव्यवहारेण व्यक्तौ शक्तिग्रहेऽप्यानन्त्यात् तावतीषु शक्तिग्रहासम्भवात्तत्तदाश्रयभेदभिन्ननाना शक्तिकल्पने गौरवात् ; पश्चाज्जातावेव निर्द्धार्य्यते इत्यर्थः । परीक्षा अथ नामार्थनिरूपणम् । सुपां प्रातिपदिकप्रभृतित्वात्तन्निरूपणे प्रातिपदिकानां स्मृतत्वात्प्रसङ्गसङ्गत्या तेषामर्थानाह - * एकमित्यादिना । अकमित्यस्य मतभेदेन विभिन्नार्थत्वं वर्णयति*एकं जातिरिति । अत्र जातिपदं तत्तन्नाम्नो यद्यत्प्रवृत्तिनिमित्तं तत्तत्परम् । तेन परमतेऽभावत्वाकाशत्वादेर्जातित्वाभावेऽपि न क्षतिः । जातेर्वाचकत्वे मानन्तु “जात्याख्याम्” इति सूत्रं “सवर्णेऽण् ग्रहणमपरिभाष्यमा कृतिग्रहणात्” इति वात्तिकं भाष्यं च यद्यप्यस्ति तथापि तत्र युक्तिमाह – लाघवेनेति । एकस्य वाच्यत्वे निरूपकैक्येन शक्तेरप्यैक्यस्य सिद्धिः । लाघवं द्रढयति -*अनेकेति । यद्याप्याद्यशक्तिग्रहो व्यवहाराद्भवति । व्यवहारश्च व्यक्तिविषयक एवं । तथापि गौरवात्तत्याग इति भावः । नचैवं घटोऽस्तीत्यादिशब्दाद्व्यक्तिबोधानापत्तिरिति वाच्यम् ? लक्षणया व्यक्तिभानस्य सम्भवात् । शक्यतावच्छेदिका चास्मिन्पक्षे जातिरेव तादात्म्येनेति न गोपदस्य गोत्वत्वावच्छिन्ने शक्तिकल्पने गवेतरासमवेतत्वे सति सकलगोसमवेतत्वरूपस्य गोत्वत्वस्य शक्यतावच्छेदकत्वापत्तिरित्यस्मिन् पक्षे गौरवमिति, शङ्काऽवसरः । यद्यपि शक्तिग्रहो गौर्गोपदशक्य इत्याकारक एव, तथापि 'सति विशेषणे विधिनि Page #233 -------------------------------------------------------------------------- ________________ २०४ दर्पणपरीक्षासहिते भूषणसारे____ न च व्यक्तीनामपि प्रत्येकमेकत्वाद्विनिगमनाविरहः। एवं हि एकस्यामेव व्यक्तौ शक्त्यभ्युपगमे व्यक्त्यन्तरे लक्षणायां स्वसमवेताश्रयत्वं संसर्ग इति गौरवम् । जात्या तु सहाश्रयत्वमेव संसर्ग इति लाघवम् । किञ्चौवं विशिष्टवाच्यत्वमपेक्ष्य 'नागृहीतविशेषण' दर्पणः .. एकव्यक्तिविषयकशक्तिज्ञानादपरव्यक्तिविषयकशाब्दबोधाऽभ्युपगमे तु गोव्यक्तिविषयकशक्तिज्ञानादश्वविषयकबोधापत्त्या तद्वयक्तिविषयकशक्तिज्ञानस्य तद्वयक्तिविषयकबोधे हेतुताया आवश्यकल्प्यतयैकविषयज्ञानादपरव्यक्तिबोधाऽनुदयापत्त्या सकलव्यक्तिभानाऽर्थं तावद्वयक्तिःषु शक्तिकल्पनायां गौरवस्य स्फुटतया जातावेव शतिकल्पनोचिता । यद्यपि गौर्गोपदवाच्य इति शक्तिग्रहो व्यक्तिविषयकोऽपि, तथापि 'सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाध' इति न्यायेन जातावेव सत्ता परिच्छिनत्ति । यद्वा जातिविशेष्यक एव शक्तिग्रहो गौर्गोपदशक्य इति जातिशक्तिवाद एवमेवाऽभिलापात् । व्यक्तिभानस्य त्वग्रे उपपादयिष्यमाणत्वान्न तदनुपपत्तिरिति भावः ॥ . । विनिगमनेति । एकतरपक्षपातियुक्तिरूपेत्यर्थः । तथाचेयं व्यक्तिः शक्या न जातिरित्येवं प्रत्येकव्यक्तिग्रहे विनिगमकाऽभावः । पूर्वत्र तु व्यक्तिसमुदायस्यैव कोटितया गौरवज्ञानस्यैव बाधकस्य विनिगमकत्वान्न तदभाव इति भावः। तत्पशेऽपि गौरवमेव बाधकमित्याह-*एवं हीत्यादि* ॥ - ननु उक्तविनिगमनाविरहेण सर्वास्वपि व्यक्तिषु शक्तिसिद्धावशक्यव्यक्तेरभावेन न तदानाय व्यक्तिवृत्तिकल्पनेति व्यक्तिशक्तिवादपक्षो निर्दुष्टोऽत आह-किज्चैवमिति । यद्वा ननु गोत्वादिजात्यनुगतीकृतयावद्वयक्तिषु शक्तिस्वीकारान्नाऽऽनन्त्यादिदोषोऽत आह-किञ्चैवमिति । एवम्-विशिष्टे शक्त्यभ्युपगमे । *नागृहीतेति* । 'नागृहीतविशेषणा बुद्धिर्विशेष्यमधिगच्छति' इतिन्यायशरीरम् । विशेषणवि. षयबुद्धिर्विशेष्यं नाऽवगाहत इति तदर्थः। विशेष्यविषयकत्वस्य विशेषणविषयकत्वनियतत्वमिति यावत् । तथाच विशिष्टशक्तिवादे विशिष्टशक्तिग्रहस्य विशेषणवि. षयकत्वावश्यकतया तदुभयविषकत्वस्य पदार्थोपस्थित्यादिकारणताऽवच्छेदकत्वकल्पनापेक्षया विशेषणविषयकत्वमात्रस्यैव तदवच्छेदकत्वकल्पनापेक्षया विशेषणविषयक त्वमात्रस्यैव तदवच्छेदकत्वकल्पनलाघवादुचितेति जातादेव शक्तिः सिद्धयतीति भावः।। परीक्षा षेधौ विशेषणमुपसंक्रामतः, सति विशेष्ये बाधे" इति न्यायेन 'शिखी ध्वस्तः' इत्यत्रेव जातावेव तां परिच्छिनत्ति-*प्रत्येकमेकत्वादिति । तथा चैकव्यक्तिमादायैव व्यक्तिर्वाच्या जातिवेंति विनिगमनाविरह इति भावः । नात्र विनिगमनाविरहोऽन्यतरसाधकयुक्तेर्लाघवस्य सत्त्वादित्याह-*एवं हीत्यादिना । *व्यक्त्यन्तर इति । व्यक्त्यन्तरस्य शाब्दबोधविषयताया उपपत्तय इत्यादिः । *संसर्ग इति*। 'शक्यसम्बन्धो लक्षणा' इति नैयायिकरीत्येदम् । ननु नैकस्मिन्नेव जात्याश्रये शक्तिः, किन्तु जात्यानुगतीकृतासु सर्वासु शक्तिरिति नाशक्यभानस्वीकारे गोपदादश्वस्यापि बोधापत्तिरत Page #234 -------------------------------------------------------------------------- ________________ । .. नामाऽर्थनिर्णयः। न्यायाजातिरेव वाच्येति युक्तम् ॥ व्यक्तिबोधस्तु लक्षणया। एवञ्च तत्र विभक्त्यर्थाऽन्वयोऽप्युपपद्यत इति दिक् । दर्पणः ... नन्वेवं 'गां दद्याद् 'ब्रीहीनवहन्ति' इत्यादौ दानावहननकर्मत्वाद्यन्वयानुपपत्तिजर्जातेस्तदन्वयायोग्यत्वादिति चेद् ?' अत्र केचित्-जात्याक्षिप्तव्यक्तावेव दानादिकमत्वान्वय इति, तन्न । प्रत्ययानामिति व्युत्पत्तरप्रकृत्यर्थव्यक्तौ तदन्वयासम्भवात् । तदुक्तम् गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्तरैविभक्त्या वा धूमोऽयं ज्वलतीतिवत् ॥ इति । किञ्चाऽयमाक्षेपोऽर्थापत्तिः समानसंवित्सवेद्यत्वं वा । नाद्यः । अनुपपत्तिमन्तरेणाऽपि गौरस्तीत्यतो गोत्वविशिष्टबोधात् । नान्त्यः । जातिविषयकशक्तिग्रहस्य विशिष्टविषयकबोधहेतुत्वाऽभ्युपगमेन जातिविषयताया व्यक्तिविषयतानयत्वरूपो वाच्योऽन्यस्यासम्भवात् । स च गोत्वमस्तीत्यत्र गोत्वविशिष्टाप्रत्ययादू व्यभिचरित इत्युक्ताऽनुपपत्तिर्दुर्वार वेत्यत आह-*व्यक्तिबोधस्त्विति*। *लक्षणयेति*। स्वशक्यगोत्वाऽऽश्रयत्वसम्बन्धरूपलक्षणयेत्यर्थः। तथाच पदवृत्तिजन्योपस्थितेरेव शाब्दबोधे हेतुतया व्यक्तेरशक्यत्वेऽपि लक्षणावृत्त्युपस्थितायां तस्यां नावघातादिकर्मत्वान्वयानुपपत्तिरिति भावः ॥ - *एवञ्चेति ॥ लक्षणाऽभ्युपगमे चेत्यर्थः ॥ तत्र-लक्षितव्यक्तौ ॥ *उपपद्यत इति ॥ अन्यथा 'प्रत्ययानाम्' इति व्युत्पत्तेः स नोपपद्यतेति भावः । ननु व्यक्तिलक्षणाभ्युपगमे युगपद्वृत्तिद्वयविरोध इति सिद्धान्तभङ्गः ।गौरस्तीतिवाक्यादनुभूयमानव्यक्तिबोधानुपपत्तिश्च । लक्षणाबीजस्यान्वयानुपपत्तेस्तत्राभावादत आह-दिगिति* ॥ परीक्षा आह-*किञ्चैवमिति । *न्यायादिति । नागृहीतविशेषणाबुद्धिर्विशेषे चोपजायते। विशेष्यं नाभिधागच्छेत् क्षीणशक्तिविशेषणे॥१॥ .' इति न्यायादिति भावः। नन्वेवं 'गां दद्यात्' 'व्रीहीनवहन्ति' इत्यादौ क्रियान्वयः कथमत आह-*व्यक्तिबोध इति*। *एवं च*-व्यक्तो लक्षणाऽभ्युपगमे च । *उपपद्यत इति । 'प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम्' इति न्यायविरोधाभावेनेत्यादिः । ननु गौरस्ति 'गामानयाइत्यादितो जातिव्यक्त्युभयविषयकशाब्दबोधोऽनुभवसिद्धस्तदुपपत्तये युगपत्सर्वत्र शक्तर्लक्षणायाश्च कल्पनीयत्वं स्वीकार्यम्, तथाच युगपवृत्तिद्वयाङ्गीकारापत्तौ विरोध इति । दिगिति* । दिगर्थस्तु युगपत्तिद्वयं विशिष्टवादिना 'गङ्गायां मीनघोषौ स्त' इत्यत्रावश्यमङ्गीकार्यमिति तयोविरोधे मानाभावः। एकस्मिन्काले तयोस्र्थप्रतिपादकत्वमिति नास्ति । एकस्मिन्तयोरसत्त्वमिति त्वस्माभिरपि स्वीक्रियत इति । “प्रातिपदिकार्थलिङ्गपरिमाण” इति सूत्रे च प्रातिपदिकार्थपदेन च प्रवृत्तिनिमित्तस्यैव ग्रहणमिति । नचैतन्मात्रस्य न शाब्दबोधे भानमित्यसम्भव इति वाच्यम् ? 'प्रातिपदिकार्थमात्र' इत्यस्य प्रातिपदिकार्थनिष्टा या शक्त्यवच्छिन्नाजनकता तन्निरू, पिता योपस्थितिनिष्ठा जन्यता तव्यापकविषयिता प्रतियोगिनोऽर्थस्य ग्रहणेन लक्षणायाः शक्तिभाननैयत्येऽपि विरोधाभावादिति दिक् । Page #235 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - २०६ यद्वा केवलव्यक्तिरेव एकशब्दाऽर्थः । केवलव्य क्तिपक्ष एवाणूग्रहणस्यैकशेषस्य चारम्भेण तस्यापि शास्त्रसिद्धत्वात् दर्पण: युक्तं चैतदर्थस्तु सति तात्पय्यें 'गङ्गायां घोषमत्स्यौ स्त' इत्यत्र वृत्तिद्वयस्य सर्व्वेरेवाभ्युपगमात्तादृशन्यायो, युगपच्छक्तिस्तात्पर्याऽविषये लक्षणा च नेत्येवंपर इति न तद्विरोधः । तात्पर्यानुपपत्तिसत्त्वाच्च न व्यक्तिलक्षणानुपपत्तिः । तद्विरोधाभ्युपगमे तु जातिव्यक्त्योरभेदपक्षमुपगम्य विभक्त्यर्थान्वय उपपाद्यः । तदुक्तम् — तेन तल्लक्षितव्यक्तेः क्रियासंबन्धचोदनात् । जातिव्यक्त्योरभेदो वा वाक्यार्थेषु व्यवस्थितः ॥ इति । वस्तुतस्तु जातिधर्मिकशक्तिग्रहस्य जातिविशिष्टव्यक्तिशाब्दबोधे हेतुत्वकल्पनान्न व्यक्तिभानानुपपत्तिर्नाप्यशक्यभानापत्तिस्तस्य तद्वैशिष्ट्या भावादिति जातिशक्तिवादनिष्कर्षः । वक्ष्यते चाऽधिकमुपरिष्टात् ॥ अन्ये तु जातिशक्तित्ववादमित्थमुपपादयामासुः । माऽस्तु व्यक्तेर्भानम् । आनयनादिक्रिया केवलायां जातवसम्भवन्ती व्यक्तिसाहित्येन निष्पाद्यते । समाहारे पाणिपादसाहित्येन वादनक्रियावत् । तदुक्तं " तद्धितार्थे” ( पा०सू २।१।५१ ) इति सूत्रे भाष्ये - " आकृतावालम्भनादीनां सम्भवो नास्तीति कृत्वा तत्सहचरिते द्रव्ये भविष्यति । यथाऽग्निरानीयतामित्युक्ते केवलस्याग्नेरानयनासम्भवादचोदितमपि पात्रमानीयते । एतदेवाऽग्नेरानयनं यत्पात्रस्थस्य तथाऽऽकृतावालम्भनादीनि चोद्यमानानि सामर्थ्यात् साहचर्य्याद् द्रव्येऽभिनिविशन्ते । सर्व एवाऽकृतेर्योगोऽन्तर्भावितव्याया इति द्रव्यद्वारकः सम्बन्धः सम्पद्यत" इति । साहचर्य्यं सम्बन्धः । सरूपसूत्रे भाष्येऽपि स्फुटोsयमर्थः । हरिरप्याह 1 व्यक्तौ कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते । इति ॥ गोत्वादिपदानां तु गोत्वादिधर्मिवृत्तिधर्म एव शक्तिरिति न तत्र गोविशेष्यको बोधः । जातेराश्रयाऽवियोगेऽपि केवलायास्तस्याः शब्दवाच्यत्वं नानुपपन्नम् । जessay esमानस्य मुखस्य स्वस्थानाऽवियोगेऽपि मुखादिपद बोध्यत्ववत् । शक्यतावच्छेदकता तु जातिगतधर्मस्यवेति ॥ इदमपि मतं जात्या व्यक्त्याक्षेपे पर्यवस्यति । तच्च न चापदार्थे प्रत्ययान्वय इति दूषणग्रस्तम् । विनाऽपि सङ्केतविषयतां सामान्येन सम्बन्धनियमादर्थाऽध्याहारन्यायेनोपस्थितां व्यक्ति पुनर्जातिर्विशिनष्टि । रूपादिज्ञानविषयाणां चक्षुरादीनां चक्षुषयामीति प्रतीत्या विषयीकरणवदित्यपि केचित् ॥ शक्यसम्बन्धरूपाया लक्षणाया एकस्या लक्ष्यलक्षणतावच्छेदकयोरसम्भवेऽपि लक्ष्यार्थप्रतीतौ लक्ष्यतावच्छेदकभानवच्छक्यतावच्छेदके शक्यावभानेऽपि तादृशकार्यकारणभावबलादेव गोत्वादिभाननिर्वाहे कृतं तत्र शक्तिकल्पनयेत्याशयेनैकपदमन्यथा व्याचष्टे-*यद्वेति । व्यक्तिरेवेत्यनेन जातिव्यवच्छेदः । 1 ननु सवर्णेऽण् ग्रहणमित्यादिप्रामाण्यादस्तूक्तः पक्षः । व्यक्तिः पदार्थ इत्यत्र तु किं मानमत आह-* केवलव्यक्तीति । एकशेषस्य चेति । जातिपक्षे एकेनैव शब्देन परीक्षा मतान्तरमाह -* यद्वेति । * एकशेषस्य चेति । अत एव प्रत्यर्थं शब्दनिवेशान्नै Page #236 -------------------------------------------------------------------------- ________________ नामाऽर्थनिर्णयः । तत् । व्यवहारेण व्यक्तावेव तद्ग्रहणात् । सम्बन्धितावच्छेदिकाया जातेरक्याच्छक्तिरप्येकैवेति न गारवमपि । २०७ नचैवं घटत्वमपि वाच्यं स्याच्छुक्यतावच्छेदकत्वात् । तथाच 'नाऽगृहीतविशेषणन्यायात् तदेव वाच्यमस्त्विति शङ्कयम् । अकारणत्वेऽपि कारणतावच्छेदकत्ववदलक्ष्यत्वेऽपि लक्ष्यतावच्छेदकत्ववत्तयात्राऽपि सम्भवात् । उक्तश्च आनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् । दर्पणः द्वयोर्बहूनां वा प्रत्यायनसम्भवात् तदनर्थकं सद् व्यक्तिपक्षज्ञापकमित्यर्थः । अण्ग्रहणस्य भाष्यकृता प्रत्याख्यानात् सरूपसूत्रस्य च शास्त्रीयप्रक्रियामात्रोपयोगित्वस्याऽकरे व्यवस्थापनात् कथमुक्ताऽर्थं तयोः प्रामाण्यमत आह-* युक्तञ्चैतदिति ॥ सयुक्तिकमप्येतदित्यर्थः । अपिना 'द्रव्याऽभिधानं व्याडिः' इति सरूपसूत्रस्थभाष्यप्रा माण्यं समुच्चीयते । युक्तिमेवाह-व्यवहारेणेति ॥ एतत्तत्वं शक्तिवादे वक्ष्यते । एतत्कल्पे पूर्वोक्तं शक्त्याऽऽनन्त्यदोषं समुद्धरति*सम्बन्धितावच्छेदकस्येति । शक्तिग्रहे धम्मिताऽवच्छेदकस्येत्यर्थः, लिङ्गसर्वनाम - नपुंसकत्वादुद्देश्यसमर्पकत्वाद्वा न तत्त्वाऽनुपपत्तिः । तथाच सम्बन्धितावच्छेदकजात्यनुगतीकृतनानाव्यक्तिष्वेकधर्मावच्छिन्नाया एकस्या एव शक्तेरुपगमान्न तन्नानात्वप्रयुक्त गौरवमिति भावः ॥ *एवमिति* । विशिष्टे शक्तित्वस्वीकारे इत्यर्थः । घटत्वादेर्घटादिनिष्ट शक्यता - वच्छेदकत्वाभ्युपगम इति यावत् ॥ तदेव-घटत्वाद्येव, वाच्यम् - शक्यमित्यर्थः । शक्यत्वे हेतूपन्यसनम् - न्यायादिति । अकारणत्वेऽपीति । दण्डत्वाऽऽदीनामन्यथासिद्धत्वेनाकारणत्वेऽपि, तीरत्वादीनां प्रवाहाद्यऽसम्बन्धितया लक्ष्यत्वेऽपि च तत्र तन्निष्टाऽवच्छेद्यतानिरूपितस्वरूपसम्बन्धाऽऽत्मिकाया विषयिताविशेषाऽऽत्मकाया वा अवच्छेदकताया अभ्युपगमवदशक्यस्यापि घटत्वादेस्तादृशशक्यतावच्छेदकत्वसम्भवात् । शक्यत्वे सति शक्यविशेषणतापन्नस्य शक्यतावच्छेदकत्वमिति नियमे मानाभावादिति भावः । उक्तेऽथेंसम्मतिमाह—*उक्तञ्चेति* | *आनन्त्येऽपीति । भावानां व्यक्तीनां परीक्षा केनानेकार्थाभिधानमिति भाष्ये उक्तम् । एतत - * व्यतिरेवैकशब्दार्थ इत्येतत्कल्पनम् । *तद्गहणात्*— शक्तिग्रहणात् । नन्वेवं व्यक्तीनामानन्त्यादाश्रयभेदेन शक्तेर्भेदापत्तिरत आह-* सम्बन्धितावच्छेदिकाया इति । एवम् — जातेः शक्यतावच्छेदकत्वे । *तदेव* - घटत्वादिरूपशक्यतावच्छेदकमेव । जात्यादिधर्मस्य वाच्यतां विना वाच्यतावच्छेदकत्वमनुपपन्नमितिः पदार्थोपस्थितिं प्रत्युभयविषयकशक्तिज्ञानत्वेन कारणत्वकल्पनापेक्षया जातिशक्तिज्ञानत्वे कारणत्वे लाघवमिति भावः । तथाऽत्रापि सम्भवात् । अशक्यत्वे ऽपि शक्यतावच्छेदकत्वसम्भवात् । उक्तं चेति । हरिणेति शेषः । *आनन्त्येऽपीति — भावानां व्यक्तोनामानन्त्येऽप्येकं जातिरूपं धर्ममुपलक्षणं Page #237 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यति ॥ इति ॥ दर्पणः नानात्वादपरिच्छेद्यत्वेऽपि । एकमू-अनुगतजात्यादिधर्मम् । *उपलक्षणम् - अशक्यत्वेऽपि शक्यव्यावर्त्तकं, *कृत्वा * - अभ्युपगम्य, शब्दो - गवाद्यात्मकः, *सुकरसम्बन्धः * - सुग्राह्यगवादिनिष्टवाच्यतासम्बन्धः । *न चेति । शक्तिग्रहाऽविषयव्यक्ति बोधयिष्यतीति तदर्थः । गोत्वादिसामान्यलक्षणया सर्वास्त्रेव व्यक्तिषु शक्त्यवधारणादिति भावः । अधिकम वक्ष्यते ॥ व्यक्तिरेवाsत्र द्रव्यपदेन व्यवहियते सर्वनामपरामर्श योग्यत्वात् । उक्तञ्चवस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । व्यमित्युच्यते सोऽर्थी भेद्यत्वेन विवक्षिते ॥ इति । परीक्षा वाच्यतावच्छेदकं कृत्वा सुकरसम्बन्धः शब्दो भवति । न च व्यभिचरिष्यतीति* । पदार्थोपस्थितिनिष्ठकार्यतानिरूपिता या शक्त्यवच्छिन्ना शब्दनिष्ठा कारणताव - च्छेदकता तस्यां न च व्यभिचरिष्यतीत्यर्थः । तद्धर्मप्रकारकोपस्थितिं प्रति तद्धर्मावच्छिन्नशक्तशब्दज्ञानत्वेन कारणतेति कार्यकारणभावसम्भवादिति भावः । ननूतपक्षद्वयमभ्युपपन्नम्, तथाहि - जातौ शक्तिरिति जातिविशिष्टविषयको पस्थितिं प्रति जातिशक्तिज्ञानं कारणमिति हि कार्यकारणभावो वाच्यः । तथा सति गोत्वं पदं गोत्वे शक्तमिति ज्ञानादपि गोत्वविशिष्टविषयकबोधापत्तिः । न च किञ्चिदनवच्छिन्नगोत्वनिष्ठविषयताकशक्तिग्रहस्य गोत्वविशिष्टविषयकशाब्दबुद्धि प्रति हेतुत्वं कल्प्यते । उक्तशक्तिग्रहे तु गोत्वनिष्ठा विषयता गोत्वत्वावच्छिन्नेति नोक्तापत्तिरिति वाच्यम् ? निरवच्छिन्नगोत्वनिष्टविषयताकशक्तिग्रहस्य गोत्वं न गोपदशक्यमित्याकारकगोत्वत्वावच्छिन्न विषयकशक्तिग्रहस्यव हेतुताया आवश्यकत्वात् । न च गोपदत्वावच्छिन्न विशेष्यतानिरूपितशक्तिसम्बन्धावच्छिन्ननिरवच्छिन्नगोत्वप्रकारताकं गोपदं गौरिति ज्ञानं गोत्वप्रकार कशाब्दबोधे हेतुरिति न बाधग्रहकाले शाब्दबोधापत्तिरिति वाच्यम् ? गोपदं गौरित्याकारकस्य शक्तिग्रहस्य गोत्वप्रकार कशाब्दबोधहेतुत्वे कदाचित् समवाये गोत्वविशिष्टबोधः, कदाचित् कालिकसम्बन्धेन गोत्वविशिष्टबोध इति व्यवस्थाया अनुपपत्तेः । विशिष्टशक्तिवादे तु- समवायेन गोत्वविशिष्टविषयकशक्तिग्रहः समवायेन गोत्वप्रकारको कालिकसम्बन्धेन गोत्वविशिष्टविषयकशक्तिग्रहः कालिकसम्बन्धेन गोत्वप्रकारबोधे हेतुरिति व्यवस्थायाः सम्भव इति । किं च केवलव्यक्तिवादोऽपि न युक्तः, गोः शुक्लश्च लो डित्थः इति सहप्रयोगानुपपत्तेः । शक्यतावच्छेदकधर्मभेदादेवप्रयोग इति तु न, अशक्यस्य शक्यतावच्छेदकत्वानुपपत्तेः । अन्यथा द्रव्यत्वस्यापि गोपदशक्यतावच्छेदकत्वापत्तिः । • २०८ अपि च यस्मिन् हस्तिपके हस्तिनः सम्बन्धग्रहस्तस्यैव हस्तिपकस्य हस्तिनि पृष्ठे स्मरणम्, न तु हस्तिपकान्तरस्येत्यनुभवसिद्धम् । तथाच तद्व्यक्तिविषयकस्मृतौ तद्व्यक्तिविषयकसम्बन्धग्रहस्य कारणतावश्यं वाच्येति व्यक्तिवादे यत्किञ्चिgrat शक्तिग्रहात् व्यक्त्यन्तरस्य बोधानापत्तिरतो विशिष्टशक्तिवाद एव युक्त इत्या Page #238 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः। २०९ दर्पण स्वभावादेव बुद्धिविषयतावच्छेदकत्वोपलक्षिततत्तद्धर्माऽवच्छिन्नबोधकं सर्वनाम यस्मिन् धर्मिणि तादृशधर्म प्रवृत्तिनिमित्तीकृत्य प्रयुज्यते । इदं तदिति परामर्शयो. नयमिति यावत् । द्रव्यपदेन व्यवहियत इत्यर्थः । भेद्यत्वेन विशेष्यत्वेनेत्यादि तु लक्षणान्तरपरम् । एतत्पक्षे तु जात्त्यादेरपि विशेष्यत्वविवक्षायां द्रव्यत्वमिष्टमेव । तिङन्ताऽर्थक्रियायाः किमादिभिः परामर्शात् स्तोकाद्यर्थनिरूपितविशेष्यतावत्त्वाच्च दव्यत्वमस्त्येव । “विप्रतिषिद्धम्" ( पा०सू० ४।१३ ) इत्यादौ च सामर्थ्यात्तन्त्रान्तरप्रसिद्धद्रव्यग्रहणम् । “चादयोऽसत्त्वे” (पासू० १।४।१७) इत्यत्र प्रथमकल्पोक्तद्रव्यस्यैव पर्युदासो बोध्यः । शक्यतावच्छेदकत्वं च शक्यनिष्ठविशेष्यताऽवच्छेदकतया भासमानत्वम्। घटाऽऽदिपदे शक्तिग्रहे च घटत्वाऽऽदेरेव तत्त्वम्, न पृथिवीत्वादेरिति न तेभ्यः न पृथिवीत्वादिबोधः । आकाशशब्दस्य शब्दाश्रयत्वे शक्त्यभावेऽपि ततस्तद्रूपेणैव बोधः। तद्विशिष्टशक्तिग्रहस्य तद्बोधहेतुत्वात् । यद्वाऽऽकाशत्वमखण्डोपाधिः । वृद्धिसूत्रोक्तरीत्या तत्पदं वाऽऽकाशशब्दशक्यतावच्छेदकमिति 'नाकाशः शब्दाश्रय' इति प्रयोगानुपपत्तिरिति द्रव्यवादनिष्कर्षः । ननूक्तपक्षद्वयमपि न विचारसहम् । तथाहि-जातिशक्तिवादे गोत्वादिपदात्तद्विशिष्टबोधापत्तिर्गोत्वशक्तिग्रहस्य तद्विशिष्टबोधौपयिकस्य सत्त्वात् । न च निर्धर्मितावच्छेदकशक्तिग्रहो गोत्वविशिष्टबोधे हेतुर्गोत्वत्वधर्मितावच्छेदकशक्तिग्रहश्च गोत्व. त्वेन तदुपस्थितौ शाब्दबोधे च हेतुरिति वाच्यम् । गोत्वं न गोपदशक्यमिति गोत्वत्वधर्मितावच्छेदकबाधग्रहकाले निर्धर्मितावच्छेदकशक्तिग्रहसम्भवेन गोत्वविशिष्टबोधापत्त्या गोत्वत्वधर्मितावच्छेदकशक्तिग्रहस्य तादृशबोधहेतुताया आवश्यकत्वात् । - यदि च गोत्वे निरवच्छिन्नैव शक्तिः । गोपदं गौरित्याकारकं शक्तिसम्बन्धेन गोत्वप्रकारकं गोपदत्वविशिष्टविषयकं शक्तिज्ञानं गोत्वविशिष्टबोधहेतुरिति नोक्तबोधकाले शाब्दबोधापत्तिरिति विभाव्यते तदापि कदाचित् समवायेन गोत्वविशिष्टबोधः, कदाचित् कालिकादिसम्बन्धेनेति व्यवस्थाऽनुपपत्तिः। गोत्वविषयकशक्तिज्ञानस्याविशिष्टत्वात्। मन्मते तु समवायेन गोत्वविशिष्टविषयकशाब्दबुद्धिं प्रति तेन सम्बन्धेन गोत्वविशिष्टशक्तिग्रहस्य एवमितरसम्बन्धेन तादृशविशिष्टविषयकबोधे तेन सम्बन्धेन तादृशविशिष्टशक्तिज्ञानस्य हेतुतया तन्नियमोपपत्तेः । गोपदादू गौरित्याकारकशक्तिग्रहात् तादृशबोधाऽननुभवाच्च गोत्वादिपदानां गोत्वत्वे शक्तिरित्यपि न। प्रकृतिजन्यबोधप्रकारे भावप्रत्ययविधानात् गवेतराऽसमवेतत्वविशिष्टसकलगोसमवेतत्वरूपस्य गुरोः शक्यत्वाऽभ्युपगमे लाघवमूलकाऽऽकृतिवादस्य मूलशैथिल्यापत्तेश्च । व्यक्तिवादेऽपि पदमात्रस्यैव व्यक्तिबोधकत्वाऽविशेषत्वात् । गौश्च नील इत्यादीनां सहप्रयोगाऽऽनुपपत्तिः। . किञ्च हस्तिपकव्यक्त्यन्तरे सम्बन्धग्रहे यत्र हस्तिपके सम्बन्धो न गृहीतस्तस्यापि हस्तिदर्शने स्मरणाऽऽपत्त्या तव्यक्तिविषयकसम्बन्धग्रहस्य तदुपस्थितिनियामकत्वस्यावश्यकतया कथमेकविषयकशक्तिज्ञानादपरविषयकोपस्थितिः। सामान्य २७ द० प० Page #239 -------------------------------------------------------------------------- ________________ २१० दर्पणपरीक्षासहिते भूषणासरेवस्तुतस्तु, "न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः” इतिभाष्याद् विशिष्टं वाच्यम् । दर्पणः लक्षणा त्वापातरमणीयैवेत्यभिप्रायवानाह-वस्तुतस्त्विति । विशिष्टमिति । जातिविशिष्टा व्यक्तिर्व्यक्तिविशिष्टा जातिवेत्यर्थः । यद्यपि “आकृतिपदार्थकस्य द्रव्यं न पदार्थो, द्रव्यपदार्थकस्य चाकृतिर्न पदार्थ' इ. त्युभयोरुभयं पदाऽर्थः" इतिभाष्याद्विशकलितयोरेवाकृतिव्यक्त्योः शक्तिग्रहविषयता लभ्यते, तथापि "कस्यचित् किञ्चिद् गुणभूतं किञ्चित् प्रधानम्" इत्युत्तरभाष्यपर्यालोचनया तत एव विशिष्टे शक्त्यवधारणात् तथोपादानमविरुद्धम् । अन्यथा तृतीयोपात्तैकत्वकरणत्वयोरिव विशेष्यविशेषणभावाऽनापन्नजातिव्यक्त्योः शक्यत्वे गोर्य गोत्त्वं व्यक्तिश्चेति समूहालम्बनबोधापत्तेः। शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां समान प्रकारकत्वनियमात् । एवमेवाऽवयवसंयोगरूपाऽऽकृतौ । तथाच सूत्रितं गौतमेन "जात्याकृतिव्यक्तयः पदार्थः” इति त्रिष्वेकैव शक्तिरिति बोधनाय च तत्रैकवचनम् । "गुणभूतम् इति भाष्यस्य च स्वारसिकतयेति शेषः । जातेः कदाचित् प्राधान्येन भानं तु तात्पर्यग्रहसापेक्षमिति तदाशयः । जातेः प्राधान्येऽपि द्रव्यसंख्यामादाय तत्र द्विव. चनाद्युपपत्तिर्बोध्या । तदुक्तं कैयटेन-'यथा भवत' इत्यादौ क्रियाप्राधान्येऽपि साधनकृतो वचनभेदः, एवमाकृतिप्राधान्येऽपि द्रव्यसंख्याकृत इत्यदोष' इति । द्रव्यप्राधान्येऽपि क्वचिजातिसंख्यामादाय वचनं, 'ब्राह्मणं न हन्यात्' इत्यादौ यथा । जातेः प्राधान्ये च निरवच्छिन्नाया एव व्यक्तः प्रकारताविशेष्यीभूतजात्या च तदनुगमः । न हि प्रका. रीभूतमेवाऽनुगमकमिति नियम इति तत्कल्पपरिष्कारः। वस्तुतस्तु जातिविशिष्टव्यक्तिरेव शक्या। गवादिपदागोविशिष्टगोत्वबोधस्याऽननुभवेनोक्तकल्पाऽसम्भवात् । अत एव तथैव व्याख्यातम् । जात्यतिरिक्तपदाऽर्थस्य किञ्चिद्धर्माऽवच्छिन्नत्वमिति नियमेन निरवच्छिन्नायास्तस्या जात्यशे भानाऽयोगात् । गोत्वस्यऽन्वयितावच्छेदकरूपेणाऽनुपस्थित्या तत्तत्कर्मत्वाऽऽद्यन्वयासम्भवाच्च । 'सम्पन्नो व्रीहिः' इत्यादौ तु स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन प्रकृत्यर्थव्यक्तावेवेवैकत्वान्वयः। उक्तस्थले 'एकवचनोपस्थितानि नानैकत्वानि न नाना व्रीहिष्वन्वीयन्त' इति तु न सत्। सजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपसजातीय परीक्षा शयेनाह-वस्तुतस्त्विति । विशिष्टम् -जातिविशिष्टम् । व्यक्तिग्रहाद् व्यक्त्यन्तरस्य बोधानापत्तिरतो विशिष्टशक्तिवाद एव युक्त इत्याशयेन विशिष्टा जातिर्वा । यद्यपि सरूपसूत्रभाष्ये-'नह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः 'द्रव्यपदार्थकस्य चाकृतिर्न पदार्थः इत्युभयोरनुभयं पदार्थ इति ग्रन्थेन विशकलितशक्तिवादो लभ्यते, तथापि कस्यचित किञ्जिदगणभतडिजित्प्रधानमित्यत्तरभाष्यपालोचनाद्विशिष्टे शक्तिरि. त्येव युक्तमिति । यदि परस्परं विशेषणविशेष्यभावानापन्नयोर्जातिव्यक्त्योर्वाच्यत्वं स्यात्तदा 'गोपदाद् गोत्वम्' इति निर्विकल्पकस्मरणस्याप्यापत्तिः । समानविषयकत्वेनानुभवस्मरणयोः कार्यकारणभावादिति विशिष्टशक्तिवाद एव युक्तः । तत्र जातेः प्राधान्येन भाने तात्पर्य्यग्राहकापेक्षाः तदा द्विवचनबहुवचने द्रव्यगत इति तदादाय Page #240 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः । २११ दर्पणः द्वितीयरहित्वस्यैवैकवचनाऽर्थत्वेन तत्र तस्य बाधात् 1 संख्यारूपैकत्वस्य द्रव्यमात्रसाधारण्येनाsर्थत एव लाभादनुपयोगात्तस्यैकवचनाऽर्थत्वाभावाच्च । अत एव "पशुना यजेत" इत्यत्र तादृशैकत्वस्यैकवचनेन विवक्षितत्वान्नाऽनेकपशुकरणकयागाददृष्टसिद्धिः । समभिव्याहृतपदार्थ संसर्गित्वविशिष्टप्र कृत्यर्थतावच्छेदकरूपेण साजात्यस्य विवक्षणाच्च नात्र घटोऽस्तीत्यादौ घटनिष्ठभेदप्रतियोगिताऽनवच्छेदकैकत्वाप्रसिद्धिः । एतद्देशविद्यमानघटनिष्ठ भेदप्रतियोगिताऽनवच्छेदकैकत्वस्यैव तत्र बोधेन तस्योक्तरीत्या प्रसिद्धिसम्भवात् । एवञ्च व्यक्तिविशेष्यकबोधाऽभ्युपगमे क्वाऽप्यनुपपत्तेरभावेन तस्य च तद्विशेष्यकशक्तिग्रहमन्तरेणाऽसम्भवाद्भवादिपदानां जातिविशिष्टव्यक्तावेव शक्तिः । व्यक्तिमात्रविषयकस्य जातिमात्रविषयकस्य वा शक्तिज्ञानस्य जातिविशिष्टव्यक्तिशाब्दबोधहेतुतायामुक्तदोषस्य दुरुद्धरत्वादिति सारनिष्कर्षः॥ अन्ये तु—“उभयोरुभयं पदार्थ" इति भाष्याजातौ व्यक्तौ च गवादिपदानां शक्तिः । परन्तु व्यक्तिशाब्दबोधेऽपि जातिविषयकत्वेन जातिशक्तिज्ञानस्यैव हेतुता । व्यक्तिशक्तिस्तु स्वरूपसत्युपयुज्यते । अशक्यस्याऽपि शाब्दे भानाऽभ्युपगमे गवादिपदादशक्यगवादिव्यक्तेरिवाऽशक्यघटादीनामपि भानापत्या व्यक्तिशक्तिरावश्यकी । अयमेव कुब्जशक्तिवाद इति व्यवहियते । शाब्दबोधकारणतावच्छेदककोटौ व्यक्तिविषयकत्वस्यानिवेशात् । तथाच गोत्वप्रकारकगोविषयकशाब्दबोधे गोत्वविषयक गोपदशक्तिमती गौरित्याकारकशक्तिज्ञानं कारणम्, न तु गोत्वविशिष्टविषयकगोपदशक्तिमति गौरित्याकारकं गोत्वमस्तीत्यादौ तादृशगोत्वप्रकारकशक्तिज्ञानाभावान्न गोत्वविशिष्टबोधप्रसङ्ग इत्याहुः । 1 तदप्यपातमनोरमम् । गोत्वविषयकगोपदशक्तिमती गौरित्याकारकशक्तिग्रहे कारतावच्छेदककोटौ गोत्वविषयकत्वस्य प्रवेशे गौरवात् । ननु माऽस्तु तद्विषयकत्वस्यावच्छेदककोटौ निवेशः । गोपदशक्तिमती गौरित्याकारकशक्तिग्रहस्य गोत्वप्रकारकत्वेन गोत्वविशिष्टविषयकशाब्दबुद्धिहेतुत्वे व्यक्तिविषयतायाः कारणतावच्छेदककोटावनिवेशेन लाघवात् । देशान्तरस्थव्यक्तिविशेष्यकबोधाSनुपपत्त्या समानविशेष्यकत्वेन कार्यकारणभावासम्भवेन समानप्रकारकत्वेनैव कार्यकारणभावोपगमादिति चेत् ? मैवम् । व्यक्तिविषयतायाः कारणतावच्छेदककोटावनिवेशे व्यक्तिशक्तिस्वीकारस्य वैयर्थ्यापत्तेः । न च तदस्वीकारे गोत्वप्रकार कशाक्तज्ञा.. परीक्षा बोधः । व्यक्तौ प्रकारता च निरखच्छिन्ना, नचैकव्यक्तेः प्रकारत्वेऽखिलव्यक्तौ कार्यान्वयो न स्यादिति वाच्यम् ? विशेष्यभूतजात्यानुगतीकृतम्प्रकारत्वमिति तन्मतनिर्णयः । वस्तुतस्तु जातिविशिष्टा व्यक्तिर्वाच्या इत्येव युक्तम् । अत एव जातिप्रकारिकैवोपस्थितिः । नचानेकत्री हितात्पर्य्यकस्य 'सम्पन्नो व्रीहिः । इतिवाक्यस्यानुपपत्तिरिति वाच्यम् ? अनैकवचनार्थस्यैकत्वस्य स्वाश्रयप्रकृत्यर्थतावच्छेदकत्वसम्बन्धेनान्वयस्वीकारात् । शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकत्वेन कार्य्यकारणभावान्न निर्विकल्पक स्मरणापत्तिः । नन्वेवमेकमिति पक्षस्य निरालम्बनात्वापत्तिरत Page #241 -------------------------------------------------------------------------- ________________ २१२ दर्पणपरीक्षासहित भूषणसारेएकमित्यस्य चाऽयमभिप्रायः-शक्तिज्ञानेच विषयतयाऽवच्छेदिका जातिरेकैव । तथाच घटत्वप्रकारकघटत्वविशिष्टबोधे घटत्वांशे ऽन्याप्रकारकघटत्वशक्तिज्ञानत्वेन हेतुतेति कार्यकारणभाव इत्यादि दर्पणः नत्वेन हेतुत्वाऽसम्भवः, व्यक्तौ शक्त्यभावेन तादृशक्तिज्ञानस्य भ्रमत्वादिति वाच्यम् । शक्तिर्हि न स्वरूपसती शाब्दबोधहेतुरपभ्रंशादपि बोधोदयादगृहीतशक्तिकाच्छाब्दबोधापत्तेश्व, किन्तु ज्ञाता। तथाच यदंशे शक्तिज्ञानहेतुस्तदेव शक्यमिति जातिवद् व्यक्तिरपि शक्यैव । एवं तद्वैशिष्टयमपि तथा । अन्यथा व्यक्ताषेव शक्तिर्व्यक्तिशक्तिज्ञाने जातेरपि प्रकारकत्वात् समानप्रकारत्वेन शक्तिज्ञानपदार्थोस्थितिशाब्दबुद्धीनां कार्यकारणभावादिति जातावपि शक्तिरुच्छियेत। ___ नच यविषयकत्वेन शक्तिज्ञानं कारणं तदवश्यं शक्यमिति नियमाजातौ शक्तिः सेत्स्यतीति वाच्यम् ? तर्हि व्यक्तिविषयकत्वेन शक्तिज्ञानस्य हेतुतया व्यक्तिशक्ति. स्वीकारस्यावश्यकत्वादुक्तेऽर्थे भाष्योपन्यसनं तु “कस्यचित् प्रधानभूतं, किञ्चिद् गुणभूतम्" इत्युपसंहारभाष्यानालोचनमूलकमेवेत्यास्तां तावत् ॥ 'नन्धेवमेकमिति पक्षस्य निरालम्बनतापत्तिरत आह-*एकमित्यस्य चेति । बोधकत्वं शक्तिरिति मते बोधकत्वज्ञानविषयबोधांऽशे प्रकारितयावच्छेदकत्वशक्तिरित्यर्थलाभात्तदाश्रयजातेरैक्याच्छब्दनिष्ठबोधकत्वस्यैव विनिगमनाविरहादर्थनिष्ठबोध्यत्वस्याऽपि शक्तित्वमिति मतेऽप्यस्मात् पदादेतदर्थबोधो भवत्विति शक्तिज्ञाननिष्ठशाब्दधीहेतुतायां प्रकारितयावच्छेदिकाया जातेरैक्याद्वा तत्पक्षोपपत्तिरित्यर्थः। तथा च तादृशप्रकारितावच्छेदकतारूपायाः शक्तेर्जातिमात्रनिष्टतयाऽऽकृतिरेव पदार्थ इति पक्षः समर्थितो भवति । अवच्छेदकतायाः स्वरूपसम्बन्धरूपाया घटत्वाद्यात्मकत्वेऽप्यवच्छेद्योऽवच्छेदकभाव उपहिताऽनपहितभेदात समर्थनीय ___ एवमेवैकं व्यक्तिरिति पक्षोऽपि समर्थनीयः । तादृशज्ञाननिष्ठशाब्दबोधकारणतायां बोधांशे विशेष्यताया व्यक्तेरवच्छेदकत्वात् । एतत्पक्षे चावच्छेद्यावच्छेदकभावस्य सामञ्जस्येनोपपत्तिर्गोत्वादिजात्याऽनुगमान्न तदानन्त्यमपि । शक्यतावच्छेदकप्रकारकव्यक्तिबोधे व्यक्तिशक्तिग्रहस्यैतत्कल्पे हेतुतया चलत्वादिना गवादिव्यक्तिबोधार्थे तत्प्रयोगस्याऽप्युपपत्तिश्चेति बोध्यम् ॥ ननु 'घटो घटपदबोध्यः' इत्याकारकशक्तिज्ञानात् स्वरूपतो घटत्वप्रकारकविशिष्टबुद्धेरिव जातित्वेन घटत्वविशिष्टबुद्धेरप्यापत्तिस्तत्कार्यताकच्छेदकाक्रान्तत्वादत आहनिशाचेति घटत्वप्रकारकविशिष्टबोधे इति* । स्वरूपतस्तत्प्रकारकबोध इत्यर्थः॥ *कार्यकारणभाव इति । तथाच 'जातिमान् घटः' इति बोधस्य घटत्वांशे जातित्व __परीक्षा आह-*एकमित्यस्य चेति । एकमेवाभिप्रेत्य कार्यकारणभावो न विशिष्टमित्यर्थः । जातिविशिष्ट शक्तिस्वीकारे सति यादृशः कार्यकारणभावः सम्प्रतिपन्नस्तमाह*तथाचेति*। *घटत्वविशिष्टबोध इति । निरवच्छिन्नघटत्वनिष्ठप्रकारताकशाब्दबोध इत्यर्थः । *घटत्वशक्तिज्ञानत्वेन*-घटत्वप्रकारकशक्तिज्ञानत्वेन । Page #242 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः । २१३ प्रपञ्चितं भूषणे । तदेतदभिप्रेत्याह -* द्विकमिति । जातिव्यक्ती इत्यर्थः । पूर्वपक्षविरोधपरिहारः पूर्ववत् ॥ *त्रिकमिति ॥ जातिव्यक्तिलिङ्गानीत्यर्थः । सत्त्वरजस्तमोगुणानां साम्यावस्था नपुंसकत्वम् । आधिक्यं पुंस्त्वम् । अपचयः स्त्रीत्वम् । तत्तच्छन्दनिष्ठं तत्तच्छब्दवाच्यं च दर्पणः प्रकारकत्वेनोक्तशक्तिज्ञानकार्य्यतावच्छेदकानाक्रान्तत्वेनोक्तापत्तेरसम्भवात् घटत्वांशे जातित्वप्रकारकघटत्वविशिष्टबुद्धिं प्रति तु तदंशे जातित्वप्रकारकशक्तिज्ञानस्य हेतुत्वाऽन्तरं कल्पनीयमिति भावः । ननु तदंशेऽन्या प्रकारकत्वघटितधर्मस्यार्थसमाजग्रस्ततया कथं कार्य्यतावच्छेदकत्वमत आह—* प्रपञ्चितमिति । तथाच निरवच्छिन्नप्रकारताकतद्विशिष्टबुद्धिं प्रति निरवच्छिन्नतत्प्रकारताकतच्छक्तिज्ञानस्य, सावच्छिन्नतत्प्रकारताकतद्विशिष्टबुद्धिं प्रति सावच्छिन्नतत्प्रकारकशक्तिज्ञानस्य हेतुत्वकल्पनान्नोक्तापत्तिरिति तत्रोक्तमित्यर्थः । *तदभिप्रेत्येति। उक्तरीत्या विशिष्टस्य शक्यत्वमुपगम्येत्यर्थः । *जातिव्यक्ती इति । विशेष्यविशेषणभावापन्ने ते इत्यर्थः ॥ *पूर्वपक्षादिति । एकमिति पक्षादित्यर्थः । तत्पक्षे हि शाब्दज्ञानकारणतायां बोधांशे प्रकारितयावच्छेदकत्वं शक्तिरिति जातिरेव शक्या । विशेष्यितयावच्छेदकत्वमिति मते केवलव्यक्तिरेव शक्येति सिद्धान्तितम् । अत्र तु विषयितात्वेन प्रकारिताविशेष्यिते अनुगमय्य तत्र विषयितयाऽवच्छेदकत्वं शक्तिरित्युपगमाद् द्वयोरपि नामार्थत्वसिद्धिरिति न तयोः परस्परविरोधशङ्केति भावः । एतेषां मतानामाकरारूढत्वेऽपि व्यक्तिः पदार्थ इति पक्ष एव क्षोदक्षमः । प्रत्येकपदशक्तिनिर्णयस्त्वन्य-. तोऽवधार्य्यः ॥ *लिङ्गानीति* । लिङ्गत्वं च प्राकृतगुणवतो धर्मविशेषः । तद्विशेषश्च नपुंसकत्वादीत्याशयेनाऽऽह -- *सत्त्वेति । *साम्यावस्थेति । उपचयापचयराहित्येनावस्थानमित्यर्थः । उपचयो वृद्धिः, अपचयस्तन्न्यूनत्वम् ॥ *तत्तच्छब्दनिष्ठमिति । जातिगुक्रियादिभेदभिन्नशब्दनिष्ठम् ॥ तत्तच्छब्दवाच्यं चेति । स्वाश्रयशब्दवाच्यं परीक्षा विशिष्टस्य वाच्यत्वेऽपि वस्तुतः पदार्थस्य वाच्यस्य द्वित्वमित्याह -* एतदभीति । अत एव " प्रातिपदिक" इति सूत्रे प्रवृत्तिनिमित्तं तदाश्रयश्च प्रातिपदिकार्थ इत्यभियुका वदन्ति । वस्तुतस्तु "स्वमोर्नपुंसकात्” “ह्रस्वो नपुंसके प्रातिपदिकस्य" इत्यादि.. शास्त्रप्रामाण्येन लिङ्गमपि प्रातिपदिकार्थ इत्याशयेनाह - त्रिकमितीति । ननु लिङ्ग “स्तनकेशरती स्त्री स्यात्” इति लोकप्रसिद्धं वाच्यञ्चेद्दारा नित्यस्यासिद्धिरत आह*सत्त्वेति* । अयम्भावः- न लौकिक लिङ्गं शास्त्रीयप्रक्रियोपयोगि; किन्तु शास्त्रीय-मेव । एवञ्च प्राकृतगुणगतधर्मविशेषो लिङ्गम् । पुंस्त्वादिकन्तदवान्तरभेदः । *साम्यावस्थेति* । उपचयापचयराहित्येनावस्थानमात्रम् । आधिक्यम् - सत्वाद्यन्यतमस्य पूर्वकालस्थिताधिक्यम् । अपचयो - न्यूनीभवनम् । *तत्तच्छब्देति । जात्यादिभेदेन Page #243 -------------------------------------------------------------------------- ________________ २१४ दर्पणपरीक्षासहित भूषणसारेतमेव विरुद्धधर्ममादाय तटादिशब्दा भिद्यन्ते । -- केषाञ्चिदनेकलिङ्गत्वव्यवहारस्तु समानाऽनुपूर्वीकत्वेन शब्दानामभेदारोपात् । - एवश्च पदार्थपदे पुंस्त्वमेव । व्यक्तिपदे स्त्रीत्वमेव । वस्तुपदे नपुं. सकत्वमेवेति । सर्वत्रैवायं पदार्थः, इयं व्यक्तिः, इदं वस्तु, इति व्यवहारः, तटस्तटीतटमिति चोपपद्यते । दर्पणः चेत्यर्थः । (लिङ्गः शब्द इति व्यवहारात् , “तस्माच्छसो नः” (पा०सू० ६।१।१०३ ) "स्वमोनपुंसकात्" (पा० सू० ६।२३) इत्यादिसूत्रप्रमाण्याच्चेति भावः ॥ *तमेवेति ॥ समानाऽनुपूर्वीकत्वेऽप्युपचयाद्यवस्थारूपं परस्परसमानाधिकरणं लिङ्गमादयैवेत्यर्थः ॥ भिद्यन्ते इति ॥ पुंस्त्वादिलिडकेतरव्यावृत्तिविधेयकानुमित्युद्देश्या भवन्तीत्यर्थः ॥ - ननु लिङ्गस्योक्तावस्थारूपत्वे तासां परस्परविरुद्धानामेकत्राऽवस्थानासम्भवेन केषुचिच्छब्देष्वनेकलिङ्गकत्वव्यवहारः किं निबन्धनोऽत आह-*केषाञ्चिदिति ॥ तटादिशब्दानामित्यर्थः ॥ वस्तुतस्तेषां विरुद्धत्वेऽपि शब्दानां समानानुपूर्वीकत्वनिबन्धनाभेदाध्यासादनेकलिङ्गकत्वव्यवहारोपपत्तिरित्यर्थः । अर्थनिष्ठम्-'स्तनकेशवती नारी लोमशः पुरुष स्मृतः' इत्यादिस्मृतिलक्षितं लिङ्ग तु नात्राऽश्रयितुं शक्यम् । दारानित्यादौ शस्प्रकृत्यर्थे तदभावेन नत्वाद्यनापत्तेः । तथाच भाष्यम्-“एकाऽर्थशब्दान्यत्वादूदृष्टं लिङ्गान्यत्वमव. यवान्यत्वाञ्च" इति । एकस्मिन्नथें “पुष्यस्तारकानक्षत्रम् इति लिङ्गनानात्वदर्शनात्, कटीकटीएइत्यादौरेफस्याऽवयवस्योपजनेऽपि लिइन्भेददर्शनाच्चान्यदेव शब्दनिष्ठं लिडरमिति तदर्थः । अर्थनिष्ठत्वे तु-पुंलिङ्गः शब्द इति सामानाधिकरण्यानुपपत्तिश्चेतिभावा एवञ्चेति ॥ पारिभाषिकशब्दनिष्ठलिङ्गस्य व्यवहारौपयिकत्वे चेत्यर्थः ॥ *व्यवहार इति ॥ अर्थनिष्ठस्य तस्य तन्नियामकत्वे तु स्त्रीव्यक्तिर्वस्तुपदार्थपदाभ्यां न व्यवहियेता एवं पुरुषादिरपि व्यक्त्यादिशब्दैः स्तनकेशादिरूपलौकिकलिङ्गस्य खट्वादावभावेन तद्वाचकात् स्त्रीप्रत्ययाद्यनापत्तश्चेति भावः । *तटस्तटीति* ॥ अथे लौकिकलिङ्गाभावेऽपि परस्पराऽसमानाधिकरणपारिभाषिकलिङ्गवत्त्वेन विभिन्नानां तटादिशब्दानां तत्तत्त्कार्यभाक्त्वमुपपद्यत इत्यर्थः । । परीक्षा भिन्ना ये शब्दास्तेषु शब्देषु स्थितं यल्लिङ्ग तत्स्वाश्रयशब्दवाच्यम् । *तमेवशब्दनिष्ठं पुंस्त्वादिकमेव । भिद्यन्त इति । यद्यपि तटेत्यानुपूर्वी समानैव, तथापि तत्तच्छब्दरूपपक्षे तत्तलिङ्गेन हेतुता-इतरभेदविधेयताकानुमित्युद्देश्यता भवति । नचैवं भेदोऽवस्थाभेदेन सर्वेषामेवेति केषुचिद् द्विलिङ्गत्वादिव्यवहारो यो दृश्यते, तस्य का गतिरत आह-*केषाञ्चिदिति । वस्तुतः सर्वेषामर्थानां त्रिगुणात्मकतयाऽवस्थाभेदेन भेदस्य सर्वत्रासम्भवेनार्थभेदेन शब्दनाम्भेदः। पुंस्त्वादिकञ्चार्थनिष्ठमत एव "एकार्थे शब्दान्यत्वादृष्टं लिङ्गान्यत्वम्” इति भाष्यं संगच्छते। यथा-'पुष्यस्तारका Page #244 -------------------------------------------------------------------------- ________________ .. नामार्थनिर्णयः। २१५ __ तञ्च लिङ्गमर्थपरिच्छेदकत्वेन अन्वेतीति पश्वादिशब्दोक्तं पशुस्त्रियां नास्तीति पशुनेत्यादिविधिन छाग्यादीनङ्गत्वेन प्रयोजयतीतिविभावनीयम् । नच व्यक्त्यादिशब्दोक्तलिङ्गस्येव पश्वादिशब्दोक्तः स्यापि साधारण्यं शङ्कयम् । व्यक्तिशब्दस्य नित्य स्त्रीलिङ्गत्वेन तथा सम्भवेऽपि पशुशब्दस्य नित्यपुंलिङ्गत्वे प्रमाणाभावात् । ..दर्पणः ननु शब्दनिष्ठोक्तलिङ्गस्यैव स्रीपुंसादिव्यवहारौपयिकत्वे तस्य स्त्रीवाचकपशुशब्देऽपि सत्त्वात् 'पशुना यजेत' इत्यत्र पशुस्त्रीकरणकयागादप्यदृष्टसिद्धिः स्यात् , तदुः पात्तलिङ्गस्य व्यक्त्यादिशब्दोक्तलिङ्गवत् स्त्रीपुंसादिसाधारण्येनाऽर्थापरिच्छेदकत्वादत आह-*तच्चेति* ॥ शब्दनिष्टमेवेत्यर्थः ॥ *अथेति* ॥ अर्थमपि परिच्छिनत्तीत्यर्थः । तदेवाह-*पश्वादिशब्दोक्तमिति । लिङ्गमिति शेषः । यदि स्त्रीपशु-गाङ्गत्वेन विवक्षितोऽभविष्यत्तदा, अस्त्रीविहितनाभावं विभक्त्यन्ते न प्रयोक्ष्यत् । तदन्तपशुशब्दप्रयोगात्तु पुम्पशुरेव यागाङ्गमिति निर्णीयते इत्यर्थः । स्त्रीलिङ्गार्थकपशुशब्दादू "आडो नाऽस्त्रियाम्" (पा० सू० ७।३।१२० ) इति विहितमाभावस्य तृतीयैकवचनेऽसम्भवेन तदन्तपशुशब्दप्रयोगात् तदर्थस्य पुंस्त्वाऽवगतेरिति भावः। ___ नजु व्यक्त्यादिशब्दानामर्थनिष्ठलिङ्गानादरेण प्रवृत्तिवत्पशुशब्दस्य तथा प्रवृत्तौ बाधकामावादुक्तदोषो दुरपह्नव इत्याशङ्कय निराचष्टे-*नचेति । व्यक्त्यादीत्या. दिना वस्त्वादिपदसंग्रहः । साधारण्यं स्वाश्रयवाच्यत्वसम्बन्धेन, स्त्रीपुंसवृत्तित्वं नित्यस्त्रीलिङ्गत्वेनेति "स्त्रियां क्तिन्” (पा० सू० ३।३।८४) इत्यनुशासनादिति भावः । ननु 'पशुना यजेत इति वैदिकप्रयोग एव तस्य नित्यपुंस्त्वे मानं स्यादत आह परीक्षा नक्षत्रम्' इति पुल्लिङ्गः शब्दव्यवहारस्तु वाचकयोस्तादात्म्यात् । एवञ्च यस्य शब्दस्यकावस्थायुक्तार्थाभिधायकत्वमेवः तस्य नियतलिङ्गत्वमिति व्यवहारः । यस्यावस्थाद्वययुक्ताभिधायकत्वन्तत्रोभयलिङ्गत्वमिति तटादिशब्दे तु न तथेति तेषु लिङ्गत्वव्यवहारः। स सा अवस्थाऽस्ति । परन्तु शब्दशक्तिस्वभाव एव तत्तल्लिगप्रतिपादने नियामको द्रष्टव्यः। ननु पदार्थशब्दवत् पशुशब्दोऽपि स्त्रीव्यक्तौ प्रवर्तत इति छाग्या अपि यागाङ्गत्वापत्तिरत आह-*तच्चेति । शब्दनिष्टमिति मते शब्दार्थयोस्तादात्म्यादर्थमपि परिच्छिनत्ति । 'पशुना यजेत' इति नाभावदर्शनेन पुंस एव यागाङ्गत्वम्। न तु स्त्रिया इति निर्णयः । ननु व्यक्तिशब्दस्य लौकिकलिङ्गानादरेण लौकिकपुंस्त्वविशिष्टे प्रवृत्तिस्तथा पशुशब्दस्य शास्त्रीयपुंस्त्ववैशिष्टयमादाय स्त्रियामपि प्रवृत्तिः स्यादिति कथं नाभावदर्शनमात्रेण निर्णय इत्याशङ्कानिराचष्टे-*न चेति । नित्यस्त्रीलिङ्गत्वे. नेति । "स्त्रियां क्तिन्" इति स्त्रियां क्तिनो विधानात् । *प्रमाणाभावादिति । तथाच सति सम्भवे लौकिकलिङ्गविशिष्टशास्त्रीयलिङ्गस्य तत्राश्रयणमिति न छाग्या अन्त्वम्। Page #245 -------------------------------------------------------------------------- ________________ २१६ दर्पणपरीक्षासहिते भूषणसारे___“पश्चाऽनतायुं गुहा चरन्तं” “पश्वे नृभ्यो यथा गवे”इत्यादिवेदे दर्शनाञ्च ॥ मीमांसायां चतुर्थे "पशुना यजेत" इत्यत्रैकत्वपुंस्त्वयोर्विवक्षितत्वान्नाऽनेकपशुभिः पशुस्त्रिया वा याग इति प्रतिपादितत्वाञ्च ॥ वस्तुतस्तु विशेषविध्यभावे उप्रत्ययान्तानां पुंस्त्वस्य व्याकरणेन निर्णीतत्वाद् वेदभाष्येऽपि “जसादिषु छन्दसि वा वचनम्” इति ना. भावाऽभाव इत्युक्तेः पशुशब्दस्य नित्यपुंस्त्वनिर्णयात् । प्रकृते-"छागो वा मन्त्रवर्णात्" इति न्यायेनैव निर्णयः। मन्त्रवणे हि-"छागस्य वपाया मेदसः' इति श्रूयते । तत्र छागस्येति च्छाग्यामसम्भावितमिति भवति ततः पुंस्त्वनिर्णय इति विस्तरेण प्रपश्चितं भूषणे । दर्पणः *पश्वेति । तथा च वेदे पशुशब्दस्य स्त्रीलिङ्गत्वस्याऽपि दर्शनेन न तस्य व्यक्त्यादिशब्दसाम्यमिति भावः । स्वोक्तेऽर्थे मीमांसकसम्मतिमाह-मीमांसायामिति । वक्ष्यमाणाऽस्वरसादाह-वस्तुतस्त्विति । ननु उप्रत्ययान्तानां नित्यपुंस्त्वे पश्वेत्यादिस्त्रीलिङ्गप्रयोगाऽनुपपत्तिरत आह-*वेदभाष्येऽपीति । तथा च व्यक्त्यादिशब्दोक्तलिङ्गस्येव पशुशब्दोक्तलिङ्गस्यापि स्त्रीपुंससाधारण्यान्न तस्यार्थपरिच्छेदकत्वमिति भावः। ननु कथं तर्हि पुम्पशोरेव यागाङ्गत्वनिर्णयोऽत आह-*छागो वेति । न्यायेनैवेत्येवकारेण लिङ्गस्याऽर्थपरिच्छेदकस्य व्युदासः । यथा-"सारस्वतौ मेषौ" इत्यत्र तद्धितप्रकृतिशब्दः स्त्रीलिङ्गः पुंल्लिङ्गो वेति सन्देहे, "सन्दिग्धे वाक्यशेषात्” ( मी० सू० ११४।१९।२९) इति न्यायेन "एतद्वैदैव्यं मिथुनम्" इत्यर्थवादादूद्वयोरेवैकशेषेण ग्रहणं तद्वन्मन्त्रवर्णादन पुम्पशोर्यागाऽङ्गत्वनिर्णय इति भावः। *तत्रेति । मन्त्रवणे इत्यर्थः । *असम्भावितमिति । छागशब्दस्य व्यक्त्यादिवन्नित्यलिङ्गत्वाभावादिति भावः । *प्रपञ्चितमिति । लौकिकलिङ्गमेव नामाऽर्थः। तच्चावयवविशेषसं. स्थानरूपम् । दारानित्यादौ पुंस्त्वारोपेणैव तत्प्रयुक्तकार्यम् । “रात्राहाहाः पंसि च" (पा० सू० २।४।२९) इत्यादिलिङ्गानुशासनस्येवोक्तार्थे मानत्वात् । अत एव न पशुस्त्रिया यागसिद्धिः । अथवा स्त्रीत्वादिर्जातिरेव । परीक्षा *पश्वेति । तथा च लौकिकवैदिकव्यवहारबलेन पशुशब्द उभयलिङ्गः । एतच्च पशुशब्दस्योभयलिङ्ग त्वमभ्युपेत्य । वस्तुतः पशुशब्दो नित्यपुंल्लिङ्ग एवेत्याह-*वस्तुतस्त्विति । नन्वेवं व्यक्तिशब्ददृष्टान्तेन पशुनेति नाभावदर्शनमात्रेण निर्णय इत्यत आह-*प्रकृत इति । न्यायेनैवेत्येवकारेण लिङ्गस्य परिच्छेदकत्वव्यवच्छेदः । *मन्त्रवर्णादिति । सन्देहे वाक्यशेषेण निर्णय इति मन्त्रे-"अग्नये छागस्य हविषो वपाया" इति श्रवणेन पुंस एव 'पशुना' इतिवाक्येन यागाङ्गत्वप्रतिपादनमिति कल्प्यत इति भावः। लिङ्गस्य प्रातिपदिकवाच्यतायां प्रमाणन्तु-"स्वमोनपुंसकात्” इत्यादिशास्त्रीयानुवाद एव । न च ब्रह्मादिशब्दवाच्यार्थस्यात्मनो नित्यतया सत्त्वादिगुणानामुपचयादिकं तत्र ना Page #246 -------------------------------------------------------------------------- ________________ . नामार्थनिर्णयः। २१७ *चतुष्कम्* ॥ संख्यासहितं त्रिकमित्यर्थः ॥ *पञ्चकम् ॥ कारकसहितं चतुष्कमित्यर्थः ॥ दर्पणः तिस्रो जातय एवैताः केषाञ्चित् समवस्थिताः। अविरुद्धा विरुद्धाभिर्गोमहिष्यादिजातिभिः॥ इत्यादि तत्रोक्तमिति । परे तु स्तनकेशवती नारी लोमशः पुरुषः स्मृतः । एतयोरन्तरं यच्च तदभावे नपुंसकम् ॥ इति स्मृत्युक्तलक्षणलक्षितलिङ्गास्याऽसार्वत्रिकत्वेन दारानित्यादौ नत्वाऽनापत्त्या "स्त्रियाम्" इति सूत्रे “अवश्यं कश्चित् स्वकृतान्त आस्थेयः" इत्यादिना सार्वत्रिकगुणाऽवस्थारूपपारिभाषिकलिङ्गस्य शास्त्रीयकार्योपयोगिनोः भाष्यकृताsभ्युपगमेऽपि गुरुसज्ञाविज्ञानान्नत्वादिशास्त्रप्रवृत्तौ लौकिकलिङ्गस्याप्याश्रयणं पुमादिसज्ञानां सहव्यासज्ञाया इवाधिकसङ्ग्रहार्थं प्रवृत्तत्वेऽपि मतसिद्धार्थनिरासार्थमप्रवृत्तः । अत एव आविर्भावस्तरोभावस्थितिश्चेत्यप्यपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेन व्यवस्थिताः॥ इत्यत्रापि नाऽलौकिकलिङ्गमपि समुच्चितवान् हरिः । तत्र सति सम्भवे सामानाधिकरण्यसम्बन्धेन लौकिकपुंस्त्वविशिष्टशास्त्रीयलिङ्ग एव पुमादिशब्दानां शक्तिर्न केवलशास्त्रीये, नाऽपि लौकिके । असम्भवे तु शास्त्रीय एव । अत एव 'पशुना यजेत: इत्यादौ पशुस्त्रिया कृते यागे वैगुण्यम् । तत्र लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्वस्यैव शब्देन प्रतिपादनादित्याहुः। . - अथ लिङ्गे शक्तिग्रहविषयताया अभावेन प्रातिपदिकार्थत्वाभावात् , त्रिकमिति पक्षोऽनुपपन्न इति चेद् ? न । “स्वमोनपुंसकाद्” (पा० सू० १।११८३ ) इत्यादिसूत्रप्रामाण्येन पुल्लिङ्गादिविशिष्टोऽयं घटो घटपदवाच्य इत्याकारकशक्तिग्रहाऽभ्युपगमेन सामञ्जस्यात् । शब्दनिष्ठमेव लिङ्गं नत्वादिप्रवृत्तौ निमित्तमिति मते शब्दाऽर्थयोरभेदे लिङ्गस्य साक्षादित्यर्थात् स्वाश्रयवाच्यत्वसम्बन्धेनाऽर्थोशे प्रकारकत्वाद्धर्मिताsवच्छेदकत्वेन धर्मिताऽवच्छेदकसमानाधिकरणत्वेन वा शक्तिग्रहविषयताया नियामकत्वस्य फलबलेन कल्पनात्। ५. वस्तुतस्तु पारिभाषिकलिङ्गमप्यर्थ एव स्वीकर्तुमुचितम् । पुंल्लिङ्गः शब्द इत्यादौ पुल्लिङ्गादिशब्दा अर्शआधजन्ताः । आत्मनि सर्वस्याध्यस्तत्वेन परम्परया तत्रापि स्त्यानादिसत्त्वात् "आत्मा ब्रह्म" इत्यादिप्रयोगोपपत्तिः । स्त्यानं तिरोभावोऽपचय इति यावत् । उपचयादिविवक्षाया एव प्रयोगनियामकत्वेन तेषामेकत्र विरोधेऽपि परीक्षा स्तीति कथं पुल्लिङ्गोऽपीत्यादिव्यवहार इति वाच्यम् । सर्वस्यापि प्रपञ्चस्यात्मन्यध्यासेन परम्परया तत्राप्युपचयादिमत्वमस्तीत्याशयात् । अथान्वयव्यतिरेकाभ्यां प्रत्ययस्यैव कारकवाचकत्वमुचितमत एव कर्तृकरणा २८ द० प० Page #247 -------------------------------------------------------------------------- ________________ दर्पण परीक्षासहिते भूषणसारे - नन्वन्वयव्यतिरेकाभ्यां प्रत्ययस्यैव तद्वाच्यम्, तत एव लिङ्गादीनामुपस्थितौ प्रकृतिवाच्यत्वे मानाभावाच्चेति चेत् ? सत्यम् । प्रत्ययवर्जिते 'दधि' 'पश्य' इत्यादौ प्रत्ययमजानतोऽपि बोधात् प्रकृतेरेव वाचकत्वं कल्प्यते । लिङ्ङानुशासनस्य प्रकृतेरेव दर्शनाच्च । अत एवैषु पक्षेषु न निर्बन्धः । प्रत्ययस्यैव वाचकताया युक्तत्वात् । २१८ दर्पणः क्षत्यभावात् । अत एव “सामान्ये नपुंसकम्” ( वा० ) इति तत्र तत्रोक्तं सङ्गच्छते । उत्कर्षापकर्षसत्त्वेऽपि तदविवक्षायामिति तदर्थ इत्याद्यऽन्यतोऽवधार्यम् । लिङ्गादित्रयस्य नामार्थत्वं साधयितुं शङ्कते -* नन्विति । *अन्वयव्यतिरेकाभ्यामिति । टाबादिसमभिव्याहारे अश्वादिपदात् स्त्रीत्वबोधादभावे च तदबोधादेवं रूपाभ्यामित्यर्थः । एवमन्यत्राऽप्यूह्यम् । तथा च ताभ्यां लिङ्गादेः प्रत्ययार्थत्वाऽवधारणान्न लिङ्गादित्रिकस्य प्रकृत्यर्थत्वमित्यर्थः । 'दधि' 'पश्य' इत्यादावित्यादिना 'अयं याति ' 'इयमायाति' इत्यादिपरिग्रहः । *बोधादिति । कर्मत्वादिबोधादित्यर्थः । तथाच व्यतिरेकव्यभिचारेणान्यलभ्यत्वाच्च तदर्थत्वाऽभावान्नामाऽर्थत्वमेव तेषामावश्यकमिति भावः । वक्ष्यमाणयुक्त्या सङ्ख्याकारकयोः प्रत्ययार्थत्वेऽपि लिङ्गस्य प्रकृत्यर्थत्वमेव युक्तमित्याशयेनाह - लिङ्गति । अत एवेति । प्रकृतिप्रत्यययोरन्यतरस्य वाचकत्वे युक्तिसाम्यादेवेत्यर्थः । *निर्बन्ध इति । इदमेव मतं मुख्यमित्यभिनिवेश इत्यर्थः । तदेवाह - * प्रत्ययस्यैवेति । *युक्तत्वादिति । अनन्तानां प्रकृतीनां शक्तत्वकल्पनापेक्षया कतिपयस्वादीनामेव तत्कल्पने लाघवादिति भावः । I केचित्तु टाबादिकं विनापि वागादिशब्देभ्यः स्त्रीत्वस्याऽव्युत्पत्तिपक्षे रामज्ञानादिशब्देभ्यः पुन्नपुंसकत्वयोर्बोधस्य सार्वजनीनाऽनुभवसिद्धत्वाल्लिङ्गत्वं प्रातिपदिकाऽर्थत्वमेव । लुप्तविभक्तिस्मरणादपि बोधाऽङ्गीकारेण सङ्ख्याकारकयोर्विभक्तिवाच्यतैव । उक्तञ्च स्वार्थी द्रव्यं च लिङ्ग च संख्या कर्मादिरेव च । अमी पञ्चैव नामार्थास्त्रयः केषाञ्चिदग्रिमाः ॥ इति । परीक्षा दीनां तत्तत्प्रत्ययसमभिव्याहारे प्रतीतिरन्यथा नेत्याशयेन शङ्कते - नचान्वयेति । *तत्*—कारकम् । *तत एव - प्रत्ययादेव । टाबादिसमभिव्याहृताश्वशब्दात्स्त्रीत्वाभिव्यक्तिस्तदभावे नेति रीत्याऽन्वयव्यतिरेकयोस्तत्रापि सत्वात् । *बोधादिति । लिङ्गस्येत्यादि । *लिङ्गानुशासनस्येति । अकारान्तमातृदुहितृस्वस्यातृनन्दा दृइत्यादिलिङ्गानुशासनस्येत्यर्थः । वक्ष्यमाणयुक्त्या संख्याकारकयोः प्रत्ययवाच्यत्वमस्तु; लिङ्गस्य तु लिङ्गानुशासनदर्शनेन प्रातिपदिकवाच्यत्वं युक्तमिति भावः । *अत एव*'दधि' 'पश्य' इत्यादौ स्थलविशेषेऽनुपपत्या प्रकृतेरेव वाचकत्वकल्पनादेव प्रकृतिप्रत्यययोरन्यतरस्य वाचकत्वे युक्तिसाम्यादेव । न निर्बन्ध इति । इदमेव मतं युक्तमित्यभिनिवेशो नेत्यर्थः । एतदेवाह - * प्रत्ययेति । युक्तत्वादिति । अनन्तप्रकृतीनां वाचकत्वकल्पनया कतिपयटाबादीनामयुक्तमिति भावः । यद्वा Page #248 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः। २१९ दर्पणः अग्रिमाः-लिङ्गान्ता इत्याहुः। नन्वेकवचनत्वादेरनुगतस्य दुर्वचतया कथं तेन रूपेण स्वादीनामेकत्वादिवाचकत्वम् । तथाहि-न तावदेकत्वादिवाचकत्वं तत् । वाचकतायाः शक्ततारूपत्वेनात्माश्रयात् । बोधकतारूपत्वे तु द्विवचनादीनामपि शक्तिभ्रमेणैकत्वादिबोधकतयातिप्रसङ्गात् । बोधकत्वं शक्तिरिति मते आत्माश्रयस्य दुर्वारत्वाच्च । नाप्येकवचनत्वादिक जातिः। सुत्वादिना साङ्कात् । न च पाणिनिसङ्केतसम्बन्धेनैकवचनादिपदवत्त्वं तत् तादृशसङ्केतस्य संकेतत्वेन सम्बन्धत्वे कस्यचिदेकवचनादिपदादोजसादिर्बोद्धव्य इत्याकारकसङ्केतस्यापि सम्भवेनातिप्रसङ्गतादवस्थ्यात् । पाणिनिसङ्केतत्वेन तत्त्वे तु व्याकरणान्तरप्रणेतृपुरुषान्तरस्यापि पाणिनिसंकेततुल्यसंकेतसम्बन्धेन एकवचनादिपदवत्त्वस्य 'डित्थादिपदात् स्वौजसादिर्बोद्धव्याइत्याकारकपुरुषविशेषीयसंकेतसम्बन्धेन डित्थादिपदवत्त्वस्य वा विनिगमनाविरहेण शक्तताऽवच्छेदकत्वाऽऽपत्तेरिति चेद् ? - न। सुत्वाम्त्वादिनैवैकवचनस्य शक्तत्वाभ्युपगमेनोक्तदोषाऽनवकाशात् । कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशाच्च न परस्परजन्योपस्थितौ व्यभिचारः । न च दधि मध्वित्यादौ व्यभिचारः। तत्र लुप्तविभक्त्यनुसन्धानेनैव बोधाभ्युपगमात् । कथमन्यथा द्योतकतावादिमतेऽपि केवलप्रातिपदिकात् तदुपपत्ति?तकस्यैवाऽभावात्। - नचाऽनेकसुत्वादीनां शक्तत्वाऽवच्छेदकत्वे गौरवात् प्रातिपदिकत्वस्यैकस्य तत्वमुचितं, लाघवादिति शङ्कयम् । उक्तरीत्या प्रातिपदिकत्वस्याऽप्यनुगतस्य दुर्वचत्वात् । तदज्ञानेऽप्येकत्वादिबोधस्याऽनुभवसिद्धत्वात् । पदत्वेन वर्णत्वेन वा शक्तत्वे तु विभक्तेरपि वाचकतासिद्धेः । एकत्वाद्युपस्थितेःप्राग्वर्णत्वाद्युपस्थितेरप्यनावश्यकत्वात् तदनुरोधेन तत्कल्पने गौरवाच्च । पदार्थयोविशेष्यविशेषणभावेनाऽन्वये वि. भिन्नपदजन्योपस्थितेस्तत्र तयैकप्रकृत्युपस्थाप्यघटैकत्वाद्योस्तदभावेन परस्परमनन्वयापत्तिश्चेति स्वादीनां संख्यादिवाचकत्वमेवेति भावः। · द्योतकतावादिनां पुनरयमाशयः-न प्रकृतीनां घटैकत्वाद्योविंशकलितयोः शक्तियेनोक्तदूषणाऽवकाशः स्यात् , किन्त्वेकत्वविशिष्टे घटादौ पृथक्शक्त्यनभ्युपगमेनाsन्वयस्यैवाऽभावात् । अनन्तप्रकृतीनामेकत्वादिशक्तताकल्पनगौरवस्याऽप्यभावाच्च । घटपदस्यैकत्वे शक्तिभ्रमदशायां 'घटः प्रमेयः' इत्यादिवाक्यादेकत्वं प्रमेयमिति बोधस्य सर्वसिद्धतया तदनुरोधेनैकत्वादिविषयकशाब्दबोधे घटादिपदजन्यैकत्वाद्युपस्थितेहेतुताया आवश्यकत्वाच्च । किञ्च विभक्तेः संख्यावाचकत्वमते समानविषयकाऽनुमितिसामग्रीप्रतिबन्धक तायां प्रातिपदिकजन्यघटाद्युपस्थितिः स्वादिजन्यैकत्वाद्युपस्थितिश्च निवेश्या। तथाच तयोविशेष्यविशेषणभावे विनिर्गमनाविरहेण प्रतिबद्धचप्रतिबन्धकभावबाहुल्यम्।मन्मते तदुभयस्थलीयैकैकविशिष्टविषयकोपस्थितिस्तत्र निवेश्येति लाघवम् । विशिष्टविषयकोपस्थितेरप्येकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमकाऽभावात् साम्यमिति तु न । भवन्मते यत्र योग्यताज्ञानघटोपस्थित्येकत्वोपस्थितीनां तिसृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकभावषटकं, तत्र मन्मते योग्यताज्ञाने विशिष्टविषयकोपस्थितेः प्रत्येकं विशिष्टोभयरूपेण वैशिष्टयं निवेश्य द्वयं, प्रत्येक Page #249 -------------------------------------------------------------------------- ________________ २२० दर्पणपरीक्षासहिते भूषणसारेद्योतिका वाचिका वा स्युद्धित्वादीनां विभक्तयः ॥ दर्पणः तादृशरूपावच्छिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्टयं निवेश्य च द्वयमिति चतुष्टयमिति लाघवात् । अतिप्रसङ्गपरिहारस्तु तत्तत्संख्याबोधे तत्तद्वचनसमभिव्याहारस्य हेतुत्वकल्पनात्। ___ एवं कारक विभक्त्यर्थः" इति कल्पे तत्तत्कारकबोधे स्वोत्तरतत्तद्विभक्तिसमभिव्याहारस्य हेतुत्वकल्पनात् स बोध्यः। स चाऽम् घट इत्यतो बोधवारणाय वाचकतावादिनामप्यावश्यकः। एवं रीत्योपसर्गाणामपि द्योतकत्वं बोध्यमिति पक्षद्वयेऽपि हरिसम्मतिमाह-*द्योतिका वाचिका वेति । ___ यद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः । इति त्वस्योत्तरार्द्धम् । घट इत्याद्याकारकाऽनुपूर्व्यवच्छिन्नविभक्त्यन्तसमुदायो वैकत्वादिविशिष्टघटादिवाचक इति तदर्थः । पदस्फोटमवलम्ब्य चेदम् । नामाऽर्थधात्वर्थयोः साक्षादभेदाऽतिरिक्तसम्बन्धेनान्वयस्याव्युत्पन्नत्वादभिधानानभिधानव्यवस्थानुपपत्तेश्च कारकं विभक्त्यर्थ एव । __ यदि च नामाऽर्थधात्वर्थयो)देन परस्पराऽन्वयापादनं, तण्डुलकर्मकपाकविशेष्यकबोधे द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतीत्याद्यनुपूर्वीविशेषज्ञानस्य हेतुत्वकल्पनयैव निरसितुं शक्यम् । अनभिहिताधिकारस्यापि 'संख्या विभक्त्यर्थः इति पक्ष एवोपयोगस्तत्पक्षे "कर्मणि द्वितीया" (पासू० २।३।२) "द्वयेकयो” (पा.सू० २१२।२२ ) इत्यादीनामेकवाक्यतयैव प्रवृत्तेस्तत्र विशेष्यविशेषणभावे कामगरात् । एकस्य यत्कर्म, कर्मणि यदेकत्वमिति द्विधा वाक्यार्थसम्पत्तिः। प्रथमकल्पे द्वितीयादीनां तिङादीनां च कर्मादिवाचकतयाऽन्यतरेणाभिधानेऽन्यतरस्य गतार्थत्वादनभिहितसूत्रमफलम् । द्वितीये तु कृता कर्मणोऽभिधानेऽपि तद्गतसंख्याया अनभिधानात् प्राप्तां द्वितीयां वारयितुं तदवसरः । सति तस्मिन्ननभिहितकर्मगतत्वाभावान्न द्वितीयादिप्रसङ्गः । संख्यापि यदि प्रातिपदिकाऽर्थस्तदोक्तवाक्याऽर्थाऽसम्भवात् सूत्रवैयर्थ्यमेव । नन्वनभिहितसूत्राऽभावे 'भीष्मं कटं करोति' इत्यादौ भीष्मादिपदाद् द्वितीयाद्यनुपपत्तिः । विशिष्टस्यैव कटादेः क्रिययेप्सिततमत्वात् प्रातिपदिकार्थमात्रे प्रथमाप्रस परीक्षा उक्तानियमे हरिसम्मतिमाह-योतिकेति । अत्र 'द्वित्वादिनाम्' इति कथनेन संख्याकारकयोः प्रातिपदिकवाच्यत्वे मतभेदो दर्शितो न लिङ्गश इति लिङ्ग प्रातिपदिकवाच्यमेव टाबादिकं द्योतकमत एव लिङ्गस्य विशेषणतया भानमिति दर्शितम् । उक्तञ्च "स्वार्थो व्यञ्च लिङ्गञ्च संख्या कर्मादिरेव च । ___ अमी पञ्चैव नामास्त्रियः केषाञ्चिदग्रिमाः॥ इति, अग्रिमाः-लिङ्गान्ताः । विभक्तीनामेकत्वादिवाचकत्वपक्षे नियता या सुप्त्वाद्यानुपूर्वी सा वाचकतावच्छेदिका । नच यत्र विभक्तेर्लुक्कथनं तत्र संख्याऽप्रतीतिरिति वाच्यम् । लुप्तविभक्तिस्मरणेन संख्याया बोधात् । विभक्त्यस्मरणकल्पने द्योतक Page #250 -------------------------------------------------------------------------- ________________ - नामार्थनिर्णयः। २२२ इति वाक्यपदीयेऽपि पक्षद्वयस्य व्युत्पादनात् ॥. *शास्त्र इति । बहुषु स्थलेषु व्युत्पादनं व्यञ्जयितुम् । प्राधान्येन तु सरूपसूत्रादौ व्यक्तम् ॥ २५ ॥ . दर्पणः ङ्गात्। तत्सूत्रपक्षे त्वभिधानस्य कृदादिभिः परिगणनात्कटप्रकृतिद्वितीययाऽभिहितेऽपि तस्मिन् भीष्मादिपदेभ्यो द्वितीयादिविभक्तेः सूपपादत्वादिति चेद् ? न। .. विशिष्टस्य विधित्सायां धर्मिमात्रेण तोषाऽभावाद्धर्माणामपीप्सिततमत्वात् कर्मत्वम् । तस्य चान्यवाचकपदोत्तरद्वितीययानभिधानात्। कृतः कट इत्यादौ तु प्रत्ययस्य धातूत्तरवर्तित्वेन तेन प्रातिपदिकार्थविशेषनिष्ठकर्मत्वस्यानभिधानादविशेषाद्धर्मधर्मिनिष्ठतदभिधानमिति भीष्मादिविशेषणवाचकपदेभ्यः प्रथमोपपत्तिरिति न काऽपि तदनारम्भेऽनुपपत्तिः। तदुक्तम्भाष्ये-“कटोऽपि कर्म भीष्मादयोऽपि” इति तदाऽस्तु कारकमपि प्रातिपदिकाऽर्थः। अस्मिन्नपि पक्षे कारकस्य प्रकृत्यर्थव्यक्तिविशेषणतैव विभक्तिद्योत्यत्वादिति केचित् । - नचैवं प्रातिपदिकार्थप्रकारकबोधे सुब्जन्योपस्थितेहेतुत्वं विलीयेतेति वाच्यम् । इष्टत्वात्। एतत्कल्पे जातिलिङ्गसंख्याकारकविशिष्टद्रव्यस्य प्रातिपदिकाद् बोधेनोक्तहेतुहेतुमद्भावस्य गगनकुसुमायमानत्वाद् विशेष्यतैव तु कारकस्योचिताऽनुभवात् क्रियाऽन्वयानुरोधाच्चेति पञ्चकपक्षस्योपपत्तिरिति । *बहुषु स्थलेष्विति । भाष्या. द्याकरग्रन्थेष्वित्यर्थः । तत्र पञ्चकचतुष्कपक्षौ, तत्रोपपदमित्यत्र कैयटेनोपन्यस्तौ त्रिकमिति पक्षस्तु वृत्तिकारेण । *प्राधान्येनेति* ॥ तत्र सर्वेषामेव पक्षाणां भाष्यकृतोपन्यासादिति भावः । सूत्रादावित्यादिनाऽनभिहितादिसूत्रसङ्ग्रहः ॥ २५ ॥ परीक्षा तावादिमतेऽपि 'दधिः . . 'मधु' इत्यादौ द्योतकाभावात्संख्याया अवगमो न स्यात्, नचानेकसुबादिधर्मस्य वाचकतावच्छेदकत्वापेक्षया प्रातिपदिकत्वस्यैकस्य वाचकतावच्छेदकत्वं युक्तमिति वाच्यम् । तत्वं पाणिनीयसङ्केतसम्बन्धेन घटपदवत्वं वा शक्ततावच्छेदकमित्यत्र विनिगमनाविरहेण प्रातिपदिकत्वस्यैकस्यानवच्छेदकत्वात् । न च शाब्दसामग्याः समानविषयकानुमितिप्रतिबन्धकतायां संख्यानिष्ठप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिनिष्ठविशेष्यतानिरूपितसंख्यानिष्टप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकभावे गौरवमिति वाच्यम् ? विभक्तेः संख्यावाचकतामते विभक्तिजन्यसंख्योपस्थितिविशिष्टघटायुपस्थितेः सामग्रीकुक्षौ निवेशे घटाद्युपस्थितिविशिष्टसंख्योपस्थितेनिवेशमादाय विनिगमनाविरहस्य ध्रौव्यात्। एवम्प्रत्येकमुपस्थित्योर्योग्यताज्ञानादिवैशिष्टयनिवेशेन महागौरवस्य प्रसङ्गश्चेति । कर्मादिकारकञ्च विभक्तिवाच्यमित्येवमुपयुक्तम् । नंतु तेषाम्प्रातिपदिकवाच्यत्वम् ? धात्वर्थे तेषाम्भेदसम्बन्धेनानुगमानुपपत्तेः । नामार्थधात्वर्थयो दनान्वयबोधस्याभावात् । अन्यथा 'तण्डुलः पचति' इत्यादिभ्योऽपि कर्मतासम्बन्धेन बोधापत्तिरित्याद्यन्यत्रोक्तम् । *बहषु स्थलेषु*-भाष्यादिग्रन्थेष। *प्राधान्येनेति । तत्र द्रव्याभिधानमित्यादिना सर्वपक्षस्य कथनात् । यथा Page #251 -------------------------------------------------------------------------- ________________ २२२ दर्पणपरीक्षासहिते भूषणसारेशब्दस्तावच्छाब्दबोधे भासते । न सोऽस्ति प्रत्ययो लोके यः शब्दाऽनुगमावृते ॥ अनुविद्धमिव ज्ञानं सर्व शब्देन भासते । इत्याद्यभियुक्तोक्तेः ॥ विष्णुमुच्चारयेत्यादावर्थोच्चारणासम्भवेन विना शब्दविषयं शाब्दबोधासङ्गतिश्चेति सोऽपि प्रातिपदिकार्थः । नच लक्षणया ता लक्षणावसरोऽपि पादकार्थ इति* प्रापपात्तरित्यर्थः । य दर्पणः घटमानयेत्यादिशाब्दबोधे घटादिशब्दस्य भाने प्रमाणाऽभावेन तस्य प्रातिपदिकार्थत्वसाधनमनुचितमित्याशङ्कां परिहरति-*शब्दस्तावदिति ॥ तत्र हरिवाक्यं प्रमाणयति-*न सोऽस्तीति* ॥ *प्रत्ययः*-शाब्दबोधात्मकः । *शब्दाऽनुगमादिति॥ शब्दविषयकत्वादित्यर्थः। *अनुविद्धमिति। विशिष्टमित्यर्थः । अनुव्यवसायो यथाऽर्थेन विशिष्टज्ञानं विषयीकरोति; तथा शब्देन विशिष्टमपीत्यर्थः। वैशिष्ट्यं चाऽर्थद्वारक बोध्यम् । घटपदजन्यबोधाऽनन्तरं घटं शाब्दयामीत्येवाऽनुव्यवसायान्न कलशं कुम्भ वेत्यत एव “उदेति सविता तामू": इत्यादौ न पौनरुक्त्यम् । तत्पदाऽनुपादाने उदयाऽस्तयोः शाब्दबोधे ऐकरूप्याऽनिर्वाहादिति भावः। । ___ ननु तावताऽपि शब्दभानं सिद्धं, न विशेष्यत्वेनेति कथं शब्दस्य शब्दार्थत्वसिद्धिरत आह-विष्णुमिति* ॥ अर्थोच्चारणासम्भवेनेति वदता लक्षणावसरोऽपि सूचितः ॥ *असङ्गतिरिति ॥ अनुपपत्तिरित्यर्थः । *सोऽपि*-शब्दोऽपि ॥ *प्रातिपदिकार्थ इति । प्रकाराऽन्तरेणोपस्थितस्य विशेष्यत्वाऽसम्भवादिति भावः ॥ लक्ष परीक्षा 'एक द्विकम् इत्याद्युक्तम् , प्रतीत्यनुरोधात् । तथा शब्दजन्यबोधोऽपि भासत इति सोऽपि शब्दवाच्य इति सिद्धान्तः ॥ २५ ॥ __तत्र शाब्दबोधे शब्दभाने विप्रतिपन्ननैयायिकम्प्रति तद्वयुत्पादनमावश्यकमित्यादौ तस्य शाब्दबोधविषयतां द्रढयति-*शब्दस्तावदिति*। *प्रत्ययः *-शाब्दबोधः। *शब्दानुगमात्*-शब्दस्य विषयितालक्षणसम्बन्धात् । *ऋते*-विना-अस्ति स नास्तीत्यर्थः । सर्वज्ञानं शब्दसम्बद्धमेव । घटोऽस्ति पटोऽस्तीत्यादिवाक्यश्रवणानन्तरं शाब्दबोधे जाते घटं शाब्दऽयामीत्याद्याकारकानुव्यवसायो जायते तत्रार्थस्य विषयविधया भानन्तु सर्वसिद्धमेव तत्रार्थे शब्दः प्रकारतया भासते तत्रायं निश्चयः । यः शब्दो ज्ञातः सन्नर्थमुपस्थापयति स एव भासते नत्वज्ञात इति घटोऽतीति वाक्यजन्यशाब्दबोधे घटशब्दस्यैव भान नतु कलशशब्दस्य । नन्वस्तु शब्दस्य शाब्दबोधे भानं तावताऽपि तस्य शब्दवाच्यत्वे किम्मानमत आह-*विष्णुमिति* । यदीहविष्णुशब्दोऽर्थऽपरः स्यात्तदाऽन्वयानुपपत्तिरिति विष्णुशब्दः शब्दपर एवेति स्वस्वरूपेऽपि शक्तिः-शब्दस्य वाच्यत्व एव “उदेति सविता ताम्रस्तान एवास्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता" ॥ Page #252 -------------------------------------------------------------------------- ________________ २२३ ..... नामार्थनिर्णयः। .. निर्वाहः । निरूढलक्षणाया शक्त्यनतिरेकात् जबगडदशमुञ्चारयेत्यादौ शक्याग्रहेण शक्यसम्बन्धरूपलक्षणाया अग्रहाच । अज्ञातायाश्च वृत्तेरनुपयोगाद्, गावमुच्चारय इति भाषाशब्दानामनुकरणे साधुतासम्प्रतिपत्तेस्तेषां शक्त्यभावेन परनये लक्षणाया असम्भवाच्चेत्यभिप्रेत्य षोढाऽपि क्वचित् प्रातिपदिकाऽर्थ इत्याह ...दर्पणः णया-स्ववाच्यवाचकत्वसम्बन्धरूपया ॥ निर्वाह इति ॥ तावताऽपि पदवाच्यत्वा. सिद्धेरिति भावः ॥ निरूढेति* ॥ निरूढत्वं च लक्षणायामनादितात्पर्यग्रहाऽधीनत्वम् , अनादित्वञ्च-तत्र स्वजन्यबोधसमानाकारपूर्वपूर्वबोधध्वंसवत्वम् । *शक्त्यनतिरेकात्-इत्यस्याऽस्मन्मत इत्यादि । एतत्तत्त्वमप्रे वक्ष्यते । तस्या असार्वत्रिकत्वमप्याह-*जबगडशमिति* ॥ तत्र समुदायस्य कुत्राप्यशक्तत्वादिति भावः। *अग्रहादिति ॥ मन्मते तु तादृशसमुदायस्यैव तत्पदशक्यतया न बोधाऽनुपपत्तिरिति भावः। - ननु तत्र समुदायस्याशक्तत्वेऽपि तद्घटकजकारादिवर्णानामेकाक्षरकोशादौ जनादौ शक्तिप्रतिपादनात्तत्तदर्थवाचकत्वरूपलक्षणायास्तत्र नाऽनुपपत्तिरत आह-*अज्ञाताया इति* । गङ्गापदस्य वस्तुतः स्वशक्यप्रवाहसामीप्यरूपसम्बन्धस्याग्रहे लक्ष्यार्थबोधस्यानुदयेन ज्ञाताया एव तस्याः पदार्थोपस्थित्यौपयिकत्वेन प्रकृते तदग्रहादुक्तानुपपत्तिस्तदवस्थैवेति भावः । . ननु शाब्दबोधाव्यवहितप्राक्काले तादृशवृत्तिग्रहासत्त्वेऽपि यदा कदाचिजातता. दृशवृत्तिग्रहादिनोबुद्धसंस्कारेण . पदार्थोपस्थितिद्वारा तादृशशाब्दबोधोपपत्तिः सकोत्यत आह-*गावमिति* ॥ गोशब्दाद्यनुकरणे साधुत्वस्य सर्वै रेवाभ्यपगमादित्यर्थः । *परनय इति । परो नैयायिकस्तन्मते, तेषां शक्त्यभावेन तद्धटितलक्षणाया अप्यऽप्रसरावृत्तिमत्वात्मकार्थवत्वनिबन्धनप्रातिपदिकत्वाद्यनुपपत्तिरिति भावः । *षोढाऽपीति* ॥ पूर्वोक्तपञ्चकसहितः शब्दोऽपीत्यर्थः ॥ क्वचिदू-अनुकरणपरीक्षा . . इत्यादौ न पौनरुक्त्यम् । वाचकशब्दभेदेन तस्य परिहात् । निरूढलक्षणेति । लक्षणाप्रयोजकः सम्बन्धश्च स्ववाच्यवाचकत्वरूपः । लक्षणायां निरूढत्वञ्च स्वजन्यशाब्दबोधसमानाकारशाब्दबोधसंस्कारकालिकस्वजन्यशाब्दबोधसामान्यकत्वम् । त. स्याः सर्वत्र न सम्भव इत्याशयेनाह-*जबगडेति* । अस्य वाच्याभावेन शक्यसम्बन्धरूपलक्षणायान सम्भवः । ननु समुदायस्याशक्यार्थो यद्यपि न प्रसिह्यस्तथापि तदूधटकयत्किञ्चिद्वर्णस्य शक्यार्थ एकाक्षरकोशादौ प्रसिद्धस्तमादाय लक्षणायाः सम्भव इत्यत आह-*अज्ञाताया इति*स्वशक्यार्थीपस्थितौ तात्पर्य्यानुपपत्तिग्रहस्ततोलक्षगयाऽर्थोपस्थितिरिति क्रमः, शास्त्रे प्रसिद्धः स च न सम्भवति । प्रत्येकशक्यज्ञानेऽपि जबगडदशमुच्चारयेत्यतो बोधानुभवादित्यर्थो वा। *गावमिति । यस्येदमनुकरणन्तस्य शक्यार्थस्तन्मतेऽप्रसिद्धोऽतो न लक्षणायाः सम्भवः । स्वरूपस्य शक्यत्वे तु तेनैवार्थेन प्रातिपदिकत्वात्सुबुत्पत्तिः सुलभाः। *षोढाऽपीति: । पूर्वोक्तपञ्चकसहितः Page #253 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - शब्दोऽपि यदि भेदेन विवक्षा स्यात् तदा तथा ॥ नोचेच्छ्रोत्रादिभिः सिद्धोऽप्यसावर्थोऽवभासते ॥ २६ ॥ यद्यनुकार्याऽनुकरणयोर्भेदविवक्षाः तदा शब्दोऽपि प्रातिपदि कार्थः । यदि न भेदविवक्षा, तदा श्रोत्रादिभिरुपस्थितोऽप्यर्थवद्भासते । अपिहैतौ । उपस्थितत्वाद्भासत इत्यर्थः । 1 २२४ अयम्भाव::- अनुकार्याऽनुकरणयोर्भेदे अनुकार्यस्य पदानुपस्थितत्वात् तत्सिद्धये शक्तिरुपेया । शब्दार्थयोरभेदे, प्रत्यक्षे विष दर्पणः स्थले । तच्चानुकरणं द्विविधम् । ध्वनेर्वर्णस्य च । तत्राद्यम् पटत्करोतीत्यादि । द्वितीयम् - भुवो वुमित्यादि ॥ *भेदविवक्षेति । परदित्यादौ ध्वनिमयत्ववर्णमयत्वाभ्यां, “भुवो वुक ” इत्यादावर्थपदाऽर्थकत्वशब्दपदार्थकत्वाभ्यां तद्विवक्षेत्यर्थः ॥ *शब्दोsa प्रातिपदिकार्थइति ॥ तथा च "मतौ छः सूक्तसाम्नोः" ( पा०सू० १/२/५९ ) इति सूत्रे योऽसावाम्नायेऽस्य वामशब्दः पठ्यते स छप्रकृतेरस्य वामीयेत्यादौ पदार्थो - sa एव प्रातिपदिकत्वाच्छसिद्धिरितीति भावः ॥ मूले - अर्थेऽवभासते इति पाठे - अथें घटादिस्वरूपे, अवभासते - विशेषणतया विषयो भवतीत्यर्थः । 1 वस्तुतस्तु भूषणपर्यालोचनयाऽसावर्थी व भासते इति पाठः । तत्र वशब्दः साहश्ये । तथा च भेदपक्षे यथाऽनुकार्य्यरूपोऽर्थी विशेष्यतया शाब्दबोधे भासते; तथाभेदपक्षेनु कार्य्याभिन्नानुकरणशब्दोऽपीत्यर्थः । तत्राऽनुपस्थितस्य कथं भानमित्याकाङ्क्षायामुक्तम् -* -* श्रोत्रादिभिरिति ॥ आदिना वृत्तिज्ञानतज्जन्यसंस्कारसंग्रह इति केचित् । वस्तुतस्तु लिप्याद्यनुसंहितस्य तस्य शाब्दे भानसम्पत्तये आदीति ॥ पदोपस्थितमेव शाब्दबोधे भासते इति त्वसार्वत्रिकमिति भावः । अत एव सारकृताऽर्थवमासते इति तद्विवृतम् । एतेनाऽभेदपक्षेऽनुकरणस्यार्थाभावेन तदंशे भानवर्णनमसभवदुक्तिकमित्याशङ्का समाहिता । नवभेदपक्षेऽप्यनुकार्य्यस्य शाब्दे कथं भानम् । पदवृत्तिजन्योपस्थित्यभावादत आह-अयम्भाव इति । पदाऽनुपस्थितत्वादित्यस्य शाब्दबोधे भानाऽनुपपत्येति शेषः ॥ *तत्सिद्धये — शाब्दबोधजनकपदजन्योपस्थितये इत्यर्थः ॥ *शक्तिरिति । असम्बद्धस्य तत्स्मृतिजनकत्वादिति शेषः । तथाच पदवृत्तिज्ञानजन्योपस्थिति सद्भावात्तस्य शाब्दविषयता सुलभेति । अभेदे इति । अभेदवि - परीक्षा 1 शब्दा इति षोढा । क्वचित् - अनुकरणस्थले । *भेदेन विवक्षा - अनुकार्यानुकरणयोर्भेदेन विवक्षा । अयम्भावः - पटादित्यादिध्वनेरनुकरणम्भुवो वुगित्याद्यक्षरानुकरणञ्च । asarकरणयोर्ध्व निमयत्ववर्णमयत्वाभ्याम्भेदः । आक्षिप्तयोरर्थपर त्वशब्दपरत्वाभेदः । तथा वाच्यो नो चेत्-भेदविवक्षा नो चेत् । विषयविधया तदन्तस्योपस्थितिरनुकरणस्य नत्वनुकार्यस्येति तद्भानसिद्धयेऽनुकार्येऽनुकरणस्य शक्तिः । *अभे 1 Page #254 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः । यस्य हेतुत्वात् । स्वप्रत्यक्षरूपां पदजन्योपस्थितिमादाय शाब्दबोधविषय तोपपत्तिरिति । यद्यप्यतिप्रसङ्गवारणाय वृतिजन्यपदोपस्थितिरेव हेतुस्तथाप्य २२५ दर्पणः वक्षायामित्यर्थः । तत्पक्षे निरूप्यनिरूपकत्वयोर्भेदनिबन्धनत्वेनानुकरणे तद्वृत्त्यसम्भवादिति भावः । *हेतुत्वादिति । उपस्थिति निष्ठजन्यतायामन्वेति । *स्वप्रत्यक्षेति । अनुकरणप्रत्यक्ष रूपामित्यर्थः । * शाब्दबोधविषयतोपपत्तिरिति । अयमाशयः - अभेदपक्षे स्वप्रत्यक्षरूपामुपस्थितिमादाय यथा शाब्दे शब्दस्य भानं तथैव घटमानयेत्यादौ घटाऽऽदिपदानामपि तां सामग्रीमादाय भानस्य दुर्वारतया शाब्दबोधमात्रस्य शब्दविषयकत्वसिद्धिः । तदुक्तं "स्वं रूपम्” इति सूत्रभाष्ये "नैतद्वक्तव्यं, किं कारणं, शब्दपूर्वको सम्प्रत्ययः । आतश्च शब्दपूर्वः । योऽपि सौ नाम्नाऽऽहूयते; नाम च तेन यदा नोपलब्धं तदा पृच्छति, किं भवानाहेति । शब्द पूर्व कश्चाऽर्थस्य सम्प्रत्ययः । इह शास्त्रे शब्दे सम्भवादर्थस्य निवृत्तिः" इति । तत्र शब्दपूर्वको हीत्यादिना शब्दवृत्तिज्ञानस्य पदार्थोपस्थित्यादावन्वयव्यतिरेकौ प्रदर्श्य शब्दपूर्वक इत्यादिग्रन्थेन प्रकारान्तरं प्रदर्श्यते । शब्दविशेषणक इत्यर्थः । तदाऽथें असम्भवेऽर्थविशेषणतयोपस्थिते शब्दे कार्य्यमित्यर्थः । तथाचोक्तभाष्याच्छब्दतदर्थयोरुभयोरव शब्दाद्वानम् । यत्र च लोके शब्दे इतरपदार्थान्वयबाधस्तत्राऽर्थाशे शब्दस्य विशेषणता । यत्र त्वर्थे ' विष्णुमुच्चारय' "अग्नेर्दक्" ( पा० सू० ४।२।३३ ) इत्यादौ तत्र शब्दांशेऽर्थस्य विशेषणतेति स्पष्टप्रतिपत्तेर्विषयत्वमनादृत्येति वाक्यपदीयाच्चेति । *अतिप्रसंगेति । घटो ऽस्तीत्यतः समवायेनैकज्ञानविषयत्वाऽऽदिना वौपस्थितस्याऽऽकाशादेः शाब्दे भानाऽऽपत्तिवारणायेत्यर्थः । *वृत्तिजन्येति । वृत्तिज्ञानजन्येत्यर्थः । *पदोपस्थितिरिति । घटपदं शृण्वित्यादौ तादृशपदोपस्थितेर्हेतुपरीक्षा 1 दे* - अनुकार्य्यानुकरणयोरभेदे । *स्वप्रत्यक्षरूपाम्* - अनुकरणप्रत्यक्षरूपाम् । शाब्दबोधे सति स्वस्वरूपस्येत्यादिः । अतिप्रसङ्गेति । वृत्तिशून्यस्यापि भानेऽश्व शब्दात्पटस्यपि बोधापत्तिरित्यतिप्रसङ्गः । वृत्तिजन्यपदोपस्थितिरित्यस्य वृत्तिमतो या शब्दजन्योपस्थतिः सेत्यर्थः । अनुकार्य्यानुकरणयोरभेदपक्षे विषयविधया स्वशब्दजन्यशब्दप्रत्यक्षरूपोपस्थितिस्तामादाय यथा शाब्दबोधे शब्दभानम्, तथा घटोsस्तीत्यादावपि शब्दजन्योपस्थितिसत्त्वात्तत्रापि शब्दस्य भानं सम्भवतीति शाब्दबोधवृत्तिवाच्यविषयिता व्यापकविषयिताकत्वं शब्दस्य सिद्धमित्याशयः । तदुक्तम्- "स्वं रूप म्’इति सूत्रभाष्ये। “स्वं रूपम्" इत्यस्य प्रत्याख्यानसमये "नैतद्वक्तव्यम् । किङ्कारणम् । शब्दपूर्वको ह्यर्थसम्प्रत्ययः, आतश्च शब्दपूर्वको, योऽपि ह्यसौ नाम्नाहूयते, "नाम च यदानेन नोपलब्धम्, तदा पृच्छति किम् भवानाहेति, शब्दपूर्वकश्चार्थस्य सम्प्रत्ययः, अत्र शास्त्रे शब्दे कार्यस्य सम्भवादर्थस्य निवृत्तिरिति । ननु वृत्तिमतः शाब्दबोधविषयत्वमित्युक्तावपि सम्बन्धस्य स्वप्रतियोगिकत्वविशिष्टस्य स्वस्मिन्नसत्वात्कथं २९ दु०प० Page #255 -------------------------------------------------------------------------- ________________ २२६ . दर्पणपरीक्षासहिते भूषणसारे त्राश्रयतया वृत्तिमत्त्वस्य सत्त्वान्नाऽनुपपत्तिः। निरूपकताश्रयताऽन्यतरसम्बन्धेन वृत्तिमत एव शाब्दबोधविषयत्वं कल्प्यत इत्यनवद्यम् । सम्बन्धस्योभयनिरूप्यत्वात् , पदादर्थस्येव तद्बोधकत्वेन स्वस्याऽपि ज्ञानसम्भवाच्चेति । - - दर्पणः ताया दर्शनात् , प्रकृते च तदभावेऽनुकरणस्य शाब्दविषयत्वं दुर्घटमिति भावः । *आश्रयतयेति । इदं च बोधकत्वं शक्तिरित्यभ्युपेत्य । बोध्यत्वं सेति पक्षे तु, निरूपकतयेति बोध्यम् । ___ नन्वाश्रयतासंसर्गेण वृत्तिमत्त्वस्यैव शाब्दबोधविषयत्वे तन्त्रत्वे निरूपकतासंसगेंण वृत्तिमतः शाब्दे भानाऽनुपतिरत आह-निरूपकतेति प्रामाणिकगौरवस्यादोषत्वादिति भावः । *अनवद्यमिति । वृत्तिनिरूपकार्थबोधकत्वस्यैव प्रातिपदिकत्वे तन्त्रत्वान्नाऽभेदपक्षे तत्संज्ञाप्रसक्तिरिति भावः । ननु स्वप्रतियोगिकत्वविशिष्टसम्बन्धाऽश्रयतायाः स्वस्मिन्ननभ्युपगमेन कथमनुकरणस्य वृत्तिमत्तत्यत आह-*सम्बन्धस्येति । तद्बोधकत्वेनेति । प्रत्यक्षाऽऽत्मकशाब्दबोधजनकत्वेनेत्यर्थः । तथाच हादिवाक्यप्रामाण्यात् प्रकृते स्वस्मिन्नपि तादृशसम्बन्धाश्रयताऽभ्युपगमान्न तस्य शाब्दे भानाऽनुपपत्तिरित्यनयैव रीत्या शब्दमात्रस्य शाब्दे भान निर्वाह्यमिति भावः । स्वीयप्रत्यक्षाऽऽत्मकबोधजनकत्वस्य वृत्तित्वं दुरुपपादम् । शाब्दबोधजनकपदार्थोपस्थितिजनकज्ञानविषयताऽवच्छेदकसम्बन्धस्यव तत्वात्। न चैतादृशज्ञानेन शाब्दबोधात् प्राक् शब्दरूपपदार्थोपस्थितिर्जन्यते; नाऽपि बोधकत्वेऽपि बोधकत्ववदिति ज्ञानं तदानीमस्तीति येन साऽपि सम्भाव्येत । तस्मात् कथमेतदिति चेत् ?. ___ अत्र वदन्ति-सम्बन्धस्येत्यादिग्रन्थस्य पदवृत्त्युपस्थितेनार्थेन सम्बन्धाऽविशेषाच्छब्दोपस्थितिस्ततः शब्दार्थयोरुभयोरपि शाब्दे भानं शब्दवृत्तिप्रयोज्यत्वस्योपस्थितिद्वये सत्त्वादित्यर्थपरत्वानोक्ताऽनुपपत्तिः । तत्राऽर्थस्येवेत्यनन्तरं बोध्यत्वादिति शेषः । तद्बोधकत्वेनेत्यत्र तदाऽव्यवहितप्रागुपस्थितार्थपदार्थपरामर्शस्यैवौचित्यादर्थबोधकत्वेनेत्यर्थात् । तदुक्तम् यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥ इति । शाब्दबोधस्तु वक्ष्यमाणहऱ्यादिवाक्यप्रामाण्यात क्षणविलम्बेनैवाऽभ्युपगन्तव्यः । अनुकार्य्यस्याऽभेदपक्षे भानाय प्रकारान्तरमेवाऽनुसतव्यमिति । परे तु-उक्तमते पदार्थोपस्थितेः शाब्दबोधहेतुतायां तदवच्छेदककोटौ तत्तत्सम्बन्धावच्छिन्नवृत्तिज्ञानजन्यत्वनिवेशावश्यकत्वेन वृत्तेवेंधा प्रवेशे गौरवम् । अन्यतरत्वेन सम्बन्धनिवेशे त्वन्यतरत्वघटकभेदयोर्विशेष्यविशेषणभावे विनिगमनाविरहात्तत्तादव. । परीक्षा शब्दस्य शाब्दबोधविषयत्वनिर्वाह इत्यत आह-*सम्बन्धस्येति । तद्बोधकत्येनवृत्तिमदर्थबोधकत्वेन अर्थबोधजनकत्वमेवास्माकं शक्तिस्तदाश्रयत्वेन शब्दस्यापि ज्ञानसम्भवात् । Page #256 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः उक्तञ्च वाक्यपदीये ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति ॥ विषयत्वमनागृत्य शब्दैर्नाऽर्थः प्रकाश्यते ॥ इति च । दर्पणः स्थ्यमेव । तदपेक्षयाऽभेदपक्षे सादृश्यसम्बन्धेनाऽनुकरणादनुकार्योपस्थितिस्तथोपस्थितस्याऽपि तात्पर्य्यवशाच्छाब्दे भानं वृत्तिज्ञानजन्यतावच्छदककोटौ सादृश्यज्ञानाऽजन्यत्वनिवेशात् । तद्धतुतायां न व्यभिचारः । अत एव 'गवित्ययमाह इत्यादौ न विभक्त्युत्पत्तिः। वृत्त्यार्थबोधकत्वरूपाऽर्थवत्त्वाऽभावेनाऽप्रातिपदिकत्वात् । स्पष्टश्चाऽयमर्थो “मतौ छः सूक्तसाम्नोः " ( पा० सू० ५।२।१९ ) इत्यत्र भाष्यकैयटयोः॥ ____ स्वप्रतियोगिकत्वविशिष्टसम्बन्धस्य स्वस्मिन् सत्तां तेजोदृष्टान्तव्याजेन दर्शयन् स्वोक्ते हरिसम्मतिमाह-*उक्तञ्चेति*। *ग्राह्यत्वम्*-बोध्यत्वम् । *ग्राह्यकत्वंबोधकत्वम् । *एते*-ग्राह्यत्वग्राहकत्वे । *पृथगवस्थिते* । इत्यनेन तयोरसमनैयत्यं दर्शयति । दीपादिरूपतेजसो विषयसन्निधाने शक्तिद्वयं लोके प्रत्यक्षसिद्धम् । तदसमवधाने तु ग्राह्यत्वमेव यथा, तथा शब्दानामर्थाबाधे उक्तशक्तिद्वयं, तद्वाधे तु ग्राह्यत्वमेवेति तदर्थः। "स्वं रूपम्" इति सूत्रभाष्यादप्युक्तार्थस्यव लाभादिति तस्यैव पद्यान्तरमाहविषयत्वमिति* । स्वस्य विषयतामसम्पाद्य शब्दरर्थो न बोध्यत इत्यर्थः । स्वजन्यार्थबोधत्वस्य स्वविषयकत्वव्याप्यत्वादिति यावत् । अयम्भावः-शब्दार्थयोरभेदमते तन्मूलकाध्यासाच्छब्दादाऽऽकारवृत्तौ जायमाना. यां शब्देनाऽपि तस्यां स्वाकारसमर्पणमिति शाब्दबोधस्य शब्दविषयकत्वसिद्धिरिति। ____ अत्र वदन्ति-"न सोऽस्ति प्रत्ययो लोके” इत्युक्तत्वात् किं बोधत्वाऽवच्छेदेन शब्दविषयकत्वं प्रतिज्ञायते, उत ग्राह्यत्वमिति पद्यद्वयाच्छाब्दत्वाऽवच्छेदेन तत्त्वम् । किंवा शाब्दत्वसामानाधिकरण्येन । नाद्यः । घटादिप्रत्यक्षाव्यवहितप्रास्थले घटा. दिपदोपस्थितेरनैयत्येन तादृशप्रत्यक्षस्य घटादिपदविषयकत्वाऽसम्भवात् । एवं घटाद्यनुमितावपि तदानं न सम्भवति । व्यापकतया तदवच्छेदकतया वा व्याप्तिग्रहे तदभानात। तदनन्तर घटपदं साक्षात्करोमि घटपदमनुमिनोमीत्यनुव्यवसायाऽभावाच्च । न द्वितीयः। घटपदज्ञानजन्योपस्थितेस्तद्वाचकपदेऽभावेन तस्य शाब्दविषय. त्वाऽसम्भवात्। पदज्ञानस्य सम्बन्धिज्ञानविधयाऽर्थस्मारकत्वेन हस्तिपकदर्शनजन्यहस्त्युपस्थितौ हस्तिपकस्येव तजन्याऽर्थोपस्थितावुद्बोधकतावच्छेदकपदस्य विषयत्वा परीक्षा *एते*-द्वे शक्ती। विषयत्वमिति*। शब्दस्य विषयत्वमनादृत्य केवलोऽर्थो न शब्दै. र्बाध्यत इत्यन्वयः। एवञ्च प्रामाण्ये विशिष्टो यो वृत्याश्रयत्वबोधस्तमादाय शब्दस्य न शाब्दबोधे भानानुपपत्तिरिति रीत्या सर्वस्य शब्दस्य शाब्दबोधे भानमङ्गीकार्य मिति भावः। द्वे शक्ती पृथगवस्थिते इत्यनेन तयोः शक्त्योः समनैयत्याभावो द: शितः । तथाच यथा तेजसोऽर्थसन्निधाने शक्तिद्वयवत्ता; तदभावे ग्राह्यत्वमेव; तथा Page #257 -------------------------------------------------------------------------- ________________ २२८ दर्पणपरीक्षासहिते भूषणसारेप्रसङ्गादनुकार्यानुकरणयोरभेदपते साधकमाहअत एव गवित्याह भू सत्तायामितीदृशम् ॥ न प्रातिपदिकं नापि पदं साधु तु तत् स्मृतम् ॥ २७ ॥ ___ "गवित्ययमाह" "भू सत्तायाम्" इत्येवमादयो यतोऽनुकरणशब्दा अनुकार्यान्न भिद्यन्ते, अतस्तेषामर्थवत्त्वाद्यभावाद्, "अ. र्थवदधातुः” (पासू० ११४॥४२) इत्याद्यप्रवृत्तौ न प्रातिपदिकत्वं, नापि पदत्वम् । अथ च साधुत्वमित्युपपद्यते । अन्यथा दर्पणः ऽसम्भवाच्च । घटो न घटशब्द इतिसार्वजनीनप्रतीत्या शब्दाऽर्थयोस्तादात्म्ये माना. ऽभावेन नाऽर्थाकारवृत्तेः शब्दाऽऽकारतासम्भवोऽपिः घटशब्दबोधाऽनन्तरं घटपदं शाब्दयामीति प्रतीतेः सार्वजनीनत्वे क्षणविलम्बसहिष्णुता सम्भवेदपि । न च तस्यास्तथात्वमिति न किञ्चिदेतत्। अपि च भिन्ने विषयेऽनुमितिसामग्रया बलवत्ता, यत्र तादृशाऽनुमितिसामग्रोकाले केवलघटत्वविशिष्टविषयिका शाब्दधीर्जायतामितीच्छाबलाद् घटशाब्दधीस्तत्र घटांशे तद्भानं दुरुपपादमेव । घटशब्दशाब्देच्छाविरहविशिष्टभिन्नविषयकाऽनुमितिसामग्रयाः प्रतिबन्धिकायाः सत्वात्। नाऽपि तृतीयः । सिद्धसाधनात् । विष्णुमुच्चारयेत्यादौ विष्ण्वादिपदानां लक्षणया शाब्दविषयतायाः परैरभ्युपगमात् । उक्तभाष्यादपि क्वचिच्छाब्दबोधे शब्दो विषय इत्यर्थस्यैव लाभात् सति तात्पर्ये क्वचिदन्यत्रापि विशेष्यांऽशे तद्भानाभ्युपगमे क्षतिविरहाच्च । अत एव नलादीनां विशिष्य तत्तद्रूपेणानुपस्थितत्वेऽपि, नलपदवाच्यः कश्चिदासीदिति सामान्यशक्तिग्रहात्तत्पदवाच्यत्वेन तेषां बोधः प्राचीनसम्मत उपपद्यते । अभेदे शब्दभानं तु, परे त्वित्युक्तभाष्यसम्मतमतेनैव । अत एव तस्मादविकृतस्यैव बोधः । हरिवचनानि तु प्रणवब्रह्मणोरभेदोपासनश्रद्धातिशयबोधकानि भवन्तीति न तैर्व्यावहारिकाऽर्थस्य सिद्धिस्तस्माच्छाब्दबोधमात्रस्य शब्दविषयकत्वं न विचारसहमधिकमग्रे व्यक्तीभविष्यतीति ॥ २६ ॥ परीक्षा शब्दस्याप्यर्थाबाधे उभयवत्ता, अर्थाभावे तु ग्राह्यत्वमेवेति दर्शितम् । *प्रसङ्गादिति* यदुक्तम्प्राक् शब्दोऽपि यदि भेदेनेति तत्प्रसङ्गादित्यर्थः। *अत एव*-अनुकार्यानुकरणयोरभेदादेव । *अतः*-अभेदात् । अयम्भावः-शब्दार्थयोस्तादात्म्यमिति हि सिद्धान्तः। तादात्म्यञ्च-भेदाभेदौ । प्रकृते त्वभेद एवेति नार्थवाचकतारूपवृत्तिमत्वमिति । *साधुत्वमिति*-'प्रत्ययः परोभवत्येव इति नियमविरोधेन यस्य प्रत्ययपरत्व. योग्यता तस्य प्रत्ययाभावेऽसाधुत्वमिति। प्रकृते तु प्रातिपदिकत्वस्यैवाभावेन प्रत्ययपरत्वयोग्यता नास्तीति साधुत्वमिति । नच यस्य न प्रत्ययपरत्वयोग्यता: तस्य साधुत्वमिति चेद् ? गावीगोण्यादीनामप्येवं जातीयकत्वात्साधुत्वापत्तिरिति वाच्यम् ? उबु. न्दिर-निशामने मारणतोषणनिशामनेषु ज्ञा। विधूगत्यामित्यादिनिर्देशादनुकरणस्य तथात्वेऽप्यत्र तथात्वकल्पने मानाभाव इति भावात् । *अन्यथा--भेदपक्षस्यैवाङ्गी. Page #258 -------------------------------------------------------------------------- ________________ नामार्थनिर्णयः। २२९ "प्रत्ययः” (पा०सू०३।१।१) “परश्च" "अपदं न प्रयुञ्जीत" इति दर्पणः *अन्यथेति । भेदपक्षस्यैवाऽभ्युपगमे इत्यर्थः ॥ *प्रत्ययः परश्चेति । नियमशास्त्राणां निषेधमुखेनाऽपि प्रवृत्तः प्रत्ययपरैव प्रकृतिः प्रयोक्तव्या, न केवलेति नियममूलकस्य "अपदं न प्रयुञ्जीत" इति निषेधविधेः प्रत्यययोग्यस्य प्रत्ययं विना प्रयोगेऽतिक्रमणादसाधुतापत्तेरित्यर्थः । अस्मन्मते तु तस्य प्रत्यययोग्यत्वाऽभावान्निषेधविष परीक्षा कारे । *प्रत्ययः परश्चेतीति । नियमशास्त्राणां निषेधमुखेन प्रवृत्तिपक्षाभिप्रायेणेदम् । साधुत्वादेव गवित्ययमित्यादाविवादेशो भवति । ____ अत्र केचित्-'न सोऽस्ति इत्यादिना स्ववाच्यार्थविषयकज्ञानत्वव्यापकविषयिता. कत्वं शब्दे साध्यते । उत तादृशशाब्दत्वव्यापकविषयिताकत्वम् , उत शाब्दत्वसामानाधिकरण्यम् । नाद्यः-घटादिप्रत्यक्षसामग्रीकाले शब्दे सन्निकर्षाभावेन शब्दभानासम्भवात् । एवं घटानुमितिसामग्रीकालेऽपि शब्देस्य व्याप्तिग्रहाद्यभावेनानमितौ तद्भानासम्भवः । एवम्प्रत्यक्षानुमित्यनन्तरं “घटशब्दं साक्षात्करोमि" "घटशब्दमनुमिनोमि" इत्यनुव्यवसायाभावेन प्रत्यक्षानुमित्योस्तगाने मानाभावः । न द्वितीयः-घटपदज्ञानजन्योपस्थितेः पदविषयकत्वाभावेन शाब्दे तदानानिर्वाहात् । किञ्च पदज्ञानस्य सम्बन्धिज्ञानविधयार्थस्मारकत्वेन सम्बन्धिनो हस्तिनो हस्तिपकस्मृतौ मानाभाववत्पदस्यार्थस्मृतौ भानसम्भवः । 'घटो न घटशब्दः' इति सार्वजनीनानुभवेन शब्दार्थयोस्तादात्म्ये मानाभावश्च । अपि च भिन्ने विषयेऽनुमितिसामग्या बलवत्वेन तादृशानुमितिसामग्रीकाले घटशाब्दबोधो जायतामित्याकारके. च्छासत्वे घटशाब्दबोधो जायते, तदा शब्दशाब्दबोधो जायतामित्याकारकेच्छाया अभावेन शब्दस्य शाब्दबोधे-भानानिर्वाहः। नापि तृतीयः, विष्णुमुच्चारयेत्यादितो लक्षणाया शाब्दबोधस्य परैरप्यभ्युपगमादित्याहुः।। ____ अत्रेदं वक्तव्यम्-सर्वत्रज्ञाने शब्दस्य वाच्यार्थसम्बन्धस्य भानमित्येव सिद्धान्तः । प्रत्यक्षे सन्निकर्षाभावागानाभाव इति तु वक्तुमशक्यम्,जातिव्यक्त्योस्तादात्म्यावच्छेदेनापि सह तादात्म्यसत्वेनेन्द्रियसम्बन्धतादात्म्यस्य सम्भवात् । नचैवं तद्वाचकस्य सर्वस्य शब्दस्य भानापत्तिरिति वाच्यम् ? परनये चक्षुःसंयुक्तसमवायसन्निकर्षेण घटत्वनिर्विकल्पककाले द्रव्यत्वस्यापि निर्विकल्पकापत्याऽदृष्टविशेषस्य कालविशेषस्य वा नियामकत्वं कल्प्यते, तथाऽस्मन्मतेऽपि सम्भवात् । “वृद्धिरादैच्” इतिसूत्रनिदेशेन "ओमित्येकाक्षरम्ब्रह्म" इति श्रोतव्यवहारबलेन च शब्दार्थयोस्तादात्म्यादेवार्थनिरूपितव्याप्त्यवगाहिपरामर्शस्यैव शब्दविषयकतया विशेषणतया वा शब्दविषयकत्वस्यानुमितौ सम्भवाच्च । एवं तयोस्तादात्म्यस्य भेदाभेदरूपतयाऽभेदस्योदभतत्वविवक्षया घटं साक्षात्करोमीत्येवानुभवः । पदजन्या पदार्थस्मृतिस्तु शब्दप्रकारिकैवभवति । हस्तिपकत्वेन हस्तिपकस्मृतौ हस्तिनोऽपि विशेषणतया भानम्भवत्येव । एवं सति घटो न घटशब्द इत्यनुभव उपपद्यत्ते-इत्यनुभवसिद्धस्तदा "तस्य वाचकः प्रणवः” इति यथा भेदस्योद्भूतत्वविवक्षया व्यवहारस्तथा तदुपपत्तिः Page #259 -------------------------------------------------------------------------- ________________ २३० दर्पणपरीक्षासहिते भूषणसारेनिषेधादिलखनादसाधुतापत्तिरित्यर्थः ॥ २७ ॥ ..... इति श्रीवैयाकरणभूषणसारे नामाऽर्थनिर्णयः ॥ ४॥ दर्पणः यताया एवाऽभावात्तदतिक्रमणाप्रसक्तः साधुत्वादेव च तत्रादेशादिरपि । अन्यथा भाषाशब्देष्विव न तत्प्रवृत्तिः स्यादिति भावः ॥ २७ ॥ इति श्रीभूषणसारदर्पणे नामाऽर्थनिरूपणम् ॥ ४ ॥ परीक्षा कार्या-एवम्भिन्न विषयकानुमितिसामग्रीकाले घटशाब्दवोधो जायतामिति या इच्छा, तस्याः शब्दविषयकत्वमपि न शाब्दबोधे शब्दभानप्रतिबन्धक इति दिक् ॥ ४ ॥२७॥ इति नामार्थनिर्णयविवरणम् । Page #260 -------------------------------------------------------------------------- ________________ - अथ समासशक्तिनिर्णयः ॥ समासान् विभजतेसुपां सुपा तिङा नाम्ना धातुनाऽथ तिङ तिङन ॥ सुषन्तेनेति च ज्ञेयः समासः षड्विधो बुधैः ॥ २८ ॥ दर्पणः अथ समासशक्तिनिर्णयः । क्लप्सशक्त्यैव निर्वाहान्न नामसमुदायाऽऽत्मकसमासेऽतिरिक्ता शक्तिरिति मतं दूषयिष्यन् प्रसङ्गात्समासाऽर्थ निरूपयितुमादौ तद्विभागप्रदर्शनमित्याशयेनाऽऽह*समासानिति ॥ समासत्वं च शक्तिसम्बन्धेन समासपदवत्त्वम्। एकार्थीभावापनपदसमुदायविशेषो वा । एकार्थीभावे मानं च "किं पुनः समर्थ नाम ? पृथगानामेकार्थीभावः समर्थवचनम् । क्व पुनः पृथगानि, कैकार्थानि । वाक्ये पृथगानिराज्ञः पुरुष इति, समासे पुनरेकार्थानि-राजपुरुष” इति समर्थसूत्रस्थं भाष्यम् । तन्मूलिका वक्ष्यमाणा युक्तयश्च । तत्रैकार्थत्वमेकोपस्थितिविषयाऽर्थकत्वम् । न त्वेकार्थशक्तत्वम् । घटादिपदानामपिघटघटत्वतत्सम्बन्धरूपनानार्थशक्तत्वेनैकार्थतानापत्तेः। नानोपस्थितिविषयार्थकत्वं पृथगर्थकत्वम् । यथा वाक्ये-पृथक्पदानामाकाङ्क्षादिसहकारेण विशिष्टार्थप्रत्ययः । नैवं वृत्तौ, किन्त्ववयवशक्त्या समुदायशक्तिसहकृतया जायमाना पदार्थोपस्थितिरेव विशेष्यविशेषणभावाऽऽपन्नविशिष्टाऽर्थमवगाहते । “संस्पृष्टार्थ, समर्थम्" इति भाष्यात् । राजपुरुषादिपदं राजसम्बन्धवत्पुरुषादौ शक्तमित्याकारकशक्तिग्रहः। ततश्च प्राप्ताप्राप्तविवेकेन विशिष्टशक्तिः षष्ट्याद्यर्थे पर्यवस्यति । अत एव न तत्र राजादौ सुन्दराऽऽदिपदार्थाऽन्वयः । एकदेशत्वात्। "देवदत्तस्य गुरुकुलम्" इत्यादौ तु गमकत्वात् स इति वक्ष्यते । 'जहत्स्वार्थवृत्तिः, ‘पदानामानर्थक्यम्" इति तु न सम्यक् । महाबाहुरित्यादावात्वाद्यनापत्तेः। भूतपूर्वगत्याश्रयणंतु सत्यांगतावनुचितम् । तदुक्तम्जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी । इति । परीक्षा अथ समासशक्तिनिरूपणम् ।। नाम्नो निरूपणस्य प्रक्रान्तत्वात्समासस्यापि नामविशेषत्वन्निरूपयति*समासानित्यादिना*। समासत्वञ्च-शक्तिसम्बन्धेसमासपदवत्वम् । तच्चैकार्थीभावापन्नपदसमुदायविशेषे कल्प्यते । एकार्थीभावे मानञ्च-"किम्पुनः समर्थ नाम-पृथगानामेकार्थीभावः समर्थवचनम् । क पुनः पृथगानि ? कैकार्थानि ? वाक्ये पृथगानि राज्ञः पुरुष इति। समासे पुनरेकार्थानि राजपुरुष इति" समर्थसूत्रस्थभाष्यमेव । एतत्स्वीकारप्रयोजनञ्चाने स्फुटम् । एकार्थत्वञ्च समुदायशक्तिमहसहकृतावयवशक्त्या विशेष्य Page #261 -------------------------------------------------------------------------- ________________ २३२ दर्पणपरीक्षासहिते भूषणसारे *सुपां सुपा* ॥ पदद्वयमपि सुबन्तं, राजपुरुष इत्यादिः ॥ सुपां तिङा पूर्वपदं सुबन्तमुत्तरपदं तिङन्तम् । पर्यभूषयत् । अनु. व्यचलत् । “गतिमतोदात्तवता तिङाऽपि समासः” इति वातिकात् समासः ॥ सुपां नाना ॥ कुम्भकार इत्यादिः । “उपपदमति (पासू०२।२।१०) इति समासः । स च "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक सुबुत्पत्तेः" इति परिभाषया भवति सुबुत्पत्तः प्राक । अत्रोत्तरपदे सुबुत्पत्तःप्रागित्यर्थः । अन्यथा चम्मक्रीतीत्यादौ नलोपानापत्तेः ॥ *सुपां धातुना* ॥ उत्तरपदं धातुमात्रं, न सुप्तिङन्तम् । कटतः । आयतस्तूः । “किम्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां दीर्घश्च” इति वात्तिकात् ॥ *तिङ तिङा* ॥ पिबतखादता पचतभृजतेत्यादिः। "आख्यातमाख्यातेन क्रियासातत्ये” इति मयूरव्यंसकाद्यन्तर्गणसू दर्पणः अवयवाऽर्थविरुद्धो यत्र समुदायार्थस्तत्रैव सा, यथा कृष्णसर्पादाविति तदर्थः । अयमेव पक्षः समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । इति वदतो मूलकृतः सम्मतः । तथा सति पङ्कजशब्दादौ पोगरूढयभ्युपगमेन तद्दृष्टान्तोपन्याससार्थक्यात् । जहत्स्वार्था वृत्तिरिति पक्षस्य तत्सम्मतत्वे स्वमते तस्य पक्षतया तत्र तदनभ्युपगमेन तदुपन्यासाऽनुपपत्तेः स्पष्टत्वात् । अधिकमग्रे वक्ष्यत इति । ___*गतिमतोदात्तवतेति । उपलक्षणमिदम् , “सह सुपा”इति योगविभागस्याऽपि । 'अनुव्यचलत्' इत्यत्राऽनोय॑चलदित्यनेन वेश्चऽचलदित्यनेन युगपत्समासः । अन्विति सुबन्तेन व्यचलदिति समुदायस्य समर्थत्वात् ; सत्यां समाससंज्ञायां शाकलप्रतिषेधाद्यणादेशः समासाऽन्तोदात्तत्वं च भवति । तिडैकत्वस्योक्तत्वात् प्रकृत्यर्थव्यापारस्य संख्यान्वयाऽयोग्यत्वाद्वा न ततः सुबुत्पत्तिः। समयपरिपालकौत्सर्गिकैकवचनस्य तु तथा सुबन्तस्याऽभिधानादेवाऽप्रवृत्तिरिति भावः। ___ *अन्यथेति । सुबुत्पत्तेः प्राक्समाससंज्ञाऽभ्युपगम इत्यर्थः। न लोपेत्यस्य-अ. पदत्वादीत्यादि । यद्यपि “उपपदम्” (पा०सू० २।२।) इति सूत्रे भाष्येऽनयोर्योगयोनिवृत्तं "सुप्सुपा"इत्युक्तं, तथाप्युपपदमिति महासंज्ञाबलादेव पूर्वपदस्य सुबुत्पत्यन्तरं समास इति भावः । प्राक्सुबुपत्तेरित्येकदेशप्रयोजनप्रदर्शनमिषेण परिभाषायाः प्रयोज । परीक्षा विशेषणभावापन्नविशिष्टार्थावगाटेकोपस्थितिजनकत्वम् । *वातिकादिति । इदमुपलक्षणम् , सहेतियोगविभागस्यापि । अनुव्यचलदित्यत्रानोव्य॑चलदित्यनेन वेश्चाचलदित्यनेन युगपत् समासः । अत्र समाससंज्ञाप्रयोजनञ्च समासान्तोदात्तत्वं शाकलप्रतिषेधश्च । *अन्यथा*-उत्तरपदेइति विशिष्यानुपादय सामान्यतः सुबु. Page #262 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। २३३ त्रात् ॥ *तिङ सुबन्तेन* ॥ पूर्वपदं तिङन्तमुत्तरं सुबन्तम् । जहिस्तम्बः । “जहि कर्मणा बहुलमाभीक्षण्ये करिश्चाभिदधाति" इति मयूरव्यंसकाद्यन्तर्गणसूत्रात् । अयं षड्विधोऽपि समासः, "सह सुपा" (पासू०२।१।४।)इत्यत्र योगविभागेन भाष्ये व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ ॥ २८ ॥ स्वयं भाष्यादिसिद्धं तदुभेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभागस्याव्याप्त्यतिव्याप्त्यादिभिस्तल्लक्षणस्य प्रायिकत्वं च दर्शयति . दर्पणः नमपि दर्शितम् । सुबुत्पत्तेः पश्चात् समासे हि स्वार्थद्रव्यलिङ्गसंख्याकारकाणां क्रमिकत्वस्यान्तरङ्गम्बहिरङ्गभावमूलकस्य "कुत्सिते” (पा०सू० ५।३।२४) इति सूत्रभाष्यसम्मतत्वेनाऽन्तरङ्गत्वात् सुबुत्पत्तेः पूर्वं टापि अनदन्तत्वात् , “क्रीतात् करणपूर्वात्" (पा०सू० ४।१।१०) इति ङीषोऽनुपपत्तेरिति दिक् ।। __ *भाष्ये व्युत्पादित इति । तत्र हि प्रत्येकं समाससंज्ञावारणरूपं सहशब्दप्रयोजनं समुदाये वाक्यपरिसमाप्तिन्यायेन परिहृत्य "एवं तर्हि सिद्धेयत् सहग्रहणं करोति तस्यैतत् प्रयोजन योगाङ्गं यथा विज्ञायेत, सति योगाङ्गे योगविभागः करिष्यते । सह सुप् समस्यते । केन समर्थेनाऽनुव्यचलदनुप्राविशत्। ततः सुपा, सुपा च सह सुए समस्यते । अधिकारश्च लक्षणं च, यस्य च समासस्याऽन्यल्लक्षणं नास्ति तस्येदं लक्षणं भवति" इत्युक्तम् । तत्राधिकारप्रयोजनम्-देवदत्तः पचतीत्यादौ समानाधिकरणेन समाससंज्ञावारणं बोध्यम् ॥ २८ ॥ *भेदमिति । षाड्विध्यरूपमित्यर्थः। *प्राचीनेत्यादि । यद्यपि “अव्ययं विभक्ति” (पा०सू० २।१।९) इति सूत्रे भाष्ये समुदायस्य संस्कार्यत्वेन प्राधान्यात्तस्यैव संमृद्धयादयो विशेषणानीति समुदायात्समृद्धयादीनां गम्यमानत्वादत्राऽप्यव्ययीभावापत्तिरित्यभिप्रायेण "इह कस्मान्न भवन्ति सुमद्राः सच्छत्र" इति प्रश्ने, “नेष दोषः, इह कश्चित् समासः पूर्वपदार्थप्रधान" इत्यादिसमासलक्षणान्युक्त्वा नाऽन्न पू. र्वपदार्थप्राधान्यं गम्यत इति समाहितम् । तथापि नैते समासार्था निर्दिश्यन्ते इत्यादिना पक्षान्तरोपन्यासेनोक्तलक्षणेष्वनिर्भरसूचनाददोष इति भावः। *लक्षणस्येति ॥ तत्वं साधारणधर्मवत्वम् । धमें साधारण्यं च तदितराऽवृत्ति. त्वे सति सकलतवृत्तित्वम् । यथा सास्नाशृङ्गवत्त्वं गोर्लक्षणम् । तत्र शृङ्गवत्त्वं गगनकृष्णरूपादीनां लक्षणत्ववारणाय सत्यन्तवृत्तित्वसाकल्यानां निवेशः । तदुक्तम् परीक्षा त्पत्तेः प्राक् समाससंज्ञास्वीकारे । *भाष्ये व्युत्पादित इति । तत्र हि "सहग्रहणस्य समुदायस्य संज्ञा यथा स्यान्नावयवानामित्येतत् । समुदाये वाक्यपरिसमाप्त्यप्रसिद्धः, किन्तु सहग्रहणं योगविभागेन समर्थेन सह समस्यते, तेन पर्यभूषयदित्यादि सिद्धयति । ततः सुपेति, अत्र प्रथमान्तं सुब्ग्रहणमनुवर्त्य सुबन्तसहितं सुबन्तं समाससंज्ञकमित्याश्रित्य यस्यान्यल्लक्षणं नास्ति, तत्र समाससंज्ञासाधकमेतत्" इत्यादिकथितम् ॥२८॥ ३० द० प० Page #263 -------------------------------------------------------------------------- ________________ २३४ दर्पणपरीक्षासहिते भूषणसारेसमासस्तु चतुति प्रायोवादस्तथापरः । योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ २९ ॥ भौतपूर्व्यात् सोऽपि रेखागवयादिवदास्थितः । चतुर्धा अव्ययीभावतत्पुरुषद्वन्द्वबहुव्रीहिभेदात् । अयं प्रायोवादः। भूतपूर्वः। द्वन्भूः । काराभूः । आयतस्तूः। वागर्थाविव । इत्याद्यसङ्ग्रहात् । __ तथा पूर्वपदार्थप्रधानोऽव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः । उभयपदार्थप्रधानो द्वन्द्वः । अन्यपदार्थप्रधानो बहुव्रीहिः इत्यादि लक्षणमपि प्रायिकम् । उन्मत्तगङ्गम् । सूपप्रति । अर्द्धपि दर्पणः "लक्षणे तान्येव पदानि देयानि यैरव्याप्त्यतिव्याप्त्यसम्भवदोषा वार्य्यन्त" इति । तत्र लक्ष्ये लक्षणाऽसत्त्वमव्याप्तिः । अलक्ष्ये तत्सत्वमतिव्याप्तिः । लक्ष्यमा. त्राऽवर्तनमसम्भवः । उदाहरणानि वक्ष्यन्ते । असाधारणधर्मवत्ताज्ञानात्तद्धर्माश्रय इतरभेदाऽनुमितिव्यवहारश्च फलम् । यस्य तु धर्मस्य केवलाऽन्वयित्वं तद्धर्मज्ञानस्य तु व्यवहारमानं तत् । तदुक्तम् व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् । इति ॥ *प्रायोवाद इति* ॥ प्रायशस्तेषामुपलभ्यमानत्वेऽपि अन्येषामपि केषां चिदुपलब्धिरित्यर्थस्तदेव विशदयति-*भूतपूर्व इत्यादि । एषां वक्ष्यमाणयत्किञ्चिल्लक्षणाक्रान्तत्वेऽपि तत्तदधिकारीयसूत्राऽनुशिष्टत्वादसंग्रहो बोध्यः, समासाऽधिकारीयसूत्रानुष्ठितत्वाद्विभागे तदसंग्रहे इष्टापत्तेरयोगात् ॥ _ *पूर्वपदाऽथेत्यादि* ॥ प्राधान्यं च समासघटकपदार्थप्रकारतानिरूपितमुख्यविशेष्यत्वम् । तथाच-पूर्वपदार्थविशेष्यकबोधजनकत्वमव्ययीभावत्वमित्यर्थः । एवमयोऽपि । उपकुम्भमित्यत्र कुम्भनिरूपितसामीप्यस्य विशेष्यतया बोधाद् राजपुरुष इत्यादौ राजसम्बन्धिपुरुषोत्तरपदार्थस्य पीताऽम्बर इत्यत्र पीताऽभिन्नाऽम्बरसम्ब परीक्षा *त दम्*-समासभेदम् । तथापरः,*-अपरोऽपि वादस्तथा प्रायोवादः । अपरवादमेवाह-*योऽयमित्यादिना । *भूतपूर्व इति* । अत्र हि-"सुप्सुपा" इत्यनेन समाससंज्ञा भवति । अयं च समासोऽव्ययीभावादिसंज्ञाविनिर्मुक्त इति सुप्रसिद्धमेव। पूर्वपदार्थनिष्ठा या समासघटकपदान्तरार्थनिष्टप्रकारतानिरूपिता मुख्यविशेष्यता तन्निरूपितविशेव्यिताशालिबोधजनकः । यथोपकुम्भमित्यादिः । एकमग्रेऽपि । *उभयपदार्थप्रधान इति* । धवखदिराविति यथा, साहित्यविशिष्टौ धवखदिराविति बोधात् । *अन्यपदार्थप्रधान इति । चित्रगुरित्यादि यथा। अत्र हि बहुव्रीहिघटके पदे प्रथमान्ते ततोऽन्यद्यत्पदं षष्ठ्यन्तं तदथें समासाङ्गीकारात् । *उन्मत्तगङ्गमिति । उन्मत्ता गङ्गा यस्मिन्देशे इत्यर्थेऽव्ययीभावसमासेऽन्यपदार्थप्राधान्यसत्वाद् बहुव्रीहि. लक्षणातिव्याप्तिः । *सूपप्रतीति* । सूपस्य लेश इत्यर्थः । *अर्द्धपिप्पलीति* । Page #264 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। २३५ प्पली। द्वित्राः। शशकुशपलाशमित्यादौ परस्परख्यभिचारात् । तथाहि-उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावाव्याप्तिः । अन्यपदार्थप्राधान्याद् बहुव्रीहिलक्षणातिव्याप्तिश्च । “अन्य. पदार्थे च संज्ञायाम्" (पासू०२।१।२१।) इति समासात् । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च । "सुप् प्रतिना मात्राथै" (पा०सू०२।१।६) इति समासात् । अर्द्धपिप्पलीति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वाद् अव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च । “मद्धं नपुंसकम्” (पा०सू० २।२।२) इति समासात् ।। एवं पूर्वकाय इत्यादौ द्रष्टव्यम् । द्वित्रा इतिबहुव्रीहावुभयपदार्थप्राधान्याद् द्वन्द्वातिव्याप्तिबहुव्रीह्यव्याप्तिश्च । शशकुशपलाशमित्यादिद्वन्द्वे समाहारान्यपदार्थप्राधान्यात् बहुव्रीह्यतिव्याप्तिर्द्वन्द्वाव्याप्तिश्च स्यादिति भावः। सिद्धान्ते त्वव्ययीभावाऽधिकारपठितत्वमव्ययीभावत्वमित्यादि दर्पण: न्धिनोऽन्यपदार्थस्य, धवखदिरावित्यत्र साहित्यापन्नधवखदिरयोः पूर्वोत्तरपदाऽर्थयोविशेष्यतया भानाद् यथायथं लक्षणसमन्वयः ॥ *व्यभिचारादिति ॥ यद्यपि व्यभिचारोऽतिव्याप्तिरेव, तथापि प्रकृते दोषत्वेन व्यभिचारपदेनोभयं लक्ष्यते। तद्वक्ष्यति*अव्याप्तिरिति । तामेवाऽभिनयेन प्रदर्शयति-*तथाहीत्यादि* ॥ *पूर्वपदार्थेति। उन्मत्तादिपदाऽर्थेत्यर्थः । एवमग्रेऽपि ॥ *अव्ययीभावलक्षणेति* ॥ पूर्वपदाऽर्थविशेष्यकबोधजनकत्वरूपतल्लक्षणासत्त्वरूपेत्यर्थः ॥ *अन्यपदार्थप्राधान्यादिति ॥ समासाघटकसप्तम्यर्थाऽधिकरणविशेष्यकबोधजनकत्वादलक्ष्ये लक्षणसत्त्वरूपेत्यर्थः ॥ *बहुव्रीहीति* ॥ तल्लक्षणेत्यर्थः । एवमग्रेऽपि । ननु तर्हि कान्यव्ययीभावादिलक्षणानीत्यत आह-*सिद्धान्ते विति* ॥ लक्ष्य. ताऽवच्छेदकं तु शक्तिसम्बन्धेनाऽव्ययीभावादिपदवत्त्वम् । भूतपूर्वाऽऽदीनां लक्ष्यताऽवच्छेदकाऽनाक्रान्तत्वात् तदसंग्रहो न दोषायेति भावः ॥ जहत्स्वार्थवृत्तिपक्षम परीक्षा पिप्पल्या अर्द्धमित्यर्थात्। कायस्य पूर्वो भागः। “पूर्वापराधरोत्तरम्" इति समासात् । *द्वित्रा इति* । संख्ययाऽव्यय” इति समासः । द्वौ वा त्रयो वा द्वित्राः, द्विअन्यतरा इत्यर्थात् । *समाहारान्यपदार्थ इति* । समाहाररूपान्यपदार्थस्य प्राधान्यात् । द्वन्द्वाव्याप्तिरिति । द्वन्द्वलक्षणाव्याप्तिः । उभयपदार्थस्य मुख्यविशेष्यत्व. विरहात् । न केवलमुक्तलक्षणानामव्याप्त्यतिव्याप्ती, किन्तूक्तलक्षणानां लक्ष्यमात्रावृत्तित्वेनासम्यक् इत्यर्थः । इदमसम्भवादभिधानं जहत्स्वार्थावृत्तिमतेन, तत्पक्षे पूर्वोत्तरपदयोरनर्थकत्वेन कुत्राऽपि वृत्योः पूर्वोत्तरपदयोरर्थबोधकत्वाभावेनोक्तलक्षणानां समन्वयो भवति । वस्तुतस्तु वक्ष्यमाणरीत्या पूर्वपदस्यैवानर्थकत्वं राजपुरुषादिपदे Page #265 -------------------------------------------------------------------------- ________________ २३६ दर्पणपरीक्षासहिते भूषणसारेद्रष्टव्यम् । असम्भवश्वैषामित्याह-भौतपूादित्यादि ॥ रेखागवयादिनिष्ठलागृलादेर्वास्तवपश्वलक्षणत्ववदेतेषामपि न समासलक्षणत्वम् । बोधकता तु तद्वदेव स्यादिति भावः ॥ २६॥ ___ ननु पूर्वपदार्थप्राधान्यादि समासे सुवचम् । तथाहि "समर्थः पदविधिः” इति सूत्रे भाष्यकारैरनेकधोक्तेष्वपि पक्षेषु जहत्स्वार्थाऽ. जहत्स्वार्थपक्षयोरेवैकार्थीभावव्यपेक्षारूपयोः पर्यवसानं लभ्यते । दर्पणः वलम्ब्य मूलमवतारयति-*असम्भवश्चैषामिति ॥ अस्य जहत्स्वार्थवृत्तिपक्ष इत्यादिः ॥ एषां-लक्षणानाम् । असम्भवो-लक्ष्यमात्राऽवर्तनमित्यर्थः । तत्पक्षे पूर्वोत्तरपदयोस्तत्त्वेन कुत्राऽपि वृत्तेरभावेन तदर्थघटितानां तेषामुपकुम्भादावसम्भवादिति भावः। मूले ॥ *भौतेति ॥ शाबनित्यतावादिमते यथाश्रुतभौतपूर्व्यस्याऽप्यव्ययीभावादावसम्भवादाह-*सोऽपीति ॥ व्यवहारोपीत्यर्थः ॥रेखेति* ॥अन्यस्य कथमन्यधर्मबोधकत्वमत आशयं प्रकाशयति सारे-रेखागवयेत्यादि* ॥ *तद्वदेवेति ॥ रेखागवयादिवदेवेत्यर्थः । यथा गवयादावविद्यमानमपि रेखागवयादिनिष्टरेखाकृतिपुच्छं गवयादिपुच्छे सादृश्यमूलकाऽभेदाऽध्यवसायाद् गवयादिबोधकम् , तथा समासेऽविधमानमपि विग्रहवाक्यनिष्ठपूर्वपदार्थादिप्राधान्यं सादृश्याद् अव्ययीभावादिबोधकमित्यर्थः॥२९॥ ___ अजहत्स्वाथवृत्तिपक्षे पूर्वपदार्थप्राधान्यव्यवहारो न पुनः दुरूपपाद इत्याशयेन मूलमवतारयति-*नन्विति ॥ * अनेकधोक्तेष्विति ॥ "अथ तेषां ब्रुवतां किं जहस्वार्था वृत्तिराहोस्विदजहत्स्वार्था" इत्यादिनेत्यादिः । *एकार्थीभावव्यपेक्षेति ॥ एकार्थीभावस्तूक्तः । व्यपेक्षा तु समस्तपदानां परस्परसाकाङ्क्षत्वम् । *पर्यवसानं परीक्षा पूर्वकायादौ तूत्तरपदस्येति तत्राप्युक्ता व्यवस्था न सम्भवतीति बोध्यम् । मूले*भौतपूर्व्यादिति । सोऽपि पूर्वपदार्थप्राधान्यादिव्यवहारो भौतपूादाश्रितो रेखागवयादिवदित्यन्वयः । शब्दानां नित्यत्वेन समाससंज्ञाप्रवृत्तिकालापेक्षया यः पूर्वकालस्तस्मिन् समासघटकपूर्वोत्तरपदसजातीयं यत्पदं तस्य योऽर्थो ज्ञातस्तस्येदानीम्प्राधान्यमिति कल्पनैव समुदायस्याखण्डस्य बोधकत्वादिति भावः। नन्वन्यस्यान्यलक्षणत्वं कथमत आह-रेखागवयादिवदिति* । लोमवल्लाङ्गलवत्वं पशोर्लक्षणं तत्त्वम्-वास्तवम्-गवये वर्त्तते, रेखारूपगवये तु तन्नास्ति यद्यपि, तथापि रेखाविशेषेण साजात्यारोपायथा गवयादिप्रतीतिस्तथा पूर्वपदार्थप्रधान इत्यादि व्यवहारः । वस्तुतस्तु तथा नास्तीति भावः । पूर्वपदार्थप्राधान्यं वस्तुगत्या वाक्येऽस्ति, तत्समासे आरोपेणाश्रीयत इत्यविद्यमानस्यापि लक्षणत्वम् ॥२९॥ । ननु जहत्स्वार्थावृत्तिरिति पक्षे पूर्वपदार्थप्राधान्यादिकं वास्तविकं समासेऽपि सम्भवतीत्याशयेन शङ्कते-*नन्विति । *अनेकधोक्तेष्विति । जहत्स्वार्थावृत्तिराहोस्विदजहत्स्वार्थेत्यादि। *जहत्स्वार्थेति । जहत्स्वं यस्य स जहत्स्वः, जह Page #266 -------------------------------------------------------------------------- ________________ समांसशक्तिनिर्णयः। २३७ तत्राऽजहत्स्वार्थपक्षे उक्तव्यवस्थानाऽसम्भविनीत्याशङ्कां मनसिकृत्य आह जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा ॥३०॥ भेदः संसर्ग उभयं वेति वाच्यव्यवस्थितेः। जहति पदानि स्वार्थं यस्यां सा जहत्स्वार्था । पदे वर्णवद् वृत्तौ पदानामानर्थक्यमित्यर्थः । अयम्भावः-समासशक्त्यैव राज दर्पणःलभ्यत इति ॥ समर्थसूत्रभाष्यपर्यालोचनया तु एकार्थीभावः सामर्थ्यमिति पक्ष एव वृत्तिद्वयस्वीकारो बोराभेदेन, किन्तु, “अथ ये वृत्तिं वर्त्तयन्ति किं ते आहुः" इत्यादिभाष्याद वाक्यादेवेयं वृत्तिनिष्पन्नेतिमतमवलम्ब्याऽयं विचार इति लभ्यते । समासशक्त्यैवेत्येवकारेणाऽवयवशक्तिव्यवच्छेदः। दृष्टान्तमाह-*वृषादिपदानामिवेति ॥ आनुपूर्व्यन्तरघटकत्वाभावविशिष्टाऽनुपूर्ध्या एव शक्ततावच्छेदकत्वेन वृषभादिपदान्तर्गतवृषादिसमवेतानुपूर्त्या शक्तताऽनवच्छेदकत्ववत् समासाऽन्तर्गतराजानुपूर्व्याः शक्ततावच्छेदकत्वाऽसम्भवादित्यर्थः। अन्यथा रामादिपदादग्न्यादीनामवयवार्थानामपि पदार्थोपस्थितिशाब्दबोधयोरापत्तिरवान्तरसुबुत्पत्त्यापत्तिर्धनं वनमित्यादौ जश्त्वाऽऽपतिश्च । वाक्ये तु पदान्यर्थवन्त्येव । राजसम्बन्धी पुरुष इत्याद्यर्थे राज्ञः पुरुषः, पुरुषो राज्ञ इत्यादिविशिष्टानुपूर्वीद्वयस्य शक्यतावच्छेदकत्वकल्पनापेक्षया पदशक्तिकल्पनाया एव लघीयस्त्वादिति भावः। ___ न चैतत्कल्पे विशिष्टरूपोपादानविहिताऽऽत्वाऽनापत्त्या,महाबाहुः, सुपन्था इत्यादौ दोषः। अनर्थकत्वाद् । एवमर्थवत्त्वनिबन्धनप्रातिपदिकत्वाभावेन नलोपाद्यनापत्तिश्चेति वाच्यम् । वृत्तिप्राग्भाविनमर्थवत्वमारोप्य तत्तत्तात्पर्यस्य सूपपादत्वात् । इट च-"प्रत्ययोत्तरपदयोश्च" ( पा० सू० ७१२।१७ ) इति सूत्रे भाष्ये स्पष्टम् । __ नचैवं 'वाप्यश्व' इत्यादौ न दोषो जहत्स्वार्थायां वृत्तावानर्थक्यात् "ईदूतौ च सप्तम्यर्थे” ( पा० सू० १।१।१९) इति सूत्रस्थभाष्यविरोधो दुष्परिहरः । आरोपितार्थवत्वस्य समासाऽन्तर्गतपदेषु स्वीकारादिति वाच्यम् । अर्थग्रहणसामर्थेनारोपि परीक्षा स्वोऽर्थो यस्यां सा जहत्स्वार्था । स्वशब्दोऽत्र स्वीयपरः । अवयवार्थविरुदो यत्र समुदायार्थस्तत्र जहत्स्वार्था यथा स्थन्तरप्रवीणादिशब्देषु । अत एव- . __"जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी"।। इत्यभियुक्ता वदन्ति । अत्रैकार्थीभावशब्दार्थः प्रागुक्तः । व्यपेक्षा तु स्वार्थपर्यावसायिनाम्पदानामाकाङ्कादिवशात्परस्परसम्बन्धः । यथा-राज्ञः पुरुष इत्यादि वाक्ये । *तत्र*-पक्षयोर्मध्ये । राजपुरुषादिपदेष्वजहत्स्वाथैव वृत्तिरिति तत्रोत्तरपदार्थप्रधान इति व्यवहारो युक्त एवेत्याशयः। उक्तात्समर्थसूत्रस्थभाष्यादेकार्थीभावः सामर्थ्यमित्येव लभ्यते तत्र वृत्तिद्वैविध्यं प्रयोगभेदेन। ते-वृत्ती। विधेति । त्रैविध्यं वाच्यभेदेनेत्याह-*भेद इत्यादिना* । उक्ता जहत्स्वार्थत्यस्य व्युत्पत्तिर्वाक्यदृष्टार्थस्य वृत्तौ सत्त्वपमे सर्वथा पदानामनर्थकत्वमिति मताभिप्रायेणेत्याह-*जहतीति*। *राजवि. Page #267 -------------------------------------------------------------------------- ________________ २३८ दर्पणपरीक्षासहिते भूषणसारे विशिष्टपुरुषभानसम्भवे न राजपुरुषपदयोरपि पुनस्तद्बोधकत्वं कल्प्यम् । वृषभयावकादिपदेषु वृषादिपदानामिव । दर्पणः तार्थस्य तत्राग्रहणादित्याशयात् । एकस्यैव पदस्य वृत्तितत्प्राक्कालयोरर्थवत्वानर्थवत्वे च प्रयोगाऽनुरोध एव शरणम् । योगरूढिस्थले तु योगान्तर्भावेण शक्त्यभ्युपगमान्न तदुच्छेदोऽपि। नचाऽत्र पक्षे राजादिपदैः सर्वथा स्वार्थत्यागे तद्भानं न स्यात्तस्माच्चैकपदार्थाsपरपदार्थे विशेषणमिति व्यवहार इति वाच्यम् । विशिष्टेनैव राजादिविशिष्टपुरुषाधुपस्थापनेनाऽद्यदोषाभावात् । अथवाऽन्वयाद विशेषणं भवतीति भाष्येण द्वितीयस्यापि समाधानात् । निष्कीर्णास्वपि सुमनःस्वामोदान्वयमात्रेण यथा चम्पकपुटव्यवहारस्तथा सदृशार्थाऽन्वयमात्रेण राजादिपदार्थः पुरुषे विशेषणमिति व्यवहार इति तदर्थ इति जहत्स्वार्थवृत्तिपक्षोपपत्तिः। परन्त्वेवं हि दृश्यते लोके 'पुरुषोऽयं परकमणि प्रवर्त्तमानः स्वं कर्म जहाति, तद्यथा तक्षा राजकर्मणि प्रवर्त्तमानः स्वं कर्म जहाति। एवमुक्तम्-यदाजा पुरुषाऽर्थे वर्तमानः स्वमर्थ जह्यादुपगुश्चाऽपत्यार्थे वर्तमानः स्वमर्थ जह्यादिति भाष्यादेतत्कल्पेऽपि पूर्वपदाऽथ एव जहत्स्वार्थत्वं लभ्यते इति ॥ परीक्षा शिष्टपुरुषेति । राजसम्बन्धविशिष्टपुरुषेत्यर्थः । *न राजपुरुषपदयोरपीति । वृत्ति. घटकयोरित्यादिः । तत्र दृष्टान्तमाह-वृषभेत्यादि । वृषेत्यानुपूर्वीयमपि वृषत्वावच्छिन्नशक्ततावच्छेदकानुपूर्व्यन्तरघटकत्वाभाववती या सैवेतिवृषभपदान्तर्गतवृषपदानुपूर्वी न शक्ततावच्छेदिका। अन्यथोमाधवपदादपि माधवस्य प्रतीत्यापत्तिः, धनं वनमित्यादिसमुदायघटकप्रत्येकवर्णस्यापि बोधत्वापत्तौ प्रत्येकवर्णस्यापि प्रातिपदिकत्वापत्तौ जस्त्वाद्यापत्तिः। वाक्ये-राज्ञः पुरुष इत्यादौ तु प्रत्येकम्पदानुपूर्व्यापि शक्ततावच्छेदिका पुरुषो राज्ञ इत्यादिभ्योऽपि तादृशार्थप्रतीतेः । नचैतत्कल्पे"महाबाह" "सपन्था" इत्यादावात्वाद्यनापत्तिवृत्तिघटकानामनर्थकत्वादितिवाच्यम् ? वृत्तिप्रागभाविनमर्थवत्त्वमारोप्य तत्तत्कार्यप्रवृत्तः । नचारोपितार्थवत्वं समासान्तर्गतेऽपि चेद्वाप्यश्वनद्यातिरूपसमुदायघटकव्याप्यादिपदानामपि सप्तम्यर्थवृत्तित्वात्प्रगृह्यत्वमर्थग्रहणे "ईदूतौ च सप्तम्यर्थे” इति सूत्रे कृतेऽपि दुर्वारमित्यर्थग्रहणप्रत्युदाहरणप्रदर्शनपरभाष्यविरोध इति वाच्यम् ? तत्र सूत्रेऽर्थग्रहणसामर्थ्यादनारोपितस्यैव सप्तम्यर्थवृत्तित्वस्याश्रयणात् पङ्कजादियोगरूढे तु प्रत्येकं पदार्थानुपूर्व्या अपि शक्ततावच्छेदकत्वमर्थप्रतीतिदर्शनादाश्रीयते। नचात्रपक्षे राजपुरुषादिसमुदायघटकराजादिपदस्यानर्थकत्वे राज्ञो विशेषणतया तज्जन्यबोधे भानन्न स्यादिति वाच्यम् ? तत्र राजपुरुषेत्यानुपूर्व्याः, शक्ततावच्छेदकत्वेन तद्धर्मावच्छिन्नाद्राजसम्बन्धवान्पुरुष इत्याकारकस्य शाब्दबोधस्य स्वीकारेण राजत्वावच्छिन्ने विशेषणत्वव्यवहारः चम्पकादिवासिततिलादिजन्यतैलादावामोदान्वयदर्शनेन चम्पकपुट इत्यादि व्यवहा. रवत् । अयमस्मिन् पक्षे विशेषः । “यथा तक्षा राजादिकर्मणि प्रवर्त्तमानः स्वमर्थ जहात्येवं राजादिपदमपि स्वमर्थ जह्यात् । एवं हि दृश्यते लोके पुरुषोऽयम्परकर्मणि प्रवर्त्तमानः स्वमर्थ जहातीतिवत्" इति भाष्येण पूर्वपदमेव स्वमर्थ जहातीति । Page #268 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। २३९ अन्यथा राजपदेन विग्रहवाक्य इव, राज्ञः स्वातन्त्र्येणोपस्थितिसत्वाद्, ऋद्धस्य राज्ञः पुरुष इत्यत्रेव ऋद्धस्य राजपुरुष इत्यास्याप्यापत्तेरिति । ___ *अजहदिति* । न जहति पदानि स्वार्थं यस्यां सा अजहत्स्वार्था । .. - अयमभिप्रायः-राजपुरुषादिसमासादौ नातिरिक्ता शक्तिः । कल्पकाभावात् । क्लप्तराजपदादेवार्थोपस्थितिसम्भवे तत्कल्पनस्य गौरवपराहतत्वाञ्च । क्लप्तशक्तित्यागोऽप्यप्रामाणिकः कल्प्येत । तथाचाकाहादिवशात् क्लप्तशक्त्यैव विशिष्टार्थबोधः । अयमेव व्यपेक्षापक्षो मतान्तरत्वेन भाप्यकारैरुक्तः । दर्पणः *अन्यथेति । वृत्तौ व्यपेक्षारूपसामर्थ्याभ्युपगमे इत्यर्थः। इत्यस्याऽपीत्यपिना राजपुरुषो भार्यायाश्चेत्येकत्र द्वयमिति विषयताशालिबोधजनकस्य समुच्चयः । *आपत्तेरिति । अस्मन्मते तु पदार्थैकदेशत्वानेदेऽपि शक्त्यभ्युपगमेन राजकीयभिन्नत्वेनाऽवगते विशेषणाऽन्तराऽयोगाच्च न सेति भावः । अजहत्स्वार्थवृत्तिपक्षस्य भाष्याऽनुसारेणाऽन्यथैवोपपादनाद व्यपेक्षासामर्थ्य मेक इत्येकीयमताश्रितामनुसृत्याह-*अयमभिप्राय इति । *नातिरिक्तेति । क्लुप्तप्रत्येकवृत्त्यतिरिक्तेत्यर्थः । कल्पकस्याऽ न्यथाऽनुपपत्तिरूपप्रमाणस्याभावादित्यर्थः । ननु विशिष्टाऽर्थानुपपत्तिरेव तत्कल्पिका भविष्यतीत्यत आह-*क्लप्त इति । *तत्कल्पनस्य* । विशिष्टशक्तिकल्पनस्येत्यर्थः । ननु स्यादेवं यद्येतत्पक्षे प्रत्येकपदशक्तिकल्पना, सैव नेति व गौरवाऽवसरोऽत आह-*क्लप्तशक्तीति । वृत्तिप्राक्काले क्लृप्ता या प्रत्येकपदशक्तिस्तत्परित्याग इत्यर्थः । कालभेदेनाऽप्येकस्यैव शब्दस्याsर्थवत्त्वाऽनर्थकत्वयोविरुद्धत्वात्। नलोपादिव्यवस्थाऽनुपपत्त्या च वृत्तिदशायां तत्स्वीकारस्यैवोचितत्वादिति भावः। ___ननु प्रत्येकशक्त्या तत्तत्पदार्थोपस्थितावपि विशिष्टे शक्त्यनङ्गीकारेण तदनुपस्थित्या कथं तस्य शाब्दविषयतेत्यत आह-*तथा चेति । *आकाक्षेति। अदिपदाद्योग्यताऽऽदिपरिग्रहः । राजपदाव्यवहितपुरुषपदत्त्वादिरूपाकाङ्क्षादिकारणसमवधानादित्यर्थः । तथाच. प्रत्येकपदार्थोऽपस्थितिसहकृताऽऽकाङ्क्षादिभिरेव विशिष्टबोधसम्भवेन तत्पूर्व विशिष्टोपस्थित्यपेक्षा यस्यै सा कल्प्येति भावः । *अयमेवेति । परीक्षा *अन्यथा-पूर्वपदस्याऽपि वाक्यबोधस्वीकारे । *ऋद्धस्य राज्ञः पुरुष इत्यत्रेवेति । तत्र राज्ञो यथा न पदार्थैकदेशत्वन्तथा समासेऽपि स्यादिति । ___अजहत्स्वार्था वृत्तिरिति पक्षस्योपपत्तिमाह-*अयमभिप्राय इत्यादिना* *क्लप्तशक्तिकेति । वाक्ये क्लप्ता शक्तिर्येषां राजादिपदानां तेभ्य एवेत्यर्थः । *अयमेव*जहत्स्वार्था वृत्तिरिति पक्ष एव । Page #269 -------------------------------------------------------------------------- ________________ २४० दर्पणपरीक्षासहिते भूषणसारेनचात्र मते समासे ऋद्धस्येति विशेषणान्वयापत्तिः। “सविशेषणानां वृत्तिन वृत्तस्य वा विशेषणयोगो न" इति वातिकात् । तथाचैतन्मतवादिनां पूर्वोत्तरपदार्थसत्त्वाद् पूर्वपदार्थप्रधान इत्यादिव्यवस्था सूपपादेति भावः । प्रसङ्गाद् वृत्तिभेदमपि निरूपयति-*ते पुनरिति* ॥ द्वे अपि वृत्ती त्रिविधे वाच्यत्रैविध्यात् । वाच्यमेवाह-*भेद इत्यादि* ॥ भेदःअन्योन्याभावः । तथाच-राजपुरुष इत्यादावराजकीयभिन्न इति बोधः । अस्यावाच्यत्वे च राजपुरुषः सुन्दर इतिवद्, राजपुरुषो देवदत्तस्य चेत्यपि स्यात् । वाच्यत्वे तद्विरोधान्नैवं प्रयोग इति भावः । राजसम्बन्धवानित्येव शाब्दं भानम् , भेदस्तूत्तरकालमुपतिष्ठत दर्पणः अयमभिप्राय इत्यादिनोक्त एवेत्यर्थः । भाष्यकारैरित्यस्य परस्परव्यपेक्षां सामर्थ्य मेक इत्यादिनेति शेषः । उक्तापत्तिमुद्धरति-*नचात्रेति । *अन्वयापत्तिरिति । यथाश्रुताऽभिप्रायेण सम्बन्धिलक्षणायामापत्तेरभावस्य वक्ष्यमाणत्वात् ॥ *प्रसङ्गादिति । स्मृतिकालाऽवच्छिन्नोपेक्षानर्हताऽवच्छेदकधर्मवत्त्वादित्यर्थः । श्वृत्तिभेदमिति । वृत्तेः समासादिवृत्तभेदं भेदसंसर्गादिरूपाऽर्थकृतमित्यर्थः। तदुक्तं भाष्ये-“सामर्थ्य नाम भेदः संसर्गो वा। अपर आह-"भेदसंसर्गो वा सामर्थ्यम्" इति । यदि वृत्ता भेदसंसर्गो न स्याताम् , तदा सामर्थ्यमेव न स्यात्तदात्मकत्वात्साम. र्थ्यस्येत्यतस्तदर्थकत्वं तस्येति तद्भावः । *भेद इति । संसर्गाविनाभावित्वादनुमीयमानतादात्म्यसम्बन्धाऽवच्छिन्नप्रतियोगिताकाभाव इत्यर्थः । तदेवाह-*अन्यो परीक्षा *आपत्तिरिति । पदाथकदेशत्वाभावादिति शेषः । *वृत्तस्य-पदान्तरार्थनिष्ठविशेष्यतानिरूपितप्रकारतापनार्थस्य । *एतन्मतवादिनाम् । अजत्स्वार्थावृत्तिरिति पक्षवादिनाम् । विशेष्यविधयाभानात्समानार्थे तूभयमतेऽपि विशेषणान्वयो भवति । पूर्वमतेऽप्युपपादितरीत्या स्वपदार्थत्यागाभावात् , अयमपि पक्षो "व्यपेक्षासामर्थ्यमेके" इत्यादिना भाष्ये दर्शितः । ___ *प्रसङ्गात् । वृत्तिनिरूपणप्रसङ्गात् । *वृत्ती इति । समासादिवृत्ती इत्यर्थः । *भेद इत्यादीति । एषां वाच्यत्ये मानन्तु "सामर्थ्यन्नाम भेदः, संसर्गो वा अपर आह-भेदसंसर्गो वा सामर्थ्यम्" इति भाष्यमेव । *अन्योन्याभावः । तादात्म्यसम्ब. न्धावच्छिन्नप्रतियोगिताकाभावः। यदि वृत्तिजन्यबोधे भेदसंसर्गयो नन्न स्यात्तदा सामर्थ्यमेव न स्यात्, सामर्थ्यस्य तदात्मकत्वादिति भावः । यत्किञ्चित्प्रतियोगिकभेदस्य केवलान्वयित्वात्तद्भानमव्यावर्त्तकमत आह-*तथाचेति । भेदस्य वाच्यत्वे युक्तिमप्याह-*अस्यावाच्यत्व इत्यादिना* । भेदस्य भाने प्रतियोगितावच्छेदकधर्मघटकतया संसर्गभानमावश्यकमिति तस्यैव वाच्यत्वमाह-*राजसम्बन्धवानिति । व्यपेक्षापक्षे वाच्यत्रैविध्यावृत्ति त्रैविध्यम् । वस्तुतस्तु-वक्ष्यमाणरीत्या व्यपेक्षापक्षस्य त्यागादेव शाब्दबोधो न, किन्तु राजपुरुषादिपदादाजपदसन्निधानवशाद्राजसम्बन्ध Page #270 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः । इत्याशयेनाह-*संसर्ग इति ॥ विनिगमनाविरहम्, अस्वामिकेऽपि राजपुरुष इत्यादिप्रयोगापत्तिश्च मनसि कृत्वोभयं वाच्यमित्याह*उभयं वेति । तथाचाऽराजकीयभिन्नो राजसम्बन्धवांश्चायमिति बोधः ॥ ३१ ॥ व्यपेक्षावादस्यैव युक्तिभाष्यविरुद्धत्वात् तन्मूलकः पूर्वपदाऽर्थप्रधान इत्याद्युत्सर्गोऽप्ययुक्तः । किन्तु रेखा गवयन्यायेनोत्सगोऽपि परम्परयैव बोधक इत्याशयेन समाधत्ते समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् ॥ ३२ ॥ बहूनां वृत्तिधर्माणां वचनैरेव साधने स्यान्महद् गौरवं तस्मादेकार्थीभाव आश्रितः ||३३|| दर्पणः २४१ न्याभाव इति ॥ *संसर्ग इति । भेदाऽविनाभावित्वादनुमीयमानभेदो — भेदमूलकः संसर्ग इत्यर्थः । वस्तुतस्तु “भेदसंसर्गे वा सामर्थ्यम्” इति भाष्यस्य राजादिपदसमभिव्याहृतपुरुषादिपदेन राजादिविशिष्टपुरुषादिरूपविशिष्टाऽर्थस्यैव बोध इत्यभिप्रायः । न तु भेदे पृथक्शक्तिबोधकं तत् । तादृशबोधाननुभवात् । रामकृष्णावित्यादिद्वन्द्वे भेदस्य वाच्यतया दुरुपपादत्वाच्चेति ॥ ३१ ॥ *व्यपेक्षावादस्येति । अव्यवहितोक्तविधया वर्णितस्येति शेषः । उक्ताऽजहस्वार्थपक्षस्य तु निर्दुष्टत्वमेवेति भावः । *एवं युक्तीति । उक्तवक्ष्यमाणेत्यर्थः । *भाष्येति* । “नानाकारकान्निघातयुष्मदस्मदादेशप्रतिषेधः" इत्यादिभाष्यदूषित परीक्षा विशिष्टपुरुषादिविषयक एव बोधः । भेदस्य भानन्तु सर्वत्र न सम्भवति, धवखदिरावित्यादावुभयपदार्थयोः समत्वादिति बोध्यम् । नचान्योन्याभावभानानुपगमे राजपुरुष इति समुदायजन्यशाब्दबोधस्या राजकीयत्वप्रकारकज्ञानं प्रतिबन्धकत्वन्न स्यादिति वाच्यम् । अराजकीयत्वस्य राजसम्बन्धावच्छिन्नप्रतियोगिताकभेदरूपतया अराजकीयत्ववद्राजसम्बन्धरूपत्वेन तत्प्रकारकज्ञानस्य प्रतिबन्धकत्वसम्भवात् । राजपुरुषो देवदत्तस्य चेतिप्रयोगस्य वारणन्तु तेन सम्बन्धेनैकविशेषणविशिष्टे विशेष्ये तत्सजातीयसम्बन्धेन विशेषणान्तरान्वयबोधो नेत्याश्रयणाद्बोध्यः ॥ ३१ ॥ परम्परया वृत्तिवाच्यार्थबोधकविग्रहवाक्ये यो राज्ञ इत्यादेरर्थो। दृष्टस्तस्य सत्वदर्शनमात्रेण बोधक इत्येवम्परम्परा भिन्नैवेति । राजपुरुष इत्यादिसमुदायस्य राजसम्ब-न्धवत्पुरुषादौ शक्तिः, अवयवशक्तितो भिन्ना । पङ्कजादिशब्दस्य पद्मत्वाद्यवच्छिन्ने शक्तिः परनयेऽप्यस्तीति तस्या दृष्टान्तत्वेनोपन्यासः - पङ्कजशब्दवदिति । *वृत्ति-धर्माणामिति । वक्ष्यमाणानामितिशेषः । *वचनैः - सविशेषणानामित्यादिवचनैः । ३१ द० प० . Page #271 -------------------------------------------------------------------------- ________________ २४२ दर्पणपरीक्षासहिते भूषणसारे:- समास इति वृत्तिमात्रोपलक्षणम् । “समर्थः पदविधिः" (पा०सू० २।१।१) इत्यत्र पदमुद्दिश्य यो विधीयते समासादिः स समर्थः । विग्रहवाक्यार्थाऽभिधाने शक्तः सन् साधुरिति सूत्रार्थस्य भाष्याल्लाभात् । पदोद्देश्यकविधित्वञ्च कृत्तद्धितसमासैकशेषसनाद्यन्तधा - तवा त्वादित्यर्थः । *वृत्तिमात्रेति* । मात्रपदं कृत्स्नार्थकम् । अहजत्स्वार्थलक्षणया वृत्तिपञ्चकोपस्थापकमित्यर्थः। *वाक्याभिधान इति। तदर्थाभिधान इत्यर्थः । *भाष्यादित्यस्य । समर्थानां पदवचनमित्यादिः। मूले, *पङ्कजशब्दवदिति ॥ सप्तम्यन्ताद्वतिः । उपमेये सप्तमीदर्शनात् । पङ्कज. शब्दे यथाऽवयव शक्त्यतिरिक्तशक्तिस्तद्वत्समासेऽपीत्यर्थः । न च पङ्कजपदे रूढिस्वीकारे मानाभावः । समुदायात् पद्मत्वविशिष्टप्रतीतेरेव मानत्वात्। पदानियतोपस्थिते रूढयैकसाध्यत्वात् पङ्कजपदादू योगेन कुमुदस्यापि बोधप्रसङ्गाच्च । रूढिस्वीकारेऽप्युद्भित्पदेन वृक्षादेरिव योगेन पङ्कजपदेन कुमुदमपि बोध्यत इति तु नः यत्र योगरूढिभ्यामेकार्थबोधस्तत्र केवलयौगिकार्थबोधे रुटेः प्रतिबन्धकत्वकल्पनात् ।। ... अथवा रूढ्या नियमतः स्मृतपद्ममेव कर्तृव्यक्तिशक्तडप्रत्ययेन पङ्कजनिकर्त्ततया बोध्यते "बाधकं विना व्यक्तिवचनानां सन्निहितव्यक्तिविशेषपरत्वम्" इति नियमादू व्यक्तिवचनानां यत्किञ्चिव्यक्तितात्पर्य्यकाणां सन्निहितो यो व्यक्तिविशेषस्तत्परत्व. मिति तदर्थः । “घटेन जलमाहर” इत्यत्र सन्निहितसच्छिद्रव्यक्तिबोधवारणाय*तत्र बाधकं विनेति । ___ तथाच पदमे तात्पर्यसत्त्वेन तदेव योगेनाऽपि प्रतीयते, न कुमुदम् । प्रथमकल्पस्तु रूढिज्ञानस्य ग्राह्याभावानवगाहित्वाजनकज्ञानाऽविघटकत्वाच्च प्रतिबन्धकत्वाऽसम्भवान्न क्षोदक्षमः । सिद्धरनायत्या मणिमन्त्रादिन्यायेन प्रतिबन्धकत्वाभ्युपगमेऽप्यन्यत्र तत् कल्पने मानाभावात् । इत्थञ्च पदमानुभवसामग्रीसत्त्वात् तस्यैव बोधो, न कुमु. दस्य सत्यां हि सामग्यां फलाऽनुत्पादे प्रतिबन्धकत्वापेक्षणादिति तार्किकाः । तदृदृष्टान्तेन वृत्तिसामान्ये समुदाये शक्तिरावश्यकीति कथने पूर्वोक्ताऽर्थ एव पर्यवस्यतीति । नवजहत्स्वार्थवृत्तिकल्पे विशिष्टशक्तेः सम्बन्धांशे विरामस्योक्तत्वाद्वाक्येऽपि सम्बन्धांशे एव तैः स्वीकारात् को वृत्तिवाक्ययोर्वेयाकरणनये विशेष इति चेदबाहुः । तत्र हि फलबलात् पदार्थोपस्थितिकाले नियमतः सम्बन्धांऽश उद्बोधकासमवधानक ल्पनेन पृथुगुपस्थितयोः पदार्थयोः संसर्गबोधः । वृत्तौ तु पदार्थोपस्थितिसमकाल. मेव नियमतः संसर्गाशे उदबोधकसमवधानकल्पनाद् विशिष्टाऽर्थोपस्थिरिति वैलक्षण्योपपत्तेः । अत एव प्राप्तोदकादौ विशेष्यविशेषणभाववैपरीत्ये तु न बोधः । तत्राप्र. युज्यमानद्वितीयाऽर्थः सम्बन्धश्चोभयं समुदायशक्तिसाध्यमनन्यलभ्यत्वात् । कलप्त परीक्षा *वृत्तिमात्रेति । अत्र मात्रपदं कात्स्र्नार्थकम् । तथाच समासपदस्याजहत्स्वार्थलक्ष-णया 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्रेव वृत्तिपञ्चकबोधकतेति बोध्यम् । पदविधिशब्दार्थमाह-*पदमुद्दिश्येति । पदस्य विधिरितिविग्रहे या षष्ठी सोद्देश्यत्वार्थिकेति Page #272 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। २४३ तुरूपासु पञ्चस्वपि वृत्तिष्वस्त्येव । विशिष्टशक्त्यस्वीकर्तृणां व्यपेक्षावादिनां मते दूषणं शक्तिसाधकमेवेत्याशयेनाह-*पङ्कजशब्दवदिति* ॥ पङ्कजनिक रपि योगादेवोपस्थितौ तत्राऽपि समुदायशक्तिर्न सिद्ध्येत । न च पद्मत्वरूपेणोपस्थितये सा कल्प्यत इति वाच्यम् । चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये तत्कल्पनावश्यकत्वात् । लक्षणयैव दर्पणः शक्त्यैव राजादिपदादाजादेरुपस्थितिसम्भवेन तत्र समुदायशक्तिकल्पने गौरवाच्च । नामाऽर्थयोरभेदान्वय इत्यादिव्युत्पत्तयश्च पृथगुपस्थितनामार्थविषया इति ॥ ____ जहत्स्वार्थवृत्तिपक्षे पङ्कजशब्दस्य पूर्वोक्तरीत्या दृष्टान्तत्वासम्भवेनाऽन्यथा मूल. मवतारयति-विशिष्टशक्त्यस्वीकर्तृणामिति ॥ *साधकमिति। विशिष्टशक्तिसाधकमेवेत्यर्थः। व्यपेक्षावादिनये 'राजपुरुष' इत्यादौ प्रत्येकपदवृत्त्या पदार्थो. पस्थितावाकाङ्क्षादिवशात् विशिष्टार्थबोधवत् पङ्कजपदादपि तथैव विशिष्टार्थोपस्थित्या रूढेरुच्छेदापत्तिः न च सा तवेष्टेत्याह-*पजनिक रपीति* ॥ तेन रूपेण पदमस्यापीत्यर्थः ॥ *योगादेवेति ॥ अवयवशक्तेरेवेत्यर्थः ॥ *तत्रापि*-पङ्कजादिपदेऽपि । तत्र तत्स्वीकारे तु किमपराद्धं समासे विशिष्टशक्त्येति भावः। *सा*-समुदायशक्तिः । *तत्कल्पनस्य*-रूढिकल्पनस्य चेत्यर्थः । परीक्षा पदविधिसहचरितोऽपि विधिः, पदविधिशब्देन गृह्यते । *शक्तिसाधकमिति । अस्माकं मत इत्यादिः। पङ्कजशब्दवदित्यत्र सप्तम्यन्ताद्वतिः । *तत्रापि*-पङ्कजादिशब्देऽपि । *तत्-समुदायबोधकम् । पदार्थोपस्थितिः शक्तिसाध्या । यदि समुदायस्य पनत्वावच्छिन्ने शतिर्न स्यात्तदा ततो रूढ्या पद्मत्वावच्छिन्नोपस्थितिनं स्यात् । *स्वामित्वेन*-चित्राभिन्नगोस्वामित्वेन। *तत्कल्पनेति । तस्याः समुदायशक्तः कल्पनेत्यर्थः। परसम्मतम्पक्षमनूच दूषयति-*लक्षणयैवेति । सा-लक्षणा । चित्रुगुरित्यत्र यथा गोशब्दस्य चित्रगोस्वामिनि लक्षणा; चित्रपदं तात्पर्यग्राहकमिति तथात्र प्रत्ययस्य पदमत्वावच्छिन्ने लक्षणा । एतावताऽपि योगमात्रेण कुमुदबोधन भविष्यतीति भावः। नत्र पहजेतिसमुदायस्य शक्तिस्वीकारेऽप्यवयवशक्त्या कुमुदबोधे किम्बा. धकमितिबाच्यम् ? केवलयौगिकार्थबोधे समुदायशक्तिज्ञानस्य प्रतिबन्धकत्वस्य :यद्वा रूढयर्थयोगार्थयोरुपस्थितयोरेकविशिष्टेऽपरवैशिष्टयमितिरीत्या रूढ्यर्थताव. छेदकावच्छिन्नविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नयोगार्थप्रकारताकशाब्दबुद्धिम्प्रति ताशसामग्र्या नियामकत्वं कल्प्यते। तावतैव केवलयौगिकार्थबोधो न । 'रूढियोगापहारिणी इति प्रवादस्तु. शुद्धरूढस्थले; न तु योगरूढस्थले । यथा-मण्डपप्रवी. णादिपदायारूढयर्थस्योपस्थितिः, तत्र न रूढयर्थे योगार्थान्वयः। तत्रास्ति रूठेोगाप. हारकत्वव्यवहारः । स प्रतिबध्यप्रतिबन्धकमावनिबन्धनो नः किन्तु अटित्युपस्थितसमुदायार्थेऽवयवार्थस्याभेदापादनक्षम एव । किञ्च मणिमन्त्रादिन्यायेनैव प्रतिबन्धकता कल्पनात् । Page #273 -------------------------------------------------------------------------- ________________ २४४ दर्पणपरीक्षासहिते भूषणसारेतथोपस्थितिरिति चेत्, पङ्कजपदेऽपि सा सुवचा। एवंरथकारपदेऽपि। तथाच “वर्षासु रथकारोऽग्निमादधीत" इत्यत्रापि विना लक्षणां क्लप्तयोगेन ब्राह्मणादिविषयतयैवोपपत्तौ तत्कल्पनां कृत्वा जातिविशेषस्याधिकारित्वं प्रकल्प्यापूर्वविद्याकल्पनमयुक्तं स्यादितिभावः । दर्पणः *तथोपस्थितिरिति* ॥ स्वामित्वादिना स्वाम्याधुपस्थितिरित्यर्थः ॥ *सुवचेति ॥ पद्मत्वादिनोपस्थितिरपि लक्षणयेति वक्तुं शक्यमित्यर्थः । अधिकरणविरोधमपि तत्राह-*एवमिति ॥ *लक्षणामिति ॥ निरूढलक्षणामित्यर्थः । तस्याः शक्ति. समकक्षत्वादिति भावः। *योगेनेति ॥ प्रत्येकपदवृत्त्युपस्थाप्यस्थकर्तृत्वेनेत्यर्थः । *उपपत्ताविति ॥ शास्त्रसङ्कोचमन्तरेणाऽप्यनुष्ठाननिर्वाह इत्यर्थः ॥ *तत्कल्पना. मित्यादि* ॥ रूढिकल्पनामित्यर्थः। तां कल्पयित्वेति यावत् । *जातिविशेषस्येति ॥ रथकारस्तु माहिष्यात् करिण्यां यस्य सम्भवः । इति स्मृतिसङ्केतितजातिविशिष्टस्येत्यर्थः ॥ *अयुक्तमिति* । विनैव शास्त्रसङ्कोचं परीक्षा कल्पनीया । तथाच गौरवं स्फुटमेव, अत एव “बाधकं विना व्यक्तिवचनानां सन्निहितव्यक्तिपरत्वम्" इति नियम उपपद्यते, व्यक्तिवचनानाम्-किञ्चिद्व्यक्तितात्पर्यकाणां शब्दानां सन्निहितो यो व्यक्तिविशेषस्तत्परत्वमित्यर्थः। सच्छिद्रघटसन्निधाने घटेन जलमाहर इतिशब्दात्सच्छिद्रघटबोधापत्तिवारणाय बाधकम्विनेति । तथाच पदूमे तात्पर्य्यस्य सत्वेन तदेव प्रतीयतेन कुमुदम् , प्रथमकल्पस्तु न युक्तः। रूढिज्ञानस्य ग्राह्यभावानवगाहितया जनकज्ञानाविशेषित्वाच्चेति समुदायशक्तिस्वीकर्तृणामस्माकं वृत्तिवाक्ययोरेतावान् विशेषः । वृत्तेर्यत्र पदार्थोपस्थितिस्तत्र सम्बन्धांशे नियमत उद्बोधकसमवधानेन सम्बन्ध उपस्थितो भवतीति विशिष्टबोध एव भवति । वाक्यस्थले तु सम्बन्धांशे नियमत उद्बोधकसमवधानाकल्पनेन पृथगुपस्थितयोः संसर्ग इति सा सुवचेत्यनेन नैयायिकसिद्धान्तविरोधो लक्षणास्वीकार इति न तत्र लक्षणा किन्तु विशिष्टशक्तिरेवेति तद्दृष्टान्तेन वृत्तिमात्रे समुदायशक्तिरित्यभिहितम् । *एवम्-पजपदवत् , *रथकारपदेऽपीति । समुदायशक्तिरेवेतिशेषः। ___ *तथाचेति । चो वाक्यालङ्कारे तथात्र योगमात्रकल्पने। विना लक्षणामिति* तन्मताभिप्रायेण । तन्मते समुदायशक्त्यभावेन लक्षणयैव जातिविशेषावच्छिन्नोपस्थितिर्वाच्या, सातु लक्षणान स्वीकार्येति भावः। *तत्कल्पनाम्*-निरूढलक्षणाकल्पनाम् । उपपत्तिश्च-स्त्रीशूद्रौ नाधीयाताम् इति शास्त्रसङ्कोचं विनाऽप्यनुष्ठानविशेषस्य द्रष्टव्या। *जातिविशेषस्य*-जातिविशेषावच्छिन्नस्या रथकारो*-माहिष्येण करिण्यामुत्पन्नः । “माहिष्येण करिण्यान्तु रथकारः प्रजायते-" इति स्मृतेः । राजन्येन वैश्यायामुत्पादितो माहिष्यः । वैश्याच्छूद्रायामुत्पन्ना करिणी, नचास्य जात्यन्तरविशिष्टत्वात् “स्त्रीशूद्रौ” इतिनिषेधविषयता कथमिति वाच्यम् ? अनुलोमसङ्कराणां मातृजातिवृत्तित्वात् । अत एव शङ्खस्मृतौ ब्राह्मणक्षत्रियवैश्यैः क्षत्रियावैश्याशूद्रासूत्पनाः, क्षत्रियवश्यशूद्रा एव भवन्तीत्युक्तम् । एताश्च ब्राह्मणादिविवाहिता बोध्याः। विशेषविधिरिति याज्ञवल्क्यस्मृतेः । *अपूर्वविद्याकल्पनम्*-आधानोपयोगिविद्या Page #274 -------------------------------------------------------------------------- ________________ - समासशक्तिनिर्णयः। २४५ ." साधकान्तरमाह--*बहूनामिति* । वृत्तधर्मा विशेषणलिङ्गसंख्याधयोगादयस्तेषां वचनैरेव साधने गौरवमित्यर्थः । अयम्भावः दर्पणः विधेश्चारितार्थ्यादिति भावः ॥ ननु प्रतिबन्देरनुत्तरत्वं । किञ्च पङ्कजपदे लक्षणाऽपि न सुवचा । तथाहि-सा किं पङ्कजपदे, उत तदवयव-डप्रत्यये । न तावदाद्यः । समुदाये शक्त्यभावेन तद्घटितलक्षणाया अप्यसम्भवात् । किञ्च जहत्स्वार्थायास्तस्यास्तत्राऽसम्भव एव । अवयवार्थविरोधिन्या रूढेरभावात् । ___ जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी । इत्यभियुक्तोक्तेर्यथा-मण्डपं भोजयेत्यत्र मण्डपपदस्य गृह्यविशेषे रूढियोगविरोधिनी। रूढयर्थग्रहे मण्डपानकर्त्तत्वरूपयोगार्थस्य बाधात्तत्र 'रूढेोगापहारिता' इति प्रवादादवयवशक्त्या मण्डपानकर्तुर्बोधाऽसम्भवान्मण्डपपदस्य मण्डपानकर्त्तरि लक्षणा । तथाच तत्र रूढ्यर्थग्रहसम्बन्धितावच्छेदकतया गृहीतचैत्रत्वादिनैव तद्बोधो न मण्डपानकर्त्तत्वेन । न च तथा प्रकृते । पदमत्वे लक्षणायामवयवार्थस्याभावेनाजहत्स्वार्थाया अप्यसम्भवाच्च । जहत्स्वार्थात्ववयवाऽर्थप्रतीत्यनुपपत्त्यान वक्तुं शक्या। नान्त्यः । प्रकृत्यर्थस्यानन्वयापरः। तदर्थे प्रत्ययस्यासाधुतापत्तेश्चेति लक्षणानवसरादनायत्त्या तत्र विशिष्टशक्त्यभ्युपगमः ॥ "राजपुरुष” इत्यादौ तु प्रत्येकपदवृत्याऽपि विशिष्टाऽर्थबोधनिर्वाहे समुदायशक्तिकल्पनं तत्राऽनुचितमेव । नापि रथकाराधिकरणविरोधः । यौगिकाऽर्थस्थकरणनिमित्ते वर्षविधानस्य सङ्करस्य विशिष्टाधानाऽपेक्षया लघुत्वेऽपि, “ऋभूणां त्वा देवानगम्" इति मन्त्रवर्णाहभुसौधन्वनपर्यायप्रतिलोमजातिरथकारस्यैव तदधिकाराबगत्या लाघवाऽनादरेण रूढाऽर्थे तत्र वि. शिष्टाधानकल्पनात् । _ नचापूर्वविद्याध्ययनकल्पनागौरवम् । फलमुखत्वात् । प्रकृते राजपुरुषादिसमुदाये शक्तिग्राहकं न तादृशं कोशादि, येन तबलादवयवार्थः। परित्यज्येतेत्याशयेन मूलमवतारयति-*साधकान्तरमिति* ॥ *लिङ्गेति* ॥ कुक्कुटाण्डमित्यादौ कुक्कुटपदाथें स्त्रीत्वस्याप्रतीतेरिति भावः ॥ *सङ्ख्येति* ॥ “राज्ञो राज्ञां वा पुरुषः, इति वाक्ये उपसर्जनपदानि संख्याविशेषयुक्तस्वार्थमभिदधति समासे त्वन्तर्भूतस्वार्थ प्रधानार्थमभिदधति" इति भाष्यात्तत्र सन्याविशेषस्याऽप्रतीतेरिति भावः ॥ सङ्ख्यादीत्यादिपदादू "इमे तहोंका भावकृता विशेषाः, सङ्ख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं चाऽयोगे” इति भाष्योक्तस्य, राज्ञो गवाञ्चपुरुषा देवदत्तयज्ञदत्तविष्णुमित्राणां गौरित्यादौ चाऽयोगस्य च सङ्ग्रहः । *वचनैरिति । “सविशेषणानां वृत्तिन, परीक्षा कल्पनम् । विनैव शास्त्रस्य सङ्कोचम् ब्राह्मणविषयकत्वेन विधेश्चारितार्थ्यसम्भवादिति भावः । ननु प्रतिबन्ध्यानुत्तरत्वमत आह-*साधकान्तरेति । विशिष्टशक्त्यंशे सा. शुक्रान्तरमित्यर्थः । *विशेषणेत्यादि । स इत्यादि पदान्तद्वन्द्वेन योगपदस्य षष्ठीसमासः, राजपुरुष इत्यत्र राज्ञि ऋद्धस्येत्यस्य विशेषणस्य कुक्कुटाण्डमितिसमासे मृग. क्षीरमिति समासे च पूर्वपदार्थे लिङ्गस्य स्त्रीत्वस्य संख्याया राजपुरुष इत्यादि Page #275 -------------------------------------------------------------------------- ________________ २४६ दर्पणपरीक्षासहित भूषणसारेविशिष्टशक्त्यस्वीकारे 'राज्ञः पुरुष' इत्यत्रेव 'राजपुरुष' इत्यत्राऽपि स्याद् विशेषणाद्यन्वयः । राजपदेन स्वतन्त्रोपस्थितिलस्वात् । विभाषावचनञ्च समासनियमवारणाय कार्यमिति । ननु “सविशेषणानाम्” इतिवचनान्न विशेषणाद्यन्वयः, विभाषावचनश्च कृतमेवेत्याशङ्कां समाधत्ते--*वचनैरेवेति । न्यायसिद्धमेव सूत्रम् । व्यपेक्षाविवक्षायां वाक्यस्य, एकार्थीभाव समासस्येति स्वभावत एव प्रयोगनियमसम्भवात् । सविशेषणेत्यपि विशिष्टशक्तौ राज्ञः पदार्थकदेशतयान्वयासम्भवान्यायसिद्धमिति भावः।। ___ अत एव व्यपेक्षापक्षमुद्भाव्य, “अथेतस्मिन् व्यपेक्षायां सामध्ये योऽसावेकार्थीभावकृतो विशेषः स वक्तव्यः” इति भाष्यकारेण दूषणमप्युक्तम् ॥ ३२ ॥ तथा धवखदिरौ निष्कौशाम्बिोरथो घृतघटो गुडधानाः केशचूडः सुवर्णालङ्कारो द्विदशाः सप्तपर्ण इत्यादावितरेतरयोग-अतिक्रान्तयुक्तपूर्ण-मिश्र-सङ्घात-विकार-सुच्प्रत्ययलोपो-वीप्साद्यर्थो पाचनिको वाच्य इत्यतिगौरवं स्यादिति दूषणान्तरमाह . दर्पणः इत्यादिभिरित्यर्थः। उक्तार्थमेव प्रकटयति-*अयम्भाव इति* । *न्यायसिद्धमेव सूत्रमिति । इह व्यपेक्षायां समासो न भवत्येकार्थीभावे वाक्यं न भवति । विभिन्नवि. षयत्वेन बाध्यबाधकभावाऽसम्भवादिति न्यायसिद्धविभाषावचनं नाऽपूर्वमित्यर्थः । तदुक्तं भाष्ये-"न संज्ञाया भावाऽभावाविष्येते” इति । एकार्थानां विकल्पनानाऽर्थो विकल्पेनेति तद्भावः। .. *अन्वयासम्भवादिति । वृत्तौ झुपसर्जनपदेन प्रधानार्थाऽभिधायिना भाव्यम् । स्वस्य विशेषणाऽऽक्षायां च प्राधान्यमिति कथमेकदा प्राधान्यमेकार्थीभावश्च स्यात्, युगपद्गुणप्रधानभावविरोधादिति न्यायसिद्धमेवेत्यर्थः । *अत एवेति । व्यपेक्षावादस्याऽऽपातरमणीयत्वादेवेत्यर्थः । *दूषणमप्युक्तमिति । अस्य नानाकारकत्वान्निघातयुष्मदस्मदादेशप्रतिषेधः । अयं दण्डो हरोऽनेनेत्यादिनेति शेषः ॥ ३२ ॥ __ परीक्षा प्वेव राजादिपदार्थ संख्याविशेषस्यान्वयस्यायोग इत्यर्थः। *समासनियमेति । स. मासस्य नित्यत्वेत्यर्थः । अस्माकन्तु वक्ष्यमाणरीत्या तन्नापूर्वमिति भावः । । ___*एव सूत्रमिति*-"विभाषा"इति सूत्रमित्यर्थः । *अन्वयासम्भवादिति । पशुभेदसत्वेन पशुरपशुरिति वाक्यस्य प्रामाण्यापत्तिवारणायैकपदार्थनिष्टप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे पदान्तरजन्यार्थोपस्थितिर्मुख्यविशेष्यतासम्बन्धेन कारणमिति कार्यकारणभावात्कारणबाधेनान्वयासम्भवादित्यर्थः। *अत एव*-व्यपेक्षापक्षे गौरवादेव ॥ ३२ ॥ कैयटोक्तदूषणमाह-*तथेत्यादिना*। *लोप इति । विग्रहवाक्ये निष्क्रान्तः Page #276 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। २४७ चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । - कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः॥३३॥ .. आदिना घनश्यामः, हंसगमन इत्यादाविवादीनां पूर्वोक्तानाच संग्रहः । दूषणान्तरमाह-*बहुव्युत्पत्तिभञ्जनमिति* । अयमाशयःचित्रगुरित्यत्र स्वाम्यादिप्रतीतिरनुभवसिद्धा। न च तत्र लक्षणा । प्राप्तोदको ग्राम इत्यादौ तदसम्भवात् । प्राप्तिकभिन्नमुदकमित्यादिबोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामप्युदककर्तृकप्राप्तिकर्म ग्राम इत्यर्थालाभात् । . प्राप्तेति क्तप्रत्ययस्यैव कर्थकस्य , कर्मणि लक्षणेति चेत्तहि समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिन्नप्राप्तिकम्मति स्यात् । अन्यथा समानाधिकरणप्रातिपदिकार्थयोरभेदा. - दर्पणः . कैयटोक्तं दोषसङ्घातमाह-*तथेत्यादि । *इति दूषणान्तरमिति । इत्या. कारकं दूषणान्तरमित्यर्थः । *पूर्वोक्तानामिति । निष्कौशाम्बिरित्यादौ क्रान्ताद्यर्थ. वाचकानां लोपवचनमित्यादिकानामित्यर्थः । एतद्दूषणोद्धारस्य वक्ष्यमाणत्वादाह*दूषणान्तरमिति । व्युत्पत्तिभङ्गमाविष्कर्तुमाह-*अयमाशय इति । *लक्षणेति । वाक्ये इति शेषः। चित्रगुरित्यादौ वाक्यस्य गोस्वामिलक्षकत्वेऽभीप्सितबोधलाभसम्भवादाह*प्राप्तोदको ग्राम इति । *लक्षणायामपीति । इदञ्च मीमांसकमतेन । स्वबोध्यसम्ब. न्धस्यैव तैर्लक्षणात्वाऽभ्युपगमात् । बोधोत्तरमित्यस्याऽनुपपत्तिप्रतिसन्धाने सतीति शेषः । लक्षणायामपीत्यपिना तत्र लक्षणाया असम्भवं सूचयति-*अर्थालाभादिति । प्राप्तिकभिन्नोदकसम्बन्धिनो लाभेऽप्यनुभूयमानोक्ताऽर्थालाभादित्यर्थः। *तर्हि समानाधिकरणेति । सामानाधिकरण्यं चाऽत्र समानविभक्तिकत्वम् । अन्यथा कर्म का परीक्षा कौशाम्ब्या इत्यादी क्रान्ताद्यर्थस्य सम्प्रत्ययाय तद्वाचकानां क्रान्तादिशब्दानां यथाप्रयोगो भवतिः तथा वृत्तिजन्यबोधेऽपि तेषाम्भानमस्तीति तत्तदर्थवाचकानाम्प्रयोगः स्यादिति ते लोपो वाच्य इति भावः। *पूर्वोक्तानां*-निष्कौशाम्बिरि. त्यादौ क्रान्ताद्यर्थवाचकानाम् । तत्र*-समासे । तदसम्भवात् लक्षणाया असम्भवात् । प्राप्तेत्यत्र कर्तरि क्तप्रत्ययस्य सत्वादाह-*प्राप्तीति*। *अलाभादिति। किन्तु प्राप्तिकभिन्नोदकसम्बन्धीत्येव बोधः स्यादिति शेषः। *कर्मणि लक्षणेतीति । विशेषणविशेष्यभाववपरीत्यमपि चित्रगुरित्यादावन्यपदार्थस्येव भवि. प्यतीति भावः । *व्युत्पतेरिति-'राजापुः' इति वाक्याद्राजपुरुष इति बोधापत्तिवारणाये तथा व्युत्पत्तिः कल्पनीया। सामानाधिकरण्यमत्र-समानविभक्तिकत्वम् । अन्यथा*-उदकाभिन्नम्प्राप्तिकर्मेतिबोधास्वीकारे, कर्त्ततासम्बन्धेनोदकस्य Page #277 -------------------------------------------------------------------------- ________________ २४८ दर्पणपरीक्षासहिते भूषणसारेन्वयव्युत्पत्तिभङ्गापत्तेः। प्राप्तेर्धात्वर्थतया कर्तृतासम्बन्धेन भेदे. नोदकस्य तत्रान्वयासम्भवाच्च । अन्यथा 'देवदत्तः पच्यते' इत्यतः कर्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भवेनानन्वयानापत्तः।। ___ अथोदकाभिन्नकर्तृका प्राप्तिरिति बोधोत्तरं तत्सम्बन्धिग्रामो लक्ष्यत इति चेद्?न । प्राप्तेर्धात्वर्थतया क्तार्थकर्तारं प्रति विशेष्यताया असम्भवात् "प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम्” इति व्युत्पत्तेः । प्राप्तपदे प्राप्तेविशेष्यत्वे तस्या एव नामार्थत्वेनोदकेन सममभेदान्वयापत्तेश्च। एवम् , ऊढरथः, उपहृतपशुः, उद्धृतोदना, बहुपाचिकेत्यादा. वपि द्रष्टव्यम् । अत्र हि रथकमकवहनकर्ता, पशुकर्मकोपहरणो दर्पणः लाक्षणिकतान्ताऽर्थोदकपदाऽर्थयोरभेदान्वयाऽनभ्युपगम इत्यर्थः । *भङ्गापत्तेरिति । तादृशव्युत्पत्तेरत्रैव व्यभिचारादिति भावः । ___ ननु तव्युत्पतौ सामानाधिकरणस्यैकार्थाऽभिधायित्वस्यैव निवेशेन नेदं तदूविषयोऽत आह-*प्राप्तेरिति । *अन्वयासम्भवादिति । नामाऽर्थधात्वर्थयोः साक्षादूभेदेनाऽन्वयस्याऽव्युत्पन्नत्वादिति भावः । *अन्यथा देवदत्त इति । *अन्यथाउक्तव्युत्पत्त्यनभ्युपगम इत्यर्थः । *ग्रामो लक्ष्यत इति । वाक्येनेति शेषः। उक्तबोधस्य सम्भवदुक्तिकत्वे कथञ्चिलक्षणाऽपि कल्प्येत, तदेव नाऽस्तीत्याह-*प्राप्तेर्धात्वर्थतयेति । 'प्रकृतिप्रत्यययोः' इति न्यायस्य संख्यादौ व्यभिचरितत्वं सम्भाव्याह-*प्राप्तपदे इति*। *नामार्थत्वेनेति । नामजन्यप्रतीतिविशेष्यस्यैव नामार्थत्वादिति भावः। *अभेदान्वयापत्तेश्चेति । समानविभक्तिकनामाऽर्थयोरिति व्युत्पत्तेरिति भावः। *द्रष्टव्यमिति । भवन्मते वहनकर्माऽभिन्नो रथ इति बोधोत्तर सम्बन्धिनि लक्षणायामपि रथकर्मकवहनकर्ताऽनड्वानितीप्सितार्थस्याऽलाभ एव । कर्मार्थकक्तप्रत्ययस्य कर्तरि लक्षणायां तु धात्वर्थवहने रथस्य कर्मतया भेदसम्बन्धेनाऽन्वयो दुर्लभ एवोक्त. व्युत्पत्तिविरोधादिति पूर्वोक्तदिशाऽवसेयमित्यर्थः। *अन हीति* । बोधाऽभ्युपगमादित्यनेनाऽन्वयि । अत्र 'ऊढरथः' इत्यादि समासे परीक्षा प्रातिक्रियायामन्वयास्वीकारे चेति शेषः । *असम्भवाच्चेति । नामार्थधात्वर्थयो)देनान्वयासम्भवेनासम्भवादित्यर्थः । अन्यथा नामार्थधात्वर्थयोरपि भेदस्वीकारे क्तप्रत्ययस्य कर्मणि लक्षणा न स्वीक्रियते, किन्तु प्रत्ययार्थः कर्ताः प्रकृत्यर्थो विशेषणमित्यस्तु । तस्मिन्नुदकस्याभेदेनान्वयः। *लक्ष्यत इति। उदकपदेनेति शेषः। अवान्तवाक्यार्थबोधपूर्वकमहावाक्यार्थस्यान्यन दृष्टत्वादित्याशयेन शङ्कते-*अथेति । ननु भवन्मते कत्तुराख्यातस्य प्रकृतिवाच्यक्रियाम्प्रति विशेषणत्वं दृष्टमिति "प्रकृतिप्रत्ययौ” इति नियम औत्सर्गिक इत्यत आह-*प्राप्तपद इति । इत्यादावपीति Page #278 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। २४९ द्देश्यः, प्रोदनकर्मकोद्धरणावधिः, बहुपाककत्रधिकरणमिति बोधाभ्युपगमात् । अतिरिक्तशक्तिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृकप्राप्तिकर्मत्वविशिष्टे प्राप्तोदक इत्यादिसमुदायशक्त्यैव निर्वाह इति भावः ॥ ३३ ॥ साधकान्तरमाहअषष्ठयर्थबहुव्रीही व्युत्पत्त्यन्तरकल्पना। क्लृप्तत्यागश्चास्ति तव तत् किं शक्तिं न कल्पयेः॥३४॥ अयम्भावः-चित्रगुरित्यादिषु चित्रगोः स्वाम्यादिप्रतीतिर्न विना शक्तिमुपपद्यते । न च तंत्र लक्षणा । सा हि न चित्रपदे । चित्रस्वामी गौरिति बोधापत्तेः । नाऽपि गोपदे । गोस्वामी चित्र इत्यन्वयबोधापत्तेः। चित्रादिमात्रस्य लक्ष्यकदेशत्वेन तत्र गवादेरन्वयाऽयोगात् । नच चित्राभिन्ना गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं तादशगोस्वामी गोपदेन लक्ष्यत इति वाच्यम् । गोपदस्य चित्रपदस्य वा विनिगमनाविरहेण लक्षकत्वासम्भवात् ।। -'नच गोपदे साक्षात् सम्बन्ध एव विनिगमक इति वाच्यम् । दर्पणः विशिष्टशक्त्यभ्युपगमे तु न कस्या अपिव्युत्पत्तेविरोध इत्याह-*अतिरिक्तेति ॥३३॥ ___ षष्ठ्यर्थबहुव्रीहिपर्युदासे बीजं प्रदर्शयति-*अयम्भाव इति। विना शक्तिमिति । समुदायशक्तिमित्यर्थः । *न च तत्रेति । तादृशसमुदायघटकपूर्वोत्तरपदयोरित्यर्थः । *चित्रस्वामीत्यादि । समानाधिकरणनामाऽर्थयोरिति व्युत्पत्तेरिति भावः । ननु गोपदस्य गोस्वामिनि लक्षणा। गवि चित्रस्याऽभेदान्वये चित्राभिन्नगोस्वामीति बोधो नाऽनुपपन्नोऽत आह-*चित्रादिमात्रस्येति । आदिना गवादिपरिग्रहः । प्राथम्यात् पूर्वपदे लक्षणेत्याशयेन चित्रपदोपादानम् । _ *लक्ष्यैकदेशत्वेनेति । लक्ष्यगोस्वामिरूपपदाथकदेशत्वेनेत्यर्थः । *अन्वयायोगादिति । एकपदार्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विशेध्यतासम्बन्धेनापरपदजन्योपस्थितेहेतुतेत्यर्थपर्य्यवसितायाः, “पदार्थः पदार्थेनाs न्वेति" इत्यादिव्युत्पत्तेविरोधादुक्तान्वयाऽभावादिति भावः । कस्यचिन्मतमाशङ्कय __ परीक्षा पूर्ववव्युत्पत्तिविरोधो वाच्य इति शेषः । स्वमते तु दोषो नास्तीत्याह-*अति. रिक्तति* ॥३३॥ *प्रतीतिरिति । अनुभवसिद्धति शेषः । परोक्तमनूद्य दूषयति-*नचेति । *लक्ष्यैकदेशत्वेन* । गवादेर्लक्ष्यैकदेशत्वेनेत्यन्वयः । *तत्र*-गवादौ । चित्रादि. मात्रस्य*-चित्रपदार्थस्य । तादृशगोस्वामीति*-चित्राभिन्नगोस्वामीत्यर्थः । *साक्षात्सम्बन्ध इति । गोपदस्यान्यपदार्थे स्वामिनि साक्षात्सम्बन्धश्चित्रपदार्थस्य ३२ द० प० Page #279 -------------------------------------------------------------------------- ________________ २५० दर्पणपरीक्षासहिते भूषणसारे - एवमपि प्राप्तोदकः कृतविश्व इत्याद्यषष्ठ्यर्थबहुव्रीहौ विनिगमका - प्राप्तेः । यौगिकानां कर्त्रर्थकतया साक्षात्सम्बन्धाऽविशेषात् । नच पदद्वये लक्षणेति नैयायिकोक्तं युक्तम् । बोधावृत्तिप्रसङ्गात् । नच परस्परं तात्पर्यग्राहकत्वादेकस्यैवेकदा लक्षणा, न द्वयोरिति, न बोधावृत्तिरिति वाच्यम् । एवमपि विनिगमनाविरहतादवस्थ्येन लक्षणाया असम्भवात् । " नच चरमपदे एव साः प्रत्ययार्थान्वयानुरोधात् प्रत्ययानां सन्निहितपदार्थगत स्वार्थबोधकत्वव्युत्पत्तेरिति वाच्यम् । एवं हि बहुव्रीह्यसम्भवापत्तेः। "अनेकमन्यपदार्थे” ( पा०सू० २।२।४ ) इत्य दर्पणः निरावष्टे-नचेति ॥ *साक्षादिति ॥ गोद्वारक इत्यर्थः । तथाच पष्ठयर्थबहुव्रीहौ न व्युत्पत्त्यन्तरकल्पनमिति भावः ॥ *पदद्वय इति* ॥ विनिगमकाऽभावादिति भावः ॥ *नैयायिकेति ॥ अस्य प्राचीनेत्यादिः । एकदेशान्वयपक्षे हि तैरित्थमुक्तम् ॥ *बोधावृत्तीति ॥ बोध्यमानस्य स्वामिनो द्वेधा भानापत्तेरित्यर्थः ॥ 1 *विनिगमनाविरहेति । चित्रपदं तात्पर्य्यग्राहकमुत गोपदमित्येकतरपक्षपातियुक्तिविरहतादवस्थ्येनेत्यर्थः ॥ *असम्भवादिति ॥ एकतरपदे लक्षणाया असम्भ वादित्यर्थः । पदद्वये लक्षणायान्तुक्तदोष इति भावः । प्रत्ययार्थाऽनुपपत्तिरेव उत्तपदे लक्षणायां विनिगमिका भविष्यतीत्याशङ्कय निराचष्टे -*नचेति ॥ *एवं हीति उत्तरपदस्यैवाऽन्यपदार्थलक्षकत्वे इत्यर्थः ॥ बहुव्रीह्यसम्भवे हेतुमाह - * अनेकमिति ॥ परीक्षा तु गोद्वारक इति परम्परयेति विनिगमकसत्वाद्गोपदस्यैव लक्षणेति, न षष्ठयर्थ बहुव्रीहौ व्युत्पत्यन्तरकल्पनेति भावः । एवममीति-चित्रगुरित्यत्र गोपदलक्षणया निर्वाहेऽपि । *विनिगमका प्राप्तेरिति । कस्य लक्षणेत्यत्र विनिगमकाप्राप्तेरित्यर्थः । ननु तत्राप्युदकपदस्य द्रव्याभिधायकतया तदर्थस्य साक्षात्सम्बन्ध इति तस्यैव लक्षणाऽस्त्वित्यत आह - * यौगिकानामिति । *अविशेषादिति । "सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवावधीयते " इतिसिद्धान्तात् । *लक्षणाया असम्भवादिति । एकतरपद एव लक्षणाया असम्भवादित्यर्थः । पदद्वयलक्षणायान्तु दोष उक्त एव । प्रत्ययार्थान्वयानुरोध एवोत्तरपदलक्षणा विनिगमका भविष्यतीत्याशङ्कय निराचष्टे—*नचेति*। *एवं हि*-उत्तर - पदस्यैव लक्षकत्वे हि । बहुव्रीह्यसम्भवे कारणमाह - * अनेकेति । प्रतिपादकत्वेन तद्विधानादित्यनेन यस्य समुदायस्य शास्त्रेण साधुत्वं बोध्यते, तस्यार्थप्रतिपादकता न विधीयते ; किन्तु तत्तदर्थप्रतिपादकत्वे लौकिकमाश्रित्य तदनुवादेन साधुत्वमात्रस्य विधानं क्रियते । अत एव "पक्तिविंशति" इतिसूत्रेण पक्त्यादीनामर्थकथनेऽपि साधुत्वबोधनं सङ्गच्छते । अत एव समर्थ सूत्रभाष्ये “स्वभावत एव तेषां शब्दानामेष्वर्थेष्वभिनिविष्टानां निमित्तत्वेनान्वाख्यानं क्रियते" इत्युक्तम् । एवञ्चान्यपदार्थप्रतिपादकत्वं लौकिकं बहुव्रीहिसंज्ञायां निमित्तं तद् भवन्मते नास्तीति बहुबीहिसंज्ञा न स्यादिति भावः । Page #280 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। २५१ नेनानेकसुबन्तानामन्यपदार्थप्रतिपादकत्वेन तद्विधानात् ।। ... किञ्चैवं सति घटाऽऽदिपदेष्वपि चरमवर्ण एव वाचकताकल्पना स्यात् । पूर्वपूर्ववर्णानां तात्पर्य्यग्राहकत्वेनोपयोगसम्भवात् । एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरितिचेद् ? अत्राप्युदकपदमात्रश्रवणादर्थप्रत्ययापत्तिस्तुल्येत्यन्यत्र विस्तरः। एवञ्च, अषष्ठयर्थबहुव्रीहौ, व्युत्पत्त्यन्तरकल्पना, उक्तयुक्तः । दर्पणः तद्विधानादित्यर्थः। - अयम्भावः-वृत्तेविशिष्टार्थकत्वं न शास्त्रैकगम्यम् । “अचतुर” इत्यादावर्थाऽनादेशनात् । किन्तु लौकिव्यवहारगम्यम् । "स्वभावत एव तेषां शब्दानामेष्वर्थेष्व. भिनिविष्टानां निमित्तत्वेनान्वाख्यानं क्रियेत" इति समर्थसूत्रभाष्यात् । “अनेकमन्यपदार्थ (पा०स०२।२।२४) "चाथै द्वन्द्वः" (पासू० २।२।२९) इत्यादीनामनेकम्प्रथमा. न्तमन्याऽर्थप्रतिपादक बहुव्रीहिसंज्ञकं भवति, चाऽर्थे वर्तते यः प्रथमाऽन्तसमुदायः स द्वन्द्वसंज्ञको भवतीति क्रमेण लोकसिद्धार्थाऽनुवादेन बहुव्रीह्यादिसंज्ञाविधायकत्वमा. त्रम् । अर्थस्याऽपि विधाने वाक्यभेदापत्तेः । स्वसमानार्थकवाक्यानिवृत्तये विभाषाधिकारोऽपि विधेय: स्यात् । एवञ्च सुबन्तसमुदायस्याऽन्यार्थप्रतिपादकत्वे, कथं बहुव्रीहिः स्यादिति। - नन्वेकपदस्याऽन्यार्थप्रतिपादकत्वे तात्पर्य ग्राहकतयापरपदस्याप्युपयोगित्वेन समुदायस्य विशिष्टार्थप्रतिपादकत्वमविकल्प्यमत आह-*किञ्जैवमिति* ॥ समासस्थचरमपदस्यैव लक्षकत्वे सतीत्यर्थः ॥ इष्टापत्तावाह-*एवं सतीति ॥ चरमवर्णस्य वाचकत्वे सतीत्यर्थः॥ *अत्रापि । प्राप्तोदकादावपीत्यर्थः ॥ *आपत्तिरिति* ॥ आपायव्यतिरेकनिर्णयकालिकाऽऽपाचव्याप्यापादकवत्ताज्ञानसत्त्वादिति भावः ॥ ननूदकपदमात्रश्रवणान्न लक्ष्याऽर्थबोधः, तदानी लक्षणाकल्पिकायास्तात्पर्यग्राहकपूर्वपदोपस्थितेरभावादत आह-*अन्यत्रेति ॥ भूषणे इत्यर्थः । *विस्तर इति । उत्तरपदलक्ष्याऽर्थे प्रकृत्यर्थत्वाऽभावेन तत्र प्रत्ययाऽर्थाऽन्वयाऽऽपत्तिरित्यादि तत्रोक्तम् ॥ *व्युत्पत्तीति* ॥ व्युत्पत्तित्यागः प्रकृते प्रतिज्ञाहानिरेव ॥ व्यपेक्षावा परीक्षा नन्वेकस्य पदस्य लक्षणा-अपरस्य पदस्य तात्पर्य्यग्राहकताऽऽश्रीयते, तावतैवानेकपदस्यान्यपदार्थप्रतिपत्त्युपयोगिताऽस्तीति नानुपपत्तिरत आह-*किञ्चेति । *एवं सति-चरमपदस्यैव लक्षकत्वे सति । *उपयोगसम्भवादिति । तथाच घटादिशब्दानां घटादिवाचकत्वव्यवहारोच्छेदापत्तिः । ननु तथैवास्त्वित्यत आह*एवं सतीति । चरमवर्णमात्रस्य वाचकत्वे सति । ननु पूर्वपदोपस्थितिस्तात्पर्य्य ग्राहिका सा नास्तीति नोदकपदमात्रश्रवणेऽर्थप्रत्ययापत्तिरत आह-*अन्यत्र विस्तर इति । उत्तरपदमात्रस्य लक्ष्यत्वञ्चेल्लक्ष्यार्थः, प्रकृत्यर्थो न स्यात्तत्त्वस्य समुदायपर्याप्तत्वादिति तादृशार्थे प्रत्ययार्थानन्वयापत्तिः । प्रत्ययानाम्प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेरिति समुदायस्य वाचकत्वमभ्युपेयमिति शङ्कानुत्थानायाह Page #281 -------------------------------------------------------------------------- ________________ २५२ दर्पणपरीक्षासहिते भूषणसारेअगत्या शक्त्यन्तरकल्पनेत्यर्थः ॥ क्लप्तत्याग इत्यस्य क्लप्तशक्त्योपपत्तिरिति व्युत्पत्तित्यागश्च तवास्ति ॥ तत् कि, सर्वत्र समासे शक्ति न कल्पयेरिति वाक्यार्थः॥ यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादयः । न समासे शक्तिः, राजपुरुष इत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्बन्ध्य. भिन्नः पुरुष इति बोधोपपत्तेः।। दर्पणः दिन इति समर्थसूत्रे "परस्पराऽन्वययोग्यत्वरूपसामर्थ्य मेव व्यपेक्षा' इति वादिन इत्यर्थः ॥ *न समासे शक्तिरिति । समासे राजपुरुषादिसमुदाये विशिष्टशक्तिनेत्यर्थः। समाससंज्ञाप्रयोजकत्वं क्लप्तप्रत्येकपदवृत्त्यतिरिक्त नास्तीति यावत् । संसृष्टार्थमिति भाष्यकारोक्तेः संसर्गस्य पृथुगुपस्थितिनिबन्धनत्वात् परस्परव्यपेक्षैव सामर्थ्यम् । "इसुसोः सामथ्यें” (पासू० ७।३।४४) इत्यत्र समर्थपदस्य तादृशाऽर्थकत्वस्य सवरेवाऽङ्गीकारात् , परागवद्भावानुरोधाच्च, अन्यथा समासादावेकार्थीभावः, पराङ्गवदावादौ व्यपेक्षेति वाक्यभेदापत्तेः । तत्र व्यपेक्षाऽनादरे तु, "ऋतेन मित्रावरुणावृतावृधावृतस्पृशौ” इत्यादावृतेनेत्यादेः परागवद्भावे सति, "आमन्त्रितस्य च" ( पा०सू० शश९८ ) इत्याद्युदात्तताऽऽपत्तिः । न च "तन्निमित्तग्रहणं कर्त्तव्यम्” इति वार्तिकेनामन्त्रितार्थस्य यन्निमित्तं तद्वाचकमेव पराङ्गवदित्यर्थकेन नियमितत्वात् पराङ्गवद्भावाऽप्रसक्तिरिति वाच्यम् । समर्थपरिभाषामाश्रित्य तत्प्रत्याख्यानस्यैव न्याय्यत्वात् । "ऋतेन मित्रावरुणौ” इत्येतयोः समभिव्याहृतक्रियान्वयित्वेन परस्परमसामर्थ्यात् "मित्रा वरुणावृतस्पृशो" एतयोस्तु पार्टिकाऽन्वयबोधसत्त्वादस्त्येव सामर्थ्यम् । स्पष्टं चेदं वेदभाष्ये। अत एवाऽनन्तरपाठोऽपि चरितार्थः। 'पुत्रो राज्ञः पुरुषो देवदत्तस्य' इत्यादौ निरुक्त. व्यपेक्षारूपसामर्थ्याभावादेव समासाऽप्रसक्तः। . __समर्थसूत्राऽर्थस्तु-पदसम्बन्धी समासादिविधिः साक्षात्परम्परया वा स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वरूपव्यपेक्षाऽऽपरनामकसामर्थ्यवत्पदाऽऽश्रितो बोध्य इति बहुव्रीहौ चित्राऽऽदिविषयतायाः साक्षात्प्रयोजकत्वाऽऽभावात्परम्परयेति । किञ्च वृत्तित्वाऽवच्छेदेनैकार्थीभाववादिमते स्वाऽवयवार्थाऽतिरिक्ताऽर्थाभिधाय. कत्वरूपवृत्तिलक्षणस्य कर्मधारयेऽव्याप्तिः। तत्राऽवयवार्थातिरिक्ताऽर्थवत्त्वाऽभावात्। वृत्तित्वसामानाधिकरण्येन तु रथन्तराऽऽदिशुद्धरूढे पडूजादियोगरूढे च कोशाऽऽदिसिद्धायाः समुदायशक्तेरस्माभिरप्यभ्युपगमेन सिद्धसाधनात् । शुद्धयौगिकचिऋग्वादिसमुदाये शक्त्यभ्युपगमस्तु कोशाऽऽद्यनुक्तत्वात्समासघटकप्रत्येकपदवृत्यवोपपत्तेश्च हेय इति तदभिसन्धिः । शक्तिकल्पकाऽनुपपत्त्यभावंतत्प्रयोजकतया दर्शयति*राजपुरुष इत्यादाविति । परीक्षा *एवञ्चेति । *इति वाक्याथ इति । तथाच न पौनरुक्त्यमिति भावः । *व्यपेक्षावादिनः । समर्थसूत्रघटकं सामर्थ्यम्परम्परान्वययोग्यार्थकत्वमापन्नमिति वादिनः । *बोधोपपत्तेरिति । तथाच तत्पुरुषस्थले विग्रहवाक्ये पूर्वपदाच्छूयमाणा या विभ. Page #282 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। २५३ -: अत एव राज्ञः पदार्थेकदेशतया, न तत्र शोभनस्येत्यादिविशेषणान्वयः। न वा घनश्यामो निष्कौशाम्बिर्गोरथ इत्यादाविवादिप्रयोगापत्तिः। उक्तार्थकतयैव क्रान्तादिपदप्रयोगासम्भवात्। न वा "विभाषा" (पा०सू० २।७।११) इतिसूत्रावश्यकत्वम् । लक्षणया राजसम्बन्ध्यभिन्नः पुरुष इति बुबोधयिषायां समासस्य राजसम्बन्धवानिति दर्पणः न च सम्बन्ध एव लक्ष्योऽस्त्वेवं च व्याससमासयोः समानाकारबोधजनकत्वप्रवादोऽप्युपपत्स्यते । राजाऽऽदिसम्बन्धरूपलक्ष्यार्थस्योत्तरपदाऽर्थे आश्रयतयाऽन्वयेनैवौपपत्तौ सम्बन्धिनि लक्षणाऽभ्युपगमे प्रयोजनाऽभावश्चेति वाच्यम् । 'राजा पुरुष इत्यादावपि राजादिपदार्थस्य स्वस्वामिभावसम्बन्धेन पुरुषादावन्वयवारणाय निपाताऽतिरिक्तनामार्थनिष्ठाभेदाऽतिरिक्तसम्बन्धाऽवच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धि प्रति विशेष्यतासम्बन्धेन प्रत्ययनिपाताऽन्यतरजन्योपस्थितेहेंतत्वस्यावश्यकतया प्रकृते राजसम्बन्धरूपनामाऽर्थस्य प्रत्ययनिपाताऽन्यतराऽनुपस्थितेः पुरुषादावन्वयाऽसम्भवात् निपातातिरिक्तत्वविशेषणात् 'चन्द्र इव मुखम्। इत्यादाविवपदार्थसादृश्यस्य नामार्थस्य प्रत्ययजन्योपस्थित्यविषये मुखे निपाताऽतिरिक्तनामार्थचन्द्रस्य तथोपस्थित्यविषये सादृश्येऽन्वयेऽपि न क्षतिः । अभेदाऽतिरिक्तसम्बन्धाऽवच्छिन्नत्वस्य प्रकारतायां निवेशाच्च 'राजा पुरुष' इत्यादावभेदाऽन्वयेऽपि न सा। न च समस्यमानाऽतिरिक्तत्वेनाऽपि नाम्नो विशेषणीयत्वान्न प्रकृतेऽनुपपत्तिरिति वाच्यम् । गौरवात्, क्वचिदगत्या सोचेऽपि सर्वत्र सङ्कोचस्यान्याय्यत्वाच्च । प्रकृते सम्बन्धिलक्षणाभ्युपगमरूपगतिसत्वात् । निपातानां द्योतकत्वनये घटादिपदानां घटादिप्रतियोगिकलाक्षिणकतयैवोपपत्तौ निपातातिरिक्तत्वस्याप्रवेशाच्चेति भावः । *अत एवेति । पूर्वपदस्य सम्बन्धिलाक्षणिकत्वादेवेत्यर्थः । *नविशेषणान्वय इति । “पदार्थः पदार्थेनाऽन्वेति" इति व्युत्पत्तेरिति भावः। ननु गभीरायां नद्यां घोष' इत्यादौ नदीपदलक्ष्यनदीतीरार्थैकदेशनद्यादौ गभीराद्यन्वयवदत्राप्येकदेशाऽन्वयो दुर्वार इति चेद् ? न। दृष्टान्तासिद्धः। तत्राऽप्येतन्मते नदीपदस्य गभीरनदीतीरलक्षकताया, गभीरतात्पर्य्यग्राहकतायाश्च वक्ष्यमाणतया अदोषात्, तादृशव्युत्पत्तः ससम्बन्धिव्यतिरिक्तविषयतया चैत्रस्य नप्तेत्यादावेकदेशाऽन्वयेऽपि क्षतिविरहादिति । ___ *उक्तार्थतयेति । तत्र निरादीनां द्योतकतया कौशाम्ब्यादिपदस्यैव काशाम्ब्यवधिकनिष्क्रमणकाद्यर्थे लक्षणाऽभ्युपगमेनैवेप्सितार्थबोधोपपत्तौ क्रान्तादिशब्दा. नामुपादानाऽसम्भवादित्यर्थः । *आवश्यकत्वमिति । तेन पारायणादावदृष्टार्थकतया परीक्षा . . क्तिस्तदर्थ विशिष्ट लक्षणा स्वीक्रियत इति भावः । *अत एव*-राजपदस्य राजसम्बन्धे विशिष्टे लक्षणास्वीकारादेव । *प्रयोगासम्भवादिति । पूर्वपदस्य लक्षणया तद. र्थप्रतिपादकत्वसम्भवेन "उक्तार्थानामप्रयोगः” इति न्यायेन तदर्थप्रतिपादनाय प्रयो. गासम्भवादिति भावः । यदुक्तम्प्राक् विभाषावचन कार्यमिति तत्परिहारमाह Page #283 -------------------------------------------------------------------------- ________________ २५४ दर्पणपरीक्षासहिते भूषणसारेबुबोधयिषायां विग्रहस्येत्यादिप्रयोगनियमसम्भवात् । नाऽपि पङ्कजपदप्रतिबन्दी शक्तिसाधिका । तत्रावयवशक्तिमजानतोऽपि बोधात् । ____ न च शक्त्यग्रहे लक्षणया तेभ्यो विशिष्टार्थप्रत्ययः सम्भवति । अत एव राजादिपदशक्त्यग्रहे 'राजपुरुषः' 'चित्रगुः' इत्यादौ न बोधः । नच चित्रगुरित्यादौ लक्षणासम्भवेऽप्यषष्ठ्यर्थबहुव्रीहौ लक्षणाया असम्भवे बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम् । 'प्राप्तोदकः' इत्यादावुदकपदे एव लक्षणास्वीकारात् । पूर्वपदस्य यौगिकत्वेन तल्लक्षणाया धातुप्रत्ययतदर्थज्ञानसाध्यतया विलम्बितत्वात् । प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्यनुरोधाश्च । घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना विशिष्ट कल्प्यते । विशिष्टस्यैव सङ्कोतितत्वात् । बोधकत्वस्यापि प्रत्येकं वर्णेष्वस दर्पणः स्पष्टप्रतिपत्त्यर्थकतया वा तदुपयोगेऽपि न क्षतिरिति भावः । *प्रतिबन्दीति । पङ्कजादिपदे पद्मत्वादिविशिष्टशक्त्यभ्युपगमरूपेत्यर्थः । अवयवशक्तिमजानतोऽपीत्यपिना दृष्टान्तदान्तिकयोवैषम्य सूच्यते । *शक्त्यग्रहे* । अवयवशक्तिग्रहाऽभावे । *तेभ्यः* । पङ्कजादिपदघटकाऽवयवेभ्य इत्यर्थः । विशिष्टाऽर्थप्रत्यय इति । पद्मत्वाऽऽदिरूपेण पदमाऽऽदिबोध इत्यर्थः। लक्षणायाः शक्तिघटितत्वादिति भावः । *अत एवेति । तत्पदीयलक्षणाप्रहे तत्पदशत्तिज्ञानस्य हेतुत्वादेवेत्यर्थः । उत्तरपदलक्षणायां विनिगमकमाह-*यौगिकत्वेनेति । विलम्बितत्वादित्यनेन शीघ्रोपस्थितिकत्वमुत्तरपदलक्षणायां विनिगमकमिति सूचितम् । ___ ननु व्युत्पत्तिपक्षे यौगिकत्वमुदकाऽऽदिपदानामपि सममत आह-*प्रत्ययानामिति । यथाश्रतप्रकृत्यर्थत्वस्यादकादौ बाधात् प्रक्रत्यर्थपदमन्यथा व्याचष्टे-*सन्त्रिहितेति । दण्डिनमानय, इत्यादौ व्यवहितपदार्थदण्डादौ कर्मत्वाद्यन्वयवारणाय *सन्निहितेति । तथाच 'अणुरपि विशेषोऽध्यवसायकर” इति न्यायोनोत्तरपद एव लक्षणेति न बोधाऽऽवृत्तिरूपदूषणमपीति भावः । पूर्वोक्तदूषणान्तरमुद्धरति-*घटादिपदे चेति । कल्प्यमानेत्युक्त्या अक्लप्सत्वं सूचयति-*विशिष्टस्यैवेति । व्यवहारा परीक्षा *नवा विभाषेतीति। पूर्वोक्तपङ्कजशब्दवदिति दृष्टान्तोपादान खण्डयति-*नापीति। *नचेति*-नहीत्यर्थः । लक्षणायाः शक्यार्थोपस्थितिपूर्वकत्वेन शक्यार्थग्रहाभावे लक्षणायास्तत्रासम्भवादिति भावः । *अत एव*-राजपुरुषादिसमुदाये प्रत्येकपदस्य बोधकत्वादेव । *न बोध इति* । शक्यार्थोपस्थित्यभावेन लक्षणयार्थापस्थित्यसम्भवादिति भावः। द्वितीयकारिकासूचितं दोष परिहरति-*नापि चित्रगुरिति । *विलम्बितत्वादिति । तथाच न पूर्वोक्तो विनिगमनाविरह इति भावः। उत्तरपद. स्यैव लाक्षणिकत्वे साधकान्तरमाह-*प्रत्ययानामिति । *अनुरोधाञ्चेति । उत्तर. पदलक्षणेति शेषः । यदुक्तम्प्राक् घटादिपदेष्वपीत्यादिना तत् खण्डयति-*घटादिपदे चेति । ननु चरमवर्णमात्रस्य सङ्केताभावेऽपि बोधकत्वमस्वित्याह आह-*बोधक Page #284 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः । त्त्वात् । प्रकृते चात्यन्तसन्निधानेन प्रत्ययार्थान्वय सौलभ्यायोत्तरपदे एव सा कल्प्यत इति विशेषः । स्वीकृतञ्च घटादिपदेष्वपि चरम २५५ दर्पणः दिना तत्रैव तन्निर्द्धारणादिति भावः ॥ अशक्तत्वादित्यस्य, येन तत्रापि विनिगमकंगवेषणा स्यादिति शेषः । *उत्तरपद इति । प्राप्तोदका दिघटकोदकादिपदे इत्यर्थः ॥ सालक्षणा । *विशेष इति । घटादिपदात् समासस्य लक्षणाया वैषम्यमित्यर्थः ॥ अत्रेदं बोध्यम्-उक्तयुक्त्योपकुम्भमित्यादावुत्तरपदस्यैव समीपाद्यर्थे लक्षणा, पूर्वपदं तात्पर्य्यग्राहकम् । तत्पुरुषेऽपि क्वचिदर्द्धपिप्पलीत्याद्येकदेशिनि चरमपदस्यैव सा । पिप्पल्यर्धाद्यर्थे इतरद् द्योतकम् । नीलोत्पलमित्यादिकर्मधारये तु न क्वापि सा, प्रत्येकपदशक्त्युपस्थितयोरभेदाऽन्वय सौलभ्यात् । बहुव्रीहौ तूत्तरपद एव सेति सार एव व्यक्तम् । पाणिपादमिति द्वन्द्वेऽप्युत्तरपदस्य पाणिपादसमाहारे लक्षणा, पदान्तरं द्योतकम्, तत्रैव परम्परया वादन कर्मत्वान्वयः । एवमितरेतरयोगद्वन्द्वे साहित्यापन्नप्रत्येकपदार्थयोरुत्तरपदस्यैव सा । अत एव द्विवचनाद्यर्थद्वित्वाद्यन्वयस्तत्र । समाहारद्वन्द्वे साहित्यं विशेष्यमत्र तु विशेषणमिति भेदः । 1 यद्वा समाहारद्वन्द्वेऽपि साहित्याऽप्रतीतेर्न तत्र लक्षणा, किन्तु प्रत्येकपदशक्त्युपस्थाप्ययोरेव साक्षाद् वादनकर्मत्वाऽन्वयः । “द्वन्द्वश्च प्राणि” (पा०सू० २।४।२) इति प्रकरणातिदिष्टैकत्वसमासस्य समाहारपदव्यपदेश्यत्वम् । इतरत्र तु तद्वयवहार औपचारिकः । नापि इतरेतरयोगे तत्प्रसङ्गः । एवमितरेतरयोगे द्वन्द्वेऽपि न लक्षणा । एकस्मृत्यारूढपदद्वयात् प्रत्येकशक्त्युपस्थिताऽर्थयोर्द्वित्वाऽन्वयसम्भवाद् । एकक्रियाऽन्वयित्वरूपस्य एकबुद्ध्यवच्छिन्नत्वरूपस्य वा साहित्यस्य पश्चादेवाऽवगमेन पूर्व तत्र लक्षणाग्रहाऽसम्भवाच्च । “चाऽर्थे द्वन्द्व" इत्यस्य चाऽर्थाऽन्वययोग्य इत्यर्थान्न तद्विरोधोऽपि । युक्तं चैतत् । द्वन्द्वत्वाऽवच्छिन्नस्य प्रधानीभूताऽर्थद्वयप्रतिपादकत्वे एव, "द्वन्द्वः सामासिकस्य च" ( गीता ) इत्यनेन समाससमूहमध्ये द्वन्द्वस्य विभूतितया परिगण - नस्य भगवत्कृतस्य सङ्गतेः । विशिष्टशक्त्या लक्षणया वा तस्य प्रधानीभूतसमाहारप्रतिपादकत्वे तु समासान्तराद् द्वन्द्वस्याऽविशेषात्तदसङ्गतिः स्पष्टैव । यतु-भारतभावदीपे - सममेकत्राssसनं समासो, विदुषां गुरुशिष्याणां वा मन्त्रार्थं कथार्थं वैकत्राऽवस्थानम् । तत्र विदितमर्थजातं सामासिकम् । चातुरर्थिकष्ठक् । तस्य “स्येकः” ( पा० सू० ७।३।५० ) इतीकादेशः । “यस्येति च" ( पा० सू० ६।४।१४८ ) इत्यलोपः । तस्य मध्ये द्वन्द्वो रहस्योऽहम् । " द्वन्द्वं रहस्य" (पा०सू० ७११।१५ ) इति सूत्रे द्वन्द्वशब्दस्य रहस्यवाचित्वं शाब्दिकप्रसिद्धमिति व्याख्यातम् । तत्तु विदिताऽर्थस्य चातुरर्थ्यामदर्शनाद्रथन्तराऽधिकरणन्यायेन सांकेतितसमासशब्दात् पारिभाषिकसमासरूपाऽर्थस्यैवोपस्थितेरुचितत्वेन प्राप्तस्य सामूहिकठकः परीक्षा त्वस्यापीति । 'बोधकत्वं शक्तिः' इति मतेऽपि चरमवर्णमात्रे बोधकत्वं नास्ति तावन्मात्रादर्थप्रत्ययाभावात् । किन्तु घट इत्यादि समुदाये एव तस्य सत्वम् । *प्रकृते*समासस्थले । *सन्निधानेन * - उत्तरपदस्य सन्निधानेन । *सा* - लक्षणा । *विशेष Page #285 -------------------------------------------------------------------------- ________________ २५६ दर्पणपरीक्षासहित भूषणसारे वर्णस्यैव वाचकत्वं मीमांसकम्मन्यरित्याहुः। दर्पणः समासशब्दात्तदनभिधानात् । “द्वन्द्व रहस्य” (पा० सू० ८।१।१५ ) इत्यनेन रहस्ये व्युत्पादितद्वन्द्वस्य नित्यनपुंसकत्वेन पुंल्लिङ्गस्य तद्वाचित्वाऽसम्भवात् । समासवाचिनश्च तस्य पुंलिङ्गतायाः “चाऽर्थे द्वन्द्वः” (पा० सू २।२।२८) इत्यादौ दृष्टत्वात् पारिभाषिकत्वाच्च तेन समासस्यैव ग्रहणस्यौचित्याञ्च चिन्त्यम् ।.. न च साहित्यामानेऽन्यतरस्य क्रियाऽन्वयविवक्षायां, पश्य धर्व, खदिरं छिन्धीति. वाक्यवत् पश्य धवखदिरौ छिन्धीति प्रयोगापत्तिरिति वाच्यम् । प्रत्ययार्थद्वित्वाऽवच्छिन्नधर्मिकस्यैव पदार्थाऽन्तरान्वयबोधस्याऽन्यत्र दर्शनेनाऽत्रापि तदवच्छेदेनाऽन्वयस्यैवोचितत्वात् । न च द्वित्वाऽन्वययोग्यताऽवच्छेदकसाहित्यभानमन्तरेण द्वित्वाऽन्वय एव दुर्लभ इति वाच्यम् । योग्यताऽवच्छेदकोपस्थितेरनपेक्षणाद् उपस्थितेर्योग्य एव तदन्वयात् । अत एव 'घटेन जलमानय' इत्यत्र च्छिद्रतरस्यैव योग्यताबलेनाऽन्वयः । न तु छिद्रेतरत्वप्रकारकः शाब्दबोधः। तत्र प्रकृत्यर्थतावच्छेदकस्यैव द्वित्वान्वययोग्यतावच्छेदकत्वेऽपि क्षतिविरहाच्च । विवेचितं चेदमधिकमन्यत्र । न च "क्षौमवसनावग्निमादधीयाताम्" इत्यत्र समुच्चयलाभो न स्यादिति वाच्यम् । “यत् कर्त्तव्यं तदना सह" इतिवचनान्तरात्तत्सिद्धः। यद्यपि द्वन्द्वे परस्परान्वयित्वरूपव्यपेक्षा दुर्घटा ; तथापि "चाऽर्थे द्वन्द्वः" (पा०सू०२।२।२९) इति विधिसामर्थ्यादेव तत्र समासः, तदर्थस्तूक्तः । समुच्चयान्वाचययोस्त्वनभिधानादेव न द्वन्द्व इति स्पष्टं भाष्ये । यत्त्वेकस्यां क्रियायामेकरूपेणाऽन्वयित्त्वमेव तत्र सामर्थ्य मिति ; तन्न । क्वचिदेतस्य क्वचित् पूर्वोक्तस्य सामर्थ्यस्याश्रयणे समर्थसूत्रे वाक्यभेदापत्तेरिति पूर्वोक्तापत्तिमिष्टत्वेनाऽपि परिहरति-*स्वीकृतमिति। *चरमवर्णस्यवेति ॥ पूर्वपूर्ववर्णाऽनुभवजन्योबुद्धसंस्कारसहितान्तिमवर्णस्येत्यर्थः । नाऽतः केवलचरमवर्णादर्यबोधापत्तिः । अधिकमग्रे वक्ष्यते ॥ "व्यपेक्षायां सामध्ये समास एकोऽसगृहीतो भवति" इति भाष्याशयं प्रकाशयन्नैयायिकमतं दूष परीक्षा इति । घटादिपदात्समासस्य लक्षणायां वैषम्यमित्यर्थः। तथाचोत्तरस्य बहुव्रीहौ लक्षणा सम्भवतीति भावः । यदुक्तं समासदृष्टान्तेन घटादिपदेष्वपि चरमवर्णस्यैव बोधकत्वापत्तिरिति तत्रेष्टापत्या तामापत्ति परिहरति-*स्वीकृतञ्चेति । *मीमांसकमन्यैरिति । अनेन चरमवर्णस्याबोधकत्वे-एव सर्वानुग्रहो न तु चरमवर्णस्य वाचकत्व इति-इष्टापत्तिरनुचितेति सूचितम् । *इत्याहुरिति । अत्र बहुत्वप्रदर्शकवचनेनान्योऽपि तदीयोक्तोऽर्थः सगृहीतः। तथाहि-उपकुम्भमित्यादौ प्रत्ययार्थान्वयः पूर्वपदलक्ष्यार्थ एवेतिचेदुक्तव्युत्पत्तिभङ्ग इति तत्राप्युत्तरपदस्यव कुम्भसमीपे लक्षणा पूर्वपदन्तात्पर्यग्राहकम् । तत्पुरुषेऽप्येकदेशिसमाशे उत्तरपदस्य लक्षणाकर्मधारयसमासे तु न कस्यापि लक्षणाः किन्तु शक्त्योपस्थितस्य पूर्वपदार्थस्योत्तरपदार्थेऽभेदसम्बन्धे. नान्वयः । समाहारद्वन्द्वे उत्तरपदस्य पाणिपादमित्यादौ पाणिपादसमाहारे लक्षणा Page #286 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः । २५७ अत्रोच्यते-समासे शक्त्यस्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात् । अर्थवत्त्वाभावाद्, "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" (पा० सू० ७।१। ४५) इत्यस्याप्रवृत्तेः । न च "कृत्तद्धितसमासाश्च" (पा० सू० १।२।४६) इत्यत्र समासग्रहणात् सा । तस्य नियमार्थ __परीक्षा पूर्वपदं तात्पर्य्यग्राहकम् । यत्रानेकपदानां द्वन्द्वः, तत्राप्युत्तरपदस्यैव सर्वार्थसमाहारे लक्षणा, अन्येषान्तात्पर्य्यग्राहकता। समाहारः-समूहः, अपेक्षाबुद्धिविशेषतया । न च तस्यां कर्मत्वाद्यनन्वय इति वाच्यम् ? परम्परया तदन्वयसम्भवात् । इतरेतरयोगद्वन्द्वे यदि सहित्यानुभवोऽस्तिः तदा तूत्तरपदस्य धवरादिरावित्यादौ साहित्यविशिष्टधवखदिरयोर्लक्षणा। अत एव तयोः सामर्थ्यात्समाससञ्ज्ञा। सामर्थ्यस्य साक्षात्परम्परया वाखण्डप्रयोज्यविषयतानिरूपिता या विषयता तन्निरूपकत्वरूपतया साहित्यनिरूपितविषयताद्वारा धवनिष्ठविषयतायाः खदिरनिष्ठविषयतायाश्च निरूप्यनिरूपकभावात् । द्विवचनाद्यर्थद्वित्वादेः साहित्यावच्छिन्नेऽन्वयः, यदि तु द्वन्द्वविषयेऽपि न साहित्यप्रतीतिस्तदा कस्यापि पदस्य न लक्षणा । अत एवोभयपदार्थप्रधानो द्वन्द्व इति सङ्गच्छते । समाहारेतरेतरयोग इति व्यवहारभेदस्तू "द्वन्द्वश्च पाणितूर्य” इत्यादिसूत्रप्रवृत्यप्रवृत्तिसाध्यः। साहित्यस्यैकक्रियान्वयित्वरूपस्य तूत्तरकालम्मानसो बोधः। “चार्थे द्वन्द्वः” इति सूत्रस्य चार्थान्वययोग्यार्थकानां द्वन्द्वसञ्ज्ञा भवतीत्यर्थः । अत एव गीतायाम्-'द्वन्द्वः सामासिकस्य च' इत्युक्तम् । समा. ससमूहमध्य इत्यर्थात् । समासान्तरे पूर्वपदार्थोत्तरपदार्थयोर्विशेष्यविशेषणभावो द्वन्द्वे तूभयोर्बहूनां वा समप्राधान्यमित्यस्य समासान्तराच्छ्रेष्ठत्वमिति । न च साहित्यस्य शाब्दबोध्यत्वाभावे पूर्वोक्तसामर्थ्याभावाद्धवन्छिन्धि खदिरम्पश्येत्यत्रेव द्वन्द्वो न स्यादिति वाच्यम् ? द्वन्द्वोत्तरद्विवचनाद्युपस्थाप्य द्वित्वादिविषयतामादाय सामर्थ्यसम्भवात् । एवञ्च व्यपेक्षैव सामर्थ्यम् । सामर्थ्यस्यैतद्रूपत्वम् "इसुसोः सामथ्यें" इत्यत्र क्लप्तम् । किञ्च व्यपेक्षायाः सामर्थ्यरूपत्वे पराङ्गद्धावस्थलेऽपि तस्याः सम्भवेनैकरूपनिर्वाहः । अत एव "ऋतेन मित्रावरुणवृता वृधा वृतस्य शौ"इत्यादौ ऋतेनेत्यादेः पराङ्गवद्भावे सत्यामन्त्रितस्याद्युदान्तत्वापत्तिवारणाय-आरुन्धस्यामन्त्रितार्थस्य [यन्निमित्तन्तद्वाचकं यत् सुबन्तन्तत्रागवगवतीत्यर्थकम् ]-"यनिमित्तग्रहणङ्कतं. व्यम्" इति वार्तिकम्, तस्य "समर्थानुवृत्या सिद्धम् इत्यनेन प्रत्याख्यानपरभाष्य सङ्गच्छते । “समर्थः पदविधिः" इति सूत्रस्य पदसम्बन्धीविधिः साक्षात्परम्परया वा स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वरूपसामर्थ्यवदाश्रितो बोद्धव्य इत्येवार्थः । न च द्वन्द्वसमासस्य साहित्यानभिधायकत्ववद् द्विगोरप्येतन्मते समाहारानभिधायकत्वे पञ्चखट्वीत्यत्र “आबन्सो वा इति नपुंसकत्वाभावे उपसर्जनहस्वत्वे समासाकारोत्तरपदकद्विगुत्वात्स्त्रीत्वे सति "द्विगोः इति ङीब् भवति, स न स्यात् । समाहारस्य वाच्यत्वे तु तत्रैकार्थीभावस्यावश्यकतेति वाच्यम् ? समाहार इत्यस्य समाहारेऽपि विधित्सत इत्यर्थात् । सचोत्तरपदस्य लाक्षणिकत्वेन पूर्वपदस्य तात्पर्य्यग्राहकतया च तत्रापि सम्भवतीति नानुपपत्तिरिति । स्वसिद्धान्तमाह-*अत्रोच्यत इत्यादिना* । *तस्य*-समासस्य । *अर्थवत्वा. ३३८०प० Page #287 -------------------------------------------------------------------------- ________________ २५८ दर्पणपरीक्षासहिते भूषण सारे - ताया भाष्यसिद्धाया वैयाकरणभूषणे स्पष्टं प्रतिपादितत्वात् । समास दर्पण: यति - *अत्रोच्यत इति । संज्ञादीत्यादिना पदत्वादिपरिग्रहः ॥ भाष्यसिद्धाया इति । " समासग्रहणमर्थवत्समुदायानां नियमार्थम्” इति भाष्यसिद्धाया इत्यर्थः । *स्पष्टमिति* । वाक्यस्याऽप्यर्थवत्त्वेन प्रातिपदिकत्वप्रसक्तौ तद्व्यावृत्तये वचनारम्भमाशङ्कय नियमार्थेन समासग्रहणेन समाहितम् । समासे शक्त्यनभ्युपगमेतु तस्य वृत्त्याथ बोधकत्वरूपाऽर्थवत्त्वाऽभावेनाऽप्राप्तसंज्ञाविषये तस्याssवश्यकतया नियमार्थत्वव्याघातः स्पष्ट एव । तस्मादेतद्भाष्यमपि समासे विशिष्टशक्तौ मानमिति तत्रोक्तत्वादित्यर्थः ॥ न चाऽर्थवत्पदसामथ्र्येंनाऽर्थवाचकपदघटितेऽपि प्रातिपदिकसंज्ञासिद्धिः । अन्यथा धात्वादिपर्युदासेनैवाऽर्थवत्त्वे लब्धे तदुपादानवयर्थ्यं स्पष्टमेव । 'दशदाडिमानि' इत्याद्यनर्थकसमुदायस्य तु नियमेन वारणीयत्वादिति वाच्यम् । अर्थवद्ग्रहणस्योत्तरार्थतायाः सिद्धान्तसिद्धत्वेन तत्सामर्थ्याऽभावाद्, “अर्थवद्ग्रहणं संज्ञिव्यपदेशार्थम्” इति भाष्येणार्थत्वेन सादृश्यबोधनार्थं तदुपयोगदर्शनाच्चेति विशिष्टशक्त्यभ्युपगममन्तरेण समासे प्रातिपदिकसंज्ञादौर्भिक्ष्यमेवेतिभावः । ननु चित्रगुरित्यादौ विशिष्टे शक्त्यस्वीकारेऽपि नाऽर्थवत्त्वनिबन्धनप्रातिपदिकसंज्ञाऽनुपपत्तिः । तथाहिहै-न शक्यसम्बन्धो लक्षणाः, 'गभीरायां नद्यां घोष:' इत्यादावसम्भवात् । तत्र तावन्न गभीरपदं तीरलक्षकं नद्यामित्यस्याऽनन्वयापत्तेः, न हि तीरं नदी, अत एव नदीपदमपि न तथा । गभीरपदाऽर्थस्यानन्वयापत्तेः । न च पदद्वये प्रत्येकं सा । विशिष्ट नदीतीराऽभानप्रसङ्गात् । न च नदीपदेनैव गभीरनदीतीरं लक्ष्यते, भीरादिपदं तात्पर्य्यग्राहकमिति वाच्यम् । गभीरपदस्य तात्पर्यग्राहकत्वमुत नदीपदस्येति विनिगमनाविरहात् । नच नदीपदस्य द्रव्यवाचकतया साक्षात्सम्बन्ध एव लक्षणायां विनिगमक इति वाच्यम् । गभीरपदस्याऽपि नित्यं गुणिवाचकतया तदर्थस्याऽपि साक्षात्सम्बन्धाऽविशेषात् । तस्मात् पदद्वयलक्षणायां गौरवात् समुदाय एव साऽङ्गीकार्य्या । अत एवार्थवादवाक्यानां प्राशस्त्ये लक्षणेति सङ्गच्छते । किन्तु स्वबोध्यरूपैव सा । अस्ति च गभीरायां नद्यामित्यत्र वाक्यज्ञाप्या गभीराभिन्ननदी तत्सम्बन्धस्तीर इति । एवञ्च चित्रगुरित्यादिसमुदायस्य लक्षणया चित्राऽभिन्नो गोस्वामिरूपार्थबोधकत्वरूपाऽर्थवत्त्वात् प्रातिपदिकसंज्ञा नाऽनुपपन्नेत्यत आह- *समासवाक्य इति । वाक्य इत्युक्त्या क्वचित्तत्सम्भवेऽपि सर्वत्र राजपुरुषादिसमासे तदसम्भवं सूचयति । अयमाशयः - स्वज्ञाप्यसम्बन्धस्य न लक्षणात्वम्, अपभ्रंशेऽपि तत्प्रसङ्गात् । किञ्च स्वज्ञाप्य इत्यस्य स्वनिष्ठज्ञापकता निरूपकज्ञाप्यतावदर्थं सम्बन्ध इत्यर्थो वाच्यः । तत्र परीक्षा भावाद् *समुदायस्यार्थवत्वाभावाद् । वृत्त्याऽर्थबोधजनकत्वं त्वर्थवत्वमिति सिद्धान्तात् । *सेति* - प्रातिपदिकसञ्ज्ञेत्यर्थः । *तस्य - समासग्रहणस्य । न च शक्त्या - र्थबोधकत्वमर्थवत्वम्, किन्तु वृत्या इत्यस्य निवेशोऽस्तु । एवञ्च शक्त्यभावेऽपि लक्षणायाः स्वीकारान्नानुपपत्तिरत आह- समासवाक्य इति । Page #288 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः . २५९ - वाक्ये शक्त्यभावेन शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्वस्याप्यसम्भवात् । । अथ “तिप्तस्झि" इत्यारभ्य “योस्सुप” इति तिप्प्रत्याहारो भाष्यसिद्धस्तमादाय "अतिप्प्रातिपदिकम्" इत्येव सूत्र्यताम् , कृतमर्थवदादिसूत्रद्वयेन । समासग्रहणश्च नियमार्थमस्तु । तथाच अतिपू---तिबन्तभिन्न प्रातिपदिकमित्यर्थात् समासस्यापि सा स्यादितिचेद् ? तथापि प्रत्येकं वर्णेषु संज्ञावारणायाऽर्थवत्त्वा. दर्पणः ..... ज्ञापकत्वं वृत्त्या बोधकत्वमुत ज्ञानजनकज्ञानविषयत्वमात्रम्। नाद्यः । वाक्ये लक्षणाs. भावप्रसङ्गात् । तदर्थस्य गभीराभिन्नस्य वृत्त्यबोध्यत्वात्। नान्त्यः । प्रत्येक वर्णानामर्थवत्त्वापत्त्या विभक्त्यापत्तेरिति स्वशक्यसम्बन्धो लक्षणेत्येवाङ्गीकरणीयम् । तथाव समासे तदसम्भवेन प्रातिपदिकसंज्ञाऽनुपपत्तिस्तदवस्थेति तदर्थे विशिष्टशक्तिस्वीकार आवश्यक इति।। . *भाष्यसिद्ध इति । “तिबेकादेशे प्रतिषेधोऽन्तवत्त्वात्" इत्यादेस्तत्राभिधानादिति भावः । *सूत्र्यतामिति । “अतिप्समासश्च प्रातिपदिकम्" इत्येव सून्य. तामित्यर्थः । तथा च तिसुबन्तभिन्नं यत्तत्प्रातिपदिकमित्यर्थन समासस्य प्रातिपदिकत्वालाभादतिरिच्यमानं समासग्रहणं नियमार्थमस्त्वित्यर्थः । *प्रत्येक वर्गवि. ति* । वर्णानामानर्थक्यपक्षे प्रातिपदिकसंज्ञायां प्रकाशनीयाऽर्थाभावादविशेषेण प्रतिवर्ण विभक्तिसम्भवादव्ययादिवेति भावः । *अर्थवत्त्वेनेति* अर्थवद्ग्रहणस्यावश्यकत्वेनेत्यर्थः। न चाऽर्थवत्समुदायघटकवर्णानामर्थवत्वपक्षस्याऽपि भाष्ये दर्शनात्तद्ग्रहणेऽपि वि. भक्तिर्दवारेति वाच्यम् ॥ तत्पक्षेऽपि "सङ्घातस्यैकार्थ्यात् सुबभावो वर्णात्" इति भाष्यात्तन्त्रेगैकैव विभक्तिः समुदायाऽवयवार्थगतमेकत्वं बोधयेत् । एकमेव तदेकत्वं तच्चैकेन सुपा प्रत्यायितमिति बोधनीयाऽभावाद् विभक्तेः प्रत्येकवर्णादनुत्पत्तेरिति भावः। ननु समासवाक्यस्याऽर्थवत्वाऽभावेऽपि न प्रातिपदिकसंज्ञाऽनुपपत्तिः । "कृत्तद्धित" (पा०सू० १११।४६ ) इति सूत्रेणैव तत्सम्भवात् । सम्भवति विधित्वे नियमकल्पनाया अन्याय्यत्वात् । समासग्रहणमेव च समास एकार्थीभावाभावे वा मानम् । वाक्यस्य तु न पूर्वसूत्रेण तत्प्रसक्तिरर्थवत्त्वाऽभावात् । संसर्गस्याऽशक्यत्वेऽप्याकाकादिवशादेव तद्भानस्य सूपपादत्वात् । एवं प्रकृतिप्रत्ययसमुदायस्याऽप्यनर्थकत्वेनाs. प्राप्तसंज्ञाविधानार्थं कृत्तद्धितग्रहणमिति समस्तस्यैव सूत्रस्य विधायकत्वम् । आद्य परीक्षा . सूत्रभङ्गान समासादिसमुदायस्य प्रातिपदिकसञ्ज्ञां साधयति-- अथेति । *भाष्यसिद्ध इति । नचैकादेशे प्रतिषेधोऽन्तवत्वादिति तत्राभिहितम् , अतिप्स. मासश्च प्रातिपदिकत्वस्य सिद्धेरिति भावः । *तथापि*-अतिप्प्रातिपदिकमिति न्यासेऽपि । *अर्थवत्वावश्यकत्वेन*-अर्थवत्वस्य . प्रातिपदिकसज्ञाप्रवृत्ता Page #289 -------------------------------------------------------------------------- ________________ २६० दर्पणपरीक्षासहिते भूषणसारेऽऽवश्यकत्वेन समासाव्याप्तितादवस्थ्यमेव । तथाच प्रातिपदिकसंज्ञारूपं कार्यमेवार्थवत्त्वमनुमापयति धूम इव वह्निम् । किञ्चैवं चित्रगुमानयेत्यादौ कर्मत्वाद्यनन्वयापत्तिः, प्रत्ययानां दर्पणः सूत्रस्य तु अव्युत्पन्नसाधुशब्दस्वरूपमेव, न तु बहुपटुरित्यादिसमुदायोऽप्युत्तरपदलाक्षणिकतादृशसमुदायस्याऽर्थवत्त्वाऽभावात् । कृदन्तानां केषाञ्चिदर्थवत्त्वेऽपि धातुत्वात् , एवं तद्धितानामपि इः इयानित्यादीनां प्रत्ययत्वेन तादृशसमुदायस्य त्वनर्थकत्वेन पूर्वसूत्राविषयत्वेन तत्र तत्र प्रातिपदिकत्वविधानार्थ सूत्रकारेण द्वितीयं सूत्रं प्रणीतम् । अत एवाऽत्रार्थवदिति नाऽनुवर्त्ततेऽसम्भवात्प्रयोजनाभावाच्च । तत्र कृच्छब्देन प्रत्ययपरिभाषया तदन्तग्रहणं संज्ञा विधावित्यस्य प्रायिकत्वात् । डतरादिवत्केवलकृतामप्रयोगेण तदुपादानवैयर्थ्याच्च । यद्यप्युक्तयुक्त्या तद्धितपदस्यापि तद्धितान्तपरतैव लभ्यते. तथापि बहुपवादिसङ्ग्रहाय तत्स्वाव्यवहितोत्तरत्वसम्बन्धेन तद्धितविशिष्टप्रकृतिघटितसमुदायतद्धितान्तान्यतरपरतया व्याख्येयम् । प्रकृतित्वं च प्रत्ययविधानावधित्वम् इः इयानित्यादौ तु प्रत्ययस्यैव तदन्तत्वान्न दोषः। पचतक्यादिसमुदायान्तर्गततद्धितप्रकृतेनिरुक्ततद्धितवैशिष्ट्याभावान्न तत्राsतिप्रसङ्गः। कृद्ग्रहणपरिभाषाया अनन्तरग्रहणज्ञापिताया असार्वत्रिकत्वाच्च, न मूलकेनोपदंशमित्यादावतिप्रसक्तिः । एवं समासग्रहणेनाप्यप्राप्तप्रातिपदिकसंज्ञाविधानाद्वाजपुरुष इत्यादिसमुदायात् स्वाद्युत्पत्तिः सुलभेति तत्र विशिष्टशक्त्यभ्युपगमो नि. प्रमाणकः । वाक्यस्य सा नेत्युक्तमेव । तत्र कोशादिना शक्त्यपरिच्छेदात्। ___ यत्र तु कोशादिकं परिच्छेदकं तत्र समासे पङ्कजादौ तां न निवारयामः। एवञ्च वाक्यस्याऽर्थवत्त्वाऽभावेन प्रातिपदिकसंज्ञाऽप्रसक्तेस्तदप्रवृत्तिरूपफलाऽभावेन समासग्रहणस्य नियामार्थत्ववर्णनमसाम्प्रतम् । भाष्ये तस्य नियमपरतया वर्णनं तु संसर्गस्य शक्यत्वमित्येकदेशिमतमनुसृत्यवेत्यरुचेराह-किञ्चैवमिति । एवं समासे विशिष्टशक्तयस्वीकारे। कर्मत्वाद्यनन्वयापत्तिरित्यस्य गवादिपदार्थे इति शेषः । तत्र हेतुमाह-*प्रत्ययानामिति । तथाच प्रकृतित्वं प्रत्ययविधानाऽवधित्वम् , न तु प्रत्ययाव्यवहितपूर्वत्वम् । बहुपटुरित्यादौ पटवादिशब्देऽव्याप्तेः। न च "तावेव सुप्तिङऔ यो ततः परौ, सैव च प्रकृत्तिराद्या" इति भाष्यात् प्रत्ययाऽव्यवहितपूर्वस्यैव प्रकृतित्वलाभ इति वाच्यम् । तदर्थानवबोधात् । यो ततो विधानावधेरसति विशेषानुशासने परौ तावेव सुप्तिडावित्युपलक्षणं, प्रत्यायान्तरस्यापि । यतो विहितौ सैव प्रकृतिरिति तदर्थात् । आयेत्यभ्यासाभिप्रायेण । तथाच समासोत्तरपदस्य विधानावधित्वरूपप्रकृतित्वाऽभावेन तदर्थे न कर्मत्वाऽऽद्यन्वयः सम्भवत्युक्तव्युत्पत्तिविरोधादिति भावः।। परीक्षा वुद्देश्यतावच्छेदकत्वेन । *धूम इव वह्निमिति । धूमो यथा वह्निमनुमापयति तथेत्यर्थः । समासादिः, विशिष्टोक्तः, प्रातिपदिकसज्ञकत्वात्-पङ्कजपदवत् , अनर्थकपदसमुदायो व्यतिरेके दृष्टान्तः । एका भावे साधकान्तरमाह-*किञ्चेति । अनन्वयापत्तिरेकार्थीभावानङ्गीका Page #290 -------------------------------------------------------------------------- ________________ . समासशक्तिनिर्णयः । २६१ प्रकृत्यर्थान्वित स्वार्थबोधजनकत्वव्युत्पत्तेः । विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात् । यत्तु सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्तिरेव कल्प्यत इति ; तन्न । ‘उपकुम्भम्’, ‘मर्द्धपिप्पली' इत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात् । नच तत्रापि सन्निधानमेव । अनुशासनिक सन्निधेर्विवक्षितत्वात् । तथाच यत्पदोत्तरं याऽनुशिष्टा सा तदर्थगतं स्वार्थं बोधयति । समासे च समस्यमानपदोत्तरमेवानुशासनमिति वाच्यम् ! दर्पणः प्रत्ययानामिति व्युत्पत्तिर्हि दण्डिनमानयेत्यादौ दण्डादौ कर्मत्वाऽन्वयवारणाय स्वीक्रियते । तदर्थ एव 'प्रकृत्यर्थनिष्ठविषयतानिरूपितविषयतासम्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितित्वेन हेतुता इति तत्र प्रकृते सन्निहितत्वेनैव निवेशस्तावतैवोक्तस्थले व्यभिचारवारणान्न तु प्रकृतित्वेन, गौरवादिति मतं दूषयितुमुपन्यस्यति—*यत्त्विति । *सन्निहितेति । सन्निहितत्वं चाव्यवहितपूर्वत्वेनाऽनुसन्धीयमानत्वम् तस्य च चित्रग्वादिपदे गवादौ सत्वान्नोक्ताऽनुपपत्तिरितिभावः । व्युत्पत्तिरेवेत्येवकारेण पूर्वोक्तप्रकृतित्वघटितव्युत्पत्तिव्यवच्छेदः, उपकुम्भादौ व्यभिचारोद्भावनं तु प्राचीनमते । नव्यनये तत्रोत्तरपदे लक्षणाऽभ्युपगमेन तदप्रसक्तेः ॥ तत्राऽपि* । उपकुम्भादिसमासेऽपीत्यर्थः । I *आनुशासनिकेति । सन्निहितत्वं नाऽव्यवहितपूर्वत्वम् । तत्वेनाऽनुसन्धीयमानत्वं वा । धवखदिरावित्यादौ धवादिपदार्थे विभक्त्यर्थानन्वयप्रसङ्गात् । किन्तु सन्निहितत्वेनाऽनुशासनबोधितत्वम् । तच्च धवादिपदार्थानामिवोपादिपदार्थानामस्तीत्याशयवानाह - *तथाचेति । *समस्यमानपदोत्तरमिति । समासस्याऽनेक पदसमुदायात्मकतया समुदायस्य प्रत्येकाऽनतिरिक्ततया समासरूपप्रातिपदिकात् विहितविभक्तस्तत्तत्पदसन्निहितत्वादिति भावः । सम्भवेदेवं यदि समासग्रहणनिबन्धना प्रातिपदिकसंज्ञा, किन्तु तस्य नियामकतया परीक्षा र इत्यादिः । *प्रकृतित्वादिति । तस्य च भवन्मतेऽर्थबोधकत्वाभावो नेति शेषः । पूर्वोक्तप्रकारमाशङ्कय निराचष्टे – यत्विति । *सन्निहितेति । सन्निहितत्वमव्यवहितपूर्वत्वेन प्रतिसन्धीयमानत्वम् । खण्डयति—*उपकुम्भमिति । अयम्भावः- समीपार्थे विद्यमानस्याव्ययस्य समांशवाच्यर्द्धशब्दस्य च समासविधानेन पूर्वपदस्य वाचकत्वमवश्यं वाच्यम्, तथा च सन्निहितार्थेऽनन्वयेन व्यभिचार इति सन्निहितपदाथइत्यत्र सन्निधानम्पारिभाषिकं निवेश्यत इत्याशयिकामाशङ्कां निरस्यति नचेति । *अनुशासनिकेति । अनुशासनप्रयोज्येत्यर्थः । *अनुशिष्टा* — अनुशासनेन विहिता । *अनुशासनमिति । विधायकमिति Page #291 -------------------------------------------------------------------------- ________________ २६२ दर्पणपरीक्षासहिते भूषणसारेअर्थवत्सूत्रेण विशिष्टस्यैव प्रातिपदिकत्वेन विशिष्टोत्तरमेव विभक्त्य:नुशासनात् । - अथ प्रकृतित्वाश्रये विभक्त्यर्थान्वय इत्येव कल्प्यत इति चेत्तर्हि, 'पङ्कजमानय', 'दण्डिनं पश्य', शूलिनं पूजय' इत्यादौ पदण्डशूलेध्वानयनदर्शनपूजनादेरन्वयप्रसङ्गः । 'अघटमानय' इत्यत्र घटेऽप्या. नयनान्वयापत्तेश्च । ____नच दण्डादीनां विशेषणतया न तत्रानयनाद्यन्वयः। 'पाकानीलः' 'धर्मात् सुखी' इत्यादौ पाकधर्मादिजन्यताया रूपसुखादावनन्वयप्रसङ्गात् । यच्च प्रकृत्यर्थत्वं तजन्यज्ञानविषयत्वमात्रम् , तश्चात्राविरुद्धमिति, तन्न । घटं पश्येत्यत्र घटपदात् समवायेनोपस्थिता दर्पणः पूर्वसूत्रेणैव सा वाच्या । तथाचोक्तप्रकाराऽसम्भव इत्याशयेनाह-*अर्थवत्सूत्रेणेति । तथाच-शास्त्रबोधितसन्निहितत्वमपि विशिष्टस्यैव, न केवलपूर्वपदस्येत्युक्तस्थले व्यभिचारो दुरुद्धर इति भावः । प्रकृतित्वस्य पर्याप्त्याख्यविलक्षणसम्बन्धेन समुदायमात्रविश्रान्तत्वेऽपि केवलाश्रयतया तद्वत्त्वस्य प्रकृत्येकदेशेऽपि सम्भवादुक्तव्युत्पत्तिशरीरे आश्रयतैव निवेशनीयेत्याशयेन शङ्कते-*अथेति ॥ *प्रकृतित्वाश्रये । प्रकृतित्वाश्रयार्थे । असन्निहितप्रकृत्यर्थे दूषणमुद्भाव्य सन्निहितेऽपि तदाह-*अघटमिति ॥ पूर्वपदार्थप्राधान्यमत्रेत्याशयेन दूषणोद्भावनम् । तत्त्वं चाऽग्रे वक्ष्यते । विशेषणतयेति ॥ एकत्र विशेषणतयावरुद्धस्यापरत्र तदन्वये नैराकाङ्क्षयादिति भावः। यत्र क्वाऽपि विशेषणेनापरान्वय इति यथाश्रुतं दूषयति-*पाकान्नील इत्यादि। नीलत्वसुखयोः स्वाश्रये विशेषणतयान्वितयोः पाकादित्याद्यन्तर्गतपञ्चम्यर्थहेतुत्वस्यानन्वयापत्तेरित्यर्थः ॥ *तजन्यज्ञानविषयत्वमिति ॥ तत्पदार्थः प्रकृतिः । मात्र. पदेन वृत्तिप्रतिपाद्यत्वस्य व्यवच्छेदः। अत्र चित्रग्वादिसमासाऽन्तर्गतगवादिपदार्थे इत्यर्थः ॥ *अविरुद्ध मिति । अबाधितमित्यर्थः । 'घटं पश्य' इत्यत्र दृशिर्ज्ञानसामा परीक्षा शेषः। विशिष्टोत्तरमेवेति । तथा च समस्यमानपदोत्तरमित्यसङ्गतमिति भावः । *प्रकृतित्वाश्रये । प्रकृतित्वाश्रयाथें । प्रकृतित्वस्याव्याप्यवृत्तितयावयवेऽपि तस्य सत्वमित्यभिप्रायः। परोक्तमभ्युपेत्य तद्रीत्यैव दूषणमाह-*अथेति*। *अन्वयप्रसङ्ग इति । एतेषामपि भवत्सम्मतप्रकृतित्वाश्रयार्थत्वात्। विशेषणतयेति । एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयाऽन्वयोऽव्युत्पन्न इति न पूर्वोक्तापत्तिरिति भावः । *पाकान्नील इति । अत्र नीलपदस्य नीलरूपविशिष्टे भवन्मते लक्षणा । तत्र नील. रूपस्य पाकजन्यतया तत्र पञ्चम्यान्वयेऽपि नैकविशेषणतयेति पूर्वोक्तव्युत्पतिविरोधः किन्तु स्वाश्रयांशे विशेषणत्वान्न तत्र तस्यान्वयसम्भवः । 'नापाघेरुपाधिर्भवति इति-"विशेषणस्य वा विशेषणम् इति भाष्यकृदुक्तः। सुमुखीत्यत्र सुमुखस्य इन्प्रत्ययप्रकृतिप्रतिपाद्यत्वेनाश्रयविशेषणत्वं स्पष्टमेव । प्रकृत्यान्वितस्वार्थबोधकमिल्यत्र प्रकृत्यर्थत्वं न शक्त्या प्रकृतिजन्यज्ञानविषयत्वम्। किन्तु प्रकृतिप्रयोज्यत्वं ज्ञाने विशेषणमित्याशयेन शङ्कते-*यच्चेति । उपकुम्भम् अर्द्धपिप्पलीत्यादौ । अविरूद्धमिति। Page #292 -------------------------------------------------------------------------- ________________ समासशक्ति निर्णयः । काशवारणाय वृत्त्या प्रकृत्यर्थत्वस्यावश्यकत्वात् । अथ प्रत्यय प्राग्वर्त्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्वमिति चेद् ? न । 'गामानयति कृष्णो दण्डेन' इत्यत्र कृष्णे तृतीयार्थान्वयप्रसङ्गात् । अथ समस्यमानपदार्थगत स्वार्थबोधकत्वं समासोत्तरविभक्तेः कल्प्यत इति चेद् ? न । अक्लृप्त कल्पनां क्लृप्तव्युत्पत्तित्यागञ्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्तत्वादिति दिकू । २६३ दर्पणः न्याऽर्थः ॥ *आकाशवारणायेति । समवायेनोपस्थिताकाशे दृश्यर्थकर्मत्वाद्यन्वयवा रणायेत्यर्थः ॥ *वृत्त्या प्रकृत्यर्थत्वस्येति । वृत्तिजन्योपस्थितिविषयत्वस्येत्यर्थः । 'वादिवाक्ये यावन्तोऽर्थाः सम्भवन्ति' इति न्यायेनोक्तव्युत्पत्तिं दूषयितुमर्थान्तरपरतया व्याचष्टे – *अथेति ॥ पूर्वं तु प्रत्ययसन्निहितपदार्थत्वं प्रकृतित्वमत्र तु तत्प्राग्वतिपदार्थत्वमिति भेदः ॥ *प्रसङ्गादिति ॥ प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविषयतायाः कृष्णे सत्त्वादिति भावः ॥ प्रत्ययानामिति व्युत्पत्तेरेकार्थीभाववादिमते सत्वेऽपि नाऽस्मन्मते सा सार्वत्रिकी । समास एवाऽसम्भवात् । किन्तु प्रकृते व्युत्पः त्यन्तरमेव कल्प्यते इत्यभिप्रेत्याह- अथेति । अक्लप्तकल्पनामिति । समस्य मानपदाऽर्थविषयतानिरूपितविषयतासम्बन्धेन शाब्दं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेः कारणत्वाऽन्तरकल्पनामित्यर्थः । ननु प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वरूपा व्याससमाससाधारण्येनैकैव व्युत्पत्तिः, सन्निहितत्त्वं च प्रकृतिघटकत्वे सति प्राग्वर्त्तित्वमिति नोक्तदूषणमत आह*दिगिति* ॥ तथा कल्पने चोक्तव्युत्पत्यपेक्षया पदत्वस्य प्रकृतित्वघटितस्य व्युत्पत्तौ निवेशे गौरवमित्यादिदिगर्थः ॥ ॥ ननु 'प्रत्ययानाम्' इति व्युत्पत्तेः प्रकृतिप्रत्ययघटिततया तत्र प्रकृतित्वप्रत्ययत्वपरीक्षा कुम्भपदपिप्पलीपदयोर्लक्षणायामपि पूर्वपदस्य तात्पर्यग्राहकतया कुम्भसमीपोपस्थितौ प्रकृतिप्रयोज्यत्वसत्वादिति भावः । *वृत्येति । वृत्त्येत्यस्य तृतीयस्य प्रकृत्यर्थत्वघटकजन्यतायामन्वयाभिप्रायेणेदम् । पूर्वोक व्युत्पत्तेरेवार्थान्तराभिधानेनाशङ्कते -*अथेति । उपकुम्भमित्यादावव्ययीभावस्थले न लक्षणा, तत्र पूर्वपदस्याव्ययतया तदर्थैकदेशार्थे निरूपितत्वसम्बन्धेन कुम्भपदार्थोपस्थितिः । न च निरूपितत्वसमन्वये पदसम्बन्ध इति वाच्यम् ? अव्ययातिरिक्तनामार्थयेारेव भेदसम्बन्धेनान्वयव्युत्पत्तिस्वीकारात् । अर्द्धपिप्पलीत्यादौ तु पिप्पलीपदस्य पिप्पलीसम्बन्धिनी लक्षणाश्रीयते, उभयथाऽपि प्रत्ययप्राग्वर्त्तिपदजन्यत्वमुपस्थितावस्त्येव, प्राग्वर्त्तित्वस्याव्यवहितत्वाघटितत्वादिति भावः । *कृष्णे तृतीयार्थेति । कृष्णपदार्थे तृतीयार्थस्य करणत्वस्य विशेष्यविधयाऽन्वयापत्तिरित्यर्थः । तस्यापि तृतीयाप्राग्वर्त्तिपदार्थत्वात् । समासस्थले व्युत्पत्यन्तरमस्त्वीत्याशयेन शङ्कते- -*अथ समस्यमानेति । 1 *अक्लृप्तकल्पनाम्* व्युत्पत्यन्तरकल्पनाम् । Page #293 -------------------------------------------------------------------------- ________________ २६४ दर्पणपरीक्षासहिते भूषणसारे अपिच समासे विशिष्टशक्त्यस्वीकारे 'राजपुरुष' 'चित्रगुः' 'नीलोत्पलम्' इत्यादौ सर्वत्रानन्वयप्रसङ्गः । राजपदादेः सम्बिन्धिनि लक्षणायामपि 'तण्डुलः पचति' इत्यादौ कर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिकार्थप्रकारकबोधं प्रति विभक्तिजन्योपस्थितेहतुताया आवश्यकत्वात्। पुरुषादेस्तथात्वाभावात् । 'तण्डुलः शुभ्रः' इत्यादौ च प्रातिपदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य च शुक्ले अभेदेनैवान्वयः। 'शुभ्रेण तण्डुलेन' इत्यादौ च विशेषणविभक्तिरभेदार्थिका, पाष्ठिको वाऽन्वय इति नातिप्रसङ्गः । तथा दर्पणः योरनुगतयोर्दुर्वचत्वेन तत्तव्यक्तिभेदेन कार्यकारणभावो वाच्यः। तथाच समासस्थले समस्यमानपदार्थस्य प्रत्ययार्थान्वयाऽभ्युपगमे बाधकाऽभावोऽत आह-*अपिचेति॥ *अनन्वयप्रसङ्ग इति । 'नामार्थयोः' इति व्युत्पत्तेरिति भावः। _ अनन्वयमेवाह-*राजपदादेरिति* ॥ लक्षणायामपीत्यपिना सम्बन्धलक्षणायां नितरामन्वयाभावः सूच्यते । नचोक्तव्युत्पत्तेस्तण्डुलः शुभ्र इत्यादौ व्यभिचारोऽत आह-*तण्डुलः शुभ्र इति* ॥ *अभेदेनैवान्वय इति* ॥ तथा च तण्डुलान्वयिनि प्रातिपदिकार्थे विभक्तिजन्योपस्थितेः सत्वान्न तत्र व्यभिचार इति भावः । शुभ्रेण तण्डुलेनेत्यादौ व्यभिचारमोशङ्कय निराचष्टे-*अभेदाथिकेति* ॥ अथवा कट इव तत्स परीक्षा विशिष्टशक्तिम्प्रकागन्तरेण साधयति-*अपिचेति । अनन्वयप्रसङ्गमुपपादयति*राजपदादेरित्यादिना । *तथात्वाभावादिति । विभक्तिजन्योपस्थितिविषयत्वाभावादित्यर्थः । *प्रथमाथे *-अभेदे । *तण्डुलादेरिति । तण्डुलाभिन्नः शुभ्रः इति बोधाभिप्रायेणेदम् । यदि तु शुभ्राभिन्नस्तण्डुल इति बोधस्तदा वैपरीत्येनान्वयो द्रष्टव्यः । *अभेदार्थेति*-तथा च न पूर्वोक्तकार्यकारणभावे व्यभिचार इति भावः । न च भिन्नविषयकानुमितिम्प्रति-इच्छाभावविशिष्टशाब्दसामग्र्या प्रतिबन्धकतायां विभक्तिजन्योपस्थितेरपि प्रवेशाद्गारवमिति वाच्यम् । शुभ्राभेदाभाववांस्तण्डुलः प्रमेय इत्यादिविशिष्टे वैशिष्टयमिति रीत्या यत्प्रत्यक्षं तत्प्रतिबन्धकत्वं तादृशशाब्दसा. मग्र्याः स्वातन्त्र्येण कल्पनीयमिति लाघवात् । यतस्तादृश शाब्दसामग्याः शुभ्रस्तण्डुल इत्याकारक योग्यताज्ञानघटितत्वेन तत्सत्वे विशेष्यतावच्छेदकप्रकारकज्ञानात्मककारणाभावादेव प्रत्यक्षानुपस्थितिनिhिण तस्याः प्रतिबन्धकत्वाकल्पनमिति । नच ममापि 'शुभ्राभिन्नस्तण्डुलः प्रमेय'इत्याकारक प्रत्यक्षप्रतिबन्धकत्वं न शाब्द. सामग्र्याः कल्प्यते, मन्मते शाब्दबोधस्याभेदसम्बन्धेन शुभ्रप्रकारकतण्डुलविशेष्यकतया तज्जनकयोग्यताज्ञानस्यापि तत्संसर्गिकतया तत्सत्त्वे प्रत्यक्षसामग्याश्रयणाभावादिति वाच्यम् ? शुभ्रभेदाभावव्याप्यशुभ्राभेदवानित्याकारकस्य ज्ञानस्यास्मन्मते बाधज्ञानविधया क्लुप्तप्रतिबध्यप्रतिबन्धकभावेन निर्वाहे स्वातन्त्रेणास्मन्मते तस्य प्रतिबन्धकत्वाकल्पनवन्मते तु तत्कल्पनमिति गौरवस्य स्फुटत्वात् । नच भवन्मतेऽपि शुभ्राभेदः भावनाया शुभ्रभेदवानित्यस्य स्वातन्त्र्येण प्रतिबन्धकत्वं कल्प्यमिति Page #294 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। . २६५ च-समासे परस्परमन्वयासम्भवादावश्यिकैव समुदायस्य ताशे विशिष्टार्थे शक्तिः। दर्पणः मानाधिकरणभीष्माऽदिभ्यो द्वितीयादिविभक्तेरनभिहितसूत्रे भाष्यकृताभिधानात् सामानाधिकरण्यस्य समानाधिकरणयोर्विशेष्यविशेषणयोर्भावस्याभेदस्य-विशेषण. पदोत्तरविभक्त्यर्थत्वलाभात् । तथापि शुभ्रणेति तृतीयाजन्याभेदोपस्थितिसत्त्वान्न व्यभिचार इति भावः । नन्वत्र अभेदो यदि भेदत्वाऽवच्छिन्नाऽभावस्तदा प्रसिद्धिः। भेदस्य केवलाऽन्वयित्वात् । यदि भेदप्रतियोगिकाऽभावस्तदा नीलो वह्निरिति वाक्यस्य प्रामाण्यापत्तित्विादिना नीलभेदाभावस्य वन्हौ सत्वाद् विशेषणविभक्त्यथकदेशे भेदे प्रकृत्यर्थस्यानन्वयापत्तिश्च । - न च भेदेऽभावे च द्वितीयादेः शक्तिः। भेदे च प्रकृत्यर्थस्य प्रकृत्यर्थताऽवच्छेदका. वच्छिन्न प्रतियोगिताकत्वेनाऽन्वयः । उक्तसम्बन्धेन प्रकृत्यर्थविशिष्टभेदस्य तु तत्वाs वच्छिन्नप्रतियोगिताकत्वेनाऽभावेऽन्वयोपगमानोक्तापत्त्यादिरिति वाच्यम् । 'प्रमेयो घट' इत्यादौ प्रमेयत्वाऽवच्छिन्नभेदाऽप्रसिद्धयोक्तप्रकाराऽसम्भवात् । नीलघटादिपरनीलपदघटितनीलो घट इति वाक्यस्य प्रामाण्याऽऽपत्तेश्च । नीलत्वादिना नीलभेदाभावस्य घटेऽबाधात्। - नच तव्यक्तित्वावच्छिन्नाऽभेद एव विभक्त्यर्थः । तथा सत्यपूर्वव्यक्तिनिष्ठतव्यक्तित्वस्य भानाऽसम्भवेन तदवच्छिन्नप्रतियोगिताकाऽभावे शक्ति ग्रहाऽसम्भवेनाऽपूर्वव्यक्त्यभेदाऽन्वयाऽनुपपत्तेः, अभावबुद्धेविशिष्टशिष्ट्याऽवगाहित्वाऽनुपपत्त्या एकधर्माऽवच्छिन्नप्रतियोगिताकाभावे अपरधर्मावच्छिन्नप्रतियोगितायाः सम्बन्धतया भाना. ऽसम्भवाचेति चेद् ? न । अभेदस्तादात्म्यं, तच्च स्ववृत्त्यसाधारणो धर्मः। असाधा. रण्यं च स्वप्रतियोगिवृत्तित्व-स्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्टं यत्तदन्यत्वमित्येकमात्रवृत्तिधर्म एव प्रकृतेः सः। तस्मिन्नाधेयतया प्रकृत्यर्थाऽन्वयः। अपूर्वव्यक्तिनिष्ठतव्यक्तित्वस्य विशिष्य ज्ञातुमशक्यत्वेऽप्येकमात्रधर्मत्वेन सामान्यप्रत्यासत्त्या सुग्रहात् सर्वे सुस्थमिति । *पाष्टिक इति* ॥ शाब्दबोधोत्तरकालिक इत्यर्थः ॥ *अन्वयेति । तद्वोध इत्यर्थः। अरुणाऽधिकरणरीत्या सर्वेषां विभक्त्यर्थानां प्रथम क्रियायामेवाऽन्वयेन तत्र शुभ्रादिपदार्थान्वये विभक्तिजन्योपस्थितिसत्त्वात्तत्पक्षेऽपि नोक्तव्युत्पत्तेर्व्यभिचार इति भावः ॥ ननु "नामाऽर्थयोः” इति व्युत्पत्ते राजा पुरुषस्तण्डुलः पचतीत्यादौ राज्ञः स्व. परीक्षा साम्यमिति वाच्यम् । शुभ्रभेदस्य शुभ्राभेदाभावसत्यनियतत्वेन तस्यां मते स्वातन्त्र्येण प्रतिबन्धकत्वस्याकल्पनात् , नैवम्भवन्मते वक्तुं शक्यम् । अभेदसम्बन्धेन शुभ्रप्रकारकबुद्धिम्प्रति शुभ्रभेदावगाहे ज्ञानस्यैव प्रतिबन्धकत्वम् , नतु स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकस्य शुभ्राभेदावगाहिज्ञानस्य बाधज्ञानविधया प्रतिबन्धकत्वम्, न तु स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकमिति दिक् । . विशेषणविभक्तिः साधुत्वार्थेत्याशयेनाह-*पाष्टिक इति । ३४ द० प० Page #295 -------------------------------------------------------------------------- ________________ २६६ दर्पणपरीक्षासहित भूषणसारे किञ्च 'राजपुरुषः' इत्यादौ सम्बन्धिनि, सम्बधे वा लक्षणा । नाद्यः । 'राज्ञः पुरुषः' इति विवरणविरोधात् । समाससमानार्थकवा. क्यस्यैव विग्रहत्वात् । अन्यथा तस्माच्छक्तिनियो न स्यात् । नान्त्यः । दर्पणः स्वामिभावसम्बन्धेन पुरुषे, तण्डुलस्य कर्मतासम्बन्धेन धात्वर्थपाकेऽन्वयवारणायाऽऽ. वश्यकत्वेऽपि तत्र राजा पुरुषस्तोक पचतीत्यत्राऽभेदसम्बन्धेनाऽन्वयाद् व्यभिचारवारणायाऽभेदातिरिक्तसम्बन्धाऽवच्छिन्नत्वं नामाऽर्थनिष्टप्रकारतायां निवेशनीयम् । __नच विशेषणविभक्तेरभेदार्थकतया निर्वाहः । कट एव कर्मेति भाष्यव्याख्याsवसरे भीष्मादीनां स्वयमकर्मकत्वेऽपि विशेष्यसम्बन्धिविभक्त्यैव भीष्मादिपदोत्तरं भवितव्यम् । तदेकयोगक्षेमत्वात् । केवलानां च प्रातिपदिकानां "प्रत्ययः" "परश्च" इति नियमेन प्रयोगाऽनर्हत्वात् । यथेश्वरसुहृदः स्वयं निर्धना अपि तदीयधनेनैव तत्फलभाज एवं गुणा अपीति “अनभिहित” सूत्रे वदता कयटेन विशेषणविभक्तेः साधुत्वमात्रार्थकत्वं स्पष्टमेवोक्तम् । विभक्त्यर्थप्रातिपदिकार्थविशेष्यकपुरुषादिप्र. कारकबोधल्याऽननुभवाच्च । अत एव व्युत्पत्तौ भेदेनेति पठ्यते। तथाच तत्पने लक्ष्यार्थराजसम्बन्धिनः पुरुषादावन्वयो नाऽनुपपन्नोऽत आह-*किञ्चेति । विवरणविरोधादिति ॥ अत्र वदन्ति-विग्रहस्य वित्रियमाणसमानार्थकत्वं नाऽविव्रियमाणजन्यबोधे यद्यद्विशेष्यकत्वे सति यद्यत्प्रकारकत्वं तत्तद्विशेष्यकतत्तत्प्रकारकबोधजनकत्वम् । प्राप्तमुदकं यमित्यादेः प्राप्तोदकादिसमासविग्रहत्वाऽनुपपत्तेः। पचति, व्याकरणमधीते इत्यादीनां पाचको वैयाकरण इत्यादिकृत्तद्धितान्तविग्रहत्वानापत्तेश्च । तत्र विग्रहविगृह्यमाणजबोधविषयपदार्थानां विशेषणविशेष्यभाववैपरीत्यात् । नापि तज्जन्यबोधीययावद्विषयविषयकबोधजनकत्वम् । पुरुषस्य राजेत्यस्यापि राजपुरुषादिविग्रहत्वापत्तेः । किन्तु वित्रियमाणजबोधजनकत्वं तद् वाच्यम् । प्राप्तमुदकं यमित्यादेः प्राप्तोदकादिसमासजबोधविषयाः परस्परसम्बद्धतात्पर्य्यविषयीभूताश्च यावन्तः पदा• उदकादयस्तावद्विषयकबोधजनकत्वम् । घटकीया कर्मतेत्येतावन्मात्रस्य घटकर्मका. नयनकृतिरिति विग्रहत्ववारणाय यावदिति। राज्ञः पुरुषः सुन्दर इत्यधिकाऽवगाहिनो राजपुरुष इति विग्रहत्वमिष्टमेव । वस्तुतस्तु शक्तिग्रहेणाऽर्थ प्रयुज्यमाने तस्मिन्नतात्पर्यविषयाऽर्थकपदप्रयोगदौलभ्यमेव । पुरुषस्य राजेत्यादेस्तु विग्रहत्ववारणाय तात्पर्य्यविषयत्वं विशेषणम् । तत्र पुरुषप्रतियोगीन । घटः कर्मत्वमित्यादिसमुदायस्य, घटानयनेत्यादीनां न। कुम्भ करो. तीत्यादीनां कर्तृलाक्षणिकानामेव न्यायनये कुम्भकारादिविग्रहत्वम् । प्रकृते च राजपुरुष इत्यादित्वस्य 'राज्ञः पुरुष'इति वाक्ये अक्षतत्वान्न तस्य विग्रहत्वानुपपत्तिरिति ॥ *अन्यथेति । समानार्थकत्वाभावे इत्यर्थः। *तस्मात्-विग्रहवाक्यात् । *न स्यादिति । तत्समानाऽर्थकवाक्यस्यैव तच्छक्तिनिर्णायकत्वादिति भावः । परीक्षा परोक्तलक्षणापक्ष खण्डयति-*किञ्चेति । तस्मात्*-राज्ञः पुरुष इति विवरण Page #296 -------------------------------------------------------------------------- ________________ २६७ समासशक्तिनिर्णयः। राजसम्बन्धरूपः पुरुष इति बोधप्रसङ्गात् । विरुद्धविभक्तिरहितप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरित्यादि प्रपञ्चितं वैयाकरणभूषणे। दर्पणः सम्बन्धलक्षणाकल्पं दूषयति-*नान्त्य इति । नीलोत्पलादिसमाससङ्ग्रहाय समानः विभक्तिकेत्यपहायोक्तम्-*विरुद्धविभक्तिरहितेति । विरुद्धविभक्तिकधातुप्रातिपदिकार्थयोः, स्तोकं पचतीत्यादावभेदाऽन्वयदर्शनादाह-*प्रातिपदिकार्थयोरिति । तथा. चाऽभेदसंसर्गावच्छिन्नप्रातिपदिकार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विरुद्ध विभक्तिरहितपदजन्योपस्थितेहेतुतया तस्या राजपुरुष इत्यादिसमा. सोत्तरपदार्थे पुरुषादौ सत्त्वादभेदाऽन्वयो दुर्वार इति भावः । ननु विरुद्धविभक्तिराहित्यं व्यासमाससाधारणम् , न विशेष्यवाचकपदस्य विशेषणवाचकपदाऽप्रकृतिकविभक्त्यप्रकृतित्वम् । 'नीलं घटमानय' इत्यादावभावात् । नापि विशेषणवाचकपदस्य विशेष्यवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वम् , विशेष्य. पदाप्रकृतिकत्वस्य तदनुत्तरत्वस्य तदुत्तरत्वेनाऽप्रतिसन्धीयमानत्वस्य वा "नीलो घट' इत्यादौ नीलपदोत्तरविभक्तौ घटादिपदोत्तरविभक्तिभिन्नायां सत्त्वेन तत्राभेयान्वयानुपपत्तेरिति चेत् ? अत्र केचित्-विशेषणपदे विशेष्यवाचकपदप्रकृतिकविभक्त्यसजातीयविभक्त्यप्रकृतिकत्वमेव विरुद्धविभक्तिराहित्यम् । साजात्यं च सुत्वादिना प्रथमात्वादिना वा। 'नीलो घट' इत्यादौ विशेषणविभक्तविशेष्यविभक्तिभिन्नत्वेऽपि तत्सजातीयभिन्न. त्वाऽभावेनोक्तविरुद्ध विभक्तिराहित्यस्य तत्राऽक्षतत्वादिति। वस्तुतस्तु विशेषणविभक्तः साधुत्वमात्रार्थकत्वमिति मते विरुद्धत्वं स्वार्थभिन्ना. र्थकत्वम् । 'नीलो घट' इत्यादौ विशेषणविभक्तनिरर्थकतया तत्र विशेष्यविभक्तिविरु. द्वार्थकविभक्तिद्वितीयादिरूपैव, तदप्रकृतित्वस्य विशेषणवाचकपदे सत्त्वान्न तदसहः । एवं 'नीलघटमानयाइत्यादिसमस्तस्थले विशेषणविभक्तरेवाभावेन तादृशविभक्त्यप्रक. तित्वं विशेषणवाचकपदस्याव्याहतम् । अत एव 'चैत्रस्य सुतस्य धनम्' इत्यादौ नाऽभेदान्वयाऽऽकाङ्का। तत्र विशेषणविशेष्यविभक्त्योविभिन्नसम्बन्धार्थकत्वात् । । नाऽपि स्तोकमत्तीत्याद्यसङ्ग्रहः । पूर्वकल्पे तु विशेषणवाचकविभक्तस्तिविजातीयत्वेनोक्ताकासायास्तत्रासत्त्वेन तदसङ्ग्रहः स्पष्ट एव । परीक्षा वाक्यात् । विरुद्धविभक्तिरहितेति । नच विरुद्धविभक्तिकत्वं विशेष्यवाचकपदोत्तरविभक्त्यवृत्तिविभक्तिविभाजकधर्मवद्विभक्तिप्रकृतित्वम् , तच्च राजन्-शब्देऽस्तीति न भेदान्वयानुपपत्तिरिति वाच्यम् ? वस्तुगत्या यत्तादृशविभक्तिकन्तदर्थस्य भेदात्वयः इति चेदाश्रीयते, तदा राज्ञः पुरुषादिवाक्यघटके राज्ञ इति पञ्चम्यन्तत्वग्रहदशायां जान्ननल्समभिव्याहारेऽपि राज्ञः पुरुषादागतो भृत्यः इति वाक्यादाजाभित्र परुषापादानकागमनकर्ता भृत्य इति बोधः सर्वत्रेति। विरुद्धविभक्तिकत्वेनाज्ञातप्रातिपदिकार्थयोरभेदान्वय इत्यर्थः कार्य्यः। तथा च राजपदे षष्ठयन्तत्वाग्रहकाले सम्बन्धे लक्षणापक्षे राजसम्बन्धाभिन्नः पुरुष इति बोधापत्ते१रत्वात् । - Page #297 -------------------------------------------------------------------------- ________________ २६८ दर्पणपरीक्षासहिते भूषणसारेअत एव "वषट्कर्तुः प्रथमभक्षः” इत्यत्र न भतमुद्दिश्यप्राथ. म्यविधानं युक्तम् । एकप्रसरताभङ्गापत्तेरिति तृतीये । "व्यङ्गैः दर्पणः सारे-प्रातिपदिकार्थयोरिति प्रकृताभिप्रायेणैव । तथाच विरुद्धविभक्त्यप्रकृतिप्रातिपदिकार्थनिष्ठाभेदसंसर्गावच्छिन्न प्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे धातुप्रातिपदिकान्यतरजन्योपस्थितिः कारणमित्यर्थः फलित इति। __ ननु पूर्वनिरुक्तविरुद्धविभक्तिराहित्यस्याभेदान्वयबोधाकाङ्कत्वे 'चैत्रस्य सुतस्य धनम्' इत्यादौ तदापत्तिरत आह-*प्रपञ्चितमिति ॥ विभक्त्यर्थमन्तर्भाव्य नामाऑन्वय एवोक्तव्युत्पत्तिरिति तत्रोक्तम् । तस्यापि सार्थकविभक्त्यप्रकृतित्वमपि विशेषणवाचकपदे निवेशनीयमत्रेति तात्पर्य्यम् । मीमांसकैरपि विशिष्टशक्तिपक्षोऽभ्युपेय इत्याह-*अत एवेति । समासे एकार्थीभावस्य सर्वसम्मतत्वादेवेत्यर्थः। *भक्षमु. दिश्येति । "ऋत्विजो हविःशेषान् भक्षयन्ति” इति विहितभक्षणमनूयेत्यर्थः।। *एकप्रसरताभङ्गापत्तेरिति । उद्देश्यविधेयभावेनाऽन्वये पृथगुपस्थितेनियामकत्वेन तदनुरोधेन तदभ्युपगमे विशिष्टाऽर्थोपस्थितिजनकत्वरूपैकप्रसरताभङ्गापत्तेरि. त्यर्थः । तैर्विशिष्टशक्त्यनभ्युपगमेऽपि विशिष्टलक्षणाया अभ्युपगमेनैकप्रसरतायास्त. न्मतसिद्धत्वात् । न चोद्देश्यतयाऽन्वये यच्छब्दयोगप्राथम्यादीनां विधेयतयान्वये च तच्छब्दयोगादीनां तन्त्रतया तत्र तदभावात् कथं तदापादानमिति वाच्यम् । सति तात्पर्ये, 'प्रथमो भक्तः, 'पण्डितो ब्राह्मणः, इत्यादावुदेश्यविधेयभावेन बुद्धेरानुभविकतया यच्छब्दयोगादीनां प्रायिकत्वात् । तादृशशाब्दबोधे असमस्तपदजन्योपस्थितेहेतुता तु न । 'दामोदरः पूज्यो, 'राजपुरुषः सुन्दर, इत्यादितस्तथा बोधानुपपत्तेस्तत्र च प्राथम्यविशिष्टं भक्षणान्तरमेव विधीयते शब्दवृत्त्या । ततश्च प्राप्ताप्राप्तविवेकेन प्राथम्यविधिः पर्यवस्यतीति सिद्धान्तादिति भावः। व्यङ्गैरिति । तत्र हीज्याशेषभूतत्रित्वविशिष्टयत्किञ्चिदङ्गविधानम्, किंवा त्रित्वविशिष्टाशेषाङ्गविधानमिति संशये प्रकृताविज्याशेषेण पुरोडाशेन स्विष्टकृते हुतस्वादत्राऽपि शेषभूतत्रित्वविशिष्टाऽङ्गैरेव स्विष्टकृद्वचनं युक्तमिति पूर्वपक्षे, शेषभूतानि कानिचिदङ्गान्यनूद्य त्रित्वविधाने एकप्रसरताभङ्गापत्तिस्तस्मात् कल्पसूत्रोक्तत्रित्वविशिष्टाङ्गान्तरविधानमिति निर्णीतं दशमाध्यायस्य तृतीये पादे इत्यर्थः । कल्पसूत्रो. तानि हृदयाघेकादशाङ्गानि तु हृदयम् १, जिह्वा २, वक्षो ३, यकृत् ४, वृक्णौ ५। ६, परीक्षा *अत एव*-समासे एकार्थीभावस्वीकारादेव । *तृतीये-तृतीयाध्याये । तत्र हि 'वषट्कर्तुः प्रथमो भक्षः' इति वाक्येन वषटकर्ता होता तस्य भक्षणमृत्विजो हविः शेष भक्षयतीति वाक्यात्प्राप्तमिति तदनुवादेनाप्राप्तम्प्राथम्यमनेन विधीयत इति पूर्वपक्षे 'प्रथमभक्षा इत्यस्य समस्तपदत्वेन यदि प्राथम्यविधायकत्वं स्यात्तदा यो भक्षः स प्रथम इत्येवं विच्छिन्नान्वयो वाच्यः, स न सम्भवति, समासानुपपत्तेः, यथा पण्डितो ब्राह्मण इत्यस्माद्यः, पण्डितः स ब्राह्मण इतिबोधो भवति । तथा च पण्डितबाह्मण इति शब्दान्न भवति, यदि तथा कल्प्यते, तदा यच्छब्दसापेक्षत्वादुद्देश्यविधे. ययोर्न सामर्थ्येन समासानुरूपपर्यन्तः स्यात् । एवं च प्राथम्यविशिष्टभक्षणविधानमेवा Page #298 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। २६९ स्विष्टकृतं यजति" इत्यत्राङ्गानुवादेन त्रित्व विधानं न युक्तम् । एकप्र. सरताभङ्गापत्तेरिति दशमे च निरूपितं सङ्गच्छते । सङ्गच्छते चाऽरुणाधिकरणारम्भः। अन्यथा “अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इत्यत्रारुणपदवदितरयोरपि एकाब्दत्वादिगुणमात्रवाचकतया अमूर्त्तत्वात् , क्रीणातौ करणत्वासम्भवस्य तुल्यत्वादारुण्यस्यैव वाक्याद् दर्पणः सव्यं दोः ७, उभे पार्वे ८ । ९, दक्षिणा श्रोणी १०, गुदम् ११, इति । तत्र त्रीणिदक्षिणोंऽसः, सव्या श्रोणी, गुदं तृतीयमिति । - नन्वेकप्रसरत्वं न विशिष्टाऽर्थोपस्थितिजनकत्वं, किन्तु समासघटकपदयोरुहेश्यविधेयभावेनाऽन्वयाऽबोधकत्वमिति व्युत्पत्तिस्तगङ्गापत्तेरिति तदर्थो, न तु विशिष्टार्थोपस्थितिजनकत्वभङ्गापत्तिरिति । तादृशव्युत्पत्तिशरीरं तु समासघटकपदार्थनिष्ठवि. धेयतानिरूपितोद्देश्यतासम्बन्धेन शाब्दबुद्धिं प्रति समासघटकपदजन्योपस्थितिः प्रतिबन्धिकेति। ___ नच तादृशप्रतिबध्यप्रतिबन्धकभावकल्पने गौरवमिति वाच्यम् । सर्वत्र विशिष्टशक्तिकल्पनापेक्षया क्वचित् प्रतिबध्यप्रतिबन्धभावकल्पने एव लाघवात् । वस्तुतस्तु यत्रोद्देश्यविधेयभावेनान्वयबोधस्तत्पदार्थोपस्थितिसमवहिततदानुपू. वीविरहादेव तथान्वयासम्भवानोक्तप्रतिबध्यप्रतिकन्धककल्पनाऽपि । एकप्रसरता तु प्रथमपदार्थाऽन्वितभक्षविशेष्यकबोधाऽनुभव एवेति नोक्तयुक्त्या मीमांसकैर्विशिष्टशक्तिरभ्युपेयेत्यत आह-*सङ्गच्छते चेति । *वाक्याद् भेदेति । नच तस्य वाक्य. परीक्षा नेन क्रियत इति सिद्धान्तितम् । *एकप्रसरतेति। सा च विशिष्टार्थोपस्थितिजनकत्वरूपा । *सा भज्येत* । उद्देश्यस्य पृथगुपस्थितेस्तथान्वयबोधे नियामकता भज्येत । *दशमे*-दशमाध्याये। तत्र हि-इज्याशेषभूतत्रित्वविशिष्टं तेषां यत् किञ्चिदङ्गविधानं किम्वा त्रित्वविशिष्टाशेषाङ्गविधानमिति संशये प्रकृताविज्याविशेषेण पुरोडाशेन स्विष्टकृतो हुतत्वादत्रापि शेषभूतत्रित्वविशिष्टाङ्रेव स्विष्टकृद्धवनं युक्तम् । 'अङ्गैः स्विष्टकृतं यजति' इत्यत्र पशौ चोदकप्राप्तः स्विष्टकृत्प्रधानहविर्यो हृदयादिभ्य एकादशभ्योऽपि कर्त्तव्यत्वेन प्राप्त इति अङ्गैरिति वचनमङ्गानुवादेन त्रित्वविधानार्थमित्याशयके पूर्वपक्षे-एकहीदं समासपदं तत्सर्वमुद्देशकमुद्देश्यबोधकम् उपादायकम्-विधेयबोधकम् । यद्युत्तरार्द्धमुद्दिश्य पूर्वार्द्धस्य विधेयता स्यात्तदा प्रसर. भेदात्सामर्थ्य विधानात्समासो न स्यादिति, त्रित्वविशिष्टाङ्गान्तरविधिरिति सिद्धान्तितम् । तच्चैकार्थीभावानभ्युपगमेऽसङ्गतमेव स्यादित्युक्तम् । एकादशाङ्गानि कल्पसूत्रोक्तानि बोध्यानि । हृदयम् , १ जिह्वा २ वक्षः ३, यकृत् ४, वृक्को ६, सव्यं दोः ७ उभये पावें ९, दक्षिणाश्रोणिः १९, गुदम् ११ इति, एकप्रसरसत्वोपपत्तये च समासघटकपदार्थनिष्ठविधेयतानिरूपितोद्देश्यतासम्बन्धेन शाब्दबोधे समासघटकपदजन्योपस्थितिमङ्गीकृतेनैकार्थीभावेनैव निर्वाहात् । यत्र तु "सोऽष्णीषा ऋत्विजः Page #299 -------------------------------------------------------------------------- ________________ . . दर्पणपरीक्षासहिते भूषणसारेभेदशङ्काया असम्भवादिति प्रपञ्चितं भूषणे । तस्मात् समासशक्तिपक्षो जैमिनीयरवश्या पेय इत्यास्तां विस्तरः॥ ३४॥ _ राजपुरुष इत्यादौ राजा चाऽसौ पुरुषश्चेत्येव विग्रहः । चित्रगु. रित्यादौ च चित्राणां गवामयमित्येव समानार्थत्वानुरोधात् । यद्यपि प्रथमान्तानामेव बहुव्रीहिरिति “शेषो बहुव्रीहिः” (पा० स०२।२।२३) इति सूत्राल्लभ्यते इति प्रथमान्तपक्षे वाक्यं, चित्रा गावो यस्येत्येवं दर्पणः भेदेन प्रकरणे निवेशोऽपि सम्भवति । अमूर्तत्वेन क्रियाभिः कारकत्वेन द्रव्यैः सममपि सम्बन्धासम्भवात्। नच तृतीयया ज्योतिष्टोमकरणीभूतप्राकरणिकद्रव्याण्यनूद्य यत् कर्त्तव्यं तदारुण्यगुणकेनेति परिच्छेदकत्वेन तदन्वयो नासम्भावित इति वाच्यम् । तथा सति शक्तिः कारकमिति सिद्धान्तभङ्गापत्तेरित्यपि बोध्यम् । उपसंहरति-*तस्मा. दिति । जैमिनीयैरिति वदता नैयायिकमतस्य सयुक्तिकत्वं ध्वन्यते ॥ ३४॥ ___ *समानार्थत्वाऽनुरोधादिति । समानार्थत्वं च व्याससमासयोः समानविशेष्य. प्रकारकबोधजनकत्वम् । तदनुरोधादित्यर्थः । उक्तविग्रहवाक्याऽन्तर्गतराजशब्दस्य सम्बन्धिनि लाक्षणिकत्वान्न विग्रहत्वक्षतिः । सम्बन्धार्थकषष्ठयन्तस्य तु सम्बन्धप्रकारकबोधजनकत्वान्न विग्रहत्वमेवं चित्रा गावो यस्येत्यादेरपीत्याशयं प्रकाशयति-*य. धपीत्यादि, मीमांसका इत्यन्तेन । *सूत्राल्लभ्यते इति । तेन हि "शेषो बहुव्रीहिः" (पा० सू० २।२।२३ ) इत्यधिकारात् प्रथमात्रिकस्य "द्वितीयाश्रित" इत्यादिनाs. नुक्तस्य समासो विधीयते । यद्यपि “विशेषणं विशेष्येण” (पा० सू० २।११९७) इत्यादिना तस्याऽपि समास उक्त एव, तथापि नाऽसौ प्रथमाशब्देनोल्लिखित इति तस्त्रिकस्य शेषत्वमविकलमिति भावः । परीक्षा प्रचरन्ति" इति वाक्येन उष्णीषे प्राप्तेऽपि “लोहितोष्णिषा ऋत्विजः प्रचरन्ति इति श्रूयते, तत्रापि लोहितोष्णिषा इति समासदर्शनेन लोहितोष्णिषविधानमेव शाब्द. न्यायेन । प्राप्ताप्राप्तविवेकेन तु लौहित्यविधेयकोष्णिषोद्देश्यको मानसो बोधः । एवं मीमांसकैरवश्यं विशिष्टशक्तिवादः स्वीकार्य इत्यत्र साधकोत्तरमाह-*सङ्गच्छत इति। ___ *अरुणपदवदिति । इदमरुणादिपदानागुणबोधकत्वमित्यभिप्रायेण । *एक. त्वादिगुणमात्रेति । एकहायनसम्बन्धमात्रस्य पिङ्गाक्षिसम्बन्धस्य वेत्यर्थः। प्रधानषष्टयर्थे समासविधानादित्यर्थः। उपसंहरति-*तस्मादिति ॥३४॥ मीमांसकविशेषमतं द्वेषयितुं तन्मतेऽनुवदति-*राजपुरुष इत्यादिना*। *समा. नार्थकत्वानुरोधादिति*। समानार्थकार्थकत्वं च व्याससमासयोः समानविशेषप्रकारकबोधजनकत्वं तदनुरोधादित्यर्थः । 'राज्ञः पुरुष' इति न विग्रहः, सम्बन्धार्थकषष्ठयन्तस्य राजसम्बन्धप्रकारबोधजनकत्म्, समासस्य तु सम्बन्धिप्रकारकबोधजनकत्वमिति । समानार्थकत्वाभावस्य सत्वात् , किन्तु राजा चासौ पुरुषश्चेत्यस्यैव, अत्र राजेत्यस्य राजसम्बन्धिनि लक्षणया राजसम्बन्धिबोधकत्वात् । एवं चित्रा गावो यस्येत्यस्य गोविशेष्यकबोधजनकतया न विग्रहत्वम् , किन्तु चित्राणां गवामयमित्येव समाससमानार्थकविग्रहवाक्यमिति तदाशयः । Page #300 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। सम्भवत्येव । “षष्ठी” (पा० सू० २।२।६) इति समासविधानाद् राज्ञः पुरुष इति च पक्षे वाक्यम् , तथापि तस्य न विग्रहत्वं भिन्नार्थत्वात् , किन्तूक्तस्यैवेति मीमांसकाः। तान् प्रसङ्गानिरस्यति आख्यातं तद्धितकृतोर्यत्किश्चिदुपदर्शकम् । गुणप्रधानभावादी तत्र दृष्टो विपर्ययः॥ ३५ ॥ तद्धितकृतोर्यत्किञ्चिदर्थबोधकं विवरणमाख्यातं, तत्र विपर्ययो दृष्टः । तथाहि-'आक्षिकः' 'कुम्भकारः' इत्यत्राक्षकरणकव्यापाराश्रयः, कुम्भोत्पत्त्यनुकूलन्यापाराश्रय इति बोधः। 'अर्दीव्यति' 'कुम्भं करोति' इत्यत्राक्षकरणिका देवानुकूला भावना, कुम्भोत्पत्त्यऽनुकूला भावनेति बोधः। कृत्प्रत्यये कारकाणामाख्याते च भावनायाः प्राधान्यं वदतो मीमांसकस्याऽपि गुणप्रधानाभावांशव्यत्यासो न विवरणत्वबाधक इति नात्र पाक्षिकस्य 'चित्रा गावो यस्य' इत्यादेविनहत्वे बाधकमस्तीति भावः ॥ ३५ ॥ नन्वस्तूक्तरीत्या सर्वत्र समासे शक्तिः, अस्तु च तथा विग्रहस्तथापिषष्ठीतत्पुरुषकर्मधारययोःशक्तिमत्त्वाविशेषान्निषादस्थपत्यधिक दर्पणः *उक्तस्यैवेति । चित्राणां गवामयमित्यादेरेवेत्यर्थः । एवकारेण प्रथमान्तचित्रादिपदघटितस्य व्यवच्छेदः । उपदर्शकपदस्य विवरणम्-*अर्थबोधकमिति । *आख्यातम् । तिङन्तम् । तत्र तिङन्तघटिते विवरणे इत्यर्थः । व्यत्यासमेवाह*तथाहीत्यादि। ___ ननु तत्रापि तिपः कर्तृलक्षकतयाऽक्षकरणकव्यापाराश्रय इति बोधान्न समानार्थकत्वमङ्गोऽत आह-*कृत्प्रत्यये इति* ॥ *कारकाणाम्*-कादीनाम् ॥ *प्राधान्यम्*मुख्यविशेष्यत्वम् । कारकाणां प्राधान्यं "प्रकृतिप्रत्ययार्थयोः” इति न्यायेन, भावनायास्तु-"भावप्रधानमाख्यातम्" इति निरुक्ताादति भावः ॥ ३५ ॥ परीक्षा *आख्यातमित्यादि । अत्राख्यातपदम्-तिङन्तपरम् । तच्च तिन्तघटिते विवरणे विपर्यायमुपपादयति-*तथा होत्यादिना* । * न विवरणत्वबाधक इति । तत्समानार्थकपदान्तरेण तदर्थकथनं हि विवरणम् , नतु तत्र समानविशेष्यकत्वस्य प्रवेशः ॥३६॥ *शक्तिमत्वेति । एका भावेत्यर्थः। *सिद्धान्तसिद्धिरिति । सिद्धान्तस्य निश्चितार्थस्य सिद्धिः । अनुष्ठानोपयोगिनी सिद्धिः । तत्र हि निषादस्थपति याजयेत्। इत्यत्र निषादस्थपतिशब्दः किं कर्मधारय उत षष्ठीतत्पुरुषोऽथवा .बहुव्रीहिरिति संशये कर्मधारयो न युक्तो निषादाभिन्नः स्थपतिरिति तदा स्यात् । Page #301 -------------------------------------------------------------------------- ________________ २७२ दर्पणपरीक्षासहिते भूषणसारेरणसिद्धान्तसिद्धिर्न स्यादित्यत आह पर्यवस्यच्छाब्दबोधाऽविदुरप्राक्क्षणस्थितेः ।। शक्तिग्रहेऽन्तरङ्गत्वबहिरङ्गत्वचिन्तम् ॥ ३६॥ पर्य्यवस्यश्चासौ शब्दबोधश्च तस्मादविदूरश्चासौ प्राक्क्षणश्च, तदानीन्तनलाघवमादायाऽधिकरणाऽविरोध इत्यर्थः। अयम्भाव:निषादस्थपतिपदस्य समासशक्तिपक्षे, निषादरूपेनिषादानाञ्च स्थपतौ निषादस्वामिके पुरुषान्तरे चेत्येवं सर्वत्र शक्तत्वान्नानार्थत्वम् । ___ दर्पणः *शक्तिमत्त्वाविशेषादिति ॥शक्तिमत्त्वमेकार्थीभावः ॥ सिद्धान्तसिद्धिरिति । सिद्धान्तस्य मीमांसितार्थस्य सिद्धिरनुष्ठानोपयोगार्हत्वमित्यर्थः। तथाहि-"निषादस्थपति याजयेत्” इति श्रूयते । तत्र निषादस्थपतिशब्दः किं षष्ठीतत्पुरुषो बहुव्रीहिर्वोत कर्मधारय इति संशये, कर्मधारयेऽपूर्वविद्याध्ययनकल्पनागौरवाद् , बहुव्रीहौ वाक्यलक्षणायां गौरवाल्लाघवाऽभावात् षष्ठीतत्पुरुष एवेति पूर्वपक्षे, तत्पुरुषस्यापि पूर्वपदलाक्षणिकतया कर्मधारयापेक्षया गौरवाल्लाघवात् कर्मधारय एव । अपूर्वविद्याध्ययनस्योत्तरकालकलप्यत्वेन तादृशगौरवस्य फलमुखतया अदोषत्वादिति सिद्धान्तितम् , तदू विरुद्धयेत । भवन्मते तत्पुरुषस्वीकारेऽपि गौरवाऽनवकाशादिति भावः ॥ ___ *तदानीन्तनेति । तादृशवाक्यजन्यशाब्दबोधाव्यवहितप्राक्क्षणवृत्तिशक्तिप्रहनिष्ठान्तरङ्गबहिरङ्गभावचिन्तनप्रयुक्तलाघवमादायेत्यर्थः । तदेव विशदयति-*अयम्भाव इति* । निषादरूपेति । स्थपतावित्यनेनान्वितम् । निषादानामिति । निषादसम्बन्धिस्थपतावित्यर्थः । तत्र षष्ठ्यर्थसम्बन्धान्त वेर्णेकार्थीभावाऽभ्युपगमात् । निषादस्वामिक इति । स्थपतिशब्दस्य स्वाम्यर्थकतया निषादाभिन्नस्वामिके पुंसीत्यर्थः । तत्रान्यपदार्थान्तर्भावेण समुदायशक्तिस्वीकारात् । 'नानाऽर्थः इत्यस्य वृत्त्यानेकार्थोपस्थितौ जातायामिति शेषः । न्यायेनेत्यस्य व तात्पर्य्यमिति परीक्षा विप्रान्मूर्द्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्रयान्निषादो जातः पारषवोऽपि च ॥ इति । स्मृतेनिषादः सङ्करजातीयस्थपतिशब्दश्च राजपर्याय इति तस्य वेदानधि. काराद्याजनासम्भवः इति बहुव्रीहिर्वाच्यः, स न सम्भवति । वाक्यस्य लक्षणायां गौरवात् । किन्तु लाघवात् षष्ठीतत्पुरुष इति पूर्वपक्षे तत्पुरुषस्थपूर्वपदस्य लाक्षणिकतया गुरुत्वमिति, लाघवात्कर्मधारय एव ।। __ नचैवं तस्य वेदानधिकारात्कथं याजनमिति वाच्यम् । यागोपयोग्यध्ययनस्य कल्पनात् । 'फलमुखं गौरवञ्च न दोषाया इति सिद्धान्तितत्वाद्विरुध्येत। एकार्थीभाववादिनाम्भवतां तत्पुरुषे लक्षणाया अभावादिति भावः । *तदातीन्तनेति । तादृशवाक्यजन्यशाब्दबोधाव्यवहितप्राक्क्षणवृत्तिशक्तिग्रहनिष्ठान्तरङ्गबहिहरङ्गम्भावस्य चिन्तनप्रयुतलाघवमादायेत्यर्थः । तदेतद्विशदयति-*अयम्भाव इति । *नानार्थत्वम् । समा. Page #302 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः । २७३ तथा च "नानार्थे तात्पर्य्यात् विशेषावगतिः” इति न्यायेन तत्कल्पनायां पदद्वयेन पूर्वोपस्थितार्थे एवोपस्थित्यादिलाघवात् तत् कल्प्यत इति । परेषामपि सति तात्पर्ये, 'यष्टीः प्रवेशय' इति - दर्पणः सन्देहे सति । *तत्कल्पनायाम् । तात्पर्य्यकल्पनायाम् । *पूर्वोपस्थितार्थ एवेति । समासघटकप्रत्येकपदशक्त्युपस्थापिताऽर्थ मात्रविषयककर्मधारयीयशक्तिग्रहस्यान्तरङ्गत्वेन प्रथमोपस्थिताऽर्थ एवोपस्थितिर्लाघवान्निषादस्थपतिशब्दस्य तात्पर्य्यमवसीयते, तेन विशेषाऽवगतिः । न तु बहिर्भूतपदार्थविषयकशक्तिग्रहोपस्थापिते, तदुपस्थितेर्विलम्बितत्वादित्याखण्डलाऽर्थः । . निरुक्तव्यपेक्षैव सामर्थ्य मूलकृदभिप्रेतमित्यर्थे इदमपि प्रमाणम् । अन्यथा जहस्वार्थवृत्तिपक्षे पदानामानर्थक्यात् प्रत्येकपदवृत्याऽर्थोपस्थितेरसम्भवेन क्व तन्मूलकशक्तिग्रह इति तस्यान्तरङ्गत्वकथनमसङ्गतमेव स्यादिति बोध्यम् । *तत्*—तात्पर्य्यम् । *कल्प्यते*-अवधाय्र्यंते । ननु "संयोगो विप्रयोगश्च" इत्यादिना हरिणा संयोगादीनां विशेषावगतिहेतुत्वं बोध्यते, तत् कथं तात्पर्य्यस्य विशेषावगतिहेतुत्वमिति चेद् ? न । नानाशक्त्युप.. स्थिताऽनेकेषु संयोगादनेकस्मिन्नवधारिते तात्पय्यें विशेषावगतिरिति शब्दाऽर्थस्याSनवच्छेद इति भावाऽर्थस्य वक्ष्यमाणत्वात् । संयोगादीनां तात्पर्य्यग्राहकतायामेवोपयोगेन तात्पर्य्यस्य विशेषावगतिहेतुत्वं सर्वसम्मतमेवेति भावः । ननु प्रत्येकपदवृत्ति पक्षेऽनायासेनैवाधिकरणसिद्धान्तोपपत्तौ विशिष्टशक्तिपक्षे तादृशसिद्धान्तसमर्थ ने क्लेशो दुष्परिहर एवेत्यत आह-*परेषामपीति । * प्रवेशयेतिवदिति । तात्पर्य्यस्यैव लक्षणानियामकतया तत्सत्त्वे वाक्यलक्षणया समासान्तरबोधय दुर्वारतया तात्पर्य्याभावेनैव तदवगतेर्वारणीयत्वादित्यर्थः । ननु “निषादस्थपतिं याजयेत्” इत्यत्र स्थपतिशब्दः स्वामिपर्य्यायः, श्रेष्ठपर्यायो वा उभयथाऽप्यसौ गुणवचनः । तस्य च जातिवचननिषादपदेन कर्मधारये तत्र गुणवचनस्यैव पूर्वनिपातनियमेन स्थपतिनिषादमिति प्रसज्ज्येत, नतु निषादस्थपतिमिति स्यात् । किञ्च उभयथापि स्थपतिशब्दार्थस्य नित्यं सम्बन्धिसापेक्षत्वेन षष्ठीसमास एव न्याय्यो, न तु कर्मधारय इति कथमुक्तसिद्धान्तसङ्गतिः, प्रकृतेऽपीत्यत परीक्षा सार्थभेदेन नानार्थम् । *तत्कल्पनायाम् * - शक्तिग्रहकल्पनायाम् । *पूर्वोपस्थितेति । समासघटक प्रत्येकपदशक्त्युपस्थितार्थमात्रविषयकर्मधारयसम्बन्धिशक्तिग्रहस्यान्तरङ्गत्वेन प्रथमोपस्थितार्थे एवोपस्थितिलाघवान्निषादस्थपतिशब्दस्य तात्पर्य्यमति निश्वी ३५ द० प० Page #303 -------------------------------------------------------------------------- ________________ २७४ दर्पणपरीक्षासहिते भूषणसारे - वल्लक्षणाया दुर्वारत्वात् तात्पर्य्यमेव कल्प्यकोटौ अवशिष्यत इति दिकू ॥ ३६ ॥ इति वैयाकरणभूषणसारे समासशक्ति निरूपणम् ॥ ५ ॥ दर्पणः आह - * दिगिति । तदर्थस्त्वत एवास्वरसात् "लिङ्गदर्शनाच्च" इति सूत्रं हेत्वन्तरोपसङ्ग्राहकं प्रणीतं महर्षिणा । तच्च शबरस्वामिना, "कूटं हि निषादानामेवोपकाकं, नार्याणामेवञ्च तन्निषादानामेव स्वम्” इति भाष्ये व्याख्यातम् । तथाच कूटदक्षिणा लिङ्गात् कर्मधारयत्वे निर्णीते स्थपतिशब्दस्य राजदन्तादित्वात् परनिपातो बोध्यः । सम्बन्धाकांक्षानिवृत्तिरप्यर्थतो निषादानां स्वत्वलाभादुपपद्यते । एवं लाघवादिविचारस्तु कथञ्चित् सम्भवमात्रेणेति सर्वमनवद्यम् ॥ ३६ ॥ इति भूषणसारदर्पणे समासशक्तिनिरूपणम् ॥ ५ ॥ परीक्षा यते । *तात्पर्य्यमेवेति । नन्विदमयुक्तम् । तात्पर्य्यनिर्णायके हर्युक्तेषु संयोगादिषु तात्पर्य्यस्यागणनादिति चेद् ? न । शब्दार्थस्यानवच्छेदे नानाशक्त्योपस्थितेषु नानार्थेषु तात्पर्य्यनिश्चये संयोगादिना हेतुनैकस्मिन्नर्थेऽवधारिते तत्रैव तात्पय्र्यङ्कल्प्यत इत्यर्थात् ॥ ३६ ॥ इति श्रीमद्भूषणसारटीकायां परीक्षायां समासशक्तिनिरूपणम् ॥ ५ ॥ Page #304 -------------------------------------------------------------------------- ________________ ॥ अथ शक्तिनिर्णयः॥ शक्तिप्रसङ्गात् तस्याः स्वरूपमाहइन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा । अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा॥३७॥ दर्पणः अथ शक्तिनिर्णयः। *प्रसङ्गादिति। "समासे खलु भिन्नैव शक्तिः" इति ग्रन्थेन स्मृतायाः शक्तेरनुपेक्षणीयत्वादिति भावः । अगृहीतवृत्तिकात् पदात् पदार्थोपस्थितेः शाब्दबोधस्य चादर्शनात्तद्धर्मावच्छिन्नविषयकशाब्दबुद्धि प्रति तद्धर्मावच्छिन्नार्थनिरूपितवृत्तिविषयकपदज्ञानं करणं, वृत्त्या पदजन्यपदार्थोपस्थितिापारः। तां विना तदनुत्पत्तः, न तु. वृत्तिमत्त्वेन ज्ञातं पदम् । अतीतानागतशब्दानुसन्धानाच्छाब्दबोधाऽनुदयप्रसङ्गात् ।। वृत्तिश्च शक्तिलक्षणाभेदादू द्विविधा । तत्रार्थे पदसङ्केतः शक्तिः। स चेदं पदमिमिमर्थ बोधयतु, इति पदविशेष्यकेच्छात्मकः । अस्मात् पदादयमर्थो बोध्य इत्याकारकपदार्थविशेष्यकेच्छारूपो वा, विनिगमकाभावात्। तया चार्थबोधकं पदं वाचकमिति व्यवहियते। शास्त्रकारादिसङ्केतः परिभाषा। तया चार्थबोधकं पारिभाषिकमिति व्यवहियते-नदीवृद्धयादिपदम् । लक्षणा तु शक्यसम्बन्धः। तत्कल्पिका तु मुख्यार्थबाधोन्नीततात्पर्यानुपपत्तिः।। तथा हि-गङ्गायां घोष' इत्यत्र गङ्गापदस्य घोषाऽभाववत् प्रवाहार्थकत्वेन तीरतात्पर्य्यकत्वे उन्नीते तात्पर्यविषयतीरस्मृति विनानुपपद्यमानेन तीरशाब्दबोधेन तत्स्मृतिराक्षिप्यते । सा च गङ्गापदवृत्तिं विनानुपपद्यमाना तज्ज्ञानमाक्षिपति । तद्वि परीक्षा अथ शक्तिनिर्णयः। *प्रसङ्गादिति । 'समासे खलु भिन्नैव इति शक्तिनिरूपणप्रसङ्गादित्यर्थः । येषां पदानामर्थनिरूपितवृत्तिग्रहविषयता नास्ति तेभ्यः पदार्थोपस्थितिः शाब्दबोधो वा न जन्यत इति तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति सद्धर्मावच्छिन्ननिरूपितवृत्तिविषयकपदज्ञानं कारणम् । वृत्या पदजन्यपदार्थोपस्थितिापारः, तत्र वृत्तिसत्वेन ज्ञायमानपदस्य करणतेति मतं केषाञ्चित् , तन्न युक्तम् । यत्र पदं न प्रयुक्तं केनचिद्, अपि तु तस्योद्बोधकदर्शनमात्रेण स्मरणमजनिष्ट, तत्र तादृशपदाभावाच्छाब्दबोधो न स्यात्, ताशपदाभावात् । अस्माकन्तु-वृत्तिमत्त्वेन पदज्ञानस्य सत्वाद्भवति शाब्दबोधस्योपपत्तिः। एवं च कारणतावच्छेदकशरीरे वृत्तेः प्रवेशात्तस्या निरूपणमावश्यकम् । सा च वृत्तिवेंधा शक्तिर्लक्षणा च। तत्रादौ स्वमतानुरोधेन शक्तिस्वरूप. माह- इन्द्रियाणामित्यादिना । अर्थस्य चक्षुरादीन्द्रियविषयत्वव्यवहारश्च तज्ज Page #305 -------------------------------------------------------------------------- ________________ २७३ दर्पणपरीक्षासहिते भूषणसारे - दर्पणः पया गङ्गापदनिरूपिता वृत्तिर्न शक्तिस्तस्यास्तत्रा भावादतस्तीरस्मारिका काचिदन्यैव वृत्तिः कल्प्यते । सा च गङ्गापदशक्यसामीप्यरूपैव तेन रूपेण गृह्यमाणा तीरं स्मारयत्यनुभावयति च । शक्यादशक्योपस्थितिस्तु न लक्षणा । उपस्थितिहेतोस्तस्यास्तत्वासम्भवात् । नापि स्वबोध्यसम्बन्धः । समासशक्तिनिरूपणोक्तयुक्तेः । नन्वीश्वरेच्छायाः शक्तित्वासम्भवः, घटपदस्यापि पटे शक्तत्वप्रसङ्गाद्, घटपदात् पटो बोद्धव्य इतीच्छाया विषयतया पटेऽपि सत्त्वात् । यदि चेश्वरेच्छीयघटपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वं शक्तिरिति न पटपदेऽतिप्रसङ्गः । तद्विषयत्वेऽपि तादृशविषयत्वनिष्ठप्रकारतानिरूपित विशेष्यत्वस्य तत्रानभ्युपगमादित्युच्यते, तदापि गङ्गापदात् तीरबोधस्यापि जायमानत्वेन सन्मात्रविषयकेश्वरेच्छीयगङ्गापदजन्यबोधविषयत्वप्रकारता निरूपित विशेष्यत्वस्य तीरे सत्वाच्छक्त्यैव निर्वाहे कृतं लक्षणयेति चेद् ? न । गङ्गापदवाच्यत्वव्यवहारस्य तीरादावसत्वेन गङ्गापदजन्यबोधविषयतात्वावच्छिन्न प्रकारतानिरूपितविशेष्यत्वसम्बन्धेन ईश्वरेच्छीयगङ्गादिपदानां प्रवाहादौ शक्तिस्तीरनिष्ठविशेष्यतायाश्च गङ्गादिपदजन्यबोधविषयत्वप्रकारतानिरूप्यत्वेऽपि न तस्मात् तादृशविषयतात्वेन तादृशप्रकारतानिरूपितत्वमपि तु शुद्धविषयतात्वेनैवेत्यभ्युपगमान्न तया लक्षणान्यथासिद्धिर्नाऽपि विषयत्वलक्षणसम्बन्धस्य पदे जन्यजनकभावे च सत्त्वेऽपि तत्रातिप्रसङ्गः । तत्र लक्ष्योपस्थितिनियामकः सादृश्यात्मकः सम्बन्धो गौणी, तदतिरिक्तस्तु शुद्धलक्षणेति व्यवहियते । शुद्धाऽप्युपादानलक्षणभेदेन द्विविधा । तत्र मुख्यसंसृष्टान्यार्थोपस्थापकत्वमुपादानत्वम् । शक्याऽविषयकलक्ष्यार्थोपस्थितिजनकत्वं लक्षणा - त्वम् । 'यष्टीः प्रवेशय' 'गङ्गायां घोष:' इत्यादिके यथायथमुदाहरणे । तत्राऽप्याद्याऽजहत्स्वार्थाऽन्त्या च जहत्स्वार्थेत्युच्यते । तद्भेदान्तराणि त्वन्यतोऽवधार्याणीति नैयायिका आहुः । मीमांसकास्तु — उक्तयुक्त्या लाक्षणिकपदस्य वाचकत्वपरिहारेऽपि नेश्वरेच्छायाः शक्तित्वम् । ईश्वरस्यैवाऽनभ्युपगमात् । नन्विच्छाया ईश्वरीयत्वमनुपादेयम् । एवं चाssधुनिकसङ्केतज्ञानादपि शाब्दबोधोदयेन तादृशसङ्केतस्य वृत्तितानिर्वाहः । आधुनिकसङ्केतत्वेन तात्पर्य्यस्याऽपि वृत्तित्वप्रसङ्गस्तु न, पदार्थोपस्थितिनियामकसङ्केतस्यैव वृत्तित्वेन तस्यास्तत्त्वात् । तज्ज्ञानस्य साक्षादेव शाब्दधीजनकतया पदार्थोपस्थित्यात्मकव्यापाराऽनपेक्षणाद् वृत्युपस्थापितार्थं एव प्रकरणादिना तद वधारणात् । आधुनिकसङ्केतितडित्थादिपदेषु त्वाधुनिकसङ्केतस्य प्रागवधारितस्य डित्था - दिव्यक्तिशाब्दधीजनकपदार्थोपस्थितौ नियामकत्वेन तद्वृत्तित्वस्य सौलभ्यादिति चेदेवमपि स तस्य निष्प्रतियोगिकतया तदीयोक्तविषयत्वस्याऽप्यापातरमणीयतया सम्बन्धित्वाऽसम्भवेन पदार्थाऽनुपस्थापकत्वादवृत्तित्वानिर्वाहात् । तस्मात् पदपदार्थयोर्वाच्यवाचकभावनियामकः सम्बन्धः पदार्थान्तरमेव । नाप्यसौ समवेतः । अभावादावपि सत्वात् । किन्तु वैशिष्ट्याख्येन सम्बन्धान्तरेण वर्त्तत इत्याहुः । Page #306 -------------------------------------------------------------------------- ________________ २७७ . शक्तिनिर्णयः। इन्द्रियाणां चक्षुरादीनां स्वविषयेषु-चाक्षुषेषु घटादिषु यथाऽनादिर्योग्यता-तदीयचाक्षुषादिकारणता, तथा शब्दानामपि अर्थः सह तद्बोधकारणतैव योग्यता, सैव.शक्तिरित्यर्थः । ___ ननु न बोधकारणत्वमनादिभूतं शक्तिः । आधुनिकदेवदत्तादिपदे तदभावात् । अन्यथा पित्रादिसङ्कताज्ञानेऽप्यन्वयबोधप्रसङ्गो, लाक्षणिकातिव्याप्तेश्चेति सङ्केतज्ञानमपि हेतुर्वाच्यम् । तथाचावश्य दर्पणः वाच्यत्वं यथा न समवायि तथा वक्ष्यत इति वदता दीधितिकृतापि तन्मतमेवानुसृतम् । तदेतन्नानामतानि निराकर्तुमादौ तत्स्वरूपप्रदर्शनमित्याशयेन मूलमवतारयति*तस्याः स्वरूपमिति*। *तस्याः*-शक्तेः। निर्विषयाणां तेषां कथं घटादिर्विष. योऽत आह-*चाक्षुषेति । तथाचौपचारिकविषयत्वं न विरुद्धमिति भावः। चाक्षु- । षपदं त्वाचादिप्रत्यक्षस्याऽप्युपलक्षणम् । इन्द्रियनिष्ठचाक्षुषादिकारणतायामनादित्वम् । इन्द्रियजन्यपूर्वपूर्वबोधध्वंसकालिकत्वं, न त्वजन्यत्वमव्यावर्तकत्वात् । शब्दनिष्टबोधकारणतायां तु स्वजन्यबोधसमानाकारपूर्वपूर्वबोधध्वंसवत्वम् । तद्बोधकारणता* । अर्थबोधकत्वम् । ज्ञायमानं पदं कारणमभिप्रेत्येदम् । अन्यथा विषयतायां तादृशहेतुताऽवच्छेदकतेत्यर्थो बोध्यः। सङ्केतज्ञान विनोक्तशक्तिग्रहाऽसम्भवेनावश्यापेक्षणीयतया तस्यैव शक्तित्वमस्तु, "तद्धेतोरेव” इति न्यायात् इत्याशइते-*नन्विति । तस्याऽशक्तित्वे हेतुराधुनिकेत्यादि । *आधुनिके*-एतत्कालिकसकेतविशिष्टे । *तदभावात् । निरुक्तानादित्वविशेषणविशिष्टबोधकारणत्वाभावादित्यर्थः । विशेष्यसत्वेऽपि प्रकृते वि. शेषणाभावप्रयुक्तविशिष्टाभावसत्वेन तदप्रतियोगित्वरूपकारणत्वं न सम्भवतीत्यर्थः । _ नन्वनादिभूतमितिप्रसिद्धिप्रदर्शनमात्रार्थक, नतु तच्छक्तिशरीरे प्रविष्टम् । येन तद्रूपेण तस्य हेतुता सम्भाव्येत; किन्तु बोधकारणवत्वेनैव । प्रकृते तेन रूपेण तज्ज्ञाने बाधकाभाव इति चेद्, स्यादेवम् । यदि सङ्केतग्रहमन्तरेणैव तद्ग्रहो भवेन्न तु तत् सम्भवतीत्याह-*अन्यथेति* । सङ्केतनिरपेक्षस्यैव तस्य शाब्दबोधहेतुत्वे इत्यर्थः । *लाक्षणिकेति । तत्राप्यनादिभूतबोधजनकत्वव्यवहारादिति भावः। *आवश्यक परीक्षा न्यज्ञानस्यार्थविषयकत्वेन कार्यधर्मस्य कारणे आरोपात् । यथा शब्देषु वाच्यार्थविषयकत्वव्यवहारस्तद्वत् योग्यतां विवृणोति-*तदीयेति । ' एवं च शब्दार्थयोः सम्बन्धयोग्यता, सा च तचच्छब्दनिष्ठा तत्तच्छब्दार्थविषयकशाब्दबोधकारणतारूपा, तस्याञ्चानादित्वविशेषणं कारिकायामुपात्तम् । अनादित्वं च-प्रागभावाप्रतियोगित्वम्, तन्न युक्तमित्याशयेन शङ्कते-*नन्विति । *तद. भावात्*-अनादित्वविशिष्टबोधकारणत्वस्य तन्मते-पदानां सत्वेऽपि विशेषणाभावप्रयोज्यविशिष्टाभावात्। *अन्यथा*-अनादित्वविशिष्टबोधकारणत्वस्वीकारे । *अतिव्याप्तेश्चेति । तेभ्योऽपि लक्ष्यार्थविषयकशाब्दबोधस्य जननेन लक्ष्याविषयकबोधकारणतायास्तेषु दर्शनादिति शेषः । *सङ्केतज्ञानमपीति । अपिना पूर्वोक्त Page #307 -------------------------------------------------------------------------- ________________ २०८ दर्पणपरीक्षासहिते भूषणसारेकत्वात् स एव शक्तिरस्तु । स एवाधुनिके पित्रादेर्गवादौ चेश्वरस्य दर्पणः त्वादिति । अवश्याऽपेक्षणीयज्ञानविषयत्वादित्यर्थः । *स एव* । सङ्केत एव परीक्षा योग्यताज्ञानसमुच्चयः । *तथा च*-सङ्केतज्ञानस्य हेतुत्वसिद्धौ च । *स एव*सङ्केत एव । सङ्केतश्चास्माच्छदादयमों बोद्धव्यः, इत्याकारिकेच्छारूपोऽर्थविशेज्यक इदं पर्द-इदमर्थ बोधयत्विति पदविशेष्यकेच्छारूपो वा विनिगमनाविरहात्। अत एव-अर्थबोधकं पदं वाचकमिति व्यवहारः, यद्यर्थबोधकत्वमेव वाचकत्वम्, तदा दण्डवान् दण्डवानित्यादिवदयमपि व्यवहार उद्देश्यतावच्छेदकविधेयतावच्छेदकयोरेकत्वान्न स्यात् । तत्रायं विशेषः-ऐश्वरसकेतः शक्तिराधुनिकः शास्त्रकारादि. सङ्केतः परिभाषेति। ऐश्वरसङ्केतेनार्थबोधकं पदं वाचकम् । यथा-घटपटादिपदम् । परिभाषयाऽर्थबोधकं पारिभाषिकम् । यथा-वृद्धिगुणादिपदम् । यत्र तु न द्विविधोऽपि सङ्केतोऽथ च यत्पदमर्थविशेषस्य बोधकं भवतिः तल्लाक्षणिकमुच्यते । लक्षणा च सक्यसम्बन्धरूपा । तत्र शक्यार्थस्य सादृश्यातिरिक्तः सम्बन्धो यत्रास्ति सोऽर्थो लक्ष्य इति व्यवहारस्य विषयः, सादृश्यात्मकसम्बन्धरूपा तु लक्षणा गौणीत्युच्यते । मुख्यार्थबाधपुरस्सरं तात्पर्यविशेषावगतिलक्षणाबीजम् । यथा-गङ्गायां घोष इत्यत्र । अत्रादौ गङ्गापदवाच्यस्य प्रवाहस्योपस्थितिस्तत्र घोषाभावग्रहे, इदं गङ्गापदं घोषाभाववत् , प्रवाहार्थकमिति ग्रहेर्वत्ते, इदं पदं तीरतात्पर्यकं घोषान्वय्यर्थबोधकत्वप्रकारकैतत्कालिकसाभिप्रायविषयत्वादित्यनुमानेन तात्पर्यविशेषावगमे तीरे घोष इत्याकारकः शाब्दबोधः, ततोऽयं शाब्दबोधस्तीरस्मृति विनाऽनुपपन्नस्तीरस्मृतिश्च गङ्गापदस्य तत्र वृत्ति विना नोपपद्यत इति तस्य पदस्य तत्र वृत्तिरस्तीति कल्पयति । तत्र शक्तिरूपावृत्तिस्तीरे शक्तिग्राहककोशाधभावादनुपपन्नेति लक्षणारूपास्तीति रीत्योहनीया। ननु प्रागुक्ता याऽस्माच्छब्दादयमर्थो बोद्धव्य इत्याकारेच्छारूपाs. भिधा तस्याः शक्तित्वं न युक्तम्, ईश्वरेच्छाया एकत्वेन सा यथा घटपदाद् घटो बोद्धव्य इत्याकारा तथा पटपदात्पटो बोद्धव्य इत्याकारिकाऽपि । एवं च घटस्य घटपदवाच्यत्ववत् पटस्यापि घटपदवाच्यत्वापत्तिः । यदि चेश्वरेच्छाया एकत्वेऽपि घटपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपिता या तादृशेच्छीया विषयताः सा तु घट इति न पटस्य वाच्यत्वापत्तिरित्युच्यते, तथापि--तस्या इच्छायास्तन्मात्रविषयकत्वेन गङ्गापदात्तीरबोधस्य लोके जायमानत्वेन गङ्गापदात्तीरं बोद्धव्यमित्याकारकत्वमपि तस्या सम्भाव्यते गङ्गापदबोधजन्यबोधविषयत्वप्रकारतानिरूपितविषयतायास्तीरेऽपि सत्वा. त्तीरस्य गङ्गापदवाच्यत्वापत्तिरिति चेद् ? न । गङ्गापदं तीरवाचकमिति, तीरं गङ्गाप दवाच्यमिति वा व्यवहारो लोके न दृश्यत इत्यतस्तीरनिष्ठविषयताया गङ्गापदजन्यबोधविषयत्वप्रकारतायाश्च परस्परं निरूप्यनिरूपकभावस्योक्तरीत्या सत्वेऽपि ताहशविशेष्यतानिरूपकताया गङ्गापदजन्यबोधविषयत्वनिष्टप्रकारतायां सा शुद्धविषयता. त्वावच्छिन्ना, नतु गङ्गापदजन्यबोधविषयतात्वावच्छिन्नेति तत्तत्पदजन्यबोधविषयता. त्वावच्छिन्नप्रकारतानिष्ठनिरूपकताकविशेष्यतासम्बन्धेन तत्तदर्थे वर्तमाना या ईश्वरेच्छा सा शक्तिरित्यभ्युपगमात् । अत एव गङ्गापदजन्यबोधविषयस्तीरं जायतामि Page #308 -------------------------------------------------------------------------- ________________ " शक्तिनिर्णयः । चेति चेत् अत्रोच्यते-- सङ्केतो न स्वरूपेण हेतुः । अगृहीतशक्तिकादर्थबोधप्रसङ्गात् । नाऽपि सामान्यतो ज्ञातः । प्रमेयत्वादिना तज्ज्ञानेऽपि बोधप्रसङ्गात् नापि सङ्केतत्वेन तज्ज्ञानं हेतुः । गवादिपदेष्वपीश्वरादेः सङ्केतत्वेन तज्ज्ञानशून्यानां लौकिकमीमांसकादीनां तत्तद ३७९ दर्पणः एवकारेण बोधकत्वव्यवच्छेदः । सङ्केतस्य स्वरूपतः सामान्यतो विशेषरूपेण वा हेतुत्वमभिमतमिति विकल्प्य दूषयति- उच्यत इति । *स्वरूपेणेति । स्वस्य यद्रूपमिति व्युत्पत्या स्वाऽसाधारणधमेंणोक्तसङ्केतत्वेनेत्यर्थः । दण्डत्वेन घटे दण्ड इव ज्ञानाविषय एव सङ्केतत्वेन हेतुरिति यावत् । अगृहीतशक्तिकादिति । अज्ञातसङ्केतादित्यर्थः । *अर्थबोधप्रसङ्गादिति । सङ्केतस्य तत्र विद्यमानत्वादिति भावः । *सामान्यत इति । जनकाजनकसाधारणरूपेणेत्यर्थः । *सङ्केतत्वेनेति । ईश्वरीय सङ्केतत्वादिना विशेषधर्मेणेत्यर्थः । *तज्ज्ञानशून्यानामिति । सङ्केते ईश्वरीयत्वमविदुषा - मित्यर्थः । *लौकिकमीमांसकानामिति । वैदिकानां तेषां कथञ्चिदीश्वरबोधसम्भवादुक्तम् — *लौकिकेति । अथवा लौकिकानां व्यवहारिकपदार्थमान्त्रविषयकज्ञानवतां परीक्षा । " त्याकारेच्छा विषयत्वस्य गङ्गापदे जन्यतायां विषयतायां च सत्वेऽपि न गङ्गापदवाच्यत्वव्यवहारस्य तेषु पदार्थेष्वापत्तिः । स चेति । सङ्केतश्चेत्यर्थः । एवं परस्य नैयायिकस्य मतम् । तत्र मीमांसकानुसारिण आहुः, ईश्वरेच्छायाः शक्तित्वं न युक्तम् । ईश्वराभावात् । किन्तु तादृशसङ्केत इत्येव वाच्यम् । अत एवाधुनिकपित्रा - दिसङ्केतितदेवदत्तादिपदादपि बोधः । नचैवं तात्पर्यस्य इष्टत्वापत्तिः । येन सङ्केतेन पदार्थोपस्थितिर्जन्यते स एवाभिधा, तात्पर्यस्य तु साक्षादर्थविशेषविषयकशाब्दत्वावच्छिन्नं प्रत्येव कारणत्वम् स्वज्ञानद्वारा । नतु पदार्थोपस्थितिं प्रत्येवेत्यदोषात् । शब्देन वृत्या - उपस्थितेऽप्यर्थेषु प्रकरणादिना तात्पर्यनिर्णय इति हि प्रसिद्धिरिति, तन्न युज्यते । पदपदार्थयोः सम्बन्धोऽभिधासम्बन्धस्य च सप्रतियोगि कत्वमभिमतम् । सङ्केतत्य तु सप्रतियोगिकत्वे मानाभावेन न सम्बन्धत्वम्, किन्तु शक्तिः पदार्थान्तरमेव स एव च पदार्थः ? पदपदार्थयोर्वाच्यवाचकभावव्यवहारनियामकः । तस्य वैशिष्टयार्थाख्यसम्बन्धेनार्थवृत्तित्वं प्रतियोगितासम्बन्धेन तु पदवृत्तित्वमिति तन्मतमपि निराकर्त्तुं स्वमतमाह *अत्रोच्यते इत्यादिना* । तत्रादौ सङ्केतः शक्तिरिति मतं निरस्यति -*सङ्केत इति । सङ्केतः स्वरूपेण सन् हेतुर्वा ज्ञायमानो वा ज्ञानमपि सामान्यरूपेण विशेषरूपेण वेंति । नाद्यः । स्वस्य रूपं स्वरूपं स्ववृत्तिधर्म; ; तथा च दण्डत्वेन दण्डस्येवाज्ञातस्यैवास्य हेतुत्वे आह- -*अगृहीतेति । न गृहीता शक्तिर्यस्मिन्नित्यर्थः । द्वितीयं निरस्यति—*नापीति । द्वितीयस्य द्वितीयपक्षमाह -*नापि सङ्केतत्वेनेति । तत्रादौ नैयायिकमतं निरस्यति - गवादिपदेष्वपीति । ईश्वरसङ्केतत्वेन सङ्केतज्ञानं श्रुत्या न किन्तु — गोविषयकबोधजनकं गोपदम् इत्याकारकज्ञानवतामित्यर्थः । *लौकिक Page #309 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - र्थबोधजनकत्वग्रहवतामेव वोधोदयेन व्यभिचारात् । नचार्थधीजनकतावच्छेदकत्वेन तज्ज्ञानं तथा 1 ततोऽपि लाघवेनार्थधीजनकतात्वेनैव हेतुतायामस्मत्पक्ष सिद्धेः । न चाधुनिकदेवदत्तादौ सङ्केतज्ञानादेव बोधेनास्य व्यभिचारः । तत्रापि " इदम्प 1 २८० दर्पणः पामराणामिति यावत् । मीमांसकानां चेत्यर्थः । *बोधोदयेनेति । सङ्केतत्वेन तज्ज्ञानमात्राद् गवाद्यर्थबोधोदयेनेत्यर्थः । यद्यपि सङ्केतत्वेन सङ्केतज्ञानकारणतावादिमते नेश्वरीयत्वादेर्निवेशः, तथापि गवादावीश्वरस्येति तद्ग्रन्थालोचनयेश्वरोयत्वादेर्निवेशस्तदभिमत इत्यभिप्रेत्य दूषितमिति ध्येयम् । *तत्तदर्थधी जनकग्रहवतामेव* - इत्येवकारेण निरुक्तसङ्केतज्ञानवत्वव्यवच्छेदः। स च तज्ज्ञानशून्यानामित्यस्यैवानुवादः । एवशून्यपाठस्तु सुगमः । इदञ्च शक्तिग्रहरूपकारणप्रदर्शकम् । तज्ज्ज्ञानम् -- सङ्केतज्ञानम् । *तथा* । हेतुः । *ततोऽपीति* । अर्थधी जनकता निरूपितविषयतासम्बन्धाऽवच्छिन्नाऽवच्छेदकत्वस्यावच्छेदकत्वाऽपेक्षयाऽर्थधीजनकतात्वेन हेतुताया औचित्येन वैयाकरणेष्टसिद्धिरित्यर्थः । सङ्केतज्ञानस्येदं पदमर्थधी जनकतावच्छेदकतावदित्याकारकस्याऽर्थधीजनकतावच्छेदकत्वाऽवच्छिन्न प्रकारताकज्ञानत्वेन हेतुत्वे गौरवात्-इदं पदमर्थधीजनक - मिति ज्ञानस्यैवार्थधी जनकतात्वावच्छिन्नप्रकारताकज्ञानत्वेन हेतुत्वमुचितं लाघवादिति भावः । वस्तुतस्तु - तन्मते सङ्केतत्वेनैव हेतुतेति नोक्तविकल्पाऽवसर इति बोध्यम् । सङ्केतज्ञानादेवेत्येवेनाऽर्थधीजनकत्वग्रहव्युदासः । *अस्य* – - बोधकत्वग्रहस्य | *व्यभि परीक्षा मीमांसकादीनामिति । लौकिकानां मीमांसकादीनां चेत्यर्थः । लौकिकाः पामरा व्यावहारिक पदार्थमात्रज्ञानवन्तः । मीमांसकास्तु-नैतादृशास्तेषां वैदिकपदार्थज्ञानस्य सत्वात् । आदिपदेन नास्तिकपरिग्रहः । बोधोदयेन । पदविशेष्यकं पदार्थबोधजनकत्वज्ञानं तस्माद् बोधेन । *व्यभिचारादिति । तत्तदर्थविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तत्तदर्थनिरूपितेश्वर सङ्केतत्वावच्छिन्न शक्तिज्ञानत्वेन कारणतायां व्यभिचारादित्यर्थः । अत्रैवकाररहितः पाठो युक्तः । 1 यदुक्तं प्राक् विशेषरूपेणेति, तत्र विशेषरूपं नैश्वरसङ्केतत्वम्, किन्तु वत्तदर्थविषयक बोधजनकतावच्छेदकत्वमेव विवक्षितमिति । तटस्थ शङ्कां निराचष्टे*न चेति* । तादृशसङ्केतविशेष्यकं यत्तदर्थविषयकशाब्दबुद्धित्वावच्छिन्नजन्यता न निरूपितज्ञाननिष्ठजनकतानिरूपितविषयतासम्बन्धावच्छिन्नावच्छेदकत्वप्रकारकं ज्ञानं तस्य हेतुत्वमिति, तन्मतं दूषयति - ततोऽपीति । उक्तधर्मादपीत्यर्थः । तत्पदविशेष्यकतत्तदर्थविषयकबोधजनकत्वतत्प्रकारकज्ञानत्वेन कारणतायां कारणतावच्छेदकस्य लाघवमित्यर्थः । ननु सङ्केते ईश्वरीयत्वमनुपाद्यन्तदेव सङ्केतत्वेन सङ्केतस्य ज्ञानं बोधस्य हेतुरिति प्रागुक्तमिति न भवदुक्तो दोष इत्याशङ्कां निराकरोति न चाधुनिकेति । व्यभिचारः - पदविशेष्यकतत्तदर्थविषयक बोधजनकत्वप्रकारकज्ञानत्वेन कारणतायां व्यभिचारः । सचायं व्यभिचारो व्यतिरेके बोध्यः । Page #310 -------------------------------------------------------------------------- ________________ २८१ शक्तिनिर्णयः ।। दमेनमर्थ बोधयतु” इतीच्छाग्रहे पदे तदर्थबोधकत्वस्याऽवगाहनेन व्यभिचाराभावात् । न च स्वातन्त्र्येणार्थबोधकताज्ञानं कारणं वाच्यम्। अन्यथा 'नेदं तद्धीजनकम् इतिज्ञानवतोऽस्माच्छब्दादयमर्थो बुद्धोऽनेनेतिजानत दर्पणः चारो*-व्यतिरेकः ॥ *तत्रापि*। संकेतमात्रादर्थबोधस्थलेऽपीत्यर्थः ॥ *इच्छाग्रह इति ॥ इदम्पदविशेष्यकैतदर्थबोधकत्वप्रकारकेच्छाग्रहे इत्यर्थः ॥ *अवगाहनेनेति* ॥ विषयीकरणेनेत्यर्थः । ज्ञानेच्छादिविषयकज्ञानस्य तद्विषयकत्वनियमादिति भावः। *स्वातन्त्र्येणेति । इतराविशेषणत्वेनेत्यर्थः । प्रकृते चेच्छांऽशे विषयितया विशेषणीभूतबोधकत्वस्यैव तज्ज्ञानेन विषयीकरणादिति भावः । ___*अन्यथेति । पारतन्त्र्येणाऽपि बोधकताज्ञानस्य शाब्दधीहेतुत्व इत्यर्थः । इष्टापत्तिनिरासायाह-*नेदं तद्धीजनकमितीति । *अस्माच्छब्दादिति । एतच्छब्दजन्यतदाशयकबोधविषयोऽयमर्थ इत्याकारकवर्तमानग्रहवत इत्यर्थः । पदविशेष्यकाथंधीजनकत्वबोधग्रहे विद्यमाने तदंशेऽर्थधीजनकत्वावगाहिन इदं पदमेतदर्थधीजनकत्वेन बुद्धमनेनेतिग्रहस्यासम्भवात्तदपहायास्मादित्याकारकबोधग्रह उक्तः। एतस्मिस्तु न परीक्षा व्यभिचारमुद्धरति-*तत्रापीति । तादृशसङ्केतज्ञानेऽपीत्यर्थः । *इच्छाग्रहे*-इच्छा. रूपो यः सङ्केतस्तस्य ग्रहे । *तदर्थबोधकत्वस्येति । विशेषणतयेति शेषः । अवगाहा. वगाहनं विषयीकरणम् । ज्ञानेच्छादिविषयकं यज्ज्ञानं तस्य ज्ञानेच्छा विषयविषयकत्वमावश्यकमिति देवदत्तपदमत्र सङ्केतितमिति यो ग्रहस्तस्येच्छारूपे सङ्केतविषयतया तादृशेच्छाविषयतदर्थबोधजनकत्वसङ्केतग्रहविषयत्वादिति भावः। नन्वितराविशेषणत्वरूपस्वातन्त्र्येण तदर्थबोधजनकत्वस्य ज्ञानं तदर्थविषयकशाब्दबोधे हेतुरित्युच्यते । प्रकृते तु तदर्थबोधजनकत्वविषयितयेच्छांशे विशेषणतापन्न सत्तादृशेच्छाविषयकज्ञानविषयमिति न स्वातन्त्र्येण तज्ज्ञानमिति व्यभिचारोऽस्त्येवेत्यभिप्रायिकामाशङ्कामपनुदति-*न च स्वातन्त्र्येणेति । *अन्यथा*-इतरविषत्वानुपादाने। "वयस्यानागरा सङ्गादङ्गानां हन्ति वेदनाम् इति वाक्यं चैत्रेण वयस्या पदं हरितकी नागरपदं शुण्ठी बोधयत्विति तात्पर्येणोच्चारितम् , ततो मैत्रेण वयस्या तरुणीः नागरस्य नागरिकस्य सङ्गादङ्गानामित्यर्थो ज्ञातस्ततः स्वीयतादृशबोधस्य प्रकारतामेवंविधशब्दप्रयोगस्तेन कृतः । तं श्रुत्वा यज्ञेश्वरस्यापि मैत्रीयवाक्यजन्यशाब्दबोधानन्तरं नेदं वाक्यं तादृशार्थबोधजनकं परन्त्वनेनायमों बुद्ध इति ग्रहो जायते, तन्त्र यज्ञेश्वरस्यापि मैत्रीयशाब्दबोधसमानाकारशाब्दबोधापत्तिः। यज्ञेश्वरीयज्ञान ज्ञानस्यापिस्वविषयकज्ञानविषयसमानविषयकत्वेनास्माच्छब्दादयमों बद्ध इति ग्रह स्यार्थीशे तच्छब्दजन्यबोधविषयत्वप्रकारकत्वे तुल्यवित्तिविषयतया पदांशे एतदर्थविषयकबोधजनकत्वप्रकारकत्वादिति भावः। नेदं वयस्यापदं तरूणीबोधकम् , नागरपर्द च न नागरिकबोधजनकमिति ग्रहस्य यज्ञेश्वरीयस्य प्रतिबन्धकत्वान्न वयस्यानागरपदयोस्तरुणीनागरिकविषयकबोधजनकत्वावगाही तुल्यवित्तिवेद्यतयापि ग्रहो भवितमहतीत्याशयेन दूषयति- नेदमिति । ३६८०प० Page #311 -------------------------------------------------------------------------- ________________ २८२ दर्पणपरीक्षासहिते भूषणसारे - स्तदुग्रहापत्तेरिति वाच्यम् । नेदं तद्धीजनकमितिग्रहवतो बाधेन पदे परग्रहं जानतोऽपि तद्ग्रहासम्भवात् । अन्यथा भ्रान्तिज्ञस्यापि भ्रान्तत्वापत्तेरिति । दर्पणः तस्य प्रतिबन्धकता, ग्राह्याभावानवगाहित्वादिति भावः । *तद्ग्रहापत्तेरिति* । घटादिशाब्दबोधापत्तेरित्यर्थः । उक्तज्ञानस्य विषयविषयकत्वेऽपि न तेन पदांशेऽर्थबोधकत्वं विषयीक्रियते; येन तस्य शक्तिग्रहत्वं स्यात् । किन्तु बोधांशे तत्पदजन्यत्वमर्थाशे तादृशबोधविषयत्वमेव तथा । तेन तुल्यवित्तिवेद्यतया पदांशेऽर्थबोधकत्वमप्यवगाह्यत इति तु दुर्वचम् । तुल्यवित्तिषेद्यत्वे मानाभावात् । तत्प्रतिबन्धकस्य ग्राह्याभावावगाहिनो नेदं तद्वीजनकमिति ज्ञानस्य जागरूकत्वाच्च । न च पदनिष्ठार्थधीजनकत्ववदर्थनिष्ठपदजन्यबोधविषयत्वमपि शक्तिर्विनिगमनाविरहादुभयविधज्ञानाच्छाब्दबोधस्य सर्वानुभवसिद्धत्वाच्च कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशाच्च, न परस्परजन्यशाब्दबोधे व्यभिचारः । एवञ्च द्वितीयशक्तिग्रहरूपात् तस्माच्छाब्दबोधापत्तिः सुकरेति वाच्यम् । तथा सति नेदमर्थधीजनकमिति ग्राह्याभावानवगाहिनोऽप्रतिबन्धकग्रहस्योपन्यासवैयर्थ्यात् । ग्राह्याभावानवगाहित्वेऽप्युभयविधशक्तिं प्रत्यन्वयव्यतिरेकाभ्यां प्रतिबन्धकत्वोपगमेन तदुपन्यासस्य सार्थक्यसम्पादने तूक्तज्ञानस्याऽसम्भव एवेत्याशयेन दूषयति-नेदं तद्धीजनकमिति । *बाधेन* । अप्रामाण्यज्ञानानास्कन्दितनिरुक्तनिर्णयात्मक प्रतिबन्धकसद्भावेनेत्यर्थः । तद्ग्रहासम्भवात् । अर्थविशेष्यकपदजन्यबोधविषयत्वग्रहासम्भवादित्यर्थः । *अन्यथेति । बाग्रहेऽपि जायमानस्य रजतं बुद्धमनेनेति ग्रहस्य, इदं विशेष्यकरजतप्रकारकग्रहत्वे । भ्रान्तिज्ञस्येत्यनेन दोषाऽभाववत्वमपि सूच्यते । भ्रान्तत्वापत्तेरिति । तदभाववति परीक्षा *पदे* - - वयस्यापदे नागरपदे च । * तद्ग्रहासम्भवात् -- तरुणी नागरिक विषयकबोधजनकत्वग्रहासम्भवात् । किन्तु बोधांशे वयस्यापदजन्यत्वप्रकारकत्वावगाही अर्थविशेष्यकत्वतादृशबोधविषयत्वप्रकारकत्वावगाही च बोधो भवतीति शेषः । अन्यथा स्वातन्त्र्येण बोधांशे तत्तद्विषयकत्वप्रकारकत्वविषयत्वस्य ज्ञानेsस्वीकारो भ्रान्तिज्ञस्य । चैत्रस्य रङ्गे रजतत्वावगाहिज्ञाने जाते तदीयचेष्टादितज्ज्ञानानुमित्युत्पत्तिर्मेत्रस्य जायते ; अयं रङ्ग रजतं जानातीति । अथ नेदं रजतमिति तु ग्रहस्तस्य मैत्रस्यास्ति स मैत्रो भ्रान्तिज्ञो भवति । यथा चैत्रीयं ज्ञानं रङ्गे रजतत्वप्रकारकम्, तथा मैत्रीयज्ञानमपि यदि रङ्गे रजतत्वप्रकारकं तदा भ्रान्तिज्ञो मैत्रो भ्रान्तः स्यात् । किन्तु भ्रान्त्यंशे रजतविशेष्यकरजतत्वप्रकारकत्वमित्याकारकं रजकत्वावगाही ज्ञानवानेव भवतीति बोध्यम् । तथा च स्वातन्त्र्यनिवेशनं निष्फलमिति भावः । ननु पदविशेष्यकार्थधीजनकत्वप्रकारकज्ञानस्य पदार्थोपस्थिति प्रति कारणत्वस्वीकारे तुल्यन्न्यायेनायमर्थ एतच्छब्दजन्यबोधविषय इति ग्रहोऽपि हेतुः स्यात् । तथा च तद्विषयस्य तत्तत्पदजन्यबोधविषयत्वस्यापि शक्तित्वं स्यात् । न चेष्टापत्तिः । एकज्ञानजन्यपदार्थोपस्थितेः पूर्वमुपन्यस्यान्यत्वाद्वय भिचारापत्तेरिति चेद्र ? न तुल्यवित्तिवेद्यतया यत्पदांशेऽर्थबोधजनकत्वस्य ज्ञानं तस्यार्थाशे पदजन्यबो Page #312 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः। - २८३ इदञ्चार्थधीजनकत्वं पित्रादिसङ्केतशानादेव गृह्यते । अतस्तज्ज्ञानात् पूवं न बोधः। नाऽपि लाक्षणिकोच्छेदापत्तिः, इष्टत्वात् । शक्तिग्राहकव्यवहारस्य मुख्यलक्ष्यसाधारण्यात् । किञ्च प्रत्यक्षादिजन्योपस्थितेः शाब्दबोधाऽनङ्गत्वाच्छाब्दबोधं प्रति शक्तिजन्योपस्थितेलक्षणाजन्योपस्थितेश्च कारणत्वं वाच्यम् । तथाच कार्यकारणभावद्वयस्य कल्पने गौरवं स्यात् । अस्माकं पुनः शक्तिजन्योपस्थितित्वेनैव हेतुतेति लाघवम् । दर्पणः तदवगाहिज्ञानवत एव तत्वादिति भावः। ___ अनेदं चिन्त्यम्-यत्रेदं पदमेतदर्थ बोधयत्विति सङ्केतमात्राच्छाब्दबोधस्तत्र बोध. कताशक्तिज्ञानस्य हेतुतावादिमते व्यभिचारो दुरुद्धर एव । नच तत्र सङ्केतज्ञानमेव बोधकताज्ञानमित्युक्तमेवेति वाच्यम् । सविषयकज्ञानस्य तद्विषयविषयकत्वेऽपि तद्विशेष्यांऽशे तत्प्रकारो न तेन विषयीक्रियते । 'घटमहं जानामिइत्यनुव्यवसायेन ज्ञानांऽशे घटत्वप्रकारकत्वघटविशेष्यकत्वयोरेव विषयीकरणात् । अन्यथाऽभ्रान्तस्य भ्रान्तत्वापत्तिरनिवाय्यव स्यात् । ___ अत एव शाब्दचिन्तामणौ तात्पर्यविषयसंसर्गज्ञानपूर्वकत्वस्य पदपक्षकाऽनुमानेन सिद्धावपि नेतरपदार्थेऽभिमतापरपदार्थसंसर्गसिद्धिस्तादृशसंसर्गज्ञानपूर्वकत्वानुमा. नेन तत्पदार्थतात्पर्य्यविषयसंसर्गस्याविषयीकरणादित्यस्वरसात् पदार्थपक्षकानुमानमवतारितं पक्षधरमिरिति । शक्तिग्राहकमाह-*इदञ्चेति । शक्तित्वेनाऽभ्युपेतं बोधकत्वं चेत्यर्थः । पित्रादी. त्यादिनाऽप्तपरिग्रहः । पूर्वोक्तां लाक्षणिकोच्छेदापत्तिमिष्टत्वेन परिहरति-*नाऽपीति*। *शक्तिग्राहकेति* । शक्य इव शक्तिग्राहकव्यवहारादेर्लक्ष्येऽपि तुल्यत्वादित्यर्थः । __ ननु शक्यलक्ष्यव्यवहारानुपपत्त्या लक्ष्यव्यावृत्तैव सा वाच्या। तथाच-लक्ष्योपस्थितये लक्षणावृत्तेरावश्यकत्वेन कथमुक्तापत्तेरिष्टत्वमत आह-किञ्चति । *शाब्दबो परीक्षा धविषयत्वावगाहित्वस्यापि सम्भवात् । ___ यदि च तुल्यवित्तिवेद्यत्वे मानाभाव इत्युच्यते, तदा स्वसामानाधिकरण्य स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वोभयसम्बन्धेन तत्तज्ज्ञानवैशिष्टयस्य कार्यतावच्छेदके निवेशान्न व्यभिचारः। तत्वर्थधीजनकत्वं यदि शक्तिस्तस्याश्च शब्दश्रवणमात्रेण ग्रहः, तदा बालविशेषस्यागृहीतसकेताच्च क्रपाणीपदादपि बोधापत्तिरत आह-*इद. ज्चेति* । पूर्वोक्तां लाक्षणिकोच्छेदापत्तिमिष्टापत्या परिहरति-नापीति* । *साधारणत्वादिति । यथा शक्तेर्घटत्वादिपदे इर्द घटपदं घटबोधजनकमिति ग्रहो व्यवहारादिना भविष्यतीति भावः।। __ लक्षणाया वृत्यन्तरत्ववादिमते दूषणमाह-किञ्चेति । *शक्तिजन्य इति । शक्तिज्ञानजन्य इत्यर्थः । एवं च लक्षणाजन्य इत्यस्याप्यर्थः। नत्वगत्यागौरवं सहाते Page #313 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - अपिच लक्षणावृत्तिस्वीकारे कार्यकारणभावस्य प्रत्येकं व्यभि चारः । शक्तिजन्योपस्थिति विनापि लक्षणाजन्योपस्थितितः शाब्दबोधात् । न चाव्यवहितोत्तरत्वसम्बन्धेन तत्तदुपस्थितिमत्त्वं कार्य्यतावच्छेदकम् । तत्तदुपस्थितित्वञ्च कारणतावच्छेदकम् । अनन्तकार्य्यकारणभावप्रसङ्गात् । किञ्च पदार्थोपस्थिति प्रत्यपि शक्तिज्ञानत्वेन लक्षणाज्ञानत्वेन च हेतुतेति व्यभिचारो गौरवञ्च प्राग्वदेव द्रष्टव्यम् । न चेदं पदमेतदर्थबोधकमिति शक्तिज्ञानेन कार्यकारणभावकल्प दर्पण: धानङ्गत्वादिति । घटादिपदेऽगृहीतशक्तिकस्य प्रत्यक्षाद्युपस्थितघटादेर्घटादिपदाच्छाब्दबोधानुदयादन्वयव्यभिचारेण प्रत्यक्षाद्युपस्थितेः शाब्दबोधाजनकत्वादित्यर्थः । 1 1 नवनायत्त्या तादृशगौरवं सोढव्यमत आह—* -* अपिचेति । व्यभिचारो व्यक्तिरेके बोध्यः । तमेवोपपादयति-शक्तिजन्योपस्थितिमिति । अव्यवहितोत्तरत्वेति* । तच्च स्वध्वंसाधिकरणक्षणानुत्पत्तिकत्वे सति स्वाधिकरणक्षणध्वंसाऽधिकरणक्षणोत्पत्तिकत्वम् । अत्र स्वपदं शक्तिज्ञानजन्योपस्थितिपरम् । लक्षणाज्ञानजन्यपदार्थीपस्थितिप्राग्वर्त्तिशक्तिज्ञानजन्यपदार्थोपस्थितिजन्यशाब्दबोधे व्यभिचारवारणाय विशेव्यम् । शक्यशाब्दबोधानन्तरभाविलक्षणाज्ञानजन्योपस्थितिजन्यशाब्दबोधे व्यभि चारवारणाय सत्यन्तम् । प्रकृते लक्षणाज्ञानजन्योपस्थितिजन्यशाब्दबोधे उक्तसम्बन्धेन शक्तिज्ञानजन्योपस्थितिवैशिष्ट्याऽभावेन तत्कार्य्यतावच्छेदकाक्रान्तत्वान्न व्यभिचार इति भावः । *अनन्तेति* । स्वत्वस्य तत्तद्व्यक्तिविश्रान्तत्वेनाननुगततया तद्द्घटिताव्यवहितोत्तरत्वसम्बन्धेनोपस्थितिमत्त्वस्य कार्य्यतावच्छेदककोटौ निवेशे कार्यकारणभावानन्त्यमिति भावः । न्यायसाम्यादाह - * किञ्चेति । *प्राग्वदेवेति । शक्तिज्ञानं विनाऽपि लक्षणाज्ञानात् पदार्थोपस्थितेरेवं लक्षणाज्ञानं विनाऽपि शक्तिज्ञानात्पदार्थोपस्थितेस्तयोरुपस्थितिहेतुतायां परस्परं व्यभिचारः । अव्यवहितोत्तरत्वसम्बन्धेन तत्कारणवैशिष्ट्यस्य कार्य्यताऽवच्छेदककोटौ निवेशे च गौरवं तद्वदेवेत्यर्थः । ननु बोधकत्वशक्तिवादिनोऽपि गङ्गापदं प्रवाहबोधकमिति शक्तिग्रहालक्ष्यार्थोप· · स्थितिशाब्दबाधयोरापत्तिवारणाय कारणतावच्छेदककुक्षौ तत्तदर्थनिवेश आवश्यकः । परीक्षा २८४ इत्यत आह-*अपि चेति । तं व्यभिचारमेवाह--*शक्तिजन्य इत्यादिना । अव्यवहितोत्तरत्वेति । सामानाधिकरण्यस्याप्युपलक्षणमिदम् । एवं च स्वसामानाधिकरण्यस्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वोभयसम्बन्धेन शक्तिजन्योपस्थितिविषयेष्टशाब्दबुद्धिं प्रति शक्तिज्ञानजन्योपस्थितिः कारणमिति रीत्या कार्यकारणभावः सम्पन्नः। एवं लक्षणाज्ञानस्थलेऽपि । प्रसङ्गादिति । स्वत्त्वस्य तत्तद्व्यक्तिविश्रान्ततया अनन्तकार्यकारणभावप्रसङ्गादित्यर्थः । गौरवान्तरमाह -- *किञ्चेति । लक्षणाया वृत्यन्तरत्वमते गौरवाच्छङ्कां तुल्यत्वप्रदर्शनेन निराचष्टे -*न चेदं पदमिति । * Page #314 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः। २८५ नेऽपि पदतत्तदर्थभेदेनानेककार्यकारणभावकल्पने गौरवं तवापि समानम् । परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वघटितत्वे च सुतरामिति वाच्यम् । शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदर्थभेदेन कार्यकारणभावानन्त्यस्य तवापि साम्यात्। लक्षणाकार्यकारणभावकल्पनागोरवं परंतवातिरिच्यते ।। ___ अथ वृत्तिजन्योपस्थितित्वेनैव शाब्दबोधहेतुता, वृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतेत्येवं मया वाच्यमिति चेद् ? न । शक्तिलक्षणान्यतरत्वस्य शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थसम्ब दर्पणः तथाच लक्षणावादिमते व गौरवमित्याशङ्कय निराचष्टे-*नचेति । *परस्परेति । गङ्गापदनिष्ठतीरबोधकत्वग्रहं विनाऽपि तीरादिपदनिष्ठतादृशशक्तिग्रहेण तीरबोधात्तयोः परस्परजन्यबोधे व्यभिचारप्रतिरोधायेत्यर्थः। *शक्तिभ्रमानुरोधेने ति* । गङ्गापदस्य तीरे शक्तिभ्रमदशायां तीरोपस्थित्यादेः सर्वमतसिद्धतया तवाऽपि तत्तत्कारणताच्छेदककोटौ तत्तत्पदतत्तदर्थनिवेशस्यावश्यकत्वादित्यर्थः । ___*तवेति । लक्षणास्वीकर्तुरित्यर्थः । शक्तिज्ञानकारणतायां शक्तेश्शक्तित्वेन निवेशे स्यादेवोक्तदोषः। किन्तु वृत्तित्वेनेति न तत्सम्भावनेत्याशङ्कते-*अथेति । *वाच्यमिति । शक्तिजन्योपस्थिताविव लक्षणाजन्योपस्थितावपि शक्तिलक्षणासा. धारणवृत्तित्त्वावच्छिन्नजन्यत्वसत्त्वादिति भावः। *शक्तिलक्षणेति । शक्तिभिन्नत्वे सति लक्षणाभिन्नं यत्तद्भिन्नत्वस्येत्यर्थः । *शाब्दबोधानुकूलेत्यादि । शाब्दबोधज परीक्षा *पदतदर्थभेदेनेति । गङ्गापदस्य प्रवाहरूपार्थविषयकज्ञानमादायैको गङ्गापदस्यैव तीररूपार्थविषयकज्ञानमादायापर इत्येवं रीत्या भेदेनेत्यर्थः। अन्यथा गङ्गापदं प्रवाहविषयकबोधजनकमिति ग्रहकालेऽपि तीरोपस्थितच्छाब्दबोधयोग्यतापत्तिरिति भावः । *परस्परमेति । प्रवाहोपस्थिति प्रति गङ्गापदं प्रवाहबोधजनकमिति ग्रहस्य कारणत्वे जान्हवीपदं प्रवाहबोधजनकमिति ग्रहाद्यत्र प्रवाहोपस्थितिस्तत्र व्यभिचारः। एवं गङ्गापदं तीरबोधजनकमिति ग्रहाद्यथा तीरोपस्थितिस्तथा तीरे घोष इति वाक्यादपि नीरपदं तीरबोधजनकमिति ग्रहकालेऽपि तीरवृत्ति?ष इति शाब्दबोधो भवतीति तत्रापि परस्परजन्यबोधे व्यभिचारो बोध्यः । *शक्तिभ्रमानुरोधेनेति* । तीरपदं तीरे शक्तमिति ग्रहाद्यथा तीरोपस्थितिः, तथा गङ्गापदं तीरे शक्तमिति भ्रमादपि तीरोपस्थितिर्भवतीति तीरोपस्थिति प्रति गङ्गापदशक्तिज्ञानस्य तीरपदशक्तिज्ञानस्य गङ्गापदलक्षणाज्ञानस्य च कारणतास्तीति तत्राप्यव्यवहितोत्तरत्वस्य निवेशेन मन्मतापेक्षया तवाधिकं गौरवमिति भावः। *तव*-लक्षणास्वीक स्तव । गङ्गापदशक्तेः । शक्तित्वेन प्रवेशे शक्तिज्ञानलक्षणाज्ञानमादाय स्यादेव दोषस्तस्य शक्तिलक्षणयोवृत्तित्वेन निवेशेन सम्भव इत्याशइते-*अथेति । *वृत्तिजन्येति । वृत्तिज्ञानजन्येत्यर्थः । *अन्यतरत्वस्येति । व्यञ्जनावृत्यस्वीकर्त्तमताभिप्रायेणेदम् । तत्स्वीकारे तु शक्तिलक्षणाव्यञ्जनान्यतमत्वं निवेश्यम् । अन्यतरत्वान्यतमत्वघटक Page #315 -------------------------------------------------------------------------- ________________ २८६ दर्पणपरीक्षासहिते भूषणसारेन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वाच्छक्तित्वमपेक्ष्य गौरवात् । शाब्दबोधहेतुतावच्छेदकस्य पदाऽर्थोपस्थितिहेतुवृत्तेरवाने तद्धटितकार्यकारणभावग्रहस्याप्यसम्भवात् । अथ ममापि शक्तिज्ञानत्वेनैव हेतुता, शक्यसम्बन्धज्ञानरूपलक्षणायां शक्तेरपि प्रवेशादितिचेद् ? न । शक्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावे समानविषयत्वस्यावश्यकत्वात् । अन्यथा गङ्गाती दर्पणः निका या पदार्थोपस्थितिः पदवृत्तिज्ञानजन्योपस्थितिस्तदनुकूलेत्यर्थः । कारणताऽवच्छेदकत्वे उभयसाधारणं दूषणमाह-*गौरवादिति । अस्मदभिमतशक्तित्वमपेक्ष्य निरुक्तान्यतरत्वादेर्गुरुत्वादित्यर्थः । द्वितीये दूषणान्तरमाह-*शाब्दबोधहेत्विति । शाब्दबोधानुकूलत्वस्य तद्गमकत्वस्य कारणताऽवच्छेदकोपस्थित्यधीनत्वेन तस्य च पदवृत्तिज्ञानजन्योपस्थितित्वात्मकतया तज्ज्ञानस्य स्वघटकवृतित्वज्ञानं विना असम्भवेन कार्यकारणभाव एव दुर्घट इत्यर्थः । तथा च वृत्तित्वग्रहे शाब्दबोधपदार्थोप. स्थित्योः कार्यकारणभावग्रहस्तद्ग्रहे च निरुक्तपदपदार्थसम्बन्धत्वरूपवृत्तित्वग्रह इत्यन्योन्याश्रयेणोक्तस्य वृत्तित्वासम्भव इति भावः। वस्तुतस्तु विजातीयपदार्थोपस्थितिजनकपदपदार्थयोः सम्बन्धः शक्तिः। वैजा. त्यस्य निवेशाच्च नाकाशोपस्थितिजनकसमवायादावतिव्याप्तिः। तादृशवैजात्यपरिचायकञ्च शाब्दबोधानुकूलेति । न तु तेन रूपेणोपस्थितेनिवेश इत्यन्तिमलक्षणस्यादु. ष्टत्वमिति । *ममापीति* । लक्षणाऽङ्गीकर्तुरपीत्यर्थः । *प्रवेशादिति । तथाच लक्षणाज्ञानस्याऽपि शक्तिज्ञानत्वेन हेतुत्वेन लक्षणाज्ञानजन्यलक्ष्यार्थोपस्थित्यादौ शक्तिज्ञानस्य हेतुतायां व्यभिचार इत्यर्थः। विषयमनिवेश्यैव यदि शक्तिज्ञानपदार्थोपस्थि. त्योः कार्यकारणभावःसम्भवेत् । तदा स्यादप्युक्तप्रकारः । स एव न सम्भवतीत्याह*शक्तिज्ञानेति । *आवश्यकत्वादिति । तदर्थविषयकोपस्थितिं प्रति तदर्थनिरूपित. तत्पदनिष्टशक्तिज्ञानत्वेन हेतुताया अवश्यकल्प्यत्वादित्यर्थः। आवश्यकत्वमेवाह परीक्षा भेदानां परस्परं विशेष्यविशेषणभावभेदेन नानात्वादाह-शाब्दबोधहेत्विति । कारणतानवच्छेदकत्वे आह-*शक्तित्वेति । द्वितीयपक्षे दूषणान्तरमाह-*शाब्दबोधहेत्विति । पदार्थोपस्थितिवृत्तेरिति धर्मस्येति शेषः। *असम्भवादिति । शाब्दबोधानुकूलत्वस्य तजनकत्वरूपतया जनकत्वस्य जनकतावच्छेधकधर्मघटितत्वेन तस्या ज्ञाने जनकत्वघटितकार्यकारणभावग्रहासम्भवादित्यर्थः। तथा च यदि वृत्तित्वं पदार्थोपस्थितिशाब्दबोधकार्यकारणभावघटिततादृशपदार्थसंसर्गत्वं, तदा कार्यकारणभावग्रहे सति वृत्तिवृत्यन्तरघटितस्य ग्रहः । वृत्तित्वग्रहे सति वृत्तित्वावच्छिन्नवृत्तिघटितकार्यकारणभावग्रह इत्यन्योन्याश्रय इति भावः। ___ *ममापीति । लक्षणाया अपि वृत्तित्ववादिनो ममापीत्यर्थः । *प्रवेशादिति । विशेषणतया प्रवेशादित्यर्थः । • विषयविशेषणमनिवेश्य यदि शक्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावः सुवचः स्यात्तदा भवदुक्तस्य सम्भवः स्यात्तथा तु नास्तीत्याह-*शक्तिज्ञानेति । *आवश्यकत्वादिति । तद्धर्मावच्छिन्नविषयको Page #316 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः। २८७ रयोः सम्बन्धाग्रहवतो गङ्गापदशक्तिं जानतोऽपि 'गङ्गायां घोष' इति वाक्यात्तीरबोधप्रसङ्गः । शक्तिज्ञानस्य हेतोः सत्त्वात् ।। अपि च घटमानयेति वाक्यं हस्तिनश्च स्मरतो घटपदादिभ्यो घटादेर्गजाद्धस्तिपकस्य च समूहालम्बनस्मरणवतो घटानयनवद्धस्तिपकस्यापि शाब्दबोधापत्तिः । समूहालम्बनरूपायां पदार्थोपस्थितौ वृत्तिजन्यत्वसत्वात् । तथाच विषयतया शब्दबोधं प्रति तदंशविषयकवृत्तिजन्योपस्थितिहेतुरिति वाच्यम् । एवञ्च लक्षणाया अपि शक्तिज्ञानत्वेन हेतुत्व दर्पणः *अन्यथेति । शक्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावे समानविषयकत्वानिवेशे इत्यर्थः । सम्बन्धाग्रहवत इत्युक्त्या लक्षणाज्ञानासत्त्वं बोधितम् ॥ *गङ्गापदेति । प्रवाहरूपाऽर्थनिरूपितबोधकत्वशक्तिं गङ्गापदे जानत इत्यर्थः । *तीरबोधप्रसङ्ग इति। तीरोपस्थितेस्तद्वारकशाब्दबोधस्य चापत्तिरित्यर्थः । ___ ननूक्तापत्तिवारणाय वृत्तिज्ञानजन्योपस्थितिशाब्दबोधयोरेव कार्यकारणभावे समानविषयकत्वं निवेश्यतां, कृतं वृत्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावेन तन्निवेशेनेत्यत आह-*अपिचेति । हस्तिपकस्मृतेर्वृत्तिज्ञानजन्यत्वसम्पत्तये हस्तिनोऽपि वाक्यीयस्मृतिविषयता दर्शिता। समूहालम्बनेत्यत्रालम्बनपदं विषयपरम् ॥ *वृत्तिजन्योपस्थितिरिति । तद्विषयकत्वावच्छिन्नवृत्तिज्ञाननिष्ठकारणतानिरूपितजन्यतावच्छेदकधर्मावच्छिन्नोपस्थितिरित्यर्थः । उक्तस्थले हस्तिपकोपस्थितेर्वृत्तिज्ञानजन्यत्वेऽपि न तनिष्ठा जन्यता हस्तिपकविषयत्वेनाऽवच्छिद्यते । नापि वृतिज्ञाननिष्ठजनकतायां हस्ती विषयत्वेनावच्छेदको, वृत्तिज्ञाने धर्मित्वेनाभानादिति नोक्तापत्तिः । एवं च वृत्तिज्ञानोपस्थितिशाब्दबोधानां समानविषयकत्वेन हेतुहेतुमद्भावः फलतीति परीक्षा पस्थिति प्रति तद्धर्मावच्छिन्ननिरूपिततत्तत्पदनिष्ठशक्तिज्ञानत्वेन कारणत्वतेत्येवमय निवेशनीयम् । तथा च नीरत्वावच्छिन्ननिरूपितत्वाप्रवेशे सम्बन्धाग्रहवत इत्यनेन लक्षणेत्यनेन ज्ञानासत्वं प्रदर्शितम् । *शक्तिज्ञानस्य*-गङ्गापदं प्रवाहे शक्तमिति शक्तिज्ञानस्य । ननु वृत्तिज्ञानजन्यपदार्थोपस्थितिशाब्दबोधयोः कार्यकारणभावे समानविषयकत्वं निवेश्यताम् ।। ___ अतः वृत्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावे समानविषयकत्वे निवेशेनेत्यत आह-*अपि चेति । हस्तिपकस्मृतेर्वृत्तिज्ञानजन्यत्वसम्पत्तये समूहालम्बनात्मकहस्तिस्मृतेर्वाक्यस्मृतिविषयता बोधिता। *वृत्तिजन्यत्वस्य*-वृत्ति. ज्ञानजन्यत्वस्य । एवं च यादृशकार्यकारणभाव आवश्यकस्तं दर्शयति-*तथा. चेति । *विषयतयेति । अनेककार्यतावच्छेदकसम्बन्धो दर्शितः। *वृत्तिजन्येति । वृत्तिज्ञानजन्येत्यर्थः । एवं च विशेष्यतासम्बन्धेन तद्धर्मप्रकारकशाब्दबुद्धिं प्रति तद्धर्मावच्छिन्नविषयत्वावच्छिन्ना वृत्तिज्ञाननिष्ठा कारणता तन्निरूपितकार्यताविशिष्टतद्धर्मप्रकारकोपस्थितिः कारणमिति कार्यकारणभावः फलितः। उक्तस्थले Page #317 -------------------------------------------------------------------------- ________________ २८८ दर्पणपरीक्षासहिते भूषणसारेमसम्भवदुक्तिकमिति । एतेन शक्तिप्रयोज्यैवोपस्थितिहेतुरिति न लक्षणाज्ञाने कार्यकारणभावान्तरं ममापीति परास्तम् । प्रयोज्यत्वस्यानतिप्रसक्तस्य दुर्वचत्वाच्चेत्यादि विस्तरेण प्रपञ्चितं भूषणे ॥३७॥ दर्पणः भावः। *असम्भवदुक्तिकमिति । लक्षणाज्ञानस्य शक्तिविषयकत्वेऽपि तीरविषयकशक्तिग्रहात्मकत्वस्याभावादितिभावः। __ *एतेनेति । द्विविधवृत्तिज्ञानस्यैकरूपेण हेतुत्वासम्भवेन वक्ष्यमाणदूषणेन वेत्यर्थः । *शक्तिप्रयोज्येति । लक्षणाज्ञानस्य शक्तिज्ञानाऽधीनत्वेन तज्जन्योपस्थितौ शक्तिप्रयोज्यत्वसत्वान्न लक्षणावादिमते हेत्वन्तरकल्पनेत्यर्थः । *अनतिप्रसक्तस्येति । जन्यजन्यत्वस्य लक्षणाज्ञानजन्योपस्थिताविव विशेषणतावच्छेदकप्रकारकनिर्णयविधया शक्तिज्ञानजन्यशक्यवानित्याकारकविशिष्टवैशिष्टयावगाह्यनुव्यवसायात्मकोपस्थितावपि सत्त्वात्तद्विषयस्याऽपि शाब्दबोधापत्तिः। साक्षाज्जन्यत्वस्य तत्स्वरूपत्वे लक्षणाज्ञानजन्योपस्थित्यसङ्ग्रहः । उभयसाधारणस्य तस्य निर्वक्तुमशक्यत्वात् । स्वरूपसम्बन्धस्य तस्योभयसाधारण्यं तु सुतरां सम्भावितमिति भावः। अन्यथा सिद्धिनिरूपकतानवच्छेदकशक्तिज्ञानोत्तरवर्तितावच्छेदकधर्मवत्त्वरूपं शक्तिप्रयोज्यत्वमुभयसाधारणं सुवचमित्यन्ये । अधिकमग्रे वक्ष्यते । परीक्षा हस्तिपकोपस्थितेर्वृत्तिज्ञानजन्यत्वेऽपि उक्तधर्मानाक्रान्तत्वात्तत्तच्छाब्दबोधापत्तिः । *एतेन*-द्विविधवृत्तिज्ञानस्यैकरूपेण हेतुत्वासम्भवेन । *शक्तिप्रयोज्येति * । लक्षणाज्ञानस्य शक्तिग्रहपूर्वकत्वेन तत्प्रयोज्यत्वमव्याहतमिति भावः। *अनतिप्रसक्तस्येति । लक्षणाज्ञानजन्यपदार्थोपस्थितिमात्रनिष्टस्य । प्रयोज्यत्वस्य जन्यजन्यत्वरूपतया तस्य यथा लक्षणाज्ञानजन्योपस्थितिसाधारण्य तथा विषयतावच्छेदकप्र. कारकज्ञानविधया घटो घटपदशक्य इति ज्ञानानन्तरं जायमाने घटपदशक्यवद्भूतलमिति ज्ञानेऽपि सत्त्वादतिप्रसङ्गादिति भावः। एवं च तत्तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तत्तद्धर्मावच्छिन्नविषयकबोधजनकत्वप्रकारकज्ञानत्वेन कारणतेत्येतादृशकार्यकारणभावेनैव सामञ्जस्येन लक्षणाया वृत्त्यन्तरत्वमित्याकारको निगूढाभिप्रायः। __वस्तुतस्तु-तत्तद्वोधजनकत्वं तत्तच्छक्तत्वमिति न युक्तम् । एतद्रपशक्ते. आननिष्ठशाब्दबुद्धिकारणतानवच्छेदकत्वात् । स्वस्यावच्छेकत्वे आत्माश्रयात् । किञ्च प्रथम शक्तिग्रहो बालस्य प्रयोज्यप्रयोजकवृद्धव्यवहाराद्भवति । तथाहि-प्रयोजकवृद्धेन प्रयोज्यवृद्धं प्रति घटमानयेत्युक्तं तत्वतस्तस्य तस्माद्वाक्याच्छाब्दबोधे जाते घटमानयति । तत्पार्श्वस्थो बाल इदं घटानयनरूपं कार्य प्रयोज्यनिष्ठशाब्दबुद्धिप्रयोज्यमित्यनुमिनोति । ततोऽयं घटकर्मकानयनमिति बोधः, एतच्छाब्दप्रयोज्य इत्यवधार्य सम्बद्धघटादिशब्दस्य तत्तदर्थविषयकशाब्दबोधजनकत्वमनुपपन्नमित्यन्यथानुपपत्या तेष्वर्थेषु घटादिशब्दानां सम्बन्धं कल्पयतीति तान्त्रिकसरणिः। तत्र बोधजनकत्वानुपपत्या कल्प्यमानसम्बन्धस्य तत्तदर्थबोधजनकत्वरूपत्वेऽनवस्थापत्तिः, शक्तिनिश्चयानुपपत्या कालान्तरे घटोऽस्तीति वाक्याच्छाब्दबोधानुपपतिश्चेति Page #318 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः । २८९ दर्पणः अत्र वदन्ति - अर्थबोधजनकत्वस्य वस्तुतः पदनिष्ठस्य वाच्यवाचकव्यवहारनियामकशक्तित्वसम्भव एवोक्तकार्य्यकारणभावे गौरवलाघवादिचर्चा, न तु तस्य तद्रूपत्वसम्भवः । तथाहि — शाब्दबोधं प्रति वृत्तिज्ञानस्य हेतुतेति निर्विवादम् । सा च भवदुक्तार्थंधीजनकत्वस्य वृत्तित्वे न सम्भवति तद्रूपायास्तस्याः शाब्दधीजनकतायामनवच्छेदकत्वात्। आत्माश्रयेण स्वस्यैव स्वावच्छेदकत्वासम्भवात् । किञ्च प्रयोज्य प्रयोजकव्यवहारं दृष्ट्वा प्रयोज्यप्रवृत्त्यनुमिते प्रयोज्यघटानयनादिज्ञाने उपस्थितत्वाच्छाब्दस्यैव हेतुतायामवधार्यमाणायामसम्बद्धस्य कारणत्वानुपपत्त्या कल्प्यमानसम्बन्धस्य जनकत्वात्मकत्वासम्भवः । स्वयमनुपपद्यमानत्वेन गृहीतस्य ग्रहीतुमशक्यत्वात् । तस्मान्न बोधकत्वं शक्तिः । एवं न्यायमताभ्युपेताऽस्मात् पदादेतदर्थविशेष्यकबोधो भवत्वित्याकारकेश्वरेच्छाविषयत्वस्याऽपि सङ्केतीयगङ्गापदजन्यत्व प्रकारतानिरूपितबोधत्वावच्छिन्नोद्देश्यकता निरूपितविशेष्यत्ववृत्त्यवच्छेदक - ताधेयता सम्बन्धावच्छिन्नावच्छेदकत्वपर्य्यवसितस्य न शक्तित्वं, लक्षणोच्छेदापत्तेः । गङ्गापदात् तीरबोधोदयेन गङ्गापदात्तीरबोधो भवत्वितीच्छाया अपि भगवतः सम्भवात् । तादृशेच्छी यनिरुक्तावच्छेदकताया लक्ष्ये तीरेऽपि सम्भवात् । तादृशाऽवच्छेदकतात्वेन शाब्दे शक्तिज्ञानस्य कारणताकल्पने गौरवाच्च । तीरादिनिष्ठावच्छेदकतायाः पूर्वोक्तविशेष्यत्ववृत्त्यवच्छेदकता निरूपितत्वेऽपि न विशेष्यवृत्त्यवच्छेदकतात्वेन तन्निरूप्यत्वं किन्तु शुद्धाऽवच्छेदकतामात्रेणेति न तादृशशक्तिस्तीरे इति तु शिष्यप्रतारणामात्रम् । इच्छाविषयत्वं ज्ञानविषयत्वं वा शक्तिरिति विनिगमनाविरहाच्च । तस्मात् पदपदार्थयोर्वाच्यवाचकभावव्यवहारनियामकः सम्बन्धः पदार्थान्तरमेव । तस्य च लक्ष्यव्यावृत्तस्यव धर्मिग्राहकमानसिद्धत्वाल्लक्ष्यबोधार्थं शक्यसम्बन्धरूपलक्षणावृत्तेरपि स्वीकार आवश्यकः । तज्ज्ञानस्य शाब्दबोधे हेतुत्वान्तरकल्पप्रयुक्त गौरवं तु फलमुखत्वान्न दोषावहम् । अन्यथाऽनुपपत्तेश्च । अत एव शक्यलक्ष्यव्यवहारः स्वरसतः सङ्गच्छते । अथवा शक्तिलक्षणाज्ञानयोः शाब्दरूपं प्रत्येकरूपेणैव हेतुता । तथाहि - तच्छाब्दं प्रति शक्तित्वाऽवच्छिन्नसांसर्गिक विषयता निरूपितपदनिष्ठप्रकारतानिरूपिततदर्थविपरीक्षा शक्तिस्तद् भिन्नैव स्वीकार्या । किञ्चास्य चैत्रस्य तमः पदचन्द्रपदयोः कचमुखविषयकबोधजनकत्वग्रहः पूर्व नास्ति तं सखायं प्रति देवदत्तेन विपरीतरतिसमकालिकनायिकावृत्तान्तकथनकाले तमसा चन्द्रस्तिरोहित इत्युक्तम्, तच्छ्रुत्वा चैत्रस्य विशिष्टबुद्धिमत्त गौण्या वृत्या कचभरेण सुखमाच्छादितमिति ग्रहो भवति । यदि लक्षणावृत्तिर्नाभ्युपेयते, तदा तमश्चन्द्रशब्देऽप्येककच भरवदनविषयक बोधजनकत्वग्रहस्तस्य चैत्रस्य नास्तीति तस्य कचभरवदनविषयकशाब्दबोधानुपपत्तिरिति न लक्षणाया अर्थबोधजनकत्वस्य त्ववृत्तित्वस्वीकारेण खण्डनं भवति । तस्मात्पूर्वोक्तरीत्या तस्माच्छब्दादयमर्थो बोद्धव्य इति सङ्केत एव शक्तिः । लक्ष्यदावतिप्रसङ्ग परिहारः प्रागुक्तरीत्या कार्यः । लक्षणाऽपि वृत्यन्तरम् । सा च लक्षणा द्विविधा । गौणी शुद्धा च । तत्र गौण्याः स्वरूपं ३७ द० प० Page #319 -------------------------------------------------------------------------- ________________ २९० दर्पणपरीक्षासहित भूषणसारे दर्पणः शेष्यताकज्ञानत्वेन हेतुता। शक्तिसम्बन्धेन, शक्यसम्बन्धेन वा पदप्रकारकज्ञाने शक्तेः संसर्गत्वात् । शक्तित्वनिष्ठावच्छेदकतायां पर्याप्तेरनिवेशेन शक्यसम्बन्धसंसर्गकज्ञानस्यापि तेन क्रोडीकरणात् । परन्तु पदनिष्ठप्रकारतानिरूपिततादृशसांसर्गिकविषयतायामर्थविशेष्यतानिरूपितत्वाऽनभ्युपगमान्न शक्तिसम्बन्धेन पदाऽभावप्रकारकबुद्धिप्रतिबध्यत्वं लक्षणाज्ञानस्य। ___"इन्द्रियाणाम्" इत्यादिहरिपद्यस्य त्वयमर्थः-इन्द्रियाणां चाक्षुषादिविषयेषु घटादिषु पुरुषप्रयत्नाऽनपेक्षा यथा योग्यता तदीयचाक्षुषादिकारणतावच्छेदकरूपास्ति; तथाऽर्थः साकमपि पदानां सम्बन्धो योग्यता तच्छाब्दबोधजनकताऽवच्छेदकधर्मो, न तु जनकत्वमेवोक्तयुक्तेरिति न तद्विरोधोऽपीति सर्वमनवद्यमिति ।। तग्राहकं च व्याकरणस्मृत्यादि । तदुक्तम् शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याव्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सानिध्यतः सिद्धपदस्य वृद्धाः ॥ इति । तत्र व्याकरणादिकं लाघवसहकृतमेव शक्तिग्राहकमिति नैयायिकमतम् । यतो लाघवसहकृतेन, "लः कर्मणि" (पा० सू० ३।४।६९) इति सूत्रेण कृतावेव शक्तिः परिच्छिद्यते, न तु कर्तरीति यथैतत्तथोक्तम् । एवं "गुणे शुक्लादय” इति कोशेनापि लाघवसहकृतेन गुणे एव शक्तिनिर्धार्यते न तु गुणिनि गौरवात्। गुणिबोधस्तु शुक्लादिपदेभ्यो निरूढलक्षणयैवेति च तदुक्तेः निरूढत्वं च प्राङ्निरुक्तम् ।। उपमानस्य तु सादृश्यज्ञानात्मकस्याऽतिदेशवाक्यार्थस्मृतिद्वारा गवयादिर्गवया. दिपदवाच्य इति शक्तिपरिच्छेदकत्वम् । इदमेतद्वाचकमित्याकाराऽऽप्तवाक्यादपि तद्ग्रहः । आप्तत्वं च तदर्थविषयकयथार्थज्ञानवत्त्वम् । व्यवहाराद् यथा प्रयोजकवृद्धेन घटमानयेत्युक्ते प्रयोज्यवृद्धेनाऽऽनीते घटे पार्श्वस्थो, घटकर्मकानयनादिकार्य घटकर्मकानयनादिज्ञानसाध्यमित्यनुमिमीते। व्यवहारे व्यवहर्त्तव्यज्ञानस्य हेतुत्वात्। अनन्तरं तद्धतुजिज्ञासायामुपस्थितं तद्वाक्यमेव तद्धेतुत्वेनाऽवधारयति । तस्य चाऽर्थासम्बद्धस्य तद्धेतुत्वानुपपत्त्यार्थेन साकं पश्चादू वाक्यस्य सम्बन्धमवधारयति । सैव शक्तिरिति व्यवहियते। परीक्षा प्रागुक्तम् । शुद्धा द्विविधा उपादानरूपा, लक्षणारूपा च । ऐक्यार्थापरित्यागेनेतरार्थोऽप्यस्तीति जनिका उपादानलक्षणा, इयमेवाजहत्स्वार्थेत्युच्यते। तदपरित्यागश्च येन केनापि रूपेण लक्ष्यार्थान्वयिनान्वयित्वम् । यथा क्षत्रिणो यान्तिः कुन्ताः प्रविशन्ति, काकेभ्यो दधि रक्ष्यतामित्यादौ, आद्ये क्षत्रियशब्दस्यैकसार्थवाहित्वावच्छिन्ने, द्वितीये कुन्तशब्दस्य कुन्तधरे, तृतीये-काकशब्दस्य दध्युपघातके लक्षणा। ___ शक्यार्थपरित्यागेनैतदर्थविषयबोधजनिका लक्षणा इयमेव जहत्स्वार्थत्युच्यते । तत्परित्यागश्च शक्यार्थस्य येन केनापि रूपेण लक्ष्यार्थान्वयिनानन्वयित्वम् । यथा 'गङ्गायां घोषः' इत्यादौ गङ्गापदादेस्तीरलक्षणायाम्। यत्तु-शक्यार्थविषयिताशून्यलक्षार्थविषयबोधजनिका जहत्स्वार्थेति। तन्न । गां वाहीकमानयेत्यत्र गामित्यस्य गोशब्दे लक्षणायामतिव्याप्तः। Page #320 -------------------------------------------------------------------------- ________________ शक्तिनिर्णय दर्पणः यद्यपि प्रथम तेन वाक्यस्य वाक्यार्थेऽवधारितः सः, तथापि घट नय गामानयेत्यावापोद्वापाभ्यां पश्चाज्जातप्रत्येकपदशक्तिग्रहेण प्राग्जातवाक्यशक्तिग्रहे चन्द्रा. देयोतिःशास्त्राध्ययनजन्यशतयोजनादिपरिमाणग्रहेण पाश्चात्येन प्राथमिकाल्पपरिमा. णग्रह इवाऽप्रामाण्यं गृह्यते इति नैयायिकाः। प्रत्येकपदशक्तिग्रहेणैवाकाङ्क्षादिसहकृ. तेन वाक्याऽर्थबोधोपपत्तिरिति तदाशयः । ___अन्ये तु-वाक्याऽर्थशक्तिग्रहस्य प्रत्येकपदशक्त्युपजीव्यत्वात्तेनैतद्वाधासम्भषेन प्राग्जातशक्तिग्रहस्यैव बलवत्वमित्याहुः । वाक्यशेषात्तु “यवैर्जुहोति" इत्यत्र-यवपदस्य दीर्घशूकविशिष्टे आर्याणां प्रयो. गात् 'कङ्गौ म्लेच्छानां प्रयोगात्' क शक्तिरिति सन्देहे, “यत्राऽन्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति" इति वाक्यशेषेण दीर्घशूकविशिष्टे तन्निर्णयः। विवरणस्य यथा शक्तिप्राहकत्वं तथा धात्वर्थनिरूपणे उक्तम् । “इह सहकारतरौ मधुरं पिको रौति" इत्यादौ प्रसिद्धसहकारादिपदसन्निधानात् पिकादिपदानां कोकिलादौ शक्तिःपरिछिनत्तिरिति । सैषा शक्तिर्नानार्थेषु संयोगादिना नियम्यते । तदुक्तं काव्यप्रकाशे संयोगो विप्रयोगश्च साहचवें विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्याऽन्यस्य सन्निधिः ॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति ॥ शब्दाऽर्थस्याऽनवच्छेदे सन्देहे तन्निरासद्वारा विशेषनिर्णयस्य जनकाः संयोगादय इति तदर्थः। शक्योपस्थितानामनेकेषामेकतरमात्रार्थतात्पर्य्यनिर्णयद्वारा तत्तदर्थबो. धजनकत्वं तेषामिति भावः। तत्र सवत्सा धेनुरवत्सा धेनुरिति क्रमेण संयोगविप्रयोगयोरुदाहरणे । साहचर्यम्सादृश्यम् , सदृशयोरव प्रायशः सहप्रयोगात् । एवञ्च रामलक्ष्मणावित्यादावुभयो - नार्थयोर्युगपदेव साहचर्य्यग्रहाधीनतात्पर्यग्रहेण विशेषाऽवगतिरिति नान्योन्याश्रयः। 'रामार्जुनगतिस्तयोः' इत्यादौ विरोधेन सा 'अञ्जलिना जुहोति' 'अञ्जलिनादित्यमुपतिष्ठते, इत्यादौ धात्वर्थवशातत्तदाकाराऽजलिपरत्वम् । 'सैन्धवमानय' इत्यादी परीक्षा पुनरिमं द्वित्रिरूढा स्वारसिका चेति । प्रयोजनाभावेऽपि शक्यार्थान्वयबाधग्रहानन्तरमन्यार्थस्य लक्षणया बोधस्तत्र निरूढलक्षणा । यथा त्वचा ज्ञानमिति वाक्यघटकस्य त्वक्शब्दस्य त्वगिन्द्रिये । एवं कुशलप्रवीणादिशब्दानाम् । प्रयोजनवती तु कुन्ताः प्रविशन्ति गङ्गायां घोष इत्यादौ च । आद्य-भीतिपलायमानवाक्ये कुन्तपदस्य कुन्तसंयुक्तपुरुषे लक्षणायां कुन्तगततैक्ष्ण्यप्रतीतिः प्रयोजनम् । गङ्गायां घोष इत्यादौ तु शत्यपावनत्वस्य तीरे प्रतीतिः प्रयोजनम् । लक्ष्यतावच्छेदके तु न लक्षणा, नचैवं तस्य शब्दबोधे भान न स्यादिति वा. च्यम् ? तद्धर्मावच्छिन्ने शक्यसम्बन्धस्य ग्रहस्य तद्धर्मावच्छिन्ने पदार्थान्तरमन्यप्रयोजकत्वकल्पनेन तद्भाननिर्वाहात् । लक्ष्यतावच्छेदके लक्षणा नास्तीति प्रवादो Page #321 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे दर्पणः तु, भोजनादिरूपप्रकरणेन सा । 'अक्ताः शर्करा उपदधाति' इत्यादौ 'तेजो वै घृतम्। इत्यादिस्तुतिरूपाल्लिङ्गादक्तपदस्य घृतसाधनाञ्जने तात्पर्यावगतिः। 'रामो जामदग्न्य' इत्यादौ जामदग्न्यपदसन्निधानेन रामपदस्य परशुरामपरता। एवम् 'अभिरूपाय कन्या देया' इत्यत्राभिरूपतरायेति सामर्थ्यादवगम्यते । 'यश्च निम्बं परशुना' इत्यत्रौचित्यात् परशुपदस्य छेदनाऽर्थत्वम् । 'भात्यत्र परमेश्वर' इत्यत्र राजधानीरुपदेशात् परमेश्वरपदस्य राजपरत्वम् । चित्रभानु ति' इत्यत्र चित्रभानुपदं रात्रौ वन्हेर्दिवा सूर्यस्य बोधकम् । 'मित्र भाति' 'मित्रो भाति' इत्यादौ व्यक्तः-लिङ्गादाद्ये सुहृदोऽन्त्ये सूर्यस्य बोधक मित्रपदम् । 'स्थूलपृषतीमनड्वाहीम्' इत्यत्र स्वरात् तत्पुरुषबहुव्रीह्यर्थनिर्णयः । आदिपदात् षत्वणत्वादि। यथा 'सुसिक्तम्' इत्यत्र सुशब्दस्य कर्मप्रवचनीयस्य पूजाऽ. र्थकत्वं, सुषिक्तमित्यत्रोपसर्गस्यान्याऽर्थकत्वम् । एवं 'प्रणायक' इत्यत्र णत्वात् प्रणयनकर्तबोधः । 'प्रनायक' इत्यत्र तदभावात् प्रगतनायकबोध इत्याचूह्यम् । ___यत्तु पदपदार्थयोर्योऽर्थः स शब्दो यः शब्दः सोऽऽर्थ इतीतरेतराऽध्यासमूलकतादात्म्यं भेदव्यापृक्तमस्ति । "तस्य वाचकः प्रणवः" 'ओमित्येकाक्षरं ब्रह्म' इति भेदाभेदयोर्दर्शनात् । आये भेदस्योद्भूतत्वविवक्षया षष्ठी, अभेदस्योद्भूतत्वविवक्षयाः त्वन्त्ये प्रातिपदिकाऽर्थे प्रथमा । स एव सम्बन्धः पदतदर्थयोर्वाच्यवाचकभावव्यवहारनियामकः । शक्तिस्तु सङ्केतः पदार्थाऽन्तरं वेति भट्टानुयायिमतम् । तत्तु न साधीयः। अध्यासमूलकस्याऽसतस्तस्य सम्बन्धत्वासम्भवात् । भेदाभेदयोः परस्पराभावरूपतया विरुद्धत्वेनैकत्रासम्भवाच्च । कस्यचित् तथाऽध्यासस. म्भवेऽपि सर्वेषां तथाध्यासे मानाभावात् । घटपदनाशेऽपि घटस्योपलभ्यमानतया तयोस्तादात्म्यस्यासम्भवदुक्तिकत्वाच्च ।। ... न च पाकरक्ते प्राक् श्यामेऽपि पाकोत्तरमयमिदानीं न श्याम इति प्रतीते दाभेदौ न विरुद्धाविति वाच्यम् । अव्याप्यवृत्तीनां तेषामेकाऽवच्छेदेन विरोधानपायात् । अत एव तत्र देशकालावच्छेदकभेदेनैव 'अयमिदानीं न श्यामो' 'वृक्षो मूलेन कपिसंयोगी' इति न तु तदनवगाहिनी-घटोऽयं न श्यामो वृक्षो न कपिसंयोगीति प्रतीतिः । किन्त्वभेदवादे घटपदनाशे घटनाशापत्तिः, एवं शब्दवर्थस्यापि श्रोत्रेन्द्रियग्राह्यतायाः शब्दस्य चक्षुरादीन्द्रियग्राह्यतायाश्चापत्तिरिति बहुव्याकोपः । शब्दस्य यथा न नित्यत्वं तथा वक्ष्यते । परीक्षा निर्मल एव इति तु न, शक्यसम्बन्धो हि लक्षणा, स च सम्बन्धः साक्षादेव गृह्यते नतु परम्परासम्बन्धः। अत एव प्रकाशकृता प्रयोजनं न लक्ष्यं सम्बन्धाभावादित्युक्तम् । अत्र प्रयोजनशब्दः प्रयोजनया प्रतीतिस्तद्विषयलाक्षणिकः । लक्ष्यतावच्छेदक हि परस्परासम्बन्धस्यैव सम्भव इति । नच परम्परासम्बन्धो हि लक्षणेति स्वीकारे द्विरेफपदस्य वाच्यं यद्रेफद्वयं तद्घटिते भ्रमरपदे तद्वाच्यत्वरूपपरम्परासम्बन्धमादाय मधुव्रते लक्षणा न स्यादिति वाच्यम् ? इष्टापत्तेः, द्विरेफपदं रथन्तरपदवढ्या मधुव्रतोत्थापकमित्यस्वीकारात् । वृत्तिज्ञानजन्योपस्थितिःका Page #322 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः। . 'दर्पणः नचाऽत्यन्तभेदे घटः पटोऽत्यन्ताऽभेदे घटो घट इति सामानाधिकरण्यादर्शना दाभेदवादोपपत्तिरिति शङ्कयम् । 'शब्दो घट' इत्याद्यननुभवात् 'घटोन शब्दो', 'घटो न घट' इत्याद्यनुभवाच्च भेदस्यैव सिद्धेः । 'ओमित्येकाक्षरम्' इत्यादौ त्वक्षरपदस्य तत्प्रतिपाद्ये निरूढलक्षणया सामानाधिकरण्योपपत्तेस्तद्वाक्यस्योपासनाकाण्डस्थतया भेदेऽप्यभेदोपासनपरतयोपपत्तेश्चेत्यन्यत्र विस्तरः। __सा च शक्तिस्त्रिधा-योगो, रूढियोगरूढिश्चेति । प्रकृतिप्रत्ययनिरूपिता तत्तदर्थे या शक्तिः स योगस्तन्मात्रेणार्थबोधकं पदं यौगिकमिति व्यवहियते । यथा पाचकादिपदम् । तद्घटकधातुप्रत्यययोः पाकादौ कर्नादिकारके च व्युत्पन्नत्वात् । अक्यवार्थाप्रतीतौ केवलसमुदायस्य तत्तदर्थे या शक्तिः सा रूढिस्तयार्थबोधकं पदं रूढम् । यथा मणिनूपुरादि । अश्वगन्धादिपदात्तु कदाचिदोषधिनिष्ठसमुदायनिरूपितशक्त्यौषधिबोधः । कदाचित्तु अश्वस्य गन्धोऽस्यामिति व्युत्पत्त्या वाजिशालादिबोधोऽवयवशक्त्येति यौगिकरूढिः पृथङ्नोक्ता। उक्तयोरेवान्तर्भावात् । "रूढिर्योगापहा. रिणी' इति तु प्रकरणाद्यभावे लाक्षणिकं तद् । वाजिशाला बोधे इत्यपरे । ___ यत्रावयवार्थसहकृता समुदायशक्तिरर्थबोधिका सा योगरूढिस्तयार्थबोधकं पदं योगरूढम् । यथा पङ्कजादिपदम् । तत्र पङ्काधिकरणकोत्पत्त्याश्रयपद्मत्वविशिष्टबोधाद अनुपपत्तिप्रतिसन्धान विनापि पद्मबोधान्न तत्र लक्षणावसर इत्यादिप्रपञ्चितं पूर्वमेव । ___'गङ्गायां घोष' इत्यादौ गङ्गापदस्य तीरे शक्यसामीप्यरूपलक्षणाग्रहे तदाऽऽहित. संस्कारजन्यतीरादिस्मृत्या तीराधिकरणकघोषशाब्दबुद्धिः । लक्ष्यव्यवहारान्यथानुपपत्त्या लक्षणाया अप्यवश्यमभ्युपेयत्वात्। अन्वयाऽनुपपत्तिप्रतिसन्धानं च तत्कल्पने बीजम् । यथोक्ते क्वचिन्निराकाङ्क्षत्वमपि तदबीजम् । यथा “वदनं तस्या वदनं मुखममुखं भाति चान्यासाम्" इत्यत्र तादात्म्यसम्बन्धावच्छिन्नवदनत्वावच्छिन्नप्रकारतानिरूपितवदनत्वावच्छिन्नविशेष्यताको बोधो न सम्भवति । तादात्म्यसम्बन्धावच्छिन्नतादृशप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धौ विधेयताऽवच्छेदकभेदस्य तन्त्रत्वादिति वदनत्वावच्छिन्नार्थकवदनपदनिरूपिताकाङ्क्षा न वदनपदेऽतस्तत्र वदनपदं लक्षणयाऽऽल्हादकपरम् । तदुपस्थितालादकत्वाऽवच्छिन्नास्याभेदान्वयो वदने अनुशासनबोधितनैराकाङ्यमपि कचित्तथा । यथा- . कृतसीतापरित्यागः स रत्नाकरमेखलाम् । .. बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ . परीक्षा रणम् , वृत्तित्वञ्च-पदार्थोपस्थित्यनुकूलज्ञानविषयपदपदार्थसम्बन्धत्वमेव। अत्र पदार्थों पस्थित्यनुकूलत्वं परिचायकम् , नतु विशेषणमिति बोध्यम् । यथा शक्तिलक्षणान्यतरस्य वृत्तिरूपसम्बन्धत्वं तथा व्यञ्जनापि पदार्थोपस्थित्यनुकूलत्यपि वृत्तिः, परन्त्वयं विशेषः-शक्तिलक्षणावदियं न ज्ञानाय पदार्थोपस्थितिहेतुः। किन्तु स्वसती व्यंग्योपस्थितिप्रयोजिका । अत्र मुख्यार्थबाधग्रहस्यानापेक्षा, अनया च मुख्यार्थसम्बन्ध एवार्थ उपस्थाप्यत इति तु न । अत एव मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसम्बन्धासम्बन्धसाधारणप्रसिद्धाप्रसिद्धार्थविषयकवक्त्रादिवैशिष्टयज्ञानप्रतिभागुबुद्धसंस्कार Page #323 -------------------------------------------------------------------------- ________________ २९४ दर्पणपरीक्षासहिते भूषणसारे - दर्पण: इत्यत्र भुजिधातोरवनवा च कादात्मनेपदनिराकाङ्क्षतया वाच्यार्थ बुद्धौ प्रतिबद्धायां तद्धातुना स्वार्थपालनसम्बन्धिशासनं लक्ष्यते । आत्मनेपदसमभिव्याहृतभुजत्वावच्छेदेनाऽऽख्यातबोध्यकर्त्रन्वितपालनबोधस्वरूपाऽयोग्यत्वरूपनैराकाङ्क्षयस्य "भुजोऽनवने" (पा०सू० १।३।: ६) इति सूत्रेण बोधनात् । तत्र केवलपदेन तात्कालिकरामाभिन्नपृथिवीपालकर्त्तकभोगकर्मनिष्ठाऽन्योन्याऽभावप्रतियोगिताऽनवच्छेदकैकत्वयोगिनी व्यक्तिरभिधीयते । एवकारेण पृथिव्यन्ययोगव्यवच्छेदः । एवञ्च तत्कालिकरामाभिन्नपृथिवीपालनकर्त्तकभोगकर्मनिष्ठान्योन्याभावप्रतियो गितानवच्छेदकैकत्वविशिष्टाभिन्नपृथिवीकर्मकभोगकर्त्ता पृथिव्यन्यस्त्रीकर्म कभोगाकर्त्ता - रामाभिन्नः पृथिवीपाल इति न्यायनये वाक्यार्थबोध: । 'द्विरेफो मधुरं रौति' 'पिकः कूजति कानने' इत्यादौ तु मुख्यार्थबाध एव लक्षणाबीजम् । किन्तु सा लक्षितलक्षत्युच्यते । लक्ष्यसमासार्थ रेफद्वयविशिष्टघटितत्वात्तस्याः । तथाहि — येन पुरुषेण द्विरेफादिपदस्य प्राणिविशिष्टे शक्तिर्न गृहीता, किन्तु द्वौ रेफौ यत्रेति व्युत्पत्त्या रेफद्वयसम्बन्धिभ्रमरपदे शक्यसम्बन्धरूपलक्षणा गृहीताः तस्य प्राणिविशेष विशेष्यकमधुरारावकर्त्तृत्वशाब्दबोधस्य तात्पर्य्यविषयस्यानुपपत्त्या द्विरेफपदात् स्वलक्ष्यरेफद्वयघटितपदवाच्यत्वलक्षणयोपस्थिते प्राणिविशेषे मधुराऽऽरावकर्त्तत्वान्वय इति द्विरेफपदेन भ्रमरपदमुपस्थाप्यते । तेन च प्राणिविशेषोपस्थितिरिति तु न सम्यक् । प्रत्ययानामिति व्युत्पत्तेस्तत्र प्रत्ययार्थान्वयाऽसम्भवात् । भ्रमरपदे लक्षणायामपि न तेन तदुपस्थितिरुच्चरितस्यैवाऽर्थप्रत्यायकत्वादित्यण्याहुः । एवं “पिकः कूजति कानने" इत्यादावपि बोध्यम् । एवम् - गङ्गा हरति वै पुंसां दृष्टा पीताऽवगाहिता । इत्यत्र पीता गङ्गा पापं हरतीति वाक्ये गङ्गापदात् स्वशक्य प्रवाहाऽवयवाऽवयविभावसम्बन्धरूपलक्षणाग्रहाऽऽहितसंस्कार सहकृतादुपस्थितोदूष्टतजले पानकर्मत्वाऽन्वयः । तात्पर्य्याऽनुपपत्तिरेव वा सर्वत्र लक्षणाबीजम् । तदुन्नायकत्वेनैवोक्तनैराकायादीनामुपयोगः । अत एव यष्टीः प्रवेशयेत्यादौ यष्ट्यादिपदानां तद्धारणकर्त्तरि क्षणा | यष्टिषु प्रवेशकर्मत्वाऽन्वयानुपपत्त्यभावेऽपि भोजनादिप्रकरणोन्नीततात्पर्य्यविषय भोजनप्रयोजनकप्रवेशकर्मत्वानुपपत्तेस्तत्र जागरूकत्वात् । एवं 'कुन्ताः प्रविशन्ति' 'छत्रिणो यान्ति' इत्यादावप्यूह्यम् । ननु च्छत्रिशब्दस्य पदद्वयघटितत्वेन वाक्यतया न्यायनये कथं तस्य लक्षणा, शक्याप्रसिद्धेः । किञ्चाऽत्र नैकसार्थगन्तृत्वं लक्ष्यतावच्छेदकम् । यान्तीत्यस्यानन्वया परीक्षा विशेषो व्यञ्जनेत्यस्याः स्वरूपमन्यैरुक्तः द्योतनायैव । अनया बोधको निपातो द्योतक इत्युच्यते । एतत्प्रयोजिका जन्मान्तरगृहीता शक्तिः निपातानां स्त्रीप्रत्ययानामन्येषां च द्योतकताः स्फोटस्य व्यङ्ग्यता च भाष्यकारादिसम्मतेति । वैयाकरणमतेऽप्येषास्ति । एषा च शब्दशक्तिमूला लक्षणामूला व्यञ्जनामूलेति त्रिधा । अस्या अयमपरो विशेषः । शक्तिलक्षणा च शब्दार्थयोरेव सम्बन्धः । ताभ्यां बोधकयोः शक्तेर्लाक्षणिक Page #324 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः। २९५ दर्पणः पत्तेः । गन्तृत्वेनोपस्थितस्य गमनाकाङ्काविरहादिति चेत् ? सत्यम् । सम्बन्धिशक्तमतुप एव तत्रैकसार्थसम्बन्धिलक्ष्यकत्वाभ्युपगमेनोक्तदोषद्वयस्याप्रसक्तेः । न चं छत्रपदवैयर्थ्यम् । तस्य तात्पर्य्यग्राहकत्वेन सार्थक्यात्। 'लाक्षणिकं पदं नाऽनुभावकम्' इति सम्प्रदायः । स्वशक्याऽनुभवं प्रत्येव पदानां कारणत्वम् । इतरपदार्थेन सह स्वशक्याऽनुभावकत्वेन क्लृप्ताद् घोषादिपदादेव तीराऽनुभवोपपत्तेर्न शक्याशक्योपस्थितिर्लक्षणेत्यभ्युपगच्छतां मते स्वजन्योपस्थितिसम्बन्धेनैव पदस्याऽनुभावकतया तस्याश्च तीरादावभावात्तस्याऽननुभावकत्वमिति तन्मूलम् । न च तत्सम्भवति । शक्योपस्थितात्तीरादेरप्रकृत्यर्थतया तत्र प्रत्ययार्थान्वयासम्भवात्। ___ वस्तुतस्तु लाक्षणिक पदमुद्देश्यविधेयभावेनान्वयाजनकमित्येव तदर्थः । उद्देश्यविधेयभावेनान्वये शक्तिमत्त्वस्यैव तन्त्रत्वात् । अत एव "न विधौ परः शब्दाऽर्थः" इति सङ्गच्छते । किञ्च तन्तुसंयोगहेतुत्वतात्पर्यकं, 'तन्तुः पटं जनयति' इति सर्वलाक्षणिकवाक्येऽन्वयाऽनुभवाऽपलापाऽऽपत्तेर्लाक्षणिकपदस्यानुभावकत्वमेव न्याय्यम् । गङ्गापदात्तीरमनुभवामीति प्रतीतेश्च तादृशप्रवादे नाभिनिवेष्टव्यम् । ___ ननु 'स्वायत्ते शब्दप्रयोगे किमित्यवाचकं पदं प्रयोक्ष्यामह' इति न्यायात्तीराद्यवाचकगङ्गादिपदाऽभिधानमनुचितम् प्रयोजनजिज्ञासायां पावनत्वादिप्रतिपत्तये तदिति यदि, तर्हि वृत्तिं विना तस्य शब्दे भानासम्भवात्तदर्थ व्यञ्जनावृत्तिरपि तृतीयाऽङ्गीकरणीया । अत एव अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम् । तिष्ठन्ति चपला यत्र स कालः समुपागतः॥ इत्यत्राऽशक्तानां श्रियमपहृत्य पुंश्चल्यो जलवाहकैः साकमरमन्त इत्यतात्पयविषयरूढ्यर्थाऽनालिङ्गितार्थाऽन्तरस्यापि प्रतीतिः सा चार्थद्वारिकाऽपि। "भ्रम धार्मिक विश्रब्धं स शुनकोऽद्यमारितस्तेन । गोदातीरनिकुञ्जप्रतिष्ठितनिसर्गदृप्तसिंहेन"॥ इत्यादौ प्रतिभाजुषां सहृदयानां वक्तृबोद्धव्यवैशिष्टयस्फूर्ती सिंहप्रतीत्यनन्तरं गोदातीरे श्वभीरुभ्रमणायोग्यत्वप्रत्ययादिति चेद् ? न । __ रूढ्यर्थानालिङ्गिताऽर्थस्य केवलयोगेन प्रतीत्यसम्भवेऽपि लक्षणया तस्याः सूपपादत्वात्। पावनत्वादिप्रतीतिर्विशिष्टलक्षणयाऽपि शुद्धलक्षणयैव अनुपपत्तिपरिहारे विशिष्टे तदभ्युपगमे बीजाऽभाव इति तु न । 'यष्टीः प्रवेशय' इत्यत्रेवात्रापि तदनापत्तेः । वाच्यार्थवैयञ्जनिकबुद्धरनुमानेनापि गतार्थत्वाच्च । वस्तुतस्तु गालिप्रदानादेरिवेतोऽपि तथा तात्पर्य्यमेवोन्नीयते, न त्वन्वयबोधोऽ. नुमितिर्वा । बाधे व्यभिचारपक्षधर्मतयोः सन्देहे वा तयोरसम्भवात्तत्रैव तैय॑ञ्जनो परीक्षा इति व्यवहारः । व्यञ्जना तु शब्दार्थविशेषतया बोधकशब्दो व्यञ्जक इत्युच्यते । एवं त्रिविधस्याप्यर्थस्यान्यार्थबुद्धिजनकत्वं व्यञ्जनयेति । अर्थोऽपि व्यञ्जक इत्युच्यते । शक्त्या शब्देन लक्षणया वार्थविषयकशाब्दबोधे जाते व्यञ्जनमर्थान्तरस्फूर्ती तद्विषयकोऽपि बोधः। शाब्दबोध एव शब्दादमुमर्थ प्रत्येमीति । लोकानां स्वारसिकव्य Page #325 -------------------------------------------------------------------------- ________________ २९६ दर्पणपरीक्षासहिते भूषणसारे नन्वेवं भाषादितो बोधदर्शनाद् बोधकतोरूपा शक्तिस्तत्रापि स्यात् । तथाच साधुताऽपि स्यात् । शक्तत्वस्यैव साधुताया व्याकरणाधिकरणे प्रतिपादनादित्याशङ्कां द्विधा समाधत्ते असाधुरनुमानेन वाचकः कैश्चिदिष्यते। वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥३८॥ असाधुः गाव्यादिरनुमानेन साधुशब्दमनुमाय, वाचको बोधककैश्चिदिष्यते । तथाच लिपिवत्तेषां साधुस्मरण एवोपयोगो, न तु साक्षोत्तद्वाचकत्वमतो, न साधुत्वमिति भावः। उक्तं हि वाक्यपदीयेते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः । दर्पणः ल्लासाऽभ्युपगमादित्यन्यत्र विस्तरः। यदि पुनराऽनुभाविको लोकानां स्वरसवाही शब्दादमुमर्थ प्रत्येमीति प्रत्ययस्तदा व्यञ्जनावृत्तिरप्रत्यूहैवेति ॥ ३७॥ __स्वोक्तनिष्कृष्टमतमेवावलम्ब्य मूलमवतारयति--*नन्विति । एवम्बोधकत्वस्यैव शक्तित्वे । *तत्रापि*--अपभ्रंशात्मकभाषायामपि। *स्यादिति। तस्या अपि बोधकत्वादीश्वरेच्छादीनां शक्तित्ववादिनां तु नाऽयमतिप्रसङ्ग इति भावः। इष्टापत्तावाह-*तथाचेति । "नाऽपभ्रंशितवै” इत्यादिनिषेधविधिविषयत्वानापत्येष्टापत्तेः कर्तुमशक्यत्वादिति भावः । द्विधेति । अपभ्रंशानामुक्तशक्तिमत्त्वाऽभावव्यवस्थापनेन साधुत्वस्याऽन्यथा निर्वचनेन चेत्यर्थः। मूले, *अनुमानेन वाचक इति । अनुमानमत्र स्मृतिः। अनु. पश्चान्मानमितिरिति व्युत्पत्तेर्न तु व्याप्तिज्ञानम् । तच्छ्न्यानामपि शाब्दबोधदर्शनात्। गव्याधऽपभ्रंशानां गवादिशब्दविकृतित्वेनोबोधकविधया झटिति प्रकृतिस्मारकत्वादित्याशयेन व्याचष्टे-*अनुमानेन साधुशब्दमिति । *अनुमायेति । स्मृत्वेत्यर्थः । वक्ष्यति च-'तेषां साधुस्मरण एवोपयोग' इति । अपभ्रंशानां साक्षाबोधकता तु न, शब्दजनकसाधुत्वस्याभावादसाधुत्वज्ञानस्य प्रतिबन्धकत्वाद्वेति भावः । तत्र हरिसम्मतिमाह-*उक्तं हीति* । *ते*-अपभ्रंशाः। साधुष्विति विषयसप्तमी साधुविषयकस्मरणेनेत्यर्थः । *प्रत्ययेति । गवाद्यर्थबोधकारणानीत्यर्थः । पक्षान्तर परीक्षा वहारात् । सच क्वचिद्वितीयः। क्वचिदादावेव, तद्विषयकोपस्थितावेक एव शाब्दबोधः, अनुभूयते सुखमित्यादौ यथैतेषामुदाहरणानि काव्यप्रकाशादौ स्फुटानि ॥३७॥ नन्वेवमिति । अर्थबोधजनकत्वस्यैव शक्तित्वे तत्रापि भाषाशब्देऽपि अनु. मानेन, अनुपश्चान्मानमिति व्युत्पत्या अनुमानपदमत्र स्मृतिपरम् । *अनुमाय*स्मारयित्वा। *बोधक इति*--एवं चार्थबोधकत्वमेव चेच्छक्यत्वम् , तदा तेष्वति. प्रसङ्ग इति भावः । *असाधुरनुमानेनेत्यस्य*-यद्यपीत्यादिः, नतु साक्षाद्वाचकस्वम् । *साधुष्विति । *ते*-असाधवः । साधुष्विति सप्तम्यर्थो विषयत्वम् । Page #326 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः । .. तादात्म्यमुपगम्यैव शब्दार्थस्य प्रकाशकाः। न शिष्टैरनुगम्यन्ते पाया इव साधवः। ते यतः स्मृतिमात्रेण तस्मात् साक्षादवाचकाः॥ अम्बाऽम्बेति यदा बालः शिक्ष्यमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥ इति । नन्वपदंशानां साक्षावाचकत्वे किं मानम् । शक्तिकल्पकव्य. वहाऽरादेस्तुल्यत्वादिति चेत् ? सत्यम् । तत्तद्देशभेदभिन्नेषु __दर्पणः माह-*तादात्म्यमिति । साधुगवादिशब्दतादात्म्यप्रकारकज्ञानविषयतामापाद्य वेत्यर्थः । एक्कारो वाऽर्थे । गोपदे उच्चारणीये करणापाटवेन गावित्युच्चारितम् , वस्तुतो गोपदमेवेदमिति तादात्म्येन ।भासमाना गव्यादिशब्दा गवादिरूपार्थस्य प्रकाशका इत्यर्थः । न च वक्ष्यमाणकल्पाऽभेदः । तत्राऽपभ्रंशगतानुपूर्त्या एव शक्यताऽवच्छेदकत्वादत्र तु साधुगतायास्तस्यास्तत्त्वमिति भेदादिति भावः।। यत्तु शब्दार्थयोस्तादात्म्य शक्तिरिति स्वोक्ताऽर्थे तादात्म्यमित्यादिहरिकारिकार्द्धस्योपष्टम्भकतयोपन्यसन तन्मुधैव । तादात्म्यस्य शक्तित्वेऽपि शब्दनिष्ठतादात्म्यज्ञानस्यार्थाबोधकत्वेन तस्य शक्तित्वाऽसम्भवात् । उपक्रमोपसंहारपालोचनया साधुशब्दतादात्म्यभ्रान्त्याऽपभ्रंशानामर्थबोधजनकत्वमिति पक्षान्तरपरतयव तव्याख्यानस्यौचित्यादिति। ___ अवाचकत्वे युक्तिमाह-*न शिष्टैरिति । यतस्तेऽपभ्रंशाः साधवः पर्याया इव शिष्टः स्मत्यादिना न प्रतिपाद्यन्तेऽतो न वाचका इत्यर्थः। ते साधुष्वित्याद्यक्तमर्थ विशदयति--*अम्बाम्बेत्यादि । अव्यक्तमिति भाषणक्रियाविशेषणम् । तद्विदाम्अव्यक्तशब्दश्रोतृणाम् , अव्यक्ते साधुशब्दे । अस्य, स्मृते सतीति शेषः । निश्चयः* तदर्थशाब्दबोधो भवतीत्यर्थः॥ एवमिति । इत्यमेवेत्यर्थः । *साधौर-गवादिशब्दे । *अपभ्रंशः* गाव्यादिः । *तेन*-असाधुशब्देन । *साधुव्यवहित:*-साधुस्मृतिद्वारकः। *कश्चित्-प्रसिद्धोऽम्बादिरूपः । अभिधीयते-बोध्यते इत्यर्थः । . - परीक्षा तस्यानुमानपदार्थस्मरणेऽन्वयः । साधुविषयकस्मरणेनेति समुदितार्थः, अर्थान्तरमाह-*तादात्म्येति । साधुतादात्म्यप्रकारकज्ञानविशेष्यतां प्राप्यवेत्यर्थः, वायें-इवशब्दस्तेषामवाचकत्वे युक्तिमाह-*नशिष्टैरिति । *यत इति । तेइति शेषः, तेऽसाधवः साधवः पर्याया इव शिष्टैन प्रतिमास्मृत्यादिना न प्रतिपाद्यन्ते। अतोऽवाचका इत्यर्थः । पूर्वोक्तमर्थ विशदयति-*अम्बाम्बेति* । *अव्यक्तमिति* क्रियाविशेषणम्, तेनाव्यक्तेन, अव्यक्त साधुशब्दे, स्मृते सतीति शेषः । *एवमिति* इत्थमेवेत्यर्थः । *साधुव्यवहितः* 1 साधुस्मृतिद्वारकः। प्रतिपादितार्थमेव द्रढयितुमाशङ्कते-नन्विति । *शक्तिकल्पकेति । यथा शब्दे ३८ द० प० Page #327 -------------------------------------------------------------------------- ________________ २९८ दर्पणपरीक्षासहित भूषणसारेतेषु तेषु शक्तिकल्पने गौरवात् । न च पर्यायतुल्यता शङ्कया। तेषां सर्वदेशेष्वेकत्वाद् विनिगमनाविरहेण सर्वत्र शक्तिकल्पना । न हि अपभ्रंशे तथा । अन्यथा भाषाणां पर्यायतया गणनापत्तेः। एवञ्च शक्तत्वमेवास्तु ; साधुत्वमिति नैयायिकमीमांसकादीनां मतम् , तन्मतेनैव द्रष्टव्यम् । इदानीं स्वमतमाह-वाचकत्वाविशेषे चेति* ॥ अयम्भावःअपभ्रंशानामशक्तत्वे ततो बोध एव न स्यात् । न च साधुस्मरणात् ततो बोधः। तानविदुषां पामराणामपि बोधात् । तेषां साधोर दर्पणः उक्तमेवार्थ दृढयितुमाशते-*नन्विति । तेषाम् = साधुपर्यायाणाम् । *एकत्वादिति ॥ एकजातीयत्वादित्यर्थः ॥ तथा एकजातीयत्वं येन तत्रापि विनिगमकाभावाच्छक्तिकल्पना स्यादिति भावः। *अन्यथेति । एकजातीयत्वस्य शक्तिकल्पनायामतन्त्रत्वे शक्तिमत्त्वाऽविशेषात्साधूनामिवाऽपभ्रंशानामपि कोशादौ प्रतिपादन प्रसज्ज्येतेत्यर्थः । *तन्मतेनैवेति । 'ते साधुष्वनुमानेन इत्यायुक्तहरिमतेनैवेत्यर्थः । अपभ्रंशाद-बोधस्योक्तरीत्योपपादित. त्वात्। तत्र शक्तिकल्पनं स्वाग्रहमूलकमित्याशङ्कां निराचिकीर्षुस्तत्रोक्तप्रकाराऽसम्भवं दर्शयति-अयम्भाव इति । *तानिति । साधुशब्दानित्यर्थः । अज्ञानहेतु. माह-*पामराणामिति । *बोधादिति । व्यवहारेण तेषां बोधाऽनुमानादित्यर्थः । __तथाचानधीतशास्त्राणां तेषां साधुत्वप्रकारकशब्दज्ञानाऽसम्भवेन न तत्र साधुशब्दस्मृतिकल्पनया शाब्दबुद्धिरुपपादयितुं शक्येति भावः । किञ्च साधुशब्दस्मृतिकल्पना कथञ्चिसम्भवेदपि यदि प्रत्यक्षश्रुतसाधुशब्दबोधोदयः स्यात् , स एव नास्तीत्याह परीक्षा शक्तिकल्पको व्यवहारस्तथा गाव्यादिशब्देप्यस्तीति तेषामपि वाचकत्वमस्त्विति भावः । *अन्यथेति* = अपभ्रंशेष्विति शेषः । तेषां पायाणामेकत्वात्-एकजातीयत्वात् । तथैकजातीयत्वम् । अन्यथैकजातीयत्वस्य पायतायामनिया. मकत्वेऽपर्यायाणां यथा शक्तिमत्वे तथा अपभ्रंशानामपि शक्तिमत्वे पर्यायतुल्यतया तेषामपि कोशादौ प्रयोगानापत्तिरिति भावः । *तन्मतेनैवेति । ते साधुध्वनुमानेन इत्यादिना यद्धरिमतमुक्तं तेनैवेत्यर्थः । ननु पूर्वोक्तरीत्या अपभ्रंशेभ्योऽर्थप्रतीतिनिर्वाह तेषु शक्तिकल्पनं स्वाग्रहमूलकमिति कस्यचिच्छा स्यादिति तदनुत्पत्तये आह--*अयम्भाव इति । ततस्तेभ्यस्तान्,= साधुशब्दान् , बोधादिति, गाव्यादिशब्दश्रवणोत्तरकालिकयामकत्तुकगवानयनादिदर्शनेन तेष्वबोधानुमानादित्यर्थः । यदि साधुत्वाश्रयशब्दज्ञानं तेषां स्यात्तदाऽसाधुभ्यः साधुस्मरणमनधीतशास्त्राणां तेषामपि स्यात्तदेव नास्तीति भावः। अश्रुतवैपरीत्यमस्तीत्याह-*तेषामिति । पामराणामित्यर्थः । अपभ्रंशेभ्य एव तेषां बोधो भवतोति न साधुस्मरणकल्पकमस्तीति भावः । अपभ्रंशेषु शब्देष्वर्थनिरूपितशक्ति_मात्ते Page #328 -------------------------------------------------------------------------- ________________ .... शक्तिनिर्णयः। २९९ बोधाच्च । न च शक्तिभ्रमात् तेभ्यो बोधः। बोधकत्वस्याऽबाधेन तद्ग्रहस्याभ्रमत्वात् । ईश्वरेच्छा शक्तिरिति मतेऽपि सन्मात्रविषयिण्यास्तस्या बाधाभावात् । शक्तेः पदपदार्थविशेषघटिताया भ्रमासम्भवाच्चेति । दर्पणः *तेषां साधोरिति । *शक्तिभ्रमादिति । अर्थनिरूपितायाः साधुशब्दनिष्ठायाः शक्तरपभ्रंशे भ्रमादित्यर्थः। किं बोधकत्वरूपशक्तिभ्रमात् तत्र बोध उपपाद्यते ? उतेवरेच्छारूपशक्तिभ्रमात् ? तत्र नायः कल्प इत्याह-*बोधकत्वस्येति । द्वितीयेत्वाह-ईश्वरेच्छेति । *सन्मात्रेति । मात्रपदं कृत्स्नाऽर्थकम् । अपभ्रंशादू बोधस्य सर्वानुभवसिद्धत्वेन बोधकत्वेनेश्वरेच्छाया अपि तत्राबाधेन तामादायाऽपि न शक्तिज्ञानस्य भ्रमत्वसम्पत्तिः । प्रतीतेर्धमत्वे विषयबाधस्यैव तन्त्रत्वादिति भावः।। ननु लाक्षणिक इवाऽपभ्रंशेऽपि वाचकत्वव्यवहाराभावेन तव्यावृत्येश्वरेच्छारूपशक्तस्तत्र भ्रमे बाधकाभावोऽत आह-*शक्तरिति* । *भ्रमासम्भवाचेति । तत्पदविशेब्यकतदर्थबोधजनकत्वप्रकारकेच्छायास्तत्पदविशेष्यकत्वेन गृहीतायाः पदान्तरविशेब्यकत्वासम्भवेन तद्भमाऽसम्भवादित्यर्थः । यथाश्रुताऽभिप्रायेणेदम् । परिष्कृतविशेष्यत्वरूपायास्तत्सम्बन्धावच्छिन्नावच्छेदकत्वरूपायाः पदार्थान्तररूपाया वा शक्तेस्तत्र भ्रमे बाधकाऽभावादिति बोध्यम् । तथाच भ्रमेणापि बोधस्य दुरुपादत्वेन भाषायां शक्तिरावश्यिकेति भावः। परीक्षा भ्योऽपभ्रंशेभ्यो बोध इति नैयायिकानुयायिनः शङ्कां निरस्यति-*न च शक्तीति । *अभ्रमत्वादिति । तद्भाववति तत्प्रकारकं ज्ञानं हि भ्रमस्तदभावश्चापभ्रंशेषु नास्ती. ति भावः । *सन्मात्रेति । अत्र मात्रपद कात्र्नार्थकम् । अपभ्रंशेभ्योऽर्थबोधस्य सर्वानुभवसिद्धतया तेष्वप्यर्थबोधकत्वेनेच्छाविषयतायाः सम्भव इति भावः । ननु यथा लाक्षणिकेषु वाचकत्वव्यवहाराभावेन तव्यावृत्तः सम्बन्ध ईश्वरेच्छायाः कल्पने तथाऽपभ्रंशेष्वपि तस्य व्यवहारः सार्वजनीनो नास्तीति तदा वृत्तित्वसम्बन्धेन शक्त्यभावस्तेष्वस्त्येवेति भ्रमत्वसम्भव इत्यत आह-*अशक्तैरिति । तदर्थविषयकबोधजनकत्वप्रकारकेच्छायास्तत सदविशेष्यकत्वेन ग्रहे वान्यस्मिन्पदे भ्रमो वाच्यः । अन्यथा विशेषणज्ञानाभावेन तत्प्रकारको भ्रमो न स्याद्विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वादतस्तस्या इच्छायास्तदर्थे तत्तत्पदविषयको ग्रहः पूर्व वाच्यः । एवं च तेनैव विशेषदर्शनेन प्रतिबन्धादानासम्भवः । अयम्भावः-यथा नैयायिकमते-प्रवाहो गङ्गापदशक्य इति ज्ञानं प्रमा, तीरं गङ्गापदशक्यमिति ज्ञानन्तु भ्रम इति भवतीति ईश्वरेच्छाया गङ्गापदेन प्रवाहबोधो जायतामित्याकारिकाया प्रवाहे गङ्गापदजन्यत्वनिष्ठप्रका. रतानिरूपितबोधनिष्ठप्रकारतानिरूपितविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्व. रूपः सम्बन्धोऽस्तीति प्रवाहः शक्य इति ज्ञानस्य तादृशेच्छा गङ्गापदजन्यत्वनिष्ठप्रकारतानिरूपितबोधत्वावच्छिन्ने ताशेच्छाया निरूपितत्वविशिष्टविशेष्यत्वावच्छेदक Page #329 -------------------------------------------------------------------------- ________________ ३०० दर्पणपरीक्षासहिते भूषणसारे उक्तश्च वाक्यप्रदीये पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येषु तेषां साधुरवाचकः ॥ दैवी वागू व्यवकीर्णेयमशक्तैरभिधातृभिः । अनित्यदर्शिनां त्वस्मिन् वादे बुद्धिविपर्ययः ॥ इति ॥ अवाचकः =अबोधकः । बुद्धिविपर्ययः एते एव वाचका नान्ये दर्पणः अस्मिन्नपि पक्षे हरिसम्मतिमादर्शयति-*उक्तञ्चेति । *पारम्पर्य्यादिति । स्वार्थे व्यञ् । विगुणेष्विति हेतुगर्भ विशेषणम् । वैगुण्यं च करणापाटवरूपम् । अभिधातृवैगुण्यस्याऽपभ्रंशनियामकत्वात् । तथाच विगुणेष्वभिधातृषु सत्सु परम्परया येष्वर्थेषु प्रसिद्धिमागता इत्यर्थः । *दैवीति । संस्कृतरूपेत्यर्थः । *अशक्तैः*-करणाऽपाटववद्भिः । *व्यवकीर्णा* । उच्छिन्नाऽनुपूर्वीका कृतेत्यर्थः । *अनित्यदर्शिनाम् । शब्दानित्यत्ववादिनाम् । अस्मिन् वादे । शक्तिविचारे इत्यर्थः ।। ननु 'तेषां साधुरवाचक' इत्यनुपपन्नम् । यस्मिन्नर्थेऽपभ्रंशाः प्रयुज्यन्ते, तद्वाचकत्वस्य साधुषु सर्वसम्मतत्वादतो व्याचष्टे-*अबोधक इति । व्यवहितः साधुन तत्र बोधकः; किन्तु साक्षादपभ्रंशा एव तत्तदानुपूर्वीमत्त्वेन वाचका इति भावः । __नन्वियं अभ्रंशरूपा वाग् अभिधातृवैगुण्येनोच्छिन्नाऽनुपूर्विकाऽपि दैवी संस्कृतरूपैव । नैयायिकानां त्वस्या अबोधकत्वे भ्रम एव । पारम्पर्य्यादित्युपपादनात् साधुतादात्म्यभ्रान्तिमूलकशक्तिभ्रमेण बोधकत्वसम्भवादित्यर्थकं दैवी वाग्व्यवकीर्णेयमित्यपि पूर्वोक्तान्तिमकल्पस्यैवोपोद्बलकम् । नचैवं तेषां साधुरवाचकः' इत्यनुपपन्नम् । तत्कल्पे आरोपितसाधुत्वकाद्यपभ्रंशानां बोधकत्वेन साधुस्मरणादू बोधाऽनभ्युपगमात् । तेषामित्यादेः साधुतादात्म्यारोपविषयास्त एव प्रसिद्धार्थानां बोधकाः, न तु तत्तदानुपूर्वीमत्त्वेन बोधका इत्यर्थात्तस्मानोक्तयुक्त्यापभ्रंशानां तत्त्वेन वाचकतासिद्धिरत आह परीक्षा त्वावच्छिन्नावच्छेदकतानिरूपिताधेयत्वसम्बन्धावच्छिन्नावच्छेदकत्वसम्बन्धावच्छिन्न. प्रकारतानिरूपकत्वम्-प्रमात्वम् ? तीरं गङ्गापदशक्यमिति ज्ञानस्य प्रमात्वम् । ताहशज्ञानाय तीरनिष्ठावच्छेदकतायां तादृशबोधविशेष्यत्ववृत्यवच्छेदकतात्वावच्छिन्नावच्छेदकतानिरूप्यत्वास्वीकारात् । किन्तु शुद्धावच्छेदकतात्वेनैवेति कल्पनादिति । पदनिष्ठन्तत्तदर्थबोधजनकत्वं शक्तत्वमिति वादिनामस्माकं मते तु तीरं गङ्गापदशक्यमिति ज्ञानस्य पूर्वोक्तरीत्या प्रमात्ववद् भाषाशब्दविशेष्यकमपि ज्ञानम्प्रमैवेति । _ स्वोक्तार्थे हरिसम्मतिमाह-*उक्तञ्चेति । पारम्पर्यमित्यत्र स्वार्थेष्यञ् । *विगुणेविति । हेतुगर्भविशेषणम् , वैगुण्यङ्करणापाटवरूपम् , अभिधातृवैगुण्यस्यापभ्रंशनियामकत्वात् । *प्रसिद्धिमिति । अस्याथेष्वित्यादिः । येन कारणेनापभ्रंशाः शब्दाः विगुणेष्वभिधातृषु सत्सु पारम्पर्येष्वर्थेषु प्रसिद्धिमागतास्तेन तेषामर्थानां साधुरवाचक, =अबोधकः । *दैवीवाक् । संस्कृतरूपा । *अशक्तैः*-करणापाटवयुक्तैः, *व्यवकीर्णा*-उच्छिन्नानुपूर्विका कृता अनित्या दर्शिता, तत्= नैयायिकानाम् = शब्दा Page #330 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः । ३०१ इति विपर्य्यय इत्यर्थः । किञ्च विनिगमनाविरहाद् भाषायामपि शक्तिः । न च तासां नानात्वं दोषः । संस्कृतवन्महाराष्ट्रभाषायाः सर्व्वत्रैकत्वेन प्रत्येकं विनिगमनाविरहतादवस्थ्यात् । किञ्चानुपूर्वी पदेऽवच्छेदिका । सा च पर्यायेष्विव भाषायामप्यन्यायैवेति कस्तयोर्विशेष इति विभाव्यं सूरिभिः । तथाच संस्कृतवद् भाषायाः सर्व्वत्रैकत्वेन प्रत्येकं शब्दा शक्ता एव । न च पर्य्यायतया भाषाणां गणनापत्तिः । साधूनामेव कोशादौ विभागाभिधानात् । नन्वेवं साधुता तेषां स्यादित्यत आह-नियम इति ॥ पुण्यजननबोधनाय साधूनां, “साधुभिर्भाषितव्यम्” इति विधिः । पापज दर्पणः *किञ्चेति* | *तासाम् — भाषाणाम् । दोष इति । तथा च गौरवान्न तत्र शक्तिरित्यर्थः । सकलदेश शिष्टपरिगृहीतत्वमेव विनिगमकमत आह—*अवच्छेदकेति । बोधजनकतावच्छेदिकेत्यर्थः । *तयोरिति । साध्वपभ्रंशयोरित्यर्थः । सकलशिष्टपरिगृहीतत्वं तु न विनिगमकम् । “शवतिर्गतिकर्मा कम्बोजेषु प्रयुज्यते, विकार एवैनमाभाषन्ते" इति भाष्यात्तत्तद्देशनियतसंस्कृतेषु शक्तिसिद्ध्यनापत्तेः । वाचकस्य व्यञ्जकतायामालङ्कारिकाणां प्राकृतभाषोदाहरणस्यासङ्गतत्वापत्तेश्च । अत एव तत्तदेशीयशिष्टानां तत्तद्भाषासु निस्सन्दिग्धशक्तत्वप्रत्ययः सङ्गच्छते । न चाऽसौ भ्रमः बाधकाभावादिति भावः । उपसंहरति—*तथाचेति* | *एवम् — अपभ्रंशानामपि शक्तत्वे । * तेषाम् * — अपभ्रंशानाम् । *साधुता स्यादिति । शक्तत्वस्यैव साधुत्वादिति भावः । *साधुभिर्भाषितव्यमिति । साधूनेव प्रयुञ्जीतेत्यादिरूपरचे परीक्षा नित्यत्ववादिनाम् । अस्मिन् वादे = शक्तिविचारे, एते = साधवः, नान्ये- अपभ्रंज्ञाः, येषां मतेऽपभ्रंशानां वाचकता तेषाम्मते साधूनामपि वाचकताऽस्तीत्यत उक्तम्*अबोधक इति । तथा च साक्षात्तेषां साधु र्न बाधकः किन्त्वसाधुस्मरणाद्वाध्यसाधु तादात्म्यारोपाद्वा असाधुर्बोधक इति बोध्यम् । नचैवमसाधुभ्यः साधुतादात्यारोपाच्चेद्बोधस्तदा वाचकता साधुष्वेव - पर्यवसन्नेत्यसाधुत्वं वाचकता न सिध्यतीत्यत आह-*किञ्च विनिगमनेति । तेषाम् = असाधूनां प्रत्येकं महाराष्ट्रभाषाघटकस्यैकस्य शब्दस्य वा साधोर्वा वाचकतेत्येवं विनिगमनाविरहप्रदर्शनम् प्रत्येकमित्युक्तम् । ननु वाचकतावच्छेदिकाऽऽनुपूर्वी साधुशब्दसम्बन्धिन्येका भाषाणां तु नानेति विनिगमक सत्वान्न भाषाशब्दानां वाचकत्वमत आह-* किञ्चानुपूर्वीति । *अवच्छेदिका* | बोधजनकतावच्छेदिका । नच साधूनां साधुत्वविशिष्टपरिगृहीतत्वेन तेषामेव वाचकत्वे विनिगमकमस्तीति वाच्यम् । " शवतिर्गतिकर्मा कम्बोजेषु विकार एवैनमार्या • भाषन्त" इति भाष्यात्संस्कृतानामप्येकस्मिन् धर्मे सकलशिष्टसम्मतत्वाभावात् । असाधूनामपि बोधजनकतया प्राकृतभाषोदाहरणानि काव्यप्रकाशादौ स्फुटम् - Page #331 -------------------------------------------------------------------------- ________________ ३०२ दर्पणपरीक्षासहिते भूषणसारे - ननबोधनाय " नासाधुभिः" इति निषेधः । तथा च पुण्यजननयोग्यत्व साधुत्वम् । तत्र पापजननयोग्यत्वमसाधुत्वम् । तत्र जनकताऽवच्छेदिका च जातिः । तजुज्ञापकञ्च कोशादि व्याकरणादि च । एवमेव च राजसूयादेर्ब्राह्मणे फलाऽजनकत्ववद् गवादिशब्दानां नावाद साधुत्वमिति सङ्गच्छते । आधुनिकदेवदत्तादिनाम्नामपि, दर्पणः त्यर्थः । *नाऽसाधुभिरिति । " नापभ्रंशितवै न म्लेच्छितवै" इत्यादिनिषेधविधिरित्यर्थः । योग्यत्वं जनकतावच्छेदकधर्मवत्त्वम् । तत्र - साधुशब्दे । *जातिरिति । तत्र प्रमाणं तु “एकः शब्दः सम्यग् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग् भवति" इति "एकः पूर्वपरयोः" (पा०सू० ६।१।६४ ) इत्यत्र भाष्यपठितश्रुतिः । सम्यग् ज्ञातः साधुत्वेन ज्ञातः । यदिह परिनिष्ठितं तत् साध्वित्यर्थापत्तिलभ्यवाक्येन । अतः शास्त्रान्वितः शास्त्र व्युत्पादनमार्गेणाऽभिसंहितः । सुप्रयुक्तः शिक्षाद्युक्तमार्गेण प्रयुक्त इति तदर्थः । "ते ऽलय इति कुर्वन्तः पराबभूवुः” इति श्रुतिश्च । यदि च कत्वादिना साङ्कर्य्यान्न तस्य जातित्वमिति विभाव्यते तदाऽस्तूपाधिरिति भावः । “*तज्ज्ञापकमिति । तदभिव्यञ्जकमित्यर्थः । यथैतत्तथोक्तम् । व्याकरणादिपदाच्छिष्टप्रयुक्तत्वपरिग्रहः । * एवमेवेति । तत्तदर्थपुरस्कारेण तत्तच्छब्दानां साधुत्वपर्य्यवसानलाभेनैवेत्यर्थः । *फलाजनकत्ववदिति । क्षत्रियाऽधिकारिकृतस्यैव तस्य फलश्रवणादिति भावः । *साधुत्वमिति । गवाद्यर्थपुरस्कारेणैव गवादिशब्दानां प्रयोगे पुण्यजनकत्वरूपं साधुत्वमित्यर्थः । ननु आधुनिकदेवदत्ताद्यर्थ पुरस्कारेण देवदत्तादिशब्दानां शास्त्रे व्युत्पादनात्तेषां देवदत्तादौ साधुता न स्यादत आह परीक्षा 1 निर्वाचकत्वमेव । साधुत्वमित्याशयेन शङ्कते -*नन्वेमिति । निषेध इति । अत एव भाष्ये - "तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुस्तस्माद्ब्राह्मणेन न म्लेच्छित वै नापभाषित वे” इत्युक्तम् । साधुत्वमिति । अत एव यज्ञादौ कर्मणि शिष्टैर्धर्मबुद्धया असाधूनां प्रयोगो नोक्तमते । नचासाधूनामपि चेद्वाचकता तदा शाब्दबोधासम्भवरूबीजाभावे च्युतसंस्कृतित्वस्य दूषकता न स्यादिति वाच्यम् । विप्रसभायां चाण्डालदर्शनेनैव पण्डितानां साधुपदसमुदायमध्येऽसाधुदर्शनेन हृदयोद्वेगो भवतीति तस्य दूषकता स्वीकारात् । साधूनां पुण्यजनकत्वे “एकः पूर्वपरयोः” इति सूत्रस्थम् “एक:शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके च कामधुग्भवति" इति भाष्यमपि प्रमाणम् । सम्यक्ज्ञातः - साधुत्वेन शास्त्रव्युत्पादनमार्गेणानुभूतः । सुप्रयुक्तःशिक्षोक्तरीत्याप्रयुक्तः । असाधूनां वाचकत्वे “सामानायामर्थावगतौ शब्दैश्वापशब्दैश्व शास्त्रेण धर्मनियमः" इति भाष्यमपि प्रमाणम् । तत्रेति । पुण्य इत्यर्थः । *तज्ज्ञापकम्* । साधुत्वात्मकजातिज्ञापकतावच्छेदकम् । * व्याकरणादीति । अत्रादिना भाव्याद्याकर परिग्रहः । एतेनार्थं पुरस्कारेण साधुत्वमित्युक्तं भवति । * एवमेव । तत्तदर्थपुरस्कारेण ततच्छब्दानां साधुत्वपर्यवसानादेव । *फलाजनकत्ववदिति । क्षत्रियेणाधिकारेणाकृतस्यैव तस्य फलजनकत्वमन्यत्र स्पष्टम् । *सङ्ग Page #332 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः। ३०३ "द्वयक्षरम्” इत्यादिभाष्येण व्युत्पादितत्वात् साधुत्वम् । एवञ्च यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितःस तत्र साधुरिति पर्यवसितम् । गौणानां गुणे व्युत्पादनात् तत्पुरस्कारेण प्रवृत्तौ साधुत्वमेव, माधुनिकलाक्षणिकानां त्वसाधुत्वमिष्टमेव । अत एव 'ब्राह्मणाय देहि इत्यर्थे 'ब्राह्मणं देहि इत्यादिकं लक्षणयापि न साधुरित्यादि विस्तरेण प्रपञ्चितं भूषणे ॥ ३८॥ __दर्पणः *आधुनिकेति*। *द्वयक्षरमिति । “घोषवदाद्यन्तरन्तःस्थं द्वयक्षरं चतुरक्षरं वा पुरुषस्य नाम कृतं कुर्य्यान्न तद्धितम्" इति भाष्यस्थस्मृत्येत्यर्थः। तत्तदेशभाषाऽनुसारेण "क्रियमाणानां नाम्नां तु शास्त्राव्युत्पन्नत्वादसाधुत्वमेवेति भावः। *गौणानामिति । शुक्लादिशब्दानामित्यर्थः । *गुणे*-स्वशक्ये शुक्लादिरूपे ॥ __ *व्युत्पादनादिति ॥ "गुणवचनेभ्यो मतुपो लुक् इति स्मृत्या "गुणे शुक्लादयः,पुंसिइत्यादिकोशेन चेत्यस्यादिः । तत्पुरस्कारेण । नीलाऽऽद्यर्थपुरस्कारेणेत्यर्थः॥ प्रवृ तौ*-गुणिनि प्रयोगे । शक्याऽर्थस्य बाधे अन्वयानुपपत्तिप्रतिसन्धानात्तैर्लक्ष्यार्थोपस्थापनेऽपि शक्यार्थमादाय तेषां साधुत्वं नानुपपन्नम् । शक्याऽर्थपुरस्कारेण तेषां शास्त्रव्युत्त्पन्नत्वादित्यर्थः । गौणपदस्य निरूढलाक्षणिकपदोपलक्षणत्वाच्च न गङ्गायां घोष इत्यादौ गङ्गादिपदानामसाधुत्वमितिभावः ॥ *आधुनिकानामिति ॥ ऐच्छिकयत्किञ्चित्सम्बन्धेन शास्त्रकृतां तात्पर्याऽविशेषेण प्रयुक्तानामित्यर्थः ॥ ३८ ॥ परीक्षा च्छत इति। नचैवं गङ्गायां घोष इत्यादि लाक्षणिकानाम्मसाधुतापत्तिरिति वाच्यम् । तेषां शक्यार्थमादायैव साधुत्वस्य स्वीकारात् । एकार्थस्य स्मृत्या तत्र साधुत्वे ज्ञात एवान्यस्मिन्प्रयुज्यते। नन्वाधुनिकानां देवदत्तादीनाम्नां शरीरविशेषा. न्विते शास्त्रेणाव्युत्पादनात्तेषामसाधुत्वापत्तिरत आह-*आधुनिकेति*। *भा. ष्येण*। घोषवदाद्यन्तरस्थं द्वयक्षरं चतुरक्षरं वा नामकं कुर्यान्न तद्धितमिति भाष्येण । एवं च देशभाषानुसारेण क्रियमाणानां नाम्नामसाधुत्वमेव । गौणानां शुक्लादिशब्दानां गुणे स्व एकः शुक्लरूपे । *आधुनिकेति* । स्वेच्छया येन केनापि सम्बन्धेन शास्त्रक्लप्सतया विषयेऽथें प्रयुक्तानामित्यर्थः। *अत एव*-अर्थविशेषपुरस्कारेण साधुत्वादेव । *भूषण इति । इदमुपलक्षणं काव्यप्रकाशादेः । अत एव व्यञ्जनाव्युत्पादनावसरेऽनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाथैरवा. च्यार्थधीकृदयापृतिरञ्जनम्" इति यदुक्तं तदपि सप्रमाणमेव । संयोगाथैः संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ निर्णयहेतवो भवन्तीति शेषः । संयोगः प्रसिद्धार्थस्य गुणरूपः सम्बन्धः । यथासशङ्खचक्रो हरिः, सवत्सा धेनुरानीयतामित्यादौ । प्रसिद्धस्य शङ्खस्य संयोगेन हरिशब्दस्य विष्णौ वत्ससंयोगेन धेनुशब्दस्य नवप्रसूतिकासामान्यपरस्यापि गवि शक्ति Page #333 -------------------------------------------------------------------------- ________________ ३०४ दर्पणपरीक्षासहिते भूषणसारे । परीक्षा नियमनम् । विप्रयोगस्तादृशसम्बन्धध्वंसः । तेन यथा अशङ्खचक्रो हरिरवत्सा धेनुरानीयतामित्यादौ ध्वंसस्य प्रतियोगिपूर्वकत्वेन प्रतियोगिनो यन्निर्णायकता तस्मिन्नेव शक्तिनियमनं तेन क्रियते । साहचर्यम्-सहचरणं सादृश्यम् । यथा-रामलक्षणा. वित्यादौ । अत्र परस्परसाहचर्येण युगपदेवोभयोः शक्तिनियमनमित्यन्योन्याश्रयो न । सदृशयोरेवे सहप्रयोगात् । अत एव सडच्यासंज्ञासूत्रे भाष्ये-“वतुसाहचर्यात्तद्धित एव डतिर्गह्यते, न तु पातेडेतिः"इत्यभिहितम् । तेनोभयोरामलक्ष्मणयोश्शक्तिप्रतिपादकत्वम् । विरोधिता-विरोधः । सहानवस्थारूपो वध्यघातकभावो वा। आद्योदाहरणम्-छायातपाविति । अत्रातपेन सहानवस्थानियमाच्छायाशब्दस्यातपाभावप्रतिपादकता । न तु शोभाप्रतिपादकतेति निर्णयः । न च छायाशब्दः शोभाप्रतिपादको नेति भ्रमितव्यम् । ग्रामतरुणं तरूण्या नवमञ्जलमलरीसनाथकरम । पश्य सा भवति मुहुर्नितराम्मलिना मुखच्छाया ॥ इत्यत्र दर्शनात् । अत्र मञ्जुलनिकुञ्ज दत्तसङ्केतायास्तरुण्या मुखशोभा तत्र गमनसूचकतादृशतरुणदर्शनजनितदुःखविशेषेण मलिना भवन्ति । द्वितीयोदाहरणम्विरोधिनोः कयोश्चित्तत्वोपमायां रामार्जुनगतिस्तयोरित्यत्र रामार्जुनपदयोर्भागवकार्तबीर्यप्रतिपादकता । अर्थः-प्रयोजम् । तेन यथा-'स्थाणु भज भवच्छिदे' इत्यत्र भवच्छेदनरूपप्रयोजनेनस्थाणुशब्दस्य शिवे । अस्यैव मुख्यतया निर्णायकता संयोगादयस्तद्वयञ्जकप्रपञ्च इति तु परैरुक्तम् । यथा वा-'अञ्जलिना जुहोति' 'अञ्जलिना सूर्यमुपति. ष्ठते' इत्यत्र जुहोत्यादिपदार्थवशादञ्जलिपदस्य तत्तदाकाराञ्जलिपरत्वम् । प्रकरणम्प्रस्तावः, समयविशेषो वा । यथा-'सैन्धवमानय' इत्यत्र भोजनसमये सैन्धवपदस्य लवणे इत्यादि। लिङ्गान्मित्रशब्दस्य नपुंसकत्वात् सुहृदि। मित्रो भातीत्यत्र तु पुंलिङ्गात् सूर्ये । स्वरत एतादिर्बाहुल्येन वेदेऽर्थविशेषस्य प्रतीतिकृत् । यथा-इन्द्रस्य शातयितेत्यथेऽन्तोदात्ते उच्चारयितव्ये आधुदात्त इन्द्रशत्रुशब्दः इन्द्रशत्रुर्वर्द्धस्व' इत्यत्र ऋत्विजा उच्चारितस्तेनेन्द्र भयम् । एवं 'शातयिता सम्पन्न' इति भाष्ये स्पष्टम् । यद्ययमन्तोदात्तस्तदा षष्ठीसमासः, यदा इन्द्रः शत्रुर्यस्येत्यर्थस्तदा “बहुव्रीहौ प्रकृत्या पूर्वपदम्" इत्युदन्तं तच्चादायुदात्तस्येन्द्रशब्दस्य पररपरस्तस्यैवावस्थानमिति शातनकर्तृत्वमिन्द्रस्य लभ्यत इति स्वरादय इत्यादिपदेन षत्वस्य णत्वाभिनययदेशानां ग्रहणम् । षत्वेन यथा-सुषिक्तमित्यत्र सुशब्दस्योपसर्गसज्ञाप्राप्तायां बाधित्वा पूजायां कर्मप्र. वचनीयसंज्ञा, "सुः पूजायाम्" इत्यनेन विधीयते । सा चोपसर्गसंज्ञाबाधिकेति प्रकृतो. दाहरणे षत्वदर्शनेन पूजातिरिक्तार्थकत्वम् । णत्वेन यथा-प्रणायक इति । अत्र णत्वदर्शनेन प्रशब्दस्योपसर्गत्वनिर्णयः। प्रनायकइत्यत्र णत्वाभावदर्शनेन प्रगतनायकस्य प्रतीतिः । अभिनयश्चार्थाकारादिप्रदर्शिका हस्तादिचेष्टा तदुदाहरणमुक्तं का. व्यप्रकाशे (१)एदहमेतत्थणिआ एतद्दहमेतेहि अच्छिवत्तेहिं । एद्दहमेत्तावत्था एइहमेतेहि दिअएहि ॥ का० प्र० उ०२ । ११ श्लोकः छाया-(१) एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । ... एतावन्मात्रावस्था एतावन्मात्रदिवसः ॥ Page #334 -------------------------------------------------------------------------- ________________ शक्तिनिर्णयः । अतिरिक्तशक्तिग्रहोपायमाह - सम्बन्धिशब्दे सम्बन्धो योग्यतां प्रति योग्यता ॥ दर्पणः आह ननु शक्तिग्राहकयोः कोशव्याकरणयोर्विद्यामानत्वाच्छक्तिग्रहोपायकथनं व्यर्थमत - *अतिरिक्तेति ॥ कोशव्याकरणाभ्यामतिरिक्तो यः शक्तिग्रहोपायस्तमित्यर्थः । परीक्षा ३०५ व्यक्तिपदेन ‘अक्ताः शर्करा उपदधाति । इत्यादौ अक्ता इत्यनेन घृतसाधनाअनपरत्वम् । तेजो वै घृतमिति स्तुतिरूपाल्लिङ्गाद् घृतसाधनाञ्जनप्रतिपादनम् । शब्दस्यान्यस्य सन्निधिः - शब्दान्तरसमभिव्याहारः । यथा - 'रामो जामदग्न्यः' इत्यत्र जामदग्न्यपदसन्निधानेन रामः परशुरामः । सामर्थ्यम् - कारणत्वम् । तेन यथा - मधुना मत्तः कोकिल' इत्यत्र मधुशब्दस्य वसन्ते । अन्यस्य मधुशब्दार्थस्य कोकिलार्थो न । सामर्थ्याभावात् । औचिती अर्हता । यथा यञ्च निम्बं परशुना यश्चनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ॥ इत्यत्र परशुना इत्यस्य परशुकरणकछेदनपरत्वम् । मधुसर्पिः शब्दस्य तत्करणकसेचनपरत्वम् । गन्धमाल्याभ्यामित्यस्य तत्करणकपूजनार्थत्वम् । देशेन यथा—- भात्यत्र परमेश्वर इत्यत्र यथा । अत्र परमेश्वरपदस्य राजधानीरूपाद्देशाद्राजपरत्वम् । कालेन यथा - चित्रभानुर्विभातीत्यत्र चित्रभानुशब्दस्य द्विप्रयुज्यमानस्य दिवाकरे, निशि तु वह्नौ । व्यक्तिर्लिगं पुंस्त्वादि । तेन यथा मित्रं भाति, मित्रो भातीति । अत्र नपुंसकत्वेन सुहृद्, पुंस्त्वेन - आदित्यः । अत्र विकसितमुकुलिताभिनयविशेषसाहित्येन स्तनस्य मुकुलितत्वपीनत्वाद्यर्थविशेषे बुद्धिविशेषविषयत्वेनानुगतीकृतानेकधर्मावच्छि न्नशक्तैतच्छब्दस्याभिधा नियम्यते । अपदेशो नाम - हृदयनिहितहस्तादिनाऽभिमतनिर्देशः । इतः सदैतः प्राप्तश्रीनेंत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ अस्मिन्पद्ये इत इत्यत्र य इदं शब्दस्तस्यादेशेनाभिधावक्तुरिति नियम्यते । एतैः संयोगादिभिरेकत्राभिधानियमनानन्तरमनेकार्थशब्देन यदन्यार्थस्य प्रतिपादनं तद्द्रद्वयञ्जनयैव । न च श्लेषेण यत्रार्थप्रतिपादनं तत्रोभयत्र तात्पर्यादेवोभयप्रतीतिसम्भवे किं व्यञ्जनयेति वाच्यम् । यत्रोभयमर्थप्रतिपादने तात्पर्यं तत्र श्लेषः । यथा - हरिहरतात्पर्येण - 'सर्वतोमाधवः पायात्संयोगङ्गामहीधरौ' इत्यादौ यत्र तु नोभयप्रातिपादने तात्पर्य किन्त्वेकत्रैव यथा भद्रात्मनो दुरधिरो हतनोविशालवं शोन्नतेः कृतशिखीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततङ्करोभूत् । इत्यत्र राज्ञि तदन्वययोग्ये चार्थे प्रकरणेनाभिधानियमेऽपि गजस्य तदन्यप्रयोज्यस्य चार्थस्य या प्रतीतिः सा व्यञ्जनैवेत्याशयात् । अधिकमर्थतोऽवधेयम् ॥३८॥ ननु पुण्यजननयोग्यत्वं साधुत्वम्, तद्वयञ्जकं च कोशव्याकरणादिति प्रागुक्तम् । ३९ ५० प० Page #335 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेसमयाद् योग्यतासंविन्मातापुत्रादि योगवत् ॥३९॥ सम्बन्धो-विषयः। योग्यतां प्रति योग्यता-सम्बन्धिशब्दप्रति योग्यता विषय इति । समयादू-व्यवहारात् , योग्यतासंवित् शक्तिग्रहः। घटपदमत्र योग्यमेतत्सम्बन्धीति व्यवहारात् , सा ग्राह्येत्यर्थः ॥३६॥ इति वैयाकरणभूषणसारे शक्तिनिर्णयः॥६॥ दर्पणः तथाचाऽनधीतव्याकरणानां तेन शक्तिग्रहाऽसम्भवात् तदर्थ व्यवहाररूपमप्युपायमाहे. तिपर्यवसानान्न वैयर्थ्यमिति भावः । एतेन ग्रन्थकृताऽतिरिक्तशक्तेरनङ्गीकारेण तद्ग्रहोपायप्रदर्शनं व्यर्थमित्याशङ्कापि समाहिता। विषयपदाध्याहारेण मूलं व्याचष्टे*सम्बन्धी विषय इति ॥ ___ तथाचाऽयमेतत्सम्बन्धीति व्यवहारे सम्बन्धो विषयः। योग्यतां प्रति इदमत्रयोग्यमिति योग्यताव्यवहारे योग्यताविषयो यतोऽतः समयात् तद्व्यवहाराद्योग्यतायां बोधकतारूपशक्तेः । *संवित्* । ज्ञानं भवतीत्यर्थः।। __तत्र दृष्टान्तो-*मातापुत्रादियोगवदिति* ॥ यथाऽयमेतत्सम्बन्धीति व्यवहारस्तयोर्जन्यजनकभावनिश्चायकस्तदूवदित्यर्थः।। ___अन्ये त्विदं हरिपद्यमित्थं व्याचक्षते । सम्बन्धिशब्दे अयमेतत्सम्बन्धीति व्यवहारे योग्यतां प्रति अर्थबोधजनकताऽवच्छेदकधर्मवत्त्वरूपयोग्यताव्यवहारनिरूपितो यस्तादात्म्यलक्षणो अन्यो वा सम्बन्धः स एव योग्यताऽपरपर्य्यायो विषय इति शेषः । स चानादिवृद्धव्यवहारापरपायोऽस्मदादिसमयान्निश्चीयते, न तु बोधजनक. त्वमेव शक्तिरेतबोधजननेऽयं योग्य इति व्यवहारात् । अत एवैतच्छेषे सति प्रत्ययहेतुत्वं सम्बन्धे उपपद्यते । शब्दस्याऽर्थे यतस्तस्मात् सम्बन्धोऽस्तीति गम्यते ॥ इत्यन्तेनोक्ताऽर्थः स्पष्टीकृत इति । अधिकमन्यतोऽवधार्यम् ॥ ३९ ॥ इति भूषणसारदर्पणे शक्तिस्वरूपनिरूपणम् ॥६॥ परीक्षा एवं च येषां कथनं व्याकरणेन कोशेन वा तेषामसाधुतापत्तिरत आह-*अतिरिक्तेति । अत्र हि अतिरिक्तेति शक्तिग्रहोपायस्य विशेषणम् । एतेनातिरिक्तवादस्य स्वमतेऽभावादिदमसङ्गत्तमित्यपास्तम् । तदुदाहरणम्-*सम्बन्धिशब्द इति । इदं च विषयपदाध्याहरेण व्याचष्टे-*सम्बन्धी विषय इति । सप्तम्यर्थो निरूपितत्वम् । तस्य विषयपदार्थैकदेशविषयतायामन्वयः । योग्यताशब्दः शक्तिपर्यायः । योग्यताशब्दस्य शक्तिपरत्वे लौकिकव्यवहार एव साधक इत्याशयेनाह-*घटपदमत्रेति । तत्र दृष्टान्तोपादानम्-मातापुत्रादियोगवदिति । केचित्तु योग्यवदिति पाठः । यथाअयमेतत्सम्बन्धीदं च तथाव्यवहारात्तयोर्जन्यजनकभावनिश्चयस्तद्वत् ॥ ३९॥ इति भूषणसारटीकायां शक्तिनिर्णयः। Page #336 -------------------------------------------------------------------------- ________________ ॥ अथ नत्रर्थनिर्णयः॥ नार्थमाह नक्समासे चापरस्य प्राधान्यात् सर्वनामता। आरोपितत्वं नञ्योत्यं न ह्यसोऽप्यतिसर्ववत् ॥४०॥ नसमासे अपरस्य-उत्तरपदार्थस्य प्राधान्यात् सर्वनामता सिद्ध्यतीति शेषः । अत एव आरोपितत्वमेव नद्योत्यमिति । अभ्युपेयमिति शेषः। अयम्भावः-असर्व इत्यादावारोपितः सर्व इत्यर्थे सर्वशब्दस्य दर्पणः अथ नार्थनिर्णयः। __ "समासे खलु भिन्नैव” इत्यत्र पङ्कजशब्दवदिति वदता समासे तघटकप्रत्येकशक्तिसहकृतसमुदायशक्तेर्व्यपेक्षात्वमङ्गीकृतम् । तच्चाऽनुपपन्नम् । यत्र समासघटकप्रत्ये. कपदस्याऽनर्थकत्वं तत्र प्रत्येकशक्तिसाचिव्याऽसंभवात् यथा नसमासघटकनञः । द्वयोराऽभिधाने हि व्यापारो नैव विद्यते । इत्युक्तेः ॥ एवञ्च जहत्स्वार्थावाद इवेशस्थले उत्तरपदार्थाऽदिप्राधान्यस्य स्वरसतोऽनुप. त्तिरपीतीमां शङ्कां परिहत्तुं नअर्थनिरूपणमित्याह-*नार्थमिति ॥ मूले ॥ *नञ्समास इति* ॥ अयम्भावः-'घटो न पटो' 'घटो नास्ति' इत्यादावभावशाब्दबोधस्य सार्वजनीनप्रसिद्धिसिद्धत्त्वान्नजाऽभावार्थकत्वमावश्यकम् । तथाचोत्तरपदार्थप्राधान्यादिव्यवस्था सुलभा । यद्यपि घटो नेत्यादावभावविशेष्यक एव बोधस्तथाप्यऽसर्व इत्याद्यनुरोधेनारोपितत्वार्थकत्वमपि नमोऽङ्गीकरणीयमिति शेषपूरणेन व्याचष्टे सारे-*सिद्धयतीति । *अत एवेति ॥ प्राधान्यानुपपत्तेरेवेत्यर्थः॥ ननु नअस्तत्राभावार्थकत्वे कथं प्राधान्यानुपपत्तिरित्यतोऽभावार्थमाह-*अयम्भाव इति* ॥ अन्यथा आरोपितत्वार्थकत्वानभ्युपगमे भेदार्थकत्व इति यावत् ॥ परीक्षा __ अथ नजर्थनिर्णयः। अथ "समासे खलु भिन्नैव शक्तिः"इत्यादिना अतिरिक्त एकार्थीभावो व्यवस्थापितः, एवं च जहत्स्वार्थायामेव पर्यवसानम्। उत्तरपदार्थप्रधानोऽयं समास इत्यादयो व्यवहाराश्चानुपपन्ना इत्याशङ्कापनोदाय नजर्थकथनमित्याह-*नजर्थमिति* । 'नसमास' इति कथनेन यत्र न समासस्य प्रयोगः, किन्तु 'घटो न पट:' 'घटो नास्ति' इत्यादौ तत्र नजोऽभावार्थकत्वेनापि निर्वाहो भवति । यस्त्वस इत्यत्राप्यभावस्य प्राधान्यस्वीकारे सर्वनामकार्यन्न स्यादतो नसमासे 'आरोपितत्वन्नज् द्योत्यम्। इत्यावश्यकमित्याशयः प्रकटीकृतः। तदेवोपपादयति-*अयम्भाव इत्यादिना । अन्यथा पूर्वपदार्थप्राधान्ये तस्य नज Page #337 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेप्राधान्याऽबाधात् सर्वनामता सिद्ध्यति । अन्यथा अतिसर्च इत्यत्रेव सा न स्यात् । घटो नास्तीत्यादावभावविषयकबोधे तस्य विशेष्यताया एव दर्शनात् । अस्मद्रीत्या च स आर्थो बोधो मानसः। ___ तथाचासर्वस्मै इत्याद्यसिद्धिप्रसङ्गो नेति । अत्र चारोपितत्वमा. रोपविषयत्वम् । आरोपमात्रमर्थो; विषयत्वं संसर्ग इति निष्कर्षः। द्योत्यत्वोक्तिनिपातानां द्योतकत्वमभिप्रेत्य ॥ ४० ॥ 'घटो नास्ति' 'अब्राह्मण' इत्यादावारोपबोधस्य सर्वानुभववि दर्पणः *सा*-सर्वनामसंज्ञा ॥ *न स्यादिति । असर्व इत्यत्र नजोऽभेदार्थकत्वे तत्र प्रतियोगितया सर्वपदार्थस्योपसर्जनत्वेन संज्ञोपसर्जनानां सर्वादिबहि तत्वेनातिसर्व इत्या दाविव तदप्रवृत्तेरिति भावः । ननु भेदप्रतियोगी सर्व इति तत्र बोधाभ्युपगमान्नोत्तरपदार्थस्य प्राधान्यहानिरत आह-*घटो नास्तीत्यादाविति* ॥ *तस्य*-नार्थस्य ॥ नजर्थाऽभाववत्त्वस्य विशेष्यतायां तन्त्रत्वादिति भावः। ननु तवाप्यघटः पट इत्यतो घटभिन्नः पट इति सर्वसिद्धप्रतीत्यनुपपत्तिरत आह-*अस्मद्रीत्येति* ॥ *स*-भेदबोधः ॥ *आर्थ इति* ॥ अर्थादुपस्थितिविषयादागत इत्यर्थः ॥ *मानस इति । तत्र शाब्दत्वप्रत्ययत्वसिद्ध एवेति भावः । नन्वसर्वशब्दस्य सर्वनामत्वाभावे का क्षतिरत आह-*तथाचेति ॥ *अत्र चेति ॥ आरोपितत्वं नवाच्यमिति कल्पे चेत्यर्थः ॥ निष्कर्ष इति ॥ विषयत्वस्य संसर्गमर्याद. यैव लाभादनन्यलभ्यारोपस्यैव नअर्थत्वं न त्वारोपविषयत्वस्य गौरवादिति भावः । नन्वारोपस्य वाच्यत्वाभ्युपगमे द्योतकताप्रतिपादकमूलविरोधोऽत आह-*द्योत्यत्वोक्तिरिति ॥ वाच्यस्याऽपि तस्य विशेषणतैव नाभाववद्विशेष्यतेति सूचयितुमेव तथोक्तिरिति भावः ॥ ४०॥ ____ *घटो नास्तीति ॥ यद्यपि समासयोग्यनज एवारोपाऽर्थकत्वं मूले उक्तम् , तथापि घटो नाऽस्तीत्युक्तिरत्रेव तत्राऽप्यारोपाननुभव इति दृष्टान्तार्थत्यवधेयम् । नञ्द्यो परीक्षा र्थाभावस्य दर्शनादिति । घटो नास्तीतिशब्दस्य स्वमते घटाभावः कालसम्बन्धीति बोधः । स्वमते तु घटाभिन्नैककर्तृकवर्तमानकालिकसत्ताभाव इति उभयथाप्यभावस्य प्रतियोगिनिरूपितप्राधान्येनैव भानम् । *स*-अभावविशेष्यकबोधः । *आर्थ इति । अर्थादागत उपस्थितिविषयावागत इति यावत् । ___ *इत्याद्यसिद्धिरिति* । “संज्ञोपसर्जनप्रतिषेधः” इति वार्तिकात्सर्वनामेति महासंज्ञाकरणाद्वाऽसिद्धिरित्यर्थः। अत्र 'आरोपितत्वन्नञ् द्योत्यम्' इतिकल्पे लाघवादाह*आरोपमात्रमिति। नन्वारोपितत्वन्नज्वाच्यमित्येवास्त्वित्यत आह-*द्योत्यत्वोक्तिरिति । एवञ्च द्योत्यार्थस्य विशेषणताया अन्यत्र सिद्धान्तित्वाद् । अतः 'असर्वस्माद'इत्यादौ सर्वनामकार्य सिध्यतीति भावः ॥ ४०॥ घटो नास्तीतिवदित्यसङ्गतम् , समासयोग्यस्य नन एवारोपितत्वद्योतकतायामू. लकृतोक्तस्वादत आह-*अनुभवविरुद्धत्वादिति । तथाचारोपितत्वाननुभव एव तस्य Page #338 -------------------------------------------------------------------------- ________________ नबर्थनिर्णयः। रुद्धत्वात्पक्षान्तरमाह अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् । विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ॥४१॥ तदर्थो नअर्थः । अर्थपदं द्योत्यत्ववाच्यत्वपक्षयोः साधारण्येन कीर्तनाय ॥ *भाष्यस्येति* ॥ तथाच नञसूत्रे महाभाष्यम्-"निवृत्तपदार्थकः" इति । निवृत्तं पदार्थो यस्य, "नपुंसके भावे क्तः" (पा० सू० ३।१।११४) इति क्तः । अभावार्थक इत्यर्थः । ___ यत्तु-निवृत्तः पदार्थो यस्मिन्नित्यर्थः। सादृश्यादिनाऽध्यारो. पितब्राह्मण्याः क्षत्रियादयोऽर्थाः यस्येत्यर्थ इति कैय्यटः, तन्न । आरोपितब्राह्मण्यस्य क्षत्रियादेनज्वाच्यत्वात् । दर्पणः त्यमित्यत्र नसो विशेषणतया व्यवधानेन चोपस्थितत्वेऽपि तत्पदादीनां बुद्धिस्थपरामर्शकत्वात्तदा तत्परामर्शो नाऽनुचित इत्याह-*तदर्थो नार्थ इति ॥ *साधारण्येनेति ॥ प्रकृतेऽर्थपदस्य तजन्यबोधविषयपरतया पक्षद्वयसंग्रहः । तत्रासति बाधके वाचकत्वमेव सति तु तस्मिन् द्योतकतापीति भावः ॥ *नज्वाच्यत्वादिति ॥ परीक्षा दृष्टान्ततयोपादानमिति भावः । *साधारण्येनेति । अर्थपदस्य तजन्यबोधविषयार्थकत्वात् । एवञ्चासति बाधकेऽभावो वाच्य एव। यदि बाधकावतारस्तदा द्योत्यत्वं तस्येति साधारण्येन व्याख्यानमावश्यकम् । *भाष्यस्येति । नञ्तत्पुरुषस्य पूर्वपदार्थप्राधान्ये 'अस' इत्यादौ सर्वनामकार्यन्न प्राप्नोतीति दोषे सत्युत्तरपदार्थप्रधानोऽयं समास इति पक्ष उक्तः । अत्र पक्षे भेदस्य नज्वाच्यस्य प्रातियोगितासम्बन्धेनोत्तरपदार्थे विशेषणत्वे भेदप्रतियोगी ब्राह्मण इत्यर्थः स्यात् । तथाच 'अब्राह्मणमानयाइत्युक्त ब्राह्मणमात्रस्यानयनं प्राप्नोति ननःप्रयोगान्नअर्थविशिष्टस्यानयनं भविष्यति कः पुनरसौ नअर्थः । निवृत्तः पदार्थः ब्राह्मणदृष्टस्य गोत्रादेर्दर्शनादृष्टोपदेशाद्वा पूर्व ब्राह्मणोऽयमित्यध्यस्यति। ततः पश्चादयं लभते 'नायं ब्राह्मण' इति । ततोऽब्राह्मणोऽयमिति प्रयुक्त। आतश्च तदृष्टगुणदर्शनादृष्टोपदेशाद्वा ब्राह्मणत्वाध्यवसायपूर्वकमेव 'नार्य ब्राह्मण' इति ज्ञानं ताङ्कालवर्णमापणे आसीनं दृष्ट्वा ब्राह्मणोऽयमित्यध्यवस्यति । यथास्थितं वस्तु तत्वतस्तस्य निर्जातं भवतीति भाष्यस्येत्यर्थः। *तदाशयात्*-अभावस्य तदर्थत्वमित्याशयात् । भाष्याशयम्प्रकटयति-*तथाचेति । कैयटमतं दूषयितुमादौ कैयटोक्तव्याख्यानमनुवदति-*यत्त्विति । अध्यारोपित. ब्राह्मण्या इत्यत्र बहुवीहिः। अध्यारोपितं ब्राह्मण्यं येष्वित्यर्थेनान्यपदार्थस्य ब्राह्मणत्वप्रकारकाध्यारोपविशेष्यस्य लाभे तस्य नवाच्यत्वमनुभवविरुद्धमित्याशयेन दूषयति-*नज्वाच्यत्वादिति । ननु तद्भाष्येण सदृशस्तीयं कालवर्णमित्यादि Page #339 -------------------------------------------------------------------------- ________________ ३१० दर्पणपरीक्षासहिते भूषणसारे दर्पणः यद्यप्युत्तरपदार्थप्राधान्येन नञ्तत्पुरुषस्य ब्राह्मणमात्रस्याऽऽनयनं प्राप्नोति । नञः प्रयोगान्नजर्थविशिष्टस्यानयनं भविष्यति । “कः पुनरसौ नजर्थो ? निवृत्तपदार्थकः । ब्राह्मणदृष्टस्य गौरत्वादेदर्शनाद् दृष्टोपदेशाद्वा पूर्वमब्राह्मणोऽयमित्यध्यवस्यति । ततः पश्चादुपलभते नाऽयं ब्राह्मण इति । ततोऽब्राह्मणोऽयमिति प्रयुङ्क्ते । अतश्च तद्टगुणदर्शनाद् दृष्टोपदेशाद्वा ब्राह्मणत्वाद्यध्यवसायपूर्वकमेव नाऽयं ब्राह्मण इति ज्ञानम्। नह्ययं कालवर्णमापणे दृष्ट्वाऽध्यवस्यति ब्राह्मणोऽयमिति । यथास्थितं वस्तुतत्त्वं तस्य नितिं भवति" इति नञ् सूत्रभाष्यपालोचनया कैयटोक्ताऽर्थस्यैव साधुत्वं लभ्यते । तथापि तद्भाष्यस्याऽभेदप्रत्यक्षे क्वचिद् योग्याऽनुपलब्धेहेतुत्वप्रदर्शनपरतयैवोपपत्तेर्नज आरोपवाचकत्वे तदुपष्टम्भकत्वाऽभावात् । अन्यथाऽत्यन्ताऽसदृशे उक्तयुक्त्या तदारोपासम्भवेन तत्र नमर्थस्तदर्थकत्वासम्भवादघटः पट इत्यनापत्तेः । 'प्रतियोग्यभावाऽन्वयौ तुल्ययोगक्षेमौ'इति तान्त्रिकोक्तेर्नीलो घट इत्यादौ तादात्म्येन घटांऽशे नीलपदार्थभानान्नसमभिव्याहारे तादात्म्यसम्बन्धावच्छिन्ननीलाभावबोधस्य सर्वानुभवसिद्धस्य नजोऽभावार्थकत्वं विनाऽनुपपत्तेनेदं रजतमिदं रजतमिति वाक्यजन्यबोधयोस्तत्तदभावानवगाहितया परस्परप्रतिबध्यप्रतिबन्धकभावाsनापत्तश्च नजो भेदार्थकत्वमावश्यकम् । नच नमो भेदार्थकत्वेऽब्राह्मणमानयेत्यादितो ब्राह्मणभिन्नलोष्टादेरपि बोधाssपत्तिः । न चेष्टापत्तिः । “न ह्यब्राह्मणमानयेत्युक्ते लोष्टमानीय कृती भवति" इति भाष्यविरोधादिति वाच्यम् । घटत्वेन घटार्थकघटपदात् सन्निहितव्यक्तिबोधवत् प्रकरणादिना ब्राह्मणभिन्नमात्रार्थकाद् ब्राह्यणपदात् क्षत्रियादेरेव बोधसम्भवात्। तस्मादघटो न पट इत्याद्यसमस्ते नमोऽभेद एव शक्ति दत्वस्याखण्डोपाधितया तस्य शक्य. ताऽवच्छेदकत्वे लाघवात् । समासघटकस्य तस्य तूत्तरपदस्य तद्भिन्ने लक्षणायां तात्पर्य्यग्राहकत्वमेव ॥ नच "न ब्राह्मणैरेतैरुपद्रुतम् इत्यादौ नजो भेदार्थकत्वे तत्प्रतियोग्यनुयोगिवाचकपद्योः समानविभक्तिकत्वाऽनुपपत्तिः । सामानाधिकरण्याभावादिति वाच्यम् । प्रतियोग्यनुयोगिनोरभेदाऽन्वयबोधौपयिकाङ्क्षायां सत्यामेव नजा भेदबोधनेन तयोः समानविभक्तिकत्वस्य तदुपजीव्यत्वात् । एवञ्च नजा भेदबोधनं प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तिवाचकत्वनियामकम् । अत एव 'भूतले न घट' इत्यादौ न भेदबोधः । परीक्षा नोक्तप्रकारेण ब्राह्मणोऽयमिति प्रयोगात्कैयटोक्त एवार्थो युक्त इति चेद् ? न । अभावप्रत्यक्षे प्रतियोग्यारोपः कारणमिति प्राचीनोक्तस्याभावप्रत्यक्षकारणस्य प्रदर्शकतद्भाष्यमिति कल्पनासम्भवात् । ___ वस्तुतस्तु सादृश्याद्यनाभेदेनोपादानन्तत्रैव भेदप्रतीतिरिति न नियमः। 'घटो न पटः' 'नीलो न रक्त' इति रीत्याऽत्यन्तासदृशेऽपि नञः प्रयोगदर्शनात् । नचाभावस्य भेदरूपस्य वाच्यत्वे तस्य भेदस्य विशेषणत्वपक्षे ब्राह्मणमात्रस्य 'अब्राह्मणमानय' इति वाक्यजन्यबोधानन्तरमानयनम्प्राप्नोतीति दूषणमस्त्येवेति वाच्यम् । यथेदं 'नीलम्फलमानयाइत्युक्ते तदूघटकफलपदस्य सन्निहितफलपरत्वमेव । व्यक्ति Page #340 -------------------------------------------------------------------------- ________________ नमर्थनिर्णयः । ३११ दर्पणः दृश्यते च - "यजत्रिषु येयजामहं करोति नानुयाजेषु" इत्यत्र नजा पर्युदासबोधः । उक्तवाक्ये यजतिशब्दो यागस्वरूपवचनः । तथाचाऽनुयाजभिन्नेषु यागेषु येयजामहशब्दवन्मन्त्रं करोति = उच्चारयतीत्यर्थः । अत एवात्रानुयाजभिन्नेषु यजतिषु येजजामहपदवन्मन्त्रप्रयोगरूपैकाऽर्थविधानादेकविधेयार्थकत्वरूपैकवाक्यत्वमुपपद्यते । अन्यथा यागेषु येयजामहपदवन्मन्त्रविधानमनुयाजेषु निषेधविधानमिति विधेयइयार्थकत्वरूपवाक्यभेदापत्तेर्येयजामहपदानुषङ्ग कल्पने गौरवाच्चेति भावः ॥ अन्येतु शास्त्रविहितप्रतिषिद्धत्वात्, षोडशिग्रहणाग्रहणवद्विकल्पापत्तेर्नाऽनुयाजेष्वित्यत्र नञः प्रतिषेधार्थकत्वम् । तथाहि क्रियायाः कारकसाकाङ्क्षत्वाद् विनिगमनाविरहेण सकलकारक विशिष्टां प्रतियोगिभूतां भावनामुद्दिश्याऽभावविधिस्तत्र वाच्यः । एवञ्चोद्देश्यस्य प्रसिद्ध्यर्थं तत्प्राप्तिरपेक्षिता । प्राप्तिसापेक्षत्वात् प्रतिषेधस्य । प्राप्तिश्च क्वचिद्रागतो, यथा “न कलजं भक्षयेत्” इति । तत्र कलञ्जभक्षणादे रागत इष्टसाधनत्वाऽवगत्या प्रसक्तायाः कलञ्जभक्षणभावनाया निषेधशास्त्रेण निवृत्तिविषयत्वेsaगतेऽर्थात् तद्विषयकलअभक्षणस्यानिष्टसाधनत्वाक्षेपात् ततो निवृत्तिः॥ प्रकृते तु 'येयजामहङ्करोति, इति शास्त्रादेव सा । एवञ्च निषेधस्य शास्त्रविषयत्वेन प्राबल्यवद् विधिशास्वस्याऽप्युपजीव्यत्वेन प्राबल्यान्निषेधेन विधेरत्यन्तबाधायोगाद् विकल्प एव प्राप्नोति विकल्पे च 'ब्रीहिभिर्जुहोति' 'यवैर्वा जुहोति' इत्यादौ प्रथमं व्रीह्यनुष्ठाने वेदस्य विपर्यासरूपमितिजनकत्वासम्भवाद्यवशास्त्रस्याप्राप्ताप्रामाण्यस्वीकारः, प्रतीताप्रामाण्यपरित्यागश्चेति दोषद्वयम् । प्रयोगान्तरे यवोपादाने यवशास्त्रस्य स्वीकृताप्रामाण्यपरित्यागः परित्यक्तप्रामाण्योपादानञ्चेति दोषद्वयमिति चत्वारो दोषाः । पुनस्तृ परीक्षा वचनानां सन्निहित पदार्थबोधकत्वमसति बाधके इत्यस्य स्वीकारात्तथा प्रकरणादिना 'अब्राह्मणमानय' इति वाक्यघटकस्याब्राह्मणपदस्य “नह्यब्राह्मणमानयेत्युक्ते लोष्टमानीय कृती भवति' इति भाष्याब्राह्मणविशिष्टभेदाश्रये लक्षणा निरूढा अस्तीति कल्पनात् । साऽपि लक्षणा न समुदायस्य ; किन्तु नज एवोत्तरपदार्थविशिष्टभेदाश्रये लक्षणा, प्रतियोगिवाचकमुत्तरपदं तात्पर्य्यग्राहकमिति स्वीकारात् । नच नज्समासाभावे नजो भेदार्थकत्वे प्रतियोग्यनुयोगिनोरभेदेनान्वयाभावात् तद्वाच कपदयोः समानविभक्तित्वानुपपत्तिरिति वाच्यम् । यत्र न समभिव्याहाराभावे प्रतियोग्यनुयोगिनोरभेदान्वयबोधौपयिकाकाङ्क्षातत्रैव नजो भेदार्थकत्वम् । तादृशी चाकाङ्क्षा प्रतियोगिनोः समानविभक्तिकत्व एव भवति । अत एव 'भूतले न घट' इत्यत्र नजो भेदार्थकत्वम्, किन्त्वत्यन्ताभावार्थकत्वमितिप्रवादः साधुरेव । एवञ्च प्रतियोग्यनुयोगिनोः समानविभक्तिकत्वे भेदार्थकत्वोपजीव्यम् । अत एव "प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ” इत्यस्यापि प्रवादस्य नानुपपत्तिरित्याशयात् । तदर्थश्च नञोऽभावे यद्धर्मावच्छिन्ने येन सम्बन्धेन प्रतियोगिनः प्रकारतया भानम्, नजूसमभिव्याहारे तत्र तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य प्रकारतेति । अत एव 'जतिषु येयजामहे; 'करोतिनानुयाजेषु' इत्यत्र नञः पर्युदासपरतया एकवाक्यतेति सिद्धान्तोपपत्तिः । अत्र जयतिशब्दो यागपरः । येयजामहशब्दो येयजा Page #341 -------------------------------------------------------------------------- ________________ ३१२ दर्पणपरीक्षासहिते भूषणसारे दर्पणः तीये प्रयोगे बीयुपादाने ब्रीहिशास्त्रस्य स्वीकृताप्रामाण्यपरित्यागस्त्यक्तप्रामाण्यस्वीकारश्चेति दोषद्वयम्। चतुर्थे यवोपादाने व्रीहिशास्त्रस्यास्वीकृताप्रामाण्यस्वीकार स्वीकृतप्रामाण्यत्यागश्चेति दोषद्वयमिति चत्वारोऽन्येऽपीत्यष्टदोषविकल्पापत्त्या नजनुयाजपदाभ्यामनुयाजभेदो बोध्यते । सोऽयं पर्युदासः । अस्मिश्च पक्षे येयजामहो न कर्तव्यतया विधीयते । 'यजतिषु येयजामहङ्करोति' इत्यनेनैव तद्विधानात् । किन्तु सामान्यशास्त्रविहितयेयजामहमनूद्य तस्याऽनुयाजव्यतिरिक्तविषयता बोध्यते। तथाच सामान्यशास्त्रस्य विशेषविधिसापेक्षत्वान्नानुयाजेष्वित्यनेनानुयाजव्यतिरिक्तविषयसमर्पणादनुयाजव्यतिरिक्तेषु येयजामहः कर्त्तव्यतया प्रतीयतेऽनुयाजेषु तु न कर्त्तव्यतया प्राप्तो, नापि प्रतिषिद्धः स इति न विकल्पः। नच नसा निषेधबोधनेऽपि पदशास्त्रेणाऽऽहवनीयशास्त्रस्येव, नाऽनुयाजेष्विति विशेषशास्त्रेण 'यजतिषु येयजामहङ्करोति इतिसामान्यशास्त्रस्य बाधान्न विकल्प इति वाच्यम् । परस्परनिरपेक्षयोहि बाध्यबाधकभावः । पदशास्त्रेणाऽऽहवनोयशास्त्रस्यानपेक्षणात् स उचितः। निषेधशास्त्रस्य तु प्रतियोगिप्रसिद्धयर्थमस्त्यपेक्षा विध्यर्थस्य । "प्रसक्तं हि प्रतिषिद्धयते इति न्यायात्तेन तबाधाऽसम्भवात्, किन्तुक्तयुक्त्या विकल्प एव । तथा च द्विरदृष्टकल्पनाप्रसङ्गोऽपि । विधेयेवं ज्ञायते । यदनुयाजेषु येयजा. महकरणेन कश्चनोपकारो भवति ; निषेधाच्च तदकरणादनृतवदनाकरणादिव दर्शपूर्णमासयोः । स चोपकारो दृष्टरूप एवेत्यतोऽपि विकल्पो न युक्त इत्याहुः ।। __ अत्र केचित्-निषेधशास्त्राऽनालोचनेन सामान्यशास्त्रालोचनमात्रेण भ्रमात्मकप्रतियो. गिप्रसिद्धयाऽभावबोधनसम्भवेन विकल्पाप्रसक्तः। विशेषनिषेधेसमान्यविधेस्तदितरपरत्वस्य 'ब्राह्मणेभ्योदधिदातव्यं,कौण्डिन्याय न दातव्यम् इत्यादी व्युत्पत्तिसिद्धत्वाच्च । न च तत्रापि पर्युदास एव ना बोध्यते । नजा पय्युंदासबोधने विशेष्यविशेषण परीक्षा महशब्दवन्मन्त्रप्रयोगपरः । अनुयाजभिन्नेषु यागेषु येयजामहशब्दवन्मन्त्रप्रयोग कुर्य्यादित्यर्थः । एवञ्चोभयोरेकविधेयकोद्देश्यकान्वयबोधजनकत्वरूपैकार्थकत्वस्योपपत्तिः । यद्यन्न नजोऽत्यन्ताभावार्थकत्वं स्यात्तदा यजतिषु येयजामहशब्दवन्मन्त्रप्रयोगङ्कुर्यात् । अनुयाजेषु येयजामहशब्दवन्मन्त्रप्रयोगन्न कुर्यादित्यर्थे वाक्याभेदापत्तिः । किञ्चात्यन्ताभावार्थकत्वे प्रसक्तं हि प्रतिषिध्यते इति न्यायेन 'यजतिषु येयजामहं करोति इति वाक्यस्य यागत्वावच्छेदेन येयजामहशब्दवन्मन्त्रप्रयोगविधायकत्वं कल्पनीयम् । नानुयाजेष्वित्यनेनचानुयाजाधिकरणकयेयजामहशब्दवन्मन्त्रप्रयोगोत्पत्यनुकूलभावनाया निषेधविधानमिति वाच्यमित्यनुयाजाधिकरणकनिषेधे यजतिष्विति वाक्यबोध्यार्थस्योपजीव्यत्वात्तस्य सर्वथा बाधो न सम्भवतीति निषेधविषये विकल्पस्यापत्तिः स्यात् । षोडशिग्रहणाग्रहणयोर्भवत्यपरोऽपि दोषश्चेति पयुर्दास एव । एतेन न नजो भेदबोधकत्वेऽनुयोगिवाचकपदोत्तरम्प्रथमाऽपेक्षितेति वदन्तः परास्ताः। विकल्पे सत्यपि नक्षतिरिति तु न ; 'ब्रीहिभियजेत' 'यवैर्वा यजेत इत्यत्रेवाष्टदोषापत्तेः। पर्युदासेन सामान्यशास्त्रस्य निषेधविषयातिरिक्तस्येव विधायकत्वमिति न विकल्पः । न च निषेधस्य विध्युन्मूलकत्वेन प्राबल्याद्विधिशास्त्रविषयातिरिक्त एव विधे Page #342 -------------------------------------------------------------------------- ________________ नबर्थनिर्णयः । ३१३ मन्यथा सादृश्यादेरपि वाच्यतापत्तेः। यत्तु तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिताः॥ । इति पठित्वा, अब्राह्मणः, अपापम् , अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये गोऽश्वेभ्यः, अधर्म इत्युदाहरन्ति । तत्त्वार्थिकार्थमभिप्रेत्येतिस्पष्टमन्यत्र । विशेषणमिति प्रतियोगिनीति शेषः। तथाचासर्वपदे सर्वनाम दर्पणः वाचकपदयोः समानविभक्तिकत्वस्येव तयोः समानवचनस्यापि तन्त्रत्वात् , तस्य प्रकृ. तेऽभावात् । अन्यथा 'न महतो राज्ञ' इत्यादाविव न महतां राज्ञः इत्यादावपि महनेदप्रतीत्यापत्तिः। 'एको न द्वौ' इतिवत् कथञ्चित् समर्थनेऽपि द्वितीयस्य दातव्यमित्यस्य नैरर्थक्यप्रसङ्गश्च 'ब्राह्मणेभ्यो दधि दातव्यं कौण्डिन्याय न' इत्यादौ। अत एव कौण्डिन्यभिन्नब्राह्मणोद्देश्यकदधिदानबोधसम्भवादित्याहुः ।। विकल्पप्रसक्तिरूपदोषाऽभावेऽपि वाक्यभेदाऽऽपत्तेर्जागरूकतया समानविभक्तिकत्वादेस्तबोधनियामकस्य सत्त्वेन च नञः पर्युदासार्थकत्वमेव, नाऽनुयाजेष्वित्य. नोचितमिति तु परे॥ प्रकृतमनुसरामः ॥ *अन्यथेति* । लाघवाऽनादरेणाऽऽरोपितत्वस्य न वाच्यत्वा. ऽभ्युपगमे इत्यर्थः । सादृश्यादेरित्यादिना पठिष्यमाणाऽल्पत्वादेः सङ्ग्रहः; अब्राह्मण इत्यादेर्ब्राह्मणसदृशः, पाकाभावोऽश्वभिन्नोऽल्पोदरा गवाश्वेतरा पशवोऽप्रशस्ता धर्मविरुद्ध इत्यादिक्रमेणाऽर्थः । नन सादृश्यादेरवाच्यत्वे कथं ततस्तदबोधोऽत आह*तत्त्विति । तत्पठनं त्वित्यर्थः ॥ *अभिप्रेत्येति । भेदप्रतियोगित्वप्रकारकब्राह्मणादिबोधाऽनन्तरभाविमानसबोधमभिप्रेत्येत्यर्थः॥ ___ ब्राह्मणादिबोधस्य तत्तत्पदादेव सम्भवाद्भेदप्रतियोगित्वेन ब्राह्मणादिबोधनाय यदू ब्राह्मणादिपदोपादानं तत्सादृश्यादिना क्षत्रियादिबोधनार्थमित्यूहमूलकक्षत्रियादिबोधस्य भेदप्रतियोगी ब्राह्मण इत्यादिशक्यार्थबोधोत्तरमेव सम्भवादिति भावः। तबोधे शाब्दत्वप्रत्ययस्याऽनुभवाल्लक्षणयैव सादृश्यादिना ब्राह्मणादिबोध इति त्वन्ये । विशेषणस्य विशेष्यस्याकाडत्त्वादाह-*प्रतियोगिनीति*। एवं चाऽब्राह्मण इत्यादेः प्रतियोगितया भेदविशिष्टो ब्राह्मण इत्याद्याकारको बोध इति भावः । भेद. परीक्षा यबोधकतेति वाच्यम् । अस्याः कल्पनाया वाक्यद्वयजन्यबोधानन्तरमेव सम्भव इति वाक्यस्य विधिबोधकस्योद्देश्यतावच्छेदेन विधेयबोधकता स्यादेवेति विकल्पापत्तः। तावतापि वाक्यभेदापत्तेश्चेति दिक् । अन्यथा यथाकथञ्चित् प्रतीयमानस्यापि वा. च्यत्वे वाच्यत्वापत्तेरिति । इष्टापत्तिस्तु न । शक्यतावच्छेदकगौरवापत्तेः। .. । ननु नजर्थभेदस्य प्रतियोगितासम्बन्धेन प्रतियोगिनि विशेषणत्वे घटप्रतियोगिकभेदस्य प्रतियोगितासम्बन्धेन घटे सत्वात्तद्विशिष्टस्य घटस्याघटान् नयेतिवाक्या बो. धापत्तिरत आह-मूले- विशेष्यो वेति । प्रथमपक्षे नमर्थाभावस्य प्रतियोगिविशेष ४० द० प० Page #343 -------------------------------------------------------------------------- ________________ ३१४ दर्पणपरीक्षासहिते भूषणसारेसंज्ञा । “अनेकमन्य पदार्थे," "सेव्यतेऽनेकया सन्नतापाङ्गया” इत्यादावेकशब्दार्थप्राधान्यादेकवचननियमः । 'अब्राह्मण' इत्यादावुत्तरपदार्थप्राधान्यात् तत्पुरुषत्वम् । 'अत्वं भवसि' 'अनहं भवामिइत्यादौ पुरुषवचनादिव्यवस्था चोपपद्यते । __ अन्यथा त्वदभावो मदभाव इतिवदभावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाधिकरण्यस्य तिक्ष्वसत्त्वात् पुरुषव्यवस्था न स्यात् । अस्मन्मते च भेदप्रतियोगित्वदभिन्नाश्रयिका भवनक्रियेत्यन्वयात् सामानाधिकरण्यं नानुपपन्नमिति भावः। *विशेष्यो वेति* । प्रतियोगिनीति शेषः। अयम्भावः-गौणत्वेऽपि दर्पणः स्य प्रतियोगितयोत्तरपदार्थान्वये उपपत्तिमाह-*तथाचेति । ____ सर्वनामता चेत्यादि-प्रथमान्तचतुष्टयस्योपपद्यते इत्यनेनाऽन्वयः । *सर्वनामता*-सर्वनामसंज्ञा । तदन्तविधिनेति शेषः । अन्यथा संज्ञोपसर्जनानां सर्वादित्वाभावे तदर्थस्य नअर्थविशेषणत्वे तत्संज्ञानुपपत्तिरिति भावः । अनेकमित्यादावेकभिन्नमिति बोधे स्वीक्रियमाणे एकप्रतियोगिकभेदवति द्वित्वस्य बहुत्वस्य वाऽवश्यम्भावे ततस्तबोधकद्विवचनबहुवचनयोरापत्तिरेकत्वार्थस्य तत्र बाधात्तद्वोधकैकवचनस्यानुपपत्तिश्चेति भावः ॥ *तत्पुरुषत्वमिति । भेदविशेषणत्वे तदनुपपत्तिः स्यात् । *पुरुषेति । तिबादित्रिकसङ्केतिततत्पुरुषेत्यर्थः । *वचनेति । एकवचनत्वादिरूपेत्यर्थः । “अयुवां भवथ" इत्यादौ युष्मदस्मदर्थाभावविशेष्यकबोधे अभावे द्वित्वाद्यर्थस्य बाधाद् द्विवचनाद्यनु. पपत्तिः । भावनाऽन्वयिन्येव सङ्घयाऽन्वय इति त्वदभ्युपगमेनाऽन्याऽर्थगतसङ्ख्यामादाय द्विवचनाद्युपपादनस्य कर्त्तमशक्यत्वादिति भावः। ___*अन्यथेति । नजाभावस्योत्तरपदार्थाऽविशेषणत्वे तद्विशेष्यत्व इति यावद् । *पुरुषव्यवस्थेति । "युष्मद्युपपद" ( पा० सू० ४।१।१०५ ) इति सूत्रद्वयाऽविषयतया, "शेषे प्रथमः” (पा० सू० ४।१।१०८ ) इत्यस्य प्रवृत्त्या प्रथमपुरुषस्यैवापत्तेरित्यर्थः । *नानुपपन्नमिति । तथाचोक्तव्यवस्था सुलभेति भावः । ननु नजर्थभेदस्य प्रतियोगितयोत्तरपदार्थाऽन्वये अघटमानयेत्यत्र स्वभेदप्रतियोगित्वस्य घटे सत्त्वात्तबोधानन्तरं घटानयनस्याऽऽप्यापत्तिरत आह-मूले-*विशेष्यो वेति । विशेषणाकाङ्क्षायामाहसारे-*प्रतियोगिनीति* । उत्तरपदार्थरूपप्रतियोगिनीत्यर्थः। परीक्षा णत्वस्वीकारस्य प्रयोजनान्याह-*तथाचेत्यादिना*। *तत्पुरुषत्वमिति । उत्तरप. दार्थप्रधान एव तत्पुरुष' इति वादिमताभिप्रायेणेदम् । *पुरुषवचनव्यवस्थेति । युष्मदर्थस्य भेदविशिष्टस्य कर्तृतया युष्मदर्थेन सामानाधिकरण्यस्य सत्वात्पुरुषव्यवस्थाया आदिपदग्राह्ये 'युवां भवथः' इत्यादौ द्विवचनादिव्यवस्थायाश्वोपपत्तिरित्यर्थः। । ___ *अन्यथा-नजर्थाभावस्योत्तरपदार्थाविशेषणत्वे । मूलोक्तविशेष्यत्वपक्षे विशेष्यत्वस्य विशेषणतानिरूपकत्वनियमाद्विशेषणाकाङ्क्षाशान्तये आह-प्रतियोगिनीतीति । एवञ्चास इति शब्दात्तद्भिन्नाश्रय इति बोधः । *गौणत्वेऽपीति । उपसर्जन Page #344 -------------------------------------------------------------------------- ________________ - नअर्थनिर्णयः। ३१५ नसमासे, "एतत्तदोः सुलोपोऽकोरनसमासे हलि" (पा०. सू० ३६।१।३२) इति ज्ञापकात् सर्वनामसंज्ञा नानुपपन्ना । 'अस: शिव' इत्यत्र सुलोपवारणायाऽनसमास इति हि विशेषणम् । नच तत्र तच्छब्दस्य सर्वनामताऽस्ति । गौणत्वात् । अकोरित्यकचसहितव्यावृत्त्या सर्वनाम्नोरेव तत्र ग्रहणलाभात् । तथाचानसमास इति ज्ञापकं सुवचम् । . - "अनेकमन्यपदार्थे, इत्यादावेकवचनं विशेष्यानुरोधात् । "सुबामन्त्रिते पराङ्गवत् स्वरे” (पा० सू० २।१२) इत्यतोऽनुवर्त. दर्पणः निरूपितत्वं सप्तम्यर्थः । उत्तरपदार्थरूपप्रतियोगिनिष्ठविशेषणतानिरूपितविशेष्यताश्रयो नमर्थ इति यावत् । ननु तद्युत्तरपदार्थाऽप्राधान्ये पूर्वोक्तदूषणगणो दुष्परिहारोऽत आह-*अयम्भाव इति*। *गाणत्वेऽपीति । नसमासघटकैतदाधर्थस्य नजर्थविशेषणत्वेऽपीत्यर्थः । *ज्ञापकादिति । तत्सूत्रस्थान्नसमासग्रहणाज्ज्ञापकादित्यर्थः । ज्ञापकतामेव प्रपञ्चयति-*अस शिव इति । ____ "एतत्तदोः" (पा० सू०६।१।१३२ ) इत्यनेन परस्परसाहचर्य्यात् सर्वनामैतत्त यां परस्य सोर्हलि लोपो विधीयते । नञ्तत्पुरुषाऽन्तर्गततत्तदोरुपसर्जनतया सर्वनामत्वाभावादेवानतिप्रसङ्गे व्यर्थ सदनसमासग्रहणं नसमासे गुणीभूतार्थस्यापि सर्वादेः सर्वनामताज्ञापनेन चरितार्थमिति भावः। साहचर्यज्ञापकत्वस्यासार्वत्रिकत्वं सूचयन सूत्रे सर्वनाम्नोरेव ग्रहणे मानान्तरमाह-*अकोरिति । - असर्वनाम्नः सर्वनामविहिताकजसम्भवेन तत्पर्युदासात् सर्वनाम्नोरेव तयोग्रहणं निश्चीयत इत्यर्थः । एतत्कल्पे एतत्तदुत्तरस्य सोर्हलि लोप इति सूत्राऽर्थः । अर्थद्वारकसम्बन्धाश्रयणेन व्याख्यानं तु पूर्वकल्पाभिप्रायेणोत्तरपदलक्षणाभिप्रायेण वेति भावः । *विशेष्यानुरोधादिति । असति विशेषानुशासने विशेषणवाचकपदस्य विशेव्यवाचकपदसमानवचनकत्वानियमादिति भावः । ननु विशेषणस्य विशेष्यसङ्ख्याविरुद्धसंख्यावत्त्वेऽपि विशेषणवाचकपदात्तद्वचन. . परीक्षा त्वेऽपीत्यर्थः । प्रतियोगिनिष्ठप्रकारतानिरूपिताभावनिष्ठविशेष्यताकबोधजनकत्वस्यास इत्यत्रा सत्वादिति भावः । ज्ञापकमुपपादयति-*अस इत्यादिना । *गौणत्वात्। . उपसर्जनत्वात् । एवञ्च स्यदाद्यत्वानापत्या हल्ङ्यादिलोपो दुर्वारः । ननु सर्वनाम्न एव "एतत्तदोः” इति सूत्रे ग्रहणमित्यत्र किम्मानमत आह-*अक इति । विप्रयोगस्यापि विशेषावगतिहेतुत्वमन्यन्त्र दृष्टं तद्रीत्याऽत्रैवम्प्रतीतिरिति भावः। *ज्ञापकमिति* । नसमासे उपसर्जनत्वेऽपि सर्वनामकार्यम्भवतीत्यर्थे इत्यादिः।। ___विशेष्यानुरोधादिति । 'असति विशेषणविवक्षणे विशेषणवाचकम्पदं विशेष्यवाचकपदसमानवचनकमेव इति नियमस्य सर्वत्र दर्शनात् । ननु तत्र विशेष्यवाचकम्पदन्न श्रूयत एवेत्यत आह-*सुबामन्त्रित इति । ननु विशेष्यविशेषणयोविरुद्धसं. Page #345 -------------------------------------------------------------------------- ________________ ३१६ दर्पणपरीक्षासहिते भूषणसारेमानं सुब्ग्रहणं विशेष्यमेकवचनान्तमेव । किञ्चाऽनेकशब्दाद् द्विवचनोपादाने, बहूनां बहुवचनोपादाने द्वयोर्बहुव्रीहिर्न सिद्धयेदित्युभयसंग्रहायैकवचनं जात्यभिप्रायमौत्सर्गिकं वा । _ "सेव्यतेऽनेकया" इत्यत्रापि योषयेति विशेष्यानुरोधात् प्रत्येकं दर्पणः मित्यत्र प्रमाणाभावोऽत आह-*किञ्चेति । नन्वनेकशब्दोपादानादेव द्वयोर्बहूनां वा तत्सिर्द्विवचनबहुवचनयोरपि समयपरिपालनार्थत्वसम्भवादेकवचनोपादानं व्यर्थमेवेत्यत आह-*औत्सर्गिक वेति । "एकवचनमुत्सर्गतः करिष्यते” इति, "न केवला" इतिनियममूलकवचनविहितमित्यर्थः । सति तात्पय्ये क्वचित् सार्थकमप्येकव. चनमिष्यत एवेत्याह-*प्रत्येकमिति । एकभिन्नत्वेनोपस्थितासु योषासु प्रत्येक सेव. परीक्षा ख्यावत्वेऽपि वचनं समानमेवेत्यत्र सूत्रकारानुग्रह इति यदि ब्रूयात्तत्राप्याह-*किञ्चेति* । *बहुनामिात । अस्य बहुव्रीहिर्न सिध्येदित्यत्रानन्वयः । *जात्यभिप्रायम् । एकभिन्नरूपसामान्यधर्माभिप्रायम् । यथा 'सम्पन्नो व्रीहिः' इति प्रयोगो बहुषु व्रीहिषु सम्पन्नेष्वेव जायते, तत्रैकवचनार्थस्यैकत्वस्य स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन विशेष्येऽन्वयः स्वीक्रियते; तथैकभेदस्य द्विबहुसाधारणस्यैकत्वादेकवचनमिति भावः । न च विशेष्यवृत्तिप्रतियोगिताकस्य व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाभावस्यानुपगमेन कथमेतदिति वाच्यम् ? स्वसजातीयद्वितीयरहितत्वरूपैकत्वस्य तत्रासत्वे न तदवच्छिन्नप्रतियोगिताकभेदस्य सम्भवात् सम्पन्नो व्रीहिरिति वाक्यं यत्र सम्मतिः-सन्तोषसम्पादिकाः तत्रैव प्रयुज्यत इति तत्रास्तु तथा, प्रकृते तु किं साधकम् , द्वयोर्बहूनां च समाससिद्धिरूपं प्रयोजकत्वेनैकशब्दापादानं सामर्थ्यादेव भविष्यतीत्यत आह-*औत्सर्गिकमिति* । 'एकवचनमुत्सर्गतः करिष्यत' इति भाष्यीयसिद्धान्तमाश्रित्यैकवचनकृतम् । अन्यथा प्रातिपदिकमात्रोपादानेन "केवला प्रकृतिः प्रयोक्तव्या” इति वचनविरोधः स्यादिति भावः।। ___ न केवलं विशेष्यानुरोध एव; किन्तु सार्थकमपि तदित्याह-*प्रत्येकमिति । एकभिन्नत्वेनोपस्थितासु योषासु पृथक् पृथक् सेवनान्वय विवक्षयेत्यर्थः। अत एव अनेकशब्दस्यैकभिन्नार्थकत्वादेव । यदि प्रतियोगितासम्बन्धेन भेदविशिष्टमेकमित्यर्थः स्यात्तदोर्मय इत्यनेन विशेष्यस्य बहुत्ववत्वेनोपस्थितत्वात्तत्र भेदविशिष्टैकाभेदस्य बाधादनन्वयापत्तिः । नचैवमप्यन्वयानुपपत्तिः। नगर्थे भेदेऽन्वयितावच्छेदकावच्छि. नप्रतियोगिताकत्वसम्बन्धेनैवान्वयो व्युत्पत्तिसिद्धः । अन्यथा ब्राह्मणेऽपि व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकब्राह्मणभेदस्य सत्वादब्राह्मण इति प्रयोगापत्तिः स्यात् । तथाचैकत्वावच्छिन्नप्रतियोगिताको भेदो वाच्यः, सचाप्रसिद्ध एवेति वाच्यम् । स्व. सामानाधिकरण्यस्वप्रतियोगिवृत्तित्वोभयसम्बन्धेन व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगित्वानिरूपकभेदविशिष्टविशेष्यतावच्छेदकत्वमेवानेकत्वमित्यर्थस्य विवक्षितत्वात्। सच भेदस्तत्तद्वयक्तिप्रयोगिको बोध्यः । गगनघटोभयभेदमादाय गगनमनेकमिति व्य. वहारापत्तिवारणाय व्यासज्यवृत्तीत्यादि । क्वचित्त्वनेके इत्यत्रैकशेषेण बहुवचनमित्यु. Page #346 -------------------------------------------------------------------------- ________________ - नबर्थनिर्णयः। .. सेवनान्वयबोधनाय चैकवचनं, न तूत्तरपदाऽर्थप्राधान्यप्रयुक्तम् । अत एव "पतन्त्यनेके जलधेरिवोर्मयः” इत्यादिकमपि सूपपादम् । मत्वं भवसीत्यादौ युष्मदस्मदोस्तद्भिन्ने लक्षणा । नञ् द्योतकः । तथा च भिन्नेन युष्मदर्थेन तिङः सामानाधिकरण्यात् पुरुषव्यवस्था। त्वद्भिन्नाभिन्नायिका भवनक्रियेति शाब्दबोधः । एवं 'न त्वंपचसि इत्यत्र त्वदभिन्नाश्रयक-पाकानुकूलभावनाऽभावः। घटो नास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति रीत्या बोधः। दर्पणः नाऽन्वयबोधायेत्यर्थः । उपसंहरति-*न त्विति । *अत एवेति । अनेकशब्दस्यैकभिन्नार्थकत्वादेवेत्यर्थः। *सूपपादमिति । भेदप्रतियोग्येकार्थकत्वे तु तद् दुरुपपाद स्याद् । एकशेषेण समर्थनं त्वगतिकगतिरिति भावः। भाष्योदाहृते "नैकस्तिष्ठति" इति प्रयोगे जन इत्यध्याहार्यम् । प्रत्येकं स्थित्यन्वयबोधार्थ च तत्रैकवचनम् । अनेको जना इति त्व. साध्वेव । उत्तरपदार्थप्राधान्यादिव्यपदेशस्तु प्रायिक इत्याद्यपि बोध्यम् । अत्वं भवसीत्यादिनाऽनहम्भवामीत्यादिर्गह्यते । युष्मद इत्यस्मदोऽप्युपलक्षणम् । एवं त्वद्भिन्न इत्यत्रापि लक्षणेति तु नैयायिकाद्यनुसारेण । स्वमते तदनभ्युपगमात् । अत्वम्भवसी. त्यादावारोपादिबोधस्य सर्वानुभवविरुद्धत्वान्नसमासे सर्वत्रोत्तरपदस्य स्वार्थभिन्नलाक्षणिकत्वमेव युक्तमिति भावः ॥ प्रसज्ज्यप्रतिषेधार्थकनको व्यवस्थामाह-*एवं न त्वं पचसीत्यादि** ॥ नगर्थे युष्मदर्थान्वये तु प्रकृते पुरुषव्यवस्था न सिद्धयेदितिसूचयितुं पचसीति मध्यमपुरुषनिर्देशः । अधिकं त्वादावेवोक्तम् । इदमुपलक्षणं 'घटौ न स्त' इत्यादौ द्विवचनाद्य नुपपत्तेः । क्रियाप्रतियोगिकाभावविशेष्यकबोधे हेतुमाह-*असमस्तेति* ॥ व्याख्यानात् नमस्तदर्थस्य प्रसज्ज्यप्रतिषेधस्य तादृशनार्थाऽभावनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन बोधो, धातुजन्योपस्थितेर्भावनात्वावच्छिन्नविशेष्यतासम्बन्धेन हेतुत्वस्य पूर्वमुक्तत्वादिति भावः । नन्वभावस्य केन रूपेण शक्यता । न तावदभावत्वेन । चैत्रो न पचतीत्यादावपि भेदबोधापत्तेः। प्रसज्यप्रतिषेधत्वेन शक्यत्वेऽपि स एव दोषः । भेदस्याऽपि योग्याsनुपलब्धिजन्यप्रत्यक्षविषयत्वात् । तदनुपस्थितावपि नजोऽभावबोधाच्चेत्यत आह परीक्षा क्तं तत्त्विष्टमिति भावः । यत्र तु प्रामाणिकोऽनेकशब्द एकवचनान्तोऽस्ति; विशेष्यवाचकन्तु पदन्न श्रूयते, तत्र तात्पर्यानुरोधेन विशेष्यवाचकम्पदमध्याहार्य्यम् । उत्तरपदार्थप्रधानस्तत्पुरुष इति तु व्यवहार औत्सर्गिक इत्युक्तमेव । प्रागुक्तामनुपपत्तिम्प. रिहरति-*अत्वमित्यादिना*। *लक्षणा*-उत्तरपदस्य लक्षणा। ननु यत्र नजः क्रियान्वय्यर्थप्रतिपादकता तत्र कथम्बोध इत्यत आह-*नत्वम्पसीति । ननु मूले अभावो वेत्येवोक्तम् । शाब्दबोधेऽभावस्य तु भेदत्वादिना भानमि Page #347 -------------------------------------------------------------------------- ________________ ३१८ दर्पणपरीक्षासहित भूषणसारेअसमस्तनञः क्रियायामेवान्वयबोधात् । स चाभावोऽन्त्यन्ताभा दर्पणः *स चेति ॥ अभावश्चेत्यर्थः ॥ तथाच नोऽन्योन्याभावत्वेनात्यन्ताभावत्वेन वाऽभावे शक्तिकल्पनान्न दोषः। *अत्यन्ताभावत्वेति। अन्तं = स्वप्रतियोगिनिष्ठाभावप्रतियोगित्वमतिक्रान्तो व्यभिचरितोऽत्यन्तः । सचासावभावश्चेति विग्रहः । तस्य भावस्तत्वम् । स्वप्रतियोगिनिष्ठस्वशाभावप्रतियोगित्वव्यभिचारीतियावत् । “अन्त्यो जघन्यं चरमम्" इत्यमरेणाऽन्त्यशब्दस्य जघन्ये वृत्तिबोधनाज्जघन्यत्वं चोक्तार्थस्य जघनवृत्तिबोध्यत्वात् । घटात्यन्ताभावस्य स्वप्रतियोगिनिष्ठात्यन्ताभावप्रतियोगित्वाभाववति घटवृत्तिधमें सत्त्वात्तत्त्वं तत्राऽक्षतम् । घटान्योन्याभावस्य तु स्वप्रतियोगिनिष्ठान्योन्याभावप्रतियोगीत्वव्यापकत्वात्तव्यावृत्तिः । व्युत्पत्तिप्रदर्शनं चेदम् । लक्षणं त्वत्यन्ताभावस्य तादात्म्येतरसम्बन्धावच्छिन्न प्रतियोगिताकाभावत्वम् ॥ *अन्योन्याभावेति ॥ अन्योन्यस्मिस्तादात्म्येनाभावोऽभवनमिति व्युत्पत्त्या तादात्म्यसम्बन्धावच्छिन्नप्र. तियोगिताकाभावत्वमन्योन्याभावत्वम् । ताभ्यां शक्य इत्यर्थः। वस्तुतस्तु अत्यन्ताभावस्याभावत्वेनैव शक्यता, न तूक्तरूपेण, गौरवात् । तेन रूपेण बोधस्याननुभवाच्च । अत एव "तत्सादृश्यमभावश्च" इत्यत्राभावत्वेनैवात्यन्ताभावोपादानम् । __नच नञः संयोगादिसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वादिनाऽभावे शक्त्यनभ्युपगमे भूतले न घट' इति वाक्यजबोधस्य संयोगसम्बन्धेन भूतलविशेष्यकघटविशिष्टबुद्धेविरोधित्वानापत्तिस्तत्संसर्गावच्छिन्नतद्विशिष्टबुद्धौ तत्संसर्गावच्छिन्नप्रतियोगिताकत्वावगाहिन्या एव तदभावबुद्धेः प्रतिबन्धकत्वादिति वाच्यम् । निरुक्ताभावत्वेन शक्तावपि संयोगादीनां लक्षणे तादात्म्येतरसम्बन्धत्वेनानुगतरूपेणैव निवेशनीयतया नञ्पदशक्त्याऽप्यभावे विशिष्यसंयोगाऽवच्छिन्नप्रतियोगिताकत्वभानासम्भवात् प्रतिबन्धकत्वाऽनुपपत्तितादवस्थ्यात् । तादृशविशिष्टबुद्धिविरो परीक्षा त्यनुपपन्नमताआह-*स चेति । अत एव 'न पचति मैत्र' इति शब्दान्न भेदस्याभावत्वेन बोधः । *अत्यन्ताभावत्वेनैवेति । अत्यन्ताभावत्वेनैवेत्यपि न 'अयं चैत्रो न मैत्र' इति शब्दाभेदत्वेन बोधान्यापत्तेः । अत्यन्ताभावत्वम्-नित्यत्वे सति संसर्गाभावत्वम् । तादात्म्यत्वेन तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वमन्योन्या. भावत्वम् । वस्तुतस्त्वभावत्वमेव शक्यतावच्छेदकम् । नत्वत्यन्ताभावत्वादिकं चैत्रो न पचति' इति शब्दाच्चैत्रकर्तृकपचिक्रियाभाव इति प्रतीतेरनुभवसिद्धत्वात् । नचैवं सति 'न पचति चैत्र' इति शब्दादभेदबोधस्यापत्तिरिति वाच्यम् । 'प्रतियोग्यनुयोगि भावान्वयौ तुल्ययोगक्षेमौ' इति न्यायेनोक्तार्थकेन तत्तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावबोधस्यैव सम्भवेनोक्तस्थले तदसम्भवात् । न च 'चैत्रो न पचति' इति वाक्यघटकस्य नमोऽत्यन्ताभावबोधकतया तदसमभिव्याहारमते क्रियाविशेष्यकबोधस्यैव Page #348 -------------------------------------------------------------------------- ________________ नबर्थनिर्णयः। ३१९ दर्पणः धित्वाऽनुरोधेनाकाङ्क्षाबलादेव तादृशप्रतियोगिताकत्वस्य विशिष्यप्रतियोग्यभावयोः सम्बन्धविधया भानस्योपगन्तव्यत्वात् । ___ नन्वन्योन्याभावसाधारणाभावत्वस्य नपदप्रवृत्तिनिमित्तत्वेऽन्योन्याभावे पृथ. शक्तिकल्पनानर्थक्यम् । नचाऽन्योन्याभावत्वप्रकारकबोधानुरोधात्तस्यापि शक्यतावच्छेदकत्वकल्पनमावश्यकत्वम् । अन्यथा तादात्म्यसम्बन्धेन प्रतियोगिप्रकारकोऽयं घट इति बोधे, नाऽयं घट इति वाक्यजबुद्धरप्रतिबन्धकत्वापत्तेः । अन्योन्याभावत्वावगाह्यभावबुद्धेरेव तादृशत्रुद्धिविरोधित्वात् । घटाभाववानिति बुद्धेरपि तद्विरोधित्वापत्तेश्चेति वाच्यम् । तत्राभावत्वस्य नञ्पदशक्त्या तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्य समानविभक्तिकप्रतियोग्यनुयोगिवाचकपदयोः समभिव्याहाररूपाकाङ्क्षाबलेन लाभेन तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वस्याऽन्योन्याभावत्वावगाहितयैव त. त्तबुद्धः प्रतिबन्धकत्वोपपत्तौ तेन रूपेण शक्तिकल्पनस्याकिञ्चित्करत्वात् । न च नास्त्येव तदवच्छिन्ने शक्तिः पृथगुपादानं त्वभावसामान्यस्य नअर्थत्वा. लाभायैवेति वाच्यम् । तथा सति "नजाः षट् प्रकीर्तिताः" इत्यस्यासङ्गत्यापत्तेरिति चेत् ? स्यादेवम् । यद्यन्योन्याभावत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वरूपं निर्वक्तुं शक्येत, तदेव नः संयोगितादात्म्यस्य संयोगरूपतया संयोगात्य. न्ताभावेऽतिव्याप्तिः । सम्बन्धविधया तादात्म्यनिष्ठावच्छेदकतानिवेशेऽपि संयोगसंबन्धावच्छिन्नसंयोगधर्मावच्छिन्नप्रतियोगिताकाऽत्यन्ताभावातिव्याप्तितादवस्थ्यात्, किन्त्वनुयोगिताविशेष एव । एवञ्च तादात्म्यस्याप्यन्योन्याभावप्रतियोगितावच्छेदकसम्बन्धत्वमपि प्रामाणिकम् । इह संयोगेन घटो नास्तीतिवदर्य तादात्म्येन घट इत्यादिप्रत्ययात् । एवञ्च तादृशानुयोगिताविशेषप्रकारताकत्वमेवाभेदसम्बन्धेन प्रति. योगिप्रकारकधीविरोधित्वे तन्त्रमिति तदनुरोधेन नञः पृथगन्योन्याऽभावे शक्ति. रावश्यिकेति । ननु ननोऽविशेषेणात्यन्ताभावबोधकत्वे 'भूतले न घट' इत्यादिवाक्यजबोधेऽत्यन्ताभावभानापत्तिः । न च नञ्पदजन्यात्यन्ताभावबोधेऽनुयोगिवाचकपदोत्तरसप्तमी. समभिव्याहारज्ञानस्य हेतुत्वानोक्तापत्तिरिति वाच्यम् । 'चैत्रो न पचति' इत्यादिवाक्यजभावनात्यन्ताभावबोधे व्यभिचारेणोक्तकार्यकारणभावस्यैवासम्भवादिति चेत् ? परीक्षा सिद्धान्तितत्वेन चैत्रकर्तृकपचिक्रियेत्येव बोध इति, चैत्रविशेष्यकसामवायसंसर्गकक्रि. याप्रकारकबोधस्याभावेन कथमुक्तन्यायेन समवायसम्बन्धावच्छिन्नक्रियाभावभानमिति वाच्यम् । चैत्रकर्तृकत्वत्राश्रयकत्वम् । आश्रयता च-किञ्चित्सम्बन्धावच्छिन्नैवेति, प्रकृते समवायसम्बन्धावच्छिन्नाश्रयतायाश्चैत्रनिष्ठायाः क्रियानिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकतया भानेन नासमभिव्याहारे तत्सम्बन्धावच्छिन्नप्रतियोगिताकक्रियाभावभानस्याप्यङ्गीकारात्। एवम् 'घटो न पट' इति शब्दादप्यन्योन्याभावस्य बोधः सम्भवति । अभावत्वावच्छिन्नस्य नजा तत्र तादात्म्यसम्बन्धावच्छिन्नप्रति Page #349 -------------------------------------------------------------------------- ________________ ३२० दर्पणपरीक्षासहित भूषणसारे दर्पणः अत्र वदन्ति-यत्र नसमभिव्याहारे प्रतियोग्यनुयोगिनोराधाराधेयभावसंसर्गबोधोपयिकाकाङ्क्षाः तत्रैव नमोऽत्यन्ताभावार्थकत्वोपगमेन नोक्तस्थले तबोधापत्तिः । तत्र न[समभिव्याहारे तादृशबोधौपयिकालाविरहात् । 'न पचति चैत्रो 'नेदं चैत्रस्य' इत्यादौ नसमभिव्याहारे तिर्थस्य कृत्यादेः प्रथमान्तपदोपस्थापितचैत्रादा षष्ट्यर्थस्वत्वस्येदंपदार्थ आधाराधेयभावबोधौपयिकप्रथमान्तपदादिसमभिव्याहाररूपाकाटायाः सत्त्वेन तत्र नजा कृत्याद्यभावबोधनसम्भवात् । ___ एवञ्च यत्र प्रतियोग्यनुयोगिनोराधाराधेयभावः सप्तमी विनाऽनुपपन्नस्तत्राऽनुयो. गिवाचकपदात् सप्तम्यपेक्ष्यते । यथा 'भूतले न घट' इत्यादौ । तदुक्तं दीधितिकृता'वस्तुतो न पचति चैत्रो नेदं मैत्रस्येत्यादा विभक्त्यर्थकृतिसम्बन्धादेरभावस्य बोधने ना सप्तमी नापेक्ष्यते, अपेक्ष्यते च प्रातिपदिकार्थस्येति" इति ।। ____ न च 'चैत्रो न पचति' इत्यादौ नजाख्यातार्थभावनाभावबोधने, चैत्रौ न पचतश्चैत्रा न पचन्तीत्यादौ द्विवचनाद्यनुपपत्तिः। भवन्मते भावनाऽन्वयिनि संख्यान्वयनियमेन भावनान्वयिन्यभावे द्वित्वाद्यभावेन द्विवचनादिना तस्य बोधयितुमशक्यत्वात् । वैयाकरणमते तु तत्र धात्वर्थक्रियाभावस्यैव ना बोधनेन द्वित्वादिविशिष्टचैत्रकर्त्तकक्रियाभाव इति बोधाऽभ्युपगमेन तादृशानुपपत्त्यभावादिति वाच्यम् । __नसमभिव्याहारे भावनाभावान्वयिनि तिङर्थसङ्घयान्वय इति व्युत्पत्त्यन्तराभ्युपगमेन द्विवचनाद्युपपत्तेः । त्वन्मन्तेऽपि यच्चैत्रकर्त्तकः पाकोऽप्रसिद्धस्तत्र चत्रो न पचतीति प्रयोगानुपपत्त्या क्रियाप्रतियोगिकाभावस्य नजा प्रत्याययितुमशक्यत्वाच्च। न च तत्र नजा भेद एव बोध्यते । प्रतियोगितया चैत्रादिविशिष्टस्य तस्याऽऽख्या. तार्थकर्त्तव्येवाऽन्वयान्न तादृशप्रयोगानुपपत्तिरिति वाच्यम् । तथा सति प्रतियोगितासम्बन्धावच्छिन्नधात्वर्थप्रकारकबोधे असमस्तनपदजन्योऽपस्थितेहेतुत्वस्यात्रैव व्यभिचारेण त्वत्सिद्धान्तव्याघातात् । नसमभिव्याहारे आख्यातार्थभावनाऽन्वय्यर्थकत्ववत् तत्समभिव्याहारे भावनान्वय्यर्थकत्वरूपसामानाधिकरण्यस्य युष्मदादौ सत्त्वान्न न त्वं पचसीत्यादौ मध्यमादिपुरुषानुपपत्तिः । ___ यद्वा-नन्समभिव्याहारे स्वबोधकर्तत्वबोधकत्वम् , तत्समभिव्याहारे तु भूतपूर्वं तदादाय पुरुषोपपत्तिरित्याहुः । __ इदं त्ववधेयम्-नसमभिव्याहारे प्रतियोग्यनुयोगिनोर्यः सम्बन्धो भासते तत्समभिव्याहारे तत्सम्बन्धावच्छिन्नतदभावस्तदनुयोगिनि भासत इति व्युत्पत्तेर्न भूतले परीक्षा योगिताकत्वस्य समानविभक्तिकप्रतियोग्यनुयोगिवाचकपदसमभिव्याहारवशादू भानेन निर्वाहात् 'प्रतियोग्यनुयोगिभावान्वयौ तुल्ययोगक्षेमौ' इति नियमस्य नसमभिव्याहारे प्रतियोग्यनुयोगिनोर्यत्सम्बन्धावच्छिन्नाश्रयत्वप्रकारकबोधौपयिकाकासा तत्सम्बन्धावच्छिन्नप्रतियोगिताकाधेयाभावास्यापि भानमित्यप्यर्थः । न च जले समवायेन नीलरूपन्नास्ति' इतिशब्दान्नीलरूपाश्रयतायां समवायसम्बन्धावच्छिन्नत्वस्य पृथग्भानाभ्युपगमो भवता कार्य्यः । स च न सम्भवति । उक्तनियमेनैव सम्बन्धाव Page #350 -------------------------------------------------------------------------- ________________ नअर्थनिर्णयः। ३२१ वत्वान्योन्याभावत्वादिरूपेण शक्यस्तत्तद्रूपेण बोधादित्याद्यन्यत्र विस्तरः॥४१॥ इति वैयाकरणभूषणसारे नअर्थनिर्णयः ॥ ७॥ . दर्पणः न घटः' इत्यादावन्योन्याभावबोधस्तन्नियामकं त्वादावेवोक्तम् । परन्तु घटत्वादिविशिष्टोपस्थापकपदसमभिव्याहृतननादिपदस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन घटप्रकारकाभावशाब्दत्वस्य, तथा नीलादिसाकाङ्क्षघटाद्युपस्थापकपदसमभिव्याहृतनञ्पदस्य नीलघटत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नीलघटादिप्रकारकशाब्दबुद्धित्वस्य च कार्य्यतावच्छेदकत्वोपगमान्न'नीलघटो न घट' इत्यादिप्रयोगप्रसक्तिः, भवति च 'पीतो घटो न नीलघट' इत्यादिप्रयोगोपपत्तिरित्यायन्यतोऽवधाय॑मित्याशयवानाह*इत्याद्यन्यत्र विस्तर इति* ॥ ४१॥ इति भूषणसारदर्पणे नमर्थनिरूपणम् ॥ ७ ॥ परीक्षा च्छिन्नत्वलाभेन समवायेनेति शब्दात्पुनस्तदानस्वीकारे पौनरुक्त्यादिति वाच्यम् । उक्तनियमवशाधन समवायेनेत्यादिपदसमभिव्याहारो नास्ति; तत्र तत्तत्सम्बन्धाव. च्छिन्नत्वं प्रतियोगितायामेव भासते, यत्र तु समवायेनेत्यादिसमभिव्याहारस्त: त्राभावांशे समवायसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्य प्रकारतया भानमित्यङ्गीकारादिति दिक् ॥ ४१॥ इति श्रीभूषणसारे नार्थविवरणम् ॥ ७ ॥ ४१ द० प० Page #351 -------------------------------------------------------------------------- ________________ अथ निपातार्थनिर्णयः। प्रादयो द्योतकाश्चादयो वाचका इति नेयायिकमतमयुक्तम् । वैष. दर्पणः अथ निपातार्थनिर्णयः । प्रासङ्गिकं निपातोपसर्गार्थनिरूपणमित्याशयेन मूलमवतारयति-*प्रादयो द्योतका इति । द्योतकतारूपशक्तिमन्त इत्यर्थः । अत एव 'प्रजयति' इत्यादौ न प्रकर्षाद्यर्थस्य विशेष्यतेति भावः । मतान्तरे तु तात्पर्य्यग्राहकत्वं द्योतकत्वं वक्ष्यति । तत्र येनेत्यत्र यच्छब्दो नोत्तरार्द्धपठितहेतुमानपरामर्शकः; किन्तु हेत्वन्तरपरामर्शकोऽपी परीक्षा अथ निपातार्थनिर्णयः। शक्त्यर्थनिरूपणप्रसङ्गात् द्योत्यार्थमपि निरूपयति-*प्रादय इत्यादिना* । *द्यो. तका इति । न च द्योतकताव्यञ्जनैव, सा च न नैयायिकसम्मतेति कथमेतदिति वाच्यम् । तन्मते द्योतकत्वेन समभिव्याहृतगता या वृत्तिस्तबोधकत्वमेव । तस्य च प्रजयतीत्यादौ प्रशब्देऽपि सम्भवः । धातोः प्रकर्षविशिष्टजपे लक्षणायाः स्वाकारात्। प्रशब्दस्तु तत्र तात्पर्यग्राहकः । अन्ये तु प्रकर्षः प्रशब्दार्थस्तस्य समभिव्याहृतधात्वर्थे प्रकारतया भानम् । नामार्थधात्वर्थयोर्भेदेन नान्वयबोध इति नियमो निपातातिरि. क्तविषयकः । अत एव मीमांसकमते 'न कलञ्जम्भक्षयेत्' इति वाक्यात् कलाभक्षणाभावविषयक कार्यमिति बोधः । तस्मादेव धात्वर्थे कलाभक्षणे लिङर्थस्य बलवदनिष्टाननुबन्धित्वस्याभावविषयकबोधो नैयायिकमते । नचोपसर्गस्य वाचकत्वे प्रतिष्ठत इति यत्र प्रयोगस्तत्रापि स्थितिप्रकर्षप्रत्ययः स्यादिति वाच्यम् । द्योतकत्ववादिनाsत्रस्थधातुर्गतिवाची 'धातूनामनेकार्थत्वात् । प्रशब्दस्तद्गतादित्वस्य द्योतक इति वाच्यम् । तद्वन्मयापि धातोः स्थितेः प्रशब्दाद्गतादित्वस्य प्रतीतेः स्वीकारात् । निपातानामनेकार्थतया प्रकर्षवदादित्वेऽपि शक्तिरित्यभ्युपगमात् । आदित्वञ्च-तद्विषयककृतिध्वंसासमानकालिकत्वम् । तादृशानुपूर्व्याः प्रकर्षविशिष्टगतिनिवृत्तिविषयकबोधजनने निराकाङ्कत्वमिति तूभयमतेऽपि कल्पनीयमित्याहुः। तदपेशलम् । धातूनामनेकार्थ. त्वस्य सर्वसम्मतत्वेन धातुभ्य एव प्रजपति प्रणमतीत्यादौ प्रकर्षविशिष्टजपनत्योः प्रतीतिनिर्वाहे प्रशब्दस्य पृथक्शक्तिकल्पनस्य गौरवपराहतत्वात् । अनेकार्थशब्दादेकस्यार्थस्यैव प्रतीतो तात्पर्य ग्राहकस्यावश्यमपेक्षेति प्रशब्दस्य तात्पर्यग्राहकतयोपयोगात् । किञ्च प्रशब्दस्य प्रकर्षे शक्तिरित्यनुचितम् । धातुं विना केवलात्तस्मात् प्रकर्षप्रतीतेरनुभवविरुद्धत्वात् । शक्याभावेन लक्षणापि न । एतेन प्रजपतिप्रणमती. त्यादौ प्रशब्दस्यैव प्रकर्षविशिष्टजपनत्योर्लक्षणा ; धातुस्तत्र तात्पर्य ग्राहक इति परास्तम् । प्रत्ययानाम्प्रकृत्यान्वितस्वार्थबोधकतया प्रशब्दलक्ष्यार्थे प्रत्ययार्थानन्वयप्रसङ्गाच्च । Page #352 -------------------------------------------------------------------------- ________________ निपातार्थ निर्णयः । ये बीजाभावादिति ध्वनयन्निपातानां द्योतकत्वं समर्थयतेद्योतकाः प्रादयो येन निपाताश्चादयस्तथा ॥ उपास्येते हरिहरौ लकारो दृश्यते यथा ॥ ४२ ॥ ३२३ येन हेतुना प्रादयो द्योतकास्तेनैव हेतुना चादयो निपातास्तथा= द्योतका इत्यर्थः । अयम्भावः - ईश्वरमनुभवतीत्यादावनुभवादिः प्रतीयमानो न धात्वर्थः । भवतीत्यत्राप्यापत्तेः । नोपसर्गार्थः । तथा सत्यप्रकृत्यर्थतया तत्राख्यातार्थानम्वयापत्तेः । प्रत्ययानां प्रकृत्यर्थान्वित दर्पणः त्याह—*अयम्भाव इति । *न धात्वर्थ इति । न तत्प्रयोगाऽन्तर्गतधातु शक्य इत्यर्थः । *आपत्तेरिति । अनुभवादिप्रतीत्यापत्तेरित्यर्थः । *नोपसर्गार्थ इति । न तद्धातुसमभिव्याहृतप्रादिशक्य इत्यर्थः । *अनन्वयापत्तरिति । एतच्चानुभवादिमात्रप्रतीतिमभ्युपेत्य । वस्तुतस्तथा स्वीकारेऽक्रियार्थकत्वेन अनुभवादेर्धातुत्वानापतेरिति बोध्यम् । नन्वनुभवार्थकत्वेऽपि तस्य फलस्थानीयत्वेन तदन्वयिव्यापारसामान्याऽर्थकान्वापरीक्षा नचैवं घटमानयतीत्यादौ घटादिशब्दस्यैव घटकर्मत्वे लक्षणास्वीकारेण घटकर्मकानयनादिप्रतीतिसम्भवे प्रत्ययस्यापि शक्तिविलोपापत्तिरिति वाच्यम् । कर्मत्वपर्यन्तस्य प्रातिपदिकार्थत्वस्यानयने भेदसम्बन्धेनान्वयो न स्यात् । नामार्थधात्वर्थयोर्भेदसम्बन्धेनान्वयबोधस्याव्युत्पन्नत्वात् । नचैवं घटकर्मके लक्षणास्त्विति वाच्यम् । व्याकरणे – “कर्मणि द्वितीया" इत्यादेः शक्तिग्राहकत्व सिद्धान्तव्या कोपापत्तेः । न च तथापि घटमानयतीत्यादौ प्रतीयमानैकत्वे घटादिपदस्य स्वार्थसम्बन्धे लक्षणास्तु द्वितीयायाः कर्मत्वमात्रे शक्तिरस्त्विति वाच्यम् । क्लृप्तशक्तिकत्वस्योभयत्राविशिष्टत्वस्य घटादिपदस्य तत्र लक्षणा द्वितीयाया वेत्यत्र विनिगमकाभावात् । तस्मादुपसर्गाणां द्योतकत्वमेव । उपसर्गसंज्ञा तु क्रियायोग एवेति क्रियावाचकधातुप्रयोगे तेभ्य एव द्योत्यार्थविशिष्टक्रियाबोधः । यत्र न क्रियावाचकधातोः प्रयोगस्तत्र तेषामुपसर्गत्वाभावेनास्तु शक्तत्वम् । अत एव निविशत इत्यत्र द्योतकस्यापि निर्मक्षिकमित्यत्र ध्वंसवाचकता; उपकरणमित्यत्रोपसर्गस्य द्योतकत्वेऽप्युपकुम्भमित्यत्र समीपवाचकत्वेऽव्ययीभावः सङ्गच्छते । *चादय इति* । घटः पटइचेत्यादिभ्यः परसमुदितो घट इत्याद्यर्थप्रतीतेरनुभवसिद्धतयाऽन्वयव्यतिरेकाभ्यां वाचकत्वस्य सिद्धेः । वैषम्ये प्राद्यपेक्षया चादिषु वैषम्ये यथा प्रादिद्योत्यार्थस्य धात्वर्थे विशेषणता, तथाचादिद्योत्यार्थस्यापीति न वैषम्यम् । तथा द्योतका इत्यनेन द्योतकत्वस्य समर्थनेऽपि येनेति तृतीया तस्य नोत्तरार्धोपात्तानुरोधेनैव चादीनां द्योतकत्वमिति । किञ्च यदपि तत्र साधकमस्तीत्याशयेनाह— *अयम्भाव इत्यादिना* 1 *न धात्वर्थः— नैतत्प्रयोगघटकस्य धातोरर्थः । Page #353 -------------------------------------------------------------------------- ________________ ३२४ दर्पणपरीक्षासहिते भूषणसारेस्वार्थबोधकत्वव्युत्पत्तेः । अनुगच्छतीत्यादौ-अनुभवादिप्रत्ययापत्ते. श्च । न विशिष्टार्थः, गौरवात् । तथाच धातोरेव विद्यमानत्वादिवाचकस्यास्तु लक्षणा, उपसर्गस्तात्पर्य्यग्राहक इत्यस्तु । तथा च तात्पर्यग्राहकत्वमेव द्योतकत्वमिति। । तच्च चादिष्वपि तुल्यम् । चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्टं चैत्रपदं लक्ष्यम् । इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वादिति। दर्पणः देर्न धातुत्वानुपपत्तिरत आह-*अनुगच्छतीत्यादाविति । अत्रानोरनुभवाऽर्थकत्वे तदनुरोधेन गमेरपि व्यापारसामान्याऽर्थकताया एवाऽभ्युपेयतया तथा प्रतीतिदुर्वारा स्यादित्यर्थः। वस्तुतस्तु संयोगाऽवरुद्धव्यापारेऽन्वर्थानुभवस्य बाधेनाऽन्वयासम्भवान्नाऽनोरनुभवार्थकत्वसम्भावनेति भावः । *गौरवादिति । विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वे गारवादित्यर्थः । *तथाचेति । धातूपसर्गविशिष्टानां प्रत्येकं प्रतीयमानानुभवार्थप्रति. पादकत्वासम्भवादिति समुदितार्थः । विद्यमानत्वादीत्यादिनोत्पत्तिर्गृह्यते । लक्षणे. त्यस्यानुभवादिरूपेऽर्थे इति शेषः । लक्षणाकल्पिकायास्तात्पर्य्यानुपपत्तेस्ताप्तर्यग्रहाऽधीनतया तस्य चोपसर्गसमभिव्याहाराद्यायत्तत्वादित्यर्थः। नन्वेतावतोपसर्गस्य तात्पर्य्यग्राहकत्वमेव समायातं, न द्योतकत्वमत आह-*तथा. चेति ॥ तात्पर्य्यग्राहकत्वमेवेत्येवकारेण द्योतकत्वस्य वृत्त्यन्तरव्यवच्छेदः । अनुभवा. परीक्षा *व्युत्पत्तेरिति । इदमुपलक्षणम् । यद्यनुभव उपसर्गार्थस्तदा तस्मिन्नर्थे भ्वादेर्धातुसंज्ञान स्यात्, क्रियावाचकत्वाभावादिति । दूषणान्तरमाह-*अन्विति । एतेनानुभवतीत्यादावनुभवः। फलन्तदनुकूलव्यापारो धात्वर्थ इत्यपास्तम् । अनुगच्छतीत्यत्र गमेर्गतिवाचकतया गतेस्वव्यापाररूपतयाऽनुभवाजुकूलव्यापारस्य बोधापत्तिः। यदि तु 'ग्रामं गच्छति' इत्यत्र गमधातोः संयोगावच्छिन्नव्यापारे शक्तस्तया प्रकृतेऽपि स एव धात्वर्थो भविष्यति, तत्र चानुकूलतासम्बन्धेनानुभववैशिष्ट्यम्बाधितमिति नानुभवानुकूलव्यापारप्रत्ययापत्तिरिति विभाव्यते, तदाऽनन्वयापत्तिर्दोषो बोध्यः । नन्वीश्वरमनुभवतीत्यत्रानुभू इतिविशिष्टस्य समुदायस्य सोऽर्थ इति चेत्तत्राप्याह*गौरवादिति । विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वे गौरवादित्यर्थः। एवं समुदायार्थस्य प्रकृत्यर्थत्वाभावेन प्रत्ययार्थानन्वयापत्तिरित्यपि बोध्या। एवञ्च यत्सिद्धन्तदाह-*तथा चेति । नन्वेतावतोपसर्गस्य तात्पर्यग्राहकत्वसिद्धावपि न द्योतकत्वसिद्धिरत आह-*तथाच तात्पर्येति । एवकारेणान्याग्रह यस्य न, तस्य व्यवच्छेदः । ननूपर्युक्तद्योतकत्वन्तदा प्रादीनामपि क्रियायोगाभावादुपसर्गसंज्ञा न स्यादितिचेद् ? न, क्रियायोगस्य यम्य क्रियाविशेषणीभूतार्थतात्पर्यग्राहकत्वरूपमेवार्थ इति यत्र यस्य फलस्य धात्वर्थव्यापारविशेषणतया प्रतीतिर्यदुपसर्गसमभिव्याहाराधीनात्तत्र तादृशार्थयोजकत्वमादायैवोपसर्गसंज्ञाप्रवृत्तेः। *तत् । निरुक्तं द्योतकत्वम् । उक्तस्य द्योतकत्वस्याङ्गीकारे युक्त्यन्तरमाह Page #354 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः। तत्र स्वयं युक्त्यन्तरमाह-*उपास्येते हरिहरौ इति* ॥ . तत्र ह्युपासनाकिमुपसर्गार्थो ? विशिष्टस्य ? धातुमात्रस्य वा ? नाद्यः । तथा सति स्वार्थफलभ्यधिकरणव्यापारवाचकत्वरूपसकर्मकत्वस्यास्धातोरुपासनारूपफलवाचकत्वाभावादनापत्तेस्ततः कमणि लकारो न स्यात् । न द्वितीयो, गौरवात् । तृतीये त्वागतं द्योतकत्वम् । तात्पर्य्यग्राहकत्वलाभादिति भावः । दृश्यते इत्यत्र कर्मणीति शेषः ॥ ४२ ॥ तञ्चादिष्वपि तुल्यमित्याह तथान्यत्र निपातेऽपि लकारः कर्मवाचकः ॥ विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः ॥४३॥ अन्यत्र -साक्षात्क्रियते मलकियते, ऊरीक्रियते शिव इत्यादौ । अत्रापि धातोस्तत्तदर्थं कर्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवत् द्योतकत्वममीषामपीत्यर्थः। यद्यपि कृधातोः दर्पणः दिफले धातोस्तात्पर्य्यग्राहकत्वस्योपसर्गसमभिव्याहाराऽधीनत्वात् “उपसर्गाः क्रियायोगे” (पा. सू० १।४।५९) इत्यत्रापि क्रियाविशेषणीभूताऽर्थतात्पर्य्यग्राहकत्वमेव "उपसर्गाः क्रियायोगे" इत्यनेन विवक्षितमिति भावः । एतत्तत्वमग्रे वक्ष्यते । *तत्रे. ति । द्योतकत्व इत्यर्थः । सकर्मकत्वस्येत्यनापत्तेरित्यनेनान्वितम् ॥ ____ ननु माऽस्तु सकर्मकत्वमत आह-*तत इति । उपोपसृष्टास्धातोरित्यर्थः । तथाचोपास्यते हरिरित्यादिप्रयोगानुपपत्तिरिति भावः । *तृतीये विति* । धातुमात्रार्थ इति कल्पे त्वित्यर्थः । आगतमिति कर्त्तक्तान्तम् । उपाधऽसमभिव्याहारे विना शक्तिं गम्धातोस्तादृशबोधादर्शनात्तस्येतरार्थपरतायामुपसर्गस्य नियामकत्वलाभादिति भावः ॥ ४२ ॥ *तच्चादिष्विति । तदू-द्योतकत्वम् ॥ *तत्तदर्थेति । तत्तदर्थबोधकत्वमि परीक्षा *स्वयमिति । अत्र उपास्येत इत्यत्र सकर्मकत्वस्येति अस्यानापत्तेरित्यत्रानन्वयः । तृतीये धातुमात्रार्थकत्वकल्पे आगतमिति उपशब्दासमभिव्याहारे धातुमात्रस्यारिक्तस्य प्रयोगे उपासना न प्रतीयते इति तस्याम् धातोस्तादृशार्थपरताया तात्पयग्राहकत्वमुपन्यस्य कल्प्यमिति द्योतकत्वसिद्धिरिति भावः ॥ ४२ ॥ ____ तत्-निरुक्तन्योतकत्वम् । निपातेऽपीति । समभिव्याहृत इति शेषः । धातोस्तत्तदर्थबोधकत्वपक्षे यथेष्टसिद्धिस्तथाह-*अनापीति । *अमीषाम्चादीनाम् । ननु भूधातुरिव न कृधातुरकर्मकः ; किन्तु सकर्मक एव, क्रियते कट इति दर्शनात् । Page #355 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - सकर्मकत्वमस्त्येव, तथाप्येष्वर्थेषु सकर्मकता न स्यात् । अन्यथा वायुविकुरुते, सैन्धवा विकुर्व्वते इत्यत्रापि स्यादिति भावः । अथोपासना साक्षात्कारादिर्निपातार्थोऽस्तु, "साक्षात्प्रत्यक्षतुल्ययोः" इति कोशस्वरसात् । तदनुकूलो व्यापार एव धात्वर्थोऽस्तु । स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणत्र्यापारवत्त्वं सकर्मकत्वमपि सुवचमिति दृष्टान्तदाष्टन्तिकावयुक्ताविति नेदं साधकमिति चेद् ? न । नामाऽर्थधात्वर्थयोर्भेदेन साक्षादन्वयाऽसम्भवेन निपातार्थधात्वर्थयोरन्वयस्यैवासम्भवात् । अन्यथा तण्डुलः पचतीत्यत्रापि कर्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति । ३२६ किञ्च प्रादीनां वाचकत्वे 'भूयान् प्रकर्ष:' 'कीदृशो निश्चय' इतिवद्, भूयान् प्रः कीदृशो निरित्यपि स्यात् । अस्मन्मते प्रादेरनर्थकत्वान्न तदन्वय इत्यतो द्योतकता तेषां स्यादिति । साधकान्तरमभिप्रेत्याह—*विशेषणेति ॥ शोभनः समुच्चयो द्रष्टव्य इतिवच्छोभ दर्पणः त्यर्थः । *अमीषामिति । चादिनिपातानामपीत्यर्थः । *अस्त्येवेति । घटः क्रियत इत्यादौ कर्म्मणि लकारदर्शनात् कृञः सकर्मकत्वानुपपत्त्या साक्षात्कारे लक्षणेति भावः । *एष्विति* । साक्षात्कारादिरूपार्थेष्वित्यर्थः । *अन्यथेति । क्वचिदर्थान्तरमादाय कृञः सकर्मकस्य सर्वत्र तत्त्वाङ्गीकारे इत्यर्थः । I * वायुर्विकुरुत इति । विकारानुकूलव्यापारवाचकस्याऽपि सकर्मकतापत्त्या “अकर्मकाच्च” (पा० सू० १।३।३५ ) इति विहितात्मनेपदानुपपत्तिरिति भावः । 'उपास्यते गुरुः' इत्यादावुपाद्युपसर्गाणामुपासनाद्यर्थवाचकत्वेऽपि पूर्वोक्तसकर्मकत्वानुपपत्ति परिहरति — इदमिति । सकर्मकत्वाऽनुपपत्तिरूपमित्यर्थः ॥ *साधकम् - द्योतकत्व - साधकम् । व्युत्पत्तौ निपातातिरिक्तत्व विशेषणान्नेयमापत्तिरत आह—* किञ्चेति* । *इत्यपि स्यादिति। अभ्युच्चयवादोऽयं चाद्युपस्थाप्यसमुच्चयस्य नित्यं समुच्चयसाकाङ्क्षतया समुच्चयार्थ कपदप्रयोगं विना चादिप्रयोगासम्भवात् । शब्दशक्तिस्वाभाव्येन नित्यं धातुपरतन्त्रोपसर्गेः स्वार्थस्य धात्वर्थविशेषणतयैव बोधनेन तदसमभिपरीक्षा एवञ्च न कर्मार्थकलकारानुपपत्तिरत आह-*यद्यपीति । एष्वर्थेषु - साक्षात्कारादिष्वर्थेषु । अन्यथा-यत्र कुत्रचित्सकर्मकत्वदर्शनेन सर्वत्रैव सकर्मकत्वे इत्यत्रापि स्यादिति विकारानुकूलव्यापारवाचकस्यापि सकर्मकत्वे सति विशब्दसमभिव्याहारेऽकर्मकद्योत्यात्मनेपदम्, सकर्मकत्वानुपपत्तिरूपं न स्यादिति भावः । *साधकम् * । द्योतकत्वस्य साधकम् । *साक्षात् विभक्त्यर्थमुररीकृत्य । *अन्यथा * - नामार्थधात्वर्थयोर्भेदसम्बन्धेनान्वयस्वीकारे । इत्यपि स्यादिति। अभ्युपगम्यवादेनैषोक्तिः, न निपातास्य नित्यत्वम्, न तन्त्रतया केवलानान्तदर्थे प्रयोगाभावात । * साधकान्तरमिति । Page #356 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः । नश्च द्रष्टव्य इत्यस्यापत्तेस्तुल्य समाधेयत्वादितिभावः । अपि च निपातानां वाचकत्वे प्रातिपदिकार्थयोर्विना षष्ठयादिकं भेदेनान्वयासम्भवः । अन्यथा 'राजा पुरुषः" इत्यस्य राजसम्बन्धी पुरुष इत्यर्थापत्तेरित्यभिप्रेत्याह-आदीति ॥ धवखदिरयोः समुच्चय इतिवद् धवस्य च खदिरस्य चेत्येव स्यादिति भावः ॥ ४३ ॥ ३२७ ननु प्रातिपदिकार्थयोर्भेदेनान्वयबोधे विरुद्धविभक्तिजन्योपस्थितिर्हेतुरिति कार्य्यकारणभावो निपाताऽतिरिक्तविषय एवेति नोक्तदोष दर्पणः व्याहारे तत्प्रयोगस्याप्यसम्भवात् । अत एव वक्ष्यति तुल्यसमाधेयत्वादिति ॥ ननु निपातानां वाचकत्वे "चायें द्वन्द्वः" ( पा० सू० २।२।२९ ) इत्यादिसूत्रमेव मानम् । प्रादीनां वाचकत्वे तु मानाऽनुपलम्भात् द्योतकतैवोचितेति चेद्र ? तत् किम् "ईषद्दुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल्” ( पा० सू० ३ | ३ | १२६ ) इत्यादिसूत्रात्मकं मानं पाणिपिहितमिति विभावय । षष्ट्यादिकमित्यादिपदेन तदर्थविहितद्वितीयादिपरिग्रहः । अभेदातिरिक्तसम्बन्धावच्छिन्नप्रातिपदिकार्थप्रकारता निरूपितविशेष्यतासम्बन्धेन शाब्दत्वावच्छिन्नं प्रति विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुतया प्रकृते तदभावेन भेदान्वयासम्भव इत्यर्थः । अन्यथा * -उक्तकार्यकारणभावानभ्युपगमे । *आपतेरिति । भेदेनान्वयबोधापत्तेरित्यर्थः । *आदीति । भेदान्वयसङ्ग्राहकमादिपदमित्यर्थः ॥ ४३ ॥ * भेदान्वयेति । प्रातिपदिकार्थयोरभेदान्वय इति पाठस्तु तादृशान्वयबोधे विभक्तिजन्योपस्थितेर्हेतुत्वस्य केनाऽप्यनभ्युपगमादप्रक्रान्तत्वाच्च चिन्त्यः । : * निपाताति परीक्षा निपातानां द्योतकत्वे इत्यादिः । *तुल्यसमाधेयत्वादिति । यदि प्रादीनां नित्यस्य स्वतन्त्रतया केवलानां तदर्थे विशेषणानामन्वय इतिचेद् ब्रूषे ! तदा चादीनामपि नित्यस्य स्वतन्त्रत्वात्तदर्थे विशेषणान्तरान्वयो न सम्भवतीति 'विष्णुमुपासत' इत्यत्रोपाद्यथें कर्माद्यन्वयासम्भवात्तषामपि द्योतकत्वमेव, यदि निपातानां वाचकत्वे “चार्थे द्वन्द्व : " इति सूत्रं साधकमिति तवाभिमतम्, तदा प्रादीनामपि वाचकतायाम् " ईषदुः सुषु" इति सूत्रं मानमिति विभावयेति भावः । *विना षष्ठ्यादिकमिति - आदिपदेन द्वितीयादेः परिग्रहः । तथा चाभेदातिरिक्तसम्बन्धावच्छिन्नप्रातिपदिकार्थनिष्ठप्रकारतानिरूपितविशेष्यता सम्बन्धेन शाब्दबोधे विभक्तिजन्योपस्थितिविशेष्यतासम्बन्धेन कारणमिति कार्यकारणभावस्यावश्यं वाच्यतया तदभावेनान्वयासम्भवः । *अन्यथा* । उक्तकार्यकारणभावानभ्युपगमे । *आपत्तेरिति । स्वत्वसम्बन्धेन राजपदार्थप्रकारकबोधस्यापत्तेरित्यर्थः । *आदीतीति । तत्रत्यमादिपदम्भेदसम्बन्धेनान्वयबोधसङ्ग्राहकमिति भावः ॥ ४३ ॥ *एवेतीति*। उक्तकार्य कारणभावघटककार्यतावच्छेदकशरीरविशिष्टप्रातिपदिके नि पातातिरिक्तत्वं विशेषणं देयम् । तथा च आचार्यसमुच्चयस्य निपातार्थपातेन समयम्पदार्थान्तरस्य भेदसम्बन्धेनान्वयबोधस्य नानुपपत्तिरिति भावः । सदृक्शब्दः समाना Page #357 -------------------------------------------------------------------------- ________________ ३२८ दर्पणपरीक्षासहिते भूषणसारे इत्याशङ्कयाह पदार्थः सदृशाऽन्वेति विभागेन कदापि न ॥ निपातेतरसङ्कोचे प्रमाणं किं विभावय ॥४४॥ सदृशा-सदृशेन, समानाधिकरणेनेति यावत् । अन्वेति, अभे. देनेतिशेषः । विभागेन-असदृशेन, असमानाधिकरणेनेति यावत् । अयमर्थ:-समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिनि दर्पणः रिक्तति । तथाच समुच्चयाद्यर्थस्य निपातार्थकत्वेन न तेन सार्क पदार्थान्तरस्य भेदान्वयानुपपत्तिरित्यर्थः । सदृक्शब्दस्य समाना दृगितिव्युत्पन्नस्योपादानेऽनन्वयापत्या प्रकृते तुल्ये रूढस्य, "तमिवेमं पश्यन्ति जना” इति भाष्ये कर्त्तकर्मव्युत्पन्नस्य वा। तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे-*सदृशेनेति । तुल्येनेत्यर्थः । ननु विरुद्धविभक्तिकस्यापि नामत्वादिना तुल्यत्वात् तेनाभेदेनान्वयापत्तिरत आह-*समानाधिकरणेनेति । तथाच समानविभक्तिकपदोपस्थाप्यत्वेन सादृश्यस्य विवक्षणानोक्तदोष इति भावः । एवञ्च मूलेऽन्वेतीत्यनन्तरमभेदेनेतीति शेषः । स्तोकम्पचतीत्यादौ विभिन्न विभक्तिकपदोपस्थाप्यत्वसदृशेनाप्यभेदान्वयादाह-*असमानाधि करणेनेति। विशेषवाचकपदप्रकृतिकविभक्तिविरुद्धार्थकविभक्तिप्रकृत्युपस्थाप्येनेत्यर्थः। ननु वाचकतावादिनोक्तव्युत्पत्तनिपातातिरिक्तत्वेन सङ्कोचनीयतयेत्युक्त्यैवाक्षेपध्रौव्ये मूले समानाधिकरणेत्यादिव्युत्पत्तिकथनेऽर्थान्तरमत आह-*अयमर्थ इति । स चेत्थं "विभागेन कदाचन" इत्यनेन व्यधिकरणयोरभेदान्वयं व्यवच्छिन्दता नामाथोंभेदेनाऽनन्वय इति व्युत्पत्तिरेव प्राधान्येन प्रदर्श्यते, नतु समानाधिकरणयोरितिव्युत्पत्त्यन्तरं तथा। किन्तु दृष्टान्तविधेयतया तदुपन्यसनमिति नोक्तदोषः । तथाच प्रधानीभूतव्युत्पत्तावेव निपातेतरसङ्कोचोत्कीर्तनमिति सर्व सुस्थम् । परीक्षा दृगित्यर्थको यद्यपि सम्भवति तदुपादानेऽन्वयानुपपत्तिरिति भावः । सदृक्शब्दः समा. ना दृगित्यर्थको यद्यपि सम्भवति ; तथापि तदुपादानेऽन्वयानुपपत्तिरिति तुल्यरूपेऽर्थे रूपस्य तस्य ग्रहणमित्यभिप्रेत्याह-*सदृशेनेति । *समानाधिकरणेनेति समानविभक्तिकपदोपस्थाप्यत्वेन सादृश्यं विवक्षितमिति भावः । ननु मृदु पचतीत्यादौ विरुद्ध विभक्तिकपदार्थेऽप्यभेदान्वयो भवतीत्यसदृशेनेत्यनुपन्नमत आह-*असमानेति। ननु पूर्वोक्तकार्यतावच्छेदकघटके निपातातिरिक्तत्वं विशेषणं मया दीयते इत्यनेन वाचकत्ववादिन आक्षेपसिद्धौ पदार्थ इत्यादिकथनमयुक्तम्पूर्वाक्षेपापरिहारादत आह*अयमर्थ इत्यादिः । अयम्भावः-विभागेनेत्यनेन व्यधिकरणयोरभेदान्वयव्यवछे. देन नामार्थयोभेदेन नान्वय इत्येव प्रदर्श्यते नतु समानाधिकरणयोरिति व्युत्पत्यन्तरं स्वीकार्यमिति । नच व्युत्पत्यनन्तरं न स्वीकार्यमित्यनुपपन्नं व्युत्पत्तिविचारस्या. प्रकृतत्वादिति चेदू ? न । पूर्वोक्तादिपदेन क्रोडीकारात् । Page #358 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः। ३२९ पातातिरिक्तविषयेति कल्पने मानाभावो गौरवञ्च । अस्माकं निपातानां द्योतकत्वादन्वय एव नास्तीति नायं दोषः । अत एव 'घटो नास्ति' इत्यादौ घटपदं तत्प्रतियोगिके लाक्षणिकमितिनैयायिकाः॥४४॥ दर्पणः ननु नामाऽर्थयोरभेदान्वयबोधे समानविभक्तिकपदजन्योपस्थितिहेतुतायां पदांशे निपाताऽतिरिक्तत्वं निवेशनीयमिति नोक्तदोष इत्यवतरणं तु सधीचीनम् । नच ताहशव्युत्पत्तेरप्रक्रान्तत्वात् कथमेतदिति वाच्यम् । मूलोक्तादिपदेनैव षष्ठयादिकमन्तरेण भेदेनाऽन्वयासम्भवं प्रतिपादयता समानविभक्तित्वेन धवश्चेत्यादावभेदान्वयापादनस्याऽपि कुक्षीकृतत्वात्तदेव च सामानाधिकरण्यं व्युत्पत्तौ निविष्टमिति यथाश्रुतमूलसङ्गमनादिति । ननु तदन्वयानुपपत्तिरेव मानमत आह-*गौरवञ्चेति । ननु तवाऽपीदं दूषणं समानमत आह-अस्माकमिति । द्योतकतावादिनामित्यर्थः । *द्योतकत्वादिति । चादीनां समभिव्याहतपदसमच्चिततत्तदर्थरूपलक्ष्यार्थे तात्पर्य्यग्राहकत्वादित्यर्थः । *नास्तीति । समुच्चयादेस्तन्निरूपकत्वादेश्च समभिव्याहृतपदेनैव लाभात्तस्य पृथगु-. पस्थित्यभावेनाऽन्वयस्यैवाभावेनोक्तस्थलस्य तादृशव्युत्पत्त्यविषयत्वादिति भावः । *अत एवेति* । व्युत्पत्तौ निपातातिरिक्तत्वविशेषणप्रवेशादेवेत्यर्थः । *प्रतियोगिके लाक्षणिकमिति* । व्युत्पत्तेस्तद्धटितत्वे तु तत्र लक्षणानुसरणं व्यर्थमेव स्यादिति भावः। __ नैयायिकास्तु नजो वाचकतया भाष्यसम्मतत्वाद् , घटो न पटश्चैत्रो न पचति इत्यादौ नअर्थाभावस्य विशेषणतया घटचत्रादिष्वन्वयाऽनुरोधादुक्तव्युत्पत्ती व्यभिचारवारणाय निपाताऽतिरिक्तत्वविशेषणमावश्यकम् । एवञ्च घटश्च पटश्चेत्यादौ विभक्तिजन्योपस्थितिं विनाऽपि चाऽर्थस्य घटादिष्वन्वयः सुलभः। ___ न च घटो नेत्यत्र घटस्य नामार्थत्वाद्विभक्तिजन्योपस्थिति विना प्रतियोगितासंसर्गकनार्थविशेष्यकबोधानुपपत्तिर्दुष्परिहरैवेति वाच्यम् । एतद्रियैव घटादिपदानां परीक्षा ननु निपातार्थेऽन्वयानुपपत्तिरेव मानम्भविष्यतीत्यत आह-*गौरवमिति* *अत एव* । उक्तव्युत्पत्तौ निपातातिरिक्तत्वविशेषणस्याप्रवेशादेव । *नैयायिका इति । प्राञ्च इति शेषः। वस्तुतस्तु 'घटो न पटः, 'चैत्रो न पचति, चैत्रस्य मैत्रः, इत्यादिभ्यो भेदसम्बन्धावच्छिन्ननामार्थयोरन्वयबोधो दृश्यत एव । आधे-अन्वयितावच्छेकधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नामार्थप्रकारकभेदविशेष्यकान्वयबोधः । द्वितीये-आख्यातार्थाभावस्य चैत्रपदार्थे आश्रयतासम्बन्धेनान्वयबोधः, तृतीये इवार्थसादृश्ये निरूपितत्वसम्बन्धेन चैत्रपदार्थस्यान्वय इति निपातातिरिक्तत्वविशेषणमुकव्युत्पत्तौ नव्यनैयायिकैर्निवेशितमेव । नचैवं गौरवम् । उक्तव्युत्पत्तौ निपातातिरिक्तत्वविशेषणस्य स्वाश्रयेण दाने हि तथा। वस्तुतस्तु-भेदसम्बन्धांवछिन्ननामार्थनिष्ठविषयतानिरूपितविषयतासम्बन्धेन शाब्दबुद्धिं प्रति विभक्तिजन्योपस्थितिः कारणमिति कार्यकारणभावः। तत्र कार्य ४२ ६० प० Page #359 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - अपि च निपातानां वाचकत्वे काव्यादावन्वयो न स्यादिति सा धकान्तरमाह - ३३० शरैरुत्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥ इत्यादावन्वयो न स्यात् सुपाञ्च श्रवणं ततः ॥४५ ॥ अत्रोत्रसदृशैः शरैः रसस दृशानुदीच्यानुद्धरिष्यन्नित्यर्थः । अयञ्चोस्त्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे सत्येव सङ्गच्छते । अन्यथा प्रत्ययानं प्रकृत्यर्थाऽन्वितस्वार्थबोधकत्वव्युत्पत्तिविरोधः । तथाहि-- उनैरिति करणे तृतीया । न चोस्रोऽत्र करणम् । इवासशस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयितुं शक्यम् । मप्रकृत्यर्थत्वात् । इवशब्दस्य चाऽसत्त्वार्थकतया तदुत्तरं तृतीयाया दर्पण: तत्प्रतियोगिके लक्षणाभ्युपगमात् निपातातिरिक्तनामार्थयोः साक्षाद्भेदेनाऽन्वयोऽन्युत्पन्न इत्यत्र द्विवचनस्वारस्येन निपातातिरिक्तनामार्थनिष्ठ भेदसम्बन्धावच्छिन्नप्रकातानिरूपित निपातार्थाऽवृत्तिविशेष्यतासम्बन्धेन बोधे, विशेष्यतासम्बन्धेन विभक्तिजन्योपस्थितेर्हेतुत्वकल्पनाद्वा सामञ्जस्यादित्याहुः ॥ ४४ ॥ उक्तव्युत्पत्तेर्निपातातिरिक्तविषयत्वेन पूर्वोक्तदोषपरिहारेऽपि स्थलान्तरे तन्मतेऽ ऽन्वयानुपपत्तिर्दुर्वा रैवेत्याशयेन मूलमवतारयति — अपि चेति । *इत्यर्थं इति । इत्यन्वयबोधः सर्वसम्मत इत्यर्थः । अयञ्चेति । उक्तार्थान्वयश्चेत्यर्थः । * अन्यथेति । निपातानां वाचकत्वाभ्युपग इत्यर्थः । व्युत्पत्तिविरोधं व्यक्तीकरोति* तत्र* । उदीचोद्धारणे । *तथाहीत्यादि । नन्विवशब्दोत्तरलुप्ततृतीयार्थकरण एवेवार्थान्वयः सुलभो अत आह-*इवशब्दस्येति* | *असत्त्वार्थकतयेति* । लिङ्गाद्यनन्वय्यर्थकतयेत्यर्थः । निपातत्वादिति यावत् । परीक्षा तावच्छेदकसम्बन्धघटकनामार्थनिष्ठविषयतायान्निपातार्थावृत्तित्वदानेन सामञ्जस्यमिति गौरवाभावात् ॥ ४४ ॥ युक्त्यन्तरेण निपातानां द्योतकत्वं समर्थयते -*अपिचेति । * इत्यादावन्वय इति । आदिना पुत्रमिव शिष्यम्पाठयतीत्यादेः सङ्ग्रहः । *अन्यथा - उस्रादिशब्दानामुखादिसदृशे लक्षणाया अस्वीकारे । *तस्य* = सदृश्यस्य । *अनेन* = उस्रपदोतरटाप्प्रत्ययेन । *अप्रकृत्यर्थत्वादिति । 'प्रत्ययानाम्' इति व्युत्पत्तेर्जागरूकत्वादिति शेषः । नन्विवशब्दोत्तर तृतीयपदोपस्थापितकरणत्वे सदृशस्यान्वयोऽस्त्वित्यत आह - * इवशब्दस्येति । *तृतीयाया असम्भवात् * - करणत्वार्थकतृतीयाया असम्भवादित्यर्थः । क्रिया न युज्यते लिङ्ग क्रियानाधारकारकैः । असत्वरूपता तस्या इयमेवावधार्यताम् ॥ Page #360 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः । असम्भवात् । सम्भवे वा श्रवणप्रसङ्गात् । उस्रपदोत्तरतृतीयानन्वयप्रसङ्गाच्चेत्याह-*सुपां चेति ॥ सुपां श्रवणञ्चेत्यर्थः । चकारादुस्रपदोत्तर तृतीयानन्वयः समुच्चीयते ॥ इत्यादावित्यादिपदाद्, "वागर्थाविव सम्पृक्तौ” “पार्व्वतीपरमेश्वरौ वन्दे” इत्यत्र वागर्थयोर्वदिकर्मत्वाभावात्तदुत्तरद्वितीयाया अनन्वयः । इवार्थस्य कर्मत्वान्वयबोधकासम्भवश्च संगृह्यते । यदि च विशेषणविभक्तिरभेदार्था, साधुत्वमात्रार्था वा तदापि इवशब्दस्य वाचकत्वेऽनन्वय एव । उस्रसदृशशराणां समानाधिकरपदोपस्थाप्यतया भेदेनान्वयायोगात् । बाधादभेदेनापि सः । न दर्पणः एवञ्च कारकानन्वयितावच्छेदकरूपेणोप स्थितेऽर्थे कारकान्वयासम्भवेन तदर्थकतृतीयाया असम्भवादिति भावः । *सम्भवे वेति । वाकारोऽनास्थायाम् । अव्यये वशब्दस्य क्वाप्यदृष्टत्वात्तदभ्युपगमे तु ततो विभक्तेस्तच्छ्रवणस्य च दुर्निवार्य्यतैव स्यादिति दूषणान्तरमाह *उस्त्रपदोत्तरेति । अनन्वयप्रसङ्ग इति । वाचकतावादिमत इति शेषः । इदमुपलक्षणं तृतीयाऽनुपपत्तेः । उस्रस्येवार्थसदृशान्वये उद्धरणकरणत्वस्य तत्राभावात् । अस्मन्मते तु उस्रसदृशरूपोत्रार्थस्य करणत्वान्न तदनुपपत्तिरिति भावः । तदुत्तरं सुब्व्यतिरिक्तप्रत्ययश्रवणत्वापाद्यत्वासम्भवेन समुच्येयासम्भवमाशङ्कय चकारस्यान्यत्राप्रकर्ष इत्याह-* सुपां श्रवणञ्चेति । चकारसमुच्चयं दर्शयति-*उत्रपदोत्तरतृतीयेति। तृतीयायास्तदर्थस्य अनन्वयमेव स्पष्टयति-उस्रसदृशेत्यादि । तत्तत्पदा - र्थानामित्यर्थः। *भेदेनान्वयेति । समानाधिकरणनामार्थयोरित्युक्तव्युत्पत्तेरिति भावः । ननु तर्ह्यभेदान्वयस्तत्र स्यादत आह-बाधादिति । सादृश्यस्य भेदघटितपरीक्षा *श्रवणा इति हर्युक्तेरिति । *सम्भवे वेति । अत्र वाशब्दोऽनास्थायाम् । इवार्थस्य कारकत्वव्याप्यधर्मवत्वेनोपस्थितेः । केनाप्यभ्युपगमस्याकृतत्वात् । प्रसङ्गादिति । “चादयोऽसत्वे" इतिसूत्रेण निपातसंज्ञाया असत्व एव विधानेन तस्य सूत्रस्याप्रवृत्तौ निपातत्वाभावादव्ययत्वस्याप्यभावेन तृतीयायाः श्रवणप्रसङ्ग इत्यर्थः । *अनन्वयप्रसङ्गादिति । इवशब्दस्य वाचकतावादिमते सादृश्य एवोत्रस्य निरूपितत्वसम्बन्धेनान्वयेन तृतीयाया अन्वयप्रसङ्गादित्यर्थः । इदं तृतीयायाः सत्वमभिप्रेत्य । वस्तुतस्तु — उक्तरीत्योद्धारणानन्वयेन तृतीयायाः श्रवणरूपोत्पत्तिरेव न स्यात् । तृतीयापदं तृतीयार्थकम् । उस्रपदार्थस्य स्वातन्त्र्येण क्रियान्वयपक्ष एवोरुपदोत्तरस्तृतीया करणत्वार्थिकेति वक्तुं शक्यम् । यदि तु विशेषणवाचकपदोत्तरविभक्तेः साधुत्वमात्रार्थत्वमभेदो वा तस्या अर्थः, तदा कथमेतदित्याशङ्कायामाह -*यदि चेति । उखसदृशशराणामिति वाचकत्ववादिमते इवार्थः सदृशः शर एव सन्निधानादित्यभिप्रेत्यैवमुक्तम् । *भेदेनेति । इवार्थे सादृश्ये उस्रपदार्थस्य निरूपितत्वसम्बन्धेनान्वयासम्भव इत्यर्थः । समानाधिकरणप्रातिपदिकार्थयोरभेदेनैवान्वयस्य व्युत्पत्तिसिद्धत्वादित्याशयः । यदि त्वभेदेनैवान्वयं ब्रूषे तदाप्याह -* बाधादितिः । इवपदार्थतावच्छेदके सादृश्येति निरूपितत्व सम्बन्धि ३३१ Page #361 -------------------------------------------------------------------------- ________________ ३३२ दर्पणपरीक्षासहिते भूषणसारै हि उस्राभिन्नसदृशाभिन्नः सर इत्यर्थो द्रष्टव्यः ॥ ४५ ॥ ननु त्वन्मते अब्राह्मण इत्यादौ तत्पुरुषलक्षणाव्याप्त्यापत्तिः पूर्वपदस्यानर्थकत्वेनैवोत्तरपदार्थ प्राधान्याभावात् । उपसर्गस्यार्थवत्त्वाभावेन प्रातिपदिकत्वाभावाद्विभक्तिश्च ततो न स्यादित्यत आहनञ् समासे चापरस्य द्योत्यं प्रत्येव मुख्यता ॥ द्योत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ ४६ ॥ नञ्समासादौ योत्तरपदार्थप्रधानता सा द्योत्यमर्थमादायैव । तमेवार्थमादायार्थवत्त्वात् प्रातिपदिकत्वमित्यर्थः । वस्तुतस्तु "अव्ययादा सुपः" ( पा० सू० २।४।८२ ) इतिज्ञ ( प दर्पणः त्वादिति भावः । अत्रेदम्बोध्यम्-वाचकतावादिना इवादिना सादृश्यादिबोधने पर्युदास जवानुयोगिप्रतियोगिवाचकपदयोः समानविभक्तिकत्वस्य नियमकताया अभ्युपगमेन प्रकृत उस्त्रनिरूपितसादृश्याश्रयशरकरणकोद्धरणबोधः सूपपादः, भेदाभेदयोविकल्पस्योपन्यासस्तु सारकारोक्तश्चिन्त्य एवेति ॥ ४५ ॥ 1 *उत्तरपदार्थ प्राधान्याभावादिति । प्राधान्यस्यान्यनिरूपितत्वनियमादिति भावः । *द्योत्यार्थमिति । द्योतकतावृत्त्युपस्थापितार्थमित्यर्थः । *तमेवेति । द्योत्यमे - वेत्यर्थः । *अर्थवत्त्वादिति । अयम्भावः - द्योतकताया अपि वृत्तित्वेन तयाऽर्थवत्त्वस्य द्योतकेऽप्यक्षतत्वान्न तन्निबन्धनप्रातिपदिकसंज्ञानुपपत्तिः । न हि शक्तिलक्षणान्यतरदेवार्थोपस्थापकमिति वचनमस्तीति । ननु शब्दादुपस्थितसामान्यस्य विशेषे पर्य्यवस्थापकत्वं द्योतकत्वम्, न तु तदुप स्थापकत्वमेवेति न तदादायार्थवत्त्वसम्भवोऽत आह-वस्तुतस्त्विति । ज्ञापका परीक्षा तत्पदार्थान्वयो न स्वीक्रियते तदा सदृश एवाभेदेनान्वयो वाच्यः, स च बाधित इत्याह । तदेवस्पष्टयति-न खाभिन्नेति ॥ ४५ ॥ *त्वन्मते* । द्योतकतावादिनस्तव मते । "अब्राह्मण" इत्यत्र ब्राह्मणपदस्यैवारोपितब्राह्मणार्थकतयान्यपदार्थनिरूपित विशेष्यताया उस्राभावेन तादृशव्यवहारासम्भव इति भावः । दूषणान्तरमाह-उपसर्गेति । *द्योत्यत्वम्प्रेत्येवेति । पूर्वपदद्योत्यार्थम्प्रत्येवेत्यर्थः । *प्रातिपदिकत्वमिति उपसर्गाणामिति शेषः । द्योतकताव्यञ्जनैः सापि वृत्तिरिति प्रागुक्तमिति वृत्त्युपस्थाप्यत्वं तस्य स्यादेवेति भावः । व्यञ्जनाया वृत्यन्तरसत्वादभ्युपगमेऽप्याह-वस्तुतस्त्विति । द्योतकत्ववादे - उपसर्गाणामनर्थकत्वेऽपि लुको ध्वंसस्य प्रतियोगिपूर्वकत्वेन प्रतियोग्यन्यथाऽनुपपत्या तत्कारणतावच्छेदकस्य प्रातिपदिकत्वस्यानुमानम्भविष्यतीतिभावः । निपाता:प्रातिपदिकत्ववन्तः, सुबुत्पत्तित्वेन शास्त्राश्रितत्वात् । पूर्वादिशब्दवदिति न्यायप्रयोगोऽत्र द्रष्टव्यः । ननु स्वराद्यव्ययानां सत्वार्थकतया तेभ्य उत्पन्नसुपो लुग्विधायकत्वेन सूत्रं सार्थ Page #362 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः। कात् सुबुत्पत्तिः । “निपातस्यानर्थकस्य" इतिवार्तिकाद्वा प्रातिपदिकंत्वम् । “कृत्तद्धितसमासाश्च” (पा० सू० १।२।४६) इत्यनुक्तसमुचयार्थकचकारेण निपातानां संग्रह इति वा बोध्यम् । तस्माद् युक्तं निपातानां द्योतकत्वम् । उक्ताश्चाकृत्यधिकरणवात्तिके चतुविधे पदे चात्र द्विविधस्यार्थनिर्णयः। क्रियते संशयोत्पत्ते!पसर्गेनिपातयोः ॥ तयोराभिधाने हि व्यापारो नैव विद्यते । तदर्थद्योतको तौ तु वाचकः स विचार्यते ॥ इति ॥ दर्पणः . . . दिति । द्योतकतावादे तेषामनर्थकत्वादेव सुबभावे लुग्विधानमर्थकं सदुक्तार्थे ज्ञापकमिति भावः। .. ___ ननु स्वरादीनां सत्त्ववचनानामपि सत्त्वात्तद्विहितसुब्लुग्विधाने चरितार्थस्य तस्य न ज्ञापकत्वमत आह-निपातस्येति । तद्वार्तिकप्रत्याख्यानेत्वाह*कृत्तद्धितेति* । *सङ्ग्रह इति । अनर्थकस्याऽपि निपातस्य प्रातिपदिकत्वमित्यर्थः । उपसंहरति-*तस्मादिति । एतत्कल्पे मीमांसकसम्मतिमाह-*उक्तञ्चेति । *चतुर्विध इति । नामाख्यातोपसर्गनिपातभेदेन चतुःप्रकार इत्यर्थः । *पदे*-- सुप्तिङन्तरूपे । द्विविधस्य* । नामाख्यातस्वरूपस्य । अर्थनिरूपणे हेतुमाह--*संशयोत्पत्तेरिति। ___ नामार्थो जातिः, किंवा व्यक्तिः, धात्वर्थो व्यापार, उत फलं, किं वोभयमिति सन्देहे तन्निरूपणस्यौचित्यायातत्वादिति भावः । *तयोः*-निपातोपसर्गयोः । *व्यापारः*-शक्तिलक्षणान्यतररूपः । *तौ*-उपसर्गनिपातौ । यदर्थद्योतको* । यदर्थविषयकतात्पर्यग्रहजनको । *स:*-नामाख्यातात्मकः शब्दः । तस्य च तिकृत्तद्धितघटितत्वात्तदर्थोऽपि विचार्य्यत इत्यर्थः। यद्यपि स्वाद्यन्तत्वनिबन्धनं नामत्वमुपसर्गनिपातयोरपीति तयोः पार्थक्येन नि:शोऽनुचितः, तथापि लिङ्गसङ्ख्यानिष्ठप्रकारतानिरूपितविशेष्यताशाल्यर्थकत्वरूपपा. रिभाषिकनामत्वमादाय तथोक्तम् । उपसर्गाणां निपातत्वेऽपि तदुपादानं तु ब्राह्मणवसिष्ठन्यायेनेति बोध्यम् । परीक्षा कमत आह-निपातस्येति । उपसंहरति-*तस्मादिति । स्वीयसिद्धान्तेऽन्यसम्मतिमाह-*उक्तं चेति । *चतुर्विधे*-नामाख्यातोपसर्गनिपातरूपे। सुबन्तन्नामः, तिङन्तमाख्यातम् । *नैव विद्यत इति । शक्तिलक्षणयोनॆववृत्तित्वमित्यभिमानेनेदम् । *तौ*-उपसर्गनिपातौ। *धातुपदम् । धात्वर्थइत्यत्रोपात्तधातुपरम् ॥४६॥ . ननु प्रागुक्ताकृत्यधिकरणवार्त्तिके उपसर्गनिपातयोः पृथगुपादानं व्यर्थम् । तेषामपि सुवचत्वेन नामपदेनैव सङ्ग्रहादिति चेद् ? न । लिङ्गाद्यन्वय्यर्थप्रतिपादके हि नामेति परिभाषामादाय पृथगुपादानात् उपसर्गाणान्निपातत्वेऽपि पृथगुपादानं गोबलीवर्दन्या. येन । पदान्तरस्य चन्द्र इव मुखमित्यादिके चन्द्रादिपदस्य द्योतकतापक्षं समर्थ्य पक्षा Page #363 -------------------------------------------------------------------------- ________________ ३३४ दर्पणपरीक्षासहित भूषणसारेउपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवदिति ॥ अत्रोपसर्गपदं निपातोपलक्षणम् । धातुपदं पदान्तरस्येति बोध्यम्॥४६॥ नन्वन्वयव्यतिरेकाभ्यां निपातानां तत्तदर्थवाचकत्वमेव युक्तम् । बोधकतारूपशक्तरबाधात् । किञ्चोक्तरीत्या पचतीत्यादौ धातोरेव दर्पणः ननु 'उपसर्गेण धात्वर्थ' इत्यत्र निपातत्वव्याप्योपसर्गत्वेन प्रादीनामुपादानात् कथं सच्चादीनां द्योतकत्वे उपष्टम्भकमत आह-*उपसर्गपदमिति* । *पदान्तरेति । चन्द्र इव मुखमित्यादावर्थवत्त्वेन चन्द्रादीनामुपलक्षकमित्यर्थः । एवञ्च न तद्बलान्निपातानां वाचकत्वमिति भ्रमितव्यमिति भावः ॥ ४६॥ इदानी वाचकतापक्ष परिष्करोति-नन्विति । *अन्वयव्यतिरकाभ्यामिति । चन्द्र इव मुखमित्यादाविवादिनिपातसत्त्वे सादृश्याद्यर्थप्रतीतेस्तदसत्त्वे तदप्रतीतेश्च निपातानां घटादिपदवद्वाचकत्वमेव युक्तमित्यर्थः । नन्विच्छादिरूपशक्तेरभावात् कथं तेषां वाचकत्वमत आह-*बोधकतारूपेति । तथाच तदर्थबोधकत्वमेव तद्वाचकत्व. मिति तेषामपि घटादिपदवद्वाचकत्वमेवेत्यर्थः । नन्वन्वयव्यतिरेकयोस्तदर्थतात्पर्य्यग्रहे उपयोगस्य प्रागभिहितत्वान्न तयोर्वाच. कताप्रयोजकत्वमत आह-*किञ्चेति । *उक्तरीत्येति । अनन्यलभ्यस्यैव शब्दार्थतया प्रजयतीत्यादौ प्रकृष्टजयस्य लक्षणया जिधातोरेवोपस्थितौ न प्रादीनां प्रकर्षा परीक्षा न्तर समर्थयते-*नन्वान्वयव्यतिरेकाभ्यामित्यादिना* । स्वादिशब्दसमभिव्याहारे तेषामर्थाश्चन्द्र इव मुखमित्यादौ प्रतिपत्तेः, तदभावे तु नेत्येवं रूपान्वयव्यतिरेकाभ्यामित्यर्थः । निपाता:-वाचकाः, स्वसमभिव्याहारप्रयोज्यार्थप्रतीतिकत्वात् । घटादिशब्दवत् । अत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धे उद्देश्यत्वान्न भागासिद्धिरनर्थकनिपातान्तभावेणेति बोध्यम् । नन्विच्छारूपा शक्तिरेष्यतीत्यत्र प्रमाणाभावाकथं वाचकत्वमत आह-*बोधकतेति । नन्वन्वयव्यतिरेको तात्पर्यग्राहकत्वसाधका. वेवास्ताम्, तमाह-*किञ्चोक्तेति । *उक्तरीत्या । प्रजपतीत्यादौ जिधातोरिव प्रकर्षविशिष्टजपादिबोधकत्वमस्तु, प्रादीनां तत्तदर्थतात्पर्यग्राहकतयोपयोग इत्युक्तरीत्या । यदि त्वन्वयमतिरेकात्तिक वाचकत्वम्भवत्सम्मतं स्यात्तदा निपातानामपि वाचकत्वमुपेयमिति भावः। केचित्तु-न तिडामुक्तरीत्या वाचकत्वाभावापत्तिभिया निपातानामप्यन्वयव्य. तिरेकाभ्यां वाचकत्वस्य स्वीकरणमुचितम् । तिङांवाचकत्वाभावे इष्टापत्तेः । धातूनामेव वाचकत्वमत एव 'पञ्चकं धात्वर्थ' इति प्रवादोऽप्युपपद्यते । अत एव यत्र तिङान्न श्रवणम् "अजर्घाः 'अचकात्' इत्यादौ तत्र काद्यर्थप्रतीतिरप्युपपन्ना भवति । लुप्तविभक्तिस्मरणाबोध इति तु मतं "प्रत्ययलोप" इति सूत्रस्य प्रत्ययनिमित्तककार्यमात्रफलकत्वं वदता भाष्यकृता तिरस्कृतम् । अत एव काद्यर्थानां विशेषणत्वं धात्व. र्थस्य विशेष्यत्वमिति सङ्गच्छते । प्रत्ययस्य यत्र तद्धितान्तादौ वाचकता तत्र प्रत्य. Page #364 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः। ३३५ कर्तृविशिष्टभावनायां लक्षणास्तु, तात्पर्य्यग्राहकत्वमात्रं तिङादेः स्यादित्यरुचेः पक्षान्तरमाहनिपातानां वाचकत्वमन्वयव्यतिरेकयोः ॥ दर्पणः द्यर्थकत्वं, तेषां तात्पर्य्यग्राहकतयैवोपयोगादित्युक्तरीत्येत्यर्थः। तिकादेः स्यादिति । तत्रान्वयव्यतिरेकाभ्यां कादिवाचकत्वावधारणे तु प्रादीनामपि वाचकत्वावतिरिति भावः। परेतु 'अजर्घाः, अचकात्' इत्यादौ धातुमात्रात् कादिबोधेन तिङां द्योतकत्वे इष्टेवापत्तिः। ___ नच तत्र लुप्तविभक्तिस्मरणाद् बोधः । लोपमजानतोऽपि बोधात् प्रत्ययलक्षणस्य लोपफलत्वं वदता भाष्यकृता लुप्तविभक्तिस्मरणादू बोधस्यानभ्युपगमाच्च । यत्र प्रत्ययस्य वाचकता तत्रैव "प्रकृतिप्रत्ययार्थयोः" इति नियमावकाशो यथा 'पाचक' इत्यादिकृदन्ते । “लः कर्मणि" (पासू० ३।४।६९) इत्यादा कर्मकर्त्तविषयाद्धातोरित्य र्थान्न तद्विरोधः । "भावे" इत्यस्य सर्वेस्तथैव व्याख्यानात् ।। __नच सर्वत्रैव धातो वनाविषयत्वात्तत्रैव लकारः स्यादिति शडूयम् । भावविषयादित्यस्य केवलक्रियामात्रबोधकादित्यर्थेनादोषात् । अत एव "भावकर्मणो" (पा० सू० १।३।१३ ) “शेषात्कर्तरि परस्मैपदम्" (पा० सू० १।३।०९ ) "द्वयेकयोः" (पा० सू० १।४।२२ ) इत्यादीनां नियम इति भाष्यकृदुक्तिसङ्गतिः । तेषामनिर्दिष्टार्थत्वेन "अनिर्दिष्टार्थाः स्वार्थे भवन्ति" इति न्यायेन सर्वत्र सिद्धत्वादित्याहुः। तच्चिन्त्यम्-व्यतिसे इत्यादौ धातुं विनापि कर्तबोधेनाद्ययुक्तः शैथिल्यात् । तुल्ययुक्त्या सुपामपि द्योतकतापत्ते तोद्विवनचाद्यनुपपत्तेश्च प्रत्ययलक्षणस्य लोपफलत्वेऽपि लुप्सविभक्तिस्मरणजन्यबोधस्य फलत्वाभ्युपगमे बाधकाभावाच्च । स्वोत्तरतिवाच्यक दिगतद्वित्वारोपेण द्विवचनादिरिति स्वोकविरोधाच्च ।। परीक्षा यार्थस्य विशेष्यताया दर्शनाच्च । न चैवं "लः कर्मणि" इत्यादिसूत्रस्वारस्यभङ्गा पत्तेरिति वाच्यम् । “कर्तरि"इत्यादिसप्तम्या विषयत्वार्थकत्वकर्तृकर्मविषयात् । भुविधातोरिति तत्रार्थ इत्यदोषात् । अत एव "भावे" इत्यनेन सारूप्यमपि । नच यत्र कर्तृकर्मणोः प्रतीतिस्तत्रापि धातो वनाविषयकतया तत्रापि भावे लकारविधिः स्यादिति वाच्यम् । सकर्मकेभ्यः कर्मणीति विशेषानुवादे नैतेभ्यो भावे लकारानभ्युपगमात् । पञ्चकस्य धात्वर्थत्वादेव "भावकर्मणोः" “शेषात्कर्तरि परस्मैपदम्" "द्वयेकयोद्विवचनैकवचने” इत्यस्य च नियमार्थत्वं भाष्यकृदुक्तं साधु सङ्गच्छत इति वदन्ति । तन्न । यत्र धातोरग्रे श्रवणं प्रत्ययमात्रस्यैव, श्रवणं व्यतिस इत्यत्र यथा तत्रापि का. द्यर्थप्रतीतिरनुभवसिद्धा, सा यदि धातुस्मरणेनेति ब्रवीषि, तदा यत्र प्रत्ययस्य लोपो धातुमात्रस्य श्रवणात्तत्र लुप्तविभक्तिस्मरणेन कर्ताद्यर्थप्रतीतिरित्यपि स्वीकार्यम् । तुल्ययोगक्षेमत्वादितिरीत्या धातुप्रकृतिकतिडावाचकतायाः सिद्धः। __ अत एव स्वोत्तरतिड्वाच्यकर्ताद्यर्थ द्वित्वाधारोपेण द्विवचनादीति भवदीयो. किरपि सङ्गच्छते। नचैवं कर्नाद्यर्थे यतेः प्रयत्न इव प्राधान्यापत्तिरिति वाच्यम् । “प्रक Page #365 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - युक्तं वा न तु तद्युक्तं परेषां मतमेव नः ॥४७॥ एवञ्च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधो न व्युत्पन्न इति निपातातिरिक्तविषयः । समानाधिकरणप्रातिपदिकार्थयोरभेदान्वय इत्यपि तथेत्यगत्या कल्पनीयमिति भावः । न त्विति । नैयायिकोक्तं प्रादिचाद्योर्वैषम्यमित्यर्थः । ३३६ 1 यत्तु सर्वेषां निपातानां वाचकत्वेऽर्थवत्सूत्रेणैव तेषां प्रातिपदिकत्वसम्भवाद्, “निपातस्यानर्थकस्य” इतिविधिवैयर्थ्यम् । सर्वेषां द्योतकत्वे "चानर्थकस्य " इति व्यर्थम् । तथाच केचिद् द्योतकाः, केचिद्वाचका इत्यभ्युपेयमिति । तन्न । एवं हि चादयो द्योतकाः प्रादयो वाचका इति वैपरीत्या वारणात् । सर्व्वथानर्थकानां पादपूर दर्पण: भवदुक्तरीत्यैव कर्त्तृविशिष्टभावनावाचकात् कर्मविशिष्टभावनावाचकात् केवलभावनावाचकाच्च धातोर्लकारा भवन्तीत्यर्थे, “लः कर्मणि" इत्यर्थपर्यवसानेन, 'अनिदिष्टार्थी' इति न्यायेनाऽपि तत्तत्कारकादिविशिष्टभावनाऽर्थकानां तिङां सर्वत्र सिद्धयसम्भवेन नियमस्यान्यथैव सङ्गमनीयत्वादित्यन्यत्र विस्तरः । ननु निपातानां वाचकत्वे 'घटो न पट' इत्यादौ घटादेः प्रतियोगितया नञर्थाभावे तस्य चाश्रयतया घटादावन्वयोऽनुपपन्नः । भेदसम्बन्धेन प्रातिपदिकार्थप्रकारक बोधे विशेष्यतया प्रत्ययजन्योपस्थितेतुतायां “नामाऽर्थयोर्भेदेनाऽन्वय" इति व्युत्पत्तिसिद्धत्वात् एवं “समानाधिकरणनामार्थयोः” इति व्युत्पत्तेरभेदेनान्वयापत्तिश्चेत्यत आह—*एवञ्चेति*। *विधिवैयर्थ्यमिति । तादृशवार्तिकेन प्रातिपदिकसंज्ञा विधानवैयर्थ्यमित्यर्थः । * अनर्थकस्येति । *व्यर्थमिति । व्यभिचाराभावेन तस्य विशेषण परीक्षा तिप्रत्ययौ”इतिनियमस्यौत्सर्गिकतया स्वीकारात् । "भावप्रधानमाख्यातम्, सत्वप्रधानानि नामानि इति । तुष्यतु भवांश्च । अपि च ' प्रविश' 'पिण्डीम्' इत्यत्र यथा प्रविशेत्यस्य श्रूयमाणस्य गृहं प्रविशेत्यर्थे शक्तिस्तथाऽजर्घाः ; अचकादित्यादौ प्रत्य लोपेsपि श्रूयमाणस्य शक्तिरस्तु वाक्यैकदेशन्यायात् । यथा तत्र प्रविशेत्यत्र सभायां प्रविशेत्यथ शक्तिस्वीकारेऽपि प्रविशति स्त्रिलिङ्गमिति व्यवहारो न सार्वजनीन इति स्त्रीवाचकता न प्रविशेति ब्रूषे ; तदा मयापि ब्रु विधातुमात्रात्कर्त्राद्यर्थस्य प्रतीतावपि धातुर्न तेषां वाचकः, अपि तु प्रत्यय एवेति स्वीक्रीयते, अतो न तन्मते दोषसम्भावनेति दिक् । मूले नतु तत् । तत्परेषामत एव नोऽस्माकम्मतेन युक्तम् । यत्परैः प्रादयो द्यो तका, एवादयो वाचका इति स्वीक्रियते तन्न युक्तम्, अर्द्धजरतीयस्यायुक्तत्वादिति भावः । तटस्थस्य शङ्कां वारयितुमुपक्रमते यत्विति । *विधिवैयर्थ्यम् । तेन वार्तिकेन. प्रातिपदिकसंज्ञाविधानं वैयर्थ्यम् । व्यर्थमिति । अनर्थकस्येति विशेषणस्यैवं सति वैयर्थ्यमित्यर्थः । तस्य उक्तवार्तिकस्य प्रत्याख्यातत्वादिति "कृत्तद्धित इति सूत्रे अ Page #366 -------------------------------------------------------------------------- ________________ ३३७ निपातार्थनिर्णयः। णमात्रार्थमुपात्तानां संग्रहाय वार्तिकारम्भस्य कैयटादौ स्पष्टत्वात् । तस्य प्रत्याख्यातत्वाच्च । परेषामिति बहुवचनं मीमांसकसङ्ग्रहाय । केवलवृक्षशब्दात् समुश्चयाबोधाञ्चकारश्रवणे तद्वोधाञ्चकार एव तद्वाचको न द्योतकः । किञ्च द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या, चकारादेद्योतकत्वशक्तिश्च कल्प्येति गौरवं स्यादिति हि समुच्चयाधिकरणे स्थितम् । तदपि न युक्तमिति भावः। तथाहि--अन्वयव्यतिरेको तात्पर्यग्राहकत्वेनाऽप्युपयुक्तौ । घटादिपदानामेव समुञ्चिते लक्षणा, तात्पर्य्यग्राहकः प्रकरणादिव. च्चादिरिति स्वीकारान्न शक्तिद्वयकल्पनापि । अस्माकं लक्षणाग्रहदशायां बोधात्तत्चत्कार्यकारणभाव आवश्यकः । एवं शक्तिग्रहस्यापीति पक्षद्वयेऽपि कल्प्यान्तराभावेन गौरवाभावादुभयमपि युक्तमित्यभिमतम् । अत एव___ "स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा”। इति वाक्यपदीयं सङ्गच्छते। दर्शनान्तररीत्या वाचकत्वमेव द्योत दर्पणः त्वायोगादिति भावः । *प्रत्याख्यातत्वाच्चेति । "कृत्तद्धित" (पा०सू० १।२।४६ ) इत्यत्र चशब्देनैव तदर्थस्य समुच्चितत्वादिति भावः ।। ___ वक्ष्यमाणास्वरसादाह-किञ्चेति । प्रकरणादिवदित्यनेन द्योतकतया वृत्तित्वाभावो ध्वन्यते । *अस्माकमिति* । पक्षद्वयाभ्युपगन्तृणामित्यर्थः। *कार्यकारणभाव इति । समुच्चितघटादिशाब्दबोधे घटपदनिरूपितलक्षणाज्ञानत्वेन हेतुतेत्याकारक इत्यर्थः । *शक्तिग्रहस्यापीति । घटद्यर्थबोधे घटशक्तिज्ञानस्य समुच्चयादिबोधे तच्छक्तिज्ञानस्य हेतुतेत्याकारकः कार्यकारणभावोऽप्यावश्यक इत्यर्थः ॥ ___ *कल्प्यान्तराभावेनेति । द्योतकतापक्षे वाचकतापक्षेऽपि तत्तत्पक्षक्लप्साधिककल्पनीयाऽभावेनेत्यर्थः । *अत एवेति ।' कल्प्यपक्षद्वये युक्तिसाम्यादेवेत्यर्थः । *स वाचक इति । उपसर्ग प्रक्रम्येदं 'प्रतिष्टत' इत्यत्र “गतिनिवृत्तिवाचकः स्थाधातुरुपस . परीक्षा श्वशब्दस्तेन तदर्थस्य क्रोडीसम्भवादिति शेषः। *सङ्ग्रहायेति । अधुना श्लोकस्थम्परेषां मतेनैतत्समुच्चयाधिकरणे मीमांसकैरुक्तं सर्वेषां वाचकत्वमेवेति; तन्नयुक्तम् , किन्तु द्योतकत्वमपीति व्याख्येयम् । वक्ष्यमाणास्वरसादाह-*किञ्चेति । वाचकत्वसाधिकां तदुक्ति खण्डयति-*अन्वयेति । तत्कार्यकारणभावः समु. ञ्चितघटादिविषयकशाब्दबोधे घटादिपदनिरूपितलक्षणाज्ञानत्वेन हेतुत्वमिति कार्यकारणभावः । *शक्तिग्रहस्यापीति । यथा-घटादिरूपार्थविषयकशाब्दबोधे घटादिशब्दज्ञानत्वेन हेतुत्वम् , तथा समुच्चितविषयकशाब्दबोधे तच्छक्तिज्ञानत्वेन हेतुत्वमित्यप्यनुभवानुरोधेन सममेवेति भावः। *अत एव*-पक्षद्वयेऽपि युक्त साम्यादेव। स: -उपसर्गः । *वाचकत्वमेव । निपातानामित्यादिः। *द्योतकत्वमेव । उपसर्गा ४३ ० ५० Page #367 -------------------------------------------------------------------------- ________________ ३३८ दर्पणपरीक्षासहिते भूषणसारेकत्वमेव वेति नियमस्तु न युक्त इति ध्वनयन्नाह-*मतमेव न इति॥४७॥ पर्यवसितमुपसंहरन्नाह निपातत्वं परेषां यत्तदस्माकमिति स्थितिः। व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ।। ४८ ॥ परेषां यन्निपातत्वम्-असत्त्वार्थकत्वे सति चाऽऽदिगणपठितत्वं शक्तिसम्बन्धेन निपातपदवत्वञ्चोपाधिर्वा जातिर्वा तदेवास्माकमपि, दर्पणः र्गस्तदभावरूपगतिवाचक” इति पुनराजेन तदर्थस्य कथनात् । वाचकत्वमेवेत्यस्य निपातानामित्यादिः, एवं द्योतकत्वमेवेत्यस्योपसर्गाणामित्यादिः । *मतमेवेतीति । *वा* । अथवाऽन्वयव्यतिरेकतो निपातानां वाचकत्वं युक्तम् । अस्माकं मते परेषां यदेकस्य वाचकत्वमपरस्य घोतकत्वमिति मतं, तदेव तु न युक्तमिति मूल. योजना ॥४७॥ ननु "चादयोऽसत्वे" (पा० सू० १११११७) इत्यत्राऽसत्त्व इति प्रसज्ज्यप्रतिषे. धाश्रयणेऽसमर्थसमासापत्तिर्वाक्यभेदापत्तिश्चेतिपर्युदास एवाश्रयणीयः । तथाचोक्तलक्षणस्याश्रयणेऽनर्थ के तस्मिन्नव्याप्तिः । तावदन्यतमत्वस्य निवेशे तु गौरवमत आह-*शक्तिसम्बन्धेनेति । तस्य लक्ष्यताऽवच्छेदकत्वमभिप्रेत्याह-*जातिरिति । निपातपदशक्यतावच्छेदकतया च तत्सिद्धिरिति भावः ।। ___ ननु हत्वादिना साङ्कऱ्यान्न निपातत्वं जातिः । तथाहि-निपातत्वाभाववति हत्वं धात्वादिहकारे, हत्वाभाववति निपातत्वं निपातात्मकचकारे तयोरकत्र हकारे समावेशात् । तत्दूषकताबीजं तु स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन जातिविशिष्टजातित्वावच्छेदेन स्वसमानाधिकरणाभावाप्रतियोगित्वनियमभङ्ग एव निरुपाधिसहचारग्रहश्च तादृशनियमेऽनुकूलस्तर्कः। अन्यथा तन्मात्रबलप्रवृत्तानां 'सत्तावान् जातेः' इत्याद्यनुमानानां विलयप्रसङ्गात् । अत एव 'भूतत्वं न जातिः' इति साम्प्रदायिकाः । हत्वादिव्याप्यनिपातत्वस्य नानात्वाभ्युपगमेन साङ्कय॑स्य परिहारेऽपि सकलचादिसाधारण्याभावेनाननुगततया तस्यैवासिद्धिनिष्प्रमाणत्वात् । किञ्च कायतावच्छेदकत्वादीनां जातित्वसाधकानां तत्राभावादपि न सा जातिः। शक्यतावच्छेदकत्वं परीक्षा णामित्यादिः ॥ ४७॥ ___ एतावता प्रबन्धेन पक्षद्वयव्युत्पादनेन यत्कृतन्तदानमोहनिवृत्तयेऽवतरणप्रदर्शनव्याजेनाह-*पर्य्यवसितमिति । "चादयोऽसत्वे इति सूत्रेऽसत्व इत्यत्र यदि प्रसज्यप्रतिषेधस्तदाऽसमर्थसमासस्य वाक्यभेदस्य चापत्तिरिति पर्युदास एवाश्रयणीयः। तथा चानर्थकनिपातानां पादपूरणकारणानाञ्चासङ्गहस्तत्राह-*शक्तिसम्बन्धेनेति । *जातिति* | निपातपदशक्यतावच्छेदकतया सिद्धा जातिरिति तदर्थः । नतु प्रत्वादिनासाडूय॑म् । प्रत्वाभाववति चशब्दे निपातत्वम् । निपात. वाभाववति विप्रशब्दघटकप्रशब्दे प्रत्वम् । निपातात्मकप्रशब्दे च तयोरेकनाभयोः Page #368 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः। परन्तु सामान्यधर्म प्रमाणानां पक्षपाताच्छुक्तता द्योतकता वा दर्पणः तु न तत्साधकम् । अभावत्वविभुत्वादीनामपि जातित्वापत्तेः । अत एव गुणदीधितौ गुणत्वस्य जातित्वं दीधितिकृता खण्डितमत आह--*उपाधिवेति* । सामान्ये व्यापकधर्म इत्यर्थः। अयम्भावः-उपसर्गेषूभयमतेऽपि द्योतकत्वे वाचकत्वे वा कल्पनीये तद्धमिवृत्ति. तयोपस्थितोपसर्गत्वनिपातत्वयोरुभयोर्धमयोर्मध्ये द्योतकत्वादिकमुपसर्गत्वावच्छेदेन कल्प्यमुत निपातत्वावच्छेदेनेति संशये अवच्छेदकनिर्णिनीषायां व्यापकतया निपात. त्वावच्छेदेनैव तत् कल्प्यते । सङ्ग्राहकलाघवात् । अत एवेश्वरानुमाने कर्तजन्यत्वं घटत्वादिनावच्छिद्यते, उत कार्यत्वेनेत्यवच्छेदकजिज्ञासायामुक्तलाघवात् कायंत्वमेव तदवच्छेदकं, न तु घटत्वादिकमिति न्यायसिद्धान्त इति । ____ अत्र वदन्ति-प्रमाणानां सामान्यधर्मस्यावच्छेदकतायां तत्र पक्षपातो, यत्र च बहूनां धर्माणामवच्छेदकत्वकल्पनाप्रयुक्तं गौरवम् । यथा कर्जजन्यत्वानुमाने कृतिजन्यतायां घटत्वाद्यपेक्षया कार्य्यत्वस्य । यत्र तु विशेषोऽप्येक एंव तत्रोक्तयुक्तिविरहात् तस्यैवावच्छेदकत्वम् । अत एव व्यापारत्वस्याऽधिकसंग्राहकत्वेऽपि कृतित्वस्यैवाख्यातशक्यतावच्छेदकत्वम् । स्वीकृतं च मीमांसकैरपि द्रव्यप्रत्यक्षत्वं विहाय द्रव्यचाक्षुष. त्वस्यैव रूपकार्य्यतावच्छेदकत्वम् । प्रकृते व्यापकत्वान्निपातत्वस्याधिकसंग्राहकत्वेऽपि व्यापकस्योपसर्गत्वस्याप्येकत्वेन तस्यैवावच्छेदकत्वमुचितम् । नतु निपातत्वस्य, अद्योतकेऽवाचके पादपूरणमात्राऽर्थक वृत्तित्वेनातिप्रसक्तत्वात्। 'प्रादयो द्योत. काः, उपसर्गत्वात्' इत्यनुमानाच । परीक्षा समावेशः, इति तस्य जातित्वन्न युक्तम् । प्रत्वादिव्याप्यं नानानिपातत्वं यदि स्वीक्रियते तदाऽननुगमेन तस्य शक्यतावच्छेदकत्वासम्भवेन तस्यैवासिद्धिः । किञ्च शक्यतावच्छेदकतया जातिस्वीकारे विभुपदशक्यतावच्छेदकतया विभुत्वस्यापि जातित्वापत्तिरिति शक्यतावच्छेदकत्वन्न जातित्वसाधकम् , किन्तु कार्यतावच्छेदकत्वं कारणतावच्छेदकत्वं वेत्यत आह-*उपाधिति*। क्वचित् उपाधिर्वा जातिवेंति पाठः। तस्येत्थमुपपत्तिः-साङ्कयस्य जातिबाधकत्वमित्येतन्न युक्तम् । जातिबा. धकत्वं यदि जातिनाशकत्वं तदाऽसम्भव एव । जातेनित्यतया तन्नाशासम्भवात् । यदि जातित्वाभावसाधकत्वमित्यर्थः, तावतापि जातित्वाभावसाधकत्वमस्य न स्वीकार्यम् । तथाहि-भूतत्वं न जातिः । स्वसामानाधिकरण्य स्वाभावसामानाधिकरण्योभयसम्बन्धेन मूर्तवत्वादित्यनुमानं वाच्यम् । तच्च यदि विशेषतस्तदा दृष्टान्ताप्रसिद्धिः। यदि सामान्यतो यचदुभयसम्बन्धेन जातिविशिष्टन्तजातित्वाभाववत् पृथिवीजलसंयोगो यथेति तावताण्यसम्भवो द्रव्यत्वेऽपि पृथिवीत्वस्योभयत्र सम्बन्धेन सत्वातत्र व्यभिचारादिति । सामान्ये व्यापकधमें पक्षपातादिति तदवच्छेदेन विधेयार्थसाधकत्वादित्यर्थः। Page #369 -------------------------------------------------------------------------- ________________ ३४० दर्पणपरीक्षासहिते भूषणसारेतदवच्छेदेनैव कल्प्येति नैयायिकोक्तं प्रादिचाद्योवैषम्यमयुक्तमि दर्पणः नच प्रादीनां द्योतकता निपातत्वलिङ्गेनैव सेत्स्यतीति वाच्यम् । तस्योपसर्गत्व. रूपोपाधिमत्तया तदसाधकत्वात् । नच चेष्टादौ साध्याऽव्यापकत्वान्न तस्योपाधित्व. मिति वाच्यम् । शुद्धसाध्याव्यापकत्वेऽपि साधनावच्छिन्नसाध्यव्यापकत्वसम्भवात् । अस्ति हि निपातत्वावच्छिन्नं द्योतकत्वं यत्र तत्रोपसर्गत्वम् । यत्र निपातत्वं नजादौ तत्र तदभावाद् । ननु प्रकर्षाद्यर्थः प्रादिवाच्यः । तदन्वयव्यतिरेकानुविधायिशाब्दधीविषयत्वात् , यो यदन्वयव्यतिरेकानुविधायिशाब्दधीविषयः स तद्वाच्य इति सामा. न्यव्याप्तौ घटादिदृष्टान्तः ।। __ नचानन्यलभ्यत्वमुपाधिः । तस्य वाच्यत्वरूपसाध्यव्यापकत्वात् कर्नादौ आख्यातान्वयव्यतिरेकानुविधायिशाब्दधीविषये साधनाऽव्यापकत्वादिति वाच्यम् । उक्तहेतुघटकशाब्दबुद्धराक्षेपायजन्यत्वेन विशेषणेनानन्यलभ्यत्वस्य साधनव्यापकत्वेनोपा. धित्वायोगात्। "नच स्वरूपाऽसिद्धिः । धातोरेव प्रकृष्टजयाऽर्थकत्वेनोपसर्गस्य तात्पर्यमात्रग्राहकत्वादिति वाच्यम् । धातोः प्रकृष्टजयार्थकत्वस्य ग्रन्थकृतैव खण्डनात् । नापि लक्ष्यता तस्य। प्रोत्तरत्वादेर्लक्षकतावच्छेदककोटिप्रवेशे गौरवात् । तस्माज्जयत्यादिधातोः शक्यतावच्छेदकम् , प्रकर्षत्वादिकं तूपसर्गस्येति वाच्यम् । तथाच क हेत्वसिद्धिः । किञ्चार्थस्य धातुलक्ष्यत्वे जिपूर्वप्रत्वेनापि विनिगमनाविरहाल्लक्षकतावच्छेदकोटौ निवेशापत्तिः। नाऽपि तदर्थस्य धात्वर्थेन साकमनन्वयप्रसङ्गः। निपातातिरिक्तत्वस्योक्तव्युत्पत्तौ विशेषणात् । एवञ्च 'प्रतिष्ठत' इत्यादौ धातोर्गत्यभावोऽर्थः तदभावश्चोपसर्गार्थः। तथाच ततो गत्यभावाभाववानिति धीः, गमनत्वप्रकारकबोधस्तूत्तरकालिको मानस एवेति चेद् ? न । 'प्रत्ययानाम्' इति व्युत्पत्तेर्जागरूकतया गमनाभावाभाववानिति बोधस्यापि गगनकुसुमायमानत्वात्॥ परीक्षा अयमभिसम्बन्धः-उपसर्गेषु द्योतकत्वं वाचकत्वं वोभयमतेऽपि कल्पनीयम् , तदा धर्मिवृत्तिधर्मावच्छेदेन कल्पनीयम् , तद्धमिवृत्तिधर्मश्च यथोपसर्गत्वं तथा निपातत्वमपीति संशये निपातत्वस्य व्यापकतया तदवच्छेदेनैव कल्पयितुमुचितम् । यथा न्यायनयेऽदृष्टस्य कारणत्वकल्पनया तत्कार्यतावच्छेदकं व्यापकत्वात् कार्यत्वमेव, नतु घटत्वादिकमिति कल्पने घटत्वादेवाननुगतत्वेनानन्तकार्यकारणाभावात्। तथा यत्रापि समुचितमिति प्रकृते प्रमाणं त्वनुमानमेव । निपाताः-द्योतका, निपातत्वात् । उपसर्गवत् , इति । अत्र जातिरूपमखण्डोपाधिरूपं वा निपातत्वं पक्षतावच्छेदक निपातपदवत्वं च हेतुपक्षतावच्छेदकयो दान्न सिद्धसाधनशङ्कावसरः । नच निपातत्वस्यानर्थकनिपातेऽपि सत्वात्तत्र साध्यासत्वेन भागासिद्धिरिति वाच्यम् । द्योतका इत्यस्य वाचकत्वाभाववन्त इत्यर्थात् । नच घटत्वादीनामनेकत्वेन तदवच्छेदकत्वेनादृष्टकार्यत्वकल्पना न सम्भवत्यतस्तया यत्र कार्यत्वं कार्यतावच्छेदकमित्यस्तु प्रकृते उपसर्गत्वनिपातत्वयोरुभयोरप्येकत्वेन विनिगमकाभावेनोपस Page #370 -------------------------------------------------------------------------- ________________ निपातार्थनिणयः।... ३४१ दर्पणः किञ्च तथा बोधाङ्गीकारे तादृशस्थले प्रादीनामुपसर्गत्वमपि दुर्घटम् । क्रियाया अविशेषकत्वात् । क्रिया यत्रोपसर्गार्था भावविशेषिका, न तूपसर्गार्थो गत्यभावविशेषकः । स्वादीनां द्योतकताव्यवस्थापनोक्तरीत्याप्युपसर्गाणां साऽवसेयेति । निपातानां तु केषाञ्चिदू वाचकत्वम् । तत्र नञर्थो निरूपितः। चार्थश्च समुच्चयादिभेदेन चतुर्विध इति, "चार्थे द्वन्द्वः” ( पा० सू० २१८८९) इत्यत्राकरेषु व्यक्तमेव । ___इवार्थस्तु सादृश्यम् । तच्च तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । यत्तु सादृश्यं न भेदघटितमिति , तन्न । तावतापि “नजिवयुक्तम्” इति परिभाषणेन तस्येवार्थत्वानपायात् । तदबोधे त्वनुयोगिप्रतियोगिवाचकपदयोः समानविभक्तिकत्वं नियामकम् । नातश्चन्द्र इव मुखमित्यर्थे चन्द्रेणेव मुखमिति साधु। . एवकारस्य त्वन्ययोगव्यवच्छेदोऽयोगव्यवच्छेदोऽत्यन्तायोगव्यवच्छेदश्चार्थः। तत्र विशेष्यगतैवस्थले 'पार्थ एव धनुर्द्धर' इत्यादावन्यतादात्म्यव्यवच्छेदोऽर्थः । अन्यत्वं च-समभिव्याहृतपदार्थापेक्षिकम् । तथाच पार्थान्यतादात्म्याभाववद्धनुर्द्धराभिन्नः पार्थ इति बोधः । पृथिव्यामेव गन्ध इत्यत्र पृथिव्यन्यसमवेतत्वाभाववान् पृथिवीसमवे. तश्च गन्ध इति बोधः । अत्र भावान्वयबोधानुपगमे पृथिव्यामेवाकाशमित्यपि प्रस. ज्ज्येत । एवञ्जैवकारेणान्ययोगव्यवच्छेदबोधे विशेष्यवाचकपदविशेषणवाचकसप्तम्यन्तान्यतरसमभिव्याहारो नियामकः । विशेषणसङ्गतैवस्थलेऽयोगव्यवच्छेदः । 'शङ्खः पाण्डुर एव' इत्यादौ शङ्खत्वावच्छेदेन पाण्डुरवत्त्वसमवायाभावव्यवच्छेदबोधात् । 'नीलं सरोजं भवत्येव' इत्यादौ क्रियासङ्गतैवस्थलेऽत्यन्तायोगव्यवच्छेदोऽर्थः ॥ 'अत्र केचित्-अयोगे आत्यन्तिकत्वं व्यवच्छिद्यते । तच्चान्वयितावच्छेदकव्यापकत्वम् । खण्डशश्च तत्र शक्तिः। तथाचोक्तस्थले सरोजनिष्ठाभावप्रतियोगिनीलभवनाभाव इति बोध इति वदन्ति ॥ परीक्षा गत्वावच्छेदेन द्योतकत्वस्य कल्पनमस्त्विति वाच्यम् । उपसर्गत्वस्यैकत्वेऽप्यस्य तदवच्छेदकत्वं वक्तुमशक्यम् । नञ् यथा शब्दानामसङ्ग्राहकत्वात् । इत्यादीत्यादिना सिद्धान्तविशेषः सूचितः। यत्र क्रियातो विशेषः प्रतीयते तत्रास्तु द्योतकता। यत्र तु नामार्थान्वयो विशेषस्तत्र यथायथं द्योतकत्वं वाचकत्वं वा। शरैरुपैरिवोदीच्यान्" इत्यादावुक्तरीत्या द्योतकत्वमेव । चादीनान्तु घटः पटश्चेत्यादौ वाचकता । अत एव समुच्चयादीनाञ्चतुर्णाश्चार्थत्ववर्णन साधु संगच्छते। . इवशब्दार्थः सादृश्यम् । एतत्प्रतीतिश्चन्द्र इव मुखमित्यादौ दृष्टा । एतद्बोधे च प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तित्वं कारणम् । अत एव चन्द्र इव मुखमिति शब्दादिव चन्द्राय इव मुखमिति शब्दान्न सादृश्यप्रतीतिः । नच सादृश्यस्य साधा. रणधर्मप्रयोज्यतयोभयसाधारणधर्मवाचकम्पदं यथाऽऽल्हादकमित्याकारकमाक्षिण्यते, तदा तस्य नपुंसकलिङ्गत्वेनोपमाने तदन्वयो न प्रतीयेतेति कथमुपमानोपमेययोः साधारणधर्मवत्वप्रतीतिरिति वाच्यम् । लिङ्गरहितार्थोपस्थापकस्याल्हादयतीत्यस्याक्षेपेण सामञ्जस्यात्। यत्र तु चन्द्र इव मुखमाल्हादकमिति प्रयोगस्तत्राप्युभयसाधारणोधर्मों न प्रतीयते इत्युपमादोष एव । Page #371 -------------------------------------------------------------------------- ________________ ३४२ दर्पणपरीक्षासहिते भूषणसारे - दर्पणः वस्तुतस्त्वन्ययोगव्यवच्छेदाऽयोगव्यवच्छेदयोरेवैवकारस्य शक्तिः। अन्वयिता. वच्छेदकावच्छेदेनायोगव्यवच्छेदबोधे ग्रहणाऽध्ययनार्थकधातुसमभिव्याहारस्यापि नियामकत्वाज्ज्ञानमर्थं गृह्णात्येवेत्यादिवन्न ज्ञानं रजतं गृह्णात्येवेत्यादिप्रयोगः । क्रियान्तरसमभिव्याहारे तु प्रायः सामानाधिकरण्येन तदानम् । इत्थञ्चान्वयिताव. च्छेदकसामाधिकरण्येनान्ययोगव्यवच्छेदोऽत्यन्तायोगव्यवच्छेदः, अन्वयितावच्छेदकावच्छेदेन त्वयोगव्यवच्छेद इति व्यवहियते । विस्तरस्त्वन्यतोऽवधायंः।। ___ 'केव भोक्ष्यसे' इत्यादावसम्भावनाऽपि तदर्थः । एवमन्येषामपि सार्थकानां निपा. तानामर्था ऊह्याः। वैयाकरणमते त्वेवकारस्य वाचकत्वासम्भवादवधारणात्मकज्ञानविशेषद्योतकत्वमेव । स च समभिव्याहृतपदार्थानुरोधादनेकविधः। यथा ज्ञानमर्थ गृह्णात्येवेत्यत्रावच्छेदकावच्छेदेनाऽर्थग्रहणाभावानधिकरणज्ञानप्रकारकज्ञानविषयो ज्ञानकर्त्तकमर्थकर्मकं ग्रहणमिति बोधादुक्तपदार्थघटितः सः। परन्त्वनेकधात्वादीनां तत्तदर्थे वृत्तिकल्पनापेक्षयैवकारस्यैव सोचितेत्यन्ये । यद्यप्युपसर्ग प्रक्रम्य स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि च । इति हरिणा पक्षद्वयमविशेषेणोक्तम् , ग्रन्थकृता च तदेवानुसृतम् । तथापि क्वचित् सम्भविनो भेदाः केवलैरनिदर्शिताः। उपसर्गेण सम्बन्धो व्यज्यन्ते प्रसरादिना ॥१॥ इति तदुक्तोपसंहृतिपर्सालोचनयोपसर्गाणां द्योतकत्वमेवाऽवसीयते । अत्रेदं बोध्यम्-उपसर्गत्वाद्यजानतोऽपि प्रजयतीत्यादौ प्रकृष्टजयबोधात् प्रत्वादिनैव तेषां द्योतकत्वम् । निपातानामपि च त्वादिनैव वाचकता, यत्र न वाचकतामन्तरेण निर्वाहः । क्वचिद् द्योतकत्वमप्युक्तयुक्त्यानभ्युपगम्ये यथा “शरैरुत्रैः" इत्यादौ । क्वचिन्नोभयम् । यथा पादपूरणमात्रार्थके त्वादौ। परीक्षा यद्यपि लिङ्गविपरिणामेन यथाकथंचिदुभयत्रान्वयस्तथापि भूरि(बहुलो) नान्वय इत्यस्फुटत्वात्तस्य चमत्कारानाधायकत्वेन दोषत्वम् । एवमुपमानोपमेयवाचकम्पद यद्ववचनकन्तद्वचनकमेव साधारणधर्मवाचकं प्रयोक्तव्यम् । नतु विभिन्नवचनकम् । यथा-'सक्तवो मिक्षिता देव शुद्धाः कुलवधूरिव' देवेति सम्बोधनविभक्त्यन्तम् । अन बहुत्वविशिष्टस्य शुद्धत्वस्य शुद्धा इत्यनेनोपादानात्तस्य बहुत्वावरुद्धसक्तुष्वेवो. पमेयेष्वन्वयः प्रतीयतेऽतो दुष्टमेवेदं काव्यम् । एवं नमो निपातस्याभाववाचकता। यथा केवलस्य नेत्यस्य प्रयोगेऽप्यभावस्य बोधः । तथा सङ्कटं प्रकटमित्यत्र च सम्प्र. शब्दयोर्वाचकत्वम् । तस्माच्च स्वार्थ सम्प्रोदश्च कटच्" इति कटच्प्रत्ययः। एव. मेवकारस्यान्ययोगव्यवच्छेदस्य विशेषणे प्रतीतिः । यथा-पार्थ एव धनुर्धर' इत्यादौ अन्यत्वसमभिव्याहृतपदोपात्तविशेष्यापेक्षया योगः सम्बन्धः। सचैवकाराभावे विशे. षणतावच्छेदकत्वेन यो यत्र प्रतीयते, स एवैवकारसमभिव्याहारे सत्येतदुपस्थाप्याभा. वरूपव्यवच्छेदस्यानुपयोगितावच्छेदकतया भासते । तथा च पार्थान्यतादात्म्याभाववद्धनुर्धराभिन्नपार्थ इति बोधः । एवं यत्र सप्तम्यन्तविशेषणवाचकपदसमभिव्याहारस्तत्राप्येवकारार्थोऽन्ययोगव्यवच्छेदः । अन्यत्वे च सप्तमी प्रक्चत्ययस्य प्रकृत्यर्थताव Page #372 -------------------------------------------------------------------------- ________________ निपातार्थनिर्णयः । ३४३ त्यर्थः । व्यापकत्वात = सामान्यत्वात् । शक्तताया इत्युपलक्षणं द्योतकताया वेत्यपि द्रष्टव्यम् ॥ ४८ ॥ इति वैयाकरणभूषणसारे निपातानां द्योतकत्वादिनिर्णयः ॥ ८ ॥ दर्पणः तदुक्तम् - निपाता द्योतकाः केचित् पृथगर्थाभिधायिनः । 1 आगमा इव केsपि स्युः सम्भूयाऽर्थस्य वाचकाः ॥ इति । केचिदित्युभयान्वयी । न तूपसर्गत्वेन प्रादीनां निपातत्वेन चादीनां द्योतकता वाचकता चेति स्थितेरुपसर्गत्वावच्छेदेन द्योतकता, न निपातत्वावच्छेदेनेति विवादः सिद्धान्तानालोचनमूलक एव । कर्मप्रवचनीयानां तु नोपसर्गवत् क्रियाविशेषकत्वम्, किन्तु क्रियागतसम्बन्धविशेषकत्वम् । कर्म = क्रियां प्रोक्तवन्तः कर्मप्रवचनीया इत्यन्वर्थसंज्ञाविज्ञानात् । अधिपर्योस्तु सूत्रारम्भसामर्थ्यादेव सा । 'जपमनुप्रावर्षत्' इत्यत्र हेतुभूतजपनिरूपितलक्ष्यलक्षणभावसम्बन्धस्य वर्षाणक्रियानिष्ठस्यानुना द्योतनात्, एवमन्यत्रापि ज्ञेयम् । अत एव न तेषामुपसर्गत्वम् । क्रियागतविशेषद्योतको ह्युपसर्गः । उक्तञ्च हरिणा - क्रियाया द्योतको नाऽयं सम्बन्धस्य न वाचकः । arsfप क्रियापदाssक्षेपी सम्बन्धस्य तु भेदकः ॥ इति । तदर्थस्तु - कर्मप्रवचनीयसंज्ञकोऽन्वादिः, प्रजयतीत्यादावुपसर्गवन्न क्रियागत विशेषस्य द्योतकः । विभक्त्यैवोक्तत्वाच्च न सम्बन्धस्य वाचकः । नाऽपि, "प्रादेशं विलिखति' इत्यादौ विशब्दवत् क्रियाक्षेपकः । तत्र विना मानक्रियाक्षेपात् । तथा सति तत्क्रियानिबन्धना कारकविभक्तिरेव स्यात् । किन्तु विशिष्टक्रियाजनितो यः सम्बधो विभक्त्यर्थ इति तद्द्योतकः । प्रादेशं विमाय लिखतीत्यर्थप्रतीतेरित्यधिकमन्यतोऽवधार्य्यम् ॥ ४८ ॥ इति भूषणसारदर्पणे उपसर्गनिपातार्थनिरूपणम् ॥ ८ ॥ परीक्षा च्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयः । योगश्च सप्तम्यर्थाधेयत्वरूप एव । तस्य सप्तम्यन्तार्थस्य द्वेधा शाब्दबोधे भानम् । अभावप्रतियोगिभूतमाधेयत्व - वकाराभावे ग्राशसम्बन्धावच्छिन्नम्प्रतीयते तादृशसम्बन्धावच्छिन्नमेव । एवञ्च पृथिव्यामेव गन्ध इति वाक्यात् पृथिव्यन्यसमवेतत्वाभाववान् गन्धः पृथिवीसमवेत इति बोधः । द्विधाभानस्य प्रयोजनन्तु पृथिव्यामेव गगनमिति प्रयोगवारणमेव । यत्र तु क्रियावाचकपदसमभिव्याहृत एवकारस्तत्रात्यन्तायोगव्यवच्छेद एवकारार्थः । तन्त्रात्यन्तिकत्वम् — अन्वयितावच्छेदकव्यापकत्वम् । तस्यायोगस्य प्रतियोगितासम्बन्धावच्छिन्न प्रतियोगिताकाभावस्तद्वान् तस्य क्रियायामभेदेन विशेषणम् । एवच 'नील सरोजं भवत्येव' इति वाक्यात्सरोजत्वव्यापकाभावस्य यः प्रतियोगिता सम्बन्धावच्छिन्नप्रतियोगिताकाभावस्तद्वदभिन्ननीलकर्तृकं भवनमिति बोधः। नचैवं 'सरोजन्नीलमेव ' इत्यपि प्रयोगः स्यात् । सरोजत्वव्यापकस्याभावस्य यः प्रतियोगितासम्बन्धावच्छिन्नप्रतियोगिताभावस्तद्वदभेदस्य नीले सत्वादिति वाच्यम् । अत्यन्तायोगव्यवच्छेदस्य क्रिया... " *" (१) ॥ ४८ ॥ श्रीभूषणaratां परीक्षायां निपातार्थनिर्णयः ॥ ८ ॥ • ( १ ) अग्रे पाठः खण्डितोऽरित, स विद्वद्भिः पूरणीय इति शम् । Page #373 -------------------------------------------------------------------------- ________________ ॥ अथ त्वादिभावप्रत्ययार्थनिर्णयः॥ भावप्रत्ययार्थमाह कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम् । त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥ ४९ ॥ "कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेनाऽन्यत्र रूढ्य. भिन्नरूपाव्यभिचरितसम्बन्धेभ्यः" इति वार्तिकवचने मीमांसका. दीनां भ्रममपाकुर्वन्नाह-*टीकायामिति* ॥ भर्तृहरिणा महाभाप्यटीकायामित्यर्थः ॥ त्वतलोरिति भावप्रत्ययमात्रोपलक्षणम् । .. अयमर्थः--समासादौ शक्तिः कल्प्यमाना राजादिसम्बन्धविशिष्टे कल्प्यत इत्युक्तम् । तथाच तदुत्तरभावप्रत्ययः सम्बन्धं वदतीत्यर्थः । एतदपि भेदः संसर्ग उभयं वेत्युक्तेषुभेदपक्षे न सम्भवतीत्यत आह--*मतभेदेति* ॥ पक्षभेदे इत्यर्थः । . एवञ्च राजपुरुषत्वम् , औपगवत्वं, पक्तृत्वमित्यादी स्वस्वामिभावसम्बन्धः, उपग्वपत्यसम्बन्धः, क्रियाकारकभावसम्बन्ध इत्यन्वयबोधः । औपगवादावव्यभिचरितसम्बन्धे तु अर्थान्तरवृत्तिस्तद्धित उदाहार्यः । . दर्पणः अथ त्वादिभावप्रत्ययार्थनिर्णयः॥ प्रक्रान्ते नामार्थनिरूपणे नामघटककृत्तद्धितानामर्थमुपोद्धातसङ्गत्या निरूपयिष्यनादौ प्रकृत्यर्थप्रकारत्वाद्भावप्रत्ययार्थनिरूपणमित्याशयेनाह-*भावेति । ष्युजवुजादेरपि सम्बन्धरूपभावबोधकत्वात् तत्संग्रहार्थमाह-*त्वतलोरिति । *भावप्रत्ययेति । भावविहिततद्धितप्रत्ययेत्यर्थः । हरिवाक्यं विवृणोति-*अयमर्थ इत्यादिना* । इत्यु. क्तमित्यस्य समासशक्तिनिरूपणावसर इति शेषः ॥ *सम्बन्धमिति। उत्तरपदार्थे पूर्वपदार्थसम्बन्धस्यैव धर्मत्वेन भासमानत्वादिति भावः ॥ *भेदपक्ष इति । तत्पक्षे हि राजपुरुष' इत्यत्राऽराजकीयभिन्नः पुरुष इति बोधेन पुरुषांशे राजसम्बन्धाभानादिति भावः ॥ *उपग्वपत्यसम्बन्ध इति । उपग्वपत्ययोर्जन्यजनकभावात्मकः सम्बन्ध इत्यर्थः ॥ *अन्वयबोध इति । तत्तत्पदोत्तरभावप्रत्ययस्य तत्तत्सम्बन्धवाचकत्वादिति भावः। *अव्यभिचरितसम्बन्धे त्विति ॥ अव्यभिचरितसम्बन्धरूपजात्यैवभानोपगमे त्वित्यर्थः । तुशब्दसूचिताऽरुचिबीजं तु, "तस्याऽपत्यम्" (पासू०४।१२८२) इत्यनेन षष्ठीप्रकृत्यर्थोपग्वादिसम्बन्धेऽपत्येऽणादीनां विधानेन षष्ठ्यर्थसम्बन्धान्त वेणैव तत्रैकार्थीभावस्योपगन्तव्यतया तत्रापत्याचंशे संसर्गस्यैव प्रकारतया तस्यैव तदुत्तरभावप्रत्ययार्थत्वेन जातेस्तद्वाच्यत्वासम्भवादिति ॥ *अर्थान्तरवृत्तिरिति । धात्वर्थघटि Page #374 -------------------------------------------------------------------------- ________________ - भावप्रत्ययार्थनिर्णयः। दामोदरत्वं, कृष्णसर्पत्वमित्यादौजातिविशेषेण बोधादाह-*अन्यत्रेति* । रूढेरभिन्नरूपादव्यभिचरितसम्बन्धेभ्यश्चान्यत्रेत्यर्थः । रूढिरुक्ता । द्वितीयं यथा शुक्लत्वम् । अत्र "तदस्यास्त्यस्मिन्” (पासू० पा२।१४) इति मतुपो "गुणवचनेभ्यो मतुपो लुगिष्ट” (का० वा०) इति लुप्तत्वात् तद्धितान्तत्वेऽपि, घटः शुक्ल इत्यभेदप्रत्ययाद्: गुणस्यैव प्रकारत्वेन भानं जायते । तृतीयम्-सतो भावः सत्तेति । अत्र जातावेव प्रत्यय इति दिक ॥ ४६॥ . दण्डीत्यादौ प्रकृत्यर्थविशिष्टद्रव्यमात्रवाचकता तद्धितस्येति वदन्तं मीमांसकम्मन्यं प्रत्याह अत्रार्द्धजरतीयं स्याद् दर्शनान्तरगामिनाम् । सिद्धान्ते तु स्थितं पक्षद्वयं त्वादिषु तच्छृणु ॥५०॥ दर्पणः तार्थवृत्तिराक्षिकाद्यन्तर्गतठगादिरित्यर्थः । तदर्थे कर्नादौ देवनादिरूपक्रियायाः क्रियाकारकभावसम्बन्धस्य प्रकारतया भानादित्याशयः ॥ *रूढेरिति । कथमप्यज्ञात योगादर्थविशेषप्रसिद्धादित्यर्थः ॥ *अभिन्नरूपादिति* ॥ प्रत्ययान्तत्वेऽपि प्रत्ययलुका प्रकृतिसमानाऽऽकारात् "शिष्यमाणं लुप्यमानाऽर्थाभिधायि" इति न्यायेन प्रकृत्यर्थान्वितप्रत्ययार्थाभिधायिन इत्यर्थः । *अव्यभिचरितसम्बन्धेभ्य इति ॥ अव्यभिच. रितो व्यक्तिनिष्ठाऽत्यन्ताभावाप्रतियोगी, सम्बन्धः-समवायात्मको यस्य जात्यादेस्तद्विशिष्टवाचकादित्यर्थः । नाऽतः पाकादिना नाशेन स्वाश्रयनिष्ठाऽभावप्रतियोगिना-त. त्वम् ॥ *उक्तेति ॥ दामोदरत्वमित्यादौ जातिविशेषेण भानादिति ग्रन्थेनेत्यर्थः ॥ द्वितीयं यथेति ॥ अभिन्नरूपोदाहरणं यथेत्यर्थः । तद्धितान्तत्वेऽपीत्यपिना तदुत्तरभावप्रत्ययेन सम्बन्धाभिधानं प्राप्नोतीति सूचितम् ॥ *अभेदप्रत्ययादिति । इदञ्च षष्ठ्यर्थे विहितस्य मतुपः सम्बन्धाऽर्थकत्वशङ्कानिरासाय । तृतीयमित्यस्योदाहरणं यथेति शेषः। सत इति ॥ सच्छब्दजन्यबोधे शत्रर्थकशे सत्तायाः प्रकारतया भानात्तदुत्तरभावप्रत्ययेनाऽपि सैवाभिधीयते इत्यर्थः । तथा चोक्तस्थलेषु भावप्रत्ययान्तात् सम्ब. न्धाभानादुक्तवाक्ये, अन्यत्रेत्युपात्तमिति भावः ॥ . ननु शुक्लत्वं सत्त्वमित्यादौ सतोऽपि शौक्ल्यादिसम्बन्धस्य भावप्रत्ययेनाऽनभिधानवदू राजपुरुष इत्यत्रापि तदनभिधानं स्यात् । तत्रापि राजादीनां पुरुषादिपदार्थे स्वत्वादिसम्बन्धेन प्रकारतेत्यस्यापि वक्तुं शक्यत्वादित्यत आह-*दिगिति* ॥ तदर्थस्तु-निर्वक्ष्यमाणभावे "तस्य भावः” ( पा० सू० ५।१।११। ) इति सूत्रेण त्वतलादयो विधीयन्ते ॥ नतु जातित्वादिना जातावेव सम्बन्ध एवेति नियमः । तथाच यत्प्रकृतेर्यद्धर्मप्रकारकबोधः शास्त्रकृत्सम्मतः स एव धर्मस्त्वायभिधेय इति रूब्यादिभिः मित्रप्रकृतेः कृदन्तादितोऽपि सम्बन्धप्रकारकबोधस्य भाष्यसम्मतत्वात् तस्यैव भावप्रः त्ययेनाभिधानमुचितमिति नोक्तेषु भावप्रत्ययस्य जात्याद्यभिधायकत्वमिति ॥४९॥ 'प्रकृत्यर्थविशिष्टद्रव्यमान वचन' इति पाठः । मात्रपदेन सम्बन्धव्यवच्छेदः ॥ *तद्धि ४४ ६०प० Page #375 -------------------------------------------------------------------------- ________________ ३४६ दर्पणपरीक्षासहिते भूषणसारे - श्रत्र - भावप्रत्ययविषये । तथाहि - दामोदरत्वं घटत्वमित्यादौ भावप्रत्ययस्य सम्बन्धानभिधायकत्वेन मीमांसकानां दण्डित्वमित्य. - दिष्वपि तदभिधानं न स्यात् । प्रकृतिजन्यबोधे प्रकारः प्रकृत्यर्थसमवेतो हि तदुत्तरभावप्रत्ययेनाभिधीयते । अन्यथा घटत्वमित्यत्र द्रव्यत्वादेईण्डित्वमित्यादौ दण्डादेश्च तदुत्तरभावप्रत्ययवाच्यतापत्तेः । न च तन्मते दण्डीत्यादिबोधे सम्बन्धः प्रकारः । यत्तु — यदा स्वसमवेतोऽत्र वाच्यो नास्ति गुणोऽपरः । तदा गत्यन्तराभावात् सम्बन्धो वाच्य आश्रितः ॥ इति । तन्न । इनादेः सम्बन्धिवाचकत्वेनोपपत्तौ गत्यभावाभावात् । प्रपञ्चितं चैतदादावेव वैयाकरणभूषणे । दर्पणः तस्येति । इन्यादेरित्यर्थः ॥ *सम्बन्धानभिधायकत्वेनेति ॥ प्रकृतिजन्यबोधे तस्याप्रकारत्वादिति भावः ॥ * तदभिधानम् - सम्बन्धाभिधानम् ॥ न स्यादिति ॥ किन्तु दण्डस्यैवाऽभिधानं स्यान्न च तदभिधानमिष्टमिति भावः । ननु प्रकृतिजन्यबोधविषयत्वे सति प्रकृत्यर्थवृत्तित्वं भावत्वम् । तच्च दण्डसम्बन्धस्याsक्षतमिति भावप्रत्ययेन तदभिधानं भविष्यतीत्यत आह- * प्रकृतिजन्यबोध इति* ॥ उक्तार्थस्य भावत्वे तु दामोदरत्वमित्यादौ जातिगुणसम्बन्धस्याऽपि भावार्थता प्रसज्ज्येतेति भावः । क्रमेण दलद्वयव्यावर्त्यमाह -*अन्यथेति ॥ एकतरदलमाश्रोपादाने इत्यर्थः । *तदुत्तरेति ॥ घटदण्डिपदोत्तरेत्यर्थः । तथाच घटत्वमित्यादौ द्रव्यत्वस्येव त्वन्मते दण्डीत्यादौ दण्डसम्बन्धस्याप्यपदार्थतया ऽप्रकारत्वादभावत्वेन न तस्य प्रत्ययार्थत्वसम्भव इति भावः । वस्तुतस्त्वन्त्यदलोपादानं व्यर्थम् । मतुबादीनां सम्बन्ध्यर्थकतया दण्डीत्यादिवाक्य-जन्यबोधसम्बन्धस्यैव प्रकारत्वेन दण्डादीनां प्रकृत्यर्थेऽप्रकारत्वादेवानतिप्रसङ्गात् । मीमांसकैकदेशिमते मत्वर्थीयानां सम्बन्धवाचकत्वेऽपि तदाक्षिप्ताश्रयविशेष्यकबोधस्यैव तैरभ्युपगमेन तन्मतेऽपि प्रकृतिजन्यबोधविशेष्यांशे दण्डादीनामप्रकार - त्वेन प्रयोजनविरहादिति विभावनीयम् ॥ *सम्बन्धः प्रकार इति ॥ अस्य येन तस्य त्वादिप्रत्ययवाच्यता स्यादिति शेषः । मीमांसकमतमुपन्यस्यति-यत्त्विति ॥ *अन्त्र* -दण्डित्वमित्यादौ ॥ स्वसमवेतः *-त्वादिप्रकृत्यर्थसमवेतः ॥ नीलत्वमित्यादौ नीलादिगुणवन्न सम्भवति यतोऽतः सम्बन्धस्यैव भावप्रत्ययवाच्यत्वमाश्रितमित्यर्थः । दण्डादेः प्रकृत्यर्थाशे प्रकारत्वेऽपि प्रकृत्यर्थाऽसमवेतत्वेनाभावत्वादिति भावः ॥ *सम्बन्धिवाचकत्वेनेति ॥ " तदस्यास्त्यस्मिन् ” ( पा०सू० ५।२।४० ) इति मतुपः सम्बन्धे विधानेऽपि “दण्डी पुरुष" इति सामानाधिकरण्यानुरोधात् सम्बन्धिवाचकत्वस्यावश्यकत्वादिति भावः ॥ *गत्यभावाभावादिति ॥ सम्बन्धस्यैव भावत्वसम्भवादिति भावः । *आदावेवेति । एवं वैश्वदेवीत्यादिसामानाधिकरण्यस्योक्तरीत्यैवो Page #376 -------------------------------------------------------------------------- ________________ . भावप्रत्ययार्थनिर्णयः । ३४७ - ननु तवापीदं वैषम्यं कथमित्यत आह-*सिद्धान्ते विति ॥ जायन्त इति वक्ष्यमाणविशेषणेऽन्वितम् । सिद्धान्ते प्रकृतिजन्यबोधे प्रकारे त्वादयो जायन्त इत्यर्थः। प्रकृतिजन्यबोधे प्रकार इत्यत्र पक्षद्वयं स्थितमिति योजना ॥ ५०॥ तौ पक्षावाह प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थे प्रकारताम् । धर्ममात्रं वाच्यमिति यद्वा शब्दपरा अमी॥५१॥ जायन्ते तज्जन्यबोधप्रकारे भावसंज्ञिते । प्रयोगे उपाधि-निमित्तं, प्रकृत्यर्थे प्रकारतांप्रकारतया भासमानं धम्म वाच्यतया माश्रित्य त्वादयो जायन्ते । प्रकृतिजन्यबोधे प्रकारस्त्वाद्यर्थे इति यावत् । ननु घटत्वमित्यत्र प्रकारत्वात् तदुत्तरभावप्रत्ययेन घटत्वत्व दर्पणः पपत्तेरित्यन्तग्रन्थेन भूषण इत्यर्थः । *तवापीति । वैयाकरणस्याऽपीत्यर्थः ॥ इदम्। क्वचिज्जात्यादिवाचकत्वं, क्वचित् सम्बन्धवाचकत्वमित्येवं रूपं वैषम्यमित्यर्थः ॥१०॥ . *प्रयोग इति* ॥ शब्दप्रवृत्तावित्यर्थः ॥ *निमित्तमिति* ॥ यद्धर्मवत्वेन ज्ञातेऽर्थे यश्शब्दः प्रयुज्यते स धर्मस्तच्छब्दप्रवृत्ती निमित्तमित्यर्थः॥ सः-दामोदरत्वमित्यादौ जातिः, शुक्लत्वमित्यादौ गुण एवेति । ननु प्रकृतिजन्यबोधप्रकारकत्वेनैवोपाधेः संग्रह तस्य पृथगुपादानं व्यर्थमत आह-प्रकृतिजन्येति ॥ स च प्रकृत्यर्थवृत्तिरसाधारणो धर्मस्तस्मिन्नसाधारण्यञ्च-तदितरावृत्तित्वे सति सकलतवृत्तित्वम् ; सत्यन्तोपादाने द्रव्यत्वादेर्घटासाधारण्य, विशेष्योपादानाच्च तद्वयक्तित्वादिनिरासः । तेन रूपेण धर्मो भावप्रत्ययवाच्यः । तत्र तत्पदार्थस्य घटादेस्त्वादिप्रकृत्यैव लाभादनन्यलभ्य इतरावृत्तित्वादौ भावप्रत्ययस्य शक्तिः। तत्रापीतरवृत्तित्वमभावः साकल्यं वृत्तिमच्च विशकलितमर्थः । इतरवृत्तित्वप्रतियोगिकाभावस्यातिप्रसक्तत्वादितरवृत्तित्वत्वाऽवच्छिन्नप्रतियोगिताकाभावस्याप्रसिद्धत्वाद् घटत्वादौ बाधाच्च विशिष्टस्य शक्यत्वासम्भवात् । अत्र च प्रकृतिजन्यबोधे येन सम्बन्धेन प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन सम्बन्धेनेतरावृत्तित्वं वृत्तिमत्वं च बोध्यम् । नाऽतः कालादौ कालिकादिसम्बन्धेन घटत्वस्य वृत्तावपि क्षतिः । न वा घटत्वमित्यादौ कम्बुग्रीवादिमत्वस्य भानम् । प्रमेयत्वमित्यादौ त्वितरावृत्तित्वांशो न भासते, अप्रसिद्धत्वात् । किन्तु सकलं प्रमेयवृत्तित्वमात्रम् । न च विशिष्टस्याऽनतिरिक्तत्वमते गुणाऽन्यत्वविशिष्टसत्वमित्यादौ विशिष्टसत्वे विशिष्टसदितरावृत्तित्वस्य महत्वमित्यादौ सकलमहवृत्तित्वस्य महत्परिमाणादावसम्भव इति वाच्यम् । तदितरत्वव्यापकात्यन्ताभावप्रतियोगितावच्छेदकतवृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वे दलद्वयतात्पर्य्यात् । तत्राद्यदलं घटत्वमित्यादौ द्रव्यत्वादेरसाधारण्यवारणायेति भावः । *प्रकारत्वादिति । घटत्वासाधार Page #377 -------------------------------------------------------------------------- ________________ ३४८ दर्पणपरीक्षासहिते भूषणसारेस्यापि वाच्यता स्यादित्यढेष्टापत्तिमाह-*धर्ममात्रमिति* ॥ न त्वत्र लघुगुरुविचार इत्यभिप्रायः॥ तत्तव्यक्तिविशिष्टब्रह्मसत्ताया एव घटत्वघटत्वत्वादिरूपत्वात् । सम्बन्धिभेदात् सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः॥ इति वाक्यपदीयात् । उक्तञ्च 'तस्य भावस्त्वतलौ” (पासू०५। २१११६) इति सूत्रे वार्तिककार:-'यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ' इति । यस्य गुणस्य-विशेषणतया भासमानस्य, भावाद् = आश्रयत्वाद्, द्रव्ये विशेष्ये, शब्दनिवेशः शब्दप्रवृत्तिः, तस्मिन् वाच्ये त्वतलावित्यर्थः । तथाच रूपादिशब्देभ्यो जातौ, शुक्लाणुदीर्घमहदादिभ्यो गुणे, दर्पणः गधर्मत्वादित्यर्थः । *लघुगुर्विति । ___ अयम्भावः-धर्मस्यासाधारणधर्मत्वेन वाच्यत्वेऽप्येकत्वमित्यादौ परिमाणादे र्भानापत्तिः । उक्तासाधारण्यस्य परिमाणे सत्वात् । नच प्रकृत्यर्थतावच्छेदकनिरूपितत्वविशिष्टसमवायसम्बन्धेन तदितरावृत्तित्वं तद्वृत्तित्वं च विवक्षितम् । न च तेन सम्बन्धेन परिमाणं तत्र वृत्तीति नोक्तदोष इति वाच्यम् । तथा सत्यनन्तशक्तिकल्पनावश्यकत्वे तत्तद्धर्मत्वेनैव धर्मे शक्तिरस्तु, किमितरावृतित्वादिगौरवसहिष्णुवया। अत एव पृथक्त्वमित्यादौ प्रकृत्यर्थतावच्छेदकगुणान् भावप्रत्ययः प्रतिपादयति । प्रतीतिस्तु तादूप्येण धर्मत्वेन वेत्यन्यदिति गुणदीधितायुक्तं सङ्गच्छत इति । एतेन भावशक्तत्वादिप्रत्ययेन कम्बुग्रीवादिमत्वमित्यादौ गुरोरपि धर्मस्य कम्बुग्रीवादिमत्व. स्य बोधनेन तद्वदूघटत्वत्वमित्यादावपि गुरोर्धर्मस्य त्वप्रत्ययेन बोधनसम्भवादाशा निःसारेत्यपास्तम् । धर्मस्य भावप्रत्ययवाच्यत्वे सम्मतिमाह-*सम्बन्धिभेदादिति। जातिः पदार्थ इति कल्पे साधकमिदम् । *सम्बन्धिभेदादू*-अनुयोगिभेदाद्, *भिद्यमाना* = गवेतरासमवेतत्वे सति सकलगोसमवेतत्वादिना तव्यक्त्युपरागेण वा पार्थक्येन प्रतीयमाना गवादिनिष्ठा ब्रह्मसत्तैव जातिरित्युच्यते तस्यां सर्वे शब्दा वाचकत्वेन व्यवस्थिता इत्यर्थः । तदेव व्यक्तीकरोति-*तामिति । ताम्-तत्तव्यक्त्युपरक्तां सत्तामित्यर्थः ॥ *धात्वर्थमिति । आकृत्यधिकरणन्यायेन "जातिमन्ये क्रियामाहुः, इति पक्षाभिप्रायेण वा। महानित्यात्मविशेषणम् । क्वचिज्जात्यादिः, क्वचित् सम्बन्ध इत्युक्ताऽर्थे वार्तिकं प्रमाणयति-*उक्तञ्चेति । गुणशब्दस्य वैशेषिकाणां रूपादि. ष्वेव : प्रसिद्धः प्रकृतोपयुक्तार्थपरतामाह-*विशेषणतयेति । तथाच प्रकृते गुणपदमुपसर्जनीभूतार्थपरमिति भावः। पर्य्यवसितमाह-*तथाचेति । रूपादी. Page #378 -------------------------------------------------------------------------- ________________ भावप्रत्ययार्थनिर्णयः। ३४९ पाचकादिशब्देभ्यः क्रियायां, घटादिशब्दभ्यो जातौ प्रत्ययः। रूपादिशब्दानां जातिप्रकारकबोधजनकत्वात् । पाचकादिशब्दानां क्रियाप्रकारकबोधजनकत्वे तस्यां प्रत्ययः, संसर्गप्रकारकबोधजनकत्वमिति मते च संसर्गे इति व्यवस्था सूपपादेति भावः। तत्र जातिवाचकानां व्यक्तय एव शक्यतावच्छेदिकाः। तथाच घटत्वमित्यत्र घटवृत्तिरसाधारणोधर्म इति बोध इत्यादि द्रष्टव्यम् । पक्षान्तरमाह-*यद्वेति ॥ यद्वा "सर्वे भावाः स्वेनार्थेन भवन्ति, स तेषां भावः” इति वार्तिकोक्तः-यद्वाशब्दस्तत्सूचनप्रयोजनकोऽपि । भवन्ति वाचकत्वेन प्रवर्त्तन्त इति भावाः=शब्दाः । स्वेन-स्वरूपेण= अर्थेन । भवन्ति-प्रवर्तन्ते; अतः स तेषां भावः प्रवृत्तिनिमित्तमित्यर्थः। ___ अयम्भावः-अर्थवच्छब्दोऽपि द्रव्ये प्रकारः । हरिहरनलेक्ष्वाकुयु - दर्पणः त्यादिना रसादेर्गुणपरशुक्लादेश्च सङ्ग्रहः । *बोधजनकत्व इति । बोधजनकत्वमत इत्यर्थः । व्यपेक्षावादे क्रियाकारकभावसम्बन्धेन कृदर्थकादौ धात्वर्थस्यैव प्रकारतया भानोपगमादिति भावः । स्वसिद्धान्तमनुसृत्याह-संसर्गप्रकारकेति । *सूपपादेति । भावप्रत्ययो जातावेवेत्याद्यनियमादिति भावः । तत्रेति । जात्या. दिवाचकभावप्रत्ययेषुमध्ये इत्यर्थः। *जातिवाचकानामिति । अर्थनिष्ठशक्तरितिशेषः। गुणाद्यात्मकभाववचनानां शुक्लत्वादिशब्दानां जातेः शक्यताऽवच्छेदकत्वसम्भवादाह-*जातिवाचकानामिति । भावप्रत्ययानामिति शेषः। *अवच्छेदिका इति उपस्थितत्वाद् घटत्वादिजातिनिष्ठशक्तः स्वेतरावृत्तित्वावच्छिन्ननिखिलस्ववृत्तिरूपा. धेयत्वादिसम्बन्धेनाऽवच्छेदिका इत्यर्थः । तेन न द्रव्यत्वादिनिष्ठशक्तेर्घटावच्छिन्न. त्वम् । अवच्छेदकानुगमकं च गोत्वादिकमेवेति भावः । पर्य्यवसितबोधमाह- घटवृत्तिरिति । *पक्षान्तरमिति* । 'तच्छब्द एव भावप्रत्ययवाच्य' इति मतान्तरमि. त्यर्थः । “अथ कस्माद्दौरित्युच्यते ? गौरित्येव हि गोर्गवि वर्तते" इत्यौक्थिका इति निरुक्तमप्येतत्कल्पे उपष्टम्भकम्बोध्यम् । तत्सूचनप्रयोजनकोऽपीति* । यद्वा शब्दघटितोक्तवार्तिकसूचनप्रयोजनकोऽपीत्यर्थः । अपिना पक्षान्तरसङ्ग्रहः । वार्तिके"स्वेनाऽर्थेन भवन्ति" इत्यत्र स्वशब्दस्यात्मीयवचनतयात्मीयाऽर्थेन जात्यादिना प्रवर्तन्ते इत्यर्थात् कथं पक्षान्तरपरता कथं वार्थावृत्तेर्धर्मस्य शब्दस्य भावत्वं चेत्यत आशयं प्रकाशयति-*अयम्भाव इति। जात्याद्यर्थस्य द्रव्यांशे विशेषणतायाः प्रसिद्धत्वात्तदृष्टान्तेन शब्दस्यापि तां साधयति-*अर्थवदिति* । जात्यादिवदित्यर्थः । शब्दस्यार्थविशेषणतायामसाधारण. स्थलमाह-*हरिहरेति । कश्चिदासीदित्यनेन जात्यादिप्रकारकबोधासम्भवो ध्व परीक्षा ............(१)ततः स्वरूपतो न सत्वादिप्रकारकः शाब्दबोध इतिरीत्या तस्योप. (१) अत्र पूर्वतः पाठः खण्डितोऽस्ति । Page #379 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेधिष्ठिरवसिष्ठादिशब्देभ्यस्तत्तद्वाच्यः कश्चिदासीदिति शब्दप्रकारकबोधस्य सर्वसिद्धत्वात्। अन्यथा वनौषधिवर्गादेर्नागरिकान् प्रत्य. बोधकत्वापत्तश्च । एवमेवाप्रसिद्धार्थकपदेष्वनुभवः सर्वसिद्धो, न तु घटादिपदेविव ततजात्यादिरूपेण । तथाचोभयमवच्छेदकम् । यस्य तथा शक्तिग्रहस्तस्य जात्यादिरूपेणैवोपस्थितिः। पदप्रकारकः शक्तिग्रहस्तु विशिष्य नापेक्षितः। किन्तु इदं पदं क्वचिच्छक्तं, साधुपदत्वादित्यादिरूप एवापेक्ष्यते इति विशिष्यागृही दर्पणः न्यते । हर्य्यादौ सन्निकर्षाभावेनानुपस्थितहरित्वाद्यवच्छेदेन शक्तिग्रहाभावेन तद्धर्मप्रकारकशाब्दबोधासम्भवादुपस्थितपदस्यैव विशेषणत्वमभ्युपगम्यशाब्दबोध उपपादनीयः । यथाच वृत्त्याद्युपस्थितिस्तथोपपादित नामार्थनिरूपण इति भावः ॥ ___ *अन्यथेति । अर्थोशे शब्दस्य प्रकारत्वानभ्युपगम इत्यर्थः । आरण्यकानां सन्निकर्षेण जातिधर्मितावच्छेदकशक्तिग्रहसम्भवादुक्तम्-*नागरिकानिति । एव. मेवेति । पदप्रकारेणैवेत्यर्थः । *अप्रसिद्धति । अगृहीतजात्यादिविशिष्टशक्तिकपदेष्वित्यर्थः। *जात्यादिभेदेनेति । तद्विशेषेणेत्यर्थः । क्वचितु जात्यादिरूपेणैवेत्येव पाठः । *उभयमिति। जात्यादिरूपं पदं चेत्यर्थः ॥ *अवच्छेदकमिति । शक्त्य. वच्छेदकमित्यर्थः। ___ ननु जात्याद्यनुपस्थितिदशायामयमर्थ एतत्पदवानिति शक्तिग्रहोऽप्यसम्भवदुक्तिकोऽत आह-*पदप्रकारक इति* ॥ विशिष्येति । घटपदत्वादिरूपेणेत्यर्थः । यद्यपि 'सर्वे भावाः' इति सर्वशब्दोपादानादेतत्कल्पे शब्दस्यैव सर्वशब्दप्रवृत्तिनिमित्तत्वमवगम्यते, तथापि घटत्वादिना गृहीतशक्तिकघटादिपदाद् घटत्वप्रकारकबोधस्य सार्वजनीनप्रसिद्धि सिद्धस्यापह्रोतुमशक्यतया प्रायशः प्रसिद्धार्थकस्थले शब्दाप्रकारकबोध. स्याननुभवेन चैतत्कल्पेऽपि जात्यादीनां शब्दप्रवृत्तिनिमित्तत्वमङ्गीकरणीयमेव ।। वात्तिकं तु भावशब्दस्याप्रसिद्धार्थकशब्दपरतया योज्यम् । तत्र निमित्तान्तराभावेन वातिकबलाच्छब्दस्यैव शब्दप्रवृत्तिनिमित्तत्वावधारणात् । यथा कादिपञ्चकशक्त-कुपदे । अत एव "अनुदात्तड्डित” (पा०सू० १।३।१२ ) इति सूत्रेऽनुदात्तङिता द्वावात्मनेपदमित्यस्य "तडानौ द्वावर्थ" इति तत्र “सङ्ख्यातानुदेशः प्राप्नोति" इति यथासङ्ख्यसूत्रे भाष्यकृदुक्तं सङ्गच्छते । अन्यथा नवानां तङर्थत्वेनात्मनेपदवत्त्वेन बोधे सर्वेषामेकत्वेन तत्र च द्वावित्यास्यानुपपत्तिः स्पष्टैव । अत एव सारकृताऽप्युभयमवच्छेदकमित्युपसंहृतम् । क्वचिच्छब्दोऽपीति तदाशय इति । ___ कथं तर्हि तत्र शक्तिग्रहोऽत आह-*किन्त्विति । *क्वचिच्छक्तमिति ॥ किञ्चिनिष्टशक्तिनिरूपकमित्यर्थः । तथाच नृपादिवर्णनप्रस्तावे नृपत्वादिनोपस्थितनलादीनां परीक्षा पत्तिः कार्या। अपि च तदंशेऽप्युद्धोधककल्पनमेव नहि , यद्यत्पदार्थविषयकसंस्कार एकस्तस्मात्सर्वपदार्थविषयिकैव स्मृतिर्जायत इति नियमः। कुण्डवदन बिम्बानीत्यनुभवजन्यसंस्कारस्यैकस्य सदावेऽपि तत्र तत्सदृशान्यपदार्थमात्रस्य Page #380 -------------------------------------------------------------------------- ________________ __ भावप्रत्ययार्थनिर्णयः। ३५१ तशक्तिकेभ्यस्तथैव बोधः। तथाच शब्दोऽपि त्वप्रत्ययार्थ इति प्रपश्चितं भूषणे ॥५१॥ __इति वैयाकरणभूषणसारे त्वादिभावप्रत्ययार्थविचारः॥॥ दर्पणः शक्त्यंशे भाने उपस्थितत्वानलादिपदानामपि तदर्थे भानमविरुद्धम् । इदमेतच्छक्य. मित्याकारकार्थशक्तिग्रह एव विशेषरूपेणोपस्थितेस्तन्त्रत्वादिति भावः । तथैव बोध इति* ॥ पदवाच्यत्वप्रकारक एवेत्यर्थः । एवकारेण जात्यादिप्रकारकबोधव्यवच्छेदः । इदञ्च कश्चिदर्थो नलादिपदशक्योऽर्थत्वादित्यानुमानिकशक्तिग्रहाभिप्रायेण । उक्तोपनीतपदशक्तिग्रहे त्वर्थविशेष्यकबोधानुपपत्तिरेव । शक्तिज्ञानपदार्थोपस्थिति. शाब्दबोधानां समानप्रकारकत्वनियमादित्यवधेयम् । __नैयायिकास्तु-नलादिपदानामपि विशिष्यशक्तिग्रहो नानुपपन्नः । यत्र नलत्वा. दिसम्बन्धेन यत्किञ्चिद्धर्मवत्वधीस्तद्विषयीभूतनलत्वादेः शक्तिग्रहे धर्मितावच्छेदकतया भाने बाधकाभावात् । यद्वा यत्र प्रमेयत्वेन प्रमेयवानित्याकारा नलत्वादिविशिष्टबुद्धिः, ततश्च प्रमेयत्वांशे मोषदशायां स्वरूपतो नलत्वादिप्रकारकनलविशेष्यकस्मरणे बोधकाऽभावात्तद्विषयनलत्वादिना विशिष्य नलादौ नलादिपदशक्तिग्रहेण तत्तद्रूपेण नलादि. पदान्नलादिबोधस्य सुलभत्वात् । ___ न च प्रमेयत्वांशे मोषकल्पने मानाभावः। अनूभूयमानतत्तद्धर्मप्रकारकशाब्दवो धानुपपत्तेरेव मानत्वात् । कथमन्यथानुभवात्मकसमूहालम्बनादेकपदार्थोद्बोधकाऽस. मवधानेऽन्यपदार्थस्मृतिः । अक्लप्तस्यार्थोऽशे पदविशेषणत्वस्य कल्पनापेक्षया ताश. स्मृतौ प्रमेयत्वांशे मोषकल्पनस्यैव न्याय्यत्वात् । पदस्यार्थधर्मत्वाभावेन तस्य पदांशे विशेषणत्वासम्भवाच्च । तस्य पदस्य तस्मिन् पदे शक्तिरित्यर्थस्य लौकिकत्वेन पदप्रकारकबोधस्य सार्वत्रिकत्वासम्भवाच्चेत्याहुः ॥ ११ ॥ __ इति भूषणसारदर्पणे भावप्रत्ययार्थनिरूपणम् ॥९॥ - परीक्षा दर्शनरूपोद्बोधकदर्शनेन सादृश्यात्कुण्डमात्रस्य स्मृतिर्जन्यत इत्यस्य लोकप्रसि. दत्त्वात। नचैवं सति 'जातिमान् घटपदशक्यः' इति ग्रहानन्तरं स्वरूपतो घटत्वस्य स्मृतिरपि स्यादिति वाच्यम् । उद्बोधकस्य फलबलकल्प्यतया तादृशस्थले मोक्षस्याकल्पनादिति। वस्तुतस्तु-भाष्ये “यस्य गुणस्य भावाद्रव्ये शब्दनिवेशस्तदभिधाने त्वतलो, इति प्रथमत उक्तम् । तत्र गुणशब्दश्चानाश्रयस्य भेदकधर्मस्य बोधकः । तथा च सौत्रात् भावपदम्प्रवृत्तिनिमित्तपरम् । घटत्वमित्यादौ प्रवृत्तिनिमित्तत्वावच्छिन स्त्वाद्यर्थः । षष्टयर्थः-आधेयता। बोधस्तु समभिव्याहाराद्विशेष्यैव । यद्वा-सर्वस्मिन् पक्षे-प्रवृतिः शब्दपरा, प्रवृत्तिनिमित्तं त्वाद्यर्थः । घटस्य भाव इत्यादौ षष्ठयों वाच्यत्वम् । एवञ्चोभयपक्षेऽपि तत्तच्छब्दप्रवृत्तिनिमित्तस्यैव भावप्रत्ययार्थत्वमिति दिक्॥५१॥ इति श्रीभूषणसारटीकायां परीक्षायाम्भावप्रत्ययार्थनिरूपणम ॥en - Page #381 -------------------------------------------------------------------------- ________________ ॥ अथ देवताप्रत्ययार्थनिर्णयः॥ "सास्य देवता" (पा० सू० ४।२।२४) इत्यत्र देवताविशिष्टं देयं प्रत्ययार्थः। ऐन्द्री वैश्वदेवीत्यादाविन्द्रादेवतात्वोपस्थापकान्तराभावात् । तेन रूपेणोपस्थितये शक्तिकल्पनावश्यकत्वात्। अत एव श्रामिक्षां देवतायुक्तां वदत्येवैष तद्धितः । अमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम् ॥ इति । । दर्पणः . . अथ देवताप्रत्ययार्थनिर्णयः। ननु देवताया इन्द्रादिपदाल्लाभेन तदन्तर्भावेण तद्धितशक्तिकल्पनमनर्थकमत आह-*देवतात्वोपस्थापकेति ॥ इन्द्रत्वेन रूपेण देवतोपस्थितावपि देवतात्वेन रूपेण तदुपस्थापकाभावादित्यर्थः । *तेन रूपेणेति ॥ देवतात्वेन रूपेणेन्द्रोपस्थितये इत्यर्थः । अन्यथा तद्धितेन चतुझं वा मन्त्रलिङ्गन वा पुनः । देवतासङ्गतिस्तत्र दुर्बलं च परं परम् ॥ इति पीमांसकसिद्धान्तासङ्गतिरिति भावः । द्रव्यस्य देवतासम्बन्धित्वं च तदुद्. देश्यकत्यागकर्मत्वं त्यागोदेश्यत्वमपि वेदबोधिताबाधितद्रव्यस्वामित्वप्रकारेणेच्छा. विषयत्वम् । तदेव च देवतात्वम् । नातो घृतादिसम्प्रदानब्राह्मणस्य त्यागोदेश्यत्वेऽपि देवतात्वम् । तस्य तत्स्वामित्वाबोधात् 'ऐन्द्रो मन्त्र' इत्यादौ मन्त्रस्य तद्देवताकत्वं च न तदुद्देश्यकत्यागकरणत्वम् । विनापि मन्त्रमिच्छाविशेषात्मकत्या. गोत्पत्त्याऽव्यभिचारात् । किन्तु त्यागाङ्गोच्चारणकत्वम् । एवञ्च देवतासम्बन्धी प्रत्ययार्थः। ___ नतु तदेवताकत्वम् , ऐन्द्रं हविः' इति सामानाधिकरण्यानुपपत्तेः । स चामिक्षा. दिपदसमभिव्याहारे तत्तद्रव्येण प्रतीयते । देयं प्रत्ययार्थः' इति तु तस्यामिक्षादिपदसमभिव्याहारे दानकर्मत्वेनापि प्रतीतेरित्यभिप्रेत्योक्तमिति भावः । उक्तार्थे सम्म. तिमाह-*अत एवेति ॥ देवतासम्बन्धिनः प्रत्ययार्थत्वादेवेत्यर्थः ॥ *सान्निध्या. दिति ॥ 'सामिक्षा वैश्वदेवीइत्यत्रामिक्षापदसमभिव्याहारादित्यर्थः ॥ *विषयार्प. परीक्षा अथ देवतादिप्रत्ययार्थनिर्णः। ' तद्धितप्रसङ्गादाह-*सास्येति । *देवताविशिष्टन्देयमिति । तदुद्देश्यकत्यागकर्मत्वसम्बन्धेन देवताविशिष्टं दानकर्म "सास्यदेवता"इति सूत्रविहितप्रत्ययार्थ इत्यर्थः । *अत एव*-देवताविशिष्टदेयस्य प्रत्ययार्थत्वादेव । तद्धित इति । अस्य मीमांसकैरुक्तमित्यत्रान्वयः। . ननु "सास्याइतिसूत्रे आमिक्षापदाभावादामिक्षामित्यनुपपन्नमत आह-*आमिक्षापदेति । *सान्निध्यादिति । तस्य "तप्ते पयसि दध्यानयति, सा वैश्वदेव्याभिक्षा वाजिभ्यो वाजिनम्"इति वाक्ये सान्निध्यापादानादित्यर्थः । *तस्यैव विषयापर्ण Page #382 -------------------------------------------------------------------------- ________________ ३५३ देवतादिप्रत्ययार्थनिर्णयः। केवलाद्देवतावाची तद्धितोऽग्ने समुच्चरन् । नान्ययुक्तोऽग्निदेवत्यं प्रतिपादयितुं तमः ॥ इति च मीमांसकैरप्युक्तमित्याशयेनाह प्रत्ययार्थस्यैकदेशे प्रकृत्यों विशेषणम् ॥५२॥ अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः॥ देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ॥५३॥ एकदेशे देवतारूपे । तच्च विशेषणमभेदेनेत्याह-*अभेदश्चेति ॥ ननु देवतायाः प्रत्ययार्थैकदेशत्वान्न प्रकृत्यर्थस्य तत्राभेदेनाप्यन्वय इत्याशयेनाह-*देवतायामिति* ॥ तथाच पदार्थैकदेशव नास्तीति भावः॥ ५३॥ नन्वग्न्यादिदेवस्य प्रकृत्यैव लाभान्न तत्र शक्तिः कल्प्या । दर्पणः णमिति ॥ आमिक्षात्मकद्रव्यस्यैव देवतोद्देश्यकत्यागकर्मत्वप्रतीतिरित्यर्थः । ___ *केवलादिति ॥ सोमादिपदासमभिव्याहृतात् ॥ *अग्नेः समुच्चरन् । प्रत्ययत्वादग्निशब्दात् पुरः प्रादुर्भवन् । “आग्नेयोऽष्टाकपालो भवत्यमावस्यायाम्" इत्या. दौ ॥ *नान्येति ॥ सोमादिसाहित्यापन्नाग्निदेवतोद्देश्यक द्रव्यं प्रतिपादयितुं नेष्टे, किन्तु तद्देवताकमेवेति तद्भावः। तथाच देवताविशिष्टदेयस्य तद्धितार्थत्वं तेषामपि सम्मतमिति भावः॥ ___ *प्रकृत्यर्थेति ॥ पदार्थः पदार्थनाऽन्वेति' इति व्युत्पत्तेरिति भावः ॥ अस्मिन् कल्पे च प्रकृत्यर्थस्याभेदसम्बन्धेन देवतास्पतद्धितार्थेऽन्वयः । तस्य च स्वोद्देश्यकत्यागकर्मत्वसम्बन्धेन द्रव्यरूपतद्धिताऽपरपदाथै इति बोध्यम् ॥ ५३॥ . परीक्षा मिति । गमकत्वादर्पणपदेन विषयपदस्य समासापेक्षत्वेऽपि स द्रष्टव्यः । ननु यन्त्रक एव देवतावाच्याग्निशब्दः श्रूयते तत्राग्निदेवताविशिष्टं देयवदग्नीषोमीयस्यापि प्रतीतिः कुतो नेति शङ्कानुत्पत्तये आह-*केवलादिति । अस्याग्नेरित्यत्रान्वयः । अग्नेः-अग्निपदात्-*आग्नेयादौ । “आग्नेयोऽष्टाकपाल" इत्यादौ। तथा च यन्त्र सोमादिपदासमभिव्याहृताग्निपदस्य प्रकृतित्वम् । तथा "आग्नेयोऽष्टाकपालोमावास्याम्”इत्यादौ देवतान्तरोपस्थापकपदाभावादग्निमात्रदेवताकमेव द्रव्यम्प्रतिपादयति-*तद्धित इति। 'सिद्धन्त्वेकदेशत्वात् इति “पदार्थः पदार्थेनान्वेति, नतु पदार्थैकदेशेन इति व्युत्पत्तिविरोधादित्यादिवैशिष्टयनियामकपूर्वोक्तसम्बन्धे त्यागोद्देश्यत्वं वेदबोधितद्रव्यस्वामित्वप्रकारकेच्छाविषयत्वरूपम् । एतदेव च देवतात्वम्। तेन ब्राह्मणादेावृत्तिः । “आग्नेयो मन्त्रः" इत्यादौ वैशिष्ट्यनियामकसम्बन्धस्तु त्यागाङ्गधारणकर्मत्वमेव । एवञ्च देयमित्युपलक्षणमिति बोधयम् ॥ १३॥ . • नन्विन्द्रादिपदाद्देवताया लाभात्तदन्तर्भावेण तद्धितस्य शक्तिकल्पनवैयर्थ्यमिति ४५ द० ५० Page #383 -------------------------------------------------------------------------- ________________ ३५४ दर्पणपरीक्षासहिते भूषणसारेन च देवतात्वेन रूपेणोपस्थितये सा कल्प्यते । प्रकृतेर्लक्षणयैव तथोपस्थितिसम्भवात् । उपसर्गाणां द्योतकत्वनये प्रजयतीत्यत्र प्रकृष्टजयप्रत्ययवदित्यभिप्रेत्याह प्रदेय एव वा शक्तिः प्रकृतस्त्वस्तु लक्षणा ॥ देवतायां निरूढेति सर्वे पक्षा अमीस्थिताः॥५४॥ न च 'ऐन्द्रं दधि' इत्यादौ द्रव्यस्य पदान्तराल्लाभात् कुतः पुनः प्रत्ययस्य तत्र शक्तिः कल्प्यत इति वाच्यम् । पदान्तराश्रवणेऽपि तत्प्रतीतेः। ऐन्द्रं दधीति सामानाधिकरण्याच्च । अन्यथाऽऽख्यातस्यापि कर्तृकर्मवाचित्वं न स्यात् । मीमांसकानां पुनः प्रत्ययस्य देवतात्वमेवार्थोऽस्तु। द्रव्यं पदान्तराल्लभ्यत एवेति दर्पणः *द्योतकत्वनय इति । वाचकत्वनये प्रकर्षस्योपसर्गाऽर्थत्वेन तद्विशिष्टे धातोर्लक्ष. णाया अकल्पनेन दृष्टान्तत्वासम्भवादितिभावः ॥ *प्रकृष्टजयवदिति । प्रकृत्यंशमात्र. मादाय दृष्टान्तत्वं बोध्यम् ॥ *लाभादिति । समभिव्याहृतदध्यादिपदेन देवतारूपस. म्बन्धिलाभादित्यर्थः ॥ कुतः पुनरिति । "अनन्यलभ्यो हि शब्दार्थ” इति न्यायात् । किन्तु सम्बन्धार्थकत्वमेवोचितमिति भावः ॥ *तत्प्रतीतेरिति । देवतासम्बन्धिप्रतीतेरित्यर्थः । तथाच तदनुपपत्त्या तद्धितस्य तदर्थकत्वमावश्यकमिति भावः । __पदान्तराश्रषणे सम्बन्धिप्रतीतेश्च शपथनिर्णेयत्वादाह-*ऐन्द्रं दधीति । सम्बन्धमानार्थकत्वे सामानाधिकरण्यानपपत्तिरित्यर्थः॥ *अन्यथेति*। उक्तानपपत्तेस्तदसाधकत्वे इत्यर्थः । 'पचति देवदत्तः' 'पच्यते तण्डुल' इत्यत्र सामानाधिकरण्यानुपपत्तिर्हि कादिवाचित्वसाधिकेति भावः ।। वैयाकरणान् प्रतीयमापत्तिः । मीमांसकान् कटाक्षीकृत्याह-*मीमांसकानामिति । तन्मते तत्तदेवताकत्वरूपप्रत्ययार्थेन धर्मिण परीक्षा शङ्कते-*नचेति*। *देवतात्वेन रूपेणेति । इन्द्रत्वेन रूपेणेन्द्रशब्दाल्लाभेऽपीत्यादिः। प्रकृतेः इन्द्रादिशब्दस्य लक्षणयैव इन्द्रभिन्नदेवतात्वावच्छिन्ने लक्षणेष्टैव । *प्रकृष्टजयवदिति* दृष्टान्तोपादानं प्रकृत्यंशे लक्षणाभिप्रायेण । फललक्षणेत्याकाङ्क्षायामाह*देवतायामिति । *द्रव्यस्य*-देवतादिद्रव्यस्य । एवञ्च प्रत्ययस्य सम्बन्धार्थकत्वमेवोचितमिति भावः। *तत्प्रतीते:*-देवतासम्बन्धिदेयप्रतीतेः। सम्बन्धमात्रस्य प्रत्ययवाच्यत्वे सामानाधिकरण्यमप्यनुपपन्नमित्याह-*ऐन्द्रमिति । *अन्यथाउक्तानुपपत्तेरसार्वत्रिकत्वे । *न स्यादिति । वैयाकरणमत इति शेषः । एवञ्च-पचति चैत्रः' इति शब्दजन्यसामानाधिकरण्यावगाह्यनुभवविरोधः। ननु मास्तु सामानाधिकरण्यमिति चेद् ? न । समानवचनकत्वानुपपत्तेः । मीमांसकमतन्त्वयुक्तमित्याशयेनाह*मीमांसकानामिति । तन्मते घटत्वादिजातेघटादिशब्दवाच्यत्वेऽपि यथा, तथा व्य Page #384 -------------------------------------------------------------------------- ________________ देवतादिप्रत्ययार्थनिर्णयः। ३५५ आख्यातस्य कर्तृवद्वाच्यत्त्वं मास्त्विति कुतोन शक्यते वक्तुमिति दिक् । दर्पणः आक्षेपालाभेन सामानाधिकरण्योपपत्तेरिति भावः । पदान्तरादित्याक्षेपस्याऽप्युपलक्षणम् ॥ *वाच्यत्वं मास्त्विति । आंख्यातस्य कर्तेव तद्धितस्य द्रव्यं वाच्यं मास्त्वित्यर्थः । इष्टापत्तौ "आमिक्षां देवतायुक्ताम्" इति त्वत्सिद्धान्तभङ्ग इति भावः। ननु तेषां कर्तुरनन्यलभ्यत्वान्न प्रत्ययाऽवाच्यत्वं, किन्तु प्राधान्यापत्तेरेव तत्त्वमत आह-दिगिति । तदर्थदस्तु "प्रकृतिप्रत्ययार्थयोः” इति न्यायस्य सङ्ख्यादौ व्यभिचारेण तेन प्राधान्यापत्यभावात् । “भावप्रधानमाख्यातम्" इति निरुक्तात्तस्याख्यातार्थाऽतिरिक्तप्रत्ययाऽर्थविषयकत्वोपगमाच्चेति । अत्रेदम्बोध्यम्-तद्धितस्य देवतात्वाघटितार्थकत्वे, “तद्धितेन चतुर्थ्या वा” इति न्यायस्य सर्वसिद्धस्यानुपपत्तिः । नच तद्धितस्य तदर्थकत्वेऽपि कथं तदपेक्षया चतुर्थ्या जघन्यत्वं त्यागोद्देश्यकत्वरूपदेवताबोधकत्वस्योभयत्राविशिष्टत्त्वादिति वाच्यम् । न हि देवतासम्बन्धिदेयमानं तद्धितार्थः, किन्तु वेदबोध्यदेवतात्वघटितः । एवञ्च तद्धिता. न्तेन बोधस्य देवतात्वांऽशे वेदबोध्यत्वाऽवगाहित्वेन तदंशे अप्रामाण्यशङ्काया अनुदयाज्झटिति विनियोजकतया बलवत्वम् , चतुर्थ्या तु तदंशे वेदबोध्यत्वावगाहिबोधस्यैव जननेन तत्राप्रामाण्यशङ्कानिरासार्थमुपायान्तरस्यापेक्षणाजघन्यत्वम् । यद्वा तद्धितेन देवतात्वेन रूपेण देवताबोधे “साऽस्य देवता" (पा० सू० ४।२।२४) इति स्मरणमस्ति । चतुर्थ्यास्तु देवतात्वे न स्मरणम् । “चतुर्थीसम्प्रदान" ( पा०सू० २॥३।१३) इति सम्प्रदान एव तत्स्मरणात् । सम्प्रदानत्वं च त्यज्यमाभद्रव्योद्देश्यकत्वे सति प्रतिगृहीतृत्वम् । एवञ्च ततः सम्प्रदानत्वघटकतया देवतात्वप्रतीतावपि तद्धितादिवन्मुख्यतया देवतात्वानधिगमात् तस्यास्तद्धिताऽपेक्षया जघन्यत्वम् । एवं मन्त्रवर्णादधिष्ठानप्रतीतावपि देवतात्वस्य साक्षादप्रतीतेमन्त्रवर्णस्य चतुर्थ्यपेक्षया जघन्यत्वं बोध्यम् । तद्धितस्य देवतार्थकत्वाऽनभ्युपगमे तु तदसङ्गतिः स्पष्टैवेति । __ परीक्षा क्तेराक्षेपाच्छब्दबोधे भानं भवति, तद्देवतात्वमेव वाच्यं स्यात् । देवताया आक्षेपालामात्सामानाधिकरण्यं भविष्यतीति विरोधाभावः। *वाच्यत्वम्मास्त्विति । आख्यातस्य कत्तेंव तद्धितस्य द्रव्यं वाच्यं मास्त्वित्यर्थः । इष्टापत्तिस्तु भवता कर्तुमशक्या । . ___आमिक्षा देवतायुक्तां वदत्येवैष तद्धितः ॥ इत्येतद्वचनविरोधात्।। ननु कर्तुळ वाच्यत्वं प्राधान्यापत्तिभियोच्यते । नत्वन्यलभ्यत्वं तस्येति बुद्ध्या कल्प्यस्तदिति चेद् ? न । नच कर्तुः प्राधान्यापत्तौ "प्रकृतिप्रत्ययौ इति वचनस्यानुरोधबलवत्वन्तु नास्तिः, तस्य नियमस्य संख्यायां व्यभिचारादतस्तस्यौत्सर्गिकत्वं सर्वेः कल्पनीयमेवेति प्रत्यवार्थे संख्याभिन्नत्वविशेषणस्थले आख्यातातिरिक्तत्वमेव "भावप्रधानमाख्यातम् , सत्वं प्रधानानि नामानिइति वचनादुपादेयमिति कर्तुराख्यातार्थत्वेऽपि प्राधान्यापत्तेर्वारणसम्भवात् । ....... Page #385 -------------------------------------------------------------------------- ________________ ३५६ दर्पणपरीक्षासहिते भूषणसारे*देवतायाम्-देवतात्वेन रूपेण । निरूढेति =अनुपपत्तिज्ञानापूर्वक त्वमनादिप्रयोगावच्छिन्नत्वं वा तत्त्वमिति भावः ॥ ५४॥ भनयैव रीत्यान्यत्राप्यवधेयमित्याह क्रीडायां णस्तदस्यास्तीत्यादावेषैव दिक् स्मृता ॥ वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ॥५५॥ "तदस्यां प्रहरणमिति काडायां णः" (पा० सू० ४।२।५६) इत्यत्र प्रहरणविशिष्टा क्रीडा प्रहरणक्रीडे क्रीडामात्रं वार्थः । आदिना, . दर्पणः नन्विन्द्रादिपदाच्छक्त्यैव देवतालाभे तत्र लक्षणाभ्युपगमो व्यर्थोऽत आह-*देवतात्वेन रूपेणेति ॥ तथाच "शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा” इतिवृद्धोक्तेदेवताया इन्द्रस्वरूपायाः शक्यत्वेऽपीन्द्राभिन्नदेवतात्वेन तद्भानार्थे सोचिरैवेति भावः। अनुपपत्तिज्ञानपूर्विकायामपि तीरनिष्ठगङ्गापदलक्षणायां निरूढत्वव्यवहारादाह*अनादीति* ॥ एतत्तत्वमभिहितं प्राक् ॥ ५४॥ _____ एकदेशान्वयप्रसङ्गमाह-*प्रहरणक्रीडेति* ॥ व्युत्पत्तिवैचित्र्यादेकपदोपस्थितयोरपि तयोः परस्परमन्वय इति भावः ॥ प्रहरणस्यापि प्रकृत्यैव लाभमभिप्रेत्याह*क्रीडामात्रम्वेति* ॥ क्रीडारूपसम्बन्धे वेत्यर्थः॥ मात्रपदेन तत्प्रहरणस्य तद्धिता परीक्षा ननु देवताया इन्द्रादिपदादेव लाभात्पुनस्तत्र लक्षणाकल्पनमनर्थकमत आह*देवतात्वेनेति । एतेनेन्द्रपदाहेवतात्वेन रूपेण लाभेऽपि देवतात्वरूपेण शाब्दबोधे देवताया भानसिद्धये लक्षणा आश्रयणीया, 'शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा' इति सिद्धान्तो व्यवस्थितः। सच गंगापदस्य तीरे लक्षणा निरूटेति व्यवहारो वा ह. श्यतेः तस्य कथमुपपत्तिः, अनुपपत्तिज्ञानस्य तत्पूर्ववत्तित्वादिति चेदू ? अनुपपत्तिज्ञान. पूर्विका लक्षणा सा निरूढेति वाच्यम् । तथा च प्रकृतेऽनुपपत्तिप्रतिसंधानाभावात्कथं निरूढत्वमत आह-*अनादीति । अनानादित्वम्पारिभाषिकं प्रागभिहितम् ॥१४॥ *अनयैव रीत्येति । यथा “सास्यदेवता" इति सूत्रविहिततद्धितप्रतिपादितेऽर्थे प्रकृत्यर्थान्वय एकदेशे यदि स्वीक्रियते तदा विशिष्टे शक्तिः । एकदेशान्वयानङ्गीकारे खण्डशः शक्तिरिति तथान्यतद्धितार्थस्थलेऽप्यन्वय इति भावः । प्रहरणस्यापि प्रकृत्या दण्डेत्यादौ लाभादाह-*क्रीडामात्रमिति* । दण्डेतिशब्दात् दण्डाभिन्नप्रहरणविशिष्टा क्रीडेति बोधः । प्रहरणवैशिष्टयं च-जन्यत्वसंबन्धेन “सोऽस्य निवास इति सूत्रविहिततद्धितस्य निवासः संबन्धी चार्थः। निवासशब्दोऽधिकरणघनन्तः । एवञ्च स्रोग्घ्नशब्दात् स्रुघ्नाभिन्ननिवासाधिकरणसंबन्धीति बोधः । “सास्मिन्” इति सूत्रविहिततद्वितस्य पौर्णमासी-अधिकरणत्वार्थः । एवञ्च पौषपदात् पौष्यभिन्नपौर्णमास्यधिकरणमिति बोधः । अधिकरणत्वञ्च-घटितत्वरूपम् । पौषीपदञ्च "नक्षत्रेण युक्तः कालः" इति सूत्रविहिताणन्तप्रकृतिकङीबन्तम् । तत्र नक्षत्रशब्दस्तत्तन्नक्षत्रयुक्तचन्द्रयुक्त Page #386 -------------------------------------------------------------------------- ________________ ३५७ देवतादिप्रत्ययार्थनिर्णयः। "सोऽस्य निवास" (पा० सू० ४।३।८8) "सास्मिन् पौर्णमासी" दर्पणः र्थत्वव्यवच्छेदः ॥ तथाच दण्डाभिन्नप्रहारसाधनविशिष्टा क्रीडेति बोधः ॥ *सोsस्येति ॥ एतत्सूत्रविहितप्रत्ययस्य निवासः सम्बन्धी चार्थः । अत्र निवासशब्दोऽधिकरणधजन्तो-निशब्देन च वासे नैरन्तर्य्यरूपातिशयः प्रत्यायते । स च प्रकरणादिना तत्तत्कालवटितो ग्राह्यः । तथाच सृध्नाभिन्न-वासाऽधिकरणसम्बन्धीति बोधः। निवासश्च प्रत्यासत्या प्रत्ययार्थसम्बन्धकर्तृक एव । अत एव कादाचित्कसृघ्नावासकर्तरि न तथा प्रयोगः ॥ ___ *सास्मिन्निति । सूत्रविहिततद्धितस्य तु पौर्णमासीघटितत्वावच्छिन्नोऽर्थः । नक्षत्रयुक्तकालविहिताऽणाद्यन्तपोषादिशब्दानां पुष्यामिन्ननक्षत्रकर्मकशशिभोगाश्रयकालोऽर्थः। तस्योक्तार्थेकदेशपौर्णमास्यामभेदान्वयः । तथा च पौषो मास' इत्यादौ पुष्याभिन्ननक्षत्रकर्मकशशिभोगाश्रयकालाभिन्नपौर्णमासीघटितो मास इत्यादिबोधः । पौषादिपदं च न केवलयौगिकम् । 'पौषः पक्ष' इति व्यवहारविरहात्, किन्तु रूढमपि। एतद्बोधनायैव सूत्रे संज्ञाग्रहणम् । रूढिनिरूपकतावच्छेदकञ्च त्रिंशत्तिथिसमुदायत्वरूपमासत्वमात्रम् । यत्किञ्चित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासादिव्यवहारेऽपि चान्द्रसौरपौषादिबहिर्भूतपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात्, किन्तु शुक्लप्रतिपदादिदर्शाऽन्ततिथिसमुदायत्वमतो नोक्तदोष इत्याद्यन्यत्र विस्तरः। . परीक्षा काले वर्तते । नच पौषीपौर्णमासीघटितत्वं यत्किञ्चित्पञ्चसंख्याकदिवससमूहे पक्षे वेतिः तत्रापि पौषादिव्यवहाराय तदिति वाच्यम् । “संज्ञायाम्" इति वार्तिकस्य तत्र सत्वात् । तथा च यत्र पौषादिपदस्य सौरचान्द्रादिभेदेन भिन्ने मासे रूढिस्तस्मिन्नेवाभिधेये प्रत्यय इष्यते । एवञ्च तत् पौषादिपदं न यौगिकमेव, किन्तु योगरूढम् । नचैवमपि रूढिनिरूपकतावच्छेदकत्रिंशत्तिथिसमुदायत्वं वक्तव्यम् । तथा च यत्किञ्चि. त्तिथिमारभ्य तिथिसमुदाये पौषीपौर्णमासीघटिते पौषव्यवहारोपत्तिरिति वाच्यम् । रूढिनिरूपकतावच्छेदकस्य तत्रासत्वात् । तत्र शुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वम् । ___ नच यस्मिन्वर्षे मार्गशीर्षे शुक्लाष्टम्यान्धनुस्सङ्क्रान्तिमकरसंक्रान्तिश्च पौषनवम्याजाता तस्मिन्सौरपौषेऽपि पौषब्यहारो दृश्यते, तदनुपपत्तिरिति धनुस्थरविविशिष्टत्वमेव रूढ्यर्थतावच्छेदकमस्त्विति वाच्यम् । तादृशे सौरे यदि पौषव्यवहारो यदि मुख्यः स्यात् , तदा तस्य सौरस्य पौषीपौर्णमासीघटितत्वाभावेन योगार्थस्याभावेऽपि पौषत्वमभ्युपेयम् । तथा च योगरूढिलभ्यार्थस्य बाधापत्तिः । नचेष्टापत्तिः, 'सास्मिन्' इति सूत्रविरोधापत्तेरित्युक्तस्यार्थस्यैव रूड्या सौरपौषादौ पौषादि. व्यवहारस्य गौणत्वात् । नच संज्ञाशब्दानां यथाकथञ्चिदव्युत्पादन क्रियते, तत्रावयवार्थस्यासत्वेऽपि साधुत्वस्य स्वीकारः सर्वसम्मतः । रथन्तरकुशलप्रवीणादिपदे यथा । एवञ्च धनस्थरविविशिष्टत्वस्य रूढयर्थतावच्छेदकत्वं स्वीकृत्य सौरपौषव्यव. हारो मुख्योऽस्त्विति वाच्यम् । "सज्ञायाम्" इत्युपादाय योगार्थव्युत्पादनविरो Page #387 -------------------------------------------------------------------------- ________________ ३५८ दर्पणपरीक्षासहिते भूषणसारे - (४/२/२१ ) इति, “ तदस्यास्त्यस्मिन्निति मतुपू" ( पा० सू० ५|२| दर्पण: “तदस्यास्त्यस्मिनू" (पा०सू० १।२।८४) इति सूत्रेण प्रथमान्तादस्त्यर्थोपाधिकात् सम्बन्धिन्यधिकरणे च मत्वर्थीया विधीयन्ते । यद्यप्यस्येत्युक्तेः षष्ठ्यर्थसम्बन्ध इव मतुबादिविधानमाभाति; तथापि गोमांश्चैत्र इति सामानाधिकरण्यानुरोधात् सम्बन्धिवाचकतैवेत्युक्तं प्राक् । एवञ्च गोमानित्यादौ गोनिरूपितस्वामित्वसम्बन्धवानित्याद्यन्वयबोधः । नच भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायिने I सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः । इति सम्बन्धसमकक्षतया भूमाद्यर्थानामप्युपादानात् तेषामपि मतुबादिशक्यत्वमिति शङ्कयम् । स्यादेवम्, यदि तेष्वर्थेषु मतुबादीनां विधायकं सूत्रादिकमुपलभ्येत, किन्तु प्रयोगोपाधित्वमेव तेषाम् । अस्त्यर्थवद् गवादिपदानां बहुत्वादिविशिष्टलाक्षणिकतयैव भूमादिप्रतीतिसौलभ्याच्च । अन्ये त्वस्तिशब्दान्मतुबर्थं तद्ग्रहणमित्याहुरित्यन्यत्र विस्तरः | इत्यादिकमित्यादिपदात्, "तस्यापत्यम्” (पा०सू० ४।१।८२) “तेन रक्तं रागात्” (पा०सू० ४ | २|१|) “संस्कृतं भक्षा : " (पा०सू० ४।२।१६ ) इत्यादिसङ्ग्रहः । तत्र 'गार्गि:' इत्यादौ तद्धितार्थापत्यस्य जन्यपुरुषरूपस्यैकदेशे जन्यत्वे प्रकृत्यर्थगर्गादिनिरूपकतयाऽन्वयाद्गर्गनिरूपितजन्यता श्रयः पुमानित्यादिबोधः । 'गार्ग्य' इत्यादौ तु जन्यपुरुषजनकपुरुषाद्यात्मकगोत्रापत्यार्थैकदेशे जन्यत्वे प्रकृत्यर्थान्वयः । 'गार्ग्ययण' परीक्षा धात् । अथ स्थलपद्मे पडूजव्यवहारवद्वर्ष विशेषीय सौरपौषे मुख्यार्थबाधे का क्षतिस्तत्र पौषव्यवहारो लक्षणयास्त्विति चेद् ? तर्हि तस्मिन्वर्षे चान्द्रपौषमासनिमित्तकस्य दशम्याङ्कर्त्तुमर्हस्याद्विकश्राद्धस्य विलोपपत्तिः । ननु "नक्षत्रेण युक्तः काल” इति सूत्रेणान्प्रत्ययस्य प्रवृत्तिस्सर्ववर्षीय पौर्णमास्यां न सम्भवति, यस्मिन्वर्षे पौर्णमास्याम्पुनर्वसु नक्षत्रयुक्त शशिनः सत्त्वन्तस्यां व्यभिचारादिति चेद् ? न । अण्प्रत्यय प्रकृतिकरोहिण्यन्यतरस्मिन् लक्षणा, फाल्गुनशब्दे तु फल्गुनीशब्दस्य पूर्वोत्तर फल्गुनी हस्तान्यतमे भाद्रपदशब्दे भद्रपदाशब्दस्य शततारकापूर्वोत्तरभाद्रपदा, आश्विनशब्दे अश्विनीशब्दस्य रेवत्यादित्रितये लक्षणा । तदुक्तम्अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः । शेषा मासाद्विभाज्ञेयाः कृत्तिकादिव्यवस्थया ॥ इति अन्ये तु — पौषादिपदस्य केवलरूडत्वमेव नतु यौगिकत्वम् । पुष्यादियोगस्य पौर्णमास्यामनियमात् । रूढिनिरूपकतावच्छेदकञ्च - धनुस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तमासत्वम् । धनुरादिस्थरविसमाख्यर विसंक्रान्तिमन्मासभिन्नधनुरादिस्थरव्यधिकरणशुक्लप्रतिपदादिदर्शान्तमासत्वं वा । धनुस्थरव्यारब्धत्वम् - कालिकसम्बन्धेन धनुस्थरव्यधिकरणाद्यक्षणकशुक्लप्रतिपदादिकत्वन्तद्यस्मिन्वर्षे कार्तिक शुक्लप्रतिपत् ४५।५० तदित एव वृश्चिकसङ्क्रान्तिः १४।३५ एतस्मिन् काले जाता तन्मासीयधटिका २९।३२ धनु सक्रान्तिस्तु दर्शसमाप्त्युत्तरम् ४४ . एतस्मिन्समये जाता तस्मि Page #388 -------------------------------------------------------------------------- ________________ देवतादिप्रत्ययार्थनिर्णयः। ३५९ दर्पणः । इत्यादौ तद्धितार्थयुवापत्यैकदेशे गोत्रप्रत्ययान्तार्थस्य निरूपकतयाऽन्वयः। परन्तु “जीवति तु वंश्ये युवा" (पासू० ४।१।१६३) इति परिभाषणादू गर्गजीवनसमानकालिकत्वमपि प्रधानप्रत्ययार्थे विशेषणम् । तस्याऽपि प्रत्ययशक्यत्वात् । एवञ्च गर्गजीवनसमानकालिको गर्गगोत्राऽपत्यनिरूपितजन्यतावानयं पुमानिति बोधः । __ "तेन रक्तम्” ( पासू० ४।२।१) इति विहितप्रत्ययस्य तत्सम्बन्धाधीनतदीयरूपारोपविषयोऽर्थः । तादृशारोपविषयत्वमेव तेन रक्तत्वम् । “शङ्खः पीत" इत्यारोपमादाय शङ्खादेरारोप्यपीतिमाश्रयहरितालादिना रक्तत्ववारणायाधीनान्तमारोपविशेष परीक्षा न्क्षयमासाख्ये पौषे प्रथमलक्षणस्याव्याप्तिरिति तादृशमलमाससङ्गमनाय द्वितीयम् । तथाहि-मलमासो द्विविधः, संक्रान्तिरहितः संक्रान्तिद्वययुक्तश्च । तदुक्तं काठकगृह्य __ यस्मिन्वर्षे न संक्रान्तिस्संक्रान्तिद्वयमेव वा। मलमासः स विज्ञेयो मासे त्रिंशत्तमे भवेदिति ॥ मलत्वमावश्यकत्वं स्वयं क्रियावाह्यत्वात् । तत्राद्यस्य मलमासस्य लक्षणमन्यत्राप्युक्तम् अमावास्यापरिच्छिन्नरविसङ्क्रान्तिवर्जितम्। मलमासं विजानीयाद्वर्जितं सर्वकर्मसु ॥ यदुक्तम्-'पूर्वस्मिन् ह्याश्विने मासे त्रिंशत्तम्' इति, तदाद्यमलमासपरम् । द्वितीयमप्याह सत्यव्रतः राशिद्वयं यत्र मासे सङ्क्रमेत दिवाकरः। नाधिमासो भवेदेष मलमासस्तु केवलम् ॥ इति अमावास्यापरिच्छिन्नो रविसंक्रान्तिवर्जितो यो मास तस्यैवाधिमासत्वम् । तदाह बादरायणः "एकमासस्थिते सूर्ये यदि स्यादधिमासकः। एक एव हि मासोऽसौ षष्टिभिर्दिवसैर्मतः ॥ इति । मासः शुक्लादिज्ञेयः। नच "आमावास्याद्वयं रविसङ्क्रान्तिवर्जितम् , मलमासः सविज्ञेय” इति वचने मलमासत्वममावास्याद्वयं यत्र 'रविसङ्क्रान्तिवर्जितं मलमासस्सविज्ञेय' इति वचनेन मलमासत्वममावास्याद्वयघटितस्यैव, नतु षष्ठिदिवसपरिच्छिन्नस्येति वाच्यम् , अमावास्याद्वयमित्यस्यामावास्याद्वयपरिच्छिन्नमित्यर्थात् एकषष्टिदिवसात्मकेऽपि मासे अमावास्याद्वयपरिच्छिन्नत्वमासे वाऽमावा. स्याद्वयस्य तादृशस्य तद्धटकत्वात् सक्रान्तिद्वयशून्यो मासः स सर्पसज्ञोऽधिमाससंज्ञश्च, संक्रान्तिद्वययुक्तो मासो न्यूनाख्योऽहस्पतिसज्ञश्च, अधिकमाससंज्ञके श्रावणस्य लक्षणं कर्कस्थे रव्यारब्धत्वघटितं तद्वितीयं लक्षणमपि तत्रास्त्येव । कर्कस्थरविसमाप्यो यो रविसङ्क्रान्तिमन्मास आषाढस्तद्भिन्नत्वस्य कर्कस्थ. रव्यधिकरणत्वस्य च तत्रासत्वात् । नच शुक्लप्रतिपदमारभ्य श्रावणस्य प्रारम्भे दर्शपर्यन्तं निशदिनपरिच्छिन्नमासस्य समाप्तिरिति कर्कस्थरवि समाप्य रविसङ्क्रान्तिमन्मासभिन्नत्वन्तत्र नास्तीत्यव्याप्तिः, तस्मिन् श्रावणे इति वाच्यम् , तादृशस्थले पष्ठिदिवसपरिच्छिन्नस्यैव मासत्वमिति कर्कस्थरविसमाप्यत्वस्य तत्रासत्वेन ताशा Page #389 -------------------------------------------------------------------------- ________________ ३६० दर्पणपरीक्षासहिते भूषणसारे१४) इत्यादिकं संगृह्यते । दर्पणः णम् । माञ्जिष्टपटादेश्चक्षुरादिना रक्तत्ववारणाय तदीयत्वं रूपविशेषणम् । अन्न च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धितार्थैकदेशसम्बन्धे प्रतियोगितया रूपे चाधेयतयान्वयः । तथाच मञ्जिष्ठासंबन्धाधीनो यो मञ्जिष्ठानिष्ठरूपारोपस्तद्विषयता परीक्षा पाढभेदसत्वात् यत्काठकगृह्यीयम्पूर्वोक्तन्तदेतादृशाधिकपरमेव । नच यदि चैत्रादिशब्दो यौगिकस्तहि मीनादिरविविशिष्टकालरूपेषु चैत्रादिसौरेषु रूढिरेव चैत्रादिपदस्यास्तामिति वाच्यम् । 'सावैशाखस्यामावास्याया रोहिण्या सम्बध्यते' इति श्रुतिबलाच्चान्द्र एव शक्तिसिद्धेः । तथाहि-यदि सौर एव शक्तिस्तदा वैशाखपदस्य मेषस्थरविविशिष्टकाल एव शक्तिरिति तदमावास्यायां रोहिण्याञ्चन्द्रस्यावस्थानाभावाच्छुतिविरोधः स्पष्ट एव । “यः सूर्यचन्द्रमसोः परः सन्निकर्षः साऽमावास्या" इति गोभिलवचनादमा. वास्यान्ते चन्द्रस्य सूर्यस्य तदवस्थाने नियमात् । यदि तु चान्द्रे शक्तिस्तदाऽस्ति संभवः । शुक्लप्रतिपदादेवैशाखस्यान्ते चन्द्रावस्थानस्य प्रायोरोहिण्या:सम्भवात्। श्रुतिस्थं रोहिणीपदं कृत्तिकारोहिण्यन्यतमपरम् । तदुक्तं ज्योतिःसिद्धान्ते मेषादिस्थे सवितरि यो मासः प्रपूर्यते चन्द्रः । चैत्राद्यस्सविज्ञेयः पूतिद्धित्वेऽधिमासोऽन्यः । इति । अत्रायशब्दो वैशाखादिसङ्ग्राहक इत्याहुः । अपरे तु-पौषीपदे पुष्ययोगप्रयोगत्वं विवक्षितम् । एवञ्च पुनर्वसुनक्षत्रसत्वेऽपि न क्षतिरित्याहुः । “तदस्यास्त्यस्मिन्निति मतुप्" अनेन सूत्रेण पौषस्येति षष्टयर्थे प्रत्ययो विधीयते इति प्रतिभाति, तथापि धनवान् इति सामानाधिकरण्यानुभवात्सम्बन्धी वाच्य इति कल्प्यते । एवञ्च-गोमानित्यादौ मतुबर्थः सम्बन्धी तदेकदेशसम्बन्धे प्रकृत्यर्थस्य निरूपितत्वसम्बन्धेनान्वयः । नच "प्रकृतिप्रत्ययौ” इतिनियमे प्रत्ययार्थशब्देन प्रत्ययाजन्यत्वप्रतीतिमुख्यविशेष्यस्य ग्रहणात् तत्रैवान्वय उचितो; नतु विशेषणे इति वाच्यम् । औपगवादौ यस्तद्धितस्तदर्थापत्येकदेशजन्यतायाम्प्रकृत्यर्थान्वयदर्शनेनोक्तलौकिकनियमे प्रत्ययजन्यप्रतीतिविषयमात्रस्याग्रहणात् । सम्बन्धे आश्रये च खण्डशः शक्तेः सम्भवाच्च । नच भूमिनिन्दादिकमपि मत्वर्थीयप्रत्ययान्तजन्यशाब्दबोधे भासते, तस्य कथमुपपत्तिः, सूत्राद्यनुपादानादिति वाच्यम् । प्रकरणादिवशात्तस्यार्थस्य शाब्दबोधेभानानुभवो न । यत्र तेषामर्थानाम्प्रतीतिस्तत्र प्रकृतेस्तत्तदर्थविशिष्टे लक्षणास्वीकारात् । ___*इत्यादिकमिति । आदिपदेन "तस्यापत्यम्" "तेन रक्तं रागात्" "संस्कृतं भक्षा" "तेन क्रीतम्" "तदस्मिन्नस्तीतिदेशे तन्नाम्नि” इति सूत्रचतुष्टयस्य "दृष्टं साम” इत्यादेश्व परिग्रहः । तत्रापत्यार्थविहिततद्धितार्थैकदेशजन्यतायाम्प्रकृत्यर्थस्यैकान्वयो भवत्येव । जन्यत्वस्य नित्यनिरूपकाकाङ्क्षत्वात् । यत्र गोत्रापत्ये प्रत्ययस्तत्र जन्यजन्ये पुंसि प्रत्ययस्य शक्तिः प्रथमजन्यतायाम्प्रकृत्यर्थस्योक्तसम्बन्धेनान्वयः। गाग्र्यायणो दाक्षायण इत्यादौतु युनिप्रत्ययो भवति, तत्र प्रत्ययार्थो युवत्वम् । अपत्यञ्च प्रकृत्यर्थगर्गगोत्रापत्यं दक्षगोत्रापत्यम्, तत्र निरूपितत्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः । Page #390 -------------------------------------------------------------------------- ________________ देवतादिप्रत्ययार्थ निर्णयः । ३६१ वृत्तिमात्रेऽतिरिक्तशक्तेः, “समर्थः पदविधिः” (पा० सू० २।१।१) इति सूत्राल्लाभादुक्तो विचारः शास्त्रान्तरीयैः सह तद्रीत्यैवोक्तः । दर्पण: श्रय इति 'माञ्जिष्ठ' इत्यतो बोधः । 'शूल्यम् 'उख्यम्' इत्यादौ, “संस्कृतं भक्षाः " (पा०सू० ४।२।१९) इति सूत्रविहिततद्धितार्थैकदेशे पाकादिसंस्कारे शूलोखादेः प्रकृत्यर्थस्याऽधिकरणत्वेनाऽन्वयः ॥ अनयैव रीत्या तद्धितान्तरादूबोध कहनीयः । 2 तद्धितानां क्वचित्प्रकृत्यऽर्थे स्वार्थेकदेशस्य, क्वचित् स्वार्थस्यैवान्वयबोधकत्वादिति जहत्स्वार्थवृत्तिपक्षमवलम्ब्य मूलमवतारयति -* वृत्तिमात्र इति ॥ तथाच तत्पक्षे पदानामानर्थक्यात् तदर्थनिरूपणे सिद्धान्तप्रच्युतिरिति भावः ॥ *तद्वीत्यैवेति । शास्त्रान्तरीयरीत्येवेत्यर्थः । ननु वैयाकरणमते जहत्स्वार्थवृत्याश्रयणे, “न पूजनात्” (पा०सू० ५।४।९ ) " तेन रक्तं रागात्" (पा०सू० ४।२।० ) इत्यादिसूत्राणां का परीक्षा तत्रायं विशेष:- “ जीवति तु वंश्ये युवा" इत्यादिसूत्रे सा यस्मिन्नर्थे जीवति सति युवसंज्ञा अपत्यस्य भवति । तज्जीवनसमानकालिकत्वमपि प्रत्ययशक्यन्तस्य प्रधानीभूतेऽपत्ये विशेषतो भवति । एवञ्च - गार्ग्यायणादिशब्देभ्यो गर्गजीवनसमानकालिको गर्गजन्यानरूपितजन्यताविशिष्टःपुमानिति बोधः । "तेन रक्तम्" इति सूत्रेण माञ्जिष्ठं वस्त्रमित्यत्र प्रत्ययः । अत्र यद्यपि तेनेति करणे तृतोया, तदर्थस्य रञ्जधात्वर्थेऽन्वयेन तत्र तज्जन्यस्य प्रतीतिर्न्याय्या, सा नोपपद्यते । पूर्वस्थितपटसमवेतरूपध्वंसं विना रूपवति रूपान्तरानुत्पत्तेः। अत एव "तेन रक्तम्" इत्यस्य तत्सम्बन्धाधीनतदीयरूपारोपविषयोऽर्थः । प्रकृत्यर्थस्य मञ्जिष्ठस्य सम्बन्धेऽन्वयः प्रतियोगितायाः । तेनेति तु तृतीयान्तात्प्रत्ययोत्पत्तिम्बोधयितुमुपात्तमिति मञ्जिष्ठसम्बन्धाधीनतदीयरूपारोपविषयो वस्त्रमिति बोधः । पित्तपीतिम्ना यत्र 'पीतः शङ्खः' इति भ्रमः, तत्र तस्य भ्रमस्य न पीतरक्तमित्यत्र प्रत्यय इति तत्सम्बन्धाधीनत्वं विशेषणम्। 'दाधिकम्' 'शूल्पम्' उख्यम्' इत्यादौ 'संस्कृतं भक्ष्याः" इत्यादिना प्रत्ययः । आद्ये- 'दाधिक ओदनः' इत्यत्र प्रत्ययार्थः संस्कारविशिष्टः। संस्कारश्च सम्बन्धाधीनमा र्द्दवविशेषः, विशेषप्रकारप्रतीतिविषयो वा । एवञ्चसंस्कारैकदेशसम्बन्धे दहनोऽन्वयेन दधिसम्बन्धाधीनमार्द्दवविशेषविशिष्ट ओदन इति बोधः । ‘शूल्यम्, 'उख्यम्' इत्यादौ तु संस्कारः पाकादिरूपः । तत्र प्रकृत्यर्थस्याधिकरणत्वसम्बन्धेनान्वयः। एवञ्च शूलाधिकरणकपाकाश्रयो मांसमिति बोधः । “तेन क्रीतम्” इतिसूत्रेण 'सौवर्ण वस्त्रम्' इत्यादौ प्रत्ययः । क्रीतशब्दार्थश्च क्रयणक्रियाकर्म । क्रयणम् - स्वस्वत्वोत्पत्यनुकूलद्रव्यदानक्रियानुकूलव्यापारः । तत्र प्रत्ययार्थव्यापारे सुवर्णस्य करणतयाऽन्वयेन सुवर्णकरणकक्रयणकर्मणो बोधः । एवमन्यत्रापि यथायथमूहनीयम् । स्वसिद्धान्तमाह-*वृत्तिमात्र इति । जहत्स्वार्थावृत्तिरिति मतेन । *अतिरिक्तशक्तरिति समुदायस्येत्यादिः । तद्रीत्या - शास्त्र्यान्तररीत्या - ननु यदि वैयाकरणैर्जहत्स्वार्था वृत्तिराश्रीयते, तदा तेषाम् "तेन रक्तं रागात्" इत्यादिसूत्राणां कथमुपपत्तिर्वृत्तिघटकमञ्जिष्ठादे रागवाचकत्वाभावादेवं समासघटकप ४६ द० प० Page #391 -------------------------------------------------------------------------- ________________ ३६२ दर्पणपरीक्षासहिते भूषणसारेमारोपितप्रकृतिप्रत्ययार्थमादाय वा । वस्तुतो विशिष्टशक्त्यैवार्थोपस्थितिरित्याह-*वस्तुत इति* ॥ ५५ ॥ इति वैयाकरणभूषणसारे देवतादिप्रत्ययार्थनिर्णयः ॥ १० ॥ दर्पणः गतिरत आह-आरोपितेति ॥ *विशिष्टशक्त्यैवेति । विशिष्टार्थस्येति शेषः ॥ वृत्तौ पक्षद्वयाभ्युपगमेन जहत्स्वार्थपणे तघटकपदाऽर्थनिरूपणस्यानुपयोगेऽप्यजहत्स्वार्थपक्षे विशिष्टशक्तिग्रहस्य प्रत्येकशक्तिनिरूपणोपजीवकतया तन्निरूपणस्यौचित्य. मेव । एतत्सूचनायैव मूलेऽतीवेत्युपात्तमिति रहस्यम् ॥ १९ ॥ इति भूषणसारदर्पणे देवतादिप्रत्ययार्थनिरूपणम् ॥ १० ॥ परीक्षा दानां समानाधिकरणत्वपूजनार्थत्वव्यवहारस्यापि का गतिरत आह-*आरोपितेति । 'प्रकृतिप्रत्ययादिकम् इत्युपलक्षणम् । सामानाधिकरण्यादिकमप्येवं विशिष्टशक्त्या। ... मनु यदि जहत्स्वार्थी वृत्तिरेवास्ति तदा मूले-'नात्रातीवेति' कथनमनुचितन्तत्रेत्येव तहि कुतो नोक्तम् । किञ्च विशिष्टे शक्तिश्च विशिष्टार्थनिरूपिता चेत्सर्वत्र सम्मता तदा "जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी" इति सिद्धान्तस्यापि नोपपत्तिरिति चेत् ? न । अवयवशक्तिमहसहकारेणैव समुदायशक्त्या बोधस्य दर्शनेन अवयवानामप्यर्थनिरूपयितुमुचितमेवेत्याशयात् ॥ ५५ ॥ इति श्रीमद्भूषणसारटीकायां परीक्षानामिकायां देवतादिप्रत्ययार्थ विवरणम् ॥१०॥ Page #392 -------------------------------------------------------------------------- ________________ अथाऽभेदैकत्वसंख्यानिर्णयः॥ वृत्तिप्रसङ्गात् तत्राभेदैकत्वसङ्ख्या प्रतीयत इति सिद्धान्तं दृष्टा. न्तेनोपपादयति अभेदैकत्वसङ्घयाया वृत्तौ भानमिति स्थितिः॥ कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद् यथोच्यते ५६ सङ्खयाविशेषाणामविभागेन सत्त्वम्-अभेदकत्वसङ्ख्या । उक्तश्च वाक्यपदीये-- यथौषधिरसाः सर्वे मधुन्याहितशक्तयः। अविभागेन वर्त्तन्ते; सङ्ख्यां तां तादृशीं विदुः ॥ इति ॥ दर्पणः अथाभेदकत्वसंख्यानिर्णयः। ननु प्रकान्ते प्रातिपदिकघटकप्रत्ययार्थनिरूपणेऽभेदकत्वसङ्ख्या निरूपणमसङ्गतमत आह-*वृत्तिप्रसङ्गादिति । तथाच वृत्तिनिरूपणे क्रियमाणे स्मृतिपथप्राप्सतद्धर्मोपेक्षाऽनुचितेति प्रसङ्गसङ्गतिसत्त्वान्नोक्तदोष इति भावः । यद्यपि वक्ष्यमाणक्त्वाद्यन्तेऽपि कृवृत्तिसत्वात्तदनन्तरमेव सङ्ख्यानिरूपयितुमुचिता, तथापि तत्प्रकृत्यर्थे सङ्ख्याया अभानादाकाङ्क्षाविच्छेदः स्यादित्यत्रैव तन्निरूपितमिति बोध्यम् । अभेदैकत्वसव्यापदार्थे मतभेदेन द्विधा निर्वक्ति-*सङ्ख्याविशेषाणामिति । एकत्वत्वाचवच्छिन्नानामित्यर्थः । *अविभागेन*-अभेदेन, अविरोधेनेति यावत् । उक्ताऽर्थे हरिवाक्यं प्रमाणयति-*उक्तश्चेति । *आहितशक्तयः । आहिता समर्पिता तत्तदोषविभेदनिबन्धनविरोधरूपा शक्तियरित्यर्थः। त्यक्तविरोधा इति यावत्। अत एव-*अविभा. गेन । अविरोधेनेत्यर्थः । *ताम् । अभेदैकत्वसङ्ख्याम् । तादृशीम् । मधुनिष्ठरस . परीक्षा .. अथाभेदैकत्वसंख्यानिर्णयः। ननु प्रातिपदिकस्य निरूपणम्प्रस्तुतमतस्तद्धटकस्यैव निरूपणमुचितन्त्रत्वभेदकत्वसङ्ख्याया इत्यत आह-*वृत्तिप्रसङ्गादिति । अर्थविशिष्टवृत्तिनिरूपणमपि प्रस्तुतमिति वृत्तिधर्मा अपि निरूपयितुमुचिताएवेत्याशयः। अभेदैकत्वसङ्ख्यापदार्थम्मतभे. देन दर्शयति-*सङ्ख्याविशेषमित्यादिना**संख्याविशेषाणाम्*-सङ्ख्यात्वव्याप्यैकवत्त्वाचवच्छिन्नानामित्यर्थः। अविभागेनेति । अविरोधेन विरोधपरित्यागेनेतियावत्। तत्र हरिसम्मतिमाह-*उक्तञ्चेति । *आहितेति । आहितपदस्य स्थापितार्थकत्व. मन्यत्र प्रसिद्धं यद्यपि, तथापि प्रकृतोपयुक्तमर्थं स एवाह-*अविभागेनेति । एवञ्च दृष्टान्ते आहितपदस्य स्थापितार्थकत्वेऽपि दार्शन्तिके आहितशक्तय इत्यस्याहिता त्यक्तविरोधा शक्तिर्यरित्यर्थो बोध्यः । तत्तदोषाधिवृत्तित्वप्रयुक्तो योऽविरोधस्तस्य दृष्टान्तेऽपि त्यागो बोध्यः । हरिवाक्ये विभागेत्यस्य विरोधेनेत्यर्थः । *ताम् - अभेदैकत्वसङ्ख्याम् । *तादृशीम् -मधुनिष्ठरसस्थितितुल्यस्थितिकीम् । एवबैत. Page #393 -------------------------------------------------------------------------- ________________ ३६४ दर्पणपरीक्षासहिते भूषणसारेपरित्यक्तविशेष वा सङ्ख्यासामान्यं तत् । उक्तञ्च-- भेदानां वा परित्यागात् सङ्ख्यात्मा स तथाविधः। व्यापाराजातिभागस्य भेदापोहेन वर्तते ॥ दर्पणः स्थितितुल्यामित्यर्थः। नन्वेकत्वद्वित्वादीनामेकत्र सत्त्वमनुपपन्नम् । न हि द्वावेकत्वेन व्यवहियेते, नाsप्येको द्वाविति । "न हि द्विपुत्र" इति भाष्यात् ॥ किञ्च दृष्टान्तोऽपि न समञ्जसः । तत्तद्रसवदारब्धेऽवयविनि माक्षिकेऽवयवसजातीयरसान्तरस्यैवोत्पादाभ्युपगमादत आह-*परित्यक्तेति । वाशब्दः पक्षान्तरे। अगृहीतविशेषधर्मकं संख्यामात्रमित्यर्थः। पूर्वकल्पे उक्ताऽस्वरसाभिसन्धिकं वाक्यपदीयं तत्पक्षेऽपि प्रमाणत्वेनोपन्यस्यति-*भेदानामिति । *भेदानाम्*-एकत्वत्वद्वित्वत्वादिविशेषधर्माणाम् । *परित्यागाद् । अग्रहात् । इदञ्च व्यापारपदार्थेऽभेदेनाऽन्वयि ॥ *संख्यात्मा-संख्यास्वरूपः ॥ *सः*-एकत्वादिः ॥ *तथाविधः । अभेदैकत्वव्यपदेश्य इत्यर्थः । तदेव विशदयति-जातिभागस्येति । एकत्वत्वादेरित्यर्थः । *भेदापोहेनेति । भेदस्य विशेषणस्य योऽपोहोऽग्रहस्तेनेत्यर्थः ॥ यद्वा भेदापोहेनेत्यस्य व्यापारादित्यनेनाऽन्वयः। प्रकृत्यादित्वात् तृतीया। तथाचैकत्वत्वादेर्जातिविशेषस्य भेदाग्रहरूपो यो व्यापारो विशेषणाऽत्मा ततो वर्त्तत इत्यर्थः ॥ “भेदाs . परीक्षा न्मते एकत्वद्वित्वादेः सत्वेऽपि भेदकायें धर्मा एकत्वत्वादयस्तत्परित्यागेन सर्वासां स्थितिकर्तृत्वमात्रम् । सङ्ख्याया जात्यखण्डोपाध्यतिरिक्ततया स्वरूपतो भानासम्भवात् । एवं च राज्ञः राज्ञो राज्ञां वा पुरुष इत्येवं लौकिकविग्रहेऽपि राजसम्बन्धी पुरुष इत्येव शाब्दबोधः। ___ नन्विदमनुपपन्नम् , द्वित्वबहुत्वादीनां विरोधादेव स्थानासम्भवात्। अत एव "नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते” इति भाष्यकृतोक्तम् । एवं मधुदृष्टान्तोपादानमप्यसङ्गतम् , तत्र नानाजातीयरसवदवयवारब्धे मधुनि इप्सान्तरोत्पत्तेरभ्युपगमात् । नीलादिनानाजातीयरूपवदवयवारब्धेऽवयविनि पटे चित्ररूपमत आह-*परित्यक्तेति* । अत एवोक्तं हरिणा अभेदैकत्वसंख्याया तत्रान्यवोपजायते । संसर्गरूपं सङ्ख्यानामविभक्तन्तदुच्यते । वृत्तावुपसर्जनपदानां सत्वभूतत्वात् सङ्ख्यायोगस्यावश्यकत्वेनान्यासंसर्गरूपा सङ्ख्या जायत इति तदर्थः । एतन्मते-एकत्वत्वाद्यग्रहकालिकसंख्यात्वप्रकारकप्रतीतिविषयः संख्यापदार्थोऽभेदैकत्वसंख्याव्यपदेशो भवतीति फलितम् । एतदपि मतं हरिसूचितमित्याह-*उक्तञ्चेति। *भेदानाम्*-संख्याभेदकानाम् , एकत्वत्वादिरूपवि. शेषधर्माणाम् । एतेषां परित्यागश्च-ज्ञातधर्मवत्त्वेन ज्ञानविषयीभवनाभाव एव । सएकत्वादिः। *तथाविधः -अभेदैकत्वसङ्ख्याव्यपदेश्यः । जातिभागस्य जात्यात्मकध. मस्यैकत्वादेर्व्यापाराद्वर्तत इत्यन्वयः । तं व्यापारमेवाह-*भेदापोहनेति। भेदस्य वि Page #394 -------------------------------------------------------------------------- ________________ अभेदैकत्वसंख्यानिर्णयः । ३६५ मगृहीतविशेषेण यथा रूपेण रूपवान् ।... ....: प्रख्यायते न शुक्लादिर्भेदापोहस्तु गम्यते । इति ॥ अस्याः वृत्तौ समासादौ; भानं न्यायसिद्धमिति शेषः । इति मतस्थितिर्वैयाकरणानाम् । अयम्भावः-राजपुरुष इत्यादौ, राज्ञो, राक्षोः, राक्षां वाऽयं पुरुष इति जिज्ञासा जायते । विशेषजिज्ञासा च सामान्यज्ञानपूर्विकेति सामान्यरूपेण तत्प्रतीतिः शब्दादावावश्यकी । अतस्तस्यां । दर्पणः पोहो न वर्तते” निवर्त्तते इति वा पाठे तु भेदरूपो योऽपोहोऽतद्वयावृत्तत्वम्, स न वर्तते न भासत इत्यर्थोऽवसेयः। पद्यान्तरावलोकनेनैतत्पाठस्यैव हरिसम्मतत्वमध्यवसीयते । द्वित्वत्वाद्यग्रहकालिकसङ्ख्यात्वप्रकारकप्रतीतिगोचरा · सङ्खयापदार्थोऽभेदैकत्वपदव्यपदेश्यो भवतीतिसमुदिताऽर्थः । तत्र दृष्टान्तमाह-*अगृहीतविशेषे. णेति* ॥ शुक्लत्वादिप्रकारकग्रहासमानकालिकरूपत्वप्रकारकप्रतीतिविषयेण शुक्लादिनैव यथा घटादी रूपवानिति प्रतीयते । शुक्लायो भेदरूपापोहः-शुक्लत्वादिरतव्यावृत्तिरूपः स तु न प्रतीयते । तद्वद्राजपुरुष इत्यादौ राजादिपदार्थः सङ्ख्यावानिति प्रतीयते, न तत्र सङ्खयांऽशे एकत्वादि भासते इत्यर्थः।। ___ तादृशसङ्ख्याभानस्य परानभ्युपेतत्वात् कथमियं स्थितिरित्यन्तराशेषपूरणेन व्याचष्टे-*वैयाकरणानामिति । ननु तादृशसङ्ख्याया वृत्तौ भाने कि प्रमाणमत आह*अयम्भाव इति । *समान्यज्ञानपूर्वकेति । तद्धेतुकेत्यर्थः। *आवश्यकीति* । तां परीक्षा शेषस्य योऽपोहः अग्रहस्तेनेत्यर्थः । *व्यापारादिति । पञ्चम्यन्तस्याभेदेन तृतीयान्तेऽन्वयः। यद्वा भेदापोहपदार्थस्योक्तस्यैवाभेदेन सम्बन्धेन जातिभागस्य व्यापारराहित्ये तद्विशेषणत्वम् , तृतीया तु प्रकृत्यादित्वात् , धान्येन धनवानितिवत। एवञ्जैकत्वत्वादिर्जातिविशेषस्य भेदाग्रहरूपो यो व्यापारो विशषणात्मा तेन वर्तते । एकत्वत्वाद्यग्रहसमा. नकालिकसङ्ख्यात्वप्रकारज्ञानविषयः संख्यापदार्थोऽभेदैकत्वसङ्ख्यापदेनोच्यते इति फलितम। एतन्मते-राजपुरुषादिपदात्सङख्यावद्वाजसम्बन्धीत्याद्याकारको बोधः तन्त्र दृष्टान्तमाह-*अगृहीतेति। नगृहीतो विशेषे विशेषधर्मो यस्मिन्नेतादृशेन रूपेण रूप. त्वेन गृहितेन रूपेण रूपवान् प्रख्यायते, भेदरूपो यो अपोहो, विशेष:-विशेषधर्मः स तु न गम्यते इत्यर्थः । यथा-दूरस्थितो घटादिपदार्थः शुक्लत्वादिप्रकारकग्रहासमानकालिकरूपत्वप्रकारकग्रहविशेष्येण शुक्लादिनैव रूपेणायं रूपवानिति प्रतीयते, रूपगतो पोहो विशेषधर्मो न प्रतीयते, अपोहः-आतव्यावृत्तिः । विशेषधर्मात्मिकैवातव्यावृ. त्तिः, तथा राजपुरुषादिसमुदायादपि सङ्ख्यावद्राजसम्बन्धी पुरुष इत्याकारा प्रतीतिर्भवतीति भावः। ___ नन्वेवं बोधस्य परानभिमतत्वात्कथमियं स्थितिरत आह शेषपूरणेन-*वैयाकरणानामिति । अभेदैकत्वसंख्याया व्यावृत्तौ भाने साधकमाह-*अयमित्यादिना* *पूर्वि. केति । विशेषस्य जिज्ञासा सममिव्याहृतपदार्थतावच्छेदकावान्तरधर्मावच्छिन्नप्रका. Page #395 -------------------------------------------------------------------------- ________________ ३६६ दर्पणपरीक्षासहिते भूषणसारेशक्तिरिति । तस्या एकत्वेन प्रतीतौ न्यायमाह-*कपिजलेति* ॥ दर्पणः विनोक्तजिज्ञासाया अभावादिति भावः । सा च संख्या पूर्वोत्तरपदार्थयोः सम्बन्धवद् वृत्तिशक्त्यैव । अजहत्स्वार्थावृत्तिपक्षे पूर्वपदस्य संख्याविशेषवाचकत्वे गमका भावात् । तेन 'द्विपुत्रः' 'मौगिको' 'मासजातः' 'तावकीन: 'भवद्रािमवसरः' इत्यादौ वृत्तावभेदैकत्वसंख्याया अभावेऽपि न क्षतिः । ___आधे सङ्ख्याविशेषस्यैव पूर्वपदार्थत्वात् । द्वितीये, एकमुद्गस्य क्रयकरणायोग्यत्वात् बहुत्वाऽवगतिः। तृतीये विशिष्टकालावगमाय मासपदयोगात् संख्याध्यव. सायः। चतुर्थे तवकाद्यादेशवदेकत्वावगतिः। पञ्चमे प्रकरणाद् द्वित्वावगतिः। एवं कारकमध्य इत्यादावप्यूह्यम् । एकस्य मध्यासम्भवात् । सति प्रकरणे राजपुरुष इत्यादावपि संख्याविशेषप्रकारेणैव भानम् । तदा तत्रापि न तस्य वृत्त्यर्थत्वमिति। भेदो भेदसहिता द्वित्वादिसंख्या, तदभावसहितमेकत्वमभेदैकत्वमिति व्युत्पत्या संख्यात्वे. नैकत्वमेवोपसर्जनपदार्थे भासते। *तथा । अत एव “एकवचनमुत्सर्गतः करिष्यते" इति वचनाद्राजन् अस्-पुरुष-सु-इत्यलौकिकविग्रहे एकवचनं प्रयुज्यते । यत्र तु प्रकरणादिना संख्याविशेषभानं तत्र बहुवचनमपि यथा चित्रगुरित्यादौ-चित्रा-अस्गो-अस्' इत्यभिप्रेत्योत्तरग्रन्थमवतारयति-*तस्या इति । वृत्तिघटकपदार्थोपसर्जनव्यक्तरित्यर्थः ॥ परीक्षा रकज्ञानविषयकेच्छा सामान्यज्ञानपूर्विकैव यदा 'अयं ब्राह्मणः' इति ज्ञानन्नास्ति तदा को ब्राह्मण इति,जिज्ञासा न भवति । तादृशे ज्ञानसत्वे तु भवतीति सामान्यधर्मप्रकारकज्ञा. नस्य विशेषधर्मप्रकारकजिज्ञासाम्प्रतिकारणत्वमन्वयव्यतिरेकाभ्यां कल्प्यते। एवञ्च प्रकृ. तेऽपि संख्याजिज्ञासाया अनुरोधेन सङ्ख्यात्वेनादौ प्रतीतिर्भवतीति स्वीकरणीयमिति भावः। *शक्तिरिति । समासादेरिति शेषः। समासादेः समुदायस्य शक्तिः कल्प्यमाना संख्यात्वेन-संख्याविशिष्टे कल्प्यते इति यावत्। इयं संख्या न विभक्त्यर्थः। विभक्तेः सर्वनासत्वात्, किन्तु यथा सम्बन्धः पूर्वोत्तरपदार्थयोः समुदायशक्यस्तथा संख्यापि । ___ अयमभिसंधिः-यत्र यत्किञ्चिद्रूपे विशेषरूपेण संख्याप्रतीतिरप्यस्ति, तत्र विशेष. रूपेण सख्याया वाच्यत्वमङ्गीक्रियते । यथा-तावकीनो मामकीन इत्यत्रादेशेन "तवकममकावेकवचने” इति सूत्रेणैकार्थस्यादेशविधानेनादेशेनैवैकत्वनिश्चयस्य सम्भवा. त्तत्र वृत्तः संख्याविशेषे शक्तिर्न कल्प्यते । एवञ्च द्विपुत्रो आश्विको मासजात इत्यादेरपि न संख्याविशेषवाचकता । प्रथम सा पूर्वपदवाच्यैव । द्वितीये बहूनामेव क्रयादिसाधनत्वादाथिकी बहुत्वावगतिः । यत्र तु तादृशं गमकं नास्ति, संख्याप्रतीतिस्तु भवति, तत्र वृत्तः शक्तिः अलौकिके विग्रहे 'राजन् डस् पुरुष सु' इत्याकारके औत्सगिकैकवचनस्य सत्वमाश्रित्य समाससज्ज्ञा भवति। ततो राजपुरुषादिशब्दात्सङ्ख्या. त्वेन भानस्यानुभवसिद्धत्वे तस्मिन्नार्थे समुदायस्य शक्तिरनुमेया । अभेदे एकत्वमित्यस्याभेदसहितमेकत्वमित्यर्थः । द्वित्वादिकम्भेदाभेदसहितमेकत्वत्त्वभेदसहितमेव । तच्च सङ्ख्यात्वेनोपसर्जनं भासते । एवञ्च-यत्र सङ्ख्याविशेषस्य भाने प्रकरणादिक साधकमस्ति, तत्र संख्याविशेषस्य वृत्तिवाच्यत्वमाश्रीयत इति सिद्धम् । अत एव Page #396 -------------------------------------------------------------------------- ________________ ३६७ अभेदैकत्वसंख्यानिर्णयः। बहुत्वगणनायां त्रित्वस्यैव प्रथमोपस्थितत्वात् तद्रूपेणैव भानवद् एकत्वस्य सर्वतः प्रथमोपस्थितत्वमस्तीति भावः । दर्पणः *प्रतीताविति ॥ सङ्ख्यात्वावच्छिनैकत्वप्रकारतानिरूपितविशेष्यत्वेन बोध इत्यर्थः । उपसर्जनपदार्थे सङ्ख्यात्वेनैकत्वमेव प्रतीयते, न द्वित्वादीत्यत्र दृष्टान्तमाहेति यावत् ॥ *गणनायामिति ॥ बहुत्वविशिष्टानेकसंख्यासङ्ख्याने इत्यर्थः। “कपिञ्जलानालभेत" इति वाक्येन बहुत्वव्याप्यसंख्याविशिष्टकपिालालम्भनं विधीयते । तत्र त्रयाणां चतुरादीनां वालम्भनमिति संशये बहुत्वप्याप्यत्वस्य त्रित्वादिषु सर्वेष्वविशिष्टत्वाद्यथाप्राप्तमेवालब्धव्यमिति पूर्वपक्षे चतुरादीनामालम्भनं, "मा हिंस्यात्" इति सामान्यशास्त्रविहितनिषेधस्यालभ्यतावव्यक्तीतरपरत्वरूपतात्पर्यसङ्कोचकल्पने गौरवादू गणनायां प्रथमोपस्थितत्रित्वपरतयाऽपि वचनस्य चारितार्थ्याल्लाघवाच बहुत्वेन त्रित्वमेव बहुवचनाऽर्थ इति सिद्धान्तितम् । तन्न्यायादत्रापि संख्यात्वेनैकत्वस्यैव वृत्त्यर्थत्वम्, न तु द्वित्वादीनामप्रतीयमानविशेषधर्मकैकत्वमभेदैकत्वमिति व्युत्पत्तेरिति भावः । "निजां त्रयाणाम्" (पा० सू०७४।७५ ) इत्यादिनिर्देशैरस्मिन् व्याकरणे व्याप्तिन्यायस्यैवाश्रयणेन प्रकृते संख्यात्वेनैकत्वप्रतीतिर्हि दुरुपपादेत्यपि केचित्। । ननु जिज्ञासायां शाब्दमेव सामान्यधर्मप्रकारकज्ञानदर्शनमपेक्षितमिति न नियमः। आम्रादिफलदर्शनेनाऽपि तद्रसास्वादनेच्छाया उत्पत्या व्यभिचारात्। नचैवं सामाम्यधर्मप्रकारकज्ञानस्यव हेतुत्वं विलीयेतेति वाच्यम् । आम्रदर्शनस्योद्बोधकतया तद्रसस्मरणेन तदुपपत्तेः । प्रकृते तस्या अशक्यत्वेऽपि तदव्यभिचरितद्रव्यत्वेनाऽनुमानिकतबोधसम्भवात् तादृशजिज्ञासाया अननुभवाच्च नोक्तयुक्तिवृत्तेरभेदैकत्वसंख्यार्थत्वसाधिकेत्यभिप्रेत्याह-वस्तुत इति* ॥ *अनुभवसिद्धति* । अस्य, येन तदनुरोधेन सामान्यधर्मप्रकारकज्ञानस्यावश्यकता स्यादिति शेषः । अभेदैकत्वसंख्याया वृतौ भानमिति मूलं तु प्राचीनग्रन्थानुवाद एवेति भावः। अनुभवसिद्धत्वस्य शपथनिर्णेयत्वं मत्वाह-*तथात्वे चेति ॥ वा शब्दोऽना परीक्षा चित्रगुरित्यस्यार्थबोधनाय चित्रा गावो यस्येति लौकिकविग्रहमङ्गीकुर्वन्ति । *तस्या इति । वृत्तिघटकपदार्थोपसर्जनव्यक्तरित्यर्थः । प्रतीतौ संख्यात्वनिष्ठप्रकारतानिरूपितविशेष्यतावत्संख्यावत्त्वेन शाब्दबोधः । अत्रैकत्वत्वेन न भानम्, किन्तु सामान्यरूपेण । अन्यथा राजपुरुषादिसमुदायजन्यशाब्दबोधानन्तरं विशेषजिज्ञासा न स्यात् । सामा. न्यरूपेण भासमानसंख्याया त्रित्वेन व्यवहारस्तु कपिञ्जलालम्भन्यायेन प्राथम्यादिति भावः । एतदेवोपपादयति-*गणनायामिति । यथा 'कपिञ्जलानालभेत" इति वाक्ये बहुवचनोपादाने बहुत्वव्याप्यधर्मविशिष्टानान्त्रित्वादीनामुपस्थितावपि प्रथमतो गणनायान्त्रित्वस्यैवोपस्थितिरिति तद्विशिष्टस्यैवालम्भनमेतद्वाक्यबोध्यमिति कल्प्यते । चतुरादीनां "मा हिंस्यात्" इति निषेधशास्त्रस्याधिकविषयातिरिक्तविषयकत्वकल्प. नायामाङ्गौरवमिति त्रितयविषयकतयव सङ्कोचोऽतो वचनं सार्थकमिति सिद्धान्ति. तम् । तथात्र सङ्ख्यात्वेन प्रथमतो गणनायां प्रसिद्धं यदेकत्वं तस्य भानमाश्रयणीय. मिति भावः । यदि विशेषतो जिज्ञासाऽनुभवसिद्धा स्यात्तदा भवदुक्तरीत्या सामा Page #397 -------------------------------------------------------------------------- ________________ ३६८ दर्पणपरीक्षासहिते भूषणसारे__वस्तुतस्तु जिशासैव नानुभवसिद्धा । तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेनैव हेतुहेतुमद्भावात्तत्तद्रूपेणैव वाच्यता स्यादिति ध्येयम् ॥ ५६ ॥ इति वैयाकरणभूषणसारे अभेदैकत्वसङ्ख्यानिरूपणम् ॥ ११ ॥ दर्पणः स्थायाम् । अनुभवसिद्धत्वे चेत्यर्थः ॥ *समानप्रकारकत्वेनैवेति ॥ एवकारेण विभिनप्रकारकत्वव्यवच्छेदः । तद्धर्मप्रकारकेच्छां प्रति तद्धर्मप्रकारकत्वज्ञानस्य हेतुतायाः सुखादीच्छा-थले क्लुप्तत्वात्। प्रकृते विशेषधर्मप्रकारकजिज्ञासायाः सविषयविषयकत्वेन ज्ञानप्रकारीभूतविशेषधर्मप्रकारकत्वस्यावश्यकत्वेन तत्पदार्थविशेषधर्मप्रकारकज्ञानकार्य्यतावच्छेदकाक्रान्तत्वादिति भावः॥ . *तत्तद्रूपेणैवेति ॥ एकत्वत्वादिरूपेणैवेत्यर्थः । एवकारेण संख्यासामान्यधर्मव्यवच्छेदः । इष्टापत्तिस्तु न । तथा सति शब्दादेव विशेषधर्मावगतौ जिज्ञासाया असम्भवादिति भावः। परीक्षा न्यरूपेणैकत्वद्वित्वादेर्वाच्यताङ्गीकर्तव्या। सैव तु नास्ति इत्याह-वस्तुत इत्या. दिना* । एतच्चोक्तकार्यकारणभावमभ्युपेत्य वस्तुतस्तादृशकार्यकारणभाव एव नास्ति, यत्र राजादिपदविशेषश्रवणेऽपि विशेषजिज्ञासा तच्छब्दश्रवणरूपोद्बोधकजनितोद्बोधनविशिष्टसंस्कारजातस्मरणेन तावते तत्र व्यभिचारात्। एवमामफलदर्शनमात्रेणैव स्मरणानन्तरं विशेषरसजिज्ञासाऽनुभवसिद्धा । तत्रापि व्यभिचारो द्रष्टव्यः। *जिज्ञासैवेति । 'राजपुरुष'इत्यादिश्रवणानन्तरजातशाब्दबोधोत्तरं राज्ञः, राज्ञोः, राज्ञां, वेति जिज्ञासैव नानुभवसिद्धेति । एवञ्च-कथं जिज्ञासानुरोधेन सामान्यधर्मप्रकारकज्ञानस्यावश्यकतेति शेषः । नतु जिज्ञासा जायते न घेत्यत्र निर्णयः । स यथा नेति निर्णयस्य सिद्धिः। प्रकारान्तरेण भवतीत्याशयेनाह-*तथात्वे वेति । अनुभवसिद्धत्वे वेत्यर्थः। *समा. नप्रकारकत्वेनेति । यद्धर्मप्रकारकज्ञानमादौ भवति, तद्धर्मप्रकारिकैवेच्छा जन्यते इति । समवायेन तद्धर्मप्रकारेकेच्छाम्प्रति तद्धर्मप्रकारकज्ञानत्वेन कारणता इत्याकारकः का. र्यकारणभावः । यस्य पुरुषस्य 'सद्यः शुक्रकरम्पयः' इति ज्ञानं तस्य पयो जायतामि त्याकारकेच्छा भवति यथा । एवञ्च जिज्ञासा-ज्ञानेच्छा, तस्य ज्ञानातिरिक्तविषयकत्वं याचितमण्डनन्यायेन स्वविषयज्ञानविषयत्वेनैवेति । यदि विशेषधर्मप्रकारकज्ञानेच्छा जायते इति ब्रूषे! तदेच्छायां ज्ञानभिन्नविशेषपदार्थभाननिहाय विशेषधर्मप्रकारकज्ञानपूर्वकत्वमप्यस्तीति, अनापत्या भवता स्वीकार्यमिति सङ्ख्यात्वत्वाद्यवछिन्नेऽ. स्य वाच्यत्वं भवन्मते सिध्येत, नतु सामान्यरूपेण विशेषस्यवाच्यत्वसिद्धिरित्याशयः। *तत्तद्रूपेण* एकत्वद्वित्वत्वादिविशेषरूपेण । यदिष्टापत्तिस्तर्हि विशेषधर्मप्रकारकं ज्ञानं सिद्धमेव, तदा सिद्ध इच्छाविरहाजिज्ञासोच्छेदः । तथा च मूलोच्छेदात्तत्र शक्तिकल्पनमनर्थकमिति भावः । एतेन भवत्संमताया विशेषवति जिज्ञासा नैवास्तीत्यस्य सिद्धा. नभेदैकत्वसङ्ख्याया द्वितीयमतरीत्या न सिद्धिः, तथा च प्रथममतमेव युक्तमिति Page #398 -------------------------------------------------------------------------- ________________ अभेदैकत्वसंख्यानिर्णयः । ३६९ - दर्पणः अत्र वदन्ति-तद्धर्मप्रकारकज्ञानस्य कार्य्यतावच्छेदककोटौ स्वातन्त्र्येण तद्धर्मप्रकारकत्वं सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वानुरोधान्निवेशनीयम् । अन्यथा सामान्यधर्मप्रकारकज्ञानस्योक्तजिज्ञासां प्रति हेतुत्वं विलीयेत । न च तत्र मानाभावः । जायते च कार्ये कारणे वा ज्ञाते किमस्य कार्य कारणं वा इति दीधितिकृद्वाक्यस्यैव मानत्वात् । प्रकृते विशेषधर्मस्य पारतन्त्र्येणैवेच्छांशे प्रकारत्वात्तद्धर्मप्रकारकज्ञानं विनापि सामान्यधर्मप्रकारकज्ञानात् तादृशजिज्ञासायाः सूपपादत्वात् । सामान्यधर्मप्रकारकज्ञानं तु विशेषधर्म प्रकारत्वावच्छिन्नविशेष्यकेच्छात्वमिति न गुणत्वसामान्यज्ञानात् सुखादीच्छाप्रसक्तिः, अधिकमन्यत्रानुसन्धेयम् । तथाचात्र जिज्ञासायाः सर्वसिद्धत्वे तदुपपत्तयेऽभेदैकत्वे वृत्तेर्वृत्तिरावश्यिका । एवञ्च "अभेदैकत्वसंख्याया वृत्तौ” इति मूलस्य सङ्गतिः । एतेन भेदस्य तत्सहचरितद्वित्वादेरेकत्वस्य च या प्रतीतिस्तदभाव इत्यर्थपरतया व्याख्यानं परास्तमिति ॥ १६ ॥ इति भूषणसारदर्पणेऽभेदैकत्वसंख्यानिरूपणम् ॥११॥ परीक्षा ध्वनितम्। ___ अत्रेदमवधेयम्-यदि विशेषधर्मप्रकारकजिज्ञासाम्प्रति सामान्यधर्मप्रकारकज्ञानस्योक्तरीत्याऽन्वयव्यतिरेकाभ्यां कारणत्वं युक्तमेव । अत एव दीधितिकृताऽनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयोऽर्थः सङ्गतिरिति सङ्गतिलक्षणस्योपजीवकत्वादौ सङ्गमनकाले जायते च कार्यकारणे वाज्ञाते किमस्य कारणं कार्य वेति जिज्ञासेत्युक्तम् । ज्ञानेच्छयोः सामान्यतो यः समानप्रकारकत्वेन कार्यकारणभावस्तेनान्यथासिद्धिस्तु न शङ्कनीया। तत्रेच्छानिष्ठा कार्यता तदवच्छेदकशरीरेऽधिकस्य निवेशात् । तथाहि-यस्या इच्छायाः स्वातन्त्रेण सविषयकत्वम् , ताम्प्रतीच्छाप्रकारकज्ञा. नस्य हेतुत्वम् । अत एव ब्राह्मणगृहमेतदिति ज्ञाने जाते ब्राह्मणत्वव्याप्यधर्मज्ञानञ्जाय. तामितीच्छा भवति, स्वीयैतादृशजिज्ञासाबोधनाय कस्य ब्राह्मणस्येति शब्दम्प्रयुक्त यदीच्छाज्ञानयोः कार्यकारणभावे स्वातन्त्र्यस्य निवेशो न स्यात्तदा ब्राह्मणत्वव्याप्यधर्मज्ञानज्जायतामितीच्छाया धर्मप्रकारकत्वात्ततस्तद्वयाप्यधर्मप्रकारकज्ञानस्य प्रा. क्षणवृत्तित्वाभावेन व्यभिचारः स्यात् । स्वातन्त्र्यनिवेशे तु नैतादृशेच्छायाः स्वातन्त्र्येण ब्राह्मणत्वव्याप्यधर्मप्रकारकत्वम् । किन्तु याचितमण्डनन्यायेनेव इच्छाया यकारणं ब्राह्मणत्वव्याप्यधर्मज्ञानं मदिष्टसाधनमितिज्ञानन्तज्ज्ञानविषयविषयकत्वमेव । स्वातन्त्र्यञ्चेच्छाया तद्धर्मप्रकारकत्वेनेति । एवञ्च-राजपुरुषादिपदजन्यशाब्दबोधानन्तरं यदि सङ्ख्यात्वव्याप्यधर्मज्ञानं जायतामितीच्छा भवतीति सर्वानुभवसिद्धम् । तदा तस्या इच्छाया न स्वातन्त्र्येण द्वित्वत्वादिप्रकारकत्वमिति नोक्तरीत्याभेदैकत्वसङ्ख्याया ज्ञाने नासो सम्भवः । परन्त्विच्छैव तादृशी तत्र जायते इति सर्वसहृदय सम्मतिनेत्येवैतन्मतनिराकरणबीजं युक्तमिति तत्त्वम् ॥ १६ ॥ इति श्रीमद्भूषणसारटीकायामभेदैकत्वसंख्यानिरूपणम् ॥ ११ ॥ Page #399 -------------------------------------------------------------------------- ________________ ॥ अथ सङ्ख्याविवक्षानिर्णयः॥ सङ्ख्याप्रसङ्गादुद्देश्यविधेययोः सङ्ख्याविवक्षाविवक्षे निरूपयति• लक्ष्यानुरोधात् सङ्घयायास्तन्त्राऽतन्त्रे मते यतः ॥ पश्वैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५७॥ "ग्रहं समाष्टि" इत्यत्रोद्देश्यग्रहगतमेकत्वमविवक्षितमितिवन्नास्माकमुद्देश्यविशेषणाविवक्षानियमः । धातोरित्येकत्वस्य विवक्षि. तत्वात् । उत्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि । तदा सर्वैर्विशिष्येत द्वन्द्वोत्पन्नसुबर्थवत् ॥ इति शब्दान्तराधिकरणे भट्टपादरभिधानाञ्च । “आर्द्धधातुक दर्पणः अथ सङ्ख्याविवक्षानिर्णयः। • सङ्ख्याविवक्षाऽविवक्षानिरूपणे सङ्गतिं दर्शयति-*प्रसङ्गादिति ॥ अभेदैकत्वस यानिरूपणे 'कपिञ्जलानालभेत' इत्यत्र विधेयविशेषणतया त्रित्वसङ्ख्याविवक्षायाः स्मृतत्वाद् उपेक्षानर्हत्वाच्चेत्यर्थः॥ *अविवक्षितमितीति। तद्विवक्षणे यज्ञीययावत्पात्राणां मार्जनाऽलाभ इति भावः ॥ *धातोरितीति* ॥ प्रत्ययविधौ "धातोः” (पा०सू० ३।१।८१) इति सूत्रस्थधातुपदार्थविशेषणीभूतैकत्वादेरतच्छास्त्रे अविवक्षणादित्यर्थः । अस्मच्छास्त्रे तु उद्देश्यगतविशेषणस्याविवक्षा मीमांसकानामपि सम्मतेत्याह*उत्पद्यतेति ॥ विशेष्यतेति ॥ तदास प्रत्ययार्थः सर्वैर्धात्वथैविशिष्यतेत्यर्थः । ननु नेयं युक्तिर्विवक्षासाधिका, तादृशसमुदायस्य क्रियावचनत्वाभावेन ततः प्रत्ययोत्पत्तेर्गगनकुसुमायमानत्वेन स्वत एव विवक्षासत्त्वादत आह-*आर्द्धधातुक परीक्षा ॥ अथ संख्याविवक्षानिर्णयः ।। सङ्ख्याया विवक्षायामविवक्षायाञ्च प्रसङ्गसङ्गति दर्शयति-*सङ्ख्याप्रसङ्गादिति* । प्रसङ्गश्च-स्मृतस्योपेक्षानहत्वमेव । अस्ति च प्रकृते स्मृतिसामग्री। अभेदैकत्वसङ्ख्याया निरूपणावसरे 'कपिञ्जलानालभेत' इत्यत्र विधेयविशेषणत्रित्वसङ्ख्या. विवक्षाया दर्शनात् । यथा-मीमांसकानाम्मते विधेयविशेषणसङ्ख्याविवक्षितोद्देश्यगतसंख्याविवक्षितेति नियमः, तथा नास्माकम्मते, इत्येतद्दर्शयति-*लक्ष्यानुरोधादित्यादिना । *तन्त्रातन्त्रत्वे-विवक्षाविवक्षे । *अविवक्षितमिति । यज्ञीयसर्वपात्राणां सम्माजनस्याभिमतत्वात् । *धातोरिरित्येकत्वस्य*-"धातोः" इति सूत्रजन्यबोधीयविषयतावद्धातुपदार्थतकत्वस्य । एतेनोद्दश्यगतापि सङ्ख्या विवक्षितेति सिद्धम् । स्वोक्तार्थे मीमांसकस्यापि सम्मतिं दर्शयति-*उत्पद्यतेति । *सर्वेविशेष्येतेति । स प्रत्ययार्थ इति शेषः। Page #400 -------------------------------------------------------------------------- ________________ संख्याविवक्षादिनिर्णयः । ३७१ स्येड् वलादेः” (पा० सू० ७।२।३५) इत्यत्रानुवाद्यार्द्धधातुकविशेषणस्य वलादित्वस्य विवक्षितत्वाञ्च । ___ एवं “पशुना यजेत" इतिवद् विधेयविशेषणं विवक्षितमित्यपि नियमो न । "रदाभ्यां निष्ठातो नः पूर्वस्य च द" (पा० सू० । २०४२) इत्यत्र नकारद्वयविधानानापत्तेः। तथाच 'भिन्न' इत्यत्र नकारद्वयलाभो न स्यात् । “माद्गुणः" (पा० सू०६।१८७) इत्यादावेकत्वविवक्षयैवोपपत्तौ,, “एकः पूर्वपरयोः” ( पा० सू० ६८४) दर्पणः स्येड्वलादेरितीति* ॥ *विवक्षितत्वाच्चेति ॥ अन्यथा तदुपादानवैयापत्तेरिति भावः । *एवमिति* ॥ अनुवाद्यविशेषणमविवक्षितमेव । नियमाऽनाश्रयणवदित्यर्थः । 'पशुना यजेत' इत्यत्र यज्यर्थयागस्य करणाकाङ्क्षायां साधनत्वेन पशुविधीयते । एवञ्च पशुशब्दस्य विधेयसमर्पकतया तदुपस्थितानां केषाञ्चिद् ग्रहणे केषाञ्चित् परि. त्यागे मानाभावेन पशुत्वपुंस्त्वादिवदेकत्वमपि यागसाधनत्वेन विवक्षितम् । तेन नानेकपशुकरणयागाददृष्टसिद्धिः । एवमन्यत्रापि विधेयविशेषणं विवक्षितम् । अत्र विवक्षाकारणविरहादिति मीमांसकपरिशीलिता सरणिस्तदनुसरणनियमो नाऽस्माकमित्यर्थः। ____एतच्छास्त्रे तदाश्रयणेऽनिष्ट प्रदर्शयति-*रदाभ्यामिति* ॥ *विधानानापत्तेरिति* ॥ 'न' इत्येकवचनोपस्थितैकत्वस्यापि विधेयविशेषणतया तद् विवक्षायां नका. रद्वयविधानं न स्यादित्यर्थः। ननु मास्तु नद्वयविधानमत आह-*तथाचेति* ॥ इद. ञ्चैकवाक्यतया विधानमभिप्रेत्य, वाक्यभेदेन विधानपक्षे त्वाह *आद् गुण इत्यादाविति । *एकत्वविवक्षयैवेति ॥ विधेयगुणगतैकत्वविवक्षयैवेत्यर्थः । तथा चैकग्रहणमेवोक्तार्थे ज्ञापकमिति भावः। ननु पश्वेकत्वादिविवक्षातूनां जैमिनिसम्मतत्वान्न तदाश्रयणस्यानाकरत्वमित्या. ___परीक्षा ननु नेयं युक्तिरुद्देश्यविशेषणविवक्षासाधिका समुदायस्य क्रियावाचकं विना धातुत्वादत आह-*आर्द्धधातुकेति*। *विवक्षितत्वादिति । अन्यथा 'अवश्यलाव्यम्' 'अवश्यपाव्यम्' इत्यादाविडागमापत्तिः। - मीमांसकोक्तनियममपि खण्डयति-*एवमिति । 'पशुना यजेत' इत्यनेम याग. स्य यज्धात्वर्थस्य या साधनाकाङ्क्षा निवर्त्यते । एवञ्च विधेयसमर्पकस्य पशुनेत्यस्य पुंस्त्वैकत्वविशिष्टपशुबोधकतया द्वयोरपि विशेषणयोर्विवक्षा, नत्वेकस्य इति छाग्या यथा न यागाङ्गत्वम् , न तथानेकपशूनामपीति सिद्धान्तो मीमांसकानाम्, तदर्शनेना. स्माकं सर्वत्र विधेयविशेषणविवक्षेति दर्शयति-*रदाभ्यामिति । *लाभो न स्यादिति । तद्-एकवाक्यतया विधानमिति पक्षे । यदि तु भिन्नवाक्यतया विधानम् , तदा नास्माकं दोषः, अत आह-*आद्गुण इति*। *एकत्वविवक्षया*-विधेयगतैक. त्वस्य विवक्षया । एक्लैकग्रहणमिह शास्त्रे मीमांसकोकनियमस्यानाश्रयणे बीजमिति दर्शितम्भवति। ननु 'अनाकरम्' इति मूलोपात्तमसङ्गतम् , 'पशुना यजेत' इत्यत्र यदेकवचनन्तद Page #401 -------------------------------------------------------------------------- ________________ ३७२ दर्पणपरीक्षासहिते भूषणसारेइत्येकग्रहणवैयापत्तेश्चेति भावः । शब्दार्थस्तु सङ्ख्याया लश्याऽनुरोधात्तन्त्रातन्त्रे यतो मते, अतः पश्वैकत्वाधिकरणोक्तहेतूनामाश्रयणं नास्मत्सिद्धान्तसिद्धमिति । आदिना ग्रहकत्वसंग्रहः ॥५७॥ ननु विधेयविशेषणविवक्षा आवश्यकी । अन्यथा 'सुद्ध्युपास्य' इत्यादावनन्तयकाराद्यापत्तेः । 'भिन्न' इत्यत्र नकारद्वयवदन्येषामप्यापत्तेः । “एकः पूर्वपरयोः” इत्यत्रैकग्रहणश्च स्थानिभेदादादेशभेवारणायेत्यभिप्रेत्याहविधेये भेदकं तन्त्रमन्यतो नियमो न हि ग्रहकत्वादिहेतूनामाश्रयणमनाकरम् ॥५८॥ भेदकं विशेषणम् ॥ तन्त्रं विवक्षितम् । विधेयविशेषणं विवक्षितमित्यस्तु तथाऽप्यन्यतः--अनुवाद्यस्य नियमो न हि । क्वचित् तन्त्रं क्वचिन्नेत्यर्थः। दर्पणः शङ्कामपाकरिष्यन् योजनाप्रदर्शनमिषेणाऽऽकरपदार्थ व्याचष्टे-*शब्दार्थस्त्वित्यादि। पश्चकत्वाऽधिकरणोक्तहेतूनामिति ॥ 'पशुना यजेत' इत्यत्र विधेयगतैकत्वस्याविवक्षणे पश्वन्तरालम्भे प्रयोगप्रांशुभावबाधेन यागवैगुण्यापत्तिः । गुणानुरोधेन यागाsवृत्तौ प्रधानत्वभङ्गापत्तिर्यावत्पशुकरणकयागासम्भवश्चेत्येवमादयो दोषा हेतवस्तेषामित्यर्थः । सिद्धान्तसिद्धमिति॥ सिद्धान्तार्थप्रतिपादकमहाभाष्यादिसिद्धमित्यर्थः॥१७॥ *आदेशभेदवारणायेति* ॥ वस्तुतस्तु नैकग्रहणं विधेयगतविशेषणाविवक्षायां तन्त्रम् । “अनयोः पूलयोः कटं कुरु" इत्यादाविव "आद् गुण” इत्यादावपि "पूर्वपरयो" इति द्वन्द्वनिर्देशेनैकवाक्यतयैवोभयोः स्थाने एकविधानसम्भवात् स्थानिभेदा परीक्षा थंकत्वविवक्षाया जैमिनिसम्मतत्वादतस्तदर्थमाह-*शब्दार्थस्त्वित्यादिना । ऋतूनामिति* । यदि 'पशुना यजेत' इत्यत्रैकत्वमविवक्षितं स्यात्तदा यागोक्तक्रमस्य पञ्चन्तरालम्भने बाधेन यागवैगुण्यापत्तिः, क्रियायामभ्यावृत्या यागस्याप्यापत्तिरिति यागस्य प्रधानस्य गुणानुरोधेनावृत्तौ प्राधान्यस्य भङ्गः, यावताम्पशूनां यागकरणत्वासम्भवश्चेति हेतूनामित्यर्थः । *सिद्धान्तसिद्धमिति । सिद्धान्तप्रतिपादकमहाभाष्यादिसिद्धमित्यर्थः ॥२७॥ *स्थानिभेदादिति । "पूर्वपरयोः” इति द्विवचनात्तस्य स्थानिवत्त्वेनेतरेतरयोगद्वन्द्वे उभृतावयवभेदकसमुदायस्थानिवत्वादिति भावः । *आदेशभेद इति । सूत्रकाररीत्येदम् । भाष्यकाररीत्या तु-यथा-'अनयोः पूलयोः कटं कुरु' इत्यत एकस्यैव कटस्य करणत्वप्रतीतिस्तथा पूर्वपरयोगुणो भवतीत्यतोऽप्येकस्यैव गुणस्य प्रतीतिर्भविष्यतीति रीत्या सौत्रमेकग्रहणं प्रत्याख्यातम् । Page #402 -------------------------------------------------------------------------- ________________ संख्याविवक्षादिनिर्णयः । ३७३ ग्रंहकत्वादौ यो हेतुर्वाक्यभेदादिस्तस्यात्राश्रयणमनाकरम् । एकत्वविशिष्टं धातुं वलादित्वविशिष्टमार्द्धधातुकचोद्दिश्य प्रत्ययेडागमादेविधिसम्भवादिति भावः ॥ ५ ॥ नन्वेवं भिन्न इत्यत्र नकारद्वयलाभो न स्यादित्यत माह-- रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः । क्षति वास्ति तन्त्रत्वे विधेये भेदकस्य तु ॥५९॥ दर्पणः न्नानेको गुण इत्येकग्रहणस्य भाष्ये प्रत्याख्यानादिति रहस्यम् । *वाक्यभेदादिरिति* ॥ “प्राजापत्या नव ग्रहा” इति वाक्यविहितग्रहोदेशेन सम्मार्गो विधीयते । "ग्रहं सम्माटिं” इत्यनेन तत्रानुवाद्यग्रहैकत्वविवक्षायामुत्पत्तिवाक्यगतसव्याया विरोधाद् वाक्यस्य यो भेदो विभिन्नविशेष्यकबोधजनकत्वं तदापत्त्यादीत्यर्थः ॥ अन्येतु-"ग्रहं संमाष्टि" तं चैकमित्याकारकवाक्यभेदापत्तिमाहुः। ___ आदिपदेनोत्पत्तिवाक्यगतनवत्वसङ्ख्यया ग्रहपदार्थस्य परिच्छिन्नत्वात्परिच्छेदकासाभावस्य ग्रहमिति द्वितीयया संस्कार्यत्वलक्षणाप्राधान्यबोधनात् “प्रतिप्रधान गणाऽऽवत्तिः" इति न्यायाद्विनिगमनाविरहात् सोमावसेकनिरासफलकसम्मार्गम्य सवैर्य हैरपेक्षणाद्विधेयपश्वादिविशेषणवत् क्रियाङ्गत्वाभावेन तद्वैकल्यप्रयुक्तक्रियावैकल्याप्रसक्तेश्च तद्विवक्षाविरहबीजस्य च संग्रहः । अनाकरमिति पूर्ववत् । इडागमादेरि. त्यादिना "उदीचामातः स्थाने यकपूर्वायाः" (पा० सू०६।३।४६ ) इति विहितेत्त्वसंग्रहः । तत्राऽऽकारस्थानिकमातमुद्दिश्येत्वविधानात् । अत एवेनिषेधविधायक परीक्षा *वाक्यभेदादिरिति । अयम्भावः-'ग्रहं सम्माष्टि' इत्यनेन वाक्येन 'प्राजापत्या नव ग्रहाः' इति वाक्यविहितनवग्रहोद्देशेन सम्मार्गो विधीयते । यदि प्रकृतशब्दोपात्तमेकत्वं विवक्षितं स्यात् , तदोत्पत्तिवाक्यप्रतिपाद्यनवत्वसङ्ख्यया विरोधः स्यादिति 'ग्रहं सम्मार्टि' इति वाक्यस्यावृत्तिं कल्पयित्वा तत्तद्ग्रहविशेष्यकबोधजनकतास्य वाच्या । तथा च सम्मार्गविधायकवाक्यस्य ग्रहभेदेन भेदापत्तिरिति । किञ्च 'ग्रहं सम्मार्टि' तच्चैकमिति रीत्या वचनाभिव्यक्तिः स्यात् , तथा च वाक्यभेद स्पष्ट एव । आदिपदेन सङ्ख्याविवक्षाबीजाभावसङ्ग्रहः । तथाहिसङ्ख्यायाः सङ्ख्येयपरिच्छेदकत्वेन परिच्छेदकाकाङ्क्षया तस्याः सम्बन्धो वाच्यः, साचात्र नास्ति । ग्रहाणां यागाङ्गत्वबोधकं यत् "प्राजापत्या नवग्रहा" इति वाक्यं तेन नवत्वस्य प्राप्तत्वेन परिच्छेदकसङ्ख्यान्तरानपेक्षणात् । किन्तु ग्रहाणां संस्कार्य. त्वलक्षणप्राधान्यादू गुणस्य संमार्जनस्यावृत्तिरेव भवतीति । *अत्र*-एतच्छास्त्रघटकपदबोध्यसङ्ख्याविषये । *इडागमादेरिति । आदिपदेन "अनचि च" इति सूत्रविहितद्वित्वस्य सङ्ग्रहः । अत एव “एकाच उपदेशेऽनुदात्तात्" इति सूत्रव्याख्यानावसरेऽच इत्येकत्वविवक्षयेति व्याख्यानस्याप्युपपत्तिः ॥ १८ ॥ *एवम्*-मीमांसकोक्तरीत्या नियमाभावे । *न स्यादिति* । “भ्रस्जोरोपधयो" Page #403 -------------------------------------------------------------------------- ________________ ३७४ दर्पणपरीक्षासहित भूषणसारे चकारसूचितं--निष्ठातस्य नः, पूर्वस्य दकारस्य च न इति वाक्यभेदमादाय नकारद्वयलाभ इत्यर्थः ॥ ५ ॥ इति वैयाकरणभूषणसारे सङ्ख्याविवक्षादिनिर्णयः ॥ १२ ॥ दर्पणः "एकाच्” (पा० सू० ७।२।१०) इति सूत्रेऽच इत्येकत्वविवक्षादरेणानेकाच्त्वोपदेशव्यावृत्तिग्रन्थकृद्भिर्व्याख्याता। ___ वस्तुतस्तु ग्रहैकत्वदृष्टान्तेनात्राप्यनुवादविशेषणानां क्वचिदविवक्षाऽस्तु, तदितरविशेषणानां विवक्षायां तु न किञ्चिद् बाधकम् । मीमांसायामनुवाद्यांशे जातिलिङ्गससन्याऽतिरिक्तविशेषणास्यादर्शनात् । एषाञ्चोत्पतिवाक्यादेवावगमेनाऽऽनुषङ्गिकत्वाद. विवक्षा युज्यते । प्रकृते तु न तथेति बोध्यम् ॥ १८ ॥ ५९॥ इति भूषणसारदर्पणे संख्याया विवक्षादिनिर्णयः ॥ १२ ॥ परीक्षा इत्यत्रैव विधेयाकारगतैकत्वस्य विवक्षयाऽकारद्वयलाभो न स्यादित्यर्थः ॥ ५९॥ . इति श्रीमद्भुषणसारटीकायाम्परीक्षाभिधायां सङ्ख्याविवक्षादिनिर्णयः ॥ १२ ॥ सङ्ख्याति - Page #404 -------------------------------------------------------------------------- ________________ अथ क्त्वाद्यर्थनिर्णयः॥ क्त्वाप्रत्ययादेरथं निरूपयति । अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः ॥ समानकर्तृकत्वादि द्योत्यमेषामिति स्थितिः ॥६॥ तुमादयः-तुमुन्नादयः। प्रकृत्यर्थे-भावे । आदिना क्त्वादेः संग्रहः। भावे इत्यत्र मानमाह-*अव्ययकृत इति* ॥ “अव्ययकृतो भावे" इति वात्तिकादित्यर्थः। ननु “समानकर्तृकयोः पूर्वकाले” इत्यादिसूत्राणां का गतिस्त दर्पणः अथ क्त्वाद्यर्थनिर्णयः । अवसरसङ्गतिं क्त्वाद्यर्थनिरूपणे दर्शयति-*क्त्वाप्रत्ययादेरिति । प्रकृत्यर्थस्य फलेऽपि सत्त्वादाह-*भाव इति । तत्रापि सत्त्वभूते व्यापारे एव, न तु पूर्वकालादावित्यर्थः। पाक इत्यादाविव, पक्तुं, पक्त्वेत्यादिजन्यबोधे भावांश वैलक्षण्यस्याननुभवादिति भावः। वस्तुतस्तु पक्त्वेत्यादिजन्यबोधे भावे लिङ्गसङ्ख्यानन्वयित्वात् तदनुभूयत एव । एवं 'पक्तुमित्यादौ फलार्थकतुमुना साध्यत्वेन तद्बोधाच्चेत्युक्तप्रायमिति ॥ *का गतिरिति* ॥ तत्र पूर्वकाल इत्याधुपादानात् पूर्वकालादीनां वाच्यता प्रतीयते । भाव परीक्षा अथ क्त्वाद्यर्थनिर्णयः॥ धातोरित्यनुवादगतैकत्वविवक्षानिरूपणप्रस्तावे उक्तम् , तेन तत्प्रकृतिकप्रत्ययानां स्मृतत्वेन तद्धटकक्त्वाप्रत्ययार्थनिरूपणं करोति-*अव्ययकृत इत्यादिना* । "अव्ययकृत" इत्यस्य भाव इति शेषः । तेन फले प्रकृत्यर्थस्य सत्त्वेऽपिन क्षतिः। पक्क इत्यादौ कर्मादिप्रत्ययार्थत्वदर्शनादव्ययेति विशेषणम् । अव्ययसंज्ञाप्रयोजककृत इत्यथः । नच पाक इत्यादौ घनादेरपि भावाभिधायकत्वमस्ति तेषामव्ययेति विशेषणेऽसङ्ग्रह इति वाच्यम्। लिङ्गानन्वय्यर्थप्रतिपादकत्वेन क्त्वाप्रत्ययसजातीयनिरूपणस्य प्रकृतत्वात् का गतिरिति । तथाऽभिधानेन समानकर्तृकत्वस्य "कर्तरि कृत्" इत्यत्रैव वाच्यत्वस्य प्रतीतेरिति भावः। *अव्ययकृत इत्युक्तेरिति । अनेन मूलकृता समानकतकयोर्धात्वर्थयोरपूर्वकालावच्छिन्नार्थप्रतिपादकाद्धातोः प्रत्यय इति सूत्रजन्यशाब्दबोधे जातेऽर्थाकाङ्कायाम् "कर्तरि कृद्” इत्यस्यानुपस्थित्यर्थम् "अव्ययकृतो भावे" इति वार्तिकारम्भे सति समानकर्तकत्वादेः शाब्दबोधे भानं संसर्गविधयैव स्वीका. यमिति ध्वनितम्। Page #405 -------------------------------------------------------------------------- ________________ ३७६ दर्पणपरीक्षासहिते भूषणसारेपाह-*समानकर्तृकत्वादिति* ॥ अयम्भावः-'भोक्तुं पचति, भुक्त्वा व्रजतीत्यादावेकवाक्यता सर्वसिद्धा भोजनपाकक्रिययोर्विशेषणविशेष्यभावमन्तरेणानुपपन्ना । अन्यथा भुङ्क्ते व्रजतीत्यादावप्येकवाक्यतापत्तेः। तथाच तयोविशेषणविशेष्यभावनिरूपकः संसगों, जन्यत्वं सामानाधिकरण्यं, पूर्वोत्तरभावो, व्याप्यत्वञ्चेत्यादिरनेकविधः । तथाच भोक्तुं पचति, भुक्त्वा तृप्त इत्यादौ भोजननिका पाकक्रिया, भोजनजन्या तृप्तिरिति बोधः। अत एव जलपानानन्तर्यस्य तृप्तौ सत्त्वेऽपि, पीत्वा तृप्त इति न प्रयोगः । सामानाधिकर दर्पणः मात्रार्थकत्वे तु तदनुपपत्तिरिति भावः ॥ *समानकर्त्तकत्वादीति ॥ तथाच समानकतकयोर्धात्वर्थयोर्मध्ये पूर्वकालसम्बन्धी योऽर्थस्तद्वाचकात् क्त्वेत्यर्थेऽर्थाकाङ्क्षायां "कर्तरि कृदू" इत्यस्य प्रसक्त्या तद्बोधनाऽर्थ वातिकाऽऽरम्भेण भावस्यैव वाच्यता निर्धार्यते । कर्तुः प्रत्ययविशेषणत्वे तु समानकर्तरीत्येव ब्रूयात् । सूत्रोपात्तानां तु थोत्यत्वमेव, वर्तमानत्वादिति भावः। __ वस्तुतस्तु न द्योत्यतायामपि निर्भरः, संसर्गमर्यादयैव तद्भानसम्भवादित्याह*अयम्भाव इति ॥ *एकवाक्यतेति* ॥ “समानकर्त्तकयोः” (पासू० ३।४।२१) इत्यादिसूत्राणां धातुसम्बन्धाधिकारीयत्वादिति भावः ॥ *अनुपपन्नेति ॥ विशेष्यविशेषणत्वयोः संसर्गविषयतानिरूप्यत्वेन सम्बन्धं विना विशिष्टबुद्धरेवासम्भवात् सम्बन्ध भानं तद्वाच्यतां विनाऽप्युपपन्नमिति भावः ॥ *अन्यथेति ॥ विशेष्यविशेषणभावमन्तरेणाऽप्येकवाक्यताभ्युपगमे इत्यर्थः ॥ *सामानाधिकरण्यमिति ॥ एकाश्रयवृत्तित्वमित्यर्थः ॥ *पूर्वोत्तरभावः । स्वोत्तरसमयोत्पत्तिकत्वम् , स्वपूर्वसमयवृत्तित्वं वा॥ *व्याप्यत्वम् । अविनाभावित्वम् ॥ ___ तुमुनाद्यन्ते शाब्दबोधदिशमाह-*तथाचेति* ॥ *भोजनजनिकेति* ॥ जनकत्वस्यात्र संसर्गतेति स्फुटीकर्तृमियमुक्तिः । बोधाकारस्तु, भोजनविशिष्टेत्येव जनकत्व. स्यापदार्थतया अप्रकारत्वात् । क्रिययोर्जन्यजनकभावस्यापि सम्बन्धत्वे युक्तिमाह*अत एवेति ॥ जन्यत्वस्य संसर्गत्वाभ्युपगमादेवेत्यर्थः ॥ जलपानाऽऽन्तर्यस्येत्यनेन परीक्षा तदेतदाह-*अयम्भाव इत्यादिना । *एकवाक्यतेति । “समानकर्त्तकयोः इति सूत्रोपात्तयोरुभयपदार्थयोर्विशेष्यविशेषणभावस्यावश्यकत्वादिति भावः । नतु पदसमूहत्वमेवैकपाकत्वसिद्धौ च । *तथा चेति । सम्बन्धस्यानेकविधित्वे चेत्यर्थः। *जन्यत्वमिति । जन्यत्वपदजनकत्वस्याप्युपलक्षकम् । एवञ्च यत्र जनकत्वं संसर्गस्तत्र तस्य संसर्गस्य विशेषणनिष्ठत्वनियामकः संसर्गो जन्यत्वरूपः। विशेष्यनिष्ठत्वञ्चाश्रयतया जन्यत्वस्य, तत्वे तूभयनिष्ठत्वं जनकत्वाश्रयत्वाभ्याम् । *अत एव-जन्यजनकभावस्य संसर्गत्वस्वीकारादेव । जन्यजनकभावस्य संसर्गविधया भानमेवादृष्टवाक्यजन्यशाब्दबोधे भवतीति बोधनाय भोजनजन्येत्युक्तिः। शाब्दबोधस्तु-भोजनविशिष्टा पचिक्रियेत्यायेव । *सामानाधिकरण्यस्यापीति* । अपिना Page #406 -------------------------------------------------------------------------- ________________ क्त्वाद्यर्थनिर्णयः । ३७७ ण्यस्यापि संसर्गत्वेनार्थात् समानकर्तृकत्वमपि लब्धम् । भुक्त्वा व्रजतीत्यादौ पूर्वोत्तरभावः सामानाधिकरण्यश्च संसर्ग इति भोजनसमानाधिकरणा, तदुत्तरकालिकी व्रजनक्रियेति बोधः । अधीत्य तिष्ठति, मुखं व्यादाय स्वपितात्यादौ चाध्यनव्यादानयोरभावकाले अप्रयोगात्, यदा यदाऽस्य स्थितिः, स्वापश्च तदा तदाध्ययनं मुखव्यादानञ्चेतिकालविशेषाऽवच्छिन्नव्याप्यत्वबोधाद् व्याप्यत्वं सामानाधिकरण्यञ्च संसर्गः । " दर्पणः पूर्वोत्तर भावसम्बन्धसत्वं बोध्यते । तज्जन्यत्वविवक्षायान्तु प्रयोग इष्ट एवेति भावः । सामानाधिकरण्यस्य संसर्गताऽभ्युपगमस्तु यत्र पूर्वापरीभावापन्नभोजनतृप्त्योर्वैयधिकरण्यं तत्र भुक्त्वा तृप्यतीतिप्रयोगवारणाय अव्यवहितोत्तरत्वस्य तु दिनान्तरितपूर्वकालवृत्तिसमानाधिकरणभोजनादिक्रियामादाय क्त्वावारणाय । व्यवधानञ्च - तात्पवशाद्दण्डमुहूर्त्तादिना ग्राह्यम् । अतो भोजनानन्तरं दण्डादिव्यवधानेऽपि न तादृशप्रयोगानुपपत्तिरिति बोध्यम् । ननु पूर्वोत्तर भावस्य सम्बन्धताभ्युपगमेऽध्ययनकाले 'अधीत्य तिष्ठति' इति प्रयागानुपपत्तिः । स्थितावध्ययनानन्तर्य्याभावात् । एवम् 'मुखं व्यादाय स्वपिति' इति न स्यात् । ओष्ठपुटविभागरूपव्यादानकाल एव स्वापादिसत्त्वे तादृशप्रयोगस्येष्टत्वेन व्यादानस्य स्वापपूर्वकत्वाभावादत आह- अधीत्य तिष्ठतीत्यादि* ॥ *कालविशेषेति ॥ विभिन्नकालिकयोः कालिकसम्बन्धवटितव्याप्यव्यापकभावाभावेन तत्सम्बन्धावच्छिन्नत्वस्यापि संसर्गतोपगन्तव्या । ८ न केवलं तत्र व्याप्यत्वस्यैव संसर्गता, किन्तु सामानाधिकरण्यस्यापीत्याह*सामानाधिकरण्यञ्चेति* ॥ नातो विभिन्नकत्तं कैककालिकाऽध्यनादिकमादायोक्तप्रयोगापत्तिः । इत्थञ्च -“समानकर्त्तृकयोः” ( पा० सू० ३।४।२१। ) इति सूत्रविहितक्त्वा - न्तस्थले समानकर्त्तकत्वरूपसामानाधिकरण्यसंसर्गस्य शाब्दबोधविषयता सार्वत्रिकी । जन्यत्वादीनां तु तात्पर्य्यवशात् क्वाचित्की सेति भावः ॥ अन्ये तु — सामानाधिकरण्यस्यैव पूर्वोत्तर भावस्यापि क्त्वान्तजबोधविषयता सार्व परीक्षा क्वचित्सामानाधिकरण्यस्य पृथक् संसर्गत्वाभावसमुच्चयः । तेन जन्यजनकभावस्य सामानाधिकरण्यनियतत्वेन विभिन्नपुरुषकर्त्तृकक्रियाद्वयमादाय 'न भुक्त्वा तृप्तः" इति प्रयोग इति ध्वनितम्। तच्च सामानाधिकरण्यं क्रिययोः स्वस्वनिरूपितकर्त्तृत्वसम्बन्धघटितम्बोध्यम् । इति बोध इति । एवं रीत्या विशिष्टबुद्धिनियामकः संसर्गः । *अभावादिति * - अप्रयोगादित्यर्थः । *संसर्ग इति । केवलसामानाधिकरण्यस्य संसर्गत्वे कालिकैकदिवसमात्र एवाध्ययनम् स्थितिस्त्वा फाल्गुनम्, तत्राधीत्य तिष्ठतीति प्रयोगापत्तिः, अतो व्याप्यत्वस्यापि संसर्गत्वस्वीकार इति बोध्यम् । यः पुरुषः सकृदेव चैत्रगृहे समागतो भोजन कृत्वा गतस्तत्रापि भुक्त्वा गत इति प्रयोगो भवति, तत्र व्याप्यत्वस्य संसर्गत्वे न फलम्, किन्तु - सामानाधिकरण्यसहितोत्तरत्वमेव । तच्च ४८ द० प० , Page #407 -------------------------------------------------------------------------- ________________ ३७८ दर्पणपरीक्षासहिते भूषणसारेएवञ्चान्यलभ्यत्वान्न सूत्रात्तेषां वाच्यत्वलाभ इति युक्तम्-"अव्यय कृतो भावे” इति । __ एवञ्च प्रकृत्यर्थक्रिययोः संसर्गे तात्पर्य्यग्राहकत्वरूपं द्योतकत्वं क्त्वादीनाम् । अत एव 'समानकर्तृकयोः” इति सूत्रे स्वशब्देनोपा. त्तत्वान्नेति भाष्यप्रतीकमादाय पौर्वापर्यकाले द्योत्ये क्त्वादिर्विधीयते, न तु विषय इति भाव इति कैयटः। दर्पणः त्रिकी। मुखं व्यादायेत्यादौ 'सुप्त्वा मुखं व्यादत्ते' इत्यत्रेव व्यादानोत्तरमपि स्वा. पानुवृत्तेस्तथा पौर्वापर्य्यमादाय प्रयोगोपपत्तिः ॥ एवञ्चोक्तसम्बन्धद्वयातिरिक्तसम्बन्धमानस्यैव काचित्कत्वमित्याहुः । न च ___ अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा॥ इत्यत्र मत्प्रसूतिमनाराध्य ते प्रजा न भविष्यतीत्यर्थाद्विभिन्नकर्त्तकादपि क्त्वादर्शनात् समानकर्तकत्वस्यापि क्त्वान्तजन्यबोधविषयता न सार्वत्रिकीति वाच्यम् । सूत्रस्वारस्यात् तादृशस्थले स्थित्यादिक्रियामध्याहृत्याऽनाराध्य स्थितस्येति बोधस्याऽभ्युपगमेन सार्वत्रिकत्वाऽक्षतेरिति ॥ ___ *अन्यलभ्यत्वादिति* ॥ आकाङ्क्षानियम्यत्वाद्वाक्यशक्तिलभ्यत्वाद्वेत्यर्थः॥ *क्रिययोः संसर्ग इति ॥ प्रकृत्यर्थविशेषत्वरूपस्य तस्यासम्भवेऽपि निरुक्तं यत्तदिह बोध्यमित्यर्थः ॥ *अत एवेति ॥ क्त्वाः समानकर्तृकत्वादिद्योतकत्वादेवेत्यर्थः ॥ *भाष्यप्रतीकमिति ॥ 'इह कस्मान्न भवति पूर्व भुङ्क्ते पश्चादू व्रजताति ? स्वशब्दे. नोपात्तत्वात्' इति भाष्यम् । तत्र समानकर्त्तकत्वेन पूर्वकालत्वेन च क्त्व आपादनम् ॥ *न तु विषय इति ॥ न तु प्रयोगघटकयत्किञ्चित्पदबोध्य इत्यर्थः। 'उक्तार्था परीक्षा स्वध्वंसाधिकरणक्षणवृत्तित्वम् । एवञ्च पञ्चम्याम्भोजनं कृत्वा स्थितेऽष्टम्याम्प्रातभुक्त्वा गते 'भुक्त्वा गत' इति प्रयोगापत्तिवारणायाव्यवहितत्वसहितमुत्तरत्वम्बो. ध्यम् । तच्चाव्यवधानम्प्रसिद्धम् । स्वध्वंसाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसानधि. करणत्वे सति स्वाधिकरणक्षणध्वंसाधिकरणत्वरूपम् । घटिकामुहर्त्तदिनादिव्यवधानेऽपि भुक्त्वा व्रजति' इति प्रयोगस्येष्टत्वात् । अतस्तात्पर्य्यविषयघटिकादिकालमादाय स्वाधिकरणक्षणध्वंसाधिकरणक्षणादिकालावसानोत्पत्यधिकरणक्षणध्वंसोत्पत्यधिकरणक्षणवृत्तित्वरूपमेव । एवं कालविशेषावच्छिन्नव्याप्यत्वकथनेन कालिकसम्बन्धाव. च्छिन्नव्याप्यव्यापकभावः सूचितः । तथा सति भिन्नपुरुषकर्त्तकक्रियामादाय 'भुक्त्वा व्रजति' इति प्रयोगवारणाय सामानाधिकरण्यस्यापि संसर्गत्वमिति बोध्यम् ।। ___*एवञ्च*-उक्तानां संसर्गविधया भानसिद्धव । *अन्यलभ्यत्वादिति*-आ. कासालभ्यत्वादित्यर्थः । *अत एव । क्त्वः समानकर्तकत्वादिद्योतकत्वादेव । *भाष्यप्रतीकमिति । तत्र "इह कस्मान्न भवति, पूर्वम्भुङ्क्ते पश्चादू बजतीति, स्वशब्देनोक्तत्वात् । नच तीदानीमिदम्भवति पूर्वम्भुङ्क्त्वा ततो व्रजतीति, Page #408 -------------------------------------------------------------------------- ________________ क्त्वाद्यर्थनिर्णयः। ३७९ यक्षु “समानकर्तृकयोः (पा० सू० ३।४।२७) इति सूत्रात् समानकर्तृकत्वं क्त्वावाच्यम् । अन्यथौदनं पक्त्वाऽहं भोक्ष्ये इत्यत्र मये दर्पणः नामप्रयोग' इति न्यायादिति भावः ॥ तथा च "समानकर्तकयोः” इति निर्धारणे षष्ठी । “पूर्वकाल" इति च षष्ठयर्थे बहुव्रीहिरिति कैयटाशयः । वाक्यार्थस्तु पूर्वमेवोक्तः । न च पूर्वकालस्य पूर्वादिशब्देनाऽभिधाने क्त्वोऽसाधुत्वे 'पूर्व भुक्त्वा पश्चाद् व्रजति' इत्यत्र क्त्वाऽनुपपत्तिस्तदवस्थैवेति वाच्यम् । भाष्यकृतैव तत्समाधानात्। तथाच भाष्यम्-"नैतत् क्रियापौर्वकाल्यं, किं तर्हि कर्तृपौर्वकाल्यमेतत् । पूर्वमसौ भुक्त्वाऽन्येभ्यो ब्रजितृभ्यः पश्चाद् व्रजति" इति अन्येभ्यो भोक्तृभ्यः पूर्व भुक्त्वाऽपरेभ्यो गन्तृन्यः पश्चाद् व्रजतीत्यर्थे साधनाऽन्तरक्रियापेक्षे पौर्वकाल्यमादाय "विभाषाग्रह" (पा०सू० ३।१।१४३) इति क्त्वः सम्भव इति तदाशयः । __नव्यास्तु-'पूर्वकाल' इति कर्मधारयः। 'भूत' इति तु नोक्तम् । पर्यायशब्दत्वात् तेन रूपेण बोधाननुभवाच्च । तथाच समानकर्त्तकयोरर्थयोर्मध्ये पूर्वकालविशिष्टा. र्थवृत्तिधातोः क्त्वेति सूत्रार्थः । तथाच पूर्वकालः क्त्वार्थो धात्वर्थप्रकार एव । अत एव समानकर्तृकत्वेन पूर्व भुङ्क्ते पश्चाद् व्रजतीत्यत्र क्त्वाप्रत्ययमाशय स्वशब्देनोपादितत्वान्नेति परिहृतं भाष्ये । पूर्वशब्दस्य पूर्वकालोऽर्थो, न तु धातोस्तत्र वृत्ति. रिति तदर्थो, न तु 'उक्तार्थानामप्रयोग' इति । अत एव "इह कस्मान्न भवत्यास्यते भोक्तुम्" इत्यग्रिमशङ्कासङ्गतिः। अन्यथा फलार्थकतुमुना पूर्वकालत्वस्यासिक्रियायां द्योतनात् तदसतिः स्पष्टव । पूर्वकालत्वस्य ततोऽप्रतीतौ तु कथं क्त्व आपादानं वास. रूपन्यायेन लटाऽसाधितमित्यन्यत् ॥ एवञ्च षष्ठ्याः सम्बन्ध वाचकत्ववदमीषामपि सम्बन्धवाचकत्वं सुवचमित्याहुः । ___अत्रेदं चिन्त्यम्-ननु धातोस्तत्र वृत्तिरित्यर्थे, आस्यते भोक्तुमित्यग्रिमशङ्कानुपपतेरुपष्टम्भकत्वेनोपन्यसनं शिथिलम् । यतः कैयटमतेऽप्यस्यार्थे पूर्वकालसम्बन्धित्वस्य केनचिदनभिधानेन "उक्तार्थानामप्रयोगः" इति न्यायानवतारादाशकोत्थानसम्भवात् । प्रत्ययवाच्यस्य कृत्प्रत्ययस्थले धात्वर्थविशेष्यताया नव्यानामपि सम्मतत्वेन पूर्वकालः क्त्वाऽर्थों धात्वर्थप्रकार एवेति पूर्वग्रन्थनिरोधश्च । न च द्योतकत्वाऽभ्युपगमादुक्तसङ्गतिः । षष्ठयाः सम्बन्धवाचकत्ववदमीषामपि सम्बन्धवाचकस्वमित्युत्तरग्रन्थविरोधात् । न च तदपि सुवचम् । समानकर्तकत्वादीनां वाच्यतायाः सूत्रादलाभात् । तस्मात् कर्मप्रवचनीयवत् क्रियासम्बन्धविशेषकत्वमेव क्त्वादीनामिति कैयटोक्तमेव सम्यगिति। ___ मतान्तरं दूषयितुमुपन्यस्यति-*यत्विति । *क्त्वावाच्यमिति* ॥ “समानकर्तृकयोः पूर्वकाले” (पा०सू० ३।४८१ ) इत्युभयोः पदयोर्बहुव्रीहित्वाविशेषेण पूर्वकालस्य वाच्यत्वमितरार्थस्य द्योत्यत्वमिति वैषम्ये बीजाभावादिति। वैषम्ये बाधक . परीक्षा नैतत्-क्रियापौर्वकाल्यम्-किन्तर्हि कर्तपौर्वकाल्यमेतत्, पूर्व त्वसौ भुक्त्वाऽन्येभ्यो भोक्तृभ्यस्ततः पञ्चाद् व्रजतीति, अन्येभ्यो व्रजतृभ्यः" इति भाष्यघटकप्रतीकेत्यर्थः । विषयभावप्रयोगघटकयत्किञ्चित्पदबोध्ये क्त्वाप्रत्ययस्य वाचकत्ववादिमतन्निरस्य. Page #409 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारेति तृतीयाप्रसङ्गश्च । नचाख्यातेन कर्तुरभिधानान्न सेति वाच्यम् । भोजनक्रियाकर्तुरभिधानेऽपि पाकक्रियाकर्तुस्तदभावात् । अनभिहिते भवतीति पर्यदासाश्रयणात् । ____ अत एव 'प्रासादे भास्ते' इत्यत्र प्रसादनक्रियाधिकरणस्याभिधानेऽप्यस्तिक्रियाधिकरणस्यानभिधानात् सप्तमीति भाष्ये स्पष्टम् । तस्मात् क्त्वाप्रत्ययस्य कर्तृवाचित्वमावश्यकमिति । तन्न । सूत्रात्तस्य वाच्यत्वालाभात् । समानकर्तृकयोः क्रिययोः पूर्वकाले क्त्वा इत्येव तदर्थात् । अन्यथा समानकर्तरीत्येव सूत्रन्यासः स्यात् । तृतीयापादानं तु आख्याताऽर्थक्रियायाः प्रधानभूतायाः कर्तुरभिधानात् प्रधानानुरोधेन गुणे कार्यप्रवृत्तेर्न सम्भवति । दर्पणः माह-*अन्यथेति ॥ तस्य क्त्वाप्रत्ययावाच्यत्वे इत्यर्थः । *तृतीयाप्रसङ्गश्चेति ॥ क्त्वाप्रत्ययेन कर्तुरनभिधानादिति भावः ॥ ननु "अनभिहित" इति सूत्रे नजः प्रसज्यप्रतिषेधाऽर्थकतया प्रकृते कर्तुराख्यातेनाभिधानान्न तृतीयापत्तिरित्याशङ्कय निराचष्टे-*न चेति ॥ *अनभिहित इति ॥ . न प्रसज्यप्रतिषेधो, वाक्यभेदादिदोषात् । न चानुपपत्त्या तत्स्वीकारः। वक्ष्यमाणभाष्यविरोधात् । तथाचैकेनाभिधानेप्यन्येनानभिधानात् तृतीयापत्तिरित्यभिप्रायेणाह-*पाकक्रियाकर्तरित्यादि* ।। *तदभावादिति ॥ अभिहितभिन्नत्वादित्यर्थः ॥ *अत एवेति । तत्सूत्रस्थनञः पर्युदासार्थकत्वादेवेत्यर्थः ॥भाष्ये इत्यस्यानभिहितसूत्रस्थे इति शेषः ॥ *तस्येति ॥ समानकर्त्तकत्वस्येत्यर्थः । द्विवचनप्रकृतिबहुव्रीहिणा समानकर्त्तकत्वस्य धात्वर्थविशेषणतैव प्रतीयते, न तु विधीयमानत्व इति भावः । तदेव विशदयति-*अन्यथेति । एतत्सूत्रस्य कर्तृशक्तिप्रतिपादकत्वे इत्यर्थः ।। *समानेति । तदुपादानाच्च कर्तृवयस्यैव लाभः । न्यासः स्यादिति । "कर्तरि कृत्" इतिवत् । वस्तुतस्तु न तथा सम्भवति । "कर्तरि कृत्" ( पा० सू० ३।३।६७ ) इति सूत्रेणैव गतार्थत्वाद् , “अव्ययकृतो भावे" इति वार्तिकविरोधाच्चेति भावः । उक्तापत्ति निरस्यति-तृतीयापादनं त्विति । *आख्यातार्थक्रियाया इति । परीक्षा ति-*यत्त्विति । *अन्यथा-क्त्वो वाचकत्वाभावे । *न सा-न तृतीयाः । *कर्तुरिति* कर्तत्वविशिष्टस्येत्यर्थः । तदभावादिति*-अभिधानाभावादित्यर्थः । एतेन शक्तिभेदेनाभिधानानभिधानव्यवस्था बोधिता।। ___ *अत एव*-लाघवात्पर्युदासाश्रयणादेव । *प्रासाद इति । प्रकर्षेण सीदत्यस्मिन्नित्यधिकरणे घञ् । *कर्त्तवाचित्वमिति । नचैवम् “पक्ता चैत्र' इत्यत्रेव कर्तुर्विशेष्यत्वापत्तिरिति वाच्यम् , व्युत्पत्तिवैचित्र्येण प्रत्ययवाच्यस्यापि क्त्वाप्रत्ययप्रयोगे तस्य विशेषणतास्वीकार इत्याशयात् । *सूत्रात्-"समानकर्त्तकयोः" इति सूत्रात्। अलाभमुपपादयति-*समानेति-निर्धारणे षष्ठीति भावः । *अन्यथा-निर्धारणषध्यभावे । पूर्वोक्तं परिहरति-*तृतीयेति । Page #410 -------------------------------------------------------------------------- ________________ • क्त्वाद्यर्थनिर्णयः। ३८१ उक्तश्च वाक्यपदीये प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्भ्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति ॥ किश्चान्यथा कर्मणोऽपि क्त्वार्थतापत्तिः। 'पक्त्वौदनो मया दर्पणः क्रियाद्वयनिरूपितकर्तृशक्त्योरनेकत्वेऽपि प्रधानतिङन्तार्थक्रियानिरूपितकर्तशक्तरा. ख्यातेनाभिधाने तत्र कृदन्तार्थक्रियानिरूपिततत्तच्छक्तरेनभिहिताया अप्यभिहितत्वातिदेशस्य अनभिधाने त्वनभिहितत्वातिदेशस्य चोक्तभाष्यप्रामाण्येनाऽभ्युपगमान्न तृतीयापत्तिः प्रकृते इति भावः । ___*प्रधानेतरयोरिति । गुणप्रधानक्रियानिरूपितशक्तिद्वयं यत्रैकस्मिन् द्रव्ये तत्र गुणक्रियानिरूपितशक्तिः प्रधानक्रियानिरूपितशक्तिधर्ममनुरुणद्धीत्यर्थः। उक्तातिदेशेऽपि तत्सम्मतिमाह-*प्रधानविषयेति । प्रधानः विषयो निरूपकं यस्याः सा शक्तिर्यदा प्रत्ययेन तिकाऽभिधीयते, तदा गुणक्रियावाचकधातूत्तरप्रत्ययेनाऽनभिहिताप्यभिहितवत् प्रतीयत इत्यर्थः । इदमुपलक्षणम् । अभिहिताया अपि अनभिहितवत्प्रतीतेः। 'तत्र प्रासादे आस्त' इत्युदाहर्तव्यम् । अवश्यं चेत्थमभ्युपेतव्यम् । अन्यथा कर्तुः क्त्वार्थत्वाभ्युपगमेनोक्तस्थले तृतीयापत्तिवारणेऽपि, 'पक्त्वौदनो मया भुज्यते' इत्यत्रौदनपदोत्तरद्वितीयापत्तिर्दुर्वारा। तत्र पाकक्रियानिरूपितकर्मत्वशक्तेः कृतानभिधानादुक्तरीतेरसम्भवादित्याह-*किञ्चेति । . अत्रेदम्बोध्यम्-यदौदने पाकक्रियानिरूपितकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतं, न तु प्रधानक्रियानिरूपितकर्मत्वस्यापि तदौदनं पक्त्वा भुज्यते इत्यपि साधु । ओदनस्य भोजनकर्मताया आर्थिकत्वात् । यदा तूभयकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतं, परीक्षा *प्रधान इति*, *क्रिययोरिति-निरूपितत्वं सप्तम्यर्थः । *द्रव्यस्येति । निष्ठत्वं षष्टयर्थः । *शक्तिः-कर्मत्वकर्तृत्वादिः । *गुणाश्रया*-गुणीभूतक्रियानिरूपिता। अ. नुरोधन्दर्शयति-*प्रधानविषयेत्यादिना* । गुणे*-गुणीभूतक्रियायाम् । सप्तम्यर्थों निरूपितत्वम्-तस्यानुक्तेत्यत्रान्वयः । एवञ्च प्रधानम्प्रधानीभूता क्रिया विषयोनिरूपकं यस्या एतादृशी शक्तिः कर्मत्वादिर्यदा प्रधानक्रियाप्रतिपादकधातूत्तरजाततिङा कृता वाभिहिता भवति, तदा गुणभूतक्रियानिरूपिताशक्तिरनभिहितापि अ. भिहितवत्प्रकाशते । तेनाप्रधानक्रियानिरूपितशक्त्यभिधायकोऽनभिहिताधिकारीयः प्रत्ययो नेति सिद्धम् । अत एव 'पक्त्वौदनो भुज्यत' इत्यत्र कदापि द्वितीया नभवति। तदेवाह-किञ्चेति । *अन्यथा-"प्रधानेतरयोः" इति न्यायानङ्गीकारे । यदा तु गुणीभूतक्रियानिरूपितकर्मत्वस्यैव विवक्षा प्रधानक्रियाकर्मत्वाविवक्षा, तदा 'पक्त्वोदनं भुज्यते' इति भवत्येव । एवञ्च "प्रधानेतरयोः" इति न्याय उभयनिरूपितकर्म. त्वस्य युगपद्विवक्षायां द्रष्टव्यः। किञ्चात्र शक्तिरिति सामान्यतोऽभिधानेन यत्र Page #411 -------------------------------------------------------------------------- ________________ ३८२ भुज्यत' इत्यत्र विस्तरः ॥ ६० ॥ दर्पणपरीक्षासहिते भूषणसारे - द्वितीयायाः प्रकारान्तरेणावारणादित्यास्तां इति वैयाकरणभूषणसारे क्त्वाद्यर्थनिर्णयः ॥ १२ ॥ दर्पण: दौदनपदाद् द्वितीया असाध्वेव । उक्तव्यवस्थितेः । परन्त्वाख्यातवाच्यक्रियायाः प्राधान्यात् तां प्रत्येव क्त्वान्तोपस्थिताः सर्वाः क्रिया गुणीभवन्तिः न तु तासां परपरीक्षा प्रधानक्रियानिरूपित शक्त्यभिधायिनी । अत एव 'मूलकेनोपदंशं भुङ्क्ते' इत्यादौ तृतीयैव नतूपदंशन क्रियाकर्मत्वाभिधायिनी द्वितीया मूलकपदादित्यपि बोध्यम् । इदमत्र बोध्यम् - यन्त्राप्रधानीभूताः क्रियाः तत्र तासामुक्तसम्बन्धेन प्रधानक्रियायामेव विशेषणता, न तु परस्परं गुणप्रधानभाव इति तत्तद्वाचकप्रकृतिकक्त्वाभ्यामिति यतः प्रयोगो, नतु यासां पूर्वकालिकत्वं तद्वाचकप्रकृतिकक्त्वान्तस्य पूर्वमेवोत्तरकालिकवाचकानाम्परत्रैव प्रयोग इति नियम:, तेन 'भुक्त्वा स्नात्वा पीत्वा गत' इति 'स्नात्वा भुक्त्वा पीत्वा गत' इति च भवति । तासाम्परस्परमसम्बन्धे मानन्तु "गुणानाञ्च परार्थत्वात्” इति न्याय एव । यत्र तु समानकर्तृकक्रियावाचकानामप्रयोगः, क्त्वान्तस्य च प्रयोगो दृश्यते तत्र योग्यप्रधानक्रियावाचकाध्याहारः, यथा - अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥ इत्यत्रानाराध्येत्यनन्तरं स्थितस्येत्यस्य । एवमेव - " प्रातः काले शिवन्दृष्ट्वा fafa पापं व्यपोहति' इत्यादावपि द्रष्टव्यम्” । समानकर्तृकत्वं क्त्वाप्रत्ययवाच्यमिति वादिनो "अव्ययकृतो भावे" इति वार्तिकविरोधोऽपि दोषः । यत्र भावे तु मुन्प्रत्ययस्तत्रापि यथोक्तसम्बन्धघटितसामानाधिकरण्यसम्बन्धेन प्रधानक्रियायाङ्गुणक्रियायान्तुमुन्नन्तप्रतिपाद्या या विशेषणता परन्तूदेश्यत्वमपि सम्बन्ध इति । अत एव 'शिवन्द्रष्टुं याति' इति वाक्याच्छिवकर्मकभविष्यद्दर्शनोद्देश्यकन्दर्शनविशिष्टं यानमिति बोधः । ण्वुलन्तस्य "तुमुन्ण्वुलौ” इति सूत्रविहितस्य प्रयोगेऽप्येवमेव बोधः । 'मुखं व्यादाय स्वपिति' अत्र क्त्वाप्रत्ययस्य प्रागभावे शक्तिः कर्त्तरि निरूढलक्षणा । प्रागभावश्व-समानकालिकत्वसम्बन्धेन प्रकृत्यर्थस्य विशेष्यः, प्रतियोगितासम्बन्धेन तूत्तरक्रियायां विशेषणम्, क्त्वारूप्रकृत्यर्थक्रियाकर्त्तर्यपि विशेषणम् । कर्त्ताऽप्युत्तरत्र क्रियायां स्वनिष्ठकर्त्तृत्वनिरूपकत्वसम्बन्धेन विशेषणम् । कर्त्तृत्वं च-यथायथं व्यापारवत्वाश्रयत्वकृतिमत्वप्रतियोगित्वरूपं बोध्यम् । एवञ्च 'भुक्त्वा व्रजति चैत्रः ' ' इति वाक्याद्भोजनकर्त्तृकर्त्तकं भोजनकालिकप्रागभावप्रतियोगिकं व्रजनमिति बोधः । एवञ्च मुहूर्त्तादिव्यवधानेऽपि 'भुक्त्वा गतः' इत्यादिप्रयोगस्योपपत्तिः । नचैवं स्वीयभोजनपूर्ववर्त्तिपुरुषान्तरीयभोजनोत्तरवर्तियमनन्तदादाय 'भुक्त्वा गच्छति 'चैत्रः' इति प्रयोगं मैत्रः कुर्य्यादिति वाच्यम्, क्त्वाप्रत्ययार्थयोर्विशेष्यतया भाने प्रकृत्यर्थतावच्छेकरूपेणैकक्रियान्वयित्वस्य व्युत्पत्तिसिद्धस्य हेतुत्वात् । तथा च प्रकृत्यर्थतावच्छेदकधर्मावच्छि Page #412 -------------------------------------------------------------------------- ________________ क्त्वाद्यर्थनिर्णयः । ३८३ दर्पणः स्परविशेष्यविशेषणभावः । “गुणानां च परार्थत्वात्” इतिन्यायात् । एवञ्च 'स्नात्वा पीत्वा भुक्त्वा व्रजति' 'भुक्त्वा स्नात्वा व्रजति' इत्यविशेषेण प्रयोगाः । परीक्षा न्नैकक्रियाप्रकारतानिरूपितक्त्वार्थद्वयविषयकशाब्दबोधे तत्तद्धातूत्तरक्त्वाज्ञानं कारणमिति कार्यकारणभावः । आश्रयत्वरूपकर्त्तत्वन्तु 'रथे स्थित्वा गच्छति' इत्यत्र प्रतीयते । व्यापारवत्वरूपन्तु - तत्काष्ठमोदनम्पक्त्वा ते तमेनम्यच' इत्यत्र प्रतीयते । प्रतियोगित्वरूपस्य कर्त्तत्वस्याग्निना काष्ठम्प्रणश्य भस्म भवतीति । नच यत्र 'एकमोदनम्पक्त्वा मैत्रेणौदनान्तरम्भुज्यते' तत्रापि 'ओदनं' पक्त्वा भुज्यते मैत्रेण' इति प्रयोगापत्तिः । । इष्टापत्तिस्तु न । 'ओदनम्पक्त्वादनन्तरं भुज्यत' इति प्रयोगस्यैवेष्टत्वादिति वाच्यम्, कर्मप्रत्ययसमभिव्याहारे धातुद्वयस्य तद्व्यक्तिकर्मत्वविशिष्टस्वार्थतावच्छेदकरूपेण क्रियाव्यक्त्यभिधायकत्वस्य व्युत्पत्तिसिद्धत्वात् । अत एव संयुज्धात्वर्थ कर्त्तृत्वस्याश्रयत्वरूपतया यत्र घटोऽङ्गुल्या संयुज्य तत्संयोगनाशानन्तरं घटेन संयुक्तो भवति तत्र घटपटसंयोगस्याङ्गुलीयपटसंयोगस्य घटाश्रितत्वेन घटस्यापि तत्र कर्त्तृत्वेन घटोङ्गुल्यां संयुज्य पटेन संयुज्यत इति प्रयोगापत्तिरिति निरस्तम् । एतादृशप्रयोगस्थलेऽङ्गुल्यनुयोगिकत्वविशिष्टघटप्रतियोगिकत्वविशिष्टसंयोगव्यक्तिसमानकालिकत्वस्य प्रागभावे सत्वं वक्तव्यम् । तच्च बाधितमिति नैतादृशः प्रयोगः । प्रागभावश्च - घटादिकपालतत्संयोगादिघटित स्वसामग्रीवशादुत्पन्नस्य पुनरुत्पादापत्तिवारणाय स्वीक्रियते । यदि तु कार्योत्पत्तिम्प्रति समवायादिना कार्य्यस्य प्रतिबन्धकत्वकल्पनेनोत्पन्नस्य पुनरुत्पादापत्तिर्वारयितुं शक्यत इति प्रागभावो न स्वीकर्त्तव्य इत्युच्यते, तदा ध्वंस एव क्त्वाप्रत्ययार्थोऽस्तु । तत्र प्रकृत्यर्थः प्रतियोगितासम्बन्धेन विशेषणम् । तस्य तु स्वप्रतियोगिक्रियासमानकर्तृकत्वस्वाधिकरणंतात्पर्य्यविषयसमयोत्पन्नत्वोभयसम्बन्धेन समभिव्याहृतक्रियाम्प्रति विशेषणत्वमित्यङ्गीकार्यम् । एवञ्च 'चैत्रो भुक्त्वा व्रजति' इत्यादिभ्यो भोजनध्वंसविशिष्टचैत्राभिन्नकका वजनक्रियेति शाब्दबोधः । नन्वेवमपि क्त्वाप्रकृतिप्रतिपाद्य यत्किञ्चित् क्रियायाः प्रतियोगितया ध्वंसम्प्रति विशेषणत्वम्, क्रियासामान्यस्य वा । आद्ये- 'काशीं गत्वा काशीं रमते' इति प्रयोगापत्तिः अद्यक्रियाध्वंस वैशिष्ट्यस्य च रमक्रियायां सत्वात् । अन्त्ये- ' स्थित्वा पश्यति पुस्तकम्, 'स्थित्वा जक्षिति जेमनम्' इत्यादौ चानुपपत्तिः । स्थितिक्रियाया दर्शनीत्तरमदनोत्तरञ्च सत्वेन स्थितिक्रियासामान्यसामान्यप्रतियोगिकध्वंसवैशिष्ट्यस्य दर्शनयोरभावादिति चेद्र ? तर्हि क्त्वाप्रत्यस्य पूर्वकाल एव शक्तिः । शक्यतावच्छेदकञ्च कालत्वमेव, तत्र प्रकृत्यर्थस्य कालिकसम्बन्धावच्छिन्नाधारतासम्बन्धेनान्वयः । तस्य कालस्य तु स्वध्वं साधिकरणक्षणोत्पत्तिकत्वसम्बन्धेन समभिव्याहृतपदोपस्थाप्यक्रियान्तरम्प्रति विशेषणता बोध्या । कालश्च- पूर्ववत्तात्पर्य्यविषयघट्यादिरूपो विवक्षितः । कालविशेष्यस्य वाच्यत्वसूचनाय " समानकर्त्तृकयोः " इति सूत्रे पूर्वकाल इत्युपात्तम् । चैत्रकर्त्तृकभोजनाधिकरणकालानन्तर्य्यस्य मैत्रकर्त्तृक Page #413 -------------------------------------------------------------------------- ________________ ३८४ . दर्पणपरीक्षासहित भूषणसारे दर्पणः तुमुनस्तादर्थ्यरूपमुद्देश्यत्वमपि द्योत्यम् । "क्रियार्थायां क्रियायाम्" इत्युक्तः । तनिष्कर्षश्च पूर्ववदेव तुम्प्रकृत्यर्थोपपदार्थयोस्तादर्थ्यवत् समानकर्त्तकत्वादिकमपि सम्बन्धः। तथाच "हरिंद्रष्टुं याति" इत्यतो हरिकर्मक भविष्यदर्शनौद्देश्यक दर्शनक. र्तृकर्तृकं यानमिति शाब्दधीः । अनयैव दिशैधानाहारको व्रजतीति बोध ऊहनीयः॥३०॥ इति भूषणसारदर्पणे क्त्वाद्यर्थनिरूपणम् ॥ १२ ॥ परीक्षा गमनेऽपि सत्वेन भुक्त्वा गच्छति मैत्रः' इति प्रयोगापत्तिः । अतो भोजनक्रियायाः स्वसमानकर्त्तकत्वसम्बन्धेन क्रियान्तरम्प्रति विशेषणत्वम् , क्त्वाप्रकृत्यर्थक्रियाया द्वेधाभानमित्याहुः, तन्न । “अव्यय कृतोभावे” इति सिद्धान्तविरोधात् ॥ ६० ॥ ॥ इति श्रीमदूभूषणसारटीकायाङ्क्त्वाद्यर्थनिर्णयविवरणम् ॥ १२ ॥ Page #414 -------------------------------------------------------------------------- ________________ अथ स्फोटनिरूपणम् ॥ दर्पणः अथ स्फोटनिरूपणम्। इत्थं व्याकरणादिना गृहीतशक्तिकपदसमुदायादनासन्नादगृहीतार्थतात्पर्य्यकादयोग्यादनाकाङ्क्षाच्च शाब्दबोधादर्शनादासत्त्यादिकमपि शक्तिज्ञानजन्यपदार्थोपस्थित्या बोधे जननीये सहकारि । आसत्तिश्व-प्रकृतबोधानुकूलपदाव्यवधानम् । अस्ति च "पर्वतो वह्निमान्" इत्यत्र तादृशपदाव्यवधानम्, न तु "गिरि(क्तं वह्निमान् देवदत्तेन" इति, न ततो बोधः । अत एव "स्थाल्यां तण्डुलं पचति" इत्यत्र तण्डुलकर्मकस्थाल्यधिकरणकक्रियेति बोधेनाऽनासन्नता। तदूघटकसर्वेषां पदानां तादृशबोधानुकूलत्वात् । स्थाल्यां पचतीत्येतावन्मानबोधे तु तदनासन्नमेव । श्लोकादौ तु योज. नावाक्यादेव बोधः, तभ्रमेणाऽनासन्नाद् बोधदर्शनात्तज्ज्ञानमेव हेतुरिति-सम्प्रदायः। नव्यास्तु-"मौनिश्लोकादन्वयबोधानुप्रसङ्गानोक्ताव्यवधानमासत्तिः । आकासादिसत्वे तात्पर्य्यज्ञाने च सति व्यवहितादव्यवहिताच्च बोधदर्शनात्तज्ज्ञानविल. म्बेन शाब्दाविलम्बाच्च, किन्त्विदं पदमेतत्पदेन सम्भूयाऽन्वयबोधं जनयत्वित्याकारकपदतात्पर्य्यरूपाभिसन्धापयित्रिच्छा सा, न तु वक्रिच्छा। मौनिश्लोकादौ दोषतादवस्थ्यात् । शुकवाक्ये तु भगवत्तात्पर्य्यमादायैव गतिरित्याहुः । वस्तुतस्तु सत्यर्थतात्पर्य्यज्ञाने पदतात्पर्य्यज्ञानविलम्बेन शाब्दबोधाविलम्बाद् वृत्त्या पदजन्यपदार्थानामव्यवधानेनोपस्थितिरेवासत्तिः-स्वरूपसत्यन्वयबोधे हेतुः । न हि पदार्थानामनुपस्थितान्वयधीः केनाप्यनुभूयते इति । अर्थतात्पर्य्य त्विदं पदमेतस्मिन्नर्थेऽपरपदार्थान्वयं बोधयत्वित्यभिसन्धापयित्रिच्छा । संवादिशुकवाक्ये तु भगवत एव सा । विसम्वादिनि तु शिक्षयितुरेव । अस्य संशये व्यतिरेकनिश्चये चान्वयबोधात्तभ्रमेणान्वयाबोधदर्शनाच्च तज्ज्ञानमप्यन्वयबोधे हेतुः। अधिकमग्रे वक्ष्यते। शाब्दबोधे योग्यताया ज्ञानं कारणमिति बहवः । सा चैकपदार्थेऽपरपदार्थस्य याशसंसर्गवत्वं तादृशसंसर्गवत्तैव प्रकृतशाब्दबोधविषयसंसर्गवत्वमिति यावत् । अस्ति च 'पयसा सिञ्चति' इत्यत्र सेके पयःकरणकत्वस्य संसर्गः। अत एव कर. काऽभिप्रायप्रयुक्त-'पयसा सिञ्चति' इति वाक्यं न योग्यम् । पयःपदार्थकरकायां सेककरणत्वाभावात् । यादृशेति विशेषणाच्च 'आकाशः शब्दः इति वाक्यं समवायसंसर्गमादाय नाभेदाऽन्वये योग्यम् । अयोग्येऽप्येतदूभ्रमेणान्वयदर्शनादेतज्ज्ञानस्यापि हेतुता। ननु संसर्गस्य वाक्यार्थत्वेन तद्वाधात् प्रागनुपस्थित्या कथं तद्बोधस्य तत्र तत्वमिति चेद् ? न । योग्यताज्ञानस्य शाब्दबोधे निश्चयत्वेन हेतुतां बमो, येनोक्तदोषोऽवकाशमासादयेत् । किन्तु संशयनिश्चयसाधारणज्ञानत्वेन । तस्य च न दौर्लभ्यम् । 'पयसा सिञ्चति' इत्यादौ सेकः पयः करणको न वेति संशयात्मकस्य भूतले घटोऽस्ती. त्यादौ च प्रात्यक्षिकनिश्चयरूपस्याऽपि तत्प्राक्सौलभ्यात् । स्वजन्यशाब्दबोधस्यैवान्वयबोधप्रतिबन्धकतयोक्तबाधात्तत्सम्भवात् । ४९ द० ५० Page #415 -------------------------------------------------------------------------- ________________ ३८६ दर्पणपरीक्षासहित भूषणसारे दर्पणः केचित्तु लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्वत्ताबुद्धित्वावच्छिन्नं प्रति तदभाववत्ताज्ञानाभावस्य हेतुतया शाब्दबोधस्यापि तत्कार्यतावच्छेदकाक्रान्ततया अयोग्यताज्ञानसत्त्वे तदभावादेव शाब्दबोधवारणे कृतं योग्यताज्ञानस्य तद्धतुतया । कार्यतावच्छेदककोटौ प्रत्यक्षान्यत्वनिवेशेनैव लौकिकप्रत्यक्षनिरासेपि घटाद्युपनीतभानसङ्ग्रहाय तद्विहायाजन्यान्तद्वयनिवेशः। _ नच बाधनिश्चयाभावत्वापेक्षया संशयनिश्चयसाधारणयोग्यताज्ञानत्वेन हेतुत्वे ला. घवमिति वाच्यम् । स्यादेवम्, यदि बाधाभावस्य शाब्दत्वं कार्य्यतावच्छेदक कल्प्येत, किन्तु शाब्दबोधस्य बाधाभावकार्य्यतावच्छेदकाक्रान्ततया तद्दशायां तं प्रतिषेधामः । अत एव घटोऽभिधेय इत्यादावुक्तबाधाप्रसिद्धावपि न क्षतिः। तत्संसर्गावच्छिन्नतत्त्प्र. कारकतद्विशेष्यकबुद्धित्वस्यैव तत्कायंतावच्छेदकत्वात् । घटाभावेऽभिधेयत्वप्रतियो. गिकत्वभ्रमदशामादाय तदभावस्यापि प्रसिद्धेश्चेत्याहुः। अन्न वदन्ति-न हि तद्विशिष्टबुद्धिसामान्ये बाधाभावः कारणं, किन्तु बाधावतारे इच्छासत्त्व आहार्य्यप्रत्यक्षोदयादिच्छाया उत्तेजकत्वानुरोधेन प्रत्यक्षस्यैव प्रतिबध्य. तावच्छेदकत्वावश्यकतयोपनीतभानसाधारणप्रतिबध्यतायाः शाब्दबोधेऽसम्भवात् । न च तथाप्यनुमितिसाधारणप्रतिबध्यतायाः शाब्दबोधसाधारण्यं शङ्यम् । तत्साधारणस्य प्रत्यक्षान्यज्ञानत्वस्य प्रतिबध्यतावच्छेदकत्वे प्रत्यक्षान्यत्वज्ञानत्वयोमिथो विशेष्यविशेषणभावे विनिगमनाविरहेणानेकप्रतिबध्यप्रतिबन्धकमावापत्तेः । प्रतिबध्यतावच्छेदकगौरवापत्तेश्चानुमितित्वस्यैव तदवच्छेदकत्वस्याङ्गीकरणीयत्वात्। अतो बाधाभावस्य स्वातन्त्र्येणैव शाब्दबोधं प्रति हेतुता वाच्या। तत्र चोक्तगौरवेण संस. र्गरूपयोग्यताज्ञानस्यैव हेतुत्वमुचितम् । अपि च शाब्दबोधे तद्वदन्योन्याभावतदभावव्याप्यवत्ताज्ञानादीनां प्रतिबन्धकत्वकल्पनाऽपेक्षया लाघवाद योग्यताज्ञानस्यैव हेतुत्वमुचितम् । किञ्च 'पयसा सिञ्चतिः इति शाब्दसामग्रीकाले सेकः पयः करणकत्वाभाववानिति मानसवारणाय तत्र शाब्द. बोधसामग्र्याः प्रतिबन्धकत्वकल्पने तत्र योग्यताज्ञानस्यावश्यकतया विपरीतज्ञानोत्तर. प्रत्यक्षे विशेषदर्शनस्य हेतुतया तदभावादेव तद्वारणात् । विशेषदर्शनसत्वे तु तदभावव्याप्यवत्तानिर्णयरूपप्रतिबन्धकत्वेन ज्ञाब्दसामग्र्या एवाभावेन तथा मानसे इष्टापत्तेः। नच निर्णयं प्रत्येव विशेषदर्शनस्य हेतुतया ज्ञाब्दसामग्रीकाले मानससंशयवारणाय शाब्दसाय्याः प्रतिबन्धकत्वे कल्पनीये संशयत्वमनिवेश्य सेकत्वाऽवच्छिन्नविशेष्यकपयः करणत्वाऽभावप्रकारकमानसत्वमेव तत्प्रतिबध्यतावच्छेदकमिति वाच्यम् । सेकत्वावच्छिन्नविशेष्यकपयःकरणकत्वप्रकारकमानसे शाब्दसामग्रीप्रतिबन्धकत्वान्तरस्य कल्प्यतया तेनैव संशयवारणे तत्संशये प्रतिबन्धकत्वान्तरकल्पनात् ।। __ न च विपरीतज्ञानोत्तरप्रत्यक्षे विशेषदर्शनस्य हेतुत्वसिद्धावेव योग्यताज्ञानस्य हेतु. त्वसिद्धिरिति वाच्यम् । गुरुभूतशाब्दसामग्रीप्रतिबन्धकत्वकल्पनापेक्षया तद्धेतुत्वकल्पनाया एवोचितत्वात् । अनयैव दिशेष्टसाधनत्वादिज्ञानानां प्रवृत्तौ हेतुत्वसिद्धिरित्यलं परमतानुवर्णनेन। ___ घटः कर्मत्वमित्याधाराधेयभावेनान्वये निराकाङ्क्षवाक्याद् घटीया कर्मतेति बोधानुदयादाकासापि सहकारिणी। सा च यत्पदे यत्पदसमभिव्याहारप्रयुक्तं यद्विशेष्य Page #416 -------------------------------------------------------------------------- ________________ स्फोटनिर्णयः । ૨૮૭ सिद्धान्तनिष्कर्षमाह वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः ॥ दर्पणः कयत्संसर्गकयत्प्रकारकबोधजनकत्वं तत्पदे तत्पदनिरूपिताकाङ्क्षा । यथा घटमानयती - त्यत्र घटपदे कर्मताविशेष्यकाधेयता संसर्ग कघटीया कर्मतेति बोधौपयिका अम् पदनिरूपताकाङ्क्षा । तां बिना घटः कर्मत्वमित्यत्र घटपदेन तादृशबोधाजननात् । एवं धातुपदेऽप्याख्यातनिरूपिताकाङ्क्षोद्या । अत एवानयनं कृतिरित्यत्र नानयनानुकूला कृतिरिति बोधः । धातावाख्यातासमभिव्याहारात् । इयमेवाकाङ्क्षा व्याकरणेन प्रतिपाद्यते । तथाच तत्तत्पदे तत्तत्पदपूर्वापरीभावरूपसमभिव्याहारः सेति फलति । तां विना यद्यप्युक्तानाका कर्मत्वपदेऽम्पदत्वभ्रमदशायां घटिया कर्मतेति बोधोदयेन तज्ज्ञानं हेतुर्न तु स्वरूपसती सा । न च जनितान्वबोधाद्वाक्यात् पुनरपि तादृशबोधापत्तिरुक्ताकाङ्क्षायास्तदानीमप्यविकलत्वादिति वाच्यम् । प्रकृतान्वयबोधसमानाकारबोधानुपहितत्वस्यापि स्वरू पसत आकाङ्क्षत्वेन जनितान्वयबोधस्थले तदभावेनापत्त्यसम्भवात् । तात्पर्य्यविषयत्वरूप प्रकृतत्वेन बोधविशेषणाच्च । बोधद्वयं जायतामिति तात्पर्य्यसत्त्वेन जनितान्वयद्वितीयबोधे निराकाङ्क्षत्वं स्वसमानेत्युक्तेश्च न जनितावान्तरबोधस्य महावाक्यार्थबोधे तत्त्वम् । अत एव । "अयमेति पुत्रो राज्ञः पुरुषोऽपसार्य्यताम् ” इत्यादौ राज्ञः पुरुषेण सहान्वयबोधजनने सर्वदा निराकाङ्क्षत्वम् । नव्यास्तु — यत्पदस्य यत्पदव्यतिरेकप्रयुक्ततात्पर्य्यविषयीभूतान्वयाननुभावकत्वं तेन सह तस्याकाङ्क्षा | 'अयमेति पुत्रो राज्ञः पुरुष' इति वाक्ये राजपुरुषसंसर्गप्रतीतीच्योच्चरिते राज्ञ इत्यस्य पुरुषेण साकाङ्क्षत्ववारणायान्वयबोधे तात्पर्यविषयत्वं विशेषणं पुरुषेणान्वये तात्पर्यसत्वे तु साकाङ्क्षत्वमपि । एवञ्च न तात्पर्य्यज्ञानस्य शाब्दबोधे पृथक् हेतुता । अगृहीतार्थतात्पर्य्यके निरुक्ताऽऽकाङ्क्षाज्ञानाभावादेवान्वयबोधापत्त्यभावादित्याहुः । एवञ्च शाब्दबोधात् प्रागवश्यक्लृप्ततचत्पदसमभिव्याहाररूपाकाङ्क्षयैवान्वयरूप - वाक्यार्थ भानोपपत्तौ वाक्यस्य तत्र शक्तिर्निष्प्रमाणेति नैयायिका वदन्ति । मीमांसकादयस्तु - वाक्यस्य तत्र लक्षणैव, न तु तत्र शक्तिरिति तन्मतं खण्डयितुं स्फोटनिरूपणमित्याशयेन मूलमवतारयति - सिद्धान्तेति । यद्वा ननूक्तं व्याकरय प्रकृतिप्रत्ययेषु तत्तदर्थबोधकत्वशक्तिप्रतिपादकत्वमनुपपन्नम् । प्रकृतिप्रत्ययानां क्रमिकाशुविनाशिनानावर्णाऽऽत्मकतयाऽस्थिरत्वेन - अप्रत्यक्षतया तत्र शक्तिग्रहस्य कथमप्यसम्भवेन तत्प्रतिपादकस्यास्य शास्त्रस्याप्रामाण्यप्रसङ्ग इत्याशङ्कानिराकरणाय स्फोटनिरूपणमित्याशयेन मूलमवतारयन्नाह • * सिद्धान्त निष्कर्षमिति । तथाचोपोद्घातसङ्गतिरत्रेत्यवधेयम् । तत्तन्मतनिरापरीक्षा अथ स्फोटनिरूपणम् । नैयायिकमीमांसकमतं खण्डयितुमुपक्रमते -* सिद्धान्तेति । वैयाकरणे सिद्धान्ते Page #417 -------------------------------------------------------------------------- ________________ ३८८ दर्पणपरीक्षासहिते भूषणसारे दर्पणः करणं तु मूल एव सुव्यक्तम् । अष्टानां स्फोटानामाकरसिद्धतया तव्यावृत्त्यालाभ परीक्षा त्यर्थः। नैयायिका ह्येवमाहुः-शक्तम्पदम् , पदसमुदायो वाक्यमिति । एवञ्च प्रकृतिप्र. त्यययोः स्वस्यार्थाभिधानसमर्थयोः समभिव्याहारात्प्रकृत्यर्थविषयतानिरूपितप्रत्यया. र्थविषयताशालिबोधो जन्यते । तत्र प्रकृतिप्रत्यययोराकाङ्क्षाऽपि सहकारिणी। अन्यथा घटकर्मत्वमानयनं कृतिरिति शब्दसमुदायाधेयतासम्बन्धावच्छिन्नघटनिष्ठप्रकारतानिरूपितकर्मत्वनिष्ठविशेष्यताको निरूपकत्वसम्बन्धावच्छिन्नकर्मप्रकारतानिरूपितानयन. निष्ठविशेष्यताकोऽनुकूलत्वसम्बन्धावच्छिन्नानयननिष्ठप्रकारतानिरूपितकृतिनिष्ठविशेष्यताकशाब्दबोधस्स्यात्। यत्पदे यत्पदसमभिव्याहारप्रयुक्तं यत्संसर्गकयत्प्रकारकयद्विशेष्यकबोधजनकत्वम् , तयोः पदयोः समभिव्याहारे ह्याकाङ्क्षा। अस्ति च सा 'घटमानयति इत्यत्र । घटकर्मत्वमित्यादिप्रयोगे तु सा नास्तीत्यतो नघटीया कर्मतेति तद्रीत्या बोधः । एवं धात्वाख्यातयोरपि बोध्यम् । सैवाकाङ्क्षा व्याकरणेन प्रतिपाद्यते। सा चाकाङ्क्षा ज्ञाता सती शाब्दबोधहेतुर्नतु स्वरूपसती। यत्र घटकर्मत्वमिति केनचित्प्रयुक्तम्, तत्र घटपदोत्सरवर्तिकर्मत्वशब्दे अम्पदत्वस्य भ्रमो यदा, तदा तस्माद्धटीया कर्मतेत्यन्वयबोधो जायते, तस्यानुत्पत्तिप्रसङ्गात् । न चाकाङ्क्षाज्ञानाद् घटमिति शब्दादू घटीयाकर्मतेति बोधे जातेऽपि तस्य कारणीभूतज्ञानस्य सत्वात्पुनस्तथान्वयबोधः स्यादिति वाच्यम् । तात्पर्य्यविषयान्वयबोधानुपहितत्वस्य स्वरूपतः शब्दनिष्ठस्य नियामकत्वात् । एकस्य बोधस्य तात्पर्य्यविषयत्वे तच्छाब्दबोधानुपहितत्वस्य तत्र सत्वाद्भवति बोधः। द्वितीयस्तु न भवति, एकज्ञाने जाते तदुपहितत्वविशिष्टस्य तस्य शब्दस्य सत्वात्। यत्र शाब्दबोधद्वयं जायतामितीच्छा तत्र बोधद्वयस्य तात्पर्यविषयतया बोधद्वयानुपहितत्वस्य प्रथमशाब्दबोधे जातेऽपि तत्वाद्भवत्येव द्वितीयो बोधः। एतन्मूलक एव 'सकृदुच्चरितः शब्दस्सकृदर्थ गमयति इति साम्प्रदायिकानामुद्घोषः । न चावान्तरवाक्यार्थज्ञाने जनिते तेन महावाक्यार्थबोधो न स्यात्, तस्मिन्प्रकृतान्वयबोधानुपहितत्वाभावादिति वाच्यम् । तात्पर्यविषयान्वयबोधे स्व. विषयत्वान्यूनानतिरिक्तवृत्तिविषयकत्वस्य विशेषणीयत्वात्। एवञ्च महावाक्यार्थबोध. विषयत्वान्यूनानतिरिक्तविषयताकबोधानुपहितत्वस्यावान्तरबोधे जातेऽपि सत्वाद्भवत्येव महावाक्यार्थबोधः । एवञ्च-साकाङ्कत्वाच्छब्दसमुदायादेव शाब्दबोधस्योपपत्तिसम्भवान्न वाक्यस्य पदसमूहस्य पृथक् वाक्यार्थे शक्तिरिति । पदार्थतासंसर्गस्त्वनुपस्थित एव । आकाङ्क्षा तात्पर्य्यवशाद्भासते, नतु शक्तिस्तस्मिन्नर्थे कल्पनीयेति।। मीमांसकादयस्तु-संसर्गो वाक्यस्य लक्ष्योऽर्थ इत्येवमाहुरिति, तदप्यसङ्गत्तमिति ध्वननाय सिद्धान्तपदोपादानम् , किञ्च-व्याकरणप्रक्रियया प्रकृतिप्रत्यययोस्तत्तदर्थबोधकत्वेन क्लप्तयोः सत्वाच्छाब्दबोधोपपत्तौः न पदेष्वित्यादेः सुबन्तस्य प्रकृतिप्रत्ययसमुदायस्य बोधकत्वमिति यन्मतन्तदप्ययुक्तम्। शब्दानामाशु विनाशितया समुदायेतादृशस्याभावादतः स्फोटस्य वाचकत्वमभ्युपेयम् । ते च स्फोटा नानाविधा यद्यपि सम्भवन्ति, तथापि निष्क सति वाक्यस्फोट एव स्वीकर्तुमुचित इत्याशयेन सिद्धान्तेन पूर्वोक्तरीत्या स्फोटस्य वाचकत्वव्यवस्था । तेन परमतस्य निराकरणम्भवति । Page #418 -------------------------------------------------------------------------- ________________ स्फोटनिर्णयः । ३८९ साधुशब्देऽन्तर्गता हि बोधका न तु तत्स्मृताः ॥३१॥ यद्यपि वर्णस्फोटः, पदस्फोटः, वाक्यस्फोटः, अखण्डपदवाक्यस्फोटौ, वर्णपदवाक्यभेदेन त्रयो जातिस्फोटा इत्यष्टौ पक्षाः सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थकं दुरर्थकञ्च तथापि वाक्यस्फोटातिरिक्तानामन्येषामप्यवास्तवत्वबोधनाय तदुपादानम् । एतदेव ध्वनयन्नाह — अतिनिष्कर्ष इति ॥ इति मतस्थितिर्वैयाकरणानां महाभाष्यकारादीनाम् । तत्र क्रमेण सर्वान् तान् निरूपयन् वर्णस्फोटं प्रथममाह #साधु दर्पणः इत्याशयेनाह – *अनर्थकमिति । निष्प्रयोजनकमित्यर्थः । *दुरर्थकमिति । तदुपादाने वाक्यातिरिक्तानामसंग्रहापत्तेरिति भावः । समाधत्ते – तथापीति । अन्येषां वर्णादिपञ्चस्फोटानामित्यर्थः । तत्र स्फोटत्वं स्फुटत्यभिव्यक्ती भवत्यर्थोऽस्मादिति व्युत्पत्त्यार्थप्रकाशकत्वं, प्रकाशश्च ज्ञानम् । तथाचार्थनिष्ठविषयताप्रयोजकशक्तिमत्त्वं पर्यवस्यति । वर्णस्यैव तत्वाभ्युपगमे वर्णस्फोटः । पदादीनां तत्त्वाभ्युपगमे तु पदादिस्फोट इति व्यवहारः । *अवास्तवत्वेति* । वर्णस्फोटादीनामाकाङ्क्षानिवर्त्तकत्वाभावादवास्तवत्वं शास्त्रीयप्रक्रियानिर्वाहाय परं सिद्धान्ते तत्स्वीकारः । पारमार्थिकत्वं तु वाक्यस्फोटस्यैवेति भावः । * विप्रतिपत्तिरिति । संशयीययावत्कोट्युपस्थापकं वाक्यमित्यर्थः । न तु संशयजनकं वाक्यमेव सा । परोक्षं ज्ञानं निश्चयात्मकमेवेति प्राचीनप्रवादेन संशयजन - कत्वस्य वाक्ये असम्भवात् । वस्तुतस्तु संशयजनकवाक्यत्वमेव विप्रतिपत्तित्वम् । तत्तदभाव सहचरितधर्मवद्धर्मज्ञानस्येव समानाऽनेके तिसूत्रेण विप्रतिपत्तेरप्याहस्यैव संशयहेतुत्वोत्कीर्त्तनादित्यवधेयम् । मूले असाधुशब्दान्तर्गतवर्णवाचकता विचारस्याप्रस्तुतत्वं मत्वाह - * साध्वि ति* । अत्र साध्वन्तर्गतवर्णत्व सामानाधिकरण्येन वाचकत्वादिसाधने तद्वाक्यस्य परीक्षा एवं सप्ताष्टानामेकस्यापि वाचकत्वकथनेन परो निरस्तो भवतीत्यादौ वाक्यस्फोस्यैव कथने किं बीजमित्याशङ्कानिराकरणव्याजेन निष्कृष्टार्थं सूचयति-यद्यपीत्यादिना । स्फुटति प्रकाशते ज्ञातो भवत्यर्थोऽस्मादसौ स्फोट इति व्युत्पत्याऽर्थविषयकं यज्ज्ञानम्, तज्जनकतावच्छेदकशक्तिमत्वन्तत्वम् । तच्च प्रकृतिनिष्ठम्प्रत्ययनिष्ठञ्च - म्भवतीत्याशयेनाह — *वाक्यग्रहणमिति । *अनर्थकम् * - प्रयोजनरहितम् । प्रत्युत तस्योपादानेऽन्येषामसङ्ग्रहापत्तिरूपो दोषोऽपीत्याह -*अनर्थकमिति । *अन्येषाम्*वर्णादिस्फोटानाम् । अत्र वर्णपदम्प्रकृतिप्रत्ययपरम्, अर्थस्मृतिजनकज्ञानविषयतावच्छेदकशक्तिमत्वम्प्रकृतिप्रत्यययोरेवेति वर्णस्फोटः, पदस्यैव तादृशशक्तिमत्वमिति पदस्फोट इति व्यवहारः । *अवास्तवत्वमिति । प्रकृतिमात्रस्य प्रत्ययमात्रस्य वा निराकाङ्क्षप्रतिपत्तिमन्निकरत्वन्नेति तस्याऽवास्तवत्वमित्यर्थः । शास्त्रीय प्रक्रियानिर्वाहाय तस्य स्वीकार इति भावः । " Page #419 -------------------------------------------------------------------------- ________________ ३९० दर्पणपरीक्षासहिते भूषणसारेशब्द इति । साधुशब्दान्तर्गता वाचका न वेति विप्रतिपत्तिः। विधिकोटिरन्येषां, नेति धैयाकरणानाम् । साधुशब्दे 'पचति' 'राम' इत्यादिप्रयुज्यमानेऽन्तर्गतास्तिब्विसर्गादय एव; बोधकाः-वाचकाः। तेषामेव शक्तत्वस्य प्राग्व्यवस्थापितत्वात् । नतु तैः स्मृता -लादय दर्पणः विप्रतिपत्तित्वाऽसम्भवः । नैयायिकैरपि साध्वन्तर्गतानां केषाञ्चिद् वाचकत्वाभ्युपगमात् । तादृशवर्णत्वावच्छेदेन वाचकत्वादिसाधने तु वैयाकरणानां परेषां विकरणेषु बाधश्चेत्याह-*तत्स्मृता इति । ननु यथाश्रुते साधुशब्दान्तर्गता वाचकास्तदन्तर्गतवर्णस्मारिता नेत्यर्थलाभादेतद्वा. क्यस्य विभिन्नधर्मिबोधकत्वाद्विप्रतिपत्तित्वस्यैवासम्भवः। एकधर्मिकविरुद्धकोटिकसंशयजनकस्यैव तत्त्वादतो व्याचष्टे सारे-*साधुशब्दान्तर्गता इति । साध्वन्तर्गतवर्णस्मारिता इत्यर्थः । यथाश्रुते साध्वनन्तर्गतविपरीतानां पूर्वोक्तवर्णानां वाचकत्वस्य के. नाप्यनभ्युपगमाद् बाधसिद्धसाधनयोरापत्तेः। तत्स्मारितत्वं च शास्त्रबोधितादेशादेशि. भावनिमित्तनिमित्तिभावान्यतरसम्बन्धेन। तेन अस्यापत्यं 'इ.' 'इयानात्यादे संग्रहः। ___ *विधिकोटिरिति । समुच्चयव्यावृत्ता कोटिताख्या विषयता संशये आवश्यकीति सूचनायोक्तं-*कोटिरिति । *अन्येषाम्*-नैयायिकानाम् । तैः "लः कर्मणि" ( पा०सू० ३।४।६९ ) "स्वौजसमौट्” ( पा०सू० ४।१।२) इत्यादिविहितप्रत्ययानामेव वाचकत्वम् , तिब्विसर्गादीनां त्वादेशिस्मृतिद्वारा बोधकत्वमेव लिपिवदित्यभ्युपगमात् । तथाच साध्वन्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन मतभेदेनोभयसाधनान्नोक्तदोष इति भावः । यथाश्रुतमूलोक्तविप्रतिपत्तिमनुसृत्याह-*साधुशब्द इत्यादि । ननु सा. ध्वन्तर्गतवर्णानां बोधकत्वसाधनेऽपि न वाचकत्वसिद्धिरत आह-*बोधका वाचकाइति । *तस्यैवेति । बोधकत्वस्यैवेत्यर्थः । *प्रागिति । शक्तिनिरूपणावसर इत्य परीक्षा ___ *तत्र = अष्टसु । तान् = स्फोटान् । विप्रतिपत्तिरिति । संशयजनककोट्युपस्थापकं वाक्यमित्यर्थः । साधारणासाधारणधर्मवत्ताज्ञानजन्यकोट्युपस्थितेर्यथा संशयजनकत्वम् , तथा विप्रतिपत्तिवाक्यजन्यकोट्युपस्थितिसत्षेऽपि संशयो भवति, साधारणो धर्म:-कोटिद्वयसामानाधिकरणो धर्मः, स्थाणुत्वस्थाणुत्वाभावसमानाधिकरणो धर्मवानयम्-वह्निमदवृत्तिवह्नयभाववद् पर्वतत्ववानयमिति वा ज्ञानं, यत्र ततः स्थाणुत्वतदभावयोर्वह्नित्वतदभावयोर्वोपस्थितावयं स्थाणु नवाऽयं वह्नि नैवेति संशयो भवति, तथा चैत्रेण शब्दो नित्यो वाऽनित्यो वेत्युच्चारिते मैत्रस्य ततः कोटिद्वयोपस्थितौ शब्दत्वावच्छिन्नैकविशेषतानिरूपितोभयकोटिप्रकारताकः संशयो भवति । असाधुशब्दान्तर्गतवर्णानां वाचकत्वमप्रस्तुतम् , अतः साधुशब्द इत्युक्तिर्मले ता. शविप्रतिपत्तिवाक्येन साधुशब्दान्तर्गतवर्णत्वसामानाधिकरण्येन वाचकत्वं साध्यते, तदवच्छेदेन वा। आद्य-नैयायिकैरपि केषाञ्चित्तादृशानामिजादिप्रत्ययानां दाक्षि. रित्यादौ वाचकत्वस्वीकारात्सिद्धसाधनापत्तेः । द्वितीये नैयायिकानाम्परेषाञ्च बाधः। विकरणानामनर्थकत्वादत आह-*नतु तैः स्मृता इति । नन्वेतावतापि न विप्रतिपत्तिशरीरनिष्पत्तिः, साधुशब्दान्तर्गतवर्णत्वसामानाधिकरण्येन वाचक Page #420 -------------------------------------------------------------------------- ________________ स्फोटनिर्णयः । ३९१ स्वादयश्चेत्यर्थः ॥ ६१ ॥ ये तु प्रयोगान्तर्गतास्तिव्विसर्गादयो न वाचकाः । तेषां बहुत्वेन शक्त्यानन्य।पत्तेः, एधाञ्चक्रे ब्रह्मेत्यादावादेशलुगादेरभावरूपस्य बोधकत्वासम्भवाश्च । किन्तु तैः स्मृता लकाराः स्वादयश्च वाचकाः । लत्वस्य जातिरूपतया शक्ततावच्छेदकत्वौचित्यात् । दर्पणः र्थः । बोधकत्वसिद्धौ च तदन्यथानुपपत्त्या पदार्थान्तररूपा शक्तिरपि सिद्धयेत्, तदभावे तु साऽपि नेति वाचकत्वसामान्याभावसिद्धिरिति भावः ॥ ६१ ॥ नैयायिकमतं दूषयितुमुपन्यस्यति--ये त्विति । वाचकत्वाभावे प्रयोजकमाह*तेषामिति । बहुत्वेनेत्युपलक्षणमनुगमकधर्माभावस्यापि तिङ्त्वसुप्त्वादीनामेकवच_नत्वादिवदनुगमकत्वासम्भवात्तित्वाद्युपस्थितिं विनापि कृत्याद्यर्थोपस्थितेर्व्यभिचारेण शक्ततानवच्छेदकत्वाच्चेति बोध्यम् । ननु तिबाधादेशिनामपि तत्तदनुबन्धभेदेन नानात्वान्नोक्तरीत्या तेषां वाचकत्वमत आह - * एधामिति । अनुप्रयुज्यमानधातूत्तरैधादीनापि तदर्थबोधोपपत्तेर्वोक्तदोषोऽत आह - * ब्रह्मेति । आदिना 'अद्य तिष्यो, लिट्, धुक्' इत्यादिसंग्रहः । लुगादेरित्यादिना, लुब्लोपयोः सः । *तैरिति । आदेशैरित्यर्थः । उक्तदोषमाशङ्क्याह—*लत्वस्येति* | *जातिरूपतयेति । लडादिलेषु ल - इत्यनुगत प्रतीत्या तत्सिद्धिरित्यभिप्रायः । नव्यास्तु — शक्ततावच्छेदकतया न तत्सिद्धिः, सर्वलकारसाधारणलत्वस्यातिप्रसक्तत्वाद्दशलकारमात्रवृत्तेस्तु शक्तिग्रहात् पूर्वमनुपस्थितेः पचन्नित्यादौ कृतिबोधापत्त्या परीक्षा त्वस्य नैयायिकसम्मतस्य तदन्तर्गते तत्स्मृते वाचकत्वाभावस्यैव साधने धर्मिभेदादेकधर्मिकविरुद्ध नानाधर्मप्रकारकज्ञानस्यैव संशयत्वादत आह— साधुशब्दान्तर्गता इत्यादि । तथा च साध्वन्तर्गतस्मृतानाम्प्रक्रियानिर्वाहकानां लादीनां वाचकत्वसाधने तात्पर्य्यमिति भावः । “लः कर्मणिः” इत्यादि "स्वौजमौट्” इत्यादिषु विहितानामेव वाचकत्वम्, प्रयोगे श्रूयमाणादेशानान्तु तत्स्मारकतयोपयोग इति परेषाम्मतम् । एवञ्च साधुशब्दान्तर्गतवर्णस्मृतवर्णतावच्छेदेन कोटिद्वयसाधनमभिप्रेतमिति नोक्तदोष इत्याशयः । ' वाचकत्वमिति कोटिरन्येषाम्, नेति वैयाकरणानाम् । परेषाम्मतङ्खण्डयितुमुपक्रमते साधुशब्द इति । तेषामेव* - बोधजनकानामेव ॥ ६१ ॥ परमतमाह -*ये त्विति । तदन्तर्गतानां वाचकत्वाभावे साधकान्तरमाह-* तेषामिति* । बहुवचनेत्युपलक्षणम् । शक्ततावच्छेकधर्माननुगमादित्यपि बोध्यम् । किञ्चतित्वादीनां शक्ततावच्छेदकत्वे तद्धर्मप्रकारकज्ञानस्यार्थोपस्थितौ कारणता वाच्या, सा न सम्भवति, तिङ्त्वानुपस्थितावपि लत्वेनैवोपस्थिता वृत्त्या कृत्याद्यर्थस्योपस्थिविदर्शनेन व्यभिचारात् । नन्वानन्त्यम्भवतामपि स्मृतानां लडत्वलिडत्वादिरूपेण शक्तत्वस्य भवत्सम्मतत्वादत आह-* एवामिति । *असम्भवाच्चेति* श्रूयमाणा Page #421 -------------------------------------------------------------------------- ________________ ३९२ दर्पणपरीक्षासहिते भूषणसारेअव्यभिचाराश्च । आदेशानां भिन्नतया परस्परव्यभिचरितत्वात् । "लः कर्मणि" इत्याद्यनुशासनानुगुण्याञ्च । न ह्यादेशेष्वर्थवत्ताबोधकमनुशासनमुपलभामहे इत्याहुः । तान् स्वसाधकयुक्तिभिर्निराचष्टे व्यवस्थितेर्व्यवहृतेस्तद्धेतुन्यायतस्तथा ॥ किश्चाख्यातेन शत्राद्यैर्लडेव स्मार्यते यदि ॥ ६२॥ कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय ।। व्यवस्थानुरोधात् प्रयोगान्तर्गता एव वाचकाः, न तु तैस्तत्स्मृ. ता इत्यर्थः । तथाहि-पचतीत्यादौ लकारमविदुषो बोधान्न तस्य दर्पण: तस्य शक्तत्वाऽवच्छेदकत्वासम्भवाच्च तिप्तस्त्वादिकमेव तदवच्छेदकमित्याहुः । तथाचोक्तविप्रतिपत्तौ प्राचीनैः सह विवाद एवेति बोध्यम् । *अव्यभिचाराच्चेति । लत्वावच्छिन्नशक्तिग्रहस्य कृतिबोधात् पूर्व नियमेन सत्त्वात् , तिप्त्वादीनां शक्यतावच्छेदकत्वे तु तदवच्छिन्नशक्तिग्रहं विनाऽपि तसादिशक्तिग्रहवत् कृतिबोधेनाऽऽदेशवाचकतावादिमते व्यभिचारो दुरि इति भावः। ननु कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशान्नेयमापत्तिरत आह-*ल: कर्मणीतीति । *इत्याहुरिति । तथाचादेशानामेव वाचकत्वं सप्रमाणमिति तद्भावः। *स्वसाधकेति । स्वमतपरिपोषकेत्यर्थः । व्यवस्थितरित्यादिपञ्चम्यन्तत्रयस्य पूर्वकारिकास्थबोधकपदार्थेऽन्वयं प्रदर्शयन्नादौ व्यवस्थितेरित्येतद्विवृणोति-*व्यवस्थानु. परीक्षा देशा एव वाचका इति भवत्सम्मतम्-तथा च प्रकृते आदेशानामश्रवणेनार्थबोधो न स्यादिति भावः। यद्यप्येधाञ्चक्र इत्यादावप्रयुज्यमानानामादेशानां सम्भवति तथापि ब्रह्मत्यादावसम्भव एवेत्याशयेन द्वितीयोपादानम्। आदिना "अतो हेः” इति लुग्विषये भवेदित्यादेरजर्घा इत्यादेश्वोपग्रहः लुगादेरित्यादिना लोपस्य संग्रहः। *तैः = आदेशैः । - ननु लकारस्य वाचकत्वेप्युक्तरीत्याऽनुपपत्तिरेवातआह-*लत्वस्येति । जातिरूपतयेति*-लत्वेऽनुगतप्रतीत्या तस्य सिद्धिरित्याशयः। *अव्यभिचारादिति । लिट्त्वादीनां शक्ततावच्छेदकत्वे स्वावच्छिन्नज्ञानाद्यनार्थोपस्थितिस्तत्रार्थोपस्थितेः प्रकृतित्वावच्छिन्नज्ञानाभावाद्वयभिचारः। एवमन्यत्रापि बोध्यम् । लत्वस्य शक्ततावच्छेदकत्वम्पाणिनिसम्मतमपीत्याह-*लः कर्मणीति* । नच लत्वस्य लवणादिशब्दघटकलकारेऽपि सत्वेनातिप्रक्तत्वमिति वाच्यम् । लट्त्वाधन्यतमत्वसामानाधिकरण्यविशिष्टलत्वं शक्ततावच्छेदकमित्यभिमानात् । *स्वसाधके. ति । स्वमतनिर्दुष्टसाधकेत्यर्थः । *व्यवस्थितेरिति । पञ्चम्यन्तन्तत्र यस्य हेतुसूचकस्य पूर्वकारिकाप्रतिपाद्यसाध्यसाधकत्वन्तत्रैवान्वयो बोध्यः । एतद्विवरणेन दर्शयति-*व्यवस्थानुरोधादित्यादिना । प्रमाणेन वस्तुतस्त्वस्य निर्धारणं व्यवस्था, तस्यास्साधकयुक्तिमित्यर्थः । *अविदुष इति*-अवैयाकरणस्येति शेषः ।, *तल्य* AHANI Page #422 -------------------------------------------------------------------------- ________________ स्फोटनिर्णयः । ३९३ वाचकत्वम् । न च तेषां तिक्षु शक्तिभ्रमाद् बोधः । तस्य भ्रमत्वे मानाभावात् । आदेशिनामपि तत्तद्वैयाकरणैः स्वेच्छया भिन्नानामभ्युपगमात् , कः शक्तः को नेति व्यवस्थानापत्तेश्च । सर्वेषां शक्तत्वे गौरवं, व्यभिचारश्चास्त्येव । मादेशानां प्रयोगान्तर्गततया नियतत्वाद् युक्तं तेषां शक्तत्वम् । तथाचाऽऽदेशिस्मरण. दर्पणः रोधादिति । प्रमाणेन पदार्थनिर्धारणं व्यवस्था तदन्यथानुपपत्तेरित्यर्थः । *शक्तिभ्रमादिति । लत्वावच्छिन्ननिष्ठवाचकत्वस्य तत्रारोपादित्यर्थः । *मानाभावादिति । विषयबाधस्यैव भ्रमत्वे तन्त्रतया प्रकृते बोधकत्वशक्तेस्तनाबाधादिति भावः । । नन्वादेशानां बहुत्वमेव तत्र शक्तिस्वीकारे बाधकमत आह-*आदेशिनामपी. ति* । *वैयाकरणैः । शाकटायनप्रभृतिभिः । *व्यवस्थेति । इदमेव वाचकमिति निर्धारणाऽनुपपत्तेरित्यर्थः। अनुशासनस्य सर्वत्रापि सत्त्वादिति भावः । सर्वेषामित्यस्य विनिगमकाभावादित्यादिः । ननु तथाप्यादेशापेक्षयाऽऽदेशिनामल्पत्वेन तत्प्र. युक्तालाघवादादेशिष्वेव वाचकत्वं सेत्स्यतीत्यत आह-*व्यभिचारश्चेति । ननु विनिगमनाविरहादेवादेशिनां वाचकतासिद्धिरत आह-*आदेशानामिति । तथाच गौरवादिदोषस्य तत्परिहारस्य चोभयोः साम्येऽप्यादेशिस्मरणकल्पनाविरहप्रयुक्तलाघवसहकृतप्रयोगनैयत्यमेवादेशानां वाचकत्वे विनिगमकमित्यखण्डलार्थः। ___ ननु बोधकतायाः शक्तित्व एव भवदुक्तव्यवस्थोपपत्तिः । न च बोधकत्वस्य शकित्वं तन्मतसिद्धं, किन्तु सङ्केतस्य पदार्थान्तरस्य वा तत्त्वम् । तथाचानुशासनेन यत्र सा प्रतिपाद्यते तत्रैव तदङ्गीकारेण कथं तिबादिषु तत्सिद्धिः। स्मरणकल्पनागौरवं तु प्रामाणिकत्वादपि न दुष्टमित्यस्वरसात् प्रयोगे श्रूयमाणानां तिबादीनां वाचकत्वे सा. परीक्षा लत्वावच्छिन्नस्य, *तेषाम्*-अवैयाकरणानाम् । *शक्तिभ्रमादिति। बोधकत्वरूप. शक्तरारोपादित्यर्थः । *मानाभावादिति । बोधकत्वरूपायाः शर्वाधाभावादिति भावः । लकारस्यैव कर्मत्वादौ विधानं यदि सर्वव्याकरणे प्रासद्धन्तदा भवदुक्त सम्भवः स्यात् , तदेव तु न । ललिडितिवत्ककिडित्यादिरीत्या विधानेऽपि प्रयोगो. पपत्तेरित्याशयेनाह-*आदेशिनामपीति | *वैयाकरणैः-शाकटायनादिभिः । *व्यवस्थानापत्तेश्चेति । इदमेव वाचकमिति निर्णयानुपपत्तेरित्यर्थः । अनुशासनानुरोधो हि भवताम्बलम्, तत्त्वनुशासन सम्भवतीति भावः। ___ नन्वस्तु विनिगमनविरहात्सर्वेषां वाचकत्वमत आह-*सर्वेषामिति । नन्वादेशापेक्षया आदिशिनामल्पत्वमेवेत्याशङ्कायामाह-व्यभिचार इति* । लत्वावच्छिन्न. ज्ञानाद्यनार्थोपस्थितिस्तत्र तिब्त्वावच्छिन्नज्ञानस्य ततः पूर्ववर्तिस्वाभावेन व्यमि. चार इत्यर्थः । स्वमतस्योपपत्तिमाह-*आदेशानामिति । यद्यप्यादेशिनामादेशापेक्षया आधिक्यागौरवम् । एवम्प्रत्येकज्ञानस्य कारणतायां व्यभिचारश्च । अस्मन्मतेऽपि तथादेशिस्मरणकल्पना नेति लाघवसहकृतप्रयोगनियतत्वमस्माकं विनिगमकम् । व्यभिचारवारणन्त्वव्यवहितोत्तरत्वसम्बन्धेन कारणवैशिष्टयस्य कार्यता -०८०प० Page #423 -------------------------------------------------------------------------- ________________ ३९४ दर्पणपरीक्षासहिते भूषणसारेकल्पना नेति लाघवम् । साधकान्तरमाह--*व्यवहृतेरिति* ॥ व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः। स च श्रयमाणतिङादिष्वेवेति त एव वाचका इत्यर्थः। .. किञ्च,-*तधेतुन्यायत इति* ॥ लकारस्य बोधकत्वे, 'भू-ल' इत्यतोऽपि बोधापत्तिः स्यात् । तादृशबोधे 'भव-मति' इति दर्पणः धकान्तरमुपन्यस्यतीत्याह-*साधकान्तरमिति*। *मुख्य इति । मुख्यत्वं च तस्मिन् शक्तिग्राहकान्तरनिरपेक्षत्वम् । व्याकरणादिना शक्तिग्रहे नियमे तद्ग्राहकान्तरापेक्षणात् । *सचेति । व्यवहारजन्यशक्तिग्रहश्चेत्यर्थः । *तिङादिष्वेवेति । व्यवहारेण पूर्ववाक्ये तद्ग्रहेऽप्यावापोद्वापाभ्यां पश्चात्तघटकतिडादिष्वेव तन्निर्णयादिति भावः । ननु प्रयोगान्तर्गतवर्णेषु सर्वसिद्धव्यवहारेण शक्तिग्रहे घटमानयेत्याधन्तर्गतशबादीनामपि वाचकत्वापत्तिः। न च सेष्टा । विकरणानां नैरर्थक्यमिति सिद्धान्तव्याकोपात् । किञ्चाऽऽनयनादिव्यवहारस्य लोडायन्तप्रयोग विनाऽसम्भवेन तादृशप्रयोगान्तर्गतवर्णानां तेन तत्त्वसिद्धावपि तद्रहितवाक्यान्तर्गतवर्णेषु वाचकत्वमनुशासनेनैवेष्टव्यम् । तथाच तत्रादेशिनां वाचकत्वसिद्धवन्यत्राप्यादेशिषु सा कल्प्येत्यस्वरसा. दाह-*किञ्चेति ॥ *तद्धेत्विति* ॥ “तद्धेतोरेव तत्त्वे किं तेन" इति न्यायाकारः, लाघवमूलकश्चायं न्यायः । उभयोहेतुत्वे गौरवापत्तेः । सङ्गमयति-*लकारस्येति ॥ *बोधापत्तिरिति* ॥ भवनकर्तृबोधापत्तिरित्यर्थः । 'न केवल' इति न्यायात् केवलल. कारस्य प्रयोगानहत्वादु'भू' इत्युक्तम् । लकारदशायां शपोऽसम्भवान्न भवतीत्युपात्तम् । तथाच भवतीत्यत्रानुसंहिताल्लकाराद्यथा कर्तबोधस्तथा प्रत्यक्षश्रुतलकारादपि कर्तबोधापत्तिरिति भावः ॥ न चासाधुत्वज्ञान प्रतिबन्धकम् । शक्तत्वरूपसाधुताया अपि सत्त्वादपभ्रंशादपि बोधोदयेन तदीयज्ञानस्याप्रतिबन्धकत्वाच्चेति भावः ॥ *तादृशेति ॥ आपादितक परीक्षा वच्छेदके निवेशेन कार्यमिति भावः । *साधकान्तरम्*-पूर्वसाध्यस्य हेत्वन्तरम् । एतेन बोधकत्वं यदि शक्तिः, तदा भवदुक्तिसङ्गतिः। तत्रैव तु विवादः, शक्तः सङ्केतरू. पतायाः परसम्मतत्वात् । तस्याश्च शक्तेरनुशासनेनादेशिष्वेव सिाद्धः । स्मरणप्रयुक्तकल्पनागौरवन्तु फलमुखत्वान्न दोषावहमिति परास्तम् । ____ आद्यशक्तिग्रहोपायव्यवहारस्यादेशविषय एव सम्भवेन तत्रैव शक्तेाय्यत्वा. दिति तिङादिष्वेवेतिव्यवहारेणादौ यद्यपि वाक्ये शक्तिग्रहः, तथाप्यावापोद्वापाभ्या. मुत्तरकालन्तद्धटकतिङादिष्वेव तनिश्चयेन भवत्सिद्धान्तविलोपापत्तिः। अतो व्यवहारेण यथा प्रथम वाक्ये शक्तिग्रहेऽपि पश्चात्त्यागः, तथादेशेषु जातशक्तिग्रहेऽप्यप्रामाण्यकल्पनास्तु, किन्त्वनुशासनसहायेन यत्र शक्तिनिश्चयः, तेषामेव वाचकत्वमस्त्वित्या. देशिनां वाचकत्वसिद्धिरत आह-*किञ्चेति । *न्यायत इति । तद्धेतोरेव तत्स्यात् किन्तेनेति भावादित्यर्थः । लाघवमूलकमिमं न्यायं सङ्गमयति-*लकारस्येत्यादिना । *बोधापत्तिः*-काद्यर्थबोधापत्तिः। केवललकारस्य प्रयोगानर्हत्वात् , भूशब्दसाहित्येनैव प्रयोगदर्शनम् । *तादृशबोधे*-भवनादिविशिष्टकादिविषयकबोधे । *भवतीति । Page #424 -------------------------------------------------------------------------- ________________ स्फोटनिर्णयः । ३९५ समभिव्याहारोऽपि कारणमिति चेत् , तावश्यकत्वादस्तु तादृशसमभिव्याहारस्यैव वाचकत्वशक्तिः । अन्यथा लकारस्य वाचकत्वं समभिव्याहारस्य कारणत्वञ्चत्युभयं कल्प्यमिति गौरवं स्यात् । तथाच तादृशसमभिव्याहारः, समभिव्याहृता. वर्णा वेत्यत्र विनिगमनाविरहात् प्रयोगान्तर्गता वर्णा वाचका इति सिद्ध्यतीतिभावः। दर्पणः तबोधे इत्यर्थः ॥ *समभिव्याहार इति* ॥ पूर्वापरीभावापन्नवर्णसमुदाय इत्यर्थः । आवश्यकत्वात्तं विनालकारेणापि बोधाजननेनोक्तसमभिव्याहारस्यापेक्षणादित्यर्थः ॥ *वाचकत्वशक्तिरिति* ॥ आर्थबोधकत्वरूपा शक्तिरित्यर्थः । तथाचाप्राप्तकालता वर्णस्फोटोपयोगित्वान्न स्यादिति भावः। वाचकत्वानभ्युपगमे आदेशिशक्तिवादिमते गौरवं प्रदर्शयति-*अन्यथेति । उक्तसमभिव्याहारस्य वाचकतानभ्युपगमे इत्यर्थः। नन्वेतावता समभिव्याहारस्य वाचकत्वमायातं, न प्रयोगान्तर्गतधातुप्रत्ययघटकानां वर्णानामत आह-*तथाचेति ॥ *विनिगमनाविरहादिति ॥ न च वर्णानां बाहुल्यमेव विनिगमकम् । उक्तानुपूर्व्यास्तदनुगमकत्वात् । किञ्च समभिव्याहारस्य वाचकत्वे तत्घटकनानावर्णानामवच्छेदकतायां गौरवम् । वर्णानां वाचकत्वे तूक्तामुपूर्व्या एकस्या एव तत्त्वमिति लाघवस्यैव विनिगमकत्वमिति भावः। ---- - ननु प्रयोगान्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन वाचकत्वसिद्धौ प्रकृतायांवाचकत्वा. भावसाधनाय भू+ल् इत्यतो भवनक्रियाकर्तृबोधापादनमनुचितम् । तादृशलकारस्य प्रयोगान्तर्गतवर्णास्मारितत्वात्। तथाच नोक्तयुक्तिः समभिव्याहारस्य वाचकत्वसाधिका। नाप्यत्र तीतुन्यायावकाशः। समभिव्याहारस्य लवाचकताग्रहोपयोगितया शाब्दबोधे हेतुत्वेऽपि तद्वाचकतायां मानाभावेन तेन तदन्यथासिद्धयसम्भवात् । लका ___ परीक्षा अस्यादेरिति शेषः। *समभिव्याहारः* । पूर्वापरीभावापन्नपरिनिष्ठितसमुदायघटकया. वद्वर्णोच्चारणम् । नच 'भूल' इत्यादिभ्यो न बोधापत्तिरसाधुत्वज्ञानस्य प्रतिबन्धक त्वादिति, अपभ्रंशादपि बोधस्य दर्शनेन तस्याप्रतिबन्धकत्वात् । आवश्यकत्वा. दिति । तादृशसमभिव्याहारज्ञानं विना केवललकारेण बोधादर्शनेन समभिन्याहारज्ञानस्य कारणताया आवश्यकत्वादित्यर्थः । *समभिव्याहारस्येति । एवकारेण लकारस्य व्यवच्छेदः। *वाचकत्वशक्ति:-अर्थबोधजनकत्वरूपशक्तिः । सिध्यतीति शेषः। *अन्यथा-उभयोरप्यर्थबोधजनने सहायत्वे । *प्रयोगान्तार्गतवर्णा इति । नचादौ वाक्यस्फोटस्य वाचकत्वमुक्तमिदानीम्प्रयोगान्तर्गतवर्णानान्तत्साध्यते; इत्यप्रकृतमिति वाच्यम् । वक्ष्यमाणवर्णस्फोटोपयोगित्वात्। अत्र प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्वम् इति नियमोऽपि साधको दृष्टव्यः । नच प्रत्येकापर्याप्तस्य द्वित्वस्य समुदायपर्याप्तत्वदर्शनेनोक्तनियमो व्यभिचरित इति वाच्यम् । तस्यापि समवायेन प्रत्येकवृत्तित्वाभ्युपगमात् । अत एव स्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वरूपव्यासज्यवृत्तित्वस्य सिद्धिः। न च प्रयोगान्तर्गतवर्णानां वाचकत्वे तेषां बहुत्वा. दूगौरवमिति वाच्यम् । आनुपूर्यास्तदनुगमकत्वादिति । Page #425 -------------------------------------------------------------------------- ________________ ३९६ दर्पणपरीक्षासहिते भूषणसारे - अपि च लकारस्यैव वाचकत्वे कृत्तिङोः कर्तृभावनावाचकत्वव्यवस्था त्वत्सिद्धान्त सिद्धा न स्यादित्याशयेनाह -*किञ्चेति* ॥ आदेशानां वाचकत्वे च तिङ्त्वेन भावनायां, शानचादिना कर्तरि शक्तिरित्युपपद्यते विभाग इति भावः । न च शानजादौ कृतिर्लकारार्थः, आश्रयः शानजर्थ इत्यस्तु, "कर्त्तरि कृत्" ( पा० सू० ३।४।६७ ) इत्यनुशासनादिति शङ्कम् । स्थान्यर्थेन निराकाङ्क्षतया शानजादौ कर्तरीत्यस्याप्रवृत्तेः । अन्यथा घञादावपि प्रवर्त्तत ॥ ६२ ॥ 'देवदत्तः पचमान' इत्यादिसामानाधिकरण्यानुरोधाच्छानचः कर्ता वाच्यः स्यादित्याशङ्कयाह तरबाद्यन्ततिङ्क्ष्वस्ति नामता कृत्स्विव स्फुटा ॥ ६३॥ नामार्थयोरभेदोऽपि तस्मात्तुल्योऽवधार्य्यताम् । दर्पणः रस्य वाचकत्वे त्वनुशासनस्यैव मानत्वादित्यपरितोषान्मूलमवतारयति-अपिचेति* ॥ *न स्यादिति ॥ स्थानिनो लकारस्योभयत्रैक्यादिति भावः । hotoकन तु नेयमापत्तिः । तैः प्रयोगान्तर्गततिबादीनामेव वाचकताया अभ्युपगमात् । धातुप्रत्ययलोपस्थले तत्तदर्थबोधोपपादनं तूभयोः समप्रयत्नकत्वमित्यवधेयम् । *इत्यस्त्विति* ॥ तथाच तदुभयशक्त्यैव कर्त्तृलाभः । कृत्याश्रयस्यैव कर्तृस्वादिति भावः ॥ *अन्यथेति । अनाकानेऽपि शास्त्रप्रवृत्तावित्यर्थः । शक्ततावच्छेदकभेदस्य तत्रापि सत्त्वादिति भावः ॥ ६२३ ॥ *सामानाधिकरण्यानुरोधादिति । शानचः कृतिवाचकत्वे सर्वानुभवसिद्धाभेदापरीक्षा नच 'तद्धेतु न्यायत' इत्यनुपपन्नम् । समुदायस्य शाब्दबोधजनकत्वे सहायत्वेऽपि पदार्थस्मारकत्वरूपबोधजनकत्वग्रहे सहकारित्वादित्यत आह- *अपि चेति । *कृत्तिङोरिति । अस्य यथासङ्ख्यमन्वयो न स्यात्, स्थानिनो लकारस्यैकत्वेन भेदसिद्धेरिति शेषः । इदम्प्रयोगान्तर्गतवर्णानां वाचकत्वव्यवस्थापनम्प्राचीननैयाविकान् प्रति, नव्यैस्तु तिवादिष्वेव वाचकत्वस्य स्वीकारात् । यत्र धातोः प्रत्ययस्य ar लोपः, तत्रार्थबोधजननोपायस्तुभाभ्यामपि समान इत्यवधेयम् । *इत्यस्विति* । कृत्याश्रयस्यैव कर्त्तृपदार्थत्वादिति भावः । *अन्यथा* - अर्थाकाङ्क्षाभावेऽपि शास्त्रप्रवृत्तौ । *प्रवर्त्तेतेति* तथाच यत्रार्थाकाङ्क्षा तत्रार्थव्यवस्थापकशास्त्रप्रवृत्तिभवतापि वाच्येति भावः ॥ ६२३ ॥ मन्मते साधकान्तरमस्तीत्याह--देवदत्त इत्यादिना * । नचैवं शनशानचो र्लादेशत्वकल्पनमनर्थकम् । तृजादिवत्प्रत्ययान्तरत्वस्यैव स्वीकर्तुमुचितत्वादिति वाच्यम् । धात्वर्थे वर्त्तमानत्वस्यान्वयबोधजननस्य तत्फलत्वात् । *तरबाद्यन्तेति* कृत्स्विव तरबाद्यन्ततिक्षु नामता स्फुटाऽस्तीत्यन्वयः । तिङन्त प्रकृतिकतरबन्तेषु Page #426 -------------------------------------------------------------------------- ________________ ३९७ ना स्फ़ोटनिर्णयः। पचतितरां मैत्रः, पचतिकल्पं मैत्र इत्यादिषु नानार्थत्वाभेदान्वययोः सम्भव एवेति कर्तृवाचकता स्यादिति भावः । न च 'पचतिकल्पम्' इत्यत्र सामानाधिकरण्याऽनुरोधात् कर्तरि लक्षणा, 'पचमान' इत्यत्राप्यापत्तरिति । "लः कर्मणि" इत्यनुशासनश्च लाघवात् कल्पिते लकारे कादिवाचित्वं कल्पितमादायेत्युक्तम् ॥ ६३ ॥ __ इति वर्णस्फोटनिरूपणम् । दर्पणः न्वयबाधानुपपत्तेरित्यर्थः । लडादेशत्वबोधनफलं धात्वर्थवर्तमानत्वप्रतीतिरेवेति बोध्यम् । *पचतिकल्पमिति । इदञ्च स्वाद्यन्तं नामेति मतमनुसृत्य । 'सत्त्वप्रधा. नानि नामानि' इतिनिरुक्ताद् द्रव्यविशेष्यकबोधजनकत्वं नामत्वम् । तदेव च 'नामा. र्थयोः' इति व्युत्पत्तिघटकम् । अत एव निपातार्थस्य भेदाऽन्वय इति मतेनेदं दूषणमिति तु परे । लक्षणेत्यस्य लस्येति शेषः। ___ *आपत्तेरिति । नच सा तवेष्टेति भावः । नन्वादेशानां वाचकत्वे आदेशिशक्तिप्रतिपादक "लः कर्मणि" इत्यादिसूत्राणां वैयर्थ्यमत आह-*लः कर्मणीति*। *उक्तमिति* । आख्यातशक्तिनिरूपणावसर इति शेषः । एवञ्च प्रयोगे श्रूयमाणप्रकृतिप्रत्ययघटकवणेषु शक्तिवर्णस्फोटमिति पर्यवसन्नम् ॥ ६३३ ॥ इति भूषणसारदर्पणे वर्णस्फोटनिरूपणम् ॥ १३ ॥ ___- 000000 -- __ परीक्षा पचतितरामित्यादिषु नामत्वमस्तीति पचतितरान्देवदत्त इत्यादिषु सामानाधिकरण्यानुरोधात्कर्तुस्तिवाच्यत्वमस्तु, कृत्प्रत्ययस्थले नामार्थयोरभेदान्वय इति नियमानुरोधो भवताकर्तुच्यत्वमिति चेत्पचतितरान्देवदत्त इत्यादावपि तस्यानुरोधस्तुल्य इत्यर्थः। इदं सुबन्तन्नामेति मतेन । यदि तु 'सत्त्वप्रधानन्नाम' इति 'चत्वारि पदजातानि नामाख्यातोपसर्गनिपातः' इति उक्तवाक्ये उपसर्गनिपातयोः पृथगुपादाने नाश्रीयेते तदा नायन्दोष इत्यवधेयम् । - अथवा-तरबाद्यन्तेत्यादिना कर्तुरादेशवाच्यत्वसाधिका भवदुक्तिः, सा न युक्ता। लकारस्य कर्तरि लक्षणव्यापिसामानाधिकरण्यस्योपपत्तिरिति कस्यचिच्छङ्कानिरस्यति-*नचेत्यादिना । नन्वादेशानामेव वाचकत्वे "लः कर्मणि" इति सूत्रविरोध इत्यत आह-*ल:कर्मणीति*। *उक्तमिति । आदेशिशक्तिनिरूपणावसर इति शेषः । एवञ्च प्रयोगे श्रूयमाणेषु प्रकृतिप्रत्ययेषु वर्णसमुदायरूपेषु शक्तिासज्यवृत्तिरिति वर्णस्फोटपक्षः सिद्धः ॥ ६३३ ॥ इति वर्णस्फोटविवरणम् । Page #427 -------------------------------------------------------------------------- ________________ अथ पदस्फोटनिर्णयः । अथाऽऽदेशा वाचकाश्चेत् पदस्फोटस्ततः स्फुटः॥१४॥ एवमादेशानां वाचकत्वे सिद्ध पदस्फोटोऽपि सिद्ध एवेत्याह*मथेत्यादि* ॥ आदेशास्तिब्विसर्गादयः। अयम्भावः-समभिव्याहृतवर्णानां वाचकत्वे सिद्ध तादशवर्णसमभिव्याहाररूपपदस्य वाचकता सिद्ध्यति । प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वात् । प्रत्येकं वर्णानानामर्थवत्त्वे प्रातिपदिकत्वापत्तौ "नलोपः प्रातिपदिकान्तस्य" (पा० सू० ७।२७) इत्यादिभिर्धनं वनमित्यादौ नलोपाद्यापत्तिश्च ।। दर्पणः अथ पदस्फोटनिर्णयः। पदस्फोटनिरूपण उपजीव्योपजीवकभावल्याऽपि सङ्गतित्वं सूचयन् मूलमवतारयति-*एवमिति । उक्तरीत्येत्यर्थः । आदेशानामपि केषाञ्चित् प्रयोगान्तर्गतत्वादाह-*तिब्विसर्गादय इति । प्रयोगान्तर्गतवर्णानामिति यावत् । ननु यावद्वर्णानां वाचकत्वे, कथं पदस्फोटसिद्धिरतो भावार्थमाह-*अयमिति । समभिव्याहृतं तूक्तार्थम् । सिद्ध इति । आनुपूर्वी विशिष्टतावतां वर्णानामवाचकत्वे आनुपूर्तीरूपपदस्य वाचकत्वाशा दुराशेति भावः। ___ ननु समुदायस्य प्रत्येकानतिरिक्तत्वेन वाचकतायाः प्रत्येकवणे विश्रामो वाच्यः, तथाच कथं समुदिततादृशवर्णरूपपदस्य वाचकतेत्यतः प्रत्येकवर्णवाचकतां निरस्यति*प्रतिवर्णमिति* । *अनुभवविरुद्धत्वादिति । घटशब्दादमुमर्थे प्रत्येमीत्येव प्रतीतेरित्यर्थः । बाधकान्तरमप्याह-*प्रत्येकमिति । *अर्थवत्त्व इति । तदभ्युपगम - परीक्षा अथ पदवाक्यस्फोट निरूपणम् । वर्णस्फोटनिरूपणपदस्फोटनिरूपणयोरुपजीव्योपजीवकभावसङ्गतिरिति सूचयन्नाह-*एवमिति । पूर्वोक्तरीत्या वर्णस्फोटसाधनाय प्रवृत्या वराटिकान्वेषणाय प्रवृत्तिश्चिन्तामणि लब्धवानिति वा शिष्टोक्ता जाणफन्यायेन पदस्फोटस्य सिद्धिरिति भावः। प्रयोगानन्तानामादेशानान्निरासायाह-*तिबित्यादि । *तादृशवणेति । आनुपूर्वीविशिष्टवणेत्यर्थः। ननु समुदायस्य वाचकत्वे तस्याऽवयवानतिरिक्तत्वात्प्रत्येक वर्णानां वाचकत्वमा स्त्वित्यत आह-*प्रतिवर्णमिति । *अनुभवविरुद्धत्वादिति । कलशशब्दादमुमर्थ प्रत्येमीत्येवानुभवोऽस्तीति भावः। प्रत्येक वाचकत्वे दोषान्तरमप्याह-*प्रत्येक मिति । *अर्थवत्त्वे । अर्थवत्त्वस्यापत्या। तथा च समुदितानामेव वाचकत्वमुपेय मिति भावः। Page #428 -------------------------------------------------------------------------- ________________ पदस्फोटनिर्णयः। ३९९ एतच्च, चरमवर्ण एव वाचकत्वशक्तिः, शक्तासज्ज्यवृत्तिस्वे मानाभावात् । पूर्वपूर्ववर्णानुभवजन्यसंस्काराश्चरमेणार्थधीजनने सहकारिण इति न तन्मात्रोच्चारणादर्थधीरिति वर्णस्फोटवादिनां मतान्तरस्य दूषणायोक्तम् । रामोऽस्तीति वक्तव्ये राम इत्यनन्तरं घटिकोत्तरमकारोच्चारणेऽर्थबोधापत्त्या तादृशानुपूर्त्या एव शकरक्त . . दर्पणः इत्यर्थः । नलोपादीत्यादिना जश्त्वादिपरिग्रहः । तथाच समुदितानामेव तेषां वाचकत्वमम्युपेयम् । तत्र चोक्तयुक्त्या तत्समुदायस्य वाचकत्वं निराबाधम् । स एव चाsस्माकं पदशब्दव्यपदेश्य इति भावः। . ननु प्रत्येकवर्णानां वाचकत्वस्य गौरवपराहतत्वादेवासम्भवात्समुदायस्यैव तत् सेत्स्यतीत्यादेशा वाचकाश्चेति समभिव्याहृतवर्णानां वाचकताया हेतुत्वोपन्यासो विफलः । उन्मत्तप्रलपितत्वशङ्काया अवसरेणैव निरासादित्यत आह-*एतच्चेति । समभिव्याहृतवर्णानां वाचकत्वोपन्यसन चेत्यर्थः । *चरमवर्ण एवेति । पदान्ते श्रूयमाणवर्ण एवेत्यर्थः । एवकारेण पदघटकतत्प्राक्तनवर्णव्युदासः । तत्र हेतुमाह-*शक्तेरिति । स्वरूपसम्बन्धात्मिकायां बोधकारणतायां पर्याप्तत्वासम्भवाच्चरमवर्णादेव बोधोदयेनान्यत्र तत्सत्त्वे मानाभावादिति वाऽर्थः। ननु तस्यैव वाचकत्वे तन्मात्रश्रवणादर्थबोधापत्तिरत आह-पूर्वपूर्वेति । तत्प. दघटकपूर्ववर्णेत्यर्थः । *मतान्तरेति । तत्समभिव्याहृतवर्णानामवाचकत्वे तत्समुदायरूपपदस्य सुतरामवाचकत्वमिति यन्मतान्तरं तत्खण्डनायेत्यर्थः। उक्तमित्यस्य, मूल इति शेषः । *अर्थबोधापत्येति ॥ वस्तुतस्तु नेयमापत्तिः । उद्बोधकस्य फलानुमेयत्वेन तादृशस्थले फलाभावेनोबुद्धसंस्काराभावादिति बोध्यम् । ननु समभिव्याहारो न समूहः । वर्णानां क्रमिकाणामाशुविनाशिनां च तदसम्भवादत एवाव्यवहितोत्तरत्वसम्बन्धेन न पूर्वपूर्ववर्णवत्वम् । पूर्वपूर्ववर्णस्यैवाभावात् । नाऽपि वर्णसमवेतं पदार्थान्तरं, मानाभावात् । अन्यथा तादृशधर्मानुगतीकृतवर्णानां वाचकत्वेनैवोपपत्तौ पदस्फोटस्य निरालम्बनतापत्तेः । पदप्रयुक्तकार्याणां वर्णेष्वेव दर्शनाच्चेति कथं पदस्फोटसिद्धिरित्यत आह-दिगिति। तदर्थस्तु वर्णसमुदायः पदं, न वर्ण इति प्रतीतेर्वर्णातिरिक्तपूर्वापरीभूततत्समुदायात्मकपदस्वीकार आव . परीक्षा नचैवम्प्रत्येकं वर्णानां वाचकत्वं गौरवादेव निरस्तम्भवति, किमर्थं भवतोक्तमुत्तरत्र समुदायस्य वाचकत्वं साध्यत इत्यत आह-*एतच्चेति समभिव्याहृतवर्णानां वाचकत्वोपन्यसनत्वमित्यर्थः । *चरमवण*। पदचरमावयववणे । एतच्छ्रवणं विनाऽर्थबोधाभावेनान्वयव्यतिरेकाभ्यान्तत्र शक्तिः कल्प्यत इति भावः। :. ननु तर्हि तन्मात्रश्रवणाद्वोधापत्तिरत आह-*पूर्वपूर्वेति* । पूर्वस्मिन्मते दूषणान्तरमाह-*राम इत्यादिना*। एतच्च दूषणं यत्रोद्बोधकसमवधानात्तावतां स्मरणजायते तत्रेति बोध्यम् । ननु वर्णानां समभिठ्याहारो न समूहरूपः । वर्णानामाशुविनाशितया तस्यासम्भवात् । अव्यवहितोत्तरत्वसम्बन्धेनैकवर्णविशिष्टापरवर्णत्वमप्यत एव न सम्भवतीति, Page #429 -------------------------------------------------------------------------- ________________ ४०० दर्पणपरीक्षासहिते भूषणसारेतावच्छेदकत्वौचित्यादिति दिक ॥ ६४॥ सुप्तिङन्तं पदमिति पारिभाषिकपदस्य वाचकत्वस्वीकर्तृणां मतमाह घटेनेत्यादिषु न हि प्रकृत्यादिभिदा स्थिता। वस्नसादाविवेहापि सम्प्रमोहो हि दृश्यते ॥ ६५ ॥ घटेनेत्यादौ 'घटे' इति प्रकृतिः 'न' इति प्रत्ययः, 'घट्' प्रकृ. तिः 'एन' इति प्रत्यय इति विभागस्य, "सर्वे सर्वपदादेशा” इति स्वीकारे विशिष्य प्रकृतिप्रत्यययोर्ज्ञानासम्भवान्न वाचकत्वमित्यर्थः । वैयाकरणविभागः सुज्ञेय इत्यतो दृष्टान्तव्याजेनाह-वस्नसा. दाविति* ॥ “बहुवचनस्य वस्नसौ” (पा०सू० ८।१।२१) इति समु . दर्पणः श्यकः । अत एव पदे वर्ण इति व्यवहारोऽपि स्वरसतः सङ्गच्छते । नित्याश्च वर्णास्तेषु पौर्वापर्यञ्च पूर्वपूर्ववर्णानुसन्धानस्याव्यवहितोत्तरत्वसम्बन्धेनोत्तरवर्णानुसन्धाने वा. क्यस्फोटवक्ष्यमाणरीत्या सम्भवात्तदूं विषयकानुसन्धानविशिष्टानुसन्धानविषयत्वरूपमिति स्वीकारेऽपि क्षत्यभावाच्च । यथा चैतत् तथा वाक्यस्फोटनिरूपणे वक्ष्यत इति तथा च वर्णसमुदायो वाचक इति पदस्फोटपक्षे पर्यवस्यति ॥ ६४॥ ___ *पारिभाषिकेति* । शास्त्रकारसङ्केतितेत्यर्थः । पूर्व तु प्रकृतिघटकवर्णसमुदायरूपस्य प्रत्ययघटकवर्णसमुदायरूपस्य च तस्य वाचकतोक्ता। इदानीन्तूमयसमुदायस्यैव सेति भेदः । घट् इति प्रकृतिरेनेति प्रत्यय इति प्रकृतिप्रत्ययोविभागस्य ज्ञानासम्भवादिति योजनाय-*सर्वे सर्वपदेति ॥ वर्णानित्यताप्रतिपादकं भाष्यमेतत् । वस्नसादेरपि पक्षत्वादाह-*व्याजेनेति । तथा च निश्चितसाध्यवत्वस्यैव दृष्टान्तत्वे परीक्षा समुदायपर्याप्तं वाचकत्वमित्यसङ्गतमत आह-*दिगिति । दिगर्थस्तु-स्वसामानाधिकरण्य स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्व उभयसम्बन्धेनैकवर्णविषयकज्ञानविशिष्टज्ञानविषयत्वमपरवणे इत्येवं रीत्या आनुपूर्वी कल्पनीया तस्या नानुपपत्तिरिति ॥६४॥ ननु 'शक्तम्पदम् इति वदताम्परेषामपि पदस्य वाचकत्वं सिद्धमेवेत्यत आह-*सुप्तिअन्तमिति । पूर्वोक्तरीत्या प्रकृतिप्रत्ययसमुदायस्य वाचकत्वसिद्धावपि यत्र प्रकृतिप्र. त्ययविभागः सुज्ञानः, तस्यैव वाचकत्वमिति शङ्कानिवारणायायम्प्रयत्न इत्यवधेयम् । *स्वीकार इति । शब्दानान्नित्यत्वसमर्थनाय भाष्यकृतेति शेषः। *नवाचकत्वमिति । पार्थक्येनेति शेषः। किन्तु समुदायस्यैव तत्त्वमुपेयमिति भावः । *दृष्टान्तव्याजेनेति। अयमत्र प्रयोगः-घटेनेत्यादिसमुदायाः-घटाद्यभिन्नकरणादिशक्ताः, घटायभिन्न करणादिप्रतीत्यन्वयव्यतिरेकानुविधायिज्ञानविषयत्वात् । *वस्नसादिवदिति । नच वस्नसादीनामपि पक्षान्तर्गतत्वादृष्टान्तत्वेनोपादानासङ्गतिरिति वाच्यम् । निश्चितसाध्यकस्य दृष्टान्तत्वं भवति, तञ्च वस्नसादावप्यस्तीत्याशयात्। तत एव व्याजपदम् । *समु Page #430 -------------------------------------------------------------------------- ________________ पदस्फोटनिर्णयः। ४०१ दायस्याऽऽदेशविधानान्नात्र तद्विभागः सम्भवतीत्यर्थः ॥ ६५ ॥ .. सुप्तिङ्गन्तचयरूपवाक्यस्यापि तदाह हरेऽवेत्यादि दृष्वा च वाक्यस्फोटं विनिश्चिनु । अर्थे विशिष्य सम्बन्धाग्रहणं चेत् समं पदे॥६६॥ लक्षणादधुना चेत्तत्पदेऽर्थेऽप्यस्तु तत्तथा। हरेऽव विष्णोऽवेत्यादौ पदयोः “एङः पदा तादति” (पा०सू० ६।१।१४)इत्येकादेशे सति न तद्विभागः सुज्ञानः।तथा च प्रत्येक पदाज्ञानेऽपि समुदायशक्तिवानाच्छाब्दबोधात् समुदायेऽप्यावश्यिकी शक्तिः। एवञ्च प्रकृतिप्रत्ययेषु विशिष्याज्ञायमानेष्वपि समुदायव्युत्पत्त्या दर्पणः तन्त्रत्वेन तस्य पक्षभिन्नत्वाभावेऽपि न दृष्टान्तत्वमनुपपन्न मिति भावः। *तत्र । वस्नसादिस्थले । विभागः*-तन्निर्णयः । अस्य वैयाकरणानामपीति शेषः । ____ परे तु आमादौ प्रत्ययत्वस्य दृष्टत्वेन वामित्यादावामो न इत्यादेर्वसादेः प्रत्ययत्वमितरांशस्य प्रकृतित्वमनुमातुमशक्यमित्युक्तरीत्या न प्रकृतिप्रत्ययसमुदायरूपपदस्य वाचकत्वसिद्धिः। घटेनेत्यत्र तु नशब्दस्य टादेशत्वं भाष्यकृतैवोक्तमिति न तत्र विभागासिद्धिः । 'अजर्घाः, 'अचकात्' इत्यादौ त्वगत्या "शिष्यमाणं लुप्यमानार्थाभिधायि" इति न्यायात् प्रकृतेरेव वाचकता। अस्तु वा तत्रापि लुप्तप्रत्ययानुसन्धा. नाद् बोधः । प्रकृतेः स्वार्थ विशिष्टप्रत्ययार्थे लक्षणा वा । 'सर्वे सर्वपदादेशा' इत्यपि वर्णानित्यत्ववादिनां मते दुरापास्तमित्याहुः ॥६५॥ __युक्त रैक्यात् क्रमप्राप्तं वाक्यस्फोटनिरूपणमित्याशयेन मूलमवतारयति-*सुप्तिडन्तेति* । *तत्*-वाचकत्वम् । *समुदाय इति । पदसमुदायरूपे वाक्ये इत्यर्थः । *एवमिति । वाक्यशक्तिवदित्यर्थः। विशिष्य* । सूत्रोपात्तरूपेण । अज्ञायमानेवित्यनेन तनिष्टबोधकत्वज्ञानाऽसम्भवः सूच्यते । *समुदायव्युत्पत्त्येति । समुदा परीक्षा दायस्य-प्रकृतिप्रत्ययसमुदायस्य । तद्विभागइति । प्रकृतिप्रत्यययोः पार्थक्येन निश्चय इत्यर्थः। अन्न प्रक्रियाज्ञानवतां वैयाकरणानामपि न विभागज्ञानम् । "टासि" इति सूत्रेण नादेशस्य भाष्यकारोक्तरीत्या विधानेन प्रकृतिप्रत्ययविभागज्ञानसम्भवाद् घटेनेत्यादावित्यादिपदमुपात्तम् । तेन घट इत्यादिपरिग्रहः । वस्त्रसादौ प्रकृत्यादिकल्पनन्त्वाग्रहमात्रम् ॥ ६५॥ पदस्फोटन्निरूप्य युक्तिसाम्याद्वाक्यस्फोटं निरूपयति-*सुप्तिङन्तचयेति । तद्वाचकत्वे युक्तिसाम्यन्दर्शयति-हरेवेत्यादिना । तद्विभाग:-पदद्वयविभागः । *समुदायशक्तिज्ञानादिति । समुदाये हरेऽवेत्यादिसमुदायस्थ शक्तिः स्वीकार्य्या । . ___*एवमिति* । वाक्यशक्तिवदित्यर्थः । विशिष्यः*-तत्तत्सूत्रप्रवृत्तिक्रमेण । यदि तत्तत्सूत्रप्रवृत्तिज्ञानं स्यात् । तदा प्रकृतिप्रत्यययोर्बोधकतारूपशक्तिज्ञानसम्भवः ल्यात् तथा नास्तीति ध्वननाय ज्ञायमानेत्युक्तम् । *समुदायव्युत्पत्या* । “पक्ति ५१ द० ५० Page #431 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - ४०२ बोधात् तत्राप्यावश्यकै शक्तिरिति भावः । वस्तुतः पदैः पदार्थबोधवद्वाक्येन वाक्यार्थबोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिर्वाक्येऽभ्युपेयेति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ । अन्यथा घटः कर्मत्वमानयनं कृतिरित्यादौ तादृशव्युत्पत्तिरहितस्यापि बोधप्रसङ्गः । घटमानयेत्यत्रेव पदार्थानामुपस्थितौ, दर्पणः यस्य वाचकत्वग्रहेणेत्यर्थः । * बोधात् प्रकृत्यर्थविशिष्टप्रत्ययार्थबोधादित्यर्थः । *त्रापि । सुप्तिङन्तरुपपदेऽपि । शक्तिरिति । तत्कल्पनेत्यर्थः ॥ ननु घटेनेत्यादिमूलेन समयुक्तिकस्फोटद्वयोपादानात् कथं पदस्फोटे साध्ये वाक्यस्फोटस्य दृष्टान्तत्वम् । किञ्च प्रथमं पदस्फोटस्य सिद्धौ तदर्थ सम्बन्धरूपवाक्यार्थाप्रसिद्धया व वाक्यशक्तिकल्पनावसर इत्याद्यपरितोषात् पदस्फोटमेव दृष्टान्तीकृत्य वाक्यशक्ति साधयति - वस्तुत इति । तथाच यत्र पदोपस्थित्या पदशक्तिग्रहसम्भवस्तन पदशक्त्यैव वाक्यार्थबोधो, यत्र तदसम्भवो हरेऽवेत्यादौ तत्रानापत्या वाक्यशक्त्यैव तद्बोध इति । यद्यपि व्यवस्थिताविति पदमहिम्ना पक्षद्वयं व्यवस्थितमिति लभ्यते, तथापि आवश्यकवाक्यस्फोटेनैवोपपत्तौ पदस्फोटकल्पनं नावश्यकमिति सिद्धान्ते वाक्यस्फोट एव पर्य्यवस्यतीति बोध्यम् । वाक्यस्फोटस्यावश्यकतामेव दर्शयति — अन्यथेति । वाक्यशक्त्यनभ्युपगमे इत्यर्थः । तादृशेति । वाक्यार्थबोधजनकत्वरूपवाक्यशक्तिज्ञानरहितस्यापीत्यर्थः । तत्सत्त्वे तु तत्राऽपि बोध इष्ट एवेति भावः । *बोधप्रसङ्गः * । घटकर्मका नयनानुकूलकृतिबोधापत्तिरित्यर्थः । पदवृतिज्ञानजन्य पदार्थोपस्थितेः सत्त्वादिति भावः । *घटमानयेत्यत्रेवेति । अत्र तादृशव्युत्पत्तिरहितस्येत्यनुषज्यते । परीक्षा विंशति" इत्यादि सूत्रनिपातितसमुदायस्य सहस्रादिशब्दानाञ्च व्युत्पत्त्या । *शक्तिग्रहेण एकैवेति* । एवकारेण प्रकृतिप्रत्यययोः पृथक् शक्तिव्यवच्छेदः । ननु 'घटेन' इत्यादिमूलेन समानयुक्त्या पदस्फोटवाक्यस्फोटयोर्व्यवस्थापनमसङ्गतम्, पदस्फोटासिद्धौ पदार्थ संसर्गरूपवाक्यार्था प्रसिद्धेस्तादृशार्थबोधकत्वं वाक्येन सिध्यतीति कथं वाक्यस्फोटस्य व्यवस्थापनमित्यभिप्रायेण मूलस्य 'घटेन' इत्यादौ पदस्फोटसाधकत्वम्पदस्फोट सिद्धौ तद्दृष्टान्तेन वाक्यस्फोटस्यापि सिद्धिरित्यत्र तात्पय्र्यमित्याशयेनाह - वस्तुत इति । *व्यवस्थिताविति । यत्र हरेऽवेत्यादौ पदविभा सम्मोहः, तत्रैव वाक्यस्य शक्तिरिति न, किन्त्वसम्मोहस्थलेऽपीति व्यवस्था । *अन्यथेति । एवमनङ्गीकारेऽसम्मोहस्थले पदशक्यैव वाक्यार्थबोधस्वीकार इत्यर्थः । *तादृशव्युत्पत्तिरहितस्य* । वाक्यार्थबोधकत्वरूपवाक्यशक्तिज्ञानरहितस्य । एतेनैता - समुदायस्य बोधकत्वज्ञानं यस्य भ्रान्तस्य तस्य बोधो भवत्येवेति सूचितम् । प्रामाणिकानान्त्वेतादृशस्थले समुदायशक्तिज्ञानाभावान्न घटकर्मकानयनमिति बोधः । समुदायशक्त्य स्वीकारेऽत्रापि पदार्थोपस्थितिसत्वात्तादृशबोधापत्तिरिति भावः । ननु तात्पर्य्यज्ञानरूपसहकारिकारणान्तराभावान्नापत्तिरत आह- *घटमानयेत्यादि । Page #432 -------------------------------------------------------------------------- ________________ पदस्फोटनिर्णयः। ४०३ सत्यपि तात्पर्यशाने बोधाभावाच्च । तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरं कर्मत्ववाचकविभक्तेस्ततो धातोस्तत आख्यातस्य समभिव्याहारः कारणमिति कार्यकारणभावज्ञानवतो बोधात्तज्ज्ञानमपि हेतुरिति चेत् ? तर्हि सिद्धो वाक्यस्फोटः। घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञानकायकारणभावस्येव विशिष्टवाक्यार्थबोधे पदसमभिव्याहाररूपवाक्यनिष्ठबोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात् । अर्थोपस्थापकज्ञानविषयशब्द दर्पणः . ननु शाब्दबोधकारणार्थतात्पर्य्यज्ञानरूपसहकार्यन्तराभावादेव न बोधोऽत आह*सत्यपीति* । *बोधाभावादिति । तादृशबोधाभावादित्यर्थः। तथाच पदाभावात् कार्याभावस्तस्य तद्धेतुतया वाक्यशक्तिरावश्यिकेति भावः। एतेन व्यतिरेकसहचारकारणताग्राहकः प्रदर्शितः । अन्वयं प्रदर्शयन् वाक्यशक्ति व्यवस्थापयति-*तत्रैवेति* घटमानयेत्यत्रैवेत्यर्थः । बोधादित्यनेन स्वरूपसतो हेतुत्वव्यवच्छेदः। तादृशसाकाकनिष्ठबोधहेतुत्वस्यैवास्मन्मते वाक्यशक्तित्वेनाकाङ्क्षाशक्तिरिति परिभाषाभेदेऽपि वाक्यस्फोटसिद्धिनिराबाधेत्याशेयनाह-*तहीति ॥ ननु शाब्दबोधे हेत्वर्थोपस्थितिजनकत्वं शक्तित्वम् । तत्तु पद एव, न वाक्ये । तनिष्ठबोधकतायास्तादृशोपस्थित्यजनकत्वादत आह-*अर्थोपस्थापकेति* ॥ *शब्दवृत्तीति । शब्दनिष्टं यद्बोधकारणत्वमित्यर्थः। तथा चोपस्थितौ शाब्दहेतुत्वनिवेशे एतत्कल्पे प्रयोजनाभावेन तज्ज्ञानस्य तादृशोपस्थित्यजनकत्वेऽपि शक्तित्वाऽक्षतेः । बोधकशब्दस्य शब्दत्वेन निवेशाच्चाऽपभ्रंशस्यापि संग्रह इति भावः । - ननु वाक्यशक्तिवादिमते संसर्गरूपवाक्यार्थस्य नानात्वात्त देन शक्तयानन्त्यम् । किञ्च पदवृत्त्या वाक्यशक्तिं विनाऽपि वाक्याऽर्थबोधजननाद्वाक्यशक्तिग्रहस्य तद्धेतु. तायां व्यभिचारः । अखण्डवाक्यपक्षस्तु नेदानी प्रक्रान्तः। कार्यतावच्छेदकऽव्यवहितोत्तरत्वनिवेशेन तद्वारणेऽप्यनुपस्थितसंसर्गे वाक्यशक्तिग्रहः शाब्दबोधात् प्रागसम्भवीति कथं तस्य कारणतेति चेत् ? सत्यम् । संसर्गस्य विशिष्यानुपस्थितावपि तदादिवत् कारकविभक्तिविशिष्टधातुपदं कारकविशिष्ठक्रियाबोधकमिति सामान्यतस्तद्ग्रहात् तात्पर्य्यग्रहस्य त्वयाऽप्येवमेव वाच्यत्वात्। अनन्तरं पदविशेषसमभिव्याहारेण तात्पर्य्यवशात् संसर्गविशेषेण तत्कारकविशिष्टतक्रियाभानम् । नापि संससर्गाऽऽनन्त्यप्रयुक्तशक्त्यानन्त्यम् । सम्बन्धत्वस्यानुगमकस्य सत्वात् , तत्पदघटितसमभिव्याहारस्य नियामकताप्युभयोः समैवेति तन्मतनिष्कर्षः । परीक्षा । ननु तात्पर्य्यज्ञानसत्वेऽपि विलक्षणं किञ्चित्कारणङ्कल्प्यते, तदभावात्तादृशबोधाभाव इत्याशयेन कारणं दर्शयति-*नचैवेत्यदिना । *घटादिपदार्थबोधे इति । अस्य त्वयेत्यादिः। *कल्पनादिति । तादृशस. मभिव्याहार एवाकाङ्केति तादृशाकाङ्क्षाज्ञानस्य हेतुत्वसिद्धौ वाक्यस्फोटस्य स्फुट सिद्धिरिति भावः । *शब्दवृत्तीति । अत्र शब्दपदम्पदबोधात्मकशब्दमात्रपरम् । श Page #433 -------------------------------------------------------------------------- ________________ ४०४ दर्पणपरीक्षासहिते भूषणसारेवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । युक्तं चैतत् । विषयतासम्बन्धेन शाब्दबोधमात्रे वृत्तिज्ञानस्य लाघवेन हेतुत्वसिद्धः। विवेचितचैतद् भूषणे । दर्पणः ननु स्यादेवोक्तप्रकारो यदि वाक्यनिष्ठबोधकतायाः शक्तित्वं सप्रमाणं स्यात् , तदेव तु नेत्यत आह-*युक्तं चैतदिति । एतदू-वाक्यनिष्टबोधकत्वस्य शक्तित्वम् । युक्तिमेवाह-*विषयतेति । शाब्दबोधमात्रे तत्सामान्य इत्यर्थः । *वृत्तिज्ञानस्येति । वृत्तिज्ञानजन्योपस्थितेरित्यर्थः । विषयतासम्बन्धेनेत्यनुषज्ज्यते । * लाघवेनेति । अन्यथा घटपदशक्तिमविदुषस्तत्पदज्ञानवतो घटमानयेति वाक्याद बोधापत्या घटशाब्दबोधे घटार्थकपदवृत्तिज्ञानजन्योपस्थितित्वेन हेतुता वाच्येत्यर्थभेदेनानन्तकार्यकारणभावकल्पने गौरवम् । अस्मन्मते तु विषयतासम्बन्धेन घटवृत्तिज्ञानजन्योपस्थितेरसत्वान्न शाब्दे तस्य भानमित्येक एव कार्यकारणभावः कल्प्यत इति लाघवादित्यर्थः। ___ ननु घट्घटत्वयोर्विशेष्यविशेषणभावे विपरीतव्युत्पन्नस्य घटमानयेत्यतो घटत्वविशिष्टबोधवारणाय घटत्वविशिष्टबोधोपस्थितेर्घटपदवृत्तिज्ञानजन्यघटत्वविशिष्टाया हेतुताया अवश्यवाच्यतया तत एवानतिप्रसङ्गे उक्तकार्यकारणभावे मानाभावोऽत आह-*विवेचितं चैतदिति । पदपदार्थभेदेनानन्तकार्यकारणभावेषु वृत्तिप्रवेशमपेक्ष्य उपस्थितेः पदज्ञानजन्यत्वेनैव शाब्दसामग्रीकुक्षौ प्रवेश उचितः, तथा सति समावाये परीक्षा ब्दनिष्ठं यज्ज्ञानकारणत्वन्तस्यैवेत्यर्थः । *युक्तमिति । वाक्यनिष्ठबोधकतायाः शक्तित्वकल्पनं युक्तमित्यर्थः । *शाब्दबोधमात्र इति । अत्र मात्रपदकात्स्ने पदजन्ये वा. क्यजन्ये चेत्यर्थः। रामठपदे छिन्नापदे च शक्तिज्ञानवतो 'रामठनीयम्प्रोक्तं छिन्नापुष्टिकरी स्मृता इति वाक्यादबोधात्तच्छून्यस्य चाबोधादन्वयव्यतिरेकाभ्यां तत्तत्पदवृत्ति. ज्ञानस्य कारणत्वमवश्यं वाच्यमिति कार्यकारणभावानन्त्यमिति शाब्दबोधमात्रे वृत्तिज्ञानत्वेन कारणतेत्येकविधयैव कार्यकारणभावः कल्प्यः। विषयतासम्बन्धेनेत्यनेन पदार्थवाक्यार्थनिष्ठो बोधनिष्ठकार्यताया अवच्छेदकसम्बन्धः प्रदर्शितः। *वृत्तिज्ञानस्येति । अस्य स्वविषयवृत्तिनिरूपकत्वङ्कारणतावच्छेदकसम्बन्धत्वम् । वृत्तिज्ञानजन्मोपस्थितेस्तु विषयतैव कारणतावच्छेदकः सम्बन्धः । ___ नचैवमपि यत्किञ्चित्पदशक्तिमानतो घटपदवृत्तिमविदुषो घटपदादू घटत्वविशिष्टविषयकबोधापत्तिरिति विशेषतो घटत्वादिविशिष्टविषयकशाब्दबोधे घटादिपदवृत्तिज्ञानजन्यघटाद्युपस्थितित्वेन कारणतेत्येवंविधः कार्यकारणभावोऽप्यावश्यकः । इति विशेषकार्यकारणभावेनैवोपपत्तौ सामान्यकार्यकारणभावे मानाभाव इति वाच्यम् । कार्याभावे कारणाभावस्य प्रयोजकतायाः क्लृप्तत्वाद्विषयतासम्बन्धावच्छिन्नशाब्दबुद्धित्वावच्छिन्नाभावे विशेषाभावकूटस्य कारणत्वकल्पने गौरवमिति सामान्याभावस्यव प्रयोजकत्वं वाच्यमित्याशयेन सामान्यकार्यकारणभावस्य प्रदर्शनादित्याशयेनाह-विवेचितमिति । Page #434 -------------------------------------------------------------------------- ________________ पदस्फोटनिर्णयः । ४०५ दर्पण: नाकाशस्य जनकतयोपस्थितस्य देवदत्तादेश्च शाब्दे भानवारणाय विषयतया शाब्दसा. मान्ये वृत्तिजन्योपस्थितेविषयतया हेतुत्वं वाच्यम् । एवञ्च संसर्गस्य शाब्दे भानानुरोधेन संसर्गेऽपि वृत्तिकल्पनावश्यकम् । तथा च पदैः पदार्थानां वाक्येन वाक्यार्थस्य बोध इति न विशेष्यविशेषणव्यत्यासेन शाब्दबोधे पदार्थानां भानम् । पदोपस्थितानामेव संसर्गस्य वाक्यशक्त्या बोधादितिवृत्तिज्ञानस्येति यथाश्रुतार्थकमेव तत्र विवेचितम्। वस्तुतस्तु वृत्तिज्ञानपदं यथाश्रुतार्थकमेव । वृत्तिज्ञानस्येत्यनन्तरमनुषक्तविषयतासम्बन्धेनेत्यस्य वृत्तिज्ञानविषयबोधकत्वघटकबोधीयविषयतासम्बन्धेनेत्यर्थः। अन्यथा वाक्यवृत्तिज्ञानजन्योपस्थितेरेव शाब्दबोधत्वेन तस्मिस्तेन तद्धेतुत्वासम्भवेन वाक्यशक्तेर्गर्भस्रावादिति बोध्यम् । अत्र वदन्ति-पदजन्यपदार्थोपस्थितिमन्तरेण शाब्दबोधानुदयात्तादृशपदार्थोपस्थितेः शाब्दबोधे हेतुतेति तावन्निर्विवादम् । पदस्य च प्रकृत्याद्यात्मकस्याऽर्थे सम्बन्धं विना तदुपस्थापकत्वासम्भवात्तस्मिन् वृत्त्यात्मकसम्बन्धोप्यावश्यक एव, न तु तत्समुदायरूपपारिभाषिकपदस्य तत्समूहरूपवाक्यस्य विशिष्टार्थे सः। तं विनापि तेभ्य आकाङ्क्षादिरूपकारणसमवधानादेव विशिष्टबोधोपपत्तेः । एकपदार्थविशिष्टापरपदार्थशाब्दत्वस्यैव तत्कार्य्यतावच्छेदकत्वात् । यत्तु-लाघवादू वृत्तिज्ञानजन्योपस्थितेविषयतासम्बन्धेन हेतुत्वमेव वाक्यशक्तौ प्रमाणमिति चेत् ? न । स्वातन्त्र्येण तद्धेतुत्वस्यैवासिद्धः। तथाहि-ताशकार्यकारणभावे वृत्तित्वेन पदवृत्तनिवेशः किं वाक्यवृत्तः, किं वा वृत्तिसामान्यस्य ? । न तावदाद्यः । पदवृत्तिज्ञानजन्योपस्थितेः शाब्दहेतुत्वस्य सर्वेरेवाभ्युपगमात् । न द्वितीयः । वाक्यवृत्तेस्ततः प्रागसिद्धः । अत एव न तृतीयः । किञ्च तव मते वाक्यशक्तिजन्योपस्थितेः शाब्दबोधात्मकत्वेन तस्मिस्तद्विषयत्वासम्भवादपि नोक्तरीतिः साधीयसी । अपि च वाक्यवृत्तिज्ञानस्य शाब्दसामान्येन स्वातन्त्र्येण हेतुत्वं, यदा कदाचि. द्विवरणादिना घटादिपदशक्तिज्ञानजन्यपदार्थोपस्थितिदशायां घटमानयेति वाक्यशक्तिमविदुष आकाङ्क्षादिवशाच्छाब्दबोधोदयेन व्यभिचारात्। - यदपि समभिव्याहाररूपाकाक्षैव वाक्यमिति । तदपि न । तथा सति घटीयाकर्मतेत्यादिबोधे घटमानयेति वाक्यं साकाङ्क्ष, निराकाङ्क्ष च घटः कर्मत्वमिति सर्वसिद्धव्यवहारानुपपत्तिः । पदयोः समभिव्याहार इतिवत् पदयोर्वाक्यमिति व्यवहार. प्रसङ्गश्चेति समभिव्याहृतपदानामेव वाक्यत्वमुपगन्तव्यम् । तथाच--समभिव्याहा. रस्य शाब्दबोधहेतुत्वेऽपि वाक्यस्य तत्त्वं दुरुपपादमेवेति क वाक्यशक्तिसिद्धिः । समभिव्याहारनिष्ठबोधजनकत्वग्रहवतो बोधात्तज्ज्ञानं हेतुरित्यपि रिक्तं वचः । अन्वयव्यतिरेकाभ्यां समभिव्याहारज्ञानस्यैव शाब्दधीहेतुत्वेन तन्निष्ठबोधजनकत्वज्ञानस्य हेतुताया एवाभावात् । न च तदपि सम्भवति । शाब्दबोधात् प्राक् संसर्गस्यैवानुपस्थितेः । सामान्यतस्तदुपस्थितावपि विशेषरूपेण भानाऽर्थे तात्पर्य्यज्ञानाद्यपेक्षणे च मूलशैथिल्यात् वाक्यशक्तेरेवासियापत्तिः। वक्ष्यमाणरीत्या शाब्दबोधात् प्राक् तदुपस्थित्यभ्युपगमे वाक्यवृत्तिज्ञानजन्योपस्थित्यनन्तरं शाब्दबोधाभ्युपगमे वा शाब्दप्रामाण्यभङ्गापत्तिः । अनधिगतार्थग्रहकारणस्यैव प्रमाणत्वात् । अत एव सूत्रकृता Page #435 -------------------------------------------------------------------------- ________________ ४०६ दर्पणपरीक्षासहिते भूषणसारे ननु वाक्यार्थस्यापूर्वत्वात् कथं तत्र शक्ति ह इत्याशङ्कयाह*अर्थ इति* ॥ वाक्यस्येति शेषः। वाक्यस्य वाक्याथै विशिष्य शक्तिग्रहणञ्चेत्तहि पदे एवान्वयांशे शक्तिरिति पक्षेऽपि तद्ग्रहासम्भवस्तुल्य इत्यर्थः। ___ यदि च पदशक्तिः पदार्थाशे ज्ञाता; अन्वयांशे वाऽज्ञातोपयुज्यत इति कुब्जशक्तिवादः, तदा ममापि वाक्यस्य शक्तिरक्षातैवोपयुज्यत दर्पणः "कृत्तद्धितसमासाश्व" ( पा० सू० १२१४६ ) इत्यत्र समासग्रहणं कृतम् । वाक्यशक्तौ तु तद्वैयर्थ्य स्पष्टमेव । “सामयिकः शब्दादर्थप्रत्ययः" इति कणादोक्तेर्वाक्यशक्तिग्राहकानुशासनादेरभावेन तद्ग्रहाऽसम्भवाच्चेति वाक्यस्फोट आपातरमणीय एवेति । पूर्वोक्तशक्तिग्रहप्रकारस्य शैथिल्यं मनसि निधाय तस्मिन् प्रकारान्तरं वक्तुमग्रिम ग्रन्थ इत्याशयेनाह-नन्विति ॥ *अपूर्वत्वात्*-शाब्दबोधात् प्रागनुपस्थितत्वात् । ___ ननु शाब्दबोधात् पूर्व पदे प्रत्यक्षाद्युपस्थितपदार्थनिरूपितशक्तिग्रहः सुलभ एवेति, पदे सममिति मूलमनुपपन्नमत आशयं प्रकाशयति--*पद एवेति । पदानामेवान्वितपदार्थे शक्तिरन्वयश्व सामान्यरूपेण ज्ञानम् , अत एव घटादिपदादन्वितघटाद्युपस्थि. तौ नियमेन तत्प्रतियोग्याकाङ्क्षा भवति--किमन्वितो घटः किमन्वितं कर्मत्वमित्याद्याकारा । सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वात् । विशेषरूपेण भाने त्वमादिपदसमभिव्याहारो नियामकोऽत एव तस्य शाब्दे भानम् । पदवृत्तिविषयत्वात् । अशक्यस्यापि भानेऽतिप्रसङ्गात् । न चैवं घटमानयेत्यत्रेतरान्वित कर्मत्वमितिरीत्यानेकधा संसर्गस्य भानापत्तिस्तत्तत्पदेभ्यस्तथार्थोपस्थितावप्याकाङ्क्षावशादेकधैव तद्भानसम्भवात् । नचाकासायास्तद्भाननियामकत्वावश्यकत्वे तत्र वृत्तिकल्पनाऽपाथेति वाच्यम् , । अशक्यभानभियैव तदभ्युपगमात् । तथाच पदशक्त्यैव संसर्गभानोपपत्तौ तत्र न वाक्यशक्तिः । पदत्वापेक्षया वाक्यस्य गुरुत्वाच्चेति तन्मतम् । तथाचान्विताभिधानमतेऽपि पदे वाक्यार्थशक्तिग्रहासम्भवः समान इत्यर्थः ॥ *ज्ञातेति ॥ पदार्थानां प्रागुपस्थित्या तत्र पदार्थशक्तिग्रहसम्भवादिति भावः । *अज्ञातैवेति । वृत्त्यभ्युप परीक्षा *अपूर्वत्वात्-शाब्दबोधात्प्रागनुपस्थितत्वात् । इति पक्ष इति । पदानामन्वितपदाथै शक्तिः । अन्वयश्च-सामान्यरूपेणैव भासते । अत एव घटादिपदादन्वितो घट इत्याद्यनुपस्थितौ किमन्वितोऽयमिति विशेषाकाङ्क्षा दृश्यते इति तन्मतम् । वस्तुतस्तन्न युक्तम् । 'घटमानय'इत्यादि वाक्याद् घटकर्मकमानयनमित्याद्याकारको बोध एवनुभवसिद्धो। ननु घटायंशे इतरान्वितत्वस्य भानमिति सम्प्रदायात् । परन्तु परस्य मतमाश्रित्य दृष्टान्ततयोपन्यास इति। *ज्ञातेति । पदार्थानाम्प्रागुपस्थितत्वात्तदंशे पदशक्तिज्ञानस्य सम्भवादिति भावः । *कुञ्जशक्तिवाद इति । यथा 'हरिद्रायां नद्यावशेषः' इति वाक्यश्रवणोत्तरन्नदीपदसमभिव्याहाराद्धरिद्वापदस्य नदीविशेषपरत्वनिर्णये तत्सम्बन्धित्वेन पूर्वज्ञाततीरविशेषणप्रत्ययः, तथा संसर्गाशे वाक्य. स्य शक्तिरज्ञातैव तद्भानोपयोगिनीति भावः । *वाक्यस्य शक्तिरिति । वाक्यनिष्ठा Page #436 -------------------------------------------------------------------------- ________________ पदस्फोटनिर्णयः। '४०७ इति वादाभ्युपगमस्तुल्य इति भावः। ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्ग्रह इति चेत् तुल्यमित्याह-लक्षणादिति* ॥ लक्ष्यते तय॑तेऽनेनेति लक्षणं मनस्तस्मात् । अपिपदं पदपदोत्तरं बोध्यम् । पदेऽपि लक्षणात्तदनहश्चेत्तर्वस्तु वाक्येऽपीति शेषः । वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं तद्ग्रहः । आ दर्पणः गमस्तु शाब्दे भानापत्त्यैवेति भावः ॥ पदार्थवदिति सप्तम्यन्ताद्वतिः । उपमेये सप्तमीदर्शनात् ॥ *वाक्यार्थेऽपि । *संसर्गेऽपीत्यर्थः । इदं च बोध्यत्वं शक्तिरित्यभिप्रेत्य ॥ *तग्रहः*-शक्तिग्रहः । लक्षणशब्दस्य चिह्नादौ प्रसिद्धेः प्रकृतोपयोग्यर्थपरतया तं व्याचष्टे-*लक्ष्यत इति* ॥ मूले-*अर्थे इति* ॥ निरूपितत्वं सप्तम्यर्थः । तच्छब्दाऽथें शक्तिज्ञानेऽन्वेतीत्यभिप्रेत्य व्याचष्टे-*पदेऽपीत्यादि* ॥ *तदग्रह इति । वाक्यार्थनिरूपितशक्तिग्रह इत्यर्थः। __ अयम्भावः-घटमानयेत्यादिवृद्धव्यवहाराद्यस्य पदे पदार्थशक्तिनिर्णयस्तस्य तद्वाक्यश्रवणे पदैः पदार्थोपस्थित्यादिसमवधाने मनसा तत्संसर्गोपस्थिति नुपपन्ना। परन्तु मानसस्य प्रायः संशयात्मकस्यापि सम्भवात्तन्निश्चयार्थे शब्दाऽऽदरः। तत्र शक्तिग्रहहेतुलिङ्गादेनिर्णायकस्य सत्त्वेन संशयत्वासम्भवादिति। ननु शब्दनिष्ठशक्तिनिर्णयस्यैव शाब्दबोधे हेतुतावधारणेन तस्य शाब्दबोधात् प्रागुक्तरीत्याऽसम्भवेन वाक्यशक्तः शाब्दबोधहेतुत्वं दुर्घटमेवेत्यत आह-*वस्तुतस्त्विति । *तद्ग्रहः । विशिष्टवाक्यार्थशक्तिग्रहः । तथा च शक्तिग्राहकशिरोमणिना परीक्षा संसर्गनिरूपिता शक्तिरित्यर्थः। संसर्गाशे वृत्त्यभ्युपगमस्तु शाब्दबोधविषयत्वान्यथानुपपत्त्यैव प्रयोज्यप्रयोजकवृद्धव्यवहारम्पश्यतो बालस्य प्राथमिकशक्तिनिर्णयो यथा मानसो भवति, तथा पदैः पदार्थोपस्थितौ मनसा वाक्यार्थबोधो भविष्यति, न तु शब्दाच्छाब्दबोध इति । तदनुरोधेन तत्र शक्तिकल्पनं व्यर्थमित्याशयेन शडते-*नन्विति* *पदार्थवदिति। अनोपमेये सप्तमीदर्शनात्सप्तम्यन्ताद्वतिः। *वाक्यार्थः*-संसर्गः । *तद्ग्रहः*-शक्तिग्रहः । मानस इति शेषः । लक्षणशब्दस्य लोके लाञ्छनपरत्वेऽपि प्रतियोग्यार्थमाह*लक्ष्यत इत्यादिना । मूले *अर्थ इति । सप्तम्यर्थो निरूपितत्वम् । पदपदोत्तरसप्तम्यर्थस्त्वाधेयत्वमेव । *तत्तथेति । अन तत्पदार्थः शक्तिज्ञानपरः। तुल्ययुक्या वाक्यार्थनिरूपितवाक्यविशेष्यकमानसशक्तिनिर्णयवत्पदेऽपि तथास्त्विति व्याकरणस्य शक्तिग्राहकसिद्धान्तभङ्गः । इष्टापत्तिस्तु न । मानसस्यैव तस्य स्वीकारे मानसं ज्ञानाश्रयो संशयात्मकं भवतीति संशयापत्तेः । __ यदि पदशक्तिनिर्णयो व्याकरणादिजन्यस्तथा शक्तिनिर्णायकस्य शाब्दबोधाङ्गत्वम्प्रागवधारितम् , तस्य च शाब्दबोधात्प्रागुक्तरीत्या संभव इति वाच्यशक्तिः शाब्दबोधाङ्गत्वं दुर्घटमेवेत्यत आह-*वस्तुतस्त्विति । तद्ग्रहः । वाक्यार्थे विशिष्टे Page #437 -------------------------------------------------------------------------- ________________ ૦૮ . दर्पणपरीक्षासहिते भूषणसारेवापोद्वापाभ्यां परं प्रत्येकं तद्ग्रह इति बोध्यम् ॥ ६६ ॥ . दर्पणः व्यवहारेण पूर्व वाक्य एव शक्तिग्रहेण तस्यैव शाब्दबोधहेतुत्वाऽवधारणात्ताशवृत्तेश्च स्वाश्रयविषयकत्वस्वविषयकोदबुद्धसंस्कारसामानाधिकरण्योभयसम्बन्धेनवैशिष्टयस्येदानीन्ततः वाक्यज्ञानेऽप्यक्षतत्वान्न वृत्तिज्ञानस्य शाब्दबोधे हेतुतायां व्यभिचारः । मध्ये वाक्यार्थोपस्थितेरनपेक्षणाच्च नोक्तदोषावसर इति भावः। ननु तर्हि पदस्फोटस्य निरालम्बनतापत्तिरत आह-*आवापोद्वापाभ्यामिति । आनयनाऽपसारणाभ्यामेकपदोपादानापरापदानुपादानाभ्यामित्यर्थः । तद्ग्रहः । प्रत्येकपदे प्रत्येकपदार्थशक्तिग्रहः । तथा च प्रत्येकपदशक्तिसाचिव्येनाकाङ्क्षादिवशात् पदाद्वाक्यार्थशाब्दबोधस्तदा पदस्फोटो, यदा तु तन्निरपेक्षैव सा बोधं जनयति, तदा वाक्यस्फोट इति मतद्वयं पर्य्यवस्यतीति भावः । ___ केचित्तु-उपस्थिताः पदार्थास्तदुपस्थितिर्वा शाब्दबोधहेतुर्नतु पदज्ञानमपि । तद्विनापि शाब्दबोधोदयेन व्यभिचारात् । तदुक्तम् । पश्यतः श्वेतमारूपं हेषाशब्दं च शण्वतः। खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ इति ॥ तन्न। शब्दं विना जायमानस्य घटादिचाक्षुषस्यापि शाब्दत्वापत्तेः। तत्र पश्यामि, न शाब्दयामीत्यनुव्यवसायान्न शाब्दत्वं यदि, तदा प्रकृतेऽपि समम् । उक्तप्रतीतेरनुमानेनैव निर्वाहात् । तत्र शाब्दप्रत्ययस्त्वसिद्ध एवेत्यादि स्वयमूह्यम् ॥ ६६ ॥ परीक्षा शक्तिग्रहः। अयम्भावः-शक्तिविशिष्टनिश्चयस्य शाब्दबोधहेतुरिति पूर्व ज्ञाता या शक्ति स्तस्याःस्वाश्रयशब्दविषयकत्व, स्वाश्रयशब्दविषयकोबुद्धसंस्कारसामानाधिकरण्यो. भयसम्बन्धेन । इदानीन्तद्वाच्यताज्ञानेऽपि सत्त्वानवृत्तिज्ञानस्य शाब्दबोधहेतुतायां व्यभिचार इति । नन्वेवम्पदस्फोटपक्षो निरालम्बन एव स्यादत आह-*आवापोद्वापाभ्यामिति । सङ्ग्रहत्यागाभ्यामित्यर्थः । *तद्ग्रहः -प्रत्येकपदे प्रत्येकपदार्थशक्तिग्रहः। एवञ्च प्रत्येकपदशक्तिज्ञानजन्यप्रत्येकपदार्थोपस्थित्यनन्तरं तत्सहकृताकाङ्क्षा; ज्ञानादिना शाब्दबोधस्तदा पदस्फोट इति व्यवहारो, यदा तु तन्निरपेक्षवाक्यज्ञानमात्रेण वाक्या. र्थबोधस्तदा वाक्यस्फोट इति व्यवहारः। ___ यत्वर्थाध्याहारवादिन आहुः-शब्दज्ञानन्न शाब्दबोधहेतुरर्थोपस्थितिमात्रेण यन्त्र शाब्दबोधस्तत्र व्यभिचारात् । अत एव पश्यतः श्वेतमारूपं हेषां शब्दञ्च शृण्वतः। खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ।। - इति वृद्धाः । एवञ्च पदस्फोटादिविचार आपातरमणीय एवेति, तत्तुच्छम् । शब्द विना जायमानज्ञानस्य शाब्दबोधपदव्यवहार्यत्वे चाक्षुषज्ञानस्यापि शाब्दत्वापत्तेः । तत्र पश्यामीत्येवानुव्यवसायोः नतु शाब्दयामिति । तस्य न शाब्दत्वमिति चेत्तदा प्रकृतेऽपि यत्र मनसा पदार्थोपस्थितिमात्रम्, तत्र जानामीत्येवानुव्यवसायान शा. Page #438 -------------------------------------------------------------------------- ________________ पदवाक्यस्फोटनिय इयमेव मीमांसकानां वेदान्तैकदेशिनां च गतिरित्याह सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति ये विदुः॥ भाडास्तेऽपीत्थमेवाहुर्लक्षणाया ग्रहे गतिम् ॥६७॥ *भाट्टा इति। तदनुयायिनां वाचस्पतिकल्पतरुप्रभृतीनामुपलक्षणम्। ननूक्तपक्षद्वयमनुपपन्नम् , उत्पत्तेरभिव्यक्तेर्वैकदाऽसम्भवेन उत्पनानामभिव्यक्तानां वर्णसमूहरूपदज्ञानासम्भवात् । तथा च सुतरां तत्समूहरूपवाक्यज्ञानासम्भव इति चेद् ? न । दर्पणः *उपलक्षणमिति* । त्वन्मते, 'गभीरायां नद्यां घोष इत्यादौ प्रत्येकपदशक्त्या स्वशक्यसम्बन्धरूपलक्षणया वोक्तदिशाऽभीप्सितार्थान्वयबोधाऽसम्भवात्, स्वबोध्यसम्बन्धस्य लक्षणत्वाभ्युपगमेन वाक्यार्थमात्रे वाक्यलक्षणाङ्गीकारादिति भावः । *पक्षद्वयमिति। पदवाक्यभेदेन व्यवस्थितं स्फोटद्वयमित्यर्थः। अनुपपत्तिमेवाह*उत्पन्नानामिति । वर्णानित्यतावादिमते वर्णानां योग्यविभुविशेषगुणत्वेन स्वोत्तरोत्पन्नगुणनाश्यत्वादेकदाऽवस्थानासम्भवः । तन्नित्यतावादिमते त्वाह-*अभिव्यक्तानामिति । वर्णा नित्याः, किन्तु तदभिव्यक्तिरेवानित्या। वर्णोत्पादकत्वेनान्याभिमतानामेव कण्ठाद्यभिघातादीनां तदभिव्यञ्जकत्वाभ्युपगमात् । तथाचाभिव्यक्तरेपि योग्यविभुविशेषगुणतया स्वोत्तरोत्पन्नगुणनाश्यत्वाविशेषात् । क्षणिकत्वात्तद्विशिष्टवर्णानामपि युगपदवस्थानासम्भव एवेत्यर्थः। नन्वस्तु वर्णानां युगपदनवस्थानं, किमस्माकमनिष्टमत आह-*वर्णसमूहेति । वाक्यस्फोटकल्पेऽपि तदाह-*तथा चेति । *ज्ञानासम्भव इतीति । आशुविना. परीक्षा ब्दबोध इति। उक्तस्थले 'श्वेतोऽश्वोधावति इति बुद्धिस्त्वनुमितिरूपैवेति बोध्यम् ॥६६॥ ___इयमेव । स्फोटस्वीकाररूपैव । अयम्भावः-तन्मते स्वबोध्यसम्बन्धो लक्षणा। 'देविकायानद्याङ्घोष इत्यादिवाक्यं यत्र प्रयुज्यते तत्र देविकाभिन्ननदीतीरवृत्तिर्घोष इति बोधो भवति । तस्य प्रत्येकपदशक्त्या शक्यसम्बन्धरूपलक्षणया वोपपत्तिर्न स. म्भवति । शब्दस्याशुविनाशितया पदज्ञानस्यवासंभवादिति स्फोटस्य स्वीकार आवश्यक इति । *ये*-भाट्टाः । अविदुरित्यत्रान्वयः । *लक्षणाया इति । वाक्यार्थे वाक्यस्य समुदायात्मकस्य शक्त्यभावात्तद्विषयकबोधोपपत्तये या लक्षणाऽङ्गीक्रियते, तस्या इत्यर्थः। *पक्षद्वयम्-पदवाक्यभेदेन स्फोटद्वयम् । *उत्पत्तेरिति । वर्णानामनित्यत्ववादिमतेनेदम् । तन्मते योग्यविभुर्विशेषगुणानां योगपद्याभावात्स्वोत्तरोत्पन्नगुणनाश्यत्वाच्चैकदावस्थानासम्भवः । वर्णनित्यतावादिमताभिप्रायेणाह-*अभिव्यक्तरिति । तन्मते वर्णा नित्याः, तेषामभिव्यक्तिस्त्वनित्या । सा च वर्णोत्पादकत्वेन पराभिमतायाः कण्ठाद्यवच्छिन्नवायुसंयोगादिघटितासामग्रीतया ज्ञायते । एवञ्चाभिव्यक्तेरपि योग्यविभुर्विशेषगुणात्मकतयोक्तरीत्याऽसम्भव इति । *अभिव्यक्तवर्णसमूहरूपपदज्ञानासम्भवादिति । वर्णा नित्या एवाभिव्यक्तिस्तु ५२ द० प० Page #439 -------------------------------------------------------------------------- ________________ ४१० दर्पणपरीक्षासहिते भूषणसारे___ उत्तरवर्णप्रत्यक्षसमये तस्मिन्नव्यवहितोत्तरत्वसम्बन्धेनोपस्थितपूर्ववर्णवत्त्वं, तथा तदुत्तरप्रत्यक्षकाले उपस्थितविशिष्टतद्वर्णवत्त्वं तस्मिन् सुग्रहमिति तादृशानुपूर्वीघटितपदत्वस्येव वाक्यत्वस्यापि सुग्रहत्वात् ॥ ६७ ॥ * इति पवाक्यस्फोटनिर्णयः * दर्पणः शिनां क्रमिकाणां मेलकाऽसम्भवादन्तिमवर्णोत्पत्तिकाले तदभिव्यक्तिकाले वा पूर्वपूर्ववर्णानां तावदभिव्यक्तानां वाऽवस्थानासम्भवेन तत्समूहरूपपदस्य वाक्यस्य वा तादात्म्येन प्रत्यक्षकारणस्याभावात् । प्रत्यक्षस्यैवाऽसम्भवेन तत्रोक्तशक्तिग्रहस्य गगनकुसुमायमानत्वादित्यखण्डलार्थः। ___ अभिव्यक्तिपक्षमादाय समाधत्ते-*उत्तरवर्णप्रत्यक्षेति । *अव्यवहितोत्तरेति । एतन्नये वर्णानां नित्यत्वेन सर्वेषामेव वर्णानामव्यवधानेन स्वाधिकरणक्षणोत्तरकालवृत्तित्वादव्यवस्थापत्त्या स्वस्वाभिव्यक्तिगतमेवाव्यवहितोत्तरत्वं वाच्यम् । तदारोपादेव वर्णेष्वव्यवहितोत्तरत्वव्यवहारः । अत एव तत्रोपस्थितेविशेषणतया निवेशः । तच्चाव्यवहितत्वे सत्युत्तरत्वम् । अव्यवहितत्वं च-स्वध्वंसानधिकरणक्षणसम्बन्धित्वम् । तेन घटित, घट' इत्यादौ नातिप्रसङ्गः। उत्तरत्वं तु स्वाऽधिकरणक्षणध्वंसाधिकरणसमयोत्पत्तिकत्वम् । तेन, 'पिब, मधु, शीघ्रम्' इत्यादौ न शीधुभागस्य पदत्वम् । अन्यनिरूपिताव्यवधानादेरन्यसम्बन्धत्वाभावेन स्वत्वस्य परिचायकतया प्रवे. शान्नाननुगमशङ्काऽपि । उत्तरोत्तरवर्णोपस्थितेः पूर्वपूर्ववर्णोपस्थितिज़सानधिकरणसमयसम्बन्धित्वात्तदधिकरणक्षणध्वंसाधिकरणत्वाच्च निरुक्तसम्बन्धेन तद्वत्त्वमविकलम् । इत्थञ्च पूर्वपूर्ववर्णोऽशेऽलौकिकस्य चरमवर्णोऽशे लौकिकप्रत्यक्षस्य सम्भवात्तत्राऽर्थे बोधकत्वरूपशक्तेः सुग्रहत्वादुक्तपदवाक्यस्फोटसिद्धिनिराबाधेति भावः ॥६७॥ इति भूषणसारदर्पणे पदवाक्यस्फोटनिरूपणम् ॥ १४ ॥ परीक्षा तेषामनित्येति पक्षालम्बेन समाधत्ते-*उत्तरवणेत्यादिना । एतन्मते वर्णानान्नित्यत्वात्सर्वेषामेव वर्णानां स्वाधिकरणक्षणोत्तरक्षणवृत्तितानुपूर्व्यसम्भव इत्यभिव्यक्तिगतपौर्वापर्यमादायाभिव्यङ्गयेष्वारोपितः क्रमः । अत एवाभिव्यक्ता वर्णा बोधका इति व्यवहारः । उपस्थितीनामव्यवहितोत्तरत्वञ्चाव्यवहिते सत्युत्तरत्वम् । अव्यवहितत्वं च-स्वध्वंसानधिकरणक्षणवृत्तित्वम् । उत्तरत्वं च-स्वाधिकरणक्षणवंसाधिकरणसमयोत्पत्तिमत्वम् । एवञ्चोत्तरवणे पूर्ववर्णवैशिष्टयमुक्त्वा व्यवहितोत्तरत्वसम्बन्धेन स्वाभिव्यक्तिविशिष्टाभिव्यक्तिविषयत्वसम्बन्धेन । एवम्प्रथमवर्णविशिष्टद्वितीयवर्णवैशिष्टयं तृतीयवर्ण इति क्रमेण चरमवर्णप्रत्यक्षम् । तदनन्तरं चरम. वर्णोशे लाकिकमन्यवर्णोशे त्वलौकिकमिति पदवाक्यप्रत्यक्षस्य संभव इति ॥ ६ ॥ इति सखण्डपदवाक्यस्फोटविवरणम् ॥१४॥ Page #440 -------------------------------------------------------------------------- ________________ अखण्डस्फोटनिर्णयः। इदनीमखण्डपक्षमाह पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ॥ ६८ ॥ वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन ॥ पदे पचतीत्यादौ न वर्णाः। नातो वर्णसमूहः पदमिति शेषः । दृष्टान्तव्याजेनाह-*वर्णेष्विति ॥ एकारौकारलकारऋकारादिवणेववयवाः प्रतीयमाना भपि यथा नेत्यर्थः। क्वचिदित्येव पाठः । एवं वाक्येऽप्याह-*वाक्यादिति ॥ पदानामपि वाक्याद्विवेको= भेदो नास्तीत्यर्थः। अयम्भाव:-वाक्यं पदं चाखण्डमेव, न तु वर्णसमूहः । अनन्तव दर्पणः अखण्डस्फोटनिर्णयः। . अखण्डस्फोटनिरूपणेऽवसरस्य सङ्गतित्वं सूचयन्नाह-*इदानीमिति* । सखण्डस्फोटनिरूपणानन्तरमित्यर्थः। *अखण्डेति* । पदवाक्ययोरखण्डत्वं चाविद्यमानावयवकत्वम् । वर्णानामावयवाघटितत्वस्यापि सिषाधयिषितत्वादाह-*दृष्टान्तेति । दृष्टान्तवाक्यस्येवादिघटितत्वनिवेशेन तदभावात् कथं वर्णेष्वित्यादेस्तत्त्वमित्याशङ्कय , यथाशब्दान्तर्भावेण मूलं व्याचष्टे-*यथेति । *इवेतीति । अवयवा इवेत्यर्थः । तथा च यथाश्रुतस्यैव दृष्टान्तत्वं नानुपपन्नमिति । 'विचिर् पृथग्भावे' इति प्रत्युपसृष्टयनन्तभावसाधनप्रविवेकशब्दार्थः पृथग्भावो भेदे पर्य्यवस्यतीत्याशयेनाह-*भेद इति । ___ ननु पदादिप्रतीतौ तदवयवानां वर्णानामुपलभ्यमानत्वात् कथं तदसत्त्वमत आह*अयम्भाव इति ॥ *अखण्डमेवेति ॥ व्याख्यातार्थम् । एवकारव्यवच्छेचं स्पष्टयति-*न त्विति ॥ *अनन्तेति ॥ अनेकेत्यर्थः ॥ ननु 'ककारो, गकार' इति प्रतीतिरेव वर्णकल्पने मानम् । यदि च वर्णाभिव्यञ्जकत्वेनोत्पादकत्वेन वाभिमतवायसंयोगविशेषाभिव्यक्तस्फोटे एव कत्वादिना तादृशप्रतीतिविषय इति विभाव्यते, तदापि 'उत्पन्नः, ककारः नष्टः ककार:' इत्यादिप्रतीत्यनुपपत्तिः । स्फोटाऽतिरिक्तककारादीनां त्वयाऽनभ्युपगमात् । तस्य च नित्यत्वात् । व्यञ्जकनिष्ठाया उत्पत्तेस्तद्विष परीक्षा अवसरस्य सङ्गतित्वं सूचयन्नाह-*इदानीमिति । अखण्डत्वञ्च-अवयवाघटितत्वम् । वर्णानामप्यवयवशून्यत्वं साधयितुमिष्टमित्याशयेन व्याजपदम् । ननु घटपटादिपदप्रत्यक्षे घटपटादीनामनुभूयमानत्वात्कथं वर्णानामसत्वं प्रतिपादयसीत्यतस्तदुपपादयति-*अयम्भाव इत्यादिना*। *अनन्तेति-अनेकेत्यर्थः । ननु करोति गच्छतीत्यादौ Page #441 -------------------------------------------------------------------------- ________________ ४१२ दर्पणपरीक्षासहिते भूषणसारेर्णकल्पने मानाभावात् । तत्तद्वोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकताया व्यञ्जकताया वाऽवच्छेदकं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात् । स्पष्टं हि भामत्याम्-"तारत्वादि वायुनिष्ठं वर्णेष्वारोप्यते” इत्युक्तं देवताधिकरणे । नचैवं वायुसंयोग एव वाचकोऽपि किं न स्यादिति वाच्यम् । प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । दर्पणः यत्वे सुखादीनामपि नित्यतापत्तिरत आह-*तत्तद्वर्णोत्पादकत्वेनेति ॥ वैजात्ये प्रमाण दर्शयति-*वर्णजनकताया इत्यादि । तथा च तादृशवैजात्यं समवायेन स्फोटांऽशे आदायारोप्योक्तप्रतीतिवैलक्षण्योपपत्तौ न तदनुपपत्तिरतिरिक्तककारादिवर्णसाधिका । नाप्युत्पन्नः क इत्यादिप्रतीतिस्तथा। 'सोऽयं क' इत्यभेदतत्प्रत्यभिज्ञारूपबाधकसत्त्वेन तादृशप्रतीतेभ्रंमत्वात् । नाऽपि सुखादीनां नित्यतापत्तिः । तन्नाशकस्य स्वोत्तरवर्तियोग्यात्मकविशेषगुणस्य जागरूकत्वादिति भावः ॥ *भामत्याम् । तन्नामकवाचस्पतिग्रन्थे ।। *आरोप्यत इतीति ॥ एतदनुरोधेनैवादायेति पदमारोपपरतया व्याख्यातम् ॥ मतान्तरन्तु वक्ष्यते ॥ __ वायुसंयोगोऽपीत्यपिरेवाऽर्थे । कण्ठताल्वाद्यभिघातजवायुसंयोग एवेत्यर्थः । समवायस्यानारोपितस्य वाचकतावच्छेदकत्वे लाघवात् । तथाहि संयोगस्यैव काद्यात्मकत्वमस्त्वित्यर्थः॥ समाधत्ते-*प्रत्यक्षेति ॥ अयमाशयः-कादिवर्णानामुक्तसं परीक्षा ककारो गकार इति विलक्षणप्रतीतिसत्वात्कथमसत्वमत आह-*तद्वर्णवत्वमिति । *अवच्छेदकमिति । एतेन वैजात्ये प्रमाणन्दर्शितम् । एवम्प्रकारेण सिद्धं यद्वैजात्यं तस्य समवायसम्बन्धेन स्फोटे आरोपात्ककारादिविषयकविलक्षणप्रतीतिनिर्वाहः । न चोत्पन्नः क इत्यादिप्रतीतिवशादनित्यत्वम् । सोऽयं ककार इत्यभेदावगाहिप्रत्यभिज्ञया विरोधेन तस्याः प्रतीतेर्धमत्वात् । अभिव्यञ्जकगतोत्पत्तिविनाशाद्यारोपेण तस्या उप. पत्तेश्च । एवञ्च व्यञ्जकधर्माःस्फोटे आरोप्यन्ते। व्यञ्जकनिष्ठं वैजात्यमेव परम्परासम्बन्धेन कत्वादिकमिति सिद्धम् । *भामत्यामिति भामतीनामके वाचस्पस्तिनिर्मिते ग्रन्थे। ___ श्वायुसंयोग एवेति । कण्ठताल्वाद्यभिघातजनकवायुसंयोग इत्यर्थः। अनारोपितधर्मस्य वाचकतावच्छेदकत्वकल्पनापेक्षया आरोपितस्य वाचकतावच्छेदकत्वगौरव. मितिभावः । वाचकविषयकं श्रावणप्रत्यक्षमनुभवसिद्धम् । यदि वायुसंयोग एव वाचकः स्यात्तदातस्यातीन्द्रियतया प्रत्यक्षन्नस्यात्। स्फोटस्तु पदं वाक्यं वा शणोमीत्यनुभवात्प्रत्यक्षमेव । भवन्मते कथं कत्वादिप्रत्यक्षन्तस्याभिव्यञ्जकधर्मत्वस्य भवतीत्युक्तत्वादिति वाच्यम् । सुरभिचन्दनमिति प्रत्यक्षे चक्षुरयोग्यस्यापि सौरभस्य भानवच्छ्रवणायोग्यस्याव्यभिव्यञ्जकधर्मस्य श्रावणप्रत्यक्षे आरोपात्मके भानसम्भवात्तस्याः प्रतीतेः। समवायसम्बन्धावच्छिन्नकत्वादिप्रकारकत्वे भ्रमत्वम् । यदि स्वाश्रयाभिव्यङ्ग्यत्व. रूपपरम्परासम्बन्धस्य 'लोहितः स्फटिकः' इति प्रतीतेर्जपाकुसुमसन्निधाने जायमानाया अनुभवसिद्धत्वेन प्रकारतावच्छेदकत्वमस्तीत्याशयेन दूषयति-*प्रत्यक्षमित्यादिना*। Page #442 -------------------------------------------------------------------------- ________________ अखण्डस्फोटनिर्णयः । ४१३ तथाच वाचकत्वान्यथानुपपत्त्या तदेवेदं पदं, तदेवेदं वाक्यं सोऽयं कार इति प्रतीत्या च स्फोटोऽखण्डः सिद्ध्यति । एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभवाच्छ्रयमाणवर्णानामेव वाचकत्वमस्त्वित्यपास्तम् । तेषां स्फोटातिरिक्तत्वाभावात् । यत्तु - वर्णानां प्रत्येकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समुदा दर्पणः योगात्मकत्वेऽतीन्द्रियतापत्तिः । न च सेष्टा, अनुभवविरोधात् । नचोक्तकत्वस्यातीन्द्रियधर्मत्वेन कथं साक्षात्कारविषयत्वमिति वाच्यम् । सुरभिचन्दनमिति प्रतीतौ चक्षुयोग्यस्यापि सौरभादेश्चाक्षुषविषयत्ववत्तस्यापि श्रोत्रग्राह्यत्वसम्भवात् । विषयबाधेन परं स्फोटisशे कत्वमितिप्रतीतेर्भ्रान्तित्वमिति । 1 अन्ये तु - कादिप्रतीतिर्यदि स्फोटांशे कत्वादिकं समवायेनावगाहेत, तदा तस्याs भ्रान्तत्वसम्भावना, किन्तु स्वाश्रयाऽभिव्यङ्गयत्वसम्बन्धेनैव तदंशे वैजात्यम् । न च स्वाश्रयाऽभिव्यङ्ग्यत्वस्य सम्बन्धत्वे प्रमाणाभावः । कादिप्रतीतेरेव मानत्वात् । विशिष्टप्रतीतिनियामकविशेषो हि सम्बन्धः । अत एव 'लोहितः स्फटिक' इति बुद्धेः स्वाश्रयसंयोगस्य सम्बन्धतामामनन्ति । न च समवायविषयैव सा भ्रान्तिः । यथा-कथञ्चित् तत्प्रतीतेः प्रमात्वोपपत्तौ भ्रमत्वकल्पनाया अन्याय्यत्वात् अधिकमग्रे वक्ष्यत इत्याहुः । उपसंहरति-* तथा चेति* ॥ *वाचकत्वाऽनुपपत्त्येति ॥ पदवाक्ययोर्वर्ण समूहरूपत्वे उक्तरीत्या वर्णानां युगपदवस्थानासम्भवेन वाचकत्वग्रहाऽनुपपत्येत्यर्थः । वर्णानामनित्यत्वे प्रत्यभिज्ञाऽनुपपत्तिः साऽप्यस्मन्नये नास्तीत्याह - *तदेवेदमित्यादि* ॥ तद्व्यक्त्यभेदावगाहिपदा विशेष्यकप्रत्यभिज्ञानुपपत्या चेत्यर्थः ॥ उक्तरीत्या कथञ्चिच्छक्तिग्रहोपपादनेऽप्यनित्यवर्णघटितपदवाक्ययोरनित्यतया प्रत्यभिज्ञाऽनुपपत्तिर्दुप रिहरैवेति भावः । *एतेनेति* । प्रत्यभिज्ञानुपपत्ति सिद्धाखण्ड स्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः । *अननुभवादिति* । तथा च तत्रैव प्रमाणाभावेन वाचकत्वं दूरपराहतमिति भावः ॥ *तेषाम्*- गकारादिवर्णानाम् ॥ * स्फोटातिरिक्तेति ॥ गत्वप्रकारकप्रतीतिविषयगा परीक्षा *तथा च* । वर्णानामनङ्गीकारे वायुसंयोगानां वाचकत्वे च । *अखण्ड इति । अस्मिन् पक्षे वर्णानामनावश्यकत्वेनाखण्ड इत्यर्थः । स तेन प्रत्यभिज्ञानुपपत्त्या नित्यत्वेन सिद्धस्यारितिक्तस्य स्फोटस्य वाचकत्वव्यवस्थापनेन अननुभवादिति । एतेन स्फोट एव प्रमाणाभावेन तस्य वाचकत्वं दूरत एव निरस्तमिति ध्वनितम् । * तेषाम् । ककारादिवर्णानाम् । कत्वादिप्रकार प्रतीतिविषयकादिस्फोटस्यैवास्माभिर्वाचकत्वस्वीकारादिति भावः । कैयटसम्मतं स्फोटसाधनप्रकारन्दूषयितुं तन्मतमुपन्यस्यति-यत्त्विति । वर्णानाम्प्रत्येकं वाचकत्वं समुदाय भावमापन्नानां षेति विकल्प्याद्यं दूषयति-*वर्णानामिति । द्वितीये आह - *समुदायस्येति । क्रमवत्वेऽपि स्थिरत्वे ज्ञानसंभवः स्यादत आह Page #443 -------------------------------------------------------------------------- ________________ ४१४ दर्पणपरीक्षासहिते भूषणसारे - यस्य तु क्रमवतामाशुतरोत्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसम्भाव्यमेव । पूर्वपूर्ववर्णानुभवसंस्कारसहकारेणैकदा समूहालम्बनरूपस दर्पण: दिस्फोटस्यैवास्माभिर्वाचकत्वाभ्युपगमादिति भावः । क्रमिकाणामपि स्थायिनां सहावस्थानादुक्तम्-*आशुतरेति ॥ तृतीयक्षणवृत्तिध्वंसप्रतियोगिनामित्यर्थः । आशुतरविनाशिनां सहोत्पन्नानां समुदायसम्भवादुक्तम् -*क्रमवतामिति ॥ *असम्भाव्यमेवे - ति*॥ प्रत्यक्षे तादात्म्येन विषयस्य हेतुतया समूहरूपविषयस्यैवाऽभावादिति भावः ॥ * पूर्वपूर्वेति* ॥ ननु वर्णानित्यतावादिमते तृतीयक्षणवृत्तिध्वंसप्रतियोगिनां तेषां प्रत्यक्षस्यैवासम्भवात् कथं तज्जन्यसंस्कारस्य सहकारितासम्भवः । तथाहि — कादि - प्रतीतिः ककारादौ विशेषणतया कादित्वमवगाहते । विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया ककाराद्युत्पत्तिर्द्वितीयक्षणे निर्विकल्पकमभ्युपेत्य तृतीयक्षणे विशिष्टज्ञानं वाच्यम् । तत्र न सम्भवति । सम्बद्धं वर्तमानं च दृश्यते चक्षुरादिना । इति वृद्धोक्तेः । प्रत्यक्षे विषयस्य कार्य्यसहभावेन हेतुतया तृतीयक्षणे तद्वर्णरूपविषयस्याभावात् । न च ककाराद्युत्पत्तिक्षणोत्पन्नकत्वादिस्मृत्यैव द्वितीयक्षणे एव स विकल्पसम्भव इति वाच्यम् । एवमपि प्राथमिकविशिष्टबुद्धेर्दुरुपपादत्वादितिचेद् ? अत्र वदन्ति । संसारस्यानादितया बालस्य स्तनपानप्रवृत्तिहेत्विष्टसाधनत्वस्मृतेरिव प्राथमिककत्वादिविशिष्टबुद्धिजन कस्मृतेः सम्भवान्न तदनुपपत्तिः । ककाराद्युत्पत्यनन्तरं ककारीयगकारवृत्तिविशिष्टबुद्धेरेव च तादृशकल्पने मानमिति । अन्ये तु प्रतियोगितासम्बन्धेन योग्यविभुविशेषगुणनाशं प्रति स्वसामानाधिकरय स्वाव्यवहितपूर्ववृत्तित्व उभयसम्बन्धेन यदि सामान्यतस्तादृशविशेषगुणस्य कारता स्यात्तदा ककारादिप्रत्यक्षाऽनुपपत्तिः प्रसज्येतापि, सैव न । अन्तिमशब्दपरीक्षा *आशुतरोत्पन्नानामिति । आशुतरोत्पन्नानाम् - तृतीयक्षणवृत्तिध्वंसप्रतियोगिनां तादृशानामप्येकक्षणोत्पन्नानाम्मुरजमृदङ्गवीणादिशब्दानाम्प्रत्यक्षमित्यनुभवसि - द्धत्वादुक्तम् —*क्रमवतामिति । *ज्ञानमसम्भाव्यमेवेति । विषयतासम्बन्धेन प्रत्यक्षम्प्रति तादात्म्यसम्बन्धेन विषयस्य कारणतया विषयस्यैवासत्त्वे प्रत्यक्षासम्भवादिति भावः । परोक्तन्दूषयति-पूर्व पूर्वेति । ननु प्रत्यक्षे विषयस्य कार्य्यसद्भावेन कारणत्वम् । किञ्च विशिष्टबुद्धिम्प्रति विशेषणज्ञानस्य कारणत्वम् । तथा च वर्णोत्पत्तिक्षणे वर्णानाशकत्वादिप्रकारकप्रत्यक्षासम्भवः । द्वितीयक्षणे च कत्वादिनिर्विकल्पकस्य सम्भवः, तृतीयक्षणे वर्णस्यैव नाश इति कथं कत्वादिप्रकारकप्रत्यक्षजन्यसंस्कारसम्भव इति चेद् ? न । तृतीयक्षणे वर्णनाशकता च स्वोत्तरोत्पन्नविशेषगुणस्य प्रतियोगितासम्बन्धेन योग्यविभुर्विशेषगुणतेत्येवं रीत्या कार्य्यकारणभावेन वाच्या, सा न सम्भवति । चरमशब्दनाशासंभवात् । किन्तु नाश्यतावच्छेदकं वैजात्यञ्च रमशब्दवृत्ति कल्पयित्वैव कार्यकारणभावो वाच्यः । एवं च तस्य वैजात्यस्य चरमशब्दवृत्तित्वमपि कल्प्यते, तावतैवेतस्य निर्विकल्पकोत्तरोत्पन्नसविकल्पकविषयत्वसम्भवस्तस्यापशब्दस्य चतुर्थक्षणे नाश इति तादृशप्रत्यक्षान्न Page #444 -------------------------------------------------------------------------- ________________ अखण्डस्फोटनिर्णयः। ४१५ कलज्ञानसम्भवस्तु सरोरसो राजजरा नदीदीनादिसाधारण इत्यतिप्रसङ्ग इति स्फोट एवाखण्डो नादाभिव्यङ्गयो वाचक इति कैयटः। तत्तुच्छम् । पदज्ञानसम्भवस्योपपादितत्वात् । वर्णानां प्रत्येकं व्यजकत्वं समुदितानां वेत्यादिविकल्पग्रासाश्च । दर्पणः नाशे सुषुप्तिप्राक्कालोत्पन्नज्ञानादिनाशे च व्यभिचारात्। किन्तु विजातीयगुणनाशे वैजात्यं चरमशब्दादिव्यावृत्तमिव प्राथमिकविशिष्टबुद्धिविषयवर्णव्यावृत्तमपि । नच तादृशवैजात्ये मानाभावः । नाश्यतावच्छेदककोटिप्रविष्टतयैव तत्सिद्धः। तथा. चान्तिमशब्दनाशेन द्वितीयक्षणस्यैव तादृशवर्णनाशेऽपि न तृतीयक्षणस्थतव्यक्तित्वेन हेतुत्वकल्पनान्न तृतीयक्षणस्थायिनस्तस्य प्रत्यक्षानुपपत्तिरुक्तहेतुहेतुमद्भावस्वीकारेऽपीत्याहुः।। ___ *अतिप्रसङ्ग इति । सरःशब्दघटकसकाराकाररेफविसर्गानुभवजन्यसंस्कारे रसबोधापत्तिरित्यर्थः । *नादाभिव्यङ्गय इति* । ध्वन्यन्तर्गतवर्णाभिव्यङ्गय इत्यर्थः । *अखण्डः-वर्णाघटितः। उपपादितत्वादित्यस्य सखण्डस्फोटनिरूपणावसर इति शेषः। तादृशप्रत्यक्षस्यान्तिमवर्णोशे लौकिकस्यातीतवर्णाशेऽलौकिकस्य सरो रस इत्याद्यनतिप्रसक्तस्योपपादित्वादित्यर्थः । अतिरिक्तस्य वाचकत्वे दूषणमाह-*वर्णानामिति । *विकल्पग्रासादिति । प्रत्येकव्यञ्जकत्वे आद्यवर्णादेव तदभिव्यक्तिसम्भवे इतरोच्चारणवैयापत्तेरतिप्रसङ्गाच्च । समुदायस्य तूक्तरीत्या दुरुपपादकत्वेन तव्यजकत्वस्याप्यसम्भवदुक्तिकत्वादित्यर्थः । परीक्षा संस्कारानुपपत्तिरित्याशयात् । *अतिप्रसङ्ग इति । सरःशब्दविघटकवर्णविषयकसंस्कारादू रस इति पदोच्चारणम् , तदापि सरःरसःप्रतीत्यापत्तिरिति रीत्याऽतिप्रसङ्ग इत्यर्थः । *नादाभिव्यङ्ग्य इति । नादो ध्वनिस्तमारोपविषयवर्णाभिव्यय इत्यर्थः । *उपपादितत्वादिति । प्रथमवर्णविशिष्टद्वितीयवर्णवत्त्वं तृतीयवर्ण इति रीत्या चरमवर्णविषयकं लौकिकमन्यवर्णविषयकमलौकिकम्पदज्ञानमित्यस्योपपा. दितत्वादित्यर्थः। ___ यदुक्तम्प्राङ् नादधर्मारोपविषयवर्णाभिव्यङ्ग्य इति, तद्विकल्प्य दूषयति-वर्णानामिति* । विकल्पग्रासादिति । एवञ्च प्रत्येक व्यञ्जकत्वे प्रथमवर्णमात्रश्रवणेऽप्यव्यक्त्यापत्तिः । समुदितानां व्यञ्जकत्वन्तु न सम्भवति, समुदायस्यैवासम्भवादिति भावः। ___ अपरे तु-पूर्वपूर्ववर्णसत्त्वक्षणे यदि द्वितीयादिवर्णोत्पत्तिः स्यात्तदा स्यादपि यथाकथञ्चित्पदवाक्यप्रत्यक्षम्, तत्तु न सम्भवति-पूर्ववर्णनाशानन्तरमेव द्वितीयवर्णोत्पत्तेः । तदुक्तम् "परः सन्निकर्षः संहिता" इति सूत्रभाष्ये-यावद्द्वकारे वाग्वर्त्तते न तावदोकारे, येनैव यत्नेनैको वर्ण उच्चायंते तेनैव विच्छिन्ने तस्मिन्वर्णे उपसंहृत्य तं यत्नमन्ययत्नमुपादाय द्वितीयः प्रवर्तते” इति । किञ्च-वर्णानामुच्चरितप्रध्वंसित्वादपि प्रत्यक्षासंभवः । किञ्च-पूर्वोक्तवर्णयोरव्यवधानमपि दुर्घटम् । सम्बन्धिनोराशुविनाशितयाऽव्यवधानरूपसम्बन्धासम्भवात् । Page #445 -------------------------------------------------------------------------- ________________ ४१६ दर्पणपरीक्षासहिते भूषणसारे___ ननुत्वन्मतेऽप्येष दोषः।तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगानां प्रत्येक व्यञ्जकत्वं समुदितानां वेति विकल्पस्य सम्भवादिति चेद् ? उच्यते-प्रत्येकमेव संयोगा अभिव्यञ्जकाः, परन्तु केचिद् गत्वेन, केचिदौत्वेन, केचिद्विसर्गत्वेनानेकैः प्रकारैः । मत एव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते। दर्पणः कैयटाऽनुयायिनस्तु-पूर्वपूर्ववर्णकाले चेदू द्वितीयादिवर्णोत्पत्तिः सम्भवेत् ! तदा स्यादपि कथञ्चिद्भवदुक्तरीत्या पदवाक्यप्रत्यक्षनिर्वाहः । सैव न, किन्तु याव. दूगकारे वाग् वर्तते न तावदौकारे ; येनैव यत्नेनैको वर्ण उच्चार्य्यते । तेनैव विच्छिन्ने तस्मिन् वर्णे उपसंहृत्य तं यत्नमन्यमुत्पादाय द्वितीयः प्रवर्त्तते” इति, “परः सन्निकर्ष" ( पा०सू० १।४।१०४ ) इति सूत्रस्थभाष्यप्रामाण्यात् पूर्ववर्णविनाशानन्तरं यत्नान्तरेण द्वितीयवर्णाऽभ्युपगमात् । किञ्च भवन्मते वर्णप्रत्यक्षस्यैवाऽनुपपत्तिः । तेषामुच्चरितप्रध्वंसित्वेन तदुत्पत्तेरभिव्यक्तेर्वा क्षणिकत्वेनातीन्द्रियक्षणावच्छिन्नत्वात्। तथाच "इको यणचि” ( पा०सू० ६।११७७ ) इत्यादिसूत्रोपयोगिनोऽयं पूर्वोऽयं पर इति प्रत्यक्षविषयार्थकेदंशब्दाभिलप्यमानपौर्वापर्यस्य व्यवहारस्यासम्भवः । एवं नष्टविद्यमानयोः सम्बन्धिनोरव्यवहितोत्तरत्वस्य सम्बन्धताया वक्तुमशक्यतयापि पूर्वोक्तरीत्या पदप्रत्यक्षानुपपत्तिः। अपिच गृहीतशक्तिकस्यैव बोधकत्वमितिनियमेनोच्चारणभेदागिन्नेषु शक्तिग्रहासम्भवः । आनुपूर्व्यास्तत्तत्कालघटिताव्यवहितोत्तरत्वघटितत्वेनाऽननुगतत्वाच्छक्ततावच्छेदकत्वासम्भवात् । अखण्डस्फोटाऽङ्गीकारे तु तत्तद्वर्णोपाध्यवच्छिन्ने तस्मिन् पौर्वापादिव्यवहारविषयत्वस्य सूपपादत्वानोक्ताऽनुपपत्तिः। तस्य चाऽनुपूर्व्यन्तर्गतसमस्तवर्णा एव यद्यभिव्यञ्जकास्तथापि चरमवर्णाभिव्यक्त एव स बोधहेतुरिति नोक्तविकल्पस्याऽप्यवसर इत्याहुः । ननु वायुसंयोगानां प्रत्येकमभिव्यञ्जकत्वाभ्युपगमेऽपिगौरित्यत्र घत्वेन टत्वेन च स्फोटोऽभिव्यज्यतेत्यत आह-*परन्त्विति । तथाच विलक्षणवायुसंयोगस्य गत्व. प्रकारकस्फोटाभिव्यञ्जकत्वाभ्युपगमान्नोक्तदोष इति भावः । *अत एवेति। विलक्षणवायुसंयोगस्य तत्तद्रूपेण स्फोटाभिव्यञ्जकत्वाऽभ्युपगमादेवेत्यर्थः । *तदतिरका. परीक्षा अत एव तत्तत्कालघटितायाः पूर्वोत्तरवर्णघटितानुपूर्वी तस्या असम्भवेन शक्ततावच्छेदकत्वासम्भव एवेति स्फोटस्तावदखण्डः स्वीकार्य्यः। तत्तद्वर्णोपाध्यवच्छिन्ने तस्मिन्नारोपित एव पौर्वापर्य्यादिसद्भावः । नित्ये ब्रह्मणि अन्तःकरणोपाधिभेदेन तत्तज्जीवव्यवहारवद् व्यवहारः, तस्य च स्फोटस्य चरमवर्णाभिव्यक्तस्यैवार्थबोधकत्वं कल्प्यते । कार्यकारणभावस्य फलबलकल्प्यत्वादिति कैयटाशयमाहुः। ननु वायुसंयोगस्य प्रत्येक व्यञ्जकत्वे गौरित्यत्र गकाराभिव्यक्तिकाले घत्वेन टत्वेन कुतो नाभिव्यञ्जकतेत्यत आह-*परन्तु केचिदिति । तथा च वैलक्षण्यविशिष्टानामेव फलात्स्फोटाभिव्यञ्जकत्वं कल्प्यते । *अत एव*-विलक्षणवायुसंयोगस्य तत्तद्रूपेण स्फोटाभिव्यञ्जकत्वादेव । *तदतिरेकास्वीकार इति । तत्तद्वायुसंयोगादेव कत्वादि Page #446 -------------------------------------------------------------------------- ________________ अखण्डस्फोटनिर्णयः। - एवञ्चाव्यवहितोत्तरत्वसम्बन्धेन घवत्त्वं टकारे गृह्यते । एतादृशपदज्ञानकारणताया अविवादात् । परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञान विषयत्वं वाच्यम् । अत एव घज्ञानानन्तर. टज्ञानविषयत्वरूपानुपूर्वीत्यादिनैयायिकवृद्धानां व्यवहारः । एवञ्च न कश्चिदोषः। एतेन पर्यायस्थलेष्वेक एव स्फोटो, नाना वा ? नाद्यः । दर्पणः स्वीकार इति । तत्तत्संयोगादेव कत्वादिप्रकारकककारप्रतीत्युपपत्तौ स्फोटातिरिक्ततत्कल्पने मानाभावादिति भावः। ननु सरो रस इत्यादावतिप्रसङ्गस्तदवस्थ एव,सत्त्वादिरूपेणाभिव्यञ्जकवायुसंयोगानामुभयत्र तौल्यादत आह-*एवञ्चेति । *घवत्त्वमिति । तथा चौपाधिकभेदमादाय तस्मिन्नेव टकारात्मके घत्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहविषये यथा घटपदव्यवहारविषयता तथा रात्मके स्फोटे सत्त्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहे सर.पदव्यवहारविषयतेति न सरआत्मकस्फोटस्य रसरूपतेति भावः। __ननु तव मते गकारादिवर्णस्य नित्यस्फोटरूपतया नित्यत्वेन तवंसाधिकरणक्षणाऽनुत्पत्तिकत्वविशिष्टतदधिकरणक्षणोत्पत्तिकत्वरूपाऽव्यवहितोत्तरत्वासम्भवात् कथमुक्तप्रकारसम्भवोऽत आह-*परं त्विति । तथाच वर्णानां नित्यत्वेऽपि तदभिव्यक्तरनित्यत्वस्य सांख्यानामपि सम्मतत्वेन तदव्यवहितोत्तरत्वस्य वर्णान्तराभिव्यक्तावबाधेन तदादाय घटादिपदप्रत्ययोपपत्तिरिति भावः। *अत एवेति । अभिव्यक्तिनिरूपिताऽव्यवहितोत्तरत्वस्यानुपूर्वीव्यवहारनियामकत्वादेवेत्यर्थः। नवीनैस्तथानभ्युपगमादाह-वृद्धति*। *एतेनेति । आनुपूर्व्यवच्छिन्नवर्णात्मकस्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः । अपास्तमित्यनेनाऽन्वयि । *स्फोट इति । वाचकत्वेनाऽभिमताखण्डपदार्थ इत्यर्थः। *नाद्य इति । नैक इत्यर्थः । . परीक्षा प्रकारकककारादिविशेष्यकप्रतीतिनिर्वाहात्स्फोटातिरिक्तककारादिकल्पनाभावोऽप्युपपद्यत इत्यर्थः। नन्वेवं सरो रस इत्यत्रोक्तातिप्रसङ्गस्तादवस्थ्यम् । सत्वेन रत्वेन चाभिव्यञ्जकवायुसंयोगानान्तौल्यात् । अतस्तदोषम्परिहर्तुं व्यवस्थामाह-*एवम्चेति । उपाधिभेदाद् धकारटकारयोर्भेदः स्फोटभेदकल्पकस्तत्र घवत्त्वं टकारे यथा कल्प्यते; तथा सर इत्यत्रापि तथैव कल्पनया सत्त्वं रेफे ततः सविशिष्टरत्त्वं विसर्गे गृह्यते; रस इत्यत्र तु वैपरीत्येन ग्रह इति तदर्थविशेषप्रतिपत्युपपत्तिरिति भावः । . ...... ननुभवन्मते स्फोट एव चेद धकारटकाररूपः, तदाद्यध्वंसाधिकरणक्षणानुत्पत्तिकत्वे सति घकाराधिकरणक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वरूपं घकाराव्यवहितोत्तरत्वं टकारे न सम्भवतीति कथं घवत्वं णकार इत्यत आह-*परमिति*। *एवञ्च* । ज्ञानघटितस्याव्यवहितोत्तरत्वस्य निर्वचने च अभिव्यक्तिनिरूपिताव्यवहितोत्तरत्वमेवानुपूर्वीसम्पादकन्तमादायैव शक्ततावच्छेदकस्य तत्तत्स्थले कल्पना कार्यो। ...... *एतेन*-उक्तप्रकारसिद्धानुपूर्व्यवच्छिन्नस्फोटस्यवाचकत्वव्यवस्थापनेन । *स्फोट ५३ द० ५० Page #447 -------------------------------------------------------------------------- ________________ ४१८ दर्पणपरीक्षासहिते भूषणसारेघटपदे एव गृहीतशक्तिकस्य कलशार्बोधप्रसङ्गात् । नच तत्पर्यायाभिव्यक्त शक्तिग्रहस्तत्पर्याय श्रवणेऽर्थधीहेतुरिति वाच्यम् । एवं सति प्रतिपर्यायं शक्तिग्रहावश्यम्भावेन तत्तत्पर्यायगतशक्तिग्रहहेतुताया उचितत्वात् । तथा सति शक्तिमहत्वेनैव हेतुत्वे लाघवाच्च । अन्यथा तत्पर्य्यायाभिव्यक्तगतशक्तिग्रहत्वेन तत्त्वे गौरवात् । न द्वितीयः। अनन्तपदानां तेषां शक्ति चापेक्ष्य क्लुप्तवर्णेष्वेव शक्तिकल्पनस्य लघुत्वादिति परिमलोक्तमपास्तम् । पर्यायेष्वनेकशक्तिस्वीका दर्पणः तत्पक्षे दूषणमाह-*घटपद इति। घट इत्यानुपूर्व्यवच्छिन्नस्फोटे गृहीतशक्तिकस्ये. त्यर्थः। कलशपदादित्यस्यागृहीततदवच्छिन्नस्फोटशक्तिकादित्यादिः । *बोधप्रस. ङ्गादिति । घटबोधक्लप्तकारणताककलश इत्यानुपूर्व्यवच्छिन्नस्फोटस्य तदानीं सत्त्वान्नित्यैकरूपत्वात् तस्य वर्णसमुदायरूपपदस्य वाचकत्वे तु नोक्तदोष इति भावः ॥ *अर्थधीहेतुरिति*॥ उक्तस्थलेचाऽस्यास्फोटस्य कलशरूपपव्यताभिव्यक्त्यवच्छिन्नशक्तिग्रहविषयत्वाभावान्न अर्थबोधप्रसङ्ग इति भावः। *एवमिति ॥ तत्पर्य्यायजन्यशाब्दबोधे तत्पर्यायाभिव्यक्त्यवच्छिन्नशक्तिग्रहस्य हेतुत्वाभ्युपगम इत्यर्थः ॥ *शक्तिग्राहावश्यम्भावेनेति ॥ 'नागृहीतविशेषण'न्यायेन तत्पर्य्यायशक्तिग्रहस्यावश्यमभ्युपेयत्वादिति भावः ॥ *उचितत्वादिति ॥ औचित्यमेवाह-*तथा सतीति॥ *शक्तिमहत्वेनेति ॥ तत्पर्य्यायगतशक्तिग्रहत्वेनेत्यर्थः ॥ *लाघवादिति ॥ उक्तरूपाऽपेक्षयैतस्य कारणतावच्छेदकत्वे लाघवादित्यर्थः ॥ *चो-हेतौ । पूर्वकल्पे गौरवं प्रकाशयति-*अन्यथेति ॥ उक्तिवैचित्र्यमेतत् ॥ *न द्वितीय इति ॥ पर्यायस्थले स्फोटनानात्वमित्यपि पक्षो नेत्यर्थः ॥ अनन्तेति ॥ प्रतिपर्यायभिन्नानां स्फोटानां कल्पनामित्यर्थः । *शक्तिमिति । तद्भेदभिन्नानन्तशक्तिकल्पनां चापेक्ष्येत्यर्थः ॥ *लघुत्वादिति ॥ तथाच वर्णातिरिक्तस्फोटकल्पनाऽपार्थेति तद्भावः ॥ *पर्यायेष्विति* ॥ एकधर्मावच्छिन्नबोधकनानापदेष्वित्यर्थः ।। *अनेकेति ॥ पर्यायभेदभिन्नेत्य परीक्षा इति । वाचकत्वाभितोऽखण्डः पदार्थ इत्यर्थः । श्बोधप्रसङ्गादिति । प्राग्गृहीतशक्तिकस्यैव स्फोटस्य तेनाभिव्यक्त्याऽर्थप्रतीतिप्रसङ्गादिति भावः । सामग्रीविशेषस्य कायविशेषनियामकत्वकल्पने नोक्तातिप्रसङ्गवारणं भविष्यतीत्याशयिकामुक्तिन्निरस्यति*न चेत्यादिना । *अवश्यं भावेनेति । तत्तत्पर्यायाभिव्यक्तगतशक्तिग्रहत्वेन कारणत्वावश्यभावे तत्तत्पर्यायगतशक्तिग्रहत्वेनैव कारणत्वमुचितमिति भावः। *लाघवा. चेति । चो हेतौ। *न द्वितीय इति । पर्यायस्थले स्फोटस्य नानात्वमिति पक्षो नेत्यर्थः । *पदार्थानान्तेषाम् । प्रतिपर्यायभिन्नानां स्फोटानाम्। *शक्तिञ्चेति । स्फोटभेदेन भिन्नानन्तशक्तिकल्पनामित्यर्थः । *लघुत्वादिति । एवञ्च वर्णातिरिक्तस्फोटकल्पना मुधैवेति भावः । *पर्यायेष्विति । एकधर्मावच्छिन्नवाचकनानापदेष्वित्यर्थः। शक्ततावच्छेदकभेदेन शक्तिभेदस्यान्याय्यत्वादिति भावः। *अनेकेति। पर्या Page #448 -------------------------------------------------------------------------- ________________ अखण्डस्फोटनिर्णयः । ४१९ रस्य सर्वसिद्धत्वात् तदवच्छेदकानुपूाः प्रागुपपादनादिति दिक् । दर्पणः र्थः ॥ *सर्वसिद्धत्वादिति । तथाच पायेषु नानाशक्तिकल्पना नापूव्येति न दोषः। __ अयमाशयः-वर्णाः स्फोटाऽभिव्यञ्जका इति स्वीकारे भवदुक्तदूषणस्यावसरोः न तु स्फोटस्य वर्णानतिरेकपभे, तत्र पृथक्शक्तिकल्पनाया अभावेन गौरवासम्भवात् । पर्यायशक्तिग्रहकार्य्यताऽवच्छेदककोटावव्यवहितोत्तरत्वनिवेशेन व्यभिचारवारणं तूभयोः सममिति । ननु त्वन्मते स्फोटानतिरेकेण वर्णानां नित्यत्वादुत्पत्तिघटिताव्यवहितोत्तरत्वस. म्बन्धेनोत्तरवर्णेषु पूर्वपूर्ववर्णवत्त्वरूपशक्ततावच्छेदकानुपूर्व्यसम्भवोऽत आह-*तदवच्छेदकेति* । शक्ततावच्छेदकेत्यर्थः। *प्रागिति* । स्वाऽभिव्यक्त्यधिकरणक्षणोत्पत्तिकाऽभिव्यक्तिविषयत्वमितिग्रन्थेनेति शेषः । ननु वर्णानां नित्यत्वाभ्युपगमे नित्यवर्णेरेव स्फोटकार्योत्पत्तौ स्फोटस्यैवाऽसिद्धिः। तथाहि-आनुपूर्व्या भवद्भिरे. वोपपादितत्वात्तद्विशिष्टानां तेषां पदत्वेन तत्प्रत्यक्षस्य सोलभ्येन शक्तिग्रहस्य सूपपपादत्वात्तदेवेदं पदं तदेवेदं वाक्यमिति प्रत्यभिज्ञोपपत्तेश्चेत्यत आह-*दिगिति । परीक्षा यभेदभिन्नेत्यर्थः । *सर्वसिद्धत्वादिति । तथा चरममापूर्वकल्पनाप्रयुक्तन्दूषणम् । __ अयमत्राभिसन्धिः-यदि वर्णाः स्फोटस्याभिव्यञ्जका इति पक्ष एवास्मन्मते स्यात्तदा पर्यायभेदेन स्फोटस्य भेदो वापर्य्यायभेदेऽप्येकत्वं वेति विकल्पेन भवदुक्त. दूषणावसरः स्यात्, तथा तु न मम मतम्, किन्तु स्फोटानतिरिक्ता वर्णा इत्येव प्रागुक्तम् । एवञ्च स्फोटस्यकत्वात्तत्र पृथक् शक्तिकल्पना नेति न भवदुक्तगौरवस. म्भावना। नचैवं घटपद एवं गृहीतशक्तिकस्येत्यादिनोक्ताद्यपक्षदूषणमेवेति वाच्यम्। स्फोटभेदेऽपि तदभिन्नत्वे कल्पितानां घटकलशादिशब्दानां तत्तद्वर्णभेदेन कल्पितभेदवान् घटपदं घटे शक्तमित्याधाकारकग्रहे विशेष्यत्वेन तादृशज्ञानानाम्भेदादव्यवहितोत्तरत्वसम्बन्धेन तत्तज्ज्ञानवैशिष्टयस्य कार्य्यतावच्छेदकशरीरे निवेशेनोक्तदोषपरिहारात्। तत्तत्कारणवैशिष्ट्यनिवेशप्रयुक्तगौरवन्तु स्फोटानङ्गीकर्त्तमतेऽपीति न तदुद्भाव नाहमिति । ननु स्फोटस्य नित्यत्वेन तदभिन्नवर्णानामपि नित्यत्वादुत्पत्तिध्वंसघटिताव्यवहितोत्तरत्वघटितानुपूर्व्यापि वक्तुमशक्यमिति शक्ततावच्छेदकालाभोऽत आह-*तदवच्छेदकेति । प्रागुपपादनादिति । अभिव्यक्तिघटिताया आनुपूर्व्याः प्रागुपपादनादित्यर्थः । ननु यदि वर्णा नित्यास्तदा भवदुक्तरीत्याऽभिव्यक्तिघटिताया आनुपूर्व्याः प्रागुपपादनादित्यर्थः । ननु यदि वर्णा नित्यास्तदा भवदुक्तरीत्याऽभिव्यक्तिघटितानां तेषामानुपूर्वी कल्पनीया। तस्याश्च शक्ततावच्छेदकत्वङ्कल्प्यम् । तद्विशिष्टानामेव तेषां वर्णानाम्पदत्वं वाक्यत्वं वाऽस्तु, नित्यत्वादेव तेषाम्प्रत्यक्षमपि भविष्यति । तत एव च तदेवेदम्पदं तदेवेदं वाक्यमिति प्रत्यभिज्ञाऽप्युपपत्स्यते, क्लुप्तस्फोटेनेत्यत आह-दिगिति । तदर्थस्तु-यदि स्वतन्त्रा नित्या वर्णाः स्युः, तदा भवदुक्तान्यथासिद्धिसम्भावनाया अबसरः स्यात्। तथा तु नास्ति; किन्तु कत्वादिना ज्ञायमानस्फोट एव ककार इत्य Page #449 -------------------------------------------------------------------------- ________________ ४२० दर्पणपरीक्षासहित भूषणसारेशब्दकौस्तुभे.तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त एव दर्पणः तदथस्तु यदि स्वतन्त्रा नित्या वर्णाः स्युस्तदा स्यादेव तैः स्फोटाऽन्यथासिद्धिः । किन्तु कत्वादिना प्रतीयमानः स्फोट एव ककारादिवर्ण इत्यभ्युपगमेनोक्तान्यथासि. यऽसम्भवादत एव नानावर्णकल्पनाप्रयुक्तगौरवशङ्कापि नेति।। ____ ननु कोऽसौ स्फोटो यदनतिरिक्ता वर्णा इति चेद् ? अबाहुः-ईश्वरसिमक्षात्मकमायाबिन्द्वपरपर्यायत्रिगुणात्मकाव्यक्तप्रभवः शब्दब्रह्मापरनामा चेतनाधिष्ठितोऽनभिव्यक्तवर्णविशेषो रवः परादिशब्दैर्व्यवह्नियमाणो नादःस्फोट इत्युच्यते । स च सर्वगतोऽपि पुरुषस्य ज्ञातार्थविवक्षाधीनप्रयत्नाधिष्ठितमूलाधारस्थपवनेनाऽभिव्यक्तः परेति व्यवहियते । नाभिपर्यन्तमागच्छता तेनाऽभिव्यक्तः पश्यन्तीति। पुनर्हृदयमागच्छता तेनाऽभिव्यक्तः पश्यन्तीति । पुनर्हृदयमागच्छता तेनैवाऽभिव्यक्तस्त. तदर्थोल्लेखिज्ञानविषयः परश्रोत्राग्राह्यत्वात् सूक्ष्मो मध्यमा वागिति। वक्त्रा तु कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांशुशब्दप्रयोगे च श्रूयते । स एव चाऽऽस्यपर्यन्त. मागच्छता तेन वायुना कण्ठदेशं गत्वा मूर्धानमाहत्य परावृत्त्य तत्तत्स्थानेष्वभिव्यक्तः परश्रोत्रेणाऽपि ग्रहीतुं शक्यो वैखरीति व्यवहियते । उक्ताऽथें प्रमाणं च___"चत्वारि वाक् परिमितानि पदानि। तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा श्रीणि निहिता नेङ्गन्यन्ति । तुरीयं वाचो मनुष्या वदन्ति” इति श्रुतिः । बिन्दोस्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मकोऽभवत्। स एव श्रुतिसम्पन्नः शब्दब्रह्मति गीयते ॥ इति पुराणवाक्यं च । भागवतेऽप्येकादशस्कन्धादौ स्फुटोऽयमर्थः। शिक्षायामपि आत्मा बुद्धया समेत्यान्मनो युङ्क्ते विवक्षया । मनः कायाऽग्निमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूय॑भिहतो वक्त्रमापद्य मारुतः । वर्णान् जनयतेइत्यनेन हृदयावच्छिन्नमध्यमायां यो नादांश आन्तरप्रणवरूपः, स एव वाचकः । "ओंकार एव सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना नानारूपा भवति" इति श्रुतेः। सर्वप्राणिहृद्देशस्थत्वाच्च ब्रह्मपदव्यवहार्योऽपीत्यन्यत्र विस्तरः॥ *इति प्रतीतेरिति ॥ अन्यथा वर्णपरम्परारूपमालायास्तत्समूहरूपपदानतिरि परीक्षा भ्युपेयते। अत एव नानावर्णकल्पनाप्रयुक्तगौरवस्यापि न मम मतेऽवकाश इति । दीक्षितेनोक्तमनुवदति-*शब्दकौस्तुभे त्विति*। *वामालायाम्-वर्णपरम्परायाम् । *इति प्रतीतेरिति । आधाराधेयभावावगाहिप्रतीतेरित्यर्थः । अतिरिक्तस्फो. टानकीकारे वर्णपरम्परारूपमेव पदमित्यभेदे आधाराधेयभावावगाहिप्रतीत्यनुपपत्तिः स्यात् । अन्यथा प्रतीतेविभिन्नपदार्थासाधकत्वे 'कपाले घट' इति प्रतीत्या कपालातिरिक्तस्य घटस्य सिद्धिर्भवति । यदि प्रतातिः साधिका न भवेत् , तदा कपालघटयो दो न सिध्येत, कपालसंयोगरूपस्य कारणस्य कपालसमूहसाधकतयैवोक्तिरिति भावः । अन तुनाऽरुचिर्ध्वनिता । तथाहि-वर्णपरम्परातिरिक्तस्फोटानङ्गीकारेऽप्युक्तप्रतीत्यु Page #450 -------------------------------------------------------------------------- ________________ अखण्डस्फोटनिर्णयः। ४२१ स्फोटः । अन्यथा कपालातिरिक्तघटाद्यसिद्धिप्रसङ्गति प्रतिपादितम् ॥ ६॥ दर्पणः कतयाऽऽधाराधेयभावावगाहिप्रतीत्यनुपपत्तिरिति भावः ॥ *अन्यथेति ॥ प्रतीतेः पदार्थासाधकत्व इत्यर्थः । *कपाले घट इति* ॥ प्रतीत्याभेदावगाहिन्या तसिद्धिः; प्रतीतेस्तदसाधकत्वे तु घटाद्यसिद्धिः स्पष्टैव । कपालतत्संयोगानादायैव तादृशप्रतीत्युपपत्तेरिति भावः ॥ कौस्तुभे विति तुशब्देनाऽरुचिः सूचिता। तद्वीजं तु वर्णातिरि परीक्षा पपत्तिर्भवत्येव । आनुपूर्व्यवच्छिन्नानां वर्णानाम्मालारूपत्वमानुपूर्वीरूपपदस्य च तद्भि. नत्वमित्युक्तस्याधाराधेयभावस्योपपादयितुं शक्यत्वात् , प्रतीतेभेर्दासाधकत्वे कपालघटयो दो न सिद्धयेदितित्ववशिष्यते, तदपि न । कपालस्याल्पपरिमाणवदवयवजन्यत्वम् । घटस्य तु तदधिकपरिमाणवदवयवजन्यत्वमिति, कारणवैजात्याद्वैलक्षण्येन तयो)दस्य सिद्धेरिति । ननु कोऽसौ नित्यः स्फोटो यमाश्रित्योक्तव्यवस्थामुपपादयतीति चेत् ? प्रणवरूपम्ब्रह्मतत्वमेव स्फोट इति गृहाण । तथाहि-ईश्वरस्य सिसृक्षात्मिका या माया चिपाऽपरपर्याया व्यक्तरूपा तत्प्रभवः शब्दब्रह्मापरनामा चेतनेनाधिष्ठितोऽनभिव्यक्तवविशेषो रवपरादिशब्दे व्यवहियमाणे नाद एव स्फोट इत्यभिधीयते । स च यद्यपि सर्वगतः, तथापि पुरुषस्य ज्ञातार्थविवक्षया जायमानप्रयत्नविशेषेण मूलाधारस्य पवनेनाभिव्यक्तः परा इति व्यवतियते । नाभिपर्यन्तमागच्छता तेन पवनेनाभिव्यक्तः पश्यन्तीत्युच्यते। हृदयपर्यन्तमागच्छता तेनैवाभिव्यक्तस्तत्तदाकारज्ञानविषयः परपुरुषश्रोत्रेन्द्रियाग्राह्यत्वात्सूक्ष्म इत्यनेन शब्देनाभिधीयमानो मध्यमावागिति कथ्यते । स एव च वक्रा कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांशुशब्दप्रयोगे च श्रूयते । तत आस्यपर्यन्तमागच्छता तेन पवनेन कण्ठदेशङ्गत्वा मूर्द्धानमाहत्य परावृत्य तत्तत्स्थानेष्वभिव्यक्तः परपुरुषेणापि ग्राह्यो वैखरीवागित्यभिधीयते । तत्र भाष्योक्ता श्रुतिः प्रमाणम् - चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहात्रोणि निहितानि नेङ्गायन्ति तत्तुरीयं वाचो मनुष्या वदन्ति" इति ॥ तथा पुराणेऽपि बिन्दोस्तस्माभिन्द्यमानाद्रवो व्यक्तात्मकोऽभवत् । स एव श्रुतिसम्पन्नैः शब्दब्रह्मेति गीयते ॥ इति । शिक्षायामप्युक्तम् आत्मा बुद्धया समेत्यान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । सोदीर्णो मूद्धभिहतो वक्त्रमापद्य मारुतः। वर्णान् जनयत इति।। एवञ्च हृदयावच्छिन्नमध्यमायां यो नादांश आन्तरः प्रणवरूपः स एव वाचकः । "ओंकार एव सर्वा वागेषा स्पर्शीष्मभिर्व्यज्यपाना नानारूपा भवति" इति श्रुतेः । सर्वप्राणिहृदयदेशस्थत्वाच्च ब्रह्मपदव्यवहार्योऽपीति धेयम् ॥ ६८ ॥॥ Page #451 -------------------------------------------------------------------------- ________________ ४२२ दर्पणपरीक्षासहिते भूषणसारे नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः । पदस्थाखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशङ्कां समाधत्ते पञ्चकोशादिवत्तस्मात् कल्पनैषा समाश्रिता । उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः ॥ ६९॥ 'उपेयप्रतिपत्त्यर्था' इत्यन्तेनान्वयः । अयम्भावः-यथा भृगुवल्यां दर्पणः तस्फोटानङ्गीकारेऽपि नोक्तप्रतीत्यनुपपत्तिः। आनुपूर्व्यवच्छिन्नवर्णानां मालापदार्थत्वेन तत्रानुपूर्वीरूपपदस्याधाराधेयभावसम्भवात् । घटकपालादीनां विजातीयकारणज. न्यत्वेन तद्भेदस्यापलपितुमशक्यत्वेनोक्तातिप्रसङ्गाभावाच्चेति । ____ अन्ये तु-न वर्णानां स्फोटात्मकत्वम् । किन्तु स्फोटस्य वर्णाभिव्यङ्गयत्वमेव । न च प्रत्येकव्यञ्जकत्वपक्षोक्तदोषः प्रयोगान्तर्गतसकलवर्णानां तद्वयञ्जकत्वेऽपि चरमवर्णाभिव्यक्तस्यैव तस्य वाचकत्वोपगमादत एव नाद्यवर्णजाऽभिव्यक्त्युत्तरमर्थबोधः । तस्यैकत्वेऽपि तत्र व्यञ्जकरूपप्रतिबिम्बनात्तद्रूपरूषितस्यैव प्रतीत्या नानात्वेन प्रतीतिरौपाधिकी । एकस्यैव मुखस्य कृपाणदर्पणाद्यभिव्यञ्जकवशार्ध्यवर्तुलत्वादि. प्रतीतिवत् । अत एवाऽभ्युपगमार्थ न तत्र जातिकल्पनापि । वर्णभिन्नव्यञ्जकाऽभा. वाच न कदाचिदपि वर्णराहित्येन तत्प्रतीतिस्तत्प्रतिबिम्बिसमर्पकाश्च संस्कारा एव । ते च येन क्रमेण चित्तस्थास्तेनैव व्यञ्जकरूपरूषितता तस्येत्यभ्युपगमाञ्च, न सरो रसः इत्यनयोरविशेषः । व्यञ्जकरूपरूषितस्यैव तस्यार्थे शक्तिग्रहाच्च, न घटादिपर्य्यायाभिव्यक्तस्फोटे गृहीतशक्तिकस्याप्रसिद्धपदश्रवणेऽर्थबोधापत्तिरत एवेदमेकं पदमिदमेकं वाक्यमिति व्यवहारः स्वरसतः सङ्गच्छत इत्याहुः ॥ ६८॥ ... *एवमिति* । अखण्डस्फोटस्यैव वाचकत्वे इत्यर्थः । अप्रामाण्यप्रसङ्गमेवोपपादयति-*पदस्येति । वाक्यस्याऽप्युपलक्षणमिदम् । *अखण्डत्वादिति । प्रकृतिप्रत्ययविभागशून्यत्वादित्यर्थः । तथाभूतस्यैव वाचकताया भवद्भिरुपपादितत्वादिति भावः । *शास्त्रस्य-व्याकरणात्मकस्य । *प्रकृतिप्रत्ययाभ्यामिति* । ताभ्यां यद *व्युत्पादनं*--शक्तिबोधनं, तन्मात्रप्रयोजनत्वादित्यर्थः। तथाच प्रकृतिप्रत्ययविभागेन पदार्थवाचकत्वबोधकस्यास्य शास्त्रस्य पदस्याऽखण्डत्वेऽप्रामाण्यापत्तिरिति भावः ॥ *उपेयप्रतिपत्त्यथेति* ॥ वचनविपरिणामेन उत्तरत्राऽप्यन्वेति । उपेयस्य बोधनीयस्य प्रतिपत्तये एषा कल्पनाऽऽश्रिता स्वीकृता मुनिनेति शेषः ॥ तत्र दृष्टान्तमाह-*पञ्चकोशादिवदिति । तत्र दृष्टान्तमेव स्फुटयति-*अयम्भाव इति ॥ तत्र परीक्षा *एवमिति । अखण्डस्फोटस्यैव वाचकत्व इत्यर्थः। *शास्त्रस्य-व्याकरणशा स्वस्य । प्रकृतिप्रत्ययाभ्यां व्युत्पादनस्य तत्तदर्थप्रतिपादनतात्पर्यकत्वादिति भावः । *तस्मात्-अखण्डस्फोटस्यैव वाचकत्वात् । 'उपेयप्रतिपत्यर्था' इति लिङ्गवचनविपरि. णामेन समाश्रितेत्यनेनाप्यन्वेतीत्याशयेनाह-*उपेयेति। 'पञ्चकोशादिवद्' इति दृष्टान्तं स्फुटयति-*अयम्भाव इति । अत्र क्वचिभृगुवल्लीप्रघटकमप्युदाहृतम् । तत्र हि"भृगुर्वे वारुणिर्वरुणम्ब्रह्म पृष्टवान् । स उवाचान्नम्ब्रह्मेति । तथोत्पत्यादिकम्बुध्वा Page #452 -------------------------------------------------------------------------- ________________ अखण्डस्फोटनिर्णयः। ४२३ "भृगुर्वै वारुणिवरुणं ब्रह्म पृष्टवान्। स उवाच अन्नम्" इति । तस्योत्पत्त्यादिकं बुद्धा पृष्टे प्राणमनोविज्ञानाऽऽनन्दात्मकपञ्चकोशोत्तरं "ब्रह्मपुच्छं प्रतिष्ठा" इति शेयं ब्रह्म प्रतिपादितम्। तत्र कोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधनाय । यथा वा आनन्दवल्लीस्थपञ्चकोशव्युत्पादनं वास्तवशुद्धब्रह्मबोधनाय । एवं प्रकृतिप्रत्ययादिव्युत्पादनं वास्तवस्फोटव्युत्पादनायैवेति । ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोऽपि बोधसम्भवान्न शास्त्रे तदुपाय इत्यत आह—*उपाया इति* ॥ उपायस्योपायान्तरादूषक दर्पणः हि, "भृगुः वारुणिवरुणं ब्रह्म पृष्टवान् । स उवाचान्न ब्रह्म" इति तस्योत्पत्त्यादि बुद्ध्वा पुनस्तेन पृष्टः “प्राणो ब्रह्म” इति तस्यापि तथात्त्वं बुद्ध्वा पृष्टो, “मनो ब्रह्म" इति तस्याऽप्यशितमन्नं त्रेधा भवति-“यस्थूलं तत्पुरीषं, यन्मध्यमं तन्मांसम्, यदणीयस्तन्मन" इति श्रवणादनित्यत्वमवधार्य पुनः पृष्टो, “विज्ञानं ब्रह्म' इति । तस्याऽपि वृत्युपहितत्वं ज्ञात्वा पुनः पृष्टेनोपदिष्टम्-"आनन्दो ब्रह्मोति व्यजानात्" । ततो वस्तुतत्त्वं प्राप्य स्थित इति प्रतिपादितम् । ननु नेयं वल्ली पञ्चकोशप्रतिपादिका । पञ्चमस्यानुपपाद्यत्वादकोशत्वाच्च तस्यैव तत्र ब्रह्मत्वात् , इत्याशयानन्दवल्लिस्थपञ्चकोशोदाहरणमाह-*यथा वेति । तत्रत्या हि पञ्चकोशा उपाया एव उपदिष्टपञ्चमानन्दकोषस्यापि वैषयिकतयानित्यत्वेनाब्रह्मत्वात् "ब्रह्म पुच्छं प्रतिष्ठा" इत्यतः श्रूयमाणब्रह्मपदस्यैव मुख्यब्रह्मपरत्वम् । अत एवाऽऽधारार्थकः पुच्छशब्दोऽप्युपपद्यते । तस्य लागुलरूपमुख्यार्थस्य बाधात्। एवञ्चानन्दवल्यां यथा पञ्चकोशाः सर्वाधारब्रह्मबोधनायोपायतयापात्ताः, न तु तेषां वास्तवब्रह्म. त्वम् , तथेहाऽप्यवास्तवप्रकृतिप्रत्ययवाचकत्वव्युत्पादनं वास्तवस्फोटनिष्ठवाचकत्वबोधनायेत्याखण्डलार्थः ॥ *श्रवणादित इति* ॥ आदिना मन आदिपरिग्रहः॥*न शास्त्र परीक्षा पुनस्तेन पृष्टः प्राणो ब्रह्मेति । तस्यापि तथात्वं ज्ञात्वा पुनः पृष्टो मनो ब्रह्मेति । तस्याप्यशितमन्नन्त्रेधा भवति' यत्स्थूलं तस्यापि वृत्त्युपहितत्वं ज्ञात्वा पुनः पृष्टे "आनन्द ब्रोति व्यजानात्। ततो वस्तुतत्वम्प्राप्य स्थित इति । ____ इयम्भृगुवल्लीन पञ्चकोशोदाहरणमत उदाहरणान्तरमाह-*यथावेति । उपदिष्टपदज्वानन्दकोशस्यापि वैषयिकतयाऽनित्यत्वेनाब्रह्मत्वान्मुख्यब्रह्मप्रतिपादनाय 'ब्रह्मपुच्छम्प्रतिष्ठा' इत्युक्तम् । अत्र ब्रह्मपदम्मुख्यब्रह्मपरम्, पुच्छशब्दोपादानात् । अयं हि पुच्छशब्द आधारपरोनतु लागूलपरस्तस्य बाधात् । एवञ्च यथा पञ्चकोशाः सर्वाधारब्रह्मप्रतिपादनायोपादेयतयोपात्ताः, न तु तेषां वास्तवब्रह्मत्वम्, तथेहाप्यवास्तवप्रकृतिप्रत्यययोर्वाचकत्वव्युत्पादन वास्तवस्फोटनिष्ठवाचकत्ववाधनायेति समुदायार्थः । श्रवणादित इति । आदिना मनननिदिध्यासनयोः परिग्रहः । *न शास्त्रं तदुपाय इति । Page #453 -------------------------------------------------------------------------- ________________ ४२४ दर्पणपरीक्षासहिते भूषणसारेत्वात् । तथाच व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते । मन्त्रजन्यमिवार्थस्मरणे । वेदान्तजन्यमिव ब्रह्मज्ञाने। तस्य च ज्ञानस्य यज्ञा. दीनामन्तकरणशुद्धाविव शरीरादिशुद्धावुपयोगः साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वञ्च । तदुक्तं वाक्यपदीयेतद्वारमपवर्गस्य वाङ्गलानां चिकित्सितम् । दर्पणः मिति । एतच्छास्त्रं विनापि श्रवणादिना तद्वोधेन व्यभिचारादिति भावः ॥ उपायस्योपायान्तरादूषकत्वे सदृष्टान्तां युक्तिमाह-*तथाचेति* ॥ व्याकरणाध्ययनस्य स्फोटज्ञानत्वं न कार्यतावच्छेदकत्वम्, किन्तु तादृशज्ञानगतवैजात्यं तदवच्छिन्नञ्च नोपायान्तरादिति न व्यभिचारः । वैजात्यस्य प्रागनुपस्थितावपि कारणताग्रहो विधिवादोक्तदिशाऽवसेय इति भावः ॥ *मन्त्रजन्यमिवेति ॥ मन्त्रजन्यतावच्छेदकमिवेत्यर्थः । एवमग्रेऽपि। ___ ननु पुरुषार्थसाधकस्य तस्य सम्पादनवैयर्थ्यमत आह-*तस्य चेति ॥ स्फोटज्ञानस्य चेत्यर्थः ॥ श्यज्ञादीनामिति । कामनापरित्यागेन विधीयमानानां तेषामित्यर्थः । यज्ञादीत्यादिना "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुत्युक्तदानादिपरिग्रहः । शरीरादीत्यादिना वागिन्द्रयपरिग्रहः । ___ ननु शरीरादिशुद्धेरप्यपुरुषार्थतया तदुद्देशेनापि प्रवृत्तिर्दुघटेत्यत आह-*साक्षादिति । स्वर्गादीत्यादिनाऽपवर्गपरिग्रहः। साक्षात्स्वर्गहेतुत्वं परम्परयाऽपवर्गहतुत्वं चेत्यर्थः । स्वर्गहेतुत्वे "चैकः शब्दः" इति भाष्यपठितश्रुतिः, परम्परया मोक्षहेतुत्वे च, "द्वे ब्रह्मणी वेदितव्ये” इति स्मृतिः प्रमाणम् । परम्पराघटकं चात्मतत्त्वज्ञानम् । "तमेव विदित्वा” इति श्रुत्या तदतिरिक्तस्य साक्षान्मोक्षहेतुत्वव्यवच्छेदबोधनादिति बोध्यम् । उक्तार्थे हरिसम्मतिमाह-*तदुक्तमिति । *तत्*--नादात्मकस्फोटप्रतिपादकं शास्त्रम् । *अपवर्गस्येति ॥ मोक्षस्येत्यर्थः । *द्वारमिति ॥ तदुपयोगीत्यर्थः। हेतुगर्भविशेषणमाह-वाङ्मलानामिति* । चिकित्सितमिति। अपनयनाऽर्थकसन्न परीक्षा यत्र श्रवणादिना तज्ज्ञानम्, तत्र व्यभिचारादिति भावः । *कल्प्यत इति । एतेन व्याकरणाध्ययनस्य स्फोटज्ञानत्वमात्रन्न कार्यतावच्छेदकम्, किन्तु तज्ज्ञाननिष्ठवजात्यमेव । तदवच्छिन्नञ्च नोपायान्तरादिति न व्यभिचार इति भावः । जन्यतावच्छे. कवैजात्यकल्पनायान्दृष्टान्तमाह-*मन्त्रजन्यमिव । मन्त्रजन्यतावच्छेदकमिव । एवं वेदान्तजन्येत्यस्याप्यर्थः । तथा च लघुनोपायेन शब्दानाम्प्रतिपत्तौ शास्त्रस्योपयोग इति फलितम् । नन्वेवमपि शास्त्रजन्यस्य स्फोटज्ञानस्य पुरुषार्थासाधनतया तत्सम्पादनस्य वैयर्थ्यमेवेत्यत आह-*तस्य चेति । *यज्ञादीनामिति । एतेन यज्ञादीनां यथा-"तं वेदानुवचनेन ब्राह्मणा विविदिषन्ति, यज्ञेन दानेन तपसाऽनाशकेन" इतिश्रुत्या परम्परया मोक्षसाधनत्वन्तथा शास्त्रजन्यस्यास्य ज्ञानस्यापि परम्परया मोक्षसाधनत्वमिति ध्वनितम् । तत्र हरिसम्मतिमाह-*तदुक्तमिति । तद्वारेति । तत्-व्याक Page #454 -------------------------------------------------------------------------- ________________ अखण्डस्फोटनिर्णयः। ४२५ ४२५ .. पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते ॥ इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः। अत्रातीतविपर्यासः केवलामनुपश्यति ॥ इति । न चालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटबोधः । तस्या अलीकत्वासिद्धर्वक्ष्यमाणत्वात् । एवं रेखागवयन्याय - दर्पणः न्तात् कितेः क्तप्रत्यये वाङ्मलकर्मकापनयनसाधनं यतस्ततो मोक्षद्वारमित्यर्थः । मनः शुद्धौ यज्ञादीनामिव वाकशुद्धावेव तस्योपयोगादिति भावः। यतः सर्वविद्यानां मध्ये पवित्रमतोऽधिविद्यं विद्यासु प्रकर्षेण दीप्यत इत्यर्थः । तथाचोक्तम्-"तेषां च सामय॑जुषां पवित्रं महर्षयो व्याकरणं गिराहुः" इति । *इदमिति* ॥ सिद्धिसोपानपर्वणां मध्ये इदं प्रथमं पदस्थित्यधिकरणमित्यर्थः । अत्र स्फोटे अतीतविपर्यासो भ्रान्तिशून्य एतत्तत्त्वज्ञानवानिति यावत् । *केवलाम् । पराख्याम् । *अनुपश्यतीति। योगधर्मेण प्रत्यक्षीकरोतीत्यर्थः। तथाच योगित्वसिद्धौ किमिदमवशिष्यते ? तत्त्वज्ञानमित्यर्थः । तदुक्तं भागवते द्वादशे नादनिरूपणान्तरम् यदुपासनया ब्रह्म योगिनो मलमात्मनः । ___ द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् । इति भावः । *अलीकत्वासिद्धेरिति । पञ्चकोशादिवत् प्रकृतिप्रत्ययविभाग परीक्षा रणम् । द्वारम्-मोक्षस्य शारीररोगाणामायुर्वेद इव व्याकरणमपि वाङ्मलानामपनुत् । व्याकरणतो हि प्रत्यवायहेतुभूतानपशब्दान्न प्रयुङ्क्ते । ज्ञानं हि तस्य शरणं भवति । *पवित्रमिति । तथा चाप्रमत्तगीतश्लोकः आपः पवित्रम्परमम्पृथिव्यामपाम्पवित्रम्परेमञ्च मन्त्राः। तेषाञ्च सामर्यजुषम्पवित्रम्महर्षयो व्याकरणानि प्राहुः ॥ इति । . *अधिविद्यमिति। विभक्त्यर्थेऽव्ययीभावः । सर्वो हि विद्वान्स्वस्यां विद्यायां कारणमनुगच्छति । *इदमाद्यमित्यादि । इदं व्याकरणनाम शास्त्रम्मोक्षसिद्धिसोपानपर्वणाम्मध्ये प्रथमम्पादस्थापनस्थलमित्यर्थः । *इयमिति* । इयम्-व्याकरणशास्वरूपा। मोक्षमाणानाम्-मुमुक्षूणाम् । *अवक्राराजपद्धतिः-ऋजुराजमार्गः। अत्र - स्फोटेव्याकरणज्ञेये राजमार्गे । *अतीतविपर्यासः । अतीतः अपास्तः विपर्यासो भ्रमो यस्य सः । भ्रमशून्य इति यावत् । *केवलाम्*-पराख्यां वाचम् । अनुपश्यति*-योगजधर्मसहायेन जानातीत्यर्थः । एवञ्च योगित्वसिद्धौ तत्वज्ञाने न कोऽपि प्रतिबन्धक इति भावः। एतदेव भागवते द्वादशस्कन्धे उक्तम् यदुपासनया ब्रह्म योगिनो मलमात्मनः ।। द्रव्यक्रियाकारकाख्यः धूत्वा यान्त्यपुनर्भवम् ॥ इति । एतनिरूपणानन्तरमुक्तमिति यच्छब्दवाच्योऽत्र नाद एव । *अलीकत्वासिद्धः । पञ्चकोशादिवत्प्रकृतिप्रत्ययविभागस्यापि मायिकत्वेन नासच्छशशङ्गतुल्यत्वमिति ५४ द०प० Page #455 -------------------------------------------------------------------------- ________________ दर्पणपरीक्षासहिते भूषणसारे - ४२६ आदिपदेन गृह्यते ॥ ६६ ॥ ननु स्फोटस्य वर्णजातीनाञ्च नित्यतया ककार उत्पन्न इति न स्यात् । वायुसंयोगनिष्ठजातेः स्फोटे भाने कादिप्रतीतीनां भ्रमत्वा दर्पण: स्यापि मायिकत्वेन नात्यन्तासच्छशशृङ्गादिवदलीकत्वमिति वक्ष्यमाणप्रायत्वादित्यर्थः । अवास्तवत्वेऽपि मणिप्रभाप्रतिबिम्बस्य मणिप्राप्ताविवैतस्याऽपि परमात्मनः दर्शनेन उपयोगसम्भवादिति भावः । *आदिपदेनेति । पञ्चकोशादिवदित्यत्रोपात्तेनादिशब्देनेत्यर्थः । न्यायस्तु समासवादे प्रपञ्चितः ॥ ६९ ॥ उत्पत्तिविनाशप्रतीतिसाक्षिकं वर्णानामनित्यत्वं तादृशवर्णात्मकस्फोटाभ्युपगमे तस्याप्यनित्यत्वप्रसङ्ग इत्याशङ्कासमाधानपरतया मूलमवतारयति -*नन्विति । *वर्णजातीनामिति* । वर्णानां तद्वृत्तिकत्वादिजातीनां चेत्यर्थः । न स्यादिति । अयम्भावः - उत्पन्नो नष्टो वा ककार इत्यादिप्रतीतेः ककारादिवर्णात्मकः स्फोटस्तद्वृत्तिजातिर्वोत्पत्त्यादिमत्त्वेन विषयो वाच्यः । तथाच न सम्भवति, द्वयोरेव नित्यत्वाज्जायमानायास्तस्या विषयबाधेन भ्रमत्वापत्तेरिति तादृशप्रतीतेर्भ्रान्तत्वे इष्टापत्तावाह - *वायुसंयोगेति । *कादिप्रतीतीनाम् -- ककारो गकार इत्यादिबुद्धीनाम् । *भ्रमत्वापत्तिरिति । यथाश्रुताऽभिप्रायेणेयम्, पूर्वोक्ताऽन्तिमकल्पे भ्रमत्वाप्रसङ्गात् ॥ न च त्वन्मतेऽपि कत्वादीनां लौकिक विषयत्वानुपपत्तिः । तद्व्यञ्जकश्रोत्रसमवेतसमवायस्य लौकिकसन्निकर्षस्याभावादिति वाच्यम् । तन्मते कत्वादीनां वायुसंयोगवृत्तिधर्मत्वेन कत्वं साक्षात्करोमीति प्रतीत्या स्वसमवेतव्यञ्जकसमवायस्यैव संसर्गतोपगमेन लौकिकविषयत्वाऽनपायात् । तादृशानेकप्रतीतीनां भ्रमत्वकल्पनापेक्षयैतत्कल्पनाया वौचित्यात् । आरोपे सति निमित्तानुसरणमिति न्यायात् । मूलं तु तन्मते इत्थमवतारणीयम् । ननु स्वसमवेताभिव्यञ्जकगतसमवायस्य सम्बन्धता न केनाप्या परीक्षा वक्ष्यमाणप्रायत्वादित्यर्थः । न च मायिकत्वेनावास्तवत्वमेवेति वाच्यम् । अवास्तवे - नापि दर्पणस्य सूर्यप्रतिबिम्बो नान्धकारस्थघटादिप्रकाशकवदवास्तवमणिप्रभाप्रतिबिम्बेन वास्तवमणिप्राप्तिवच्च मायिका न । तेन परमात्मप्रकाशस्य सम्भवात् । *आदिना* - पञ्चकोशादिवदित्यत्रोपात्तेनादिना ॥ ६९ ॥ ननूत्पन्नः को विनष्टः क इत्यदिप्रतीत्या कादिवर्णानामनित्यत्वम्परसम्मतम् । फोटोsपि सादृश्यवर्णाभिन्न इति भवदभिमतान्यथासत्वस्याप्यनित्यत्वमेव स्यादिति शङ्कानिराकरणपरतया मूलमवतारयति - नन्वित्यादिना* | *वर्णजातीनाम्-वर्णगतत्वादिजातीनाम् । न स्यादिति । यदि ककारो नित्यस्फोटाभिन्नस्तदा तादृशप्रतीतिर्न स्यादित्यर्थः । एवञ्च तादृशप्रतीत्युत्पत्तेर्निर्विचिकित्सत्वेनानित्यवर्णाभिन्नस्फोटस्याप्यनित्यत्वमेवोचितमिति तात्पर्यार्थः । ननु सा प्रतीतिर्वायुसंयोगनिष्ठजातिप्रकारिका स्फोटविशेष्यिका भ्रमरूपैवेत्यत आह - *वायुसंयोगेति । भ्रमत्वापत्तिरिति । तस्यापि वायुसंयोगनिष्टकत्वादिप्रकारकत्वादिति शेषः । इदमभिधानन्तस्याः प्रतीतेः समवायसम्बन्धावच्छिन्नवायुसंयोगिनिष्टजातिप्रकारकत्वमिति मतेन Page #456 -------------------------------------------------------------------------- ________________ खण्डस्फोटनिर्णयः । ४२७ पत्तिश्चेत्यत आह कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि ॥ ७० ॥ स्वरदैर्घ्यद्यपि ह्यन्ये वर्णेभ्योऽन्यस्य मन्वते ॥ स्वीकारस्थलमाह - *स्वरदैर्घ्यद्यपीति ॥ आदिनोत्पत्तिविनाशसंग्रहः । उदात्तत्वादि न वर्णनिष्ठम् । तस्यैकत्वाद् नित्यत्वाच्च । तच्च स एवायमितिप्रत्यभिज्ञानात् । न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयः । व्यक्त्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात् । नचोत्पत्तिप्रतीतिर्बाधिका । प्रागसत्वे सति सत्वरूपाया उत्पत्तेवर्णेष्वनुभवविरुद्धत्वात् । श्रत एव वर्णमुच्चारयतीति प्रत्ययो, नतू दर्पणः दृतेत्यत आह-*कल्पितानामिति । कल्पितानाम् - समवायसम्बन्धेन तद्वृत्तीनामप्युक्तसम्बन्धेन तत्र कल्पितानाम् वायुसंयोगगतधर्मविशेषाणामुपाधित्वमुदात्तत्वादिप्रकारकप्रतीतिजनकत्वमित्यर्थः । अधिकं त्वग्रे वक्ष्यते । दृष्टान्तस्फुटीकरणाय मीमांसकमतमाह—*उदात्तत्वादीति । आदिनाऽनुदात्तत्वपरिग्रहः । उदात्तत्वानुदात्तत्वयोःपरस्परविरोधाद्वर्णभेदेन तत्सत्ता वाच्या । वर्णभेदश्च तदनित्यत्वेऽनेकत्वे वा स्यात्, तदेव तु न सम्भवतीत्याह-*तस्यैकत्वादित्यादि । नित्यत्वे प्रमाणमाह-*तच्चेति* । नित्यत्वमेकत्वं चेत्यर्थः । *त्यागायोगादिति । अविषयत्वायोगादित्यर्थः । * बाधिकेति । व्यक्तयभेदे प्रतीतिर्बाधिकेत्यर्थः । प्रागसत्वे सतीत्यादि * -स्वाऽधिकरणसमयवं सवत्त्वसम्बन्धावच्छिन्नप्रतियोगिताका भाववत्वावच्छिन्नकालिकविशेषणतासम्बन्धरूपाया इत्यर्थः । द्वितीया दिक्षणसम्बन्धस्य निरुक्तसम्बन्धेन सत्त्वान्न तत्रातिप्रसङ्गः । *अत एवेति । अनुभवविरुद्धत्वादेवेत्यर्थः । *प्रत्ययो* -- ज्ञानम् । परीक्षा 1 *कल्पितानामिति । समवायेन तादृशजातीनां स्फोटावृत्तित्वेऽपि स्वाभिव्यञ्ज-, कसमवायस्य तत्र सत्वेन तस्य स्वाश्रयाभिव्यङ्ग्यत्वसम्बन्धेनोपाधित्वं सम्भवतीति । एवञ्चैतादृशसम्बन्धस्य वायुसंयोगसत्वकाल एव सत्वमित्युत्पत्यादिप्रतीतीनान्नानुपपत्तिः । कत्वादेर्वायुसंयोगगतधर्मस्य श्रोत्रग्राह्यत्वमपि स्वसमवेताभिव्यञ्जकसमवेतत्वसम्बन्धेन बोध्यम् । कल्पितानामुपाधित्वमित्यत्र परसम्मतन्दृष्टान्तमाह - *स्वरेति* । *वर्णेभ्योऽन्यस्येति । तन्मते वर्णा नित्याः, एकत्ववन्तश्च । उदात्तत्वानुदात्तत्वेच विरुद्वधर्मौ तावेकत्र सम्भवत इति । व्यञ्जकध्वनिधर्मवत्तयोस्ताभ्याङ्कल्पिताभ्यां वर्णस्याप्युदात्तत्वादिव्यवहार इति हि तन्मतम्, तदेतदाह -*उदात्तत्वादिति । ** - हीत्ययच । *त्यागायोगादिति । तत्प्रतीत्यविषयत्वकथना योगादित्यर्थः । *बाधिका* । व्यक्त्यभेदप्रतीतेमित्वसाधिका । प्रागसत्वे सतीति । स्वाधिकरणसमयध्वंसादिकरणत्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्समयवृत्तित्वरूपाया इत्यर्थः । *अत एव* - अनुभवविरुद्धत्वादेव । * प्रत्ययो - ज्ञानम् । * Page #457 -------------------------------------------------------------------------- ________________ ४२८ दपणपरीक्षासहिते भूषणसारेत्पादयतीतिप्रत्ययो व्यवहारश्च । उच्चरितत्वञ्च ताल्वोष्ठसंयोगादिजन्याभिव्यक्तिविशिष्टत्वम् । किञ्च व्यञ्जकध्वनिनिष्ठात्पत्यादेः परम्परया वर्णनिष्ठत्वविषयत्वेनाऽप्युपपत्तेने साऽतिरिक्तवर्णसाधिका । परम्परया वर्णनिष्ठत्वाभ्युपगमाच्च न भ्रमत्वम् ।। साक्षात्सम्बन्धांशे भ्रम इत्यवशिष्यते । तदपि सोऽयमित्यत्र व्य. क्त्यभेदांशे तव भ्रमत्ववत्तुल्यम् । परन्तु ममातिरिक्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते । दर्पणः *व्यवहारः*-शब्दप्रयोगः ॥ ननूच्चारणमपि तदुत्पत्त्यनुकूलो व्यापार एव । तथाच सैव प्रतीतिर्वर्णानित्यत्व साधिकेत्यत आह-*उच्चरितत्वञ्चेति । अभिव्यक्तिविशिष्टत्वं तद्विषयत्वम् । तथाच तादृशप्रत्ययाभिव्यक्तिनिष्ठं वर्णनिरूपितविषयित्वमेव विषयीक्रियते । नतूत्पत्तिनिष्ठ वर्णवृत्तित्वमिति न साऽनित्यत्वसाधिकेति भावः । ननु वर्गाऽभिव्यक्तिजनकः कण्ठताल्वाभिघात एवोच्चारणपदार्थो, न वर्णोत्पत्तिजनक इत्यत्र किं प्रमाणम् । किञ्च वर्णाऽनित्यत्ववादिनामुत्पद्यते वर्णो वर्णमुत्पादयतीत्यादिप्रयोगा इष्टा एवेति नाऽनुभवविरोधोऽपीत्यत आह-किञ्चेति। उत्पत्त्यादेरित्यादिना विनष्टो वर्ण इति प्रतीतिसाक्षिकविनाशः परिगृह्यते । परम्परया स्वाश्रयध्वनिव्यङ्गयत्वरूपया नाऽतिरिक्तति वर्णानित्यत्वसाधिकेत्यर्थः । न तु स्फोटोऽतिरिक्तेति तदर्थः। तैः स्फोटाऽनङ्गीकारात्। । नन्वेवं ध्वन्युत्पत्त्यादेस्तादृशप्रतीत्या वर्णेष्ववगाहने भ्रान्तत्वापत्तिरत आह*परम्परया वर्गति । स्वाश्रयसंयोगाऽवगाहिन्या लोहितः स्फटिक इति प्रतीतेर्यथा न भ्रमत्वं, तथाऽस्या अपीति भावः । अवशिष्यत इत्यस्योत्पन्नो वर्ण इति प्रतीतेरिति शेषः। ननु तादृशप्रतीतेनियमेन परम्परासम्बन्धविषयत्वकल्पने गौरवमत आह-*परन्त्विति*। *अतिरिक्तेति । अधिकेत्यर्थः। तथाचाऽनेकवर्णतध्वंसादिकल्पनाऽपेक्षया तत्प्रतीतेनियमतस्तादृशसम्बन्धाऽव. गाहित्वकल्पनैव लघीयसीति भावः। यदि वर्णस्थले ध्वनिनैयत्यं स्यात् । स्यादेव त. दोत्पत्तेस्तद्घटितपरम्परासम्बन्धेन वर्णनिष्ठता। तत्रैव च मानाभाव इत्याशङ्कय परीक्षा *व्यवहारः*-परम्प्रतिशब्देन बोधनम् । ननूचरितत्वमपि प्रयत्नविशेषजन्यत्वमेवेति कथिन्नत्यत्वमत आह-*उच्चरितत्वञ्च । ___ ननु वर्णानित्यत्ववादिनामुत्पत्यादिसत्वमिष्टमेवेति नतु भवद्विरोधी, अत आह•किञ्चेति । *सा*-उत्पन्नककारादिप्रतीतिः । *अतिरिक्तेति । वर्णानित्यत्वसाधिकेत्यर्थोः न तु स्फोटाभावात् परम्परया स्वाश्रयध्वनिव्यङ्ग्यत्वसम्बन्धेन। ननु तादृशप्रतीतेनियमेन परम्परासम्बन्धविषयकत्वे गौरवमत आह-*परन्त्वि Page #458 -------------------------------------------------------------------------- ________________ व्यक्तिस्फोटनिर्णयः। ४२९ न च वर्णस्थले ध्वनिसत्वे मानाभावः। तदुत्पादकशङ्खाद्यभावेन तदसम्भवश्चेति वाच्यम्। ककाराधुच्चारणस्थले तत्तत्स्थानस्य जिह्वाया ईषदन्तरपाते वर्णानुत्पत्तन्युत्पत्तेश्च दर्शनाजिह्वाभिघातजवायुकण्ठसंयोगादेव॑निजनकत्वकल्पनात् । तस्य च वर्णोत्पत्तिस्थलेऽपि सत्त्वात्तवैव प्रतिबध्यप्रतिबन्धकभावकल्पना निष्प्रमाणिका स्यादिति विपरीतगौरवम् । एवं परस्परविरोधादुदात्तत्वानुदात्तत्वहस्वत्वदीर्घत्वादिकमपि न वर्णनिष्ठं युक्तमितितेषामभिप्रायः। एवञ्चोत्पत्यादिप्रतीतीनां तत्प्रमात्वस्य च निर्वाहः परेषामपि समान इति प्रतिबन्धैवोत्तरमिति भावः ॥ ७० ॥ दर्पणः निराचष्टे-*नचेति । वर्णपार्थक्येन ध्वनेरनुभवादिति भावः । हेत्वसमवधानादपि तत्सत्त्वं नघटत इत्याह-*तदुत्पादकेति । शङ्खौष्ठाभिघातजवायुसंयोगादेरित्यर्थः ॥ *वर्णानुत्पत्तेरिति । वर्णानभिव्यक्तरित्यर्थः। *दर्शनादिति । दृशिनिसामान्यार्थः । *सत्वादिति । तथाच पार्थक्येनानुभूयमानायाः प्रतीतेजिह्वाभिघातजकण्ठवायुसंयोगादेहेंतोश्च सत्वान्न वर्णाभिव्यक्तिस्थले धननिनैयत्यमित्युक्तसम्बन्धविषयकप्रतीतिनिराबाधेति भावः । *तवैवेति । वर्णस्थले ध्वन्यसत्त्ववादिन एवेत्यर्थः । *विपरीतगौरवमिति* । स्वकारणबलाज्जायमाने ध्वनौ वर्णोत्पादकसामग्याः प्रतिबन्धकत्वकल्पना ध्वन्यकल्पनाप्रयुक्तलाघवापेक्षया विपरीतगौरवग्रस्तेति यावत् । तेषामिति* । वर्णनित्यतावादिनां मीमांसकानामित्यर्थः । *एवञ्चेति । उत्पत्त्यादीनां वर्णाऽवृत्तित्व इत्यर्थः । *प्रतिबन्धैवेति । पराऽभिमतसमाधेयमुत्तरं प्रतिबन्दि.. स्तयेत्यर्थः । तथा च तत्र मीमांसकैरुत्पत्यादिप्रतीतेः प्रमात्वे यः समाधिराश्रितःस एवास्माभिरप्यनुसतव्य इति भावः । तथा चाऽखण्डवाक्यस्फोटस्वीकारे न किञ्चिदू बाधकमिति फलितम् । नन्वेतत्कल्पे पदानामसत्त्वेन मीमांसकसिद्धान्तविरोधः । तथाहि-'नीहिभिर्यजेत' इत्यत्र यागेन द्रव्यमात्राक्षेपे वीहिश्रुतिर्नियमार्था व्रीहिभिरेव नान्यैरिति । तत्र बीद्यभावे नित्यकर्मणः प्रारब्धकाम्यकर्मणश्च लोपो मा भूदिति प्रतिनिधिरुपादीयते । व्रीहित्वस्य शक्त्युपलक्षणत्वेन प्रतिनिधेरपि श्रौतत्वात् । भवन्मते तत्र प्रतिनिध्युपा. परीक्षा ति। वर्णपार्थक्येन ध्वनेरननुभवान्नध्वनिसत्वमित्याशङ्कान्निराचष्टे-नचेति । वर्णानुत्पत्तेः-वर्णानभिव्यक्तेः । जिह्वाभिघातजेति* । संयोगजसंयोगाभिप्रायेणेयमुक्तिः । *वर्णोत्पत्तिस्थले । वर्णाभिव्यक्तिस्थले। *तत्रैव । ध्वन्युत्पत्तौ। *प्रतिबध्यप्रतिबन्धकभावेति । अवच्छेदकतासम्बन्धेन ध्वनिम्प्रति समवायेन कर्णवायुसंयोगः प्रतिबन्धक इत्येवं रूप इत्यर्थः। . *एवम् - उत्पत्तिविनाशयोरिव । *परेषाम्-वर्णनित्यतावादिनाम्मीमांसका. नाम् । *समान इति । एवञ्चाखण्डस्फोटस्वीकारे बाधकाभावः। नन्वेवं सति समा. Page #459 -------------------------------------------------------------------------- ________________ ४३० दपणपरीक्षासहिते भूषणसारे - दर्पणः दाने तद्वाक्याखण्डार्थाऽननुष्ठानान्नित्यादेर्विलोपापत्तिः । नीवारकरणकक्रियाया अन्यत्वात् । 'क्रिया न प्रतिनिधीयते, द्रव्यं तु प्रतिनिधीयते एव' इति परिभाषाया उच्छे. दश्च । एवं "श्वेतं छागमालभेत" इत्यत्र क्रियायारछागद्रव्येण सम्बन्धः श्रौतो, द्वितीयाश्रुत्या तस्य साक्षात्प्रतिपादनात् । श्वेतगुणस्य तु वाक्यीयः सः । तत्सामानाधिकरण्यात्तस्य निर्गुणस्य द्रव्यस्य निरधिकरणस्य गुणस्य वाऽसम्भवात् । श्वेत गुणस्य छागसम्बन्धमुपजीव्यैव क्रियासम्बन्धाच्छुतिप्रतिपादितद्रव्यसम्बन्धाद् वाक्यप्रतिपादितपुरः स्थितगुणसम्बन्धस्य दुर्बलत्वात्, श्वेतच्छागाभावेऽन्यगुणकच्छाग आलभ्यते, न तु श्वेतगुणयुक्तो मेषः । श्रुतिबाधापत्तेः । तस्य चाखण्डपक्षे असम्भवात् । एवमेव पदार्थ निबन्धनमीमांसान्यायासम्भवोऽपि । अखण्डस्फोटस्यैव भवन्मते अखडार्थत्वेन केन कस्य बाधो भवेदिति चेत् ? अत्राहुः - अखण्डवाक्यादखण्डतत्तदर्थाच्च रेखागवयन्यायेन पदपदार्थावापोद्वापाभ्यां कल्पितपदपदार्थमादाय प्रतिनिध्युपादनस्योपपत्तिः । ऋषीणां तत्वार्थावबोधेऽपि तत्वभूतेन वस्तुना व्यवहाराऽसम्भवाद् व्यवहारकालेऽनिर्द्धारिततत्वसदृशैस्तैर्नानाप्रकारैः पदतदर्थानां व्यवहियमाणत्वान्न तद्वचोभिः पदपदार्थानां वास्तवसत्यत्वम् । वाक्यार्थस्यापि तदापेक्षिकमेव । परमार्थदशायां सर्वस्याऽपि व्यावहारिकस्यासत्यत्वादिति । 1 नैयायिकास्तु सर्वमिदं वर्णानां नित्यत्वे सम्भवेत् । तत्रैव तु प्रमाणाभावः । शब्दमात्रस्याकाशसमवायिकारणकत्वात् । भेरीदण्डसंयोगादीनां ध्वन्यात्मकशब्द परीक्षा - नाधिकरणपदार्थयोरभेदान्वयः 'पूर्वपदार्थप्रधानोऽव्ययीभाव' इत्यादिव्यवहाराणाङ्का गतिः पदानां तत्रासत्वादितिचेद् ? न । यथा पदेषु कल्पितप्रकृतिप्रत्ययविभागमादाय प्रत्ययानाम्प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति व्यवहारस्तथा वाक्येष्वखण्डेषु । वस्तुतः पदानामसत्वेऽपि अवापोद्वापाभ्याङ्कल्पितपदान्यादायोक्तव्यवहारस्याऽप्यभ्युपपत्तेः । बलाबलाद्यधिकरणेषु श्रुतिलिङ्गादीनां प्रबलदुर्बलभावविचारो | जैमिनीयानामेवोपपाद्यः । यद्यप्यर्षयः-सर्वेऽपि तत्त्ववेत्तारः, तथापि व्यवहारकालेऽनिर्द्धारिततत्वसदृशैस्तैः पदपदार्थे वाक्यार्थविचारः क्रियत इति स्वीकारेण तेषां वचनावलम्बेनैव तदीयानां विचारप्रवृत्तिरिति सर्वमनवद्यम् । नैयायिकास्तु — वर्णानामुत्पत्यादिप्रतीतिवशादनित्यत्वमेव । भेरीदण्डसंयोगादीनान्ध्वनिजनकतावत्कण्ठवायुसंयोगादीनामपि वर्णोत्पादकत्वमेव । एवं वर्णानां तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वमेव । तदेवौषधमिति, 'वत्स एवाङ्कुर' इत्यादिप्रत्यभिज्ञाऽपि साजात्यावगाहिन्येव । पदानि वाक्यानि वा नातिरिक्तानि किन्त्वापेक्षा - द्धिविशेषविषयताविशिष्टवर्णघटितान्येव । वर्णानाद्विक्षणावस्थायित्वेन तेषामानुपूव्यपि निर्वक्तुं शक्या । सत्कार्यवादीयसिद्धान्तरीत्या वर्णानामभिव्यक्तिरिति तु न युक्तम् । कण्ठाद्यभिघातात्प्राग्वर्णाभिव्यक्तिसत्वे पदप्रत्यक्षापत्तेः । अभिव्यक्तेः सामग्री साध्यत्वे सत्कार्यवादस्यायुक्तत्वमेव । अनन्तवर्णप्राग्भावध्वंसकल्पनाप्रयुक्तङ्गौरवन्तु प्रामाणिकत्वान्न दोषावहमिति वदन्ति ॥ ७० ॥ इति व्यक्तिस्फोटविवरणम् । Page #460 -------------------------------------------------------------------------- ________________ व्यक्तिस्फोटनिर्णयः। ४३१ दर्पणः प्रतीव कण्ठादिस्थानवाय्वभिघातस्याऽपि वर्णात्मकशब्द प्रत्यन्वयव्यतिरेकाभ्यां निमित्तत्वाऽवधारणाच । एवञ्च तादात्म्यसम्बन्धेन जन्यभावस्य प्रतियोगितासम्बन्धेन ध्वंसत्वाऽवच्छिन्नं प्रति हेतुतयोच्चरितवर्णस्य क्षणाऽन्तरितस्याऽप्रतीतेर्नष्टो वर्ण इत्येव प्रतीतेश्च । स्वाव्यवहितोत्तरवर्णस्यैव नाशकताकल्प्यते प्रतियोगितासम्ब. न्धेन योग्यविभुविशेषगुणनाशं प्रति स्वसामानाधिकरण्यस्वाव्यवहितवर्णत्वोभयसम्बन्धेन योग्यविभुविशेषगुणस्य हेतुताया ज्ञानादिस्थले क्लप्तत्वाच्च । कण्ठताल्वाद्यभिघातस्य च कत्वादिकमेव कार्य्यतावच्छेदकं, न तु तत्तवर्णाऽभिव्यक्तित्वं गौरवात् । न च लौकिकविषयितया कत्वमेव तदवच्छेदकं वाच्यमिति न गौरवमिति वाच्यम् । तथा सति कोलाहला प्रत्यक्षप्रसङ्गात् । न हि कोलाहलप्रत्यक्षं कत्वादिविषयक, येन तल्लौकिकविषयितायाः कार्य्यतावच्छेदकघटकता सम्भाव्येत । किञ्च घटाद्युत्पादक. दण्डादेरपि तदभिव्यक्तित्वस्यैव कार्यतावच्छेदकत्वापत्तौ घटादीनामपि नित्यत्वापत्तिरिति बहुव्याकोपः॥ न च सत एवाभिव्यक्तिरिति साजन्यमताश्रयणादुक्कापत्तिरिष्टैवेति वाच्यम् । तन्मतस्याऽप्यापातमनोरमत्वात् । तथाहि-अभिव्यक्तिः सत्यसती वा। नाद्यः । घटानुत्पत्तिदशायां घटस्येव तस्या अपि सत्त्वाद् घट इति प्रतीत्यापत्तेः। अभिव्यक्तेरप्यभिव्यक्त्यङ्गीकारेऽपि तस्या अपि कार्य्यत्वेन सत्त्वादुक्तदोषो दुरुद्धर एव । अन्त्ये स्वसिद्धान्तव्याघातः । युक्तितौल्येन पदार्थान्तरस्याप्युत्पत्तिसिद्धेरिति । किश्चोत्पन्नो घटो नष्टो घट इति प्रतीत्या घटादीनामनित्यत्ववदुत्पन्नः ककारो, नष्टः स इत्यविलक्षणप्रतीत्या ककारादीनामनित्यत्वमेवावधार्यते । कत्वादीनां संयोगधर्मत्वं तु दुरुपपादमेव । वर्णासमेवतत्वेनाश्रोत्राग्राह्यत्वप्रसङ्गात् । न चोक्तसन्निकर्षादेव तत्प्रत्यक्षोपपत्तिः, तथा सति शब्दत्वादिप्रत्यक्षाऽनापत्तेः । न च तत्सम्बन्धस्य ककारं शृणोमीति प्रतीतौ भाने प्रमाणमपि शब्द शृणोमीति प्रतीतेः समवायविषयकत्ववदुक्कप्रतीतेरपि तद्विषयकत्वेनोपपत्तेश्च । समवायांशे सर्वत्र तादृशप्रतीतीनां भ्रमत्वमित्यपि न । वर्णसमवेतत्वस्य तत्राभ्युपगमेन विषयाऽबाधात् । एवञ्च वर्णानामनेकत्वेन तत्रोदात्तत्वादिप्रतीतिरपि स्वरसतः सङ्गच्छते इति दृष्टान्तदौर्भिक्ष्यमेव ।। एवञ्च वर्णप्रागभावध्वंसानां प्रमाणसिद्धानामपलपितुमशक्यत्वान्न तत्कल्पनागौरवमपि । नच वर्णानित्यतावादिमते सोऽयं गकार इति प्रत्यभिज्ञानुपपत्तिस्तस्यास्तजातीयत्वविषयत्वेनोपपादने तु तजातीयोऽयमित्येवाकारः स्यादिति वाच्यम् । यत्र प्रत्यभिज्ञायां गत्वादेर्जातित्वेन भानं तत्रैव तस्यास्तजातीयोऽयमित्याकारो, यत्र तु स्वरूपेण तत्र सोऽयमित्याकार इत्यभ्युपगमात् । तज्जातीयाभेदावगाहिन्यास्तदेवौषधमित्याकारायाः प्रत्यभिज्ञायाः सर्वसिद्धत्वाच्च । तस्माद् वर्णात्मकस्फोटस्य वाचक त्वमसम्भवदुक्तिकमेव । स्फोटस्य ध्वन्यतिरिक्तत्वाभावाच योगशास्त्रादौ तस्य निरू. पणं तूपासनार्थमेवेति प्रागुक्तप्रायम् । सखण्डस्फोटस्तु प्रागेव निरस्त इत्यानुपूर्व्यवच्छिन्नवर्णानां वाचकत्वमूहमिति वदन्ति ॥ ॥ ७० ॥ इति भूषणसारदर्पणे व्यक्तिस्फोटनिरूपणम् ॥ Page #461 -------------------------------------------------------------------------- ________________ ४३२ दर्पणपरीक्षासहिते भूषणसारे - इत्थं च पञ्चधा व्यक्तिस्फोटाः । जातिस्फोटमाहशक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् ॥ औपाधिको वा भेदोsस्तु वर्णानां तारमन्दवत् ॥७१॥ अयम्भावः - वर्णास्तावदावश्यकाः । उक्तरीत्या च सोऽयं ग. कार इतिवद्, योऽयं गकारः श्रुतः सोऽयंहकारः इत्यपि स्यात्, स्फोटस्यैकत्वात् । गकारोऽयं न हकार इत्यनापत्तेश्च । किञ्च फोटे गत्वाद्यभ्युपेयम्, न वा । आद्ये स एव गका - रोऽस्तु । वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात् । तथाचाति दर्पणः *इत्थमिति* । पूर्वोक्तप्रकारैरित्यर्थः । पञ्चधेति । वर्णपदवाक्याऽखण्डपदा - खण्डवाक्यभेदभिन्ना इत्यर्थः । क्रमप्राप्तं जातिस्फोटं निरूपयति, मूले-शक्यत्व इवेति ॥ ननूक्तरीत्या स्फोटातिरिक्तवर्णानामसत्त्वात्तद्गतजातेर्वाचकत्वविचारः काकदन्तपरीक्षासमोडत आह सारे -*अयम्भाव इति ॥ हकारगकारयोरभेदे साधकमाह-स्फोटस्यैकत्वादिति*॥ तदभिन्नाभिन्नस्य तदभिन्नत्वनियमेन हकारात्मकस्फोटाभिन्नगकारे तदभेदावगाहिबुद्धेः प्रमात्वापत्तिरित्यर्थः ॥ *अनापत्तेश्चेति ॥ अभेदादेव च तादृशभेदाऽवगाहिबुद्धेः प्रमात्वानुपपत्तेरित्यर्थः । ननु वर्णात्मकस्फोटस्यैकत्वेऽपि गत्वादिविरुद्धधर्माऽध्यासमूलक भेदप्रतीतेर्नाऽनुपपत्तिः । प्रामाण्यं तु तस्या वणक्यवादिमते दूरापास्तमेवेत्यत आह-किञ्चेति* ॥ उपाधित्वाभिमतगत्वादीत्यर्थः । *आद्ये* - स्फोटे गत्वाऽभ्युपगमपक्षे ॥ *तदेव* त्वमेव । ननु गत्वादेर्वर्णधर्मतया भेदेन कथं तस्य तदात्मकत्वमत आह-वर्णनित्यतावादिभिरिति ॥ मीमांसकादिभिरित्यर्थः ॥ *अतिरिक्तेति ॥ धर्मधर्मिणोर 1 परीक्षा *इत्थमिति* । पूर्वोक्तैः प्रकारैः । जातीस्फोटवादिनाम्मतमुपस्थापयति-*जातीति* | *जातेः * - अर्थशब्दगतजातेः । लाघवमिति । व्यक्तीनाम्बाहुल्याद्वाच्यत्ववाचकत्वकल्पनापेक्षया जातेस्तथात्वे तासामेकत्वाल्लाघवमित्यर्थः । ननूक्तरीत्या स्फोटातिरिक्तवर्णानामसत्वाद्गतो जातेर्वाचकत्वविचारो गगनकुसुमायमान इत्याशङ्कामपनेतुं स्फोट एव व्यक्तिरूपस्तावन्नाङ्गीकार्य इति प्रतिपादयति-अयम्भाव इति । *इत्यपि स्यादिति । तदभिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायात्स्यादित्यर्थः । ननु स्फोटस्यैकत्वेऽपि कत्वगत्वादिविरुद्धधर्माध्यासमूलकभेदानुभवेन नोकापत्तिरत आह—*किञ्चेति* | *आद्ये* — गत्वाभ्युपगमपक्षे । *तदेव*गत्वमेव 1 ननु गत्वादेर्वर्णधर्मत्वेन कथन्तस्याश्रयाभेदं वदसीत्यत आह*वर्णेति । वर्णानान्नित्यत्वे तेषामेकत्वादने कसमवेतत्वासम्भवेन नातिरिक्ता गत्वादिजातिरिति भावः । *अतिरिक्तेति* । कत्वगत्वाद्यपेक्षयेत्यादिः । Page #462 -------------------------------------------------------------------------- ________________ जातिस्फोटनिर्णयः । ४३३ रिक्तस्फोटकल्पन एव गौरवम् । अन्त्ये गकारादिप्रतीतिविरोधः । वायुसंयोगवृत्ति, ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेद् ? न । प्रतीतेर्विना बाधके भ्रमत्वासम्भवात् । अस्तु वा वायुसंयोग एव गकारोऽपि । तस्यातीन्द्रियत्वं दोष इति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन । दर्पणः भेदाभ्युपगमादित्यर्थः ॥ *गौरवमिति ॥ गकारादिप्रतीतीनां गत्वादिविशिष्टगकारादिविषयकत्वेनोपपत्तिसम्भवादिति भावः । अन्त्ये स्फोटे गत्वाद्यनभ्युपगमकल्पे इत्यर्थः । *विरोध इति । गादिप्रतीत्यनुपपत्तिरित्यर्थः । गत्वस्यान्यधर्मस्य स्फोटावृत्तित्वेन तद्विशिष्टविषयकप्रतीत्यनुपपत्तिरिति भावः ॥ *वायुसंयोगवृत्तीति ॥ स्वमते ध्वनिवृत्तीति, मतान्तरे पूर्वोक्तरीत्या तादृशवैजात्यारोपेण प्रतीतेः सूपपादत्वादाह - *आरोप्येति* ॥ *भ्रमत्वायोगादिति ॥ साक्षात्सम्बन्धेन प्रमात्वोपपत्तावारोपितसम्बन्धे तदुपपन्नत्वे प्रमाणाभावादिति भावः । नन्वतिरिक्तानेकवर्णकल्पनापेक्षया तादृशप्रतीतीनां भ्रमत्वमेव न्याय्यमत आह*अस्तु वेति ॥ तथाच तावतैव प्रतीतेः प्रमाण्यनिर्वाहेऽलं स्फोटकल्पनयेति भावः । *तस्य*-संयोगस्य । *अतिन्द्रियत्वमिति । लौकिकविषयताशून्यमित्यर्थः । *दोषः बाधकमित्यर्थः । प्रतिबन्धोत्तरयति-धर्मवदिति ॥ यथा अतीन्द्रियमात्रवृत्तिधर्मत्वस्य साक्षात्काराविषयत्वव्याप्यत्वं त्वया न स्वीक्रियते, तथाऽतीन्द्रियसंयोगगतविशेषस्य मयाऽपीत्यर्थः । यद्यतीन्द्रियस्यैवैन्द्रियकत्वमत्यन्तासम्भवदुक्तिकं तदा तादृशवै जात्यस्य स्फोटधर्मवत्वमपि तथैव । प्रत्यक्षानुपपत्तेरिति भावः । ननु कत्वादिधर्माणामतीन्द्रियत्वेऽपि ज्ञानलक्षणया कादिप्रतीतौ तद्भाने बाधकाभाव इति चेद्र ? न । ककार इति प्रत्यये, कत्वं साक्षात्कारोमीत्यनुव्यवसायेन लौकिकविषयत्वावगाहेन नोक्तप्रकारोऽसम्भवात् । 'शङ्खः पीत' इति ज्ञानानन्तरोत्पन्नः पीतत्वं पश्यामीति प्रत्ययस्तु भ्रम एव । दोषविशेषस्य तादृश विषयतानियामकत्वकल्पनगौपरीक्षा *अन्त्यः *-स्फो टे गत्वाद्यनभ्युपगमपक्षे | *विरोध इति । गत्वाद्यन्यधर्मस्य स्फोटावृत्तित्वेन तत्तद्धर्मप्रकारकप्रतीतीनामनुपपत्तिरिति भावः । परोक्तमनूद्य दूषयति-*वाय्विति।*असम्भवादिति* । अतिरिक्तमकारादिविशेष्यकः समवायसम्बन्धावच्छिन्नगत्वादिप्रकारकत्वेन प्रमात्वस्य न्यायादिति भावः । नन्वतिरिक्तानन्त गकारादिकल्पनापेक्षया तादृशप्रतीतीनाम्भ्रमत्वमेवास्त्वित्यत आह-*अस्तु वेति । एतावतैव गादिविषयकप्रमात्मकप्रतीत्युपपत्तेरलं स्फोटेनेति भावः । *तस्य*-वायुसंयोगस्य । *दोषः * - बाधकम् । *धर्मवदिति । यथा भवता तादृशधर्मंस्यातीन्द्रियमात्रवृत्तित्वेऽपि साक्षात्कारविषयत्वङ्कल्प्यते, तथाऽतीन्द्रियस्यापि तस्य संयोगस्य साक्षात्कारविषयत्वम्मन्मतेऽप्यस्त्विति प्रतिबन्दीवोत्तरम्। यद्यतीन्द्रियस्य सेन्द्रियकत्वं विरुद्धम्, तदा तेषाङ्गत्वादीनां स्फोटधर्मत्वमपि प्रत्यक्षानुपपत्त्या कल्पयितुमशक्यमिति भावः । ५५ दु० प० Page #463 -------------------------------------------------------------------------- ________________ ४३४ दर्पणपरीक्षासहिते भूषणसारे तस्मात् सन्त्येव वर्णाः; परन्तु न वाचकाः। गौरवात् । आकृत्य धिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च । इदं हरिपदमित्यनुगतप्रतीत्या हर्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात् । ___ न च वर्णानुपूव्यैव प्रतीत्यवच्छेदकत्वयोनिर्वाहः। घटघटत्वादेरपि संयोगविशेषविशिष्टमृदाकारादिभिश्चान्यथासिद्ध्यापत्तेः । रवादिति विभावनीयम् । उपसंहरति-*तस्मादिति ॥ कत्वादिविशिष्टविषयकसा. क्षात्कारानुपपत्तिप्रमाणसद्भावादित्यर्थः ॥ *सन्त्येवेति ॥ त्वदभिमतस्फोटातिरिक्ता वर्णाः सन्त्येवेत्यर्थः ॥ *परमिति ॥ किन्त्विर्थः ॥ *गौरवादिति ॥ तत्तद्वर्णभेदभिन्नाऽनन्तशक्तिकल्पने गौरवादित्यर्थः ।। ननु तावद्वर्णगतपदत्वादिजात्यजुगतीकृतेष्वेकस्या एव शक्तेरभ्युपगमान्न नाना. त्वप्रयुक्तगौरवमत आह-*आकृत्यधिकरणेति । न्यायस्तु नामाऽर्थनिरूपणे प्रपञ्चितः । ननु तादृशजातौ मानाऽभावोऽत आह-*हरिपदमिति ॥ अनुगतधर्म विना सकलताशपदेष्वेकाकारताशप्रतीत्यनुगपत्तेरिति भावः । नन्वनुगतप्रतीतिमात्रस्य जातिसाधकत्वे विभुत्वादेरपि जातित्वापत्तिरतः करणतावच्छेदकत्वादिनैव तत्सिद्धिर्वाच्या, तदभावात् प्रकृते कथं तस्य जातित्वमत आह-*हर्युपस्थितित्वा. वच्छेदेनेति॥ कार्यतावच्छेदकप्रदर्शनमिदम् ॥ *आवश्यकेति॥ अन्यथा तावत्पदानां तत्तव्यक्तित्वेन हेतुताया व्यभिचारेणासम्भवादिति भावः ॥ *प्रतीत्यवच्छेदकत्वयो. रिति* ॥ अनुगतप्रतीत्यवच्छेदकत्वयोरित्यर्थः । *वर्णानुपूव्येति ॥ तादृशजात्य. भिव्यञ्जकत्वेनावश्यकल्प्यतयेत्यर्थः ॥ *निर्वाह इति ॥ तथाचावश्यक्लप्तनियतपूर्ववृ. त्तितावच्छेदकताकानुपूव्येवानुगतप्रतीतिकारणतावच्छेदकत्वयोः सम्भवेन तद्रूपवि. शिष्टपदोपस्थितित्वेन हेतुत्वमन्यथासिद्धिरिति भावः ॥ *अन्यथासिद्धथापत्तेरिति* ॥ न च सेष्टा, प्रत्यक्षाऽऽदिप्रमाणविरोधादिति भावः।। ननु जातेः शक्यत्वे जातित्वं शक्यतावच्छेदकं वाच्यम् । तस्य च तदितरावृत्ति परीक्षा *तस्मात्*-उक्तहेतोः । *सन्त्येव-त्वदभिमतस्फोटातिरिक्ताः सन्त्येव । *यस्तु*-किन्तु । *गौरवात् । बहूनां वाचकत्वे गौरवात्। ननु पदत्वजात्याऽनुगममात्रगौरवावकाश इत्यत आह-*आकृत्यधिकरणेति। तादृशजातिसद्भावे प्रमाणमाह--*इदमित्यादि। अनुगमप्रतीतिमात्रेण जातिसिद्धौ विभुर्विस्विति प्रतीत्या विभुत्वजातिसिद्धयापत्तिरतः साधकान्तरमाह-*हर्युक्तेति । *अवश्येति। अन्यथा तत्तदुपरि पदनिष्ठतत्तद्वयक्तित्वस्य कारणतावच्छेदकतावच्छेदकत्वे आनन्त्यव्यभिचारयोरापत्तिः स्यात् ।। ___ तादृशजात्यभिव्यञ्जकतावच्छेदकतया क्लृप्तानुपूल्यैव भवदुक्तव्यवस्था ह्यतिरिक्ता, इति जातिर्मास्त्विति शङ्कान्निराचष्टे-*न चेति । *घटत्वादेरिति । आदिना पटत्वादिपरिग्रहः । *आकारादिभिः*-अवयवसंयोगविशेषैः। परम्परासम्बन्धस्यावच्छेदकतावच्छेदकत्वप्रयुक्तगौरवन्तूभयोः सममिति भावः। ननु तत्त. ज्जातेः शक्तत्वनिष्ठन्तदितरावृत्तित्वविशिष्टसकलतदाश्रयवृत्तित्वमवच्छेदकतावच्छेदक Page #464 -------------------------------------------------------------------------- ________________ जातिस्फोटनिर्णयः। ४३५ तस्मात् सा जातिरेव वाचिका, तादात्म्येनावच्छेदिका चेति ।। ननु सरो रस इत्यादौ तयोर्जात्योः सत्वादर्थभेदबोधो न स्यादित्यत आह-*मोपाधिको वेति* ॥ वा त्वर्थे उपाधिरानुपूर्वी, सैव जातिविशेषाभिव्यक्षिकेति भेदः, कारणीभूतज्ञानस्येति नातिप्रसङ्ग इति भावः । उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह-*वर्णानामिति ॥७॥ ननु जाते. प्रत्येकं वर्णष्वपि सत्त्वात् प्रत्येकादर्थबोधापत्तिः स्यादित्यत आहअनेकव्यक्त्यभिव्यङ्गया जातिःस्फोट इति स्मृता ॥ कश्चित् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥७२॥ . दर्पणः त्वविशिष्टसकलतद्वृत्तित्वरूपतया तत्त्वाऽसम्भवो गौरवादत आह-*तादात्म्येनेति॥ अभेदेनेत्यर्थः । तथाच नोक्तदोष इति भावः। एतत्तत्त्वमभिहितं प्राक् ॥ *जात्योरिति* ॥ तयोः पदयो रेफाकारसकारविसर्गघटितत्वाविशेषाद्रसत्वविशिष्टोपस्थापकतावच्छेदकसरस्त्वविशिष्टोपस्थापकतावच्छेदकजात्योरेकतरस्या एव सत्ताया विनिगमकाभावात्ततो विलक्षणार्थबोधानुपपत्तिरित्यर्थः । वाशब्दस्य पक्षान्तरपरत्वभ्रमं निराकारोति-*वा त्वर्थ इति* ॥ अवधारणे इत्यर्थः ॥ *भेद इति* ॥ तथाच तत्र वर्णतौल्येऽप्यानुपूर्वी वैलक्षण्येन रसत्वविशिष्टोपस्थापकतावच्छेदकजातेनिरुक्ताव्यवहितोत्तरत्वसम्बन्धेनर-विशिष्टसत्त्वादिरूपानुपूर्त्या एव व्यञ्जकतया तदभावेन न सर:-पदाद्रसत्वविशिष्टबोधापत्तिः । एवमप्यत्रापीति भावः। मूले तारमन्दवदित्यत्र तारमन्दशब्दो धर्मपरौ । तथा च यथा वर्णानां नित्यैकत्वमते विजातीयवायुताल्वाद्यभिघातसत्त्वे तारत्वादिना भेदप्रतीतिस्तद्वदित्यर्थः ॥ ७१॥ ___ वर्णजातिस्फोटमभिप्रेत्य शङ्कते, सारे-*नन्विति* ॥ *जातेरिति* ॥ अर्थबोधकजातेरित्यर्थः ॥ *प्रत्येकमिति* ॥ पदान्तर्गततत्तद्वणेष्वित्यर्थः। एवमप्रेऽपि ॥ *अर्थ. परीक्षा वाच्यमिति गौरवमत आह-*तादात्म्येनेति । ____*जात्योरिति । भाक्तयोः पदयोः सकाररेफाकारविसर्गघटितत्वाविशेषेणासरत्वो. पस्थापकतावच्छेदकजातेः सरस्त्वोपस्थापकताच्छेदकताऽपिस्यादेकस्या एकत्रैव सत्त्वमित्यत्र विनिगमकालाभादिति भावः । वा शब्दस्य पक्षान्तरसूचकत्वमिति भ्रमनिरासायाह-*वा त्वर्थ इति । एवञ्चैवकारार्थो वाशब्द इति फलितम् । *आनु. पूर्वीति । एवञ्च स्वाव्यवहितोत्तरत्वसम्बन्धेन रविशिष्टसत्वघटितायाश्च सरस्त्वोपस्थापकतावच्छेदकजातिव्यञ्जकतावच्छेदिका च सर इत्यत्र नास्तीति न सरःशब्दाद्रसत्वोपस्थित्यापत्तिरिति भावः। मूले-*तारमन्दशब्दौर-तारत्वमन्दत्वपरौ। तथा चमीमांसकमते यद्यपि वर्णानान्नित्यैकत्वम् , तथापि विजातीयकर्णवायुसंयोगरूपाभिव्यञ्जकतारतम्येन यथा तारत्वमन्दत्वादिविभिन्नधर्मप्रतीतिसद्भावादित्यर्थः ॥ ७१ ॥ ___ ननु जातेर्वर्णसमुदायवृत्तित्वाद्वर्णसमुदायस्याद्यावयवानतिरेकाज्जातेरव्यासज्यवृत्तित्वस्य स्वभावसिद्धत्वात्प्रत्येकवर्णादर्थबोधापत्तिरित्याशयेन शकते- *नन्वि Page #465 -------------------------------------------------------------------------- ________________ ४३६ दर्पणपरीक्षासहिते भूषणसारे अनेकाभिर्वर्णव्यक्तिभिरभिव्यक्तैव जातिः स्फोट इति स्मृता । योगार्थतया बोधिकेति यावत्। एतेन स्फोटस्य नित्यत्वात्सर्वदार्थबोधापत्तिरित्यपास्तम् । अयम्भावः-यद्यपि वर्णस्फोटपक्षे उक्तदोषोऽस्ति; तथापि पद. वाक्यपक्षयोर्न । तत्र तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमा. दर्पणः बोधापत्तिरिति ॥ तदभिव्यञ्जकवर्णसत्त्वादिति भावः ॥ श्योगार्थतयेति ॥ स्फुट. त्यर्थोऽस्मादिति वक्ष्यमाणावयवव्युत्पत्येत्यर्थः ॥ *एतेनेति । तत्पदघटकयावद्वर्णाभिव्यक्तजातेर्वाचकत्वाङ्गीकारेणेत्यर्थः । *सर्वदा । पदाश्रवणेऽपि । *अपास्तमिति* जातेः सनातनत्वेऽप्युक्तस्थले व्यञ्जकासमवधानात्तदभिव्यक्त्यभावेन बोधस्यापादा. यितुमशक्यत्वादिति भावः ॥ ननु वर्णजातिस्फोटपक्षे पटघटकयावद्वर्णगतजातीनामेवार्थबोधकत्वमुपगन्तव्यम् । तत्र चान्यवर्णगतजातेरन्यवर्णानभिव्यङ्गयत्वात्तत्तद्वर्ण एवाभिव्यञ्जको वाच्यः । तथा चोक्तदोषस्तदवस्थ एवेत्यत आह-अयम्भाव इति* ॥ *उक्तदोष इति ॥ तथाच दुष्टत्वात् स पक्षो नाश्रयणीय इति भावः॥ *तत्रेति* ॥ पदे वाक्ये च ॥ *तस्याः*पदत्वादिजातेः ॥ *व्यासज्यवृत्तित्वस्येति ॥ पर्याप्त्याख्यविलक्षणसम्बन्धेन वृत्तित्वस्येत्यर्थः। __ ननु जातेः समवेतत्वस्यैव सार्वत्रिकतया कथमेतस्याः पर्याप्तत्वमत आह-*धर्मिग्राहकेति* ॥ धर्मवती जातिस्तद्ग्राहकं मानं पदत्वस्य वा वाक्यत्वस्य वाचकत्वाऽनुपपत्तिस्तत्सिद्धत्वादित्यर्थः । प्रत्येकवर्णविश्रान्तजातेर्वाचकत्वस्योक्तदूषणकवलितत्वेनासम्भवाद्वाचकत्वानुपपत्त्या कल्प्यमाना पदत्वादिजातियदि पुनः प्रत्येक विश्रान्ता स्यात् । तदा तत्सिद्धिरेव न स्यात् वाचकत्वाऽनुपपत्तेरपरिहारादतस्त. त्साधकमेव तत्पर्याप्तत्वसाधकमेवं चानेकव्यक्त्यभिव्यड्ब्येत्यस्यानेकव्यक्तिपर्याप्तेत्यर्थ इति भावः। परीक्षा ति* । *प्रत्येकवर्णेषु । पदान्तर्गततत्तद्वर्णेषु। *वर्णव्यक्तिभिरिति । आनुपूर्वीविशेषावच्छिन्नवर्णव्यक्तिभिरित्यर्थः । श्योगार्थतया*-स्फुटत्यर्थोऽस्मादिति योगार्थतया। एतेन । तत्तत्पदघटकयावद्वर्णाभिव्यङ्गयत्वविशिष्टजातेर्बोधकत्वस्वीका. रेण । *स्फोटस्य-जातिरूपस्य । .. *वर्णस्फोटपक्ष इति । तस्मिन्पक्षे वर्णगतजातेर्बोधकत्वं वक्तव्यम् , तथा चान्त्यवर्णगतजातेरन्त्यवर्णविषयकप्रतीत्यविषयत्वात्तत्तद्वर्ण एव तत्तजातिव्यञ्जक. स्तथा चोक्तदोष इति भावः। *तत्र*-पदवाक्ययोः। *तस्याः*-जातेः, व्यासज्यवृत्तित्वस्य पर्याप्तिसम्बन्धेन सत्वं प्रसिद्धम् । व्यासज्यवृत्तित्वन्तु जातेनास्ति । तस्या व्यासज्यवृत्तिस्वभावत्वात् । *धर्मिग्राहकमानेति । धर्मो जातिरूपः पदार्थः , तदुप्राहकन्तत्साधकं यन्मानम्पदवाक्ययोर्षोधकत्वान्यथानुपपत्तिरूपन्तसिद्धत्वादित्यर्थः । एतेन जाते. समवायसम्बन्धेनैव सत्वन्नतु पर्याप्त्याख्यस Page #466 -------------------------------------------------------------------------- ________________ जातिस्फोटनिर्णय: । नसिद्धत्वादिति । कैश्चिद्व्यक्तयो ध्वनय एव ध्वनिवर्णयोर्भेदाभावादित्यभ्युपेयन्त इति शेषार्थः । ४३७ उक्तं हि काव्यप्रकाशे - "बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः” इति ॥ ७२ ॥ दर्पण: वस्तुतस्तु घटादिप्रत्येक व्यक्त्यैक्ये घट इति सर्वसिद्धप्रतीत्या व्यवहारेण च सिदूध्यतु घटत्वादेः प्रत्येकमात्रवृत्तित्वम् । न ह्येकवणें घटपदादिव्यवहारो, येन पदत्वादेः प्रत्येकवृत्तिता स्यात् ; किन्तु पटशब्दे पदं न प्रकार इति वैपरीत्यमिति तादृशजातेः पर्याप्तत्वमावश्यकम् । पदत्वं न पर्याप्तं जातित्वादित्यनुमानं त्वप्रयोजकमनुकूलतर्काभावादिति विभावनीयम् । S. इदं पुनरिहावधेयम् — अनेक व्यक्त्यभिव्यङ्गयेत्यस्यानुपूर्व्यवच्छिन्नवर्णाभिङ्ग्येत्यर्थः । नातः सरो रस इत्यादौ अर्थभेदबोधाऽनुपपत्तिः । एवञ्च पूर्वोक्तार्थस्यैवाऽयं प्रपञ्चः । आनुपूर्वीवर्णयोर्विशेषणविशेष्यभावव्यत्यासः परं व्यतिरिच्यते । अत एवा- ऽग्रिमग्रन्थसङ्गतिरिति । व्यज्यतेऽनयेति व्युत्पत्या व्यक्तिपदार्थो वर्ण इत्यभिप्रेत्याह*ध्वनिवर्णयोरिति । वर्णानां ध्वनिनैयत्यादभेदोपचारोऽत एव पस्पशायां "अथ गौरित्यत्र कः शब्द" इति प्रश्ने “लोके ऽर्थबोधकत्वेन गृहीतो ध्वनिर्वर्णात्मकः समूह” इत्यर्थकम् । “अथवा प्रतीतपदार्थको ध्वनिः शब्द" इत्युक्तमिति भावः । *शेषार्थ इति । प्रकृतकारिकोत्तरार्द्धार्थ इत्यर्थः । वर्णेषु ध्वनिव्यवहारे सम्मतिमाह-उक्तं हीति । *काव्यप्रकाश इति । “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः” । इति वृत्तिव्याख्यावसर इति शेषः । *स्फोटरूपव्यङ्गयेति ॥ स्फोटरूपं यद् व्यङ्गयं तद्वयञ्जकवर्णात्मकशब्दस्येत्यर्थः ॥ ७२ ॥ Faraar प्रबन्धेन पदत्वादेर्जातित्वस्य तद्वाचकत्वस्य च व्यपस्थापनमफलं, परीक्षा म्बन्धेनेनाति शङ्काया नावकाशः । यदिसा प्रत्येकं विश्रान्ता स्यात्तदा वाचकत्वानुपपतेरपरिहारात्तत्सिद्धिरेव न स्यादिति भावः । नन्वनेकाभिर्वर्णव्यक्तिभिर्व्यङ्गया जातिरित्यनुपपन्नम्वर्ण व्यक्तीना आतिव्यञ्जकताया अप्रसिद्धत्वादित्याशङ्कामपनेतुं तत्र प्रामाणिकसम्मतिमाह — कैश्विद्वयक्तय इति । *अस्याः जातेः । आश्रयत्वं षष्ठयर्थः । व्यज्यतेऽनया सा व्यक्तिरिति व्युत्पत्या व्यक्तिपदवाच्यो वर्ण एवेत्याशयेनाह-वनिवर्णयोरिति। *शेषार्थः * - प्रकृतकारिकाया उत्तराद्धार्थः । उक्तार्थे काव्यप्रकाशकारसम्मतिमाह-उक्तं हीति । *काव्यप्रकाशे* । इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः । इति पथव्याख्यावसर इति शेषः । *स्फोटव्यङ्ग्यव्यञ्जकस्य । स्फोटरूपं यद्व्यङ्ग्यन्तद्व्यञ्जकस्य ॥ ७२ ॥ मनु जातेर्वाचकत्वमुक्तन्तदनुपपन्नम् । तादृशजातेरप्रसिद्धत्वादतो जाति प्रकट Page #467 -------------------------------------------------------------------------- ________________ ४३८ दर्पणपरीक्षासहिते भूषणसारेननु का सा जातिस्तत्राहसत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ॥ सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ॥७३॥ प्रतिभावं प्रतिपदार्थम् । सत्यांशो जातिः, असत्या व्यक्तयः। तत्तयक्तिविशिष्टं ब्रह्मैव जातिरिति भावः। उक्तञ्च कैयटेन"असत्यो. पाध्यवच्छिन्नं ब्रह्मतत्वं द्रव्यशब्दवाच्यमित्यर्थः” इति। "ब्रह्मतत्त्वमेव शब्दस्वरूपतया भाति" इति च । दर्पणः पुरुषार्थाऽनुपयोगित्वादित्याशङ्कय समाधानपरतया मूलमवतारयति-*ननुका सेति । सा वाचकत्वेनाभिमता जातिः केति योजना । *सत्यांश इति । सत्यत्वं कालत्रयाबाध्यत्वं, तद्विपरीतमसत्यत्वम् । पर्य्यवसितार्थमाह-*तव्यक्तीति । तद्व्यक्त्युपलक्षितमित्यर्थः। परमार्थब्रह्मणा व्यक्तीनां वैशिष्ट्यासम्भवात् । अत एव जगत्कर्तृत्वादीनां तदुपलक्षणत्वमामनन्तीति बोध्यम् । *जातिरिति । तद्व्यवहारविषय त्यर्थः। *असत्योपाधीति* । व्यक्तीनामुपाधित्वं च, वस्तुत एकस्या अपि नानाप्रतीतिजनकत्वं तदवच्छिन्नं तदुपलक्षितमित्यर्थः । *द्रव्यशब्देति । गवादिशब्देत्यर्थः । गुणगतजातेरनडीकारादथवा द्रव्यात्मको यश्शब्दस्तद्वाच्यमित्यर्थः। मीमांसकैः शब्दस्य द्रव्यत्वोपगमात् । *शब्दस्वरूपतयेति* । श्रुत्यात्मकशब्दरूपतयेत्यर्थः। "द्वे ब्रह्मणी वेदितव्ये" इति श्रुतेः । ____ अयमाशयः-"तस्मादेतस्माद्वा आत्मन आकाशः सम्भूत" इत्यादितैत्तिरीयकश्रुतौ ब्रह्मणो जगदुपादानत्वश्रवणादुपादेयस्य चोपादानाभिन्नत्वस्य लोकप्रसिद्धत्वा. नामार्थयोरपि स्वाभिन्नोपादानाभिन्नत्वेन परस्पराभिन्नत्वे सुस्थे पृथक्प्रतीयमानजगतो, “नेह नानास्ति" इति श्रुत्या बाधे दृढे, बाधितार्थप्रतीतेरधिष्ठानसत्तैकनियम्यत्वेनावशिष्यमाणब्रह्मणः सद्रूपस्य साक्षाज्ज्ञातुमशक्यतयोपलक्षणीभूतरूपनामनिरूप. परीक्षा यति-*सत्यासत्याविति । *सत्यम् = कालत्रयाबाध्यम् । तद्विपरीतमसत्यम् । ___ ननु जीवे ब्रह्मात्मकत्वे तस्यैकत्वात्पटेऽपि घटत्वव्यवहारापत्तिरतः पर्यवसितार्थ. माह-*तत्तद्वयक्तीति । विशिष्टम्*-उपलक्षितम्।जगत्कर्त्तत्वादिकमप्युपलक्षित एव । जातिः जातिपदव्यवहार्यः । व्यक्तीनामुपाधित्वञ्च-यथा जपाकुसुमसन्निधाने लोहितः स्फटिक इति व्यवहाराज्जपाकुसुमे उपस्वसमीपवर्तिनि स्वनिष्ठं धर्ममादधातीत्युपा. धिरिति व्युत्पत्या स्वसमीपतिविशेष्यकस्वनिष्ठधर्मप्रकारकप्रतीतिजनके उपाधिव्यवहारस्तथा व्यक्तीनानानात्वात्तदुपश्लेषेण वस्तुत एकस्यापि ब्रह्मणो नानात्वप्रकारकप्रतिभासजनकत्वेन द्रव्यशब्देति द्रव्यप्रतिपादकघटपटादिशब्देत्यर्थः । यद्वा-द्रव्यात्मको यः शब्दस्तद्वाच्यमित्यर्थः । तेन गुणादिगतजातेरपि सङ्ग्रहः । मीमांसकमतेशब्दस्य द्रव्यरूपत्वात् ।*शब्दरूपतया-वाचकशब्दरूपतया वेदात्मकशब्दरूपतयाच। अयम्भावः-द्वयोरपि वाच्यवाचकयोरुपाध्युपलक्षितब्रह्माभिन्नतया शास्त्रस्य चास्य वाच्यवाचकज्ञानाय प्रवृत्तः "नेह नास्ति" इतिवाक्यसहायेन वस्तुगत्योपाधिव्यवच्छेदे Page #468 -------------------------------------------------------------------------- ________________ जातिस्फोटनिर्णयः। . ४३९ कथं तर्हि, 'ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वं "आत्मै. वेदं सर्वम्” इति श्रुतिवचनात्' इति कैयटः सङ्गच्छताम् । अविद्या भाविद्यको धर्मविशेषो वेति पक्षान्तरमादायेति द्रष्टव्यम् ॥ ७३ ॥ तमेव सत्याशं स्पष्टयति- . इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम् ॥ ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः ॥ ७४ ॥ दर्पणः .. णद्वारा तज्ज्ञानाय शास्त्रस्योपयोग इति । कथमिति । सङ्गच्छतामित्यनेनान्वितम् । . पूर्वापरविरोधादिति भावः । मिथ्याज्ञानरूपायास्तज्जन्यसंस्काररूपाया जातित्वासम्भवादाह-*आविद्यक इति । अविद्याकल्पित इत्यर्थः । *धर्मविशेष इति । अत्रावृत्तिवारणाय-*धर्मेति । तद्व्यक्तित्वादिवारणाय--*विशेषेति । तथाच मतभेदेनाऽर्थद्वयस्याप्याकरस्थितत्वान्न पूर्वापरविरोध इति भावः । . वस्तुतस्तु गवाद्युपाध्यवच्छिन्नसत्तात्वमेव गोत्वादिव्यवहारनियामकमद्वैतदर्शने च गवादेरवच्छेदकस्याभावान्न सत्ताया विशिष्टसत्तात्वं, तदानीं निर्द्धर्मत्वेनैवावस्था. नादित्यर्थपरतयाऽपि विरोधः सुपरिहर इति बोध्यम् ॥ ७३ ॥ . ___ यद्यप्यविशेषेण वाक्यविषयेऽखण्डवाक्यतज्जातिरूपस्फोटद्वयमुक्तं, तथापि नादात्मकस्फोटकल्पे शास्त्रस्य पुरुषार्थे परम्परयोपयोगित्वमन्तिमकल्पे तु साक्षादेवेति तस्यैव मुख्यत्वमित्याशयेन मूलमवतारयति-*तमेवेति* । “अयमात्मा" "तत्सत्यम्" इत्यादिश्रुतिसिद्धं यत्सत्यं तत्र सा जातिरित्यनेनोक्तमेवेत्यर्थः। मूले, *इत्थमिति । पूर्वोक्तप्रकारेण अध्यस्तवाचकत्वेभ्यः प्रकृत्यादिभ्यः पृथक्क्रियमाणम् । अत एव-निरञ्जनम् । उपाधिविनिर्मुक्तम् । अत एवाक्षरमविनाशि। “यस्तु सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।" __ इति स्मृतेः । सोपाधिकस्यैव विनाशप्रतियोगित्वात् । शब्दतत्त्वं, शब्दपदं रूपस्याप्युपलक्षणम् । तेन, नामरूपोपादानं यत्तद् ब्रह्मवेति विशेषणसङ्गतैवकारेण ब्रह्मतादात्म्याऽभावरूपे विशेषणाऽयोगव्यवच्छेदे शब्दतत्त्वरूपान्वयितावच्छेदकव्यापकत्वं बोध्यते । *प्राहुः । प्रकर्षेण कथयन्ति । ब्रह्माऽभेदेन जानन्तीति यावदिति तदर्थः । परीक्षा सिद्धेऽस्माच्छास्त्राद् ब्रह्मज्ञानम्भवतीति । *कथन्तीति । सङ्गच्छतामित्यनेनान्वि. तम् । पूर्वापरविरोधादिति शेषः । नन्वविद्या मिथ्याज्ञानरूपा तज्जन्यसंस्काररूपा वा तत्स्थाजातित्वन्न सम्भवति तस्याः , अतः वर्णधर्मत्वेन घटादिधर्मत्वासम्भवात्, अत आह-*आविद्यक इति* । अविद्याकल्पित इत्यर्थः । धर्मविशेष इत्युपादानेनावृत्तित्वशङ्काया घटपटादिसाधारण्यस्य च निरासः ॥७३॥ __ यद्यपि, पूर्वत्राखण्डवाक्यस्फोटस्य प्रदर्शनसमये शास्त्रस्य पुरुषार्थसाधनत्वन्दर्शितमेव, तथापि तस्मिन्पक्षे परम्परया शास्त्रस्य तत्वम् । जातिस्फोटपक्षे तु साक्षादेव-तथेत्यादिवेदयितुम्मूलमवतारयति-*तमेवेति । "अयमात्मा, तत्सत्यम् इत्यादिश्रुति. प्रतिपादितमित्यर्थः। हत्थम् -पूर्वोक्रिमिः, निष्कृष्यमाणम् -वाचकत्वेनाध्यस्तेभ्यः पृथक् क्रियमाणम् । निरञ्जनम् -उपाधिविनिर्मुक्तम् । अत एवाक्षरम्-अविनाशि। Page #469 -------------------------------------------------------------------------- ________________ ४४० दर्पणपरीक्षासहिते भूषणसारेअयम्भावः-"नामरूपे व्याकरवाणि” इति श्रुतिसिद्धा द्वयी सृष्टिः । तत्र रूपस्येव नाम्नोऽपि तदेव तत्त्वम् । प्रक्रियांशस्त्वविद्याविज़म्भणमात्रम् । उक्तञ्च वाक्यपदीयेशास्त्रेषु प्रक्रियाभदैरविद्यैवोपवर्ण्यते । दर्पणः तत्र शब्दोपादानत्वस्य तन्त्रान्तरे गगनादौ प्रसिद्धः कथं ब्रह्मणस्तदुपादानत्वमित्या. शङ्कायामाह-*अयम्भाव इत्यादि । *नामरूपेति । “अनेन जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति श्रुतिसिद्धेत्यर्थः । *द्वयीति । नामरूपात्मकद्वयवयवसमूहरुपेत्यर्थः । तत्रेति । सृष्टिद्वयमध्ये । *रूपस्येवेति । आकाशाद्यात्मकार्थस्येवेत्यर्थः । *नाम्न इति* ॥ तद्वाचकशब्दस्यापीत्यर्थः । *तदेव-ब्रह्मैव । तत्त्वमुपादा. नमित्यर्थः । "तस्मादेतस्माद्वा आत्मन" इत्यादिश्रुतेः । शब्दतन्मात्राकाशोपादानत्वे पर्यवसानाद्वयोरप्युपादानं ब्रह्मैव । अत एव तयोः परस्परमभेदसिद्धिः। स्वोपादा. नब्रह्माभिन्नत्वात् । न च ब्रह्मणो जगदुपादानत्वे विकारित्वाऽऽपत्तिः। जगदेतद्विव. तते' इति वदता मूलकृतैव समाहितत्वात् । तथाच व्यावहारिकप्रातिभासिकपदार्थनिरासेन श्रुत्या ब्रहौव परिशेषीक्रियते इति प्रागुक्त एवाऽर्थः। ननु नानात्वस्य सर्वथैव मिथ्यात्वे कथं स प्रत्ययो लोकानामत आह-*प्रक्रियांशस्त्विति । प्रकृतिप्रत्ययपञ्चकोशादिव्यवहारांशत्स्वित्यर्थः । *अविद्येति । मलि. नसत्त्वाज्ञानविलास एवेत्यर्थः । तथाच ब्रह्माऽतिरिक्तत्वेनाऽसत्यानामपि तेषां पार्थक्येन प्रतीतिरधिष्ठानाऽज्ञानकृतैवेति । न यावदधिष्ठानाज्ञानं तावत् तन्निवृत्तिरिति भावः । यद्वा ननु तादृशब्रह्मज्ञाने कथं शास्त्राणामुपयोगोऽत आह-*प्रक्रियांश इति । प्रकृतिप्रत्ययादिव्युत्पादनं त्वित्यर्थः ॥ *अविद्येति । तथाच पञ्चकोशादिन्यायेन शास्त्राणामुपयोगो, न तु तज्ज्ञाने साक्षादुपयोग इति भावः । *अविद्यैवोपवः यते इति । वाक्यपदीयाऽनन्तरम् उपायाः शिक्ष्यमाणानां बालामुपलालनाः। असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ इति श्लोकः । “समारम्भात्तु भावनामित्यस्य" पूर्वार्द्धन्तु परीक्षा एतादृशं यत्तद् ब्रह्म। “सर्वेषु भूतेषु नश्यत्सु न नश्यति इति स्मृतेः। *शब्दतत्त्वमिति। अन शब्दपदं रूपस्याप्युपलक्षणम् । *द्वयी*-नामरूपात्मिका । *तदेव ब्रह्मैवेति । *तत्त्वम्* उपादानम् । तदुक्तं श्रुतौ-"अनेन जीवनानुप्रविश्य नामरूपे व्याकरवाणि" इति । सृष्टेयोरूपत्वन्त्ववयवकसमुदायरूपतया । “सृष्टेब्रह्मण एव सम्भवश्व" "तस्मादेद्वाऽऽत्मन आकाशः सम्भूत आकाशाद्वायुः”इति श्रुतावपि प्रसिद्धम् । ननु ब्रह्मण एव नामरूपसृष्टयुपादानत्वञ्चेदुपादानोपादेययोस्तादात्म्याद ब्रह्मणोऽपि नानात्वमेव सिद्धम् , तथा च कथं सत्यत्वमत आह-*प्रक्रियांशस्त्विति । प्रकृतिप्रत्ययादिकथनञ्च कोशादिव्युत्पादनमाकाशादिसृष्टयुपादानत्वस्य च प्रतिपादनांशस्त्वित्यर्थः। *अविद्याविजृम्भणम् । मलिनसत्वाविद्यानामज्ञानविलास एवेत्यर्थः। अन्न हरिसम्मतिमाह-*उक्तञ्चेति । अत्र पूर्वार्द्धमन्यत्रोक्तम् । उत्तरार्द्धस्य Page #470 -------------------------------------------------------------------------- ________________ जातिस्फोटनिर्णयः। ४४१ समारम्भातु भावानामनादि ब्रह्म शाश्वतम् ॥ इति ॥ ब्रह्मैवेत्यनेन, "अत्रायं पुरुषः स्वयं ज्योतिः, "तमेव भान्तमनुभाति सर्वम्" "तस्य भासा सर्वमिदं विभाति" इति श्रुतिसिद्धं स्वपरप्रकाशत्वं सूचयन् स्फुटत्यर्थोऽस्मादिति स्फोट इति यौगिकस्फो. टशब्दाभिधेयत्वं सूचयति । निर्विघ्नप्रचारायान्ते मङ्गलं स्तुतिनति दर्पणः घटादिदर्शनाल्लोकः परिछिन्नोऽवसीयते ॥ इति ॥ तदर्थस्तु यथा घटादिकं दृष्ट्वा लोको विश्वप्रपञ्चः परिच्छिन्नः किञ्चिनिष्टकारणतानिरूपककार्य्यतावत्त्वेनानुमीयते, एवं भावानामाकाशादीनाम् । *समारम्भादिति* । सम्यगारम्भो जननं यस्मात् । भावप्रधानश्च निर्देशः । तदुत्पत्तिहेतुत्वादित्यक्षरार्थः । भावोपादानत्वादिति यावत् । तादात्म्येन वा हेतुः। *समारम्भादिति । शाश्वतं नित्यमपि ब्रह्म आदिमत्सकारणमिवाऽवसीयत इत्यनुषज्ज्यते । परिणाम्युपादानत्वे तस्मिन्नभ्युपगम्यमाने विकारित्वप्रसङ्गशङ्का । वस्तुतो न तत्प्रसक्तिर्विवतॊपादानताया एवाङ्गीकाराद्रज्ज्चादौ प्रातिभासिकभुजङ्गस्येवेति भावः । “अनादि ब्रह्म शाश्वतम्" इति पाठस्त्वन्यतरविशेषणोपादानवैयापत्त्या नादरणीयः। ननु नादेऽपि ब्रह्मव्यपदेशस्य प्रायशो दर्शनात् पुरुषार्थानुपयोगितदभेदज्ञानसम्पादनवैयर्थ्यमत आह-*ब्रह्मवेति । तथाच प्रकृते ब्रह्मपदस्य स्वप्रकाशरूपब्रह्मपरत्वान्नोक्तानुपपत्तिरिति भावः । “तमेव भान्तम्" इत्यस्य__न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः" इति पूर्वार्द्धम् । श्रुतीत्युपलक्षणम् यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । इत्यादिस्मृतेरपि । *स्वपरप्रकाशकत्वमिति । तत्र परप्रकाशकत्वे मानमुक्तम् । स्वप्रकाशकत्वं च स्वभिन्नाप्रकाश्यत्वे सति प्रकाश्यत्वम् स्वात्मकनित्यज्ञानविषयत्वमिति यावत् । “नित्यं विज्ञानमानन्दं ब्रह्म" इति श्रुत्या ब्रह्मणो नित्यज्ञानानन्दस्व. रूपत्वप्रतिपादनात् प्रकृतश्रुतिः।। स्वयमेवात्मनाऽऽत्मानं वेत्सि त्वं पुरुषोत्तम । इति स्मृतिश्च स्वप्रकाशत्वे, पराप्रकाश्यत्वे च "न तदासयते सूर्य" इत्यादि स्मृतिश्च मानमधिकमन्यत्राऽनुसन्धेयम् । *सूचयतीति । स्फोटस्वप्रकाशपदयोः पर्यायत्वं बोधयतीत्यर्थः। तथाच जातिस्फोटवादिमते उपाधिनिरासद्वारा शब्दब्रह्मणः स्वप्रका. पूर्वार्द्धन्तु - घटादिदर्शनाल्लोकः परिच्छिन्नोऽवसीयत । इति । यथा घटादिदर्शनाल्लोको विश्वप्रपञ्चः परिच्छिन्नः किञ्चित्कारणन्तद् व्यवसीयते । तथा भावानामाकाशादीनां समारम्भः सम्यगारम्भः प्रकाशो यस्मादिति व्युत्पत्या प्रकाशोपादानमनादित्वम्ब्रह्मवेत्यर्थः । अनादीत्यनेन-प्रागभावाप्रतियोगित्वम् , शाश्वतमित्यनेन-ध्वंसाप्रतियोगित्वमुक्तम् । ननु नादेऽपि ब्रह्मपदव्यवहारात्कथमस्य शास्त्रस्य ब्रह्मणः अनादित्वप्रतिपादकते. त्यत आह-*ब्रह्मवेत्यनेनेति । स्वयं ज्योतिः पराप्रकाश्यः। निर्विघ्नप्रचयाय*-अप्रति द० ५० ५३ प्रत Page #471 -------------------------------------------------------------------------- ________________ दर्पण परीक्षासहिते भूषणसारे - ४४२ रूपमाह -*पूर्णात्मने इत्यादिना ॥ ७४ ॥ अशेषफलदातारमपि सर्वेश्वरं गुरुम् ॥ श्रीमद्भूषणसारेण भूषये शेषभूषणम् ॥ १ ॥ भट्टोजिदीक्षितैः श्रेष्ठैर्निस्मिताः कारिकाः शुभाः ॥ कौण्डभट्टेन व्याख्याताः कारिकास्ताः सुविस्तरम् ॥ २ ॥ इति श्रीमत्पदवाक्य प्रमाणपारावारीणधुरीणरङ्गोजिभट्टाऽऽत्मजकौण्डभट्टकृते वैयाकरणभूषणसारे स्फोटवादः ॥ समाप्तोऽयं ग्रन्थश्च । दर्पणः शत्वरूपेण पुरुषार्थोपयोगिनि ज्ञाने व्याकरणस्योपयोग इति सिद्धम् । नादस्फोटवादिमते यथोपयोगस्तथोपपादितं प्राक् । निर्विध्नेति । अप्रतिबद्धस्वग्रन्थप्रचारार्थमित्यर्थः ॥ *अन्ते । ग्रन्थावसाने । मङ्गलमिति ॥ नत्यात्मकं तदित्यर्थः । " मङ्गला - दीनि मङ्गलान्तानि मङ्गलमध्यानि च शास्त्राणि प्रथन्ते" इति भाष्यकारोक्तश्रुतेरिति भावः । पूर्णत्वमखण्डानन्दत्वमप्रतिहतेच्छत्वं वा तेन रूपेण तन्नतिश्च स्वीयग्रन्थप्रचारेच्छाविषयसिद्धय इति बोध्यम् ॥ ७४ ॥ ज्ञात्वा श्री फणिवाक्यजालमतुलं नैयायिकोक्तीरपि मीमांसानयमाकलय्य च मया सम्यक्कृते दर्पणे ॥ अस्मिन् भूषणसारतां बुधजनः सोत्कण्ठमालोकतां निश्वासमलीमसोन मुकुर स्तत्त्वार्थबोधक्षमः ॥ १ ॥ आसीत् कूर्मगिरौ धरासुरवरः श्रीवल्लभः कोविदो वेदान्तेषु विनोदमञ्जरिरिति ख्याताऽस्ति यन्निर्मितिः ॥ तत्सूनुर्हरिवल्लभः समकरोत्सद्युक्तिमण्युज्ज्वलं श्रीमद्भूषणसारदर्पणमिमम्मोदाय विद्यावताम् ॥ २ ॥ उत्प्रक्षितार्थो हि न मोदहेतवेऽभ्यस्तो भृशं सोऽपि बुधां तथैव ॥ इत्याकलय्योभयमत्र युक्तिप्रमाणसिद्धं समुदाहृतं मया ॥ ३ ॥ सर्वोऽप्यर्थो बुधैः स्पृष्टो यद्यपीह तथापि मे 1 सत्सन्दर्भाशवितता ममता केन वाय्र्यंते ॥ ४ ॥ इति श्रीमत्कूर्माचलाभिजनोत्प्रभातीयोपनामकश्रीवल्लभाऽऽत्मजहरिवल्लभविरचिते भूषणसारदर्पणे स्फोटवादः समाप्तः ॥ परीक्षा बद्धप्रचाराय । स्तुतिरूपत्वम्पूर्णत्वकथनेन । तत्वञ्चाखण्डानन्दरूपत्वम् । *नम इति* नतिरूपमङ्गलाय ॥ ७४ ॥ इति स्फोटविवरणम् | इति श्रीमदगस्त्यकुलवंशावतंसदिगन्तविख्यातकीर्विसुधाकर सङ्ख्यावत्सार्वभौमभवदेवमिश्रात्मजभैरवनाथमिश्रविरचिता परीक्षानामिका वैयाकरणभूषणसारटीका समाप्ता । शुभमस्तु । Page #472 -------------------------------------------------------------------------- ________________ श्रीरामाय नमः। श्रीमदुर्बलाचार्यापरनामकृष्णमित्रकृतभूषणसारव्याख्यायाम धात्वर्थनिर्णयः। पद्मा प्रतिपदं नित्यमखण्ड वाच्यवाचकम् । जगतां प्रकृतिः स्फोटः पदमन्यत्प्रकल्पितम् ॥१॥ *श्रीलक्ष्मीति । रूपिणमिति । ताछील्ये णिनिः । “रसादिभ्यश्च" इति मतुब्विधानस्यान्यमत्वर्थीयनिवृत्यर्थत्वात् । लक्ष्मीरमणस्य स्फोटरूपत्वोक्तिः स्वशास्त्रतत्त्वसुचनाय । यतः स्फोटरूपात्सर्वं जगद्विवर्ताकारं भवति । तदुक्तं हरिणा अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति । अत्र परावाक् स्फोटशब्देनोच्यते, सैव शब्दब्रह्मेत्युच्यते । शब्दतत्वं शब्दस्य पारमार्थिक स्वरूपं स्फोटस्यैव मुख्यशब्दतया तस्य च ब्रह्मात्मकत्वात् । अक्षरनिामत्तत्वादक्षरं शब्दब्रह्मैव । तत्तत्पदार्थरूपेण विवर्त्तते, यथा रज्जः स्वयमविकृतव सती मायया सर्पाकारेण विवर्त्तते। तत्वादप्रच्युतमेकं ब्रह्म-असत्त्यानेकरूपतां प्राप्नोति। यतः शब्दस्वरूपाज्जगदपा विकाराः क्रियन्ते इति तदर्थः। तात्विकोऽन्यथाभावः परिणामः। अतात्विकोऽन्यथाभावो विवर्त्तः। *तीरम् -नौकाम्। *शेषेति। शेषसम्बन्धिनो शेष. स्यार्थस्य लाभार्थमित्यर्थः । द्वैतेति । द्वैतवाद एव ध्वान्तं-तमः, तन्निवारणमेव फलं यस्याः। पुंसो भावो यस्यां तादृशी, वाग्देवतां सरस्वत्येव पुरुषवेषं धृतवतीति भावः। द्वैतस्य ध्वान्तत्वं तु अविद्यायां सत्यामेव । द्वैतबुद्धः 'एकमेवाद्वितीयं ब्रह्मा इत्यादिश्रुत्या अद्वैतस्यैव तात्त्विकत्त्वात् । *दुण्ढिमिति*। प्रणम्येत्यत्रान्वयः । *श्रीफणीति* । फणिनः स्मरणं तु प्रकृतशास्त्रनिर्मातृत्वेनाभ्यर्हितत्वात् । अस्माभिःभद्दोजिदीक्षितैः । एतेन भट्टोजिदीक्षितकृता एताः कारिका इति सूचितम् । अस्य ग्रन्थस्य कारिकारूपस्य वाक्ये क्रियायाः प्राधान्यात् क्रियावाचकस्य धातोरर्थ प्रथमतो निरूपयति-*फलव्यापारयोरिति । दण्डादिव्यापारस्य धात्वर्थत्ववारणायाह-व्यापारस्त्विति । ननु यथा किं करोति इति प्रश्ने पचतीत्युत्तरं भवति । एवमस्तीत्युत्तराभावादस्त्यादीनां क्रियावाचकत्वं न स्यादत आह-*यावत्सिद्धमिति । अयम्भावः-क्रमपौपिर्यमाश्रित्य साध्यत्वेन विवक्षितोऽर्थः। क्रिया-घटः क्रियते इत्यत्रापि क्रियाद्वारैव घटस्य साध्यत्वं प्रतीयते, घट इत्येतावन्मात्रात्साध्यत्वाप्रतीतेः। एवञ्चैतदेव क्रिया. वाचकत्वमस्त्यादावप्यस्तीति। *सिद्धमसिद्धम्वेति । सिद्धमपाक्षीदित्यादौ। अ. सिद्धं पचति पक्ष्यतीत्यादौ । .. ननु क्रियते या सा क्रिया । न च समुदायः कर्तुं शक्यते इत्यत आह-*आश्रिते. ति* । आश्रितः क्रमरूपो यया तथा चाऽवयवानामुत्पाद्यत्वात्तद्वारकं समुदायस्योत्पा Page #473 -------------------------------------------------------------------------- ________________ ४४४ वैयाकरणभूषणव्याख्यायाम् । धत्वमिति भावः । पचति पाक इति* । पाक इत्यत्र क्रियान्तराकाङ्क्षाऽस्ति, नतु पचतीत्यत्रेत्यर्थः । *तथा चेति । क्रियान्तराकाङ्क्षाया अनुत्थापिका पचतिशब्दोपात्ताक्रिया अनुत्थापकतावच्छेदकं रूपं पचत्यादिशब्दः, तद्वत्वं तच्छब्दबोध्यक्रियायामस्तीति लक्षणसङ्गतिः। क्रियान्तराकाङ्क्षानुत्थापकरूपवत्वमिति तु नोक्तम् । पचतीति शब्दस्य क्रियात्वाभावेन स्वक्रियाभिन्नक्रियात्वरूपक्रियान्तरत्वासम्भवात् । तद्रूपवत्वमिति* । इदमेवासत्वभूतत्वमित्यर्थः। अन्यथा सङ्गयाकारकाद्यनन्वयित्वमसत्वभूतत्वमित्युक्तौ 'पश्य मृगो धावति' इत्यादौ कारकान्वयित्वदर्शनात् । 'हतशायिका श. य्यन्ते' इत्यादौ सङ्ख्यान्वयित्वदर्शनाच्चाव्याप्तिरितिभावः। एतदेव = एतादृशासत्वभूतत्वमेव । तिङपदैरिति । यद्यपि क्रियाप्रधानं यत्तदाख्यातमिति निरुक्ततद्भाष्यकारादिमते एधितव्यमित्यादीनामसत्वरूपमाख्यातत्वमेव । तथापि एधितव्यमित्यत्रापि अस्ति भविष्यतीत्यादिक्रियासम्बन्धस्य सम्भवात् क्रियान्तराकाङ्कत्याद्यसत्वभूतो भावः तिङ्पदैरेवोच्यते, इत्यत्र न विवाद इति भावः । वर्जनादिक्रियावाचिना. मपि हिरुगादीनां क्रियान्तराकाङ्क्षादर्शनात् न साध्यक्रियाभिधायित्त्वम् । क्रियाप्रधानत्वव्यवहारस्तु क्रियामात्रविशेषणत्वात्। __ननु व्यापारसामान्य प्रति धातुसामान्यस्य वाचकत्वे सर्वत्र सकलव्यापारबोधापत्तिरत आह-*अयं चेति । *बुद्धिविशेषादीनामिति । फूत्कारादीनामनन्तत्वात्फूत्कारत्वादिकं शक्यतावच्छेदकम् । फूत्कारत्वादीनामप्यनुगमको बुद्धिविशेष एव सर्वत्र व्यापार इति बुद्धरैकत्वादिति भावः। ___ ननु एका क्रियेति व्यवहारः कथमत आह-गुणभूतैरिति । क्रमोत्पन्नानां व्यापाराणां समूहः क्रिया। स च समूहः गुणभूतैः स्वावयवीभूतैः फूत्कारादिव्यापारैर्युक्तः । ननु क्षणनश्वराणां व्यापाराणां समुदायोऽसम्भवीत्यत आह-*बुद्धयेति । एकत्व. बुद्धया प्रकल्पितो भेदरूपः समूह इत्यर्थः । क्रमिकाणां व्यापाराणां समूहे बुद्धिपरिक ल्पितमेकत्वमाश्रित्य एकत्वव्यवहार इति भावः। तार्किकमते स्वरूपसम्बन्धविशेषस्याश्रयत्वस्याश्रयरूपतया नानात्वादत आह*तत्तच्छक्तिरूपमिति । अखण्डधर्मरूपमित्यर्थः । सप्तैव पदार्था इति वैशेषिकपरिभा. षामरीकृत्याश्रयत्वस्याश्रयस्वरूपत्वस्वीकारे स्वस्यैव धर्मत्वं धर्मित्वं चेत्यनुभववि. रुद्धम् । तार्किकैरपि विषयत्वप्रतियोगित्वादीनामतिरिक्तत्वस्वीकारेण सप्तैवेति नियमाभावाच्च । अस्तु वा आश्रयत्वं जातिः, यथा एकस्मिन् घटे नष्टे घटान्तरे घटत्वमवतिष्ठते । व्यक्त्यन्तरे आश्रयत्वस्यावस्थानसम्भवात् । जननेन यत् प्राप्यते या सा जातिरिति भाष्यमते जातेनित्यत्वमिति नियमाभावाच्च । किंञ्चाकृतिरेव शब्दार्थ इति मते अभावत्वगगनत्वादिकमपि जातिरेव । यथा घटत्वजातिरनेकघटदर्शनादेव बालैनिश्चीयते । एवमाश्रयत्वेऽपि अनयोः कर्तृकर्मणोः प्रतीतेः सम्भवादित्यत्रान्वयः । *आक्षेपादिति । कर्तादिकमन्तरा व्यापाराद्यसम्भवात् ।। ___ ननु शाब्दिकमते आदेशानामेव वाचकतया लकाराणां कथं वाचकतेत्यत आह*बोधकतारूपमिति । तत्तत्स्थानित्वेन तिबादिस्थानित्वेन तार्किकमतं शङ्कते-*नचे. ति । *अयोगादिति । कृतेरपि व्यापारविशेषत्वादिति भावः । *अथेति । मण्ड. नमिश्रमते फलमानं धात्वर्थः, भावनाऽऽख्यातार्थः । आख्यातार्थभावनाश्रयत्वादेव कर्त्तत्वम् । *कृतामपीति । तत्रापि कादिपदस्य कर्त्तत्वादिपरत्वापत्तौ व्यापारवाच. कत्वापत्तेरिति भावः । ननु तत्र “कर्तरि कृत्" इति सूत्रं मानमत आह*-लः कर्मणी. Page #474 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। .४४५ त्यनेनेति । तत एव कादिपदस्यानुवृत्तेरिति भावः । अलब्धलाभो योगः, लब्धस्य परिपालनं क्षेमः। _ ननु पाचको देवदत्त इत्यदिसामानाधिकरण्यानुरोधात् कृतां कर्त्तवाचकत्वमित्यारु. चेराह-*अपिचेति । यत्नार्थकत्ववादिनो नैयायिकान्निराकृत्य मीमांसकमतं दूषयति*मीमांसकानामिति*। *कृदादिवदिति । यथा कृदादौ भावनाऽक्षिप्यते, तथेहास्त्विति भावः । तथासति आक्षेपलभ्यत्वे सति न स्यादिति प्रत्ययार्थत्वाभावादित्यर्थः । *आ. क्षिप्तव्यक्तेरिति । जातिशक्तिवादिनामाक्षेपेण व्यक्तबोधात् । *कर्त्तरपीति । पचतीत्यस्य पाचक इति विवरणात् ततः विवरणम् । __नन्वेवं सर्वत्र विवरणस्य शक्तिग्राहकत्वोच्छेद इत्यरुचेराह-*किञ्चेति । *अभेदान्वयेति । अन्यथान्यस्मिन्नपि पचति देवदत्तः पचतीति प्रयोगापत्तेरिति भावः । *तञ्चात्र नास्तीति । कर्तवाचकत्वसाधकं सामानाधिकरण्यं नास्तीत्यर्थः। *इत्यादावपीति । तस्मानामार्थधात्वर्थयो मार्थयोश्च साक्षादभेदातिक्तसम्बन्धेनान्वयो नास्ती. त्येव परेषां नियम इति भावः। *पिङ्गाक्ष्यादीति । पिङ्गे अक्षिणी यस्या इति षष्ट्यन्तेन विग्रहे “अनेकमन्यपदार्थ” इत्यनेन षष्ठयर्थसमासविधानात्पिङ्गाक्षिसम्बन्धि इत्येवार्थः स्यादतो गवादिसामानाधिकरण्यानुरोधात्सम्बन्धाक्षिप्तसम्बन्धिसमासार्थसिद्धान्ता. सङ्गतिः।आक्षेपितं सम्बन्धिनमादायैव सामानाधिकरण्यसम्भवादिति भावः । *षष्ट्य. र्थ एवेति । अन्यपदार्थ इत्यत्र पदं सुएतिङन्तम् । पदे च प्रत्ययार्थस्य प्राधान्यादन्यविभक्त्यर्थ इति लभ्यते इति भावः । *द्रव्यानुक्तेरिति । एतच्च । उच्छेदापत्तिरित्यत्र हेतुः । *अरुण्यस्येति । तन्मते जातिरेव शब्दार्थत्वात्स्ववाक्योपात्तद्रव्ये गवि उक्तरीत्या आक्षेपेण इदं तिङो वाचकत्वाभिधानम् । *फलं प्रतीति । एतच्च कर्त्तप्रत्ययस्थले । पक्क इत्यादौ तु व्यापार प्रति फलस्यैव प्राधान्यम् । एतदर्थमेव फलव्यापा. रयोः पृथक् शक्तिरुक्ता, नतु फलावच्छिन्ने व्यापारे । *कर्तरीति* । विशेषणमित्यनुषज्यते । *समानप्रत्ययोपात्तत्वादिति* । एतेन शब्दान्तरानुसन्धानप्रयुक्तलाघवं दर्शितम् । तथाचेति । कर्ताद्युपस्थितिविषयतया कादौ, तत्र प्रकारतया संख्याबोधः । *इतराविशेषणत्वेति । इवार्थसादृश्ये चन्द्रस्य विशेषणत्वान्न तत्र संख्यान्वयः । *इदमपि-कार्यकारणभावलाघवमपि। *तच*-धातोरिति पदं च । *तत्रैव = व्यापारे एव । *तदन्वयः = कालान्वयः। *कत्तकर्मणोरेवेति । समानप्रत्ययोपात्तत्वादिति भावः । *प्रयोगापत्तिरिति । फलरूपव्यापारस्य वर्तमानत्वादिति भावः । वचनवि. रोधमुक्त्वा युक्तिविरोधमप्याह-*अपिचेति । तमित्यादि कर्माध्याहारे दोषमाह*भाष्यसिद्धेति* । भाष्यसिद्धलौकिकैकवाक्यतेत्यर्थः । “एकतिङ् वाक्यम्" इति वा. तिकं तु निघातमात्रविषयकमिति भावः। यद्यपि तिङतद्वये एकवाक्यताभावादेव निघाताप्राप्तावतिग्रहणं व्यर्थमित्युक्तं भाष्ये, तथापि पचतिभवतीत्यत्र पाको भवतीत्यर्थादेकवाक्यता भाष्ये एव स्वीकृतेति भावः। किञ्च भिन्नवाक्यतां स्वीकृत्य निर्वाहेऽपि अध्याहारस्यासार्वत्रिकतयाऽपाक्षीदू देवदत्तोऽवेहीत्यत्र कदाचित् द्वितीया. पि स्यादिति बोध्यम् । वाक्यार्थस्य कर्मत्वान्न द्वितीयेति असम्भवदुक्तिकत्वादन्यत्र निराकृतम् । अध्याहारे युक्तिविरोधमप्याह-*उत्कटेति* । 'पश्य देवदत्तो गायतिः इत्यादावस्मन्मते अध्याहारादिना निर्वाहः संभवति । तार्किकाणां तु शणु देवदत्तो गायतीत्यादावगतिरेव । फले कर्तुरन्वयवारणायाह-*भावनात्वावच्छिन्नेत्यादि । Page #475 -------------------------------------------------------------------------- ________________ ४४६ वैयाकरणभूषणव्याख्यायाम् । ननु नाशरूपव्यापारस्य नित्यत्वात्सर्वदा नश्यतीति प्रयोगापत्तिरत आह-*घटो नश्यतीत्यत्रापीति* । ननु नाशसामग्री नाशोत्पादको व्यापारः, तस्य घटादावभावात् घटादेः कर्त्तत्वानापत्तिरत आह-*प्रतियोगित्वसहितेति । समानदेशकालवृत्तित्वस. म्बन्धेन नाशसामग्रिविशिष्टप्रतियोगित्वमित्यर्थः । नातो मुद्गरप्रक्षेपादिरूपव्यापारमादाय देवदत्तो नश्यतीति प्रयोगः। यद्यपि प्रागभाववत् ध्वंसोऽपि कपालादिवृत्तिरेव, न घटादिवृत्तिः, तथापि प्रतियोगित्वरूपव्यापारो घटादावस्त्येव । *तदत्यये इति । सामग्रीरूपविशेषणाभावप्रयुक्त एव विशिष्टाभाव इति भावः । एवं चोक्तदोषवारणाय उत्पत्तेरप्याख्यातार्थत्वमिति तार्किकोक्तं नादर्तव्यम् । *ज्ञानेच्छादीति । अत्र फलता. घटकः सम्बन्धी विषयता । अत एव फलव्यापारयोभिन्ननिष्ठत्वात्सकर्मकत्वम् ।। ननु मनोयोगादिरूपव्यापाराभावादीश्वरो जानातीति प्रयोगानापत्तिरत आह*अन्तत आश्रयतैवेति । यद्यपि व्यापारसमुदायत्वरूपक्रियात्वमाश्रयताया न संभवतिः तथापि तत्तत्कालिकानां राज्ञां क्रिया' इत्यादि वक्ष्यमाणरीत्यात्रापि आरोपो बोध्यः । *फले तङिति* । अत्र तङ् परस्मैपदिभ्य उत्पन्न उपसर्गप्रयुक्तश्च ग्राह्यः । तेन एधते निविशते इत्यादौ नातिव्याप्तिः। यद्यपि शबाद्यभावेऽपि लिङादौ कर्तुबोधः। गच्छ इत्यादौ च तिबाद्यभावेऽपि कर्तुर्बोध इति तुल्यत्वाद्विनिगमनाविरहाच्छबादीनां वाचकत्वं संभवति, तथापि गच्छेत्यादौ 'यः शिष्यत' इति न्यायेन बोधात्तिबादीनामेव वाचकत्वम् । यद्यपि नित्यशब्ददर्शने गच्छेत्येव बोधकम् , तथापि प्रक्रियादशामादायैवात्र सर्वो व्यवहारः । यञ्चिणादीनामपि क्वचित्फलाश्रयबोधकत्वं नास्तीत्याशङ्कते-*नन्वे. वमिति*। *सामान्यविशेषज्ञानेति । तच्च 'चयस्त्विषाम्' इत्यादिनोक्तम् । *सार्वधातकेति। तेन सज्जते इत्यादेनिरासः। भावसाधारणो विधिःभावकर्मसाधारण्येन विहितः "सार्वधातुके यक्" इत्यादि । *प्राभाकरादीन्प्रति* । तन्मते फलानुकूलो व्यापारो धात्वर्थः । कृतिरूपा भावना आख्यातार्थः । साऽपि लिङादीनामेव वाच्या । तथाहि भावनानामप्रवृत्यनुकूलो व्यापारः। प्रवर्तकत्वं च लिङ् लोट् तव्यादीनामेवेति भावः । अनमीमांसकाः-धातुना सिद्धो भावो दानयागादिरुच्यते । तद्तंसाध्यत्वं तु आ. ख्यातेनोच्यते इत्याख्यातार्थो भावना । तदाहुः-धात्वर्थव्यतिरेकेण यद्यप्येषान लक्ष्यते, तथापि सर्वसाधारणरूपेणैवाभिधीयते इति यत्न एव भावना । पचतीत्यस्य पाके प. चतीतिप्रतीत्या यत्नस्य धात्वर्थत्वाभावात् रथो गच्छतीत्यादावाश्रयत्वरूपैव भावना, तस्याश्च साध्यत्वरूपत्वेन भानस्य पर्वताःसन्तीत्यादौ शाब्दिकैरपि स्वीकारादित्यन्ये। - सा चेयं सर्वाख्यातवाच्या अर्थभावनेत्युच्यते इति वदन्ति, तान् दूषयति-*व्या पारो भावनेति* । धात्वर्थस्य सिद्धरूपत्वाभावाद्व्यापार एवं भावनेति भावः । भा. वना सकर्मिकैव क्रियात्वर्मिकापीति । भेदे सत्यपि साध्यत्वाविशेषाद्भावनाव्यापारयोरभेद इति पुञ्जराजः । *अयत्नानाम् = यत्नभिन्नानाम् । भावनाशब्देन यत्नस्यैव शास्रान्तरे प्रसिद्धतया फूत्कारादिसंग्रहार्थ व्यापार इत्युक्तमिति भावः। *नचैवमि. ति* । व्यापारत्वस्योपाधित्वेन शक्यतावच्छेदकत्वासंभवात् फूत्कारत्वादीनां चाननुगतत्वात् फलानुकुलो यत्न एव धात्वर्थः । कृतित्वं शक्यतावच्छेदकमित्यर्थः । एतच्च न तेषां मतम् । व्यापारो धात्वर्थः, कृतिराख्यातार्थ इति तु तेषां सिद्धान्तः। अत एव नैयायिकमतमित्यपहाय रीतिरित्युक्तम् । नैयायिकखण्डने विवक्षिते त्वित्थं व्या. Page #476 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः। ४४७ ख्येयम् । उक्तविवरणाद्भावनाया वाच्यत्वं लब्धम् । तत्र धारणात्तस्य कर्तृवाचितया परिशेषाद्भावना धात्वर्थ इति भावः। ननु परिशेषादित्युक्तमयुक्तम् । कर्तुराख्यातार्थत्वे अनन्तव्यापाररूपकत्तत्वस्य शक्यतावच्छेदकत्वापत्तिरित्याशङते-*न चैवमिति । -*व्यापारत्वादीति । अनुकूल. व्यापारे लक्षणा । आदिना विद्यते इत्यादावाश्रयत्वादौ लक्षणा शक्यतावच्छेदकस्या. पीति आख्यातस्य कर्तरि शक्ती व्यापाररूपं कर्तृत्वं शक्यतावच्छेदकम् । तव तु लक्ष्यतावच्छेदकगौरवमित्यर्थः । *यत्न एवेति* । उक्तविवरणादाख्यातस्य यत्नोऽर्थ इत्यर्थः । नैयायिकान्निराकृत्य प्रकृतोपयोगितया मण्डनमिश्रमतं निराकरोति*किञ्चेति। तन्मते फलमात्रस्य धात्वर्थतया आख्यातार्था भावना, तथा च णिजर्थव्यापारजन्योत्पत्तिरूपफलाश्रयत्वाद्धटो भवतीत्यत्रापि द्वितीया स्यात् । तन्मते तु धात्वर्थव्यापाराश्रयत्वेन परया कर्त्तसंज्ञया कर्मसंज्ञा बाध्यत इति भावः । *भावनाया अवाच्यत्वे इति* । यत्नो धात्वर्थ इति तार्किकैकदेशिमते मण्डनमते च व्यापारस्य धात्वर्थत्वाभावात् । *अन्यतमत्वमिति* । सकर्मकधातुत्वं तत्तद्वयक्तित्वेनोपादाय एतदन्यतमत्वं सकर्मकत्वं वाच्यमित्यर्थः । *एकस्यैवेति । यथा खदधातुः स्थैर्येऽकर्मकः, हिंसायां सकर्मकः । पूर्व केवलफलवाचकत्वनिराकरणपरतया व्याख्यातमिदानी केवलव्यापारवाचकतानिराकरणपरतया व्याचष्टे-*अथ वेति । *तत्साधयन्*-वाचकत्वं साधयन् । व्यापार एवेति । फलं तु कर्मप्रत्ययार्थः । प्रत्ययार्थफलाश्रयत्वादेव च कर्मत्वमिति भावः । *भाक्त इति । भक्तिर्लक्षणा, भाक्तो गौणः । सविषयार्थकधातुयोगे विषयत्वं द्वितीयार्थः । सविषयार्थत्वं गौणसकर्मकत्वमिति ता. किकसिद्धात इति भावः । *यत्नमात्रमिति । व्यापारस्थानीयमित्यर्थः । *युक्त्यन्तरमिति। सकर्मकाकर्मकविभागोच्छेदस्य पूर्वमुक्तत्वात्तदपेक्षया युक्त्यन्तरमित्यर्थः। *सूत्रं लक्ष्यत इति । सूत्रप्रवृत्तिर्लक्ष्यते इत्यर्थः । *उपपद्यन्ते इति । कर्मावस्थायां या क्रिया सैव कर्जवस्थायां चेत्तदैव यगादयो भवन्ति। कृतिश्च न घटादिनिष्ठेति भावः । *निर्वर्त्यमिति । सुवर्ण कुण्डलं करोतीत्यत्र कुण्डलं निर्व] कर्म । सुवर्ण विकार्य्यम् । प्रकृतिपरिणाम एव विकृतिरिति मते तु कुण्डलं विकार्यमेव । तदुक्तं हरिणा सती वा विद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥१॥ इति यस्य घटादेः सत्ता प्रकृतिर्मदादिः, अविद्यमाना वाशब्दे संयोगादेर्वादिना अभिनत्वेन नाश्रीयते । तस्य निर्वत्यं कर्म । अभेदेन परिणामेन बहुना तु विकार्यमिति तदर्थः । *क्रिया कृतेति । यथा हि पाकादिना तण्डुलादौ विशेषो भवति। नैवं गमनादीनां ग्रामादौ । *उपलक्षणत्वेऽपीति । संयोगोपलक्षितो व्यापारो गमधात्वर्थ इति भावः । वदन्तीत्यस्वरसस्तु तत्तत्फलबोधे तत्तद्धातुसमभिव्याहारस्य नियामकत्वान्न दोष इति । निर्विवादमिति* । सकर्मकस्थले फलस्य द्वितीयार्थत्वात् व्यर्थत्वं सम्भवति । भवतीत्यादौ च सत्तादिरूपफलवाचकत्वं धातोरेव सम्भवतीति भावः । *द्वयर्थः पचिरिति । विक्लेदनो निर्वर्तना च पचेरर्थः। तण्डुलान् विक्लेदयन् ओदनं निर्वर्त्तयतीत्यर्थात्। *न्यायविरुद्धत्वादिति* | "प्रत्ययार्थः प्रधानम् इति न्यायादाख्यातार्थ एव भावनेत्यर्थः। *स्वयुक्तेति । स्वं धातुस्तद्युक्तं यदाख्यातं तदर्थ इत्यर्थः। सकलमीमांसकैः फलव्यापारयोर्धातुवाच्यत्वं स्वीक्रियते, नतु केवलफलस्येत्यभिप्रेत्याह-*मीमांसकंमन्यमिति*। *तद्विधानलाभे इति* । कर्तृपदस्य कर्त्तत्त्वपरतया Page #477 -------------------------------------------------------------------------- ________________ ४४० यैयाकरणभूषणव्याख्यायाम् । व्यापारवाचित्वलाभादिति भावः । *वैयापत्येति । अत एव तद्विरोधः । *सकलव्यापारेति । पराभिमतभावनारूपव्यापारस्यापि लाभादित्यर्थः। *मीमांसकोक्तं बाधकमिति* । “प्रत्ययार्थः प्रधानम्" इति न्यायविरोधरूपमित्यर्थः । *अरुणाधिकरणेति । "अरुणया एकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति"इत्यत्र कारकाणां क्रिययैवान्वया. दरुणया क्रीणाति एकहायन्या क्रीणातीत्यादिक्रमेण पृथगेवान्वयः । पश्चात् या अरूणा सा एकहायनीत्यादिको मानसोऽभेदबोधः । *वक्ष्यमाणेति* । क्रियायोग एव कारकसंज्ञाविधानात् । *सम्बन्धमात्रमिति । भावार्थाधिकरणे "ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्युदाहृत्य भट्टपादैः सिद्धान्तितमाख्यातार्थभावनायां स्वर्गकामपदोपात्तः स्वर्ग एव फलत्वेन संबध्यते, न तु धात्वर्थो यागः । तस्यापुण्यरूपत्वेनापुरुषार्थत्वात् । नच स्वर्गस्य भिन्नवाक्योपात्तत्वादाख्यातरूपसमानरूपपदश्रुतेरेव चरितार्थत्वात् । सर्वत्रैव हि धात्वर्थभावनया सम्बन्धसामान्यमेव श्रुत्या प्रत्याय्यते, । तस्य सम्बन्धसामान्यस्य एकोऽशस्सम्बन्धविशेषस्तस्य निवेशे बोधने तु श्रुतेः सामर्थ्य नास्ति । यथा पचतीत्यत्र पाकसम्बन्धिनी भावनेत्येव श्रौतोऽर्थः। पाकानकलाभावनेति त पश्चान्मोनसोबोधः। अत एव 'दधना जुहोति' इत्यत्र दधि जहोतीत्यर्थः । ज्योतिष्टोमेनेत्यत्र तु यागस्य मानसः पाटिकः करणत्वबोधः । *लडाद्यन्ते इति । लिङ्ग लोट तव्यादिस्थले एव प्रवर्तकत्वादिप्रतीत्या तेषामेव भावना वाच्येति भावः । विवियमाणस्यापीति*। उक्तविवरणाद्वावनाया वाच्यत्वमावश्यकम् । तत्र चाख्यातस्य कर्तृवाचकत्वापरिशेषाद्धातोरेवार्थो भावनेति भावः । __ननु यदि कर्तुराख्यातार्थत्वं स्यात्तदैवोक्तयुक्त्या भावनाधात्वर्थः स्यात् , तदेव तु न। कर्तरि शक्तौ अनन्तव्यापाररूपकर्तृत्वस्य शक्यतावच्छेदकत्वे गौरवादित्याशङ्कते. *नचैवमिति* । असिद्धस्यापि यागस्य स्वकरणनिष्पन्नस्य करणत्वसम्भवात् सोमा. दीनां तु साक्षात् करणत्वं न सम्भवति, नहि क्रियामन्तरेण काष्ठादिमात्रात्पाक उत्पद्यते इति । *शक्यतावच्छेदकरूपेणैवेति । तीरे प्रवाहत्वमारोप्य प्रवाहत्वेनैव रूपेण तीरबोधात् शैत्यपावनत्वादीनां प्रतीतिरिति भावः । *न नैयायिकादीनामिति । 'कचतस्त्रस्यति वदनम्' इत्यत्र कचत्वादिना बोधे राहुत्वादिप्रकारकबोधाभावात् त्रासकत्वानापत्तेरिति भावः । *विपर्ययेणापि व्युत्पन्नानामिति । व्याकरणाभिज्ञेन केनचित् द्वितीयाद्यर्थकर्मत्वादीन् कर्मत्वादिशब्दैरेव बोधयितुमिच्छता घटः कर्मत्वमित्यादिप्रयुक्तम् । प्रयोज्येन च व्याकरणलक्षणजेनार्थमनुसन्धाय घटीया कर्मतेत्याद्यर्थोऽवगतः, तस्य तद्वाक्यं साकासमेवेति भावः । एवंप्रकारिकापि व्युत्पत्तिाकरणव्युत्पत्तिमतमिव भवतीत्यभिप्रेत्य विपर्ययेणापीत्यपि शब्द उक्तः, व्याकरणव्युत्पत्तिमूलकविपरीतव्युत्पत्तिमतामित्यर्थः । *तन्निराकासमेवेति । घटीया कर्मतेति बोधे निराकाकमेवेत्यर्थः । यस्य पदस्य यत्पदव्यतिरेकप्रयुक्तान्वयः। ननु भावकत्वं तत्पदे तत्पदवत्वमाकाक्षेति नीलपदं विनापि घटमानयेत्यादावन्वयदर्शनादभेदबोधे समानविभक्तिकत्वमेवाकाङ्क्षा, घटः कर्मत्वमित्यादावपि अभेदबोधे आकाङ्क्षाऽस्त्येव, किंतु योग्यता नास्ति । योग्यताभ्रमे त्वभेदबोधो भवत्येवेति नैयायिकवचनं न कार्यमित्याकारकं प्रचीनवैयाकरणसूत्रं व्यर्थमित्यर्थः । *एवं सत्यपि । व्युत्पत्यनुसारित्वे सत्यपि । *भाट्टरीतिरिति । कर्तादिना भावनाऽक्षिप्यते इति तदु. क्तः । *तथात्वापत्तौ* = भावनाक्षेपापत्तौ । *कर्तुंर्वाच्यत्वमिति* । कृदन्त इत्यादि उ Page #478 -------------------------------------------------------------------------- ________________ धात्वर्थनिर्णयः । त्पत्तौ ग्रहे वेति अन्योन्याश्रयस्य दूषकत्वं च तर्कविधया । तथाहि - घटो यदि घटजन्यः स्यात्, घटाद्भिन्नः स्यादिति । एवं ज्ञप्तावपि बोध्यम् । स्थितावन्योन्याश्रयस्तु नोक्तः । व्याकरणे प्रयोजनाभावात् । *क्रियाशब्देनेति । “कर्मवत्कर्मणा तुल्यक्रियः" इत्यत्र क्रियाशब्देन फलस्यैव ग्रहणात् । *अस्त्यादावपीति । उत्पत्यनुकूलव्यापार आत्मधारणानुकूलो व्यापारश्चास्त्यादीनामर्थः । तत्र धर्मिणि उत्पाद्यत्वेन विवक्षिते सति "रोहितो लोहितादासीत्" इत्यादावुत्पत्यनुकूलव्यापारः प्रतीयते एव । *अन्यत्रेति-आत्मधारणानुकूलव्यापारार्थके घटोऽस्तीत्यादौ फलव्यापारयोः समानाधिकरणत्वाद्भावना स्फुटं न प्रतीयते इत्यर्थः । *अन्तर्भावादिति । आत्मरूपकर्मणो धात्वर्थेऽन्तर्भावादित्यर्थः । 1 : ननु घटोऽस्तीत्यादौ साध्यभावना यस्य प्रतीयते, तदानीं वा सिद्धस्य घटस्य न कर्त्तृत्वसम्भवः, निष्पन्नेन घटेन साध्यमानत्वासम्भव इति चेन्न । बौद्धघटस्य वास्य घटे स्वभेदमध्यस्योभन्त्रोपपादनात् । *भागरूपसत्वादिति । तथा च तत्रापि पृथक् शक्तिमादाय धात्वर्थस्य सिद्धत्वापत्तिरिति भावः । वस्तुतः प्रत्ययेन कर्त्राद्यभिधानात्साधनवर्तित्वमित्यर्थं इति । *यथाक्रममिति । पश्येत्यत्र साध्यरूपता धावतीत्यत्र सा न रूपतेत्यर्थः । धातुना = धातुभागेन, तथाभिधाने - साध्यत्वाभिधाने । *कर्मषष्ट्य एवेति । क्रियायोगं विना कर्मत्वासम्भवात् धातोः साध्यक्रियावाचकत्वे 'काहैः पाकः, इत्यपि स्यादिति मीमांसकैर्यदुक्तं तत्रेष्टापत्तिमाह- इष्टमेवेति* | *उपपद्यत इति । पचतीत्यत्र विक्लित्तिमुत्पादयतीत्यर्थाद् व्यापारं प्रति फलस्यापि कर्मतया तद्विशेषणे स्तोकमित्यत्र यथा द्वितीया, तथा 'स्तोकं पाक' इत्यत्रापीत्यर्थः । क्रियाविशेषणानां कर्मत्वमित्यस्य वाचनिकत्वं वदतां तार्किकादीनां तु 'ज्योतिष्टोमेन यजेत' इत्यादावपि द्वितीयापत्तिः । 'स्तोकः पाकः' इति घञन्तार्थव्यापारविशेषणत्वात्प्रथमा । प्रयोगसाधुतामात्रमस्तु इत्याशङ्कते -नचेति । *समानवाक्ये इति । 'आख्यातं सविशेषणं वाक्यम्' इति वार्त्तिककारोक्तेः सम्बोधनस्य विशेषणत्वमेव न्याय्यमिति भावः । *तत्क्रियायां विशेषणमिति । सम्बोध्यमानदेवदत्तविषया या व्रजतिक्रिया सा असम्बोध्यमानदेवदत्तविषयकव्रजतिक्रियापेक्षया भिन्नेति भावः । सिद्ध्यावर्त्तकत्वरूपं विशेषणत्वम् । तथा चैकवाक्यत्वात्पदात्परस्यामन्त्रितस्येत्यनुदात्तः । देवदत्त व्रजतीति तु नोदाहृतम् । आमन्त्रितं पूर्वमविद्यमानवद्भावेन पदात्परत्वाभावात् सूत्ररीतिमाह-इति सूत्रयतेति । अन्यथा तिङन्तद्वये एकवाक्यत्वाभावेन "अतिङ" इति निषेधवैयर्थ्यादिति भावः । भाष्यकृता तु पचतिभवतीत्यस्य पाको भवतीत्यर्थः । स्वमुखेनैवोक्तः । तदुक्तं हरिणा एकतिङ् पश्य वाक्यं तु शास्त्रे नियतलक्षणम् । तस्यातिग्रहणे नार्थो वाक्यभेदान्न विद्यते ॥ इति । बहुष्वपि तिङन्तेषु साकाङ्क्षष्वेकवाक्यता । fastfast निघातस्य प्रतिषेधस्तथार्थवान् ॥ इति च । अत एव चोक्तम् तथा तिङन्तमाहुतिङन्तस्य विशेषणम् ॥ इति । एवं च पूर्व स्वाभिमतो व्रजतीत्यत्र तत इत्यस्मात्परस्य व्रजतीत्यस्य " तिङ" इति निघातः सिद्धः । *यौगिक इति । क्रियते या सा क्रिया: संज्ञाशब्दप्राबल्यादिति दु० प० ५७ Page #479 -------------------------------------------------------------------------- ________________ VY वयाकरणभूषणव्याख्यायाम् । ज्योतिष्टोमे श्रूयते रथन्तरमुत्तरयोर्गायतीति ऋचाङ्गानुविशेषो रथन्तरं तत्र "न अभित्वाशूरनो नुमः” इति ऋक् "रथन्तरं साम्नो योनिस्तदुत्तरं चत्वासिद्धि हवामह" इत्यादिका ऋचस्सन्ति । तत्र रथन्तरं साम गेयम् । उत्तराशब्दस्य संज्ञाशब्दतया उत्तरासंज्ञकग्रन्थे पठ्यमानकत्वेन रथन्तरं गेयं उत्तराग्रन्थे हि सर्वेषां साम्नां योनिमुत्तरा. ऋचः विशिष्य सन्तीति सिद्धान्तः । *तद्वयतिरेकेण* । क्रियाव्यतिरेकेण । आहुरित्यस्वरसस्तु क्रियारहितमपि त्वया एधितव्यमित्यादि 'वाक्यं स्पष्टमेव । तदुक्तं हरिणा ___ वाक्यं तदपि मन्यन्ते यत्पदं चरितक्रियम् ॥ इति गर्भितक्रियं पिण्डीमित्येतदपि वाक्यमिति तदर्थः । इति महानसवदिति । अत्र वृत्यर्थस्य महानससादृश्यस्य पर्वतेऽन्वयः । स चायुक्तः क्रियासादृश्ये एव वतिविधानादिति भावः । अत एव भवितुमर्हतीति अत्राध्याहियते इति प्रामाणिकाः । वस्तुतस्तु "तन्त्र तस्येव" इति सुत्रं क्रियाभावेऽपि वतिविधानार्थमिति ध्येयम् । *स्पृहि. कल्पनेति । पुष्पेभ्यः स्पृहयति इति पदाध्याहारोऽपि तत्र व्यर्थः स्यादित्यर्थः । *कृतपूर्वीति । अत्र कर्मणोऽविवक्षया भाषे क्तः । कृतं पूर्वमनेनेति विग्रहः । पश्चात्कटादि. कर्मयोगः । आहुरित्यस्वरसस्तु "द्विर्वचनेऽचि इतिनिर्देशादेव साध्यावस्थक्रियाया अपिग्रहणम् । “संख्यायाः क्रियाभ्यावृत्ति" इतिसूत्रे क्रियाग्रहणं तूत्तरार्थमिति । परे तु भोक्तुं गत इत्याद्यसाध्वेव । अत एव "उपपदमति” इति सूत्रे अतिङ्ग्रहणस्य क्रियावाचिनि लक्षणया कारको गत इत्यत्र समासनिषेधः फलमित्युक्तो नैतक्रियावाचीति उक्तं भाष्ये इत्याहुः । *भेद्यभेदकेति । विशेष्यविशेषणयोः परस्परसम्बद्धयोर्बोधे यादृशानुपूर्त्या साधुत्वं सूत्रकारादिभिरुक्तं स तत्र साधुः । बोधस्त्व. साधुशब्दादपि जायते एवेत्यर्थः। *श्रुत्या-आख्यातश्रुत्या। प्रकरणात् तत्र तु प्र. करणपाठात् , क्रत्वर्थत्वे सति अनृतवदने क्रतोर्नेगुण्यम् । पुरुषार्थत्वे तु पुरुषस्य प्रत्य. वायः। *जाभ्यमान:* =जम्भया विदारितमुखः। *अत्र विधिवदिति । यथा वं मन्त्रप्रकरणात् क्रत्वङ्ग तथेत्यर्थः।। इति धात्वाख्यातार्थनिर्णयः । अथ लकारार्थनिर्णयः। अत्र केचित्कालं क्रियात्मकमाहुः। अपरे क्षणसमूहमाहुः । तन्त्रान्तरप्रणेतारस्त्व. खण्डमतिरिक्तं कालमाहुस्तन्निखिलनयेऽपि वर्तमानकालस्य प्रत्यक्षेण निश्चेतुमशक्यत्वादनुमानगम्यत्वमाह-*प्रारब्धापरिसमाप्तत्वमिति । अधिश्रयणान्ते इत्येतत्प य॑न्तं मध्ये इत्यस्य विशेषणम् । *तदस्ति=वर्तमानत्वमस्ति। एतच्च लक्षण क्रियाकालयोरक्यमतेन, तयोर्भदे तु प्रारब्धापरिसमाप्तक्रियोपलक्षितत्वं वर्तमानत्व मिति बोध्यम् । 'क्रियाभेदाय कालस्तु' इति भाष्ये कालस्य क्रियाभेदकत्वलाभात्। ननु व्यापारसमुदायः क्रिया । आत्मास्तीत्यादौ च स्थितिरूपो क्रिया एकविधा। यथाहि पच्यादौ फूत्कारादीनामवयवानां वैलक्ष्यण्यात्तत्समुदायस्य भवति क्रियात्वम्। तथात्रावयववैलक्षण्याभावेन तदसम्भव इत्याशङ्याह-*तत्तत्कालिकानामिति । तेषां क्रिया हि विलक्षणावयवत्वेनानुमीयमाना तत्साहचर्य्यात्पर्वतादिक्रियाणामपि वर्तमानत्वमितिभावः । तिष्ठतेरधिकरणमिति । क्रियायाः कालत्वमभिप्रेत्येदम् । Page #480 -------------------------------------------------------------------------- ________________ सुबर्थनिर्णयः । ४५१ *आत्मा तु*-स्वरूपं तु। *न विकल्प्यते*-न भिद्यते । पररूपेण =परकीयक्रियारूपेण । *तम आसीदिति* । अन्धेन तमसा निगूढमप्रज्ञातमने सृष्टः प्राक् तदा हिन किंचिदासीत् , तुच्छेन-सूक्ष्मीभूतेन घटमण्डपस्थानीयेन कर्मणा यदपिहितमिव जग. दासीत् । आसमन्ताद्भवतीत्याभु अज्ञानं तमः इति श्रुत्यर्थः । *अद्यतनानद्यतनेति । अद्य भवोऽद्यतनः, अत्र समुदायावयवभेदपरिकल्पनया एकस्यैव कालस्याधाराधेयपदेन निर्देशः । अत एवोक्तं हरिणा काल कालस्याप्यपरं कालं निर्दिशन्त्येव लौकिकाः ॥ इति । ___ *इत्येतादृशं विषयतेति । एतादृशानुव्यवसायनिरूपिता या विषयता तन्निरूपकं यज्ञानं तदविषयत्वमित्यर्थः । *पूर्वापरीभूतावयवमिति* । पिण्डीभावासम्भवबोधज्ञा या पिण्डीभूता या इति । अवयवानां क्षणिकत्वे पिण्डीभावस्यैवासम्भवादिति भावः। *क्रियाविष्टानाम्*-क्रियाविशिष्टानाम् । वदन्तीत्यस्वरसस्तु क्रियाप्रत्यक्षं विना तद्विशिष्टसाधनस्यापि प्रत्यक्षासम्भव इति । *तत्वं चेति*। *वर्त्तमानः प्रागभावः* = उत्तरसमयप्रागभावः। तत्प्रतियोगी उत्तरसमयः । *न्यायव्युत्पादनार्थम् = प्रवर्तनाभेदज्ञानार्थम् । *प्रपञ्चार्थम्* --शिष्यबुद्धिवैशिष्यार्थम् । *अर्थान्तरेऽपीति । तद्यथा "स्वर्गकामो यजेत" इत्यादि उपदेशोऽनेन पथा यात्वित्या. दिश्य विधावन्तर्भवति । कुरुष्व यथाहितमिति । प्रारब्धं कुर्विति चामन्त्रणं कामचारेण करणे प्रतिबन्धकशङ्का निवर्त्तनं स्वामन्त्रणम् । इति लकारार्थनिर्णयः ।। अथ सुबर्थनिर्णयः। *सुपाकर्मादयोऽप्यर्था इति*। *इति भाष्यत इति । भाष्यादित्यर्थः । *इत्यापत्त. रिति । पूर्वक्रमेण जानामीत्यस्यानापत्तेरित्यर्थः । *सत्कार्य्यवादेति । कारणे सूक्ष्मरू. पेण स्थितस्याविर्भाव एवोत्पत्तिः । असत एवोत्पत्तौ तु सर्वत्र सर्वमुत्पद्येतेति भावः । - ननु नाशस्यावस्तुतया कथं सत्तात्मकत्वमत आह-*तिरोभावेति । अयम्भाव:नित्या ब्रह्मात्मिका सत्ता न निरन्वयनाशसहेति । अभावो नाम न भावादव्यतिरिक्तः, किंतु सत्तैव । तिरोभूय स्वकारणेषु शक्तिरूपतया स्थिता वस्तूनां नाशः, सैवच तिरोभावावस्था । साधनसंपर्कात् क्रमवत्वेन प्रतीयमाना नश्यतीत्याख्यातेन न प्रत्याय्यते इति लब्धक्रमे इत्यनेन साध्यरूपता दर्शिता, नष्टे नश्यतीति प्रयोगश्च वारितः । *आद्यदोषेति । गच्छन्तीत्यादौ कर्तुः कर्मत्वापत्तिरूपेत्यर्थः। द्वितीयेति । प्रयागात्का. शीमित्यत्रत्येत्यर्थः । औदासीन्येन प्राप्यं तृणादि, अनीप्सितं विषादि, संज्ञान्तरैरना. ख्यातम् "अकथितं च इति विहितं अन्यपूर्वकम् “अधिशीस्थासां कर्म" इत्यादिना विहितम् । असजायते इति तार्किकरीत्येदम् । असदुत्पत्तेनिराकृतत्वादाह-*सहेति। *धातुनोक्तेति । धातुनोक्ता क्रिया यस्य तस्मिन् कारके नित्यं कर्त्ततेष्यते इत्यर्थः । *कर्तृकर्मव्यपदेशाच्चेति । “मनोमयः प्राणशरीर उपास्य” इति श्रुतं मनोमयत्वादिगुणकं ब्रह्मैव, नतु जीव इति पूर्वसूत्रे प्रतिपादितम् । तत्रैव हेत्वन्तरं प्राह-*कर्मकत्रित्यादि। मनोमयादिशब्देन जीवस्यैव ग्रहणे तस्यैव कर्मत्वं कर्तत्वं विरुद्ध स्यातामित्यर्थः । तस्य जीवस्य वाक्यशेषमाह-*एतमिति । इतः अस्मात् लोकात् प्रेत्य गत्वा एतं मनोमयं अभिसम्भावितास्मि प्राप्तास्मीति श्रुत्यर्थः। *कर्ता शास्त्रार्थवत्वादिति । Page #481 -------------------------------------------------------------------------- ________________ ४५२ याणां विज्ञाननोभयथेति । आमादाखितो नान्यथा न प्रतिपत्ति वैयाकरणभूषणव्याख्यायाम् । आत्मैव कर्ता न सांख्याभिमतमन्तःकरणं "यजेत स्वर्गकाम' इत्यादौ शास्त्रार्थस्यात्मन्येव सम्भवादिति सूत्रार्थः । *शक्तिविपर्ययादिति । अन्तःकरणस्य कर्त्तत्वेऽधिकरणशक्तिर्न स्यादिति सूत्रार्थः । *तदेतेषामिति । *प्राणानामिति-प्राणानां इन्द्रि. याणां विज्ञानेन बुद्ध्या विज्ञानशक्तिमादाय ग्रहणशक्तिमादाय स्वापे जीव उदयमेतीति श्रुत्यर्थः । श्यथा च तक्षोभयथेति । आत्मनः कर्त्तत्वेऽपि न सर्वदा दुःखित्वादिकम् , यथा हि तक्षा वास्यादिहस्त एव व्यापारकरणाद्दुःखितो नान्यथा, एवमात्मापीति सूत्रार्थः। *बुद्धिकृतमपादानत्वमिति । रूपे विभागरूपगुणासम्भवात् न प्रतिपत्तिरिति अध्वर्युणा दत्तं दण्डं यजमानः सोमक्रयपर्यंतं धारयतीति उपयुक्तत्वाद्दण्डप्रदान प्रतिपत्तिकमेति पूर्वपक्षः। प्रतिपत्तिर्नाम उपयुक्तस्यादृष्टार्थ आदरः। यथा राज्ञा चर्वितस्य ताम्बूलस्य सौपणेयवत्तद्ग्रहे ग्रहः । अथ कमेंति* । मैत्रावरणो हि दण्डमवष्टभ्य प्रैषाननुवक्ष्यतीति उपयोक्ष्यमाणत्वात् । तथा च श्रूयते दण्डी प्रैषान्वाहेति नियमः। प्रकृतेषु वेति “कर्मण्येव द्वितीया" इत्यादिनियमेषु कृतान्तःकरणादीनेव व्यावर्त्तयति, नत्ववयवार्थमित्यर्थः। इति सुबर्थनिर्णयः। अथ नामार्थनिर्णयः। *स्वसमवेतेति । स्वं व्यक्तिः तत्समवेत सामान्यं तदाश्रयत्वं व्यक्त्यतरे । *नागृहीतेति । "नागृहीतविशेषणाबुद्धिर्विशेष्यमुपसंक्रामति" इति न्यायः । *उपपद्यते इति । लक्षणया व्यक्तेरपि प्रकृत्यर्थत्वात् अकारणत्वेऽपि दण्डत्वादेरलक्ष्यत्वेऽपि तीरत्वादेः छागो वेति “अग्नीषोमीयं पशुमालभेत" इत्यत्र पशुः छाग एव । “अग्नये छागस्य" इति मन्त्रे छागस्य श्रुतत्वादिति सूत्रार्थः । *अनुविद्धमिवेति । सर्वे ज्ञान शब्देनानुविद्धमिव भासते इति योजना । सोऽपि प्रातिपादिकार्थ इति । अत एव "ओमित्येकाक्षरं ब्रह्म "रामेति द्वयक्षरं नाम मानभङ्गः पिनाकिनः" इत्यादौ शब्दस्य बोधः। शब्दार्थयोस्तादात्म्यमित्यस्यायमेवाशयः। घटादिशब्दानामथें स्वशब्देऽपि प्रयोगेण शब्दार्थयोरात्यन्तिकविवेकस्य चाग्रहात् । स च शब्दः "अग्नेढ इत्यादौ विशेष्यतया प्रतीयते, नह्यनियमानाशक्तिवंचन इति नापि उत्पादयितुं शक्यते । 'नल आसीद' इत्यस्य तु नलशब्दवानन्य आसीदित्येवं शब्दप्रकारको बोधः । अत एव देवदत्तःअयमेव भवतीत्यादौ देवदत्तशब्दवाच्योऽयमेवेत्यर्थः। किञ्च शब्दस्यावाच्यत्वे वाच्यत्वं केवलान्वयीति तार्किकप्रवादासंगतिः । *शक्यभावेनेति । अनुकरणानां साधुत्वेऽपि शक्तित्वाभावादन लक्षणा न सम्भवतीत्यर्थः । *तदाशब्दोऽपीति । अनुकार्यमपीत्यर्थः। अन्यभेदपक्षे स्वस्यैव वाच्यवाचकभावासंभव इत्यत आह*अभेद इति । *अतिप्रसङ्गवारणायेति । घटपदात्समवायेनोपस्थितस्याकाशस्य बोधवारणायेत्यर्थः । *ग्राह्यत्वमिति । यथा घटादिकं प्रकाशयन् प्रदीपः स्वात्मानमपि प्रकाशयति । इति नामार्थनिर्णयः। Page #482 -------------------------------------------------------------------------- ________________ समासशक्तिनिर्णयः। પૂa अथ समासशक्तिनिर्णयः।। , *भेदान्योन्याभाव इति । अयम्भावः-भेदः सामर्थ्य मिति पक्षे भेदवदर्थप्रतिपादकत्वमेवैकार्थीभावसामर्थ्यम् । संसर्गस्तु-भेदाविनाभूतत्वादनुमेयः । स्वत्वसमानाधिकरणो राजमिन्नस्वामिकभेदो हि राजसंसर्गव्याप्यः । तथा चानुमीयमानसंसर्गको यो भेदस्तद्वतोऽर्थस्य प्रतिपादनमेकार्थीभावः । *उत्तरकालमिति । पुरुषगतराजसम्ब. न्धस्य राजभिन्नस्वामिकभेदव्याप्यत्वादिति भावः । . *विनिगमनाविरहमिति । उक्तरीत्योभयोः समनियततया विनिगमनाविरहायोगपग्रेनोपस्थितयोर्द्वयोरपि वाच्यत्वमिति भावः । *अस्वामिकेऽपीति । केवलभेदपक्षे इत्यादिभेदसंसर्गो द्वन्द्वेऽपि साहित्यविशेषस्यैव प्रतीतेरिति वदन्ति । *राज्ञः पदार्थैकदे. शत्वादिति । लक्षणया राजसम्बन्धिनः पदार्थत्वात् । रथकारेति । क्षत्रियाद्वैश्यायामुत्पादितो माहिष्यः, वैश्याच्छुद्रायां करिणो भवन्ति । माहिष्यात्करिण्यामुत्पन्नोरथकारः। *अर्थवत्वाभावेनेति । वृत्योपस्थापकत्वाभावेनेत्यर्थः । *समवायेनेति*। पदानां समवायसम्बन्धेनाकाशवृत्तेः । श्वषट्कर्तुः प्रथमभक्ष इति । अत्र वषट्कर्तुर्भक्षणं प्र. थममिति नार्थः, एकपदोपात्तयोर्भक्षणप्राथम्ययोः परस्परमुद्देश्यविधेयभावासम्भवात् । किन्तु प्रथमभक्ष इति समुदितस्यैव विधिः प्राथम्यस्येत्यर्थालाभः । एवं च यत्रैकस्मिन्पात्रे वषट्कारनिमित्तकं प्राप्त समाख्यायान्यस्य च सोमभक्षणं प्राप्तम् , तत्र प्रथम वषट्कत्तैव भक्षयेत् । तथा च जैमिनिकात्यायनाभ्यां सूत्रितम्-“वषट्कारोऽत्र भक्षयेत्" इति । *अङ्गैः स्विष्टकृतमिति। पशुयोगे हृदयस्याग्रे वपति, अथ जिह्वायाः, अथ वक्षस इत्येवमादिना एकादशानामङ्गानामवदानेन यागमभिधाय 'अङ्गैः स्विष्टकृतं यजति इत्यु. क्तम्, तत्र प्रकृतेनैव येन केनचिदंगेन त्रिस्विष्टकृदिष्टव्य इति नार्थः। *अङ्गैरिति । समस्तस्यैकपदत्वेनोद्देश्यविधेयभावासम्भवात् । किन्तु 'नाशयोरवपति शिरस' इत्यनेनाङ्गत्रयस्यावदाननिषेधात्तैरेवांगैः स्विष्टकृद् यष्टव्य इति । निषादस्थपतीति । स्थपतिः स्वामीनिषादश्चासौ स्थपतिश्चेति कर्मधारयः; न षष्ठीतत्पुरुषः । पूर्वपदस्य सम्बन्धिनि लक्षणाप्रसङ्गात् । ___ इति समासशक्तिनिरूपणम् । अथ शक्तिनिरूपणम् । .. *दृष्टत्वादिति । प्रवाहत्वेन रूपेण तीरस्यापि बोधः । प्रवाहत्वमेव च तत्रारोपि. तम् । अत एव गङ्गाशब्दस्य प्रवाहे प्रसिद्धत्वान्मुख्यत्वं तीरेत्वप्रसिद्धत्वाद्गौणत्वम् । *नचाव्यवहितोत्तरत्वेतिभाशक्तिजन्योपस्थित्यव्यवहितोत्तरशाब्दबोधं प्रति शक्तिजन्योपस्थितिःकारणमितिरीत्येत्यर्थः । *हस्तिपको-हस्तिनि यन्ता, साधुशब्दमनुमाय= स्मृत्वा ।तेसाधुष्विति । असाधुशब्दविषये ते साधव एव स्मृताः सन्तः बोधका इत्यर्थः। ग्रन्थकृतामसाधुशब्दानां लिपिस्थानीयत्वेन व्याख्यातत्वात् । 'असाधुरनुमानेनाइ. त्यक्षरमर्यादया तु असाधूनामेव परम्परया बोधकत्वं लभ्यते। एवं च ते असाधवःसाधुष्व. नुमानेन साधुस्मरणद्वारेति व्याख्येयम् । *तादात्म्यमुपगम्येवेति । अपभ्रंशसाधुशब्दैरभेदेष्विवापन्नाः शब्दार्थस्य प्रकाशका इत्यर्थः। *न शिष्टैरिति । इवशब्दो भिन्नक्रमः, साधवः पाया इव साधवः शिष्टैर्नानुगम्यन्त इत्यर्थः। *नयत इति । नापि स्मृतिशा। Page #483 -------------------------------------------------------------------------- ________________ ४५४ वैयाकरणभूषणव्याख्यायाम् । स्त्रेणासाधवो व्युत्पाद्यन्ते इत्यर्थः । *एवं चेति । शिक्ष्यमाणो बालः अव्यक्त भाषते, साधुविदां व्यक्ते निश्चयो भवतीत्यर्थः । तेन चापभ्रंशेन साधुव्यवहितः = साधुद्वारकः । *शक्तिभ्रमादिति । अशक्त्या गगरीशब्देनोच्चारित इत्याद्यपुरुषेण ज्ञाते ततो द्वितीयपुरुषस्य गगरीशब्दे एव बोधक इति भ्रम इत्यर्थः । *भ्रमासम्भवाचेति । घटशब्दगग. रीशब्दयोर्विजातीयानुपूर्वीकतया भ्रमहेतोः साधारणधर्मदर्शनस्याभावादिति भावः । *पारम्पर्यादिति । इह स्त्रीशूद्रबालादिभिः प्रयुज्यमाना अपभ्रंशा रूढिमागतास्तै रेव प्रसिद्धतरो व्यवहारः सत्यपि साधुप्रयोगे तेषामपभ्रंशैरेवार्थनिर्णयेनासाधूनामिव वा. चकत्वं प्रत्यक्षं मन्यन्ते । साधुत्वानुमानपक्षे व्यवस्थापयन्तीत्यर्थः । *दैवीति । व्यवकीर्णा अपभ्रंशैः संकीर्णा पुराकल्पे दैवीवागसंकीर्णाऽऽसीत्तदानीं तेषां साधव एव रू. ढिमुपागताः। गम्यागम्यादिव्यवस्था च साध्वसाधुव्यवस्थाविशिष्टैनित्यमविच्छेदेन स्मयंते। *अनित्यदर्शिनामिति । ये साधूनां धर्महेतुत्वं न प्रतिपद्यन्ते तेषामित्यर्थः । *सम्बन्धिशब्देति । सम्बन्धशब्दवाच्यः सम्बन्धो योग्यतैव कथमिदं ज्ञायते तत्राह*योग्यताम्प्रतीति । लक्षणेऽर्थे तृतीयाः योग्यतावशादेवं ज्ञायते इत्यर्थः । अयं शब्द एतदर्थयोग्य इति व्यवहारात् योग्यतैव शब्दार्थयोः सम्बन्धः इति भावः । ग्रन्थकारस्त्वन्यथा व्याचष्टे-सम्बन्धो विषय इति । सम्बन्धशब्दे विषयीभूतो यः सम्बन्ध. स्तद्वयवहारात् अपशब्द एतदर्थसम्बन्धवानिति व्यवहारादिति यावत्। *एवम् - योग्यताशब्देन । *योग्यताव्यवहारात्*। अयमेतयोग्यतावानिति व्यवहारादिति भावः । __ननु योग्यताया एव सम्बन्धत्वे संकेतस्य कः उपयोग इत्यत आह-*समयादिति । वृद्धव्यवहारपरम्परापर्यायात्स्वाभाविक्येव योग्यता।निश्चीयते । नहीयमस्य मातेति सामयिकः जन्यजनकभावः । वस्तुसिद्धस्यैव प्रतिपादनात् । अत्रेदं तत्वम्पुत्रस्य वाच्यवाचकभाव एव शब्दार्थयोः सम्बन्ध इति प्रसिद्ध्यनुसारेण योग्यतैव सम्बन्ध इत्युक्तं शाब्दिकसिद्धान्तेन । अनवयवमेकं स्फोटात्मकं वाक्यं प्रतिभावा. क्यार्थः । सोऽयमित्यध्यासश्च शब्दार्थयोः सम्बन्ध इति स्पष्टं वाक्यपदीयादौ । ता. किंकादिनये तु संकेतलक्षण एव शब्दार्थयोः सम्बन्ध इति । इदं तु बोध्यम्-वृत्त्या पदजन्यपदार्थोपस्थितिः शाब्दबोधे कारणमित्यत्र पदशब्दो वाचकमात्रपरः, असाधुशब्दादपि बोधोदयात् । तार्किकाणां मते शक्तं पदं गङ्गापदं तीरे लाक्षणिकमिति व्यवहारः परस्परविरुद्धः । यथा हि मार्गोपदेशादावरण्यवासिनामाप्तत्वम्, तथा घटादौ गगरीत्यादिशब्दप्रयोक्तृणामप्यातत्वमेव । तच्छब्दजन्यबोधस्य च प्रमात्वमेव शास्त्रीयादिकार्योपयोगित्वं नास्तीत्येतावानेव तु विशेषः । इति शक्तिनिर्णयः । अथ नअर्थनिर्णयः। *अन्यथा*-सर्वभिन्न इत्यर्थे *सा*-सर्वनामता । *तस्य*-नअर्थस्य । *यत्विति । भ्रान्त्या क्षत्रिये व्यवसितो ब्राह्मणार्थो निषिध्यत इति तु भाष्याशयो वर्णितो हर्यादिभिः । विशेषणमितीति । तथा चाभावप्रतियोगिघटकर्त्तका सत्तेति बोध इति भावः। इति नअर्थनिर्णयः । Page #484 -------------------------------------------------------------------------- ________________ त्वादिभावप्रत्ययार्थनिर्णयः । अथ निपातार्थनिर्णयः । *स्वस्वयुक्तेति* । स्वं धातुः स्वार्थो यत्फलमथवा स्वयुक्तनिपातार्थो यत्फलमित्यर्थः । *तण्डुलः पचतीति । अत्र कर्मत्वस्य संसर्गत्वेन प्रत्ययार्थत्वाभावान्न द्वितीया । चतुर्विधपदे इति । नामाख्यातोपसर्गनिपातभेदात् विशेषणसंभवात् इति श्रपयतीत्यादौ उपसर्गाणां प्रकर्षादिद्योतकत्वं प्रतिष्ठतेः इत्यत्र तु धातोर्गतिनिवृत्तिवाचकतया प्रशब्दस्यैवातिरर्थ इति क्वचिद्वाचकत्वमपीत्यर्थः । यद्यप्युपसर्गाणां द्योतकत्वं धातूनां वाचकत्वं मित्यत्र न लाघवम्, तथाप्येकस्य उपसर्गस्य धातुभेदेनार्थभेदात् क्वचिदनथं कत्वाद्यद्योतकत्वमेव । अत एवोक्तं हरिणा-स्थादिभिः केवलैर्यत्र गमनादि न गम्यते । तत्रानुमानाद्विविधा तद्धर्मा प्रादिरुच्यते इति प्रतिष्ठते इत्यत्र “धातूनामनेकार्थत्वाद्गतिरेवार्थः । तत्रापि प्रशब्दस्य द्योतकत्वमनुमानादिति तदर्थः । इति निपातार्थविचारः । XXX अथ त्वादिभावप्रत्ययार्थनिर्णयः । પ 1 *मीमांसकादीनां भ्रममिति । कृत्तद्धितेत्यादिवार्त्तिकं भवतीति इत्याकारकमीमांसाभ्रममित्यर्थः । *सम्बन्धविशिष्ट इति । 'राजपुरुष' इतिप्रयोगे राजसम्बधस्यैव निमित्ततया तस्यैव त्वप्रत्ययार्थत्वौचित्यात् । *पक्षभेदेनेति । संसर्गपक्षे इत्यर्थः । * औपगवत्वमिति । अत्रापत्यार्थकप्रत्ययार्थस्य " गोत्रं च चरणैरसह" इति जातिवाचितया इदमाद्यर्थस्यादिभ उदात्त इत्यर्थः । *जातिविशेषेणेति । कृष्णसर्पसपर्णादिशब्दानां जात्यवच्छिन्नद्रव्यवाचियाया जातावेव प्रत्यय इत्यर्थः । रूढिः कृष्णसर्पादौ गुणस्यैवेति नतु सम्बन्धस्येत्यर्थः । गुणगुणिनोः सोऽयमिति प्रतीत्या भेदसम्बन्धेन सम्बन्धापेक्षेति भेदपक्षे न सम्भवतीति । वस्तुतस्तु राजपुरुषत्वमित्यन राजपुरुषसम्बन्धस्यैव शक्यतावाच्छेदकत्वमनुभवसिद्धम् । पाचकराजपुरुषादिशब्दप्रयोगे पाकराजसम्बन्धावछिन्नस्यैव पुरुषस्य प्रतीत्या सम्बन्धस्यैव निमित्तत्वेन तस्यैव त्वप्रत्ययार्थत्वाचित्यात् । सतो भावः सचेति । अत्र सदसतोः सम्बन्धस्याव्यभिचाराज्जातिरेव भावप्रत्ययार्थः । *सम्बन्धिभेदादिति । अयम्भावः- परब्रह्मस्वभावा महासत्ताख्या जातिरेकैव । सा च सम्बन्धिनां गवादीनां भेदाद्भिद्यमाना उपचारितभेदाद् गोत्वादिजातिरुच्यते, तस्यां ब्रह्मसत्तायामेव सर्वे शब्दा वाचकत्वेन व्यवस्थिता । अभावस्यापि बुध्याकारेणानुगमान्महासत्तया न वियोग: । अत एव प्रातिपदिकार्थः सत्तेत्युच्यते । एवं क्रियास्वपि उपाधिभेदेन भिन्ना महासत्तैव धातुवाच्या, सा च जातिः सिद्धत्वसाध्यत्वरूपोपाधिभिरपि भिद्यते । सैव सत्ता महानित्युच्यते । यतोऽखिलविवर्त्तः यस्य गुणस्येति गुणशब्देन धर्ममात्रमुच्यते । लोके गुणशब्देन परतन्त्र उच्यते । एवं च जात्यादीनामपि गुणत्वात्त्वप्रत्ययात्वसिद्धः । अत एवोक्तं भाष्यकृता "अन्यो हि वीरत्वं गुणः, अन्यः पुरुषत्वम्" इति । इति भावप्रत्ययार्थविचारः । Page #485 -------------------------------------------------------------------------- ________________ ४५६ वैयाकरणभूषणव्याख्यायाम् । अथाभेदैकत्वसंख्यानिर्णयः। ___ *अभेदैकत्वसंख्येति । अभेदरूपा एकत्वसंख्येत्यर्थः । *त्रित्वं न्यायादिति । "कपिञ्जलानालभेत" इत्यत्र बहुत्वं त्रित्वरूपमेव प्रथमोपस्थितत्वात् । *ग्रहं सम्माटीति । अत्र ग्रहमिति ईप्सिततमे कर्मणि द्वितीयाबलादुद्देश्यस्य प्राधान्यं ग्रहस्य गम्यते, तदनुरोधेन गौणस्य संमार्जनस्य वृत्तिर्युक्तैव । अतः श्रूयमाणाप्युद्देश्यगता संख्या न विवक्षिता। 'पशुना यजेत' इत्यत्र तु यागं प्रति करणीभूतः पशुः गौणः । न च गौणानुरोधेन प्रधानस्यावृत्तिर्भवति इति वैषम्यम् । गृह्यते सोमरसोऽनेनेति ग्रहः पात्रविशेषः । अन्यत इत्यस्य विवरणमनुवाद्यस्येति । वाक्यभेदादितिः । “ग्रहं संमाष्टि"इत्यत्रैकत्वस्यापि विधाने ग्रहमुद्दिश्य संमार्जनस्यैकत्वस्य च विधानाद्वाक्याभेदापत्तिरिति भावः। *संसर्गो जन्यत्वमिति आनन्तर्यस्याविशिष्यत्वेऽपिभुक्त्वैव तृप्तो न पीत्वेति प्रयोगाज्जन्यत्वं संसर्गः। एवं कदाचिदध्ययनेऽधीत्य तिष्ठती. त्यप्रयोगात् व्याप्यत्वमपि संसर्ग इत्यर्थः। इति अभेदैकत्वसंख्याक्त्वाद्यर्थश्च । अथ स्फोटनिर्णयः। *वर्णस्फोट इति । प्रकृतिप्रत्यया वाचका इत्यर्थः। *पञ्चकोशेति । अन्नमयं ब्रह्म प्राणमयं ब्रह्मेत्यादेरनन्तरं ब्रह्मपुच्छं प्रतिष्ठेति श्रूयते, अन्न रसपरिणामत्वादन्नशब्देन शरीरमुच्यते । एतेन शरीरातिरिक्तस्य पुत्रकलत्रादेरात्मत्वभ्रमो व्यावर्तितः । एवं प्राणादिविशिष्टस्यात्मन उपदेशेन वाक्यस्यानात्मत्वं प्रतिपादितम् । एतेषां कोशत्वं चान्तः स्थितस्यात्मनः असिकोशवदहिराच्छादकत्वसादृश्यात् । प्राणो न भोक्ता, किंतु मन एवेति तदात्मेत्यर्थः । विज्ञायतेऽनेनेति विज्ञानमन्तःकरणं बुद्धयाख्यवृत्तिमदन्तःकरणविशिष्ट आत्मा विज्ञानमय आनन्दाभिव्यञ्जकोपाधिविशिष्ट आत्मानन्दमयः। सचायमपि सोपाधिक एवेत्यत उक्तं ब्रह्मपुछमिति। पुच्छत्वेन प्रकल्पितमानन्दमयस्याधारभूतं "सत्यं ज्ञानमनन्तं ब्रह्म" प्रतिष्ठा आश्रयः । *गत्वावछिन्न इति । यत्किञ्चिङ्गकारभेदे तु गकारनिष्ठाभेदप्रतियोगिता यत्किञ्चिद्गकारत्वावछिन्ना। अत्रेदम्बोध्यम्व्यवहारस्यानादितया प्रवाहानादित्वं शब्दस्य परैरभ्युपेयम् , तत्र चानन्दशब्दकल्प. नापेक्षया नित्यैकशब्दस्वीकार एव लाघवम् । यथाहि कुण्डलादिविकारागमेऽपि सुवर्णमित्येवं सत्यम्, एवं सकलविशेषानुगतं स्फोटाख्यमेव सत्यम् । तत्र स्फोटशब्दो ब्रह्मणि श्रुतिषु प्रसिद्धः । ब्रह्मणशब्दात्मकत्वं च श्रुतौ प्रसिद्धम् । 'सत्यासत्यौ तु योभागौ' इति व्यक्तेरनित्यत्वाजातेश्च नित्यत्वादिति भावः। *उक्तं चेति । असत्योपाधिस्तदुपहितमित्यर्थः। *आविद्यको धर्म इति । अस्मिन्मते अविद्याकल्पितस्य गोत्वादिधर्मस्यासत्यत्वं युक्तमेव । *शुद्धतत्वमिति* । तत्वशब्दःपारमार्थिकवस्तु. वाची। तदुक्तं हरिणा आत्मा वस्तुस्वभावस्य शरीरं तत्त्वमित्यपि । द्रव्यमित्यस्य पर्यायतत्वमित्थमिति स्मृतम् ॥ इति । आभ्यन्तरमनवयवं बोधस्वभावं शब्दार्थमयं निविभागं शब्दतत्वं तदेव परावाक् Page #486 -------------------------------------------------------------------------- ________________ स्फोटनिर्णयः। ४५७ शब्दब्रह्मेति चोच्यते। *पूर्णात्मने-अप्रतिहतेच्छाय । *तदेव-ब्रह्मैव । प्रक्रियांशस्त्वविवेति । तदुक्तं हरिणा-... व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रियां यतः। इति । .... शास्त्रार्थप्रक्रियाः केवलमबुधानां व्युत्पादनायैव । अतो न शास्त्राणि तत्वं वक्तुं पारमन्तीति तदर्थः । तस्मादवियैव शास्त्रेषु प्रक्रियाभेदेनोपवर्ण्यते इत्याह-*शास्त्रेषु प्रक्रियाभेदैरिति । . . . . . . . . . . . . नन्वेवमविद्योपदर्शकशास्त्रप्रक्रियाश्रवणं प्रेक्षावतामुपेक्षणीय स्यादिति चेद् १ अनो. " अनागमविकल्पात्तु स्वयं विद्योपवर्त्तते ॥ इति । अविद्योपमर्दैन आगमविकल्परहिता शास्त्रप्रक्रियाप्रपञ्चशून्याविद्या प्रगटी भ. वंति। एवं चाविद्यैव विद्योपाय इति तदर्थः । यथा कारणे सूक्ष्मरूपेणावस्थित कार्ये स्वसामग्रीसमवधाने सत्याविर्भवति, एवमविद्या विलये संति विद्या 'आविर्भवतीति तदाशयः । *समारम्भ-उत्पत्तिः । . केहरिणा इति श्रीमद्देवीदत्तात्मजरामसेवकत्रिपाठीतनूद्भवाचार्य-कृष्णमित्रकृता . वैयाकरणभूषणव्याख्या समाता ॥१॥ Page #487 -------------------------------------------------------------------------- ________________ श्रीगणेशाय नमः ॥ शोपनामकश्रीखुद्दीशर्ममैथिलमनीषिणा सगृहीतः तिङर्थवादसारः। वाणी प्रणम्य शिरसि प्रणिधाय पाणी श्रीपाणिनिप्रमुखमुख्यवचो विचिन्त्य । आक्षिप्य तार्किकमतं च सजैमिनीयमाख्यातवाच्यमनुवच्मि यथामनीषम् ॥१॥ अथ धावूनां फलव्यापारयोराख्यातस्य कर्तकर्मणोः संख्याकालयोश्च शक्तिः। तत्र व्यापाराश्रयः कर्ता फलाश्रयः कर्म फलव्यापारयोर्धातुलभ्यत्वेनानन्यलभ्याश्रयमात्रमाख्यातशक्यम् । शक्यतावच्छेदकं चाश्रयत्वं तत्तच्छक्तिविशेषरूपमखण्डभूतम् । क प्रत्ययविवक्षायां कर्ता व्यापारस्य विशेषणम् कर्मप्रत्ययविवक्षायां कर्म फलस्य विशेषणं, संख्या च यथाविवक्षं कर्त्तकर्मणोविशेषणम् । कालस्तु सर्वथा व्यापारस्यैव विशेषणम् । तथा च चैत्रस्तण्डुलं पचतीत्यादिवाक्यतस्तण्डुलाभिन्नाश्रयवृत्तिविक्लित्तिजनको वर्तमानकालिक एकत्वविशिष्टचैत्राभिन्नाश्रयवृत्तिापार इत्यादिरीत्या बोधः। चैत्रेण तण्डुलः पच्यते इत्यादितस्तु एकत्वविशिष्टतण्डुलाभिन्नाश्रयवृत्तिजनको वर्त्तमानकालिक एकत्वविशिष्टचैत्राभिन्नाश्रयवृत्तिापार इत्यादिरीत्या प्राचीनवैया. करणमते बोधः। नवीनवैयाकरणमते तु-एकत्वविशिष्टचैत्राभिन्नाश्रयवृत्तिवर्तमानकालिकव्यापा. रजन्या एकत्वविशिष्टतण्डुलाभिन्नाश्रयवृत्तिविक्लित्तिरित्यादिरीत्या फलविशेष्यको बोधः । तेषां मते "सुप आत्मनः क्यच्” इतिसूत्रभाष्यानुरोधेन धातोः फले व्यापारे च खण्डशः शक्तिस्वीकारेण विशेष्यविशेषणभावव्यत्यासादिति सिद्धान्तः ॥ ___ अत्र नैयायिकाः-यत्नाश्रयस्य कर्तृत्वेन तत्राख्यातस्य शक्तावनन्तानां यत्नानां शक्यतावच्छेदकत्वे गौरवाद्यत्नत्वजातेः शक्यतावच्छेदकत्वे च लाघवात्पचतीत्यस्य पार्क करोतीति विवरणदर्शनेन पचधातुप्रतिपाद्यस्य पाकशब्देनाख्यातप्रतिपाद्यस्य यत्नार्थकेन करोतिना विवरणेन विव्रियमाणस्याप्याख्यातस्य यत्नार्थकत्वावश्यक. त्वाच्च । कर्तुः समभिव्याहृतप्रथमान्तपदेनाक्षेपेण वा लाभाच्चानन्यलभ्ययत्न एव शक्तिः । “प्रकृतिप्रत्ययौ सहाथै ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्" इतिन्यायानुरोधेन प्रत्ययार्थे यत्ने प्रकृत्यर्थो व्यापारो विशेषणम् । प्रत्ययार्थो यत्नः संख्या चाक्षेपादिलभ्ये प्रथमान्तार्थे विशेषणम् । तथा च 'चैत्रस्तण्डुलं पचति' इत्यादिवाक्यतस्त. ण्डुलनिरूपिताधेयतावद्विक्लित्त्यनुकूलव्यापारानुकूलयत्नवानेकत्वविशिष्टश्चैत्र इति प्रथमान्तार्थमुख्यविशेष्यक एव बोध इत्याहुः । __ तत्रेदं वक्तव्यम्-शक्तिग्राहकशिरोमणिभूतेन व्याकरणेन बोधितायाः कर्तरि लकारशक्तेस्त्यागे को हेतुः । तथाहि “लः कर्मणि च भावे चाकर्मकेभ्यः” इति सूत्रं कर्तरि लकारशक्तिं ग्राहयति । तत्र हि "कर्तरि कृद्" इत्यतश्चकारेण कर्तरीत्यनुकृष्यते बोधकतारूपां तिबादिशक्ति तत्स्थानित्वेन कल्पिते लकारे परिकल्प्य लकाराः कर्मणि Page #488 -------------------------------------------------------------------------- ________________ तिङर्थवादसारः । ve कर्त्तरि च तेन विधीयन्ते । नकारविसर्गादिनिष्ठां कर्मकरणादिबोधकता शक्तिमादाय • शसादिविधानवत् । न च व्याकरणं न शक्तिग्राहकम् अपि तु साधुत्वमात्रार्थक मिति वाच्यम् । “शक्तिग्रहं व्याकरणोपमानेति” नैयायिक वृद्धोक्त्य सङ्गतेः । अर्थविशेषपुरस्कारेणैव साधुत्वस्य महाभाष्यसम्मतत्वाच्च पदसमयपरिपालनाय व्याकरणं प्रवृतम्” इतिन्यायभाष्योक्तेश्च ॥ नच "द्वयेकयोर्द्विवचनैकवचने" "ब्रह्मणो जनपदाख्यायाम्" इत्यादौ भावप्रधाननिर्देशस्य सूत्रकृच्छैलीसिद्धत्वेन पक्ता देवदत्त इत्यादावभेदान्वयोपपत्तये “कर्त्तरि " इत्यत्र कर्त्तपरत्वेन क्लृप्तस्याऽपि कर्त्तृपदस्योक्तरीत्या लाववरूपविनिगमकस. द्भावेन प्रकृते शब्दाधिकाराश्रयणेन धर्मपरत्वे ऋषिस्वारस्यानुमानेन न शक्तिग्राहक व्याकरणमपि प्रतिकूलमिति वाच्यम् । कर्त्तरि शक्तिस्वीकारेऽप्युक्तरीत्याऽऽश्रय· त्वस्य शक्यतावच्छेदकत्वकल्पनेन गौरवाभावात् । रथो गच्छति जानातीत्यादावगस्याssश्रये आश्रयत्वे वा लक्षणायां लक्ष्यतावच्छेदकत्वस्येव शक्यतावच्छे इकत्व'स्यापि गुरूणि स्वीकारे बाधकाभावाच्च । अन्यूनानतिप्रसक्तवृत्तित्व रूपस्यावच्छेदकत्वस्य गुरुण्यपि सत्वात् । अस्तु वा सभवति लवौ गुरौ नावच्छेदकत्वमिति, परन्तु यंत्र लघुगुरुरूपाभ्यां बोधो निर्विवादस्तत्रैव लघुधर्मावच्छिन्ने शक्तिर्गुर्व•च्छिन्ने लक्षणेति युक्तम् । प्रकृते च प्रत्ययात्कृतित्वेन बोधः सविवादः, धातुत एव तद्बोधात् । शब्दाधिकारस्यानेकशक्तिकल्पनादूषितत्वेन गौरवपराहतत्वाच्च । “अतो गुण" इत्यतोऽत इत्यनुवृत्यैव सिद्धे “अव्यक्तानुकरणस्य" इतिसूत्रेऽत इतिकरणेन श'ब्दाधिकारस्य प्रमाणसापेक्षत्वसूचनाच्च "ष्णान्ता षड्” इतिसूत्रभाष्ये " न चान्यार्थ प्रकृतमनुवर्तनादन्यद्भवति, नहि गोधा सर्पन्ती सर्पणादहिर्भवति इत्युक्त्या शब्दाधिकारस्यावहेलनाच्च ॥ न च नायं सर्वथा शब्दाधिकारः, किन्तु पूर्वत्र विशिष्टपरस्य कर्तृपदस्य विशेषणमात्रपरत्वमिति वाच्यम् । एतस्याऽपि लक्षणामन्तरेणासंभवेनैवमपि वृत्तियकल्पना या दुर्वास्त्वात् । किञ्च पक्ता देवदत्त इत्यादावभेदान्वयानुरोधेन कृतः कर्त्तरि शक्तिरिव पचतिरूपं देवदत्त इत्यादावभेदान्वयानुरोधेन तिङोऽपि कर्त्तरि शक्तिरावश्यकी । नतु तिङ्प्रत्ययो न नामेतिचेत् तृनादिरपि नेतितुल्यम् । तृजाद्यन्तं नामेति चेत् रूपबाद्यन्तमपि नामेति तुल्यम् । युक्तं चैतत्, अन्यथाऽर्धमात्रालाघवेनापि पुत्रोत्सविं मन्यमानो भगवान् पाणिनिः कर्त्तरीत्युक्तावपि "लः कर्मणि" इत्यत्र लक्षणाया गले पतितत्वेन "स्वायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयुञ्जमह" इतिन्यायविरोधस्य दुर्वारत्वेन "कर्तरि कृद्" इत्यत्रैव मात्रालाघवानुगृहीतामाश्रये लक्षणामभिप्रेत्य कृतावित्येव ब्रूयात् कर्तरीति त्यजेत् ॥ किञ्च कथंचिच्छन्दाधिकारमाश्रित्याऽपि लकाराणां कृतिवाचकत्वं दुर्वचम्, पचन्तं चैत्रं पश्य, पचते चैत्राय देहीत्यादौ शतृशानजादीनामपि तिबादिवल्लादेशत्वाविशेषेण तेभ्यः कृतिमात्रबोधापत्तेः । न चेष्टापत्तिः, तत्राभेदसंसर्गस्यैव वक्तव्यतया कर्त्तवाचकत्वस्यैव त्वयाऽप्यभ्युपगमात् । नामार्थयोरभेदस्यैव संसर्गत्वात् । नन्वत एव शत्रादीनां कर्त्तरि शक्तिः तिबादीनां कृतावेवेति वैषम्यमिति चेन्मैवम् । स्थान्येव वाचको लाघवान्नत्वादेशो गौरवादिति हि तव मतम् । अत एव राम इत्यादौ सुत्वेनैकत्वे शक्तिरित्यादिस्त्वदीयानां व्यवहारः । एवं स्थिते तिबादीनां शत्रादीनां च स्मारकतया लिपिस्थानत्वम् । बोधकस्तु लकार एव स च शत्राद्यन्ते कर्त्तरि शक्त इति Page #489 -------------------------------------------------------------------------- ________________ ४६० तिर्थवादसार स्थिते तिङन्ते कथं कृति बोधयेत् "अन्यायश्चानेकार्थत्वम्" इति न्यायात् ॥ ___ अथ वैयाकरणरीतिमाश्रित्य सर्वत्रादेशा एव वाचका इति ब्रूषे, तर्हि घटं घटेन हरेऽव विष्णोऽव इत्यादिषु “सर्वे सर्वपदादेशा,, इतिन्यायेन पदस्फोटो वाक्यस्फोटश्च सिद्धयेदिति महत्तवानिष्टम् ॥ किञ्च "युष्मदि समानाधिकरणे मध्यमः" "अस्मद्युत्तम" इति सामानाधिकरण्यप्रयुक्ता पुरुषव्यवस्था कर्तुंर्वाच्यतायां प्रमाणं प्रयुज्यमानाप्रयुज्यमानयुष्मदाद्यर्थगतसंख्याभिधायित्वे मध्यम इत्याद्यर्थस्तु लक्षणामन्तरेण कर्तुम. शक्यः। लक्षणायां तु लाघवानवसरः ॥ किञ्चाख्यातस्य कृतिवाचकत्वेऽभिधानानभिधानव्यवस्थोच्छेदापत्तिस्तथाच चैत्रः पचतीत्यादावपि तृतीयापत्तिः स्यात् । न च "कर्तृकरणयोस्तृताया” इत्यादेः "द्वयेकयोद्विवचनैकवचने"इत्यायेकवाक्यतया कर्तगते. कत्वादिसंख्यायामन्येनानभिहितायां तृतीयेत्याद्यर्थानापत्तिरिति वाच्यम् । कृत्प्रत्ययस्य सङ्ख्यावाचकत्वाभावेन पक्ता देवदत्त इत्यादौ संख्यानभिधानेन तृतीयापत्तेः । न च "कत्तेकरणयोः' इत्यत्रापि भावप्रधाननिदेशमाश्रित्य कृतावनभिहितायां तृतीयेत्येवार्थः । तिङा विशेष्यतया कृता विशेषणतया च कृतेरभिधानान्न पचति चैत्र इत्यादौ पक्ता चैत्र इत्यादौ च तृतीयापत्तिरिति वाच्यम् । क्रियते घटश्चत्रेणेत्यादावपि तन्मते करोतेः कृतिवाचकत्वाविशेषेण धातुना कृतेरभिधानेन तृतीयानुपपत्तेः। “तिकृत्तद्धितसमासै” रितिपरिगणनस्य "विषवृक्षोऽपि सम्वयं स्वयं छेत्तुमसांप्रतम्" "नारद इत्यबोधि स" इत्याद्यनुरोधेनोपलक्षणत्वात् । रथो गच्छतीत्यादौ, तण्डुलः पच्यते स्वयमेवेत्यादौ चाचेतने रथादौ कृतेर्बाधितत्वेनागत्याऽऽश्रये लक्षणाया अवश्याभ्यु. पेयत्वेन तत्र तिडा कृतेरनभिधानेन रथादेस्तृतीयापत्तेश्च "कर्तकरणयोः" इत्यत्र कर्तृपदस्याश्रयकृत्युभयपरत्वेनानभिहित आश्रयेऽनभिहितायां कृतौ च तृतीयेत्यर्थस्तु दुर्वर्च इति न तावता रथादेस्तृतीया वारयितुं शक्यते ॥ किञ्च कर्तुरवाच्यत्वे साकर्यातिशयद्योतनेऽकर्मकात्पचतेर्भावे लकारे पच्यते ओदनेनेत्यादौ कर्मवद्भावेन ओदनपदाद्वितीयापत्तिः । नच ततः परत्वात्तृतीयया भाव्यम् । अतिदिश्यमानधर्मविरुद्धस्वाश्रयधर्मप्रयुक्तकार्याभावस्यातिदेशस्वभावसिद्धत्वात् । कर्तुः कुत्रापि लकारवाच्यत्वाभावेन “कर्मवत्कर्मणा" इत्यनेन लकारवाच्यस्यैव कर्तुः कर्मवद्भाव इत्यस्य वक्तुमशक्यत्वात् ॥ किञ्चाख्यातस्य कृतिवाचकत्वे पाचक इत्य. स्य पचतीति विवरणं न स्यात् । असमानार्थत्वात् । किञ्च कृतिवाचकत्वे कृतित्वं शक्यतावच्छेदकमाश्रयत्वमाश्रयत्वत्वञ्च लक्ष्यतावच्छेदकं कृतिश्च शक्यतावच्छेदिकेति गौरवम् । आश्रयवाचकत्वे तु सर्वत्राश्रयत्वमेव शक्यतावच्छेदकमिति लाघवम् ॥ किञ्च कृतिवाचकत्वे कालस्य कचित्समानप्रत्ययोपात्तायां कृतावन्वयः, क्वचिच्च स्थो गच्छतीत्यादौ धात्वर्थव्यापार इति आख्यातार्थकालनिष्ठप्रकारतानिरूपितविशे. ध्यतासम्बन्धेन शाब्दबोधं प्रति आख्यातजन्यकृत्युपस्थितिर्धातुजन्यव्यापारोपस्थि. तिश्च कारणमिति परस्परजन्यशाब्दबोधे व्यभिचारादिवारणाय चाव्यवहितोत्तरत्वादिप्रवेशेन गौरवम् । आश्रयवाचकत्वे तु सर्वत्र व्यापार एव कालान्वयेनैक एव कार्यकारणभाव इत्यतिलाघवम् ॥ किञ्च कृतिवाचकत्वे आख्यातार्थसंख्यायाः समभिव्याहृतप्रथमान्तार्थ एवान्वयादाख्यातार्थसंख्यानिष्ठप्रकारतानिरूपितविशेष्यतास. म्बन्धेन शाब्दबोधं प्रति प्रथमान्तपदजन्योपस्थितेः कारणत्वम्। तदपि "देवदत्तो Page #490 -------------------------------------------------------------------------- ________________ तिर्थवादसार। भुक्त्वा प्रजति,, "चैत्र इव मैत्रो गच्छति' इत्यादौ क्त्वार्थेवार्थयोराख्यातार्थसंख्या. न्वयवारणायेतराविशेषणत्वघटितं वाच्यम् । तत्रेतरत्वेन जगतः प्रवेशान्महद्र वम् ॥ किञ्च यत्नस्यापि व्यापारविशेषरूपतया धातुनैव लाभसंम्भवात्तत्राख्यातस्य श. किकल्पनमयुक्तम् । “अनन्यलभ्यो हि शब्दार्थ इति न्यायात्। न च सत्यपि गौरवे पचतीत्यस्य पाकं करोतीति विवरणानुरोधेनाख्यातस्य कृतिवाचकत्वमुपेयत इति वा. च्यम्। करोतेयत्नार्थकताया असिद्धेः। कथमन्यथा "रथो गमनं करोति,, "बीजेनाङ्कुरः कृत, इत्याधुपपद्येत, अचेतने रथादौ कृतेर्बाधाद् ॥ किं चैवं जानातेरिव करोतेरपि कर्तृ. स्थभावकत्वाविशेषेण कर्मवद्भावानुपपत्त्या ज्ञायते घटः स्वयमेवेतिवत् क्रियते घटः स्वयमेवेत्यपि न स्यात् , तत्र तत्रोत्पत्त्यनुकूलव्यापारे लक्षणाभ्युपगमस्तु गौरवेणैव पराहन्तव्यः । व्यापारसामान्यार्थकेन यत्नार्थकेन वा प्रकृतिभूतेन करोतिना विवरणमपि न पचतीत्यादौ तिर्थस्य, किन्तु प्रकृतिभूतधात्वर्थस्यैव तत्र पाकशब्दस्य विक्लित्ति. फलमात्रार्थकत्वेन करोतेश्च व्यापारसामान्यार्थकत्वेन धातोरंशद्वयस्योभाभ्यां विवर. : णात् । नचैवं काष्ठैः पाक इति न स्यादिति वाच्यम् । करोतिसमभिव्याहृतपाकपदस्यैव फलमात्रवाचकत्वात् ॥ कथमन्यथा पक्ववानित्यस्य पाकं कृतवानिति विवरणं, किं कृतमिति प्रश्नस्य पक्वमित्युत्तरमपि संगच्छेत । अत एव "कथं ज्ञायते क्रियावचनाः पचादय इति यदेषां करोतिना सामानाधिकरण्यम् , किं करोति पचति,, इति भूवादिसूत्रभाष्ये उक्तं संगच्छते ॥ - किं च करोतेर्त्यनार्थकत्वे यत्नवाचकत्वाविशेषेण यततेरियाकर्मकतापत्तिस्तथाच घटे यतते इतिवद्घटे करोतीत्यप्यापयेत । न च करोतेरुत्पत्त्यनुकूलयत्नवाचकस्वेन न यततिसमकक्षता न वा क्रियते घटः स्वयमेवेत्यस्यानुपपत्तिः। उत्पत्तेः कर्मस्थत्वादिति वाच्यम् । एवं सति रथो गमनं करोतीत्याद्यनुरोधेन व्यापारार्थकत्वस्याप्यवश्याभ्युपेयत्वेन 'व्यापारत्वेन व्यापारान्तरस्येव यत्नस्यापि वाचकत्व. मभ्युगच्छता शाब्दिकानां मतादविशेषात् ॥ न च कृधातोः तिन्प्रत्ययेन निष्पन्नात्कृतिशब्दाद्यनप्रतीतेः करोतेयत्नार्थकतोपेयत इति वाच्यम् । करोतेरेव मनिन्प्रत्ययेन निष्पन्नात्कर्मशब्दाच्छप्रत्ययेन निष्पन्नात्क्रियाशब्दाच्च क्रियायाः प्रतीतेस्तदर्थकत्वस्यैव युक्तत्वात् कृतिशब्दाद्यनप्रती. तेर्धातूनामनेकार्थकत्वेनाप्युपपत्तेः । किञ्च प्रत्ययार्थप्राधान्ये "भावप्रधानमाख्यात सत्त्वप्रधानानि नामानि" इति यास्कवचनविरोधः । न च निरुक्तस्य भावशब्देन भावयति क्रियामुत्पादयतीति व्युत्पत्त्या यत्न एवोच्यत इति न तद्विरोध इति वाच्यम् । आख्यातसामान्यलक्षणस्य भावाख्यातेऽव्याप्तेः । 'चैत्रेण सुप्यत' इत्यत्र धा. त्वर्थविशेष्यतायास्तैरप्यङ्गीकारात् । अन्यलभ्यस्य तस्य शास्त्रबलात्प्रत्ययार्थत्वस्याऽ. प्यङ्गीकारे कर्तकर्मणोरपि शास्त्रबलात्तद्वाच्यता दुर्वारैव "अकर्तरि च कारके संज्ञाया. म् इन्युक्तेर्भावशब्दे कर्तरि घजो दुर्लभत्वाच्च । पचादि पाठकल्पने प्रमाणविरहाच्च । 'क्रियाप्रधानमाख्यातम्" इति रूपप्सूत्रस्थभाष्यविरोधस्यैवमपि दुष्परि. हरत्वाच्च । नचाख्यातशब्दस्य "सर्वमाख्यातजन्नाम इति "उणादय" इति सूत्रभाष्ये-ना. मान्याख्यातजानि" इति शाकटायनोक्तौ च धातावपि प्रयोगदर्शनेन आख्यातं धातुः भावप्रधानं फलव्यापारयोरर्थयोर्मध्ये भावप्रधानमित्येवार्थः । किञ्च बहुव्रीहितत्पुरुष Page #491 -------------------------------------------------------------------------- ________________ तिङर्थवादसारः। स्य लघुत्वेन भावाद्भावस्य वा प्रधानमाख्यातमित्यर्थसम्भवेन धात्वर्थभावनिरूपितं प्राधान्यमाख्यातस्येत्येव लभ्यते । यास्कवचनेन आख्यातशब्दस्य तिङि प्रयोगस्तु "आख्यातमाख्यातेन" इत्यादौ प्रसिद्ध एव । तत्र तिङन्तमित्यर्थस्तु प्रत्ययग्रहण. परिभाषालभ्य एव । "कर्तृकरणे कृता" इतिवदिति न तत्र शक्तरुपयोग इति न निरुक्तविरोध इति वाच्यम् , “पचादिक्रिया भवतिक्रियायाः का भवन्ति" इति भूवादिसूत्रस्थभाष्यप्रामाण्येन तिङन्तजन्यबोधे भावप्राधान्य एव निरुक्तस्य तात्पर्यात् । धात्वर्थव्यापारापेक्षतिङर्थकृतिप्राधान्य निरुक्तस्य तात्पर्यकल्पने तिङर्थकृतेः प्रथमान्तार्थ एवाकाङ्क्षावशेनान्वयस्य भवदभिलषितत्वेन प्रथमान्तार्थमुख्यविशेष्यकबोधापत्तौ “पश्य मृगो धावति" इत्यादौ अन्तरङ्गादुपजीव्यादपि प्रधानकार्यस्य बल. वत्त्वस्य "हेतुमति च" इति सूत्रे भाष्ये प्रतिपादनेन मृगपदादू द्वितीयापत्तेः । न च 'पश्य मृग' इत्यत्र तमिति कर्मांध्याहार्यम् । वाक्यभेदापत्तौ भाष्यसिद्धैकवाक्यता. भङ्गापत्तेः। न च वाक्यार्थभूतधावनानुकूलव्यापारानुकूल कृतिविशिष्टस्य मृगस्य दर्शनकर्मतयाऽन्वयेन वाक्यस्याप्रातिपदिकत्वेन न द्वितीयापत्तिः। न वा वाक्यभेदो, नापि कर्मतासम्बन्धेन तण्डुलस्य पाकेऽन्वयतात्पर्येण 'तण्डुलः पचति' इति वाक्यस्य प्रामाण्यवारणायावश्यकतया "नामार्थधात्वर्थयोभेदेन साक्षादन्वयोऽव्युत्पन्न" इति व्युत्पत्त्या विरोधः । अथवा मृगस्य पूर्व धावतीत्यनेनान्वयेन तिङ्समानाधिकरणे प्रथमा" इति वार्त्तिकात्प्रथमाया उपपत्तौ पश्चादृशिना केवलस्य मृगस्यान्वयेऽपि न द्वितीया । प्रत्ययान्तत्वेनाप्रातिपदिकत्वादिति वाच्यम् । उत्कटधावनकर्मकदर्शनप्रतिपिपादयिषयैव ‘पश्य मृगो धावति' इति प्रयोगेण तद्विरोधात् सुबन्तार्थस्य कर्मत्वादिना क्रियायामन्वये निराकाङ्क्षत्वाच्च । अन्यथा घट इति परिनिष्ठितस्य कर्मतया ऽन्वयेन घटः पश्यति इति प्रयोगापत्तेः । न च कृतौ विशेषणस्यापि धावनस्य दर्शनेs. न्वयः कर्तुं शक्यते । एकत्र विशेषणतयाऽन्वितस्यापरत्र विशेषणत्वायोगात् । अत एव वह्निमान्नास्ति' इति वाक्याद्वह्निमत्त्वावच्छिन्नप्रतियोगिताकाभाव एव बोध्यते । न तु वह्नित्वावच्छिन्नप्रतियोगिताकाभावोऽपि। धावनानुकूलव्यापारानुकूलकृतिविशेषितमृगस्य कर्मतया दर्शनेऽन्वयस्य दुर्घटत्वाच्च । तस्य वाक्यार्थत्वेन विशिष्टो. पस्थापकपदाभावात् पदज्ञानस्योपस्थितिद्वारा शाब्दबोधहेतुत्वेन नित्यो घट इत्यादिवाक्यस्य प्रामाण्यवारणाय पदार्थः पदार्थेनान्वेति, नत्वपदार्थो न वा पदार्थताव. च्छेदकम् , नत्वपदार्थेन, नवा पदार्थतावच्छेदकेन" इति स्वीकारेण विशेष्यतासम्बन्धेन प्रकारतासम्बन्धेन वा शाब्दबोधं प्रति विशेष्यतासम्बन्धेन पदजन्यतादृशोपस्थितेहेतुत्वात् । किञ्च विशिष्टस्य कर्मतयाऽन्वयाऽभ्युपगमे "कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कवितां शाखां वन्दे वाल्मीकिकोकिलम् । इत्यादौ कूजनकर्त्तत्वविशेषितवाल्मीकिपदार्थस्य वन्दनेऽन्वयेन पश्य मृग' इत्यतोऽविशेषेण द्वितीया न स्यात् । किश्चैवं 'नीलो घटः करोति' इति वाक्यस्याऽपि प्रामाण्यप्रसङ्गः । न च दृशधातोरेव धावनकर्तृत्वविशिष्टमृगकर्मकदर्शने लक्षणा । अन्यानि पदानि तात्पर्यग्राहकाणीति वाच्यम् । सत्यां तात्पर्यानुपपत्तावेव लक्षणास्वी. कारात् । एवं यथेच्छलक्षणाऽभ्युपगमे "सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारणसामीप्य-योग-साधना-पत्येभ्यो ब्राह्मण-मञ्च-कठ-राज-शक्तु-चन्दन-गङ्गा-शाट Page #492 -------------------------------------------------------------------------- ________________ तिङर्थवादसारः । દુર્ कान्न - पुरुषेष्वतद्भावेऽपि तदुपचारः" इति गौतमोक्तपरिगणनभङ्गापत्तेश्च ॥ किंचलक्षणास्थले कुत्राऽपि पदान्तरस्य न तदर्थप्रत्यायकत्वम्, किन्तु गौतमसूत्रे "तदुप - पार" इति श्रुतेस्तीरादौ गङ्गात्वमारोप्य गङ्गात्वेनैव बोधः । अत एव न नपुंसक स्वत्वम् । अत एव च 'गङ्गायां मीनघोषौ स्त' इत्यपि संगच्छते । अन्यथा गङ्गापदस्य तीर्थकत्वे मीनाधारत्वासम्भवः । प्रवाहार्थकत्वे घोषाधारत्वासम्भवः । युगपदवृत्तिइयकल्पनं तु न सम्भत्येव । पदानां सति सार्थकत्वसम्भवे तात्पर्यग्राहकत्वमात्रकल्पनाया अन्याय्यत्वाच्च ॥न चैवं वाक्यार्थस्यान्वयानभ्युपगमे 'श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः । "पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः ॥ "देवाकर्णय संग्रामे रामेणासादिताः शराः” । “जानामि सीता जनकप्रसूता जानामि रामो मधुसूदन" ॥ इत्यादिशिष्टप्रयोगाणां गतिविरह इति वाच्यम् । हृदिस्पृक् दिविस्पृगित्यादौ कर्मणि सप्तमीवत् उत्पत्तय इतिकर्मणि प्रथमेति सप्तशतीत्रोत्र नागेशगदाधरादिभिरभिहितत्वात् । पश्य लक्ष्मण पम्पायामित्यस्य - शनैः शनैः पदं धत्ते जीवानामनुकम्पया । पश्य लक्ष्मण पम्पायां बकः परधार्मिकः ॥ इत्याकारकस्यैव श्लोकस्य श्रुतत्वेन परमधार्मिकबककर्त्तकजीवानुकम्पाप्रयोज्यशनैःशनैःपदधारणकर्मकदर्शनस्यैव प्रतिपिपादयिषितत्वेन 'पश्य मृगो धावति' इत्येतत्समत्वात् । देवाकर्णयेत्यत्रापि "तिसमानाधिकरणे प्रथमा' इति वार्त्तिकानुरोधेन सन्तीत्यस्याध्याहारस्यावश्यकत्वेन रामकर्तृकासत्तिविशिष्टशर कर्तृकसत्ताकर्मका कर्णनस्यैव शब्दतः प्रतिपिपादयिषितत्वात् । जानामि सीतेत्यत्र जानामि सीतां जनकप्रसूतामित्यादि द्वितीयान्तपाठेऽपि छन्दोऽहानेः । सीतेत्यादिप्रथमान्तपाठस्य क्वचिदुपलम्भेऽपि लेखकप्रमादपतितत्वकल्पनात् ॥ न चैवं वाक्यार्थस्यान्वयाऽनभ्युपगमे “सपर्यया साधु स पर्यपूपुजत्” "जगाद मधुरं वाचं विशदाक्षरशालिनीम्” । "स जगदे वचनं प्रियमादरान्मुखरताऽवसरे हि विराजते " ॥ इत्यादिप्रयोगेषु अर्ध्यादिकत्वविशेषितसपर्यापदार्थस्य पूजने मधुरत्वविशेषितवाकूपदार्थस्य गदधात्वर्थे प्रियत्वविशेषित-वचनपदार्थस्य च गदधात्वर्थेऽभेदेनान्वयः । कथं निर्वहेत् विशेषणरहितसपर्यादेः पूजनादावन्वयस्य 'घटो घट' इत्यादिवदव्युत्पन्नत्वादिति वाच्यम् । धातूनामनेकार्थकत्वेन तत्र पूजयतेः सत्कारार्थकत्वस्य गदधातो. रुच्चारणार्थकत्वस्य कल्पनेनोपपत्तेः । जगाद मधुरामित्यादौ माधुर्यविशिष्टवागादेरभेदेन गदादिधात्वर्थे ऽन्वयाभ्युपगमे मृदु पचतीत्याद्यनुरोधेन तार्किककल्पितेन "क्रियाविशेषणानां कर्मत्वं क्लीबत्वं च" इति वचनेन नपुंसकत्वापत्तेश्च । वाक्यस्फोटसिद्वान्तशालिनां शाब्दिकानां मते वाक्यशक्तेरभ्युपगमेन शाब्दबोध आकाङ्क्षाज्ञातस्य हेतुत्वानभ्युपगमेन वाक्यार्थान्वयस्याऽपि सम्भवाच्च ॥ यत्तु 'पश्य सृगो धावति' इत्यादौ धावनस्य कर्मतासम्बन्धेन दृशिक्रियायामन्वयो न सम्भवति । "न हि क्रिया क्रियान्तरसमवायं गच्छति" इति “सार्वधातुके यक्" इति सूत्रस्थभान्यप्रमाण्येनैकख्याः क्रियायाः क्रियान्तरेऽन्वयस्याव्युत्पन्नत्वात् । अन्यभा Page #493 -------------------------------------------------------------------------- ________________ ४६४ तिर्थवादसारः। चन्दनसंयोगजन्यसुखतात्पर्येण "चन्दनं संयुनक्ति सुखयतीति" तन्तुनाशप्रयोज्यपटनाशतात्पर्येण "तन्तुर्नश्यति पटो नश्यतीति" नाशोदेश्यकगमनतात्पर्यण "नश्यति गच्छतीति" व्रजनविषयकश्लाघातात्पर्येण "व्रजति श्लाघयतीति" चैत्रगमनद्वेषतात्पयेण-"चैत्र आगच्छति द्वेष्टीति" शिष्यपाठेच्छातात्पर्येण "शिष्याः पठन्त्विच्छति गुरुः” इत्यादिप्रयोगापत्तेरित्याहुः । तदसत् । तिप्रकृतिधात्वर्थस्य ज्ञानार्थकधातु. भूधात्वर्थयोरव भेदसम्बन्धेनान्वये साकासात्वमित्यत्रैव भाष्यस्य तात्पर्यात् । “जानीहि जानकि न जीवति रामचन्द्रः" जानीहि जगन्नाथाज्जायते जगत्" । "पश्य मृगो धावति' “पचति भवति" इत्यादावेव तथाऽन्वयस्य दर्शनात् । “याहि याहि याति । इत्यादावभेदान्वयस्य दर्शनाच्च । हरिं नमेच्चेत्सुखं यायादित्यादौ हेतुहेतुमद्भावादिनाऽन्वये तु लिङादिसमभिव्या. हार एव हेतुः । अत एव भूवादिसूत्रे भाष्ये-"पचादयः क्रिया भवतिक्रियायाः को भवन्ति” इत्येवोक्तम् , न तु भवत्यादिक्रियायाइति। यद्यपि क्रियायाः प्राधान्ये "प्रयाति पुरुषस्तस्य पादयोरभिवादय" । इत्यादौ।। "सुरथो नाम राजाऽभूत्समस्ते क्षितिमण्डले। तस्य पालयतः सम्यक् इत्यादौ च तत्पदेनाप्रधानत्वात्पुरुषसुरथयोः परामर्शो न स्यादित्याहुः । तदपि हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् । इत्यत्र सच्छब्देन ग्रसनपरामर्शो न स्यादित्यनेनैव पराकरणीयम् ॥ तस्मात्सर्व. नाम्नामुत्सर्गतः प्रधानपरामर्शित्वमित्यत्र प्रधानत्वं वृत्तिग्रहमुख्यविशेष्यत्वमेव वाच्यम्, न तु शाब्दबोधीयमुख्यविशेष्यत्वम् , तच्च पुरुषसुरथप्रासादीनामस्त्येवेति न क्वाचिदनुपपत्तिः। नवा 'शोभना गा तां पिब' इत्यादीनां प्रयोगाणामापत्तिश्च । अत एव । पटोलपत्रं पित्तघ्नं मूलं तस्य कफापहम्' । "दशैते राजमातङ्कास्तस्यैवामी तुरङ्गमाः। चैत्रो ग्रामं गतस्तत्र मैत्रः किं कुरुतेऽधुना ॥ अप एव ससर्जादौ तासु वीर्यमवासृजत् । नीलो मणिर्गणः सोऽत्र दानादिर्बोध्यते तदा ॥ . इत्यादयः सङ्गच्छन्ते। अत एव च महाभाष्ये-"अथ शब्दानुशासनम् केषां शब्दानामिति प्रश्नः सङ्गच्छते । यदपि क्रियायाः प्राधान्ये "अश्वो धावत्यानय" "मृगो धावति मारय” इत्यादयः प्रयोगा न संगच्छेरन्निति कश्चिदाक्षिप्तम् , तदपि प्रथमान्तार्थप्राधान्यान्न । 'शृणु मेघो गर्जति' 'निवारय देवदत्तः प्रलपति' इत्याद्यसङ्गतितुल्यसमाधानम् । तस्मात्स्वकपोलकल्पनया न प्रयोगव्यवस्थाऽऽस्थेयेत्येव श्रेयः, स्थितस्य गतिश्चिन्तनीयेति न्यायात्। ; किञ्च यत्किञ्चिदभेदसम्बन्धेनैकविशेषणविशिष्ट तत्सजातीयसम्बन्धेन विशेषणान्तरान्वयोऽव्युत्पन्नः । अत एव समवायेन घटत्वविशिष्टे घटे समवायेन द्रव्यत्वस्या. न्वयतात्पर्येण घटो द्रव्यत्वस्य' इत्यादयो न प्रयोगाः। तथाच समवायेनैकत्वविशिष्ठेचैत्रे समवायेन कृतेरन्वयस्यैवासम्भवेन क प्रथमान्तार्थविशेष्यकबोधस्यावसरोअप सम्भवेत् । न चेशव्युत्पत्त्याभ्युपगमे वृत्तित्वसम्बन्धेन वर्तमानकालविशिष्टे व्यापार Page #494 -------------------------------------------------------------------------- ________________ तिर्थवादसारः। ४६५ कथं तेनैव सम्बन्धेन तिर्थाश्रयान्वयो भवदभिमतः सिद्धेदिति वाच्यम् । तत्र व्यापार आश्रयस्य जन्यत्वसम्बन्धेनैवान्वयाभ्युपंगमात् । . अथ पचतिभवतीत्यतो विक्लित्यनुकूलव्यापारकर्त्तकसत्ताविषयकबोधोपगमे समानवाक्ये तिवयलाभेन तत्र निघातव्यावृत्त्यर्थं "तिङतिङ इति सूत्रेऽतिड्यहणस्यावश्यकत्वेन तत्प्रत्याख्यानपरभाष्यविरोध इति चेद्? न । लौकिकैकवाक्यत्वसस्वेऽपि "एकतिङ्वाक्यम्” इति परिभाषितस्य तस्यासत्त्वेन प्रत्याख्यानसंगतः। न च सर्वत्र व्यापारविशेष्यकबोधमभ्युपगच्छता न पचति चैत्रः' इत्यतश्चैत्राभिन्नाश्रयाभाववान् विक्लित्त्यनुकूलो व्यापार इति बोधोऽभ्युपेतव्यः । अभावश्च वृत्तिस्वसम्ब. म्धावच्छिन्नप्रतियोगिताको वक्तव्यः, स च न सम्भवति । वृत्तित्वस्य वृत्त्यनियामक सयाभावप्रतियोगितावच्छेदकत्वादिति वाच्यम् । पारिमाण्डल्येन न घट इत्यत्र जन्य. त्वस्य तृतीयार्थतया पारिमाण्डल्यनिरूपितजन्यत्वस्याप्रसिद्धत्वेन तादृशजन्यत्वनि. ष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य वक्तमशक्यत्वेन निरूपितत्वसम्ब. न्धावच्छिन्नपारिमाण्डल्यनिष्ठप्रतियोगिताकाभावस्यैव तृतीयार्थजन्यत्वेऽवश्यवक्तव्यत्वेन वृत्त्यनियामकसम्बन्धस्याप्यभावप्रतियोगितावच्छेदकत्वस्वीकारात्। वृत्तित्वे वृत्त्यनियामकतायाः सविवादत्वाच्च । 'न पचति चैत्र' इत्यतश्चैत्राभिन्नाश्रयवृत्ति. विक्लत्त्यनुकूलव्यापाराभाव इति बोधस्यैवाभ्युपगमाच्च । शाब्दिकमते व्यापारविशे. ष्यक एव बोध इत्युद्धोषस्य नअसमभिव्याहारस्थलनियतत्वाच्च ॥ ... न चैवमपि व्यापारविशेष्यकबोध इति प्रवादः । त्रयः काला इत्यतः प्रथमान्तार्थविशेष्यकबोधस्यैव सत्त्वेन व्यभिचरित एव । न च तत्र क्रियाध्याहारः सम्भवति । त्रयाणां कालानामविद्यमानत्वेन सन्तीत्यस्याध्याह मशक्यत्वात्। क्रियान्तराध्याहारस्य "अस्तिर्भवन्तीपर" इति कात्यायनवचनविरुद्धत्वाच्चेतिवाच्यम् । अस्तिर्भवन्तीतिवचनस्थास्तिपदस्यान्वययोग्यक्रियावाचकधातुमानोपलक्षणत्वेन'त्रयः काला' इत्यत्रेश्वरेण ज्ञायन्त इत्यस्याध्याहारेण क्रियाविशेष्यकबोधप्रवादपरिरक्षणात् । - युक्तं चैतत् । कथमन्यथा ईश्वरो जानातीत्यस्याध्याहारमन्तरेण "चैत्रेण सुष्यत" इत्यादावगत्या क्रियाविशेष्यकबोधाभ्युपगमे प्रथमान्तार्थविशेष्यक एव सर्वत्र बोध इति भवत्सिद्धान्तसिद्धः प्रवादो न व्यभिचरेदिति विभाव्यताम् ॥ __ अथ सर्वत्र क्रियाविशेष्यकबोधस्येवाभ्युपगमे द्वित्वकत्वयोर्बहुवचनविधायकेन "अस्मदो द्वयोश्च इति सूत्रेण 'पटुरहं ब्रवीमि' इत्यत्र पाक्षिकबहुवचनवारणायारब्धे "सविशेषणानां प्रतिषेधः” इति वार्तिके जागरूके 'के यूयं, मैथिला वयम्' इति प्रश्नोत्तरवाक्ये। - "तव गुणविलिखनहेतोर्वयमपि कुब्जाः किमौदास्यम्। ___ इति कविप्रणीतवाक्ये च बहुवचनानुपपत्त्या क्रियायोग एव स निषेध इत्यवश्यवक्तव्यम् । तथा च तत्र तत्र क्रियाध्याहारे बहुवचनानुपपत्तिः । अनध्याहारे सर्वत्र क्रियाविशेष्यक एव बोध इति नियमासङ्गतिरिति सेयमुभयतस्पाशारज्जुरिति चेद ? मैवम् । "तिब्समानाधिकरणे प्रथमा” “अभिहिते प्रथमा"इति,, वार्तिकस्वारस्येन क्रियाध्याहारस्यावश्यकतया उक्तवाक्यद्वये उद्भूतावयवभेदविवक्षायां बहुवचनस्य साधुत्वकल्पनात् । स निषेधस्तु।मुख्यार्थकस्यैव । अत एव-... - त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिसानोन्नता। . __ इत्योदावपि बहुवचनं सङ्गच्छते॥ ५.०० Page #495 -------------------------------------------------------------------------- ________________ ४६६ तिङर्थवादसारः । " अथ प्रथमान्तार्थस्य प्राधान्यादेव पुत्रमिच्छति पुत्रीयतीतिवदिष्यते पुत्र इत्यर्थे न क्यच् भिन्नार्थत्वात्" इति भाष्यं संगच्छते । तत्र हि भिन्नार्थत्वं कर्तृप्रत्यये व्यापाराश्रयस्य प्राधान्येन कर्मप्रत्यये फलाश्रयस्य प्राधान्येनैव सम्भवतीति चेद्र ? मैवम् । " सुप आत्मन" इति सूत्र इच्छायामित्यस्यानुवृत्तेरिच्छानुकूलव्यापारार्थ एव क्यचो विधानेन कर्मप्रत्यये व्यापारजन्येच्छाया एव बोधेन गुणप्रधानभावव्यत्यासकृतभिन्नार्थत्व एव भाष्यस्य तात्पर्येण तत्सङ्गतेः ॥ अथ तिर्थस्याप्राधान्ये "तदधीते तद्वेद,, इत्यनेन विहितेन वैयाकरण इत्यादावrsध्ये त्र्वा बोधो न स्यात् ; क्रियायाः प्राधान्येन तस्या एव तद्धितप्रत्ययवाच्यत्वादिति चेत्सत्यम्, तद्धितस्थले विशेष्यविशेषणभावव्यत्यासस्य "क्वचिद्गुणप्रधानत्वमर्थानामविवक्षितम्' इत्युपक्रम्य । "आख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावादौ तत्र दृष्टो विपर्यय:,, इति कारिया हरिणा स्पष्टमभिधानात् ॥ भाष्येऽपि - " तद्वहति" इति सूत्रे वह त्यर्थं रथादिभ्यः प्रत्ययविधिरनथंकः "तस्येदम्" इत्यधिकारस्थेन " रथाद्यत्" इत्यनेन विहितत्वादित्याशङ्कय वहति वोढेति शब्दभेदान्न तेन सिद्धिरित्युक्त्वा शब्दभेदेऽप्य सामान्य सिद्धम् । य एवार्थो रथं वहति स एवार्थो रथस्य वोढेति दृढीकृत्य द्विरथ्य इत्यादौ यतो नुगभावार्थं तदिति सिद्धान्तितम् । य एवार्थ इत्यादेः रथ्य इत्यस्य विग्रहभूते रथं वहतीत्यत्र योऽर्थः यावानर्थो विषय क्रियतेः स एव तावानेव तद्विग्रहभूते रथस्य वोढेत्यत्र विषयीक्रियते इत्येतावन्मात्रतात्पर्येण गुणप्रधानभावव्यत्यासकृतोऽभेद नाश्रयणीय इति स्पष्टमेव प्रतीयते ॥ एतेन य इदानीमप्रयुक्ताः शब्दा नामी साधवः स्युरित्युपक्रम्य ऊषेत्यस्यार्थे क्व यूयमुषिता इति, तेरेत्यस्यार्थे क्व यूयं तीर्णा इति, चक्रेत्यस्यार्थे क्व यूयं कृतवन्त इति, पेचेत्यस्यार्थे क्व यूर्यं पक्ववन्त इति पस्पशाभाष्येण प्रथमान्तार्थप्राधान्यलाभेन क्रियायाः प्राधान्ये तद्विरोध इत्याक्षिपन्तः परास्ताः । गुणप्रधानभावव्यत्यासस्य सोढव्यत्वात् । ऊषेत्यादिप्रतिपाद्यस्यार्थस्य वाक्यान्तरणार्थतोऽपि लाभ इत्यत्रैव भाष्यस्य तात्पर्येण क्व यूयमुषिता इत्यादीनां विवरणत्वाभावाच्च । विवरणत्वे च ऊषेत्यादिना किं शब्दार्थस्य युष्मच्छब्दार्थस्य चास्पर्शेन तवाऽप्येतद्भाष्यासङ्गतिर्दुर्वारैव । तस्मादूषेत्यत्र लिटा प्रतीयमानं क्रियागतं यद्वक्तृपरोक्षत्वं तत्क्रियाप्रतिपाद्यत इति त्वयाऽपि वाच्यम् । तच्च परोक्षत्वे किमः शक्त्यभावादार्थिकमेव किमः प्रश्नविषयार्थकत्वेन प्रश्नस्य चानुभूतविषयकताया एव दर्शनेनार्थतः पर्यवसानात् । अत एव तत्र कैयटेन यद्यपि ऊषेति ऊषिता इत्यनेन सामानार्थी न भवति परोक्षत्वादेर्विशेषस्यानवगमात् तथापि तत्प्रत्यायकपदान्तरसहितः प्रयुज्यत इत्युक्तम् ॥ क्रियायाः प्राधान्यादेव नोपमानत्वं तस्याः सिद्धत्वेनाभावात् । कर्त्तुस्तु क्रियां प्रति विशेषणत्वात् । तदुक्तं सन्सूत्रे भाष्ये - " न वै तिङन्तेनोपमानमस्ति” इति,, "किंतु सम्भावनार्थमिव शब्दस्तत्र तत्र” इति कैयटः । तिङन्तेन शब्देनोपमाबोध नास्तीति तद्भाष्यार्थः ॥ "अनद्यतन" इति सूत्रे च भाष्ये - " अयं तु गन्ता देवं पादौ निदधतीत्यादौ अनद्यतनभविष्यद्विषये लुट्कथमित्याशङ्कय गन्तेव गन्तेत्यर्थं नवै तिङन्तेनोपमानमस्तीति दूषयित्वा अनद्यतन इवानद्यतन इति व्याख्यातम् । Page #496 -------------------------------------------------------------------------- ________________ तिङर्थवादसारः। ४६७ प्रयोगदर्शनवशागौणेऽप्यनद्यतने प्रत्यय इति कैयटे च ॥ उपमेयत्वं तु क्रियाया अपि भवत्येव, ब्राह्मणवदधीत इत्यादावध्ययनस्योपमेयत्वेन प्रतीतेः। नचाध्ययने ब्राह्मणसादृश्याभाव इति वाच्यम् । ब्राह्मणपदस्य तत्कर्त्तकाध्ययने लाक्षणिकत्वात् ॥. आलङ्कारिका अपि.... "लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः। . ....... असत्पुरुषसेवेव दृष्टिनिष्फलतां गता,. इत्यादावनुक्तविषयत्वेनोत्प्रेक्षामेव वदन्ति ॥ काव्यप्रकाशे मम्मटाचायरपि व्यापनादि लेपनादिरूपतया संभावितमित्येवोक्तम् ॥ हरिरप्याह साध्यस्यापरिनिष्पत्तेः सोऽयमित्यजुपग्रहः । तिङन्तैरन्तरेणेवमुपमानं ततो न तैः ॥ इति । अनिष्पत्तेः सिद्धत्वेनाभानात् । तयोरिव मान्तरेण सिंहो माणवक इत्यादिवत् “पठति रोदिति" इत्यादौसोऽयमित्यभिसंबध्यभावात्तिङन्तार्थो नोपमानं यस्योपमा. नस्य इव मन्तरेण उपमेयेन सह सोऽयमित्यभिसंधिस्तस्येव समभिव्याहार उपमानत्वेन प्रतीतिरित्यङ्गीकारात् । ननु रोदितीव पठतीत्यादौ कर्तुं रेवोपमानत्वं भवतु, तस्य च सिद्धत्वेन भानादत आह "साधनत्वं प्रसिद्धं च तिक्षु सम्बन्धिनां यतः । तेनाध्यारोप एव स्यादुपमा तु न कल्प्यते ॥ सम्बन्धिनां गुणाभूतानां साधनत्वं कारणत्वम् अध्यारोप उत्प्रेक्षा ॥ दण्ड्यप्याह "यापमानत्वं स्याद्यभूतोऽसौ क्रियापदे स्वक्रियासाधनव्यग्रो नालमन्यमुपेक्षिा तुम्" इति। नम्वेवं स्वीकारे "स यथा वै श्येनो नियत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं नियत्यादत्ते यमभिचरति श्येनेन,, इत्यादावपि श्येनपदार्थायपदार्थयोरप्युपमानोपमेयत्वेन प्रतीतिर्न स्यादिति चेन्न । यत्प्रकारकं श्येनकर्तकं पक्ष्यादानं तत्प्रकारकमेतत्कर्तक भ्रातृव्यादानमिति बोधोत्तरं तमेव धर्म निमित्तीकृत्य पश्चात्तयोरुपमानोपमेयभावः । सर्वत्रैव यथाशब्दसमभिव्याहारे बोधद्वयं बोध्यम् । एवं च न वै तिङन्तेनोपमानबोधोऽस्तीत्यनेन शाब्दस्यैव बोधस्य निषेध इति न किंचिदेतत् ॥ यथाशब्दशक्तिस्वभा. वात् । थालः सादृश्यार्थकत्वं तु न युक्तम् । यथा हरिस्तथाहर इत्यादितो यत्सहशो हरिस्तत्सदृशो हर इति बोधेऽपि हरिसदृशो हर इत्यर्थालामात् तस्मात्सादृश्यविशिष्टसस्थाल्प्रत्ययार्थः येन प्रकारेणेति विग्रहवाक्ये तृतीयार्थो वैशिष्टयमिति दिक् ॥ ___ अथ कर्तुराख्यातार्थत्वेऽपि क्रियाविशेष्यको बोधो न शक्यते वक्तुम् । “प्रकृतिप्रत्ययौ सहाथै ब्रूत, इति न्यायविरोधात् । तथा च प्रथमान्तार्थविशेष्यकबोध एवाञ्जसा स्वीकर्तव्य इति चेन्मैवम् । 'प्रकृतिप्रत्ययौ सहाथै ब्रूत' इत्यस्य हि यःप्रत्ययार्थःस प्रधानमेवेति, यः प्रधानं स प्रत्ययार्थ एवेति वाऽर्थो न कत्तुं शक्यते । अजा अश्वाछागीत्यादौ स्त्रीत्वस्य प्राधान्यापत्तेरजादेस्तदनुपपत्तेश्च । किन्तु उत्सर्गोऽयम् । विशेष्यत्वादिना बोधस्तु आख्यातार्थकर्त्तप्रकारकबोधे विशेष्यतया धातुजन्यभाधनोपस्थितिहेतु. रिति कार्यकारणभावमूलकव्युत्पत्त्यनुरोधात् ॥ अत एव प्रधानप्रत्ययार्थवचनमर्थस्या. Page #497 -------------------------------------------------------------------------- ________________ ४६८ तिङर्थवादसार। भ्यप्रमाणत्वादित्याह भगवान् पाणिनिः । प्रधान प्रत्ययार्थ इति वचनं न कार्यम् । अर्थस्य अर्थावबोधस्य अन्यप्रमाणत्वात् । व्युत्पत्त्यनुसारित्वादिति हि तदर्थः ॥ एतेन व्यापारस्य प्राधान्यानुरोधेन फलमानं धात्वर्थः, व्यापार आख्यातार्थ इति मीमांसकोक्तमपि प्रत्युक्तम् । फलमात्रस्य धात्वर्थत्वे ग्रामस्य संयोगाश्रयत्वेन ग्रामो गमनवानित्यादिप्रयोगापसेश्च । नच भावार्थकल्युटा फलानुकूलव्यापारप्रतीतेन ग्रामो गमनवानित्यस्यापत्तिरिति वाच्यम् । भावविहितप्रत्ययानां धात्वर्थानुवादकत्वेन प्रयोगसाधुत्वमात्राथकत्वमिति स्वसिद्धान्तविरोधापत्तेः । नच पचतीत्यस्य पाकं करोतीति व्यापारसामान्यार्थककरोतिना विवरणदर्शनादाख्यातस्य व्यापारार्थकत्वमिति वाच्यम् । करोतिना धात्वर्थस्यैव विवरणात् । कथमन्यथाऽऽख्यातरहितस्य पकवानित्यस्य पार्क कृतवानिति विवरणं किं कृतमिति व्यापारविशेषविषयकप्रश्नस्य पक्वमित्युत्तरं च सङ्गच्छेत ॥ किं चतिकृदुभयसाधारण्येन भावनायाः प्रतीतेरुभयसाधारण्येन धातुरेव तद्वाचक इति यक्तम्॥किं च फलमात्रस्य वाच्यत्वे क्रियावाचिनांवित्रीयमाणा धातुसंज्ञैव न स्यात्। तथा च संज्ञानिबन्धनाः प्रत्ययास्तेभ्यो न स्युः । नच तत्र क्रियाशब्देन फलमेव गृह्यत इति तद्वाचकत्वादेव धातुसंज्ञा सेत्स्यतीति वाच्यम् । एवं सति धात्वर्थत्वं क्रियात्वं क्रियावाचकत्वे सति भ्वादिगणपठितत्वं च धातुत्वमिति क्रियात्वग्रहे धातुत्वग्रहस्य धातुत्वग्रहे क्रियात्वग्रहस्य चापेक्षणेनान्योन्याश्रयापत्तेः । मम तु "यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते" इति हर्युक्तः । साध्यत्वेन प्रतीयमानत्वं क्रियात्वम् , तद्वाचकत्वे सति गणपठितत्वं च धातुत्वमिति लक्षणाऽभ्युपगमेन नान्योन्याश्रयस्य सम्भावनेत्यपरमनुकूलमित्यलं पल्लवितेनेति शिवम् ॥ इत्यं यथामति विभाव्य तिर्थवाद-सारं विलिख्य विबुधाः समुपाहरामि । पश्यन्त्वमत्सरधिया सकलं भवन्तः खुद्दीबुधोऽहमिति साञ्जलिरर्थये च ॥१॥ इति झोपनामकश्रीखुद्दीशर्ममैथिलमनीषिकृततिर्थवादसारः । Page #498 -------------------------------------------------------------------------- ________________ अथ भूषणसारोल्लिखितग्रन्थकृतांविशेषमतान्तराणां च सूचकम् । नाम-सम्बन्धसूचकं च पृष्ठम् । । नाम-सम्बन्धसूचकं च पृष्ठम् । शब्दकौस्तुमः ६,२३३१४२० भाष्यम् ( वेदान्ते ) १७६ वाक्यपदीयम्(१) १०।१२।१४।१०४।१९०। वृत्तिकारास्तु १८८ ३४८१४२४ २००।२४०३४४१३४८ दर्शनान्तरीयरीतिः नैयायिकवृद्धाः १९९।२०११४१७ (मीमांसकरीतिः) १११११ वेदः मीमांसकाः - १८६६९।११।२५१ वेदभाष्यम् २१६ बृहद्वैयाकरणभूषणम् २५।९६ लिङ्गानुशासनम् २१८ नैबायिकादयः २६१५११९१७२ प्राचीनवैयाकरणाः २३३ निरुक्तम् ३३ व्यपेक्षावादी २४१३२५२ भाष्यम् ६५।०८।९३३९६१९३।१९७ मीमांसकंमन्याः २५६ महपादः ०1३७०१४०९ जैमिनीयाः २७० नैयायिकनव्याः ७२।१२ कोशः माट्टरीतिः ७५१४०९ आकृत्यधिकरणवार्तिकम् ३३३ सूत्रम् कैयटः बार्तिककार: ९६६३४८ ३३७१३३८१४१५ हेलाराजीयम् महाभाष्यकार: ३८९ नवमे ( मीमांसाध्याये) वर्णस्फोटवादी ३८९ . १०१ अभियुक्ताः १०८ वैयाकरणा: ३८९।३९३ केचित् वेदान्तैकदेशी ४०९ १०९ श्रुतयः ११३।१२१ वाचस्पतिः ४०९ किरणावली, उदयनः १२४ कल्पतरू मण्डनमिश्रः १३६ परिमल: ४१८ ४३२ भगवान व्यासः १६८ उत्तरमीमांसाधिकरणे आनन्दवल्ली १७४ भट्टोजीदाक्षितः इति भूषणसारोलिलखितग्रन्थकृतां विशेषमतान्तराणां च सूचकम् । ४०९ भृगुवल्ली ४२३ - (१) अत्र सर्वामिन्नविभक्त्यन्तानामपि ग्रन्थग्रन्थकारवाचकपदानां प्रथमविभक्त्या विपरिणाम ल्वा निर्देशः कृत इति बोध्यम् । ... Page #499 -------------------------------------------------------------------------- ________________ अथ वैयाकरण भूषणसारस्थ कारिकाणामकारादिक्रमेणानुक्रमणिका । कारिकारम्भः । का०अं० पृष्ठम् २७ २२८ ५० ३४५ aagarवित्याह अत्रार्धजरतीयंस्यात् अथादेशा वाचकाश्चेद् अनेकव्यक्त्यभिव्यड्या ६४ ३९८ ७२ ४३५ ४१ ३०९ अभावोवा तदर्थस्तु अभेदश्चात्र संसर्ग ५३ ३५३ ५६ ३६३ १९ १०५ ६० ३७५ ३४ २४९ ३८ २९६ अभेदैकत्वसङ्ख्याया अविग्रहागतादिस्था अव्ययकृत इत्युक्तेः षष्ठयर्थ बहु असारनुमानेन अस्त्यादावपि धर्म्यशे आख्यातं तद्धितकृतोः आख्यातशब्दे भागाभ्याम् १४ आश्रयोवधिरुद्देश्यः इत्थं निष्कृष्यमाणम् इन्द्रियाणां स्वविषये १२ ८३ ३५ २७१ ८८ कृत्वोऽर्थाः क्त्वातुमुन् वस्युः कैश्विद्वयकय एवास्या ' २४ १४७ ७४ ४३९ ३७ २७५ ६९ ४२२ ४ ४८ २५ २०३ उपेयप्रतिपत्यर्था उत्सर्गोऽयं कर्मकर्तृ एकं द्विकं त्रिकं चाथ औपाधिकोवाभेदोऽस्तु कथं कर्तुं वाच्यत्वम् कल्पितानानुपाधित्वम् ७० ४२७ ७१ ४३२ ६३ ३९२ ९ ७५ ६ ५९ किंकार्य पचनीयं चेत् किंत्तूत्पादनमेवातः क्रीडायांणस्तदस्यास्ति कृत्तद्धितसमासेभ्यः ५५ ३५६ ४९ ३४४ २० १०८ ७२ ४३५ कारिकारम्भः । घटेनेत्यादिदिषु नहि चकारादिनिषेधोऽथ जायन्ते तज्जन्यबोध ४३ ३२५ तथान्यत्र निपातेsपि तथाचभावेन तस्मात्करोतिर्धातोः स्यात् ८ १७ १०० ६७ ४२ ११ ४० ३०७ ३३२ ६४ ३९६ ४७ ३३५ ४८ ३३८ द्योतकः प्रादयो न धात्वर्थे च क्रियात्वञ्च नञ्समासे चापरस्य नन् समासे चापरस्यद्योत्यम् ४६ नामार्थयोरभेदोऽपि निपातानां वाचकत्वम् निपातत्वं परेषां यत् निर्वत्येंच विकार्येच पञ्चकोशादिवद् पदार्थः सदृशान्वेति पदेन वर्णा विद्यन्ते पर्यवस्यच्छाब्दबोधः प्रदेय एववाशक्तिः प्रयोगोपाधिमाश्रित्य ५१ ३४७ ७ ६१ ६९ ४२२ ४४ ३२८ ६८ १११ ३६ २७२ ५४ ३५४ १ ७ फणिभाषितभाष्याब्धेः फलव्यापारयोर्धातुः फलव्यापारयोस्तत्र फलव्यापारयोरेक बहूनां वृत्तिधर्माणां भाट्टास्तेऽपीत्थमेवाहुः ६७ ४०९ ३३ २४१ ३१ २३७ भेदः संसर्ग उभयं भेद्यभेदकसम्बन्धोपाधि भौतपूर्व्यात्सोऽपि यदिपक्षेऽपि वत्यर्थः का० अं० पृष्ठम् ६५ ४०० ३३ २४७ ५२ ३४७ २ ३२३ ८२ ७ ३ ४७ १३ ८६ २१ ११० ३० २३७ १८ १०४ Page #500 -------------------------------------------------------------------------- ________________ [ २ ] कार कारिकारम्भः। का०अ० पृष्ठम् । रदाभ्यां वाक्यभेदेन ५९ ३७३ लक्षणादधुनाचेत्तत् ६७ ४०१ लक्ष्यानुरोधात्सङ्ख्यायाः ५७ ३७० वर्तमाने परोक्षेश्वो २२ ११८ वाक्यात्पदानामत्यन्तम् ६९ ४११ वाक्यस्फोटोऽतिनिष्कर्षे ६१ ३.७ विधेये भेदकं तन्त्रम् ५८ ३७२ व्यवस्थितेर्व्यवहृतेः ६२ ३५२ व्यापारो भावनासैव ५ ४९ शक्यत्व इव शक्तत्वे ७१ ४३२ शब्दोऽपि यदिभेदेन २६ २२४ शरैरुपैरिवोदीच्यान् ४५ ३३० कारिकारम्भः। सत्ययत्तत्रसाजातिः समासे खलुभिन्नैव १२ २५१ समासस्तुचतुधेति २९ २३४ सम्बोधनान्तं कृत्वोर्थाः । १६ . ९३ सम्बन्धिशब्दे सम्बन्धो ३९ स्वरदैाद्यपियन्ये ७० ४२७ सर्वनामा व्ययादीनाम् १० .. .८० साध्यत्वेन क्रिया तत्र १५ : ९१ सुपां सुपा तिङा नाम्ना २८ २३१ हरेवेत्यादिदृष्ट्वा च ६६ ४०१ हयोभूतेप्रेरणादौच २३. १२९ इति वैयाकरणभूषणसारस्थकारिकाणामकारादिक्रमेणानुक्रमणिका । प्राप्तिस्थानम्चौखम्या संस्कृत पुस्तकालय, बनारस सिटी। Page #501 -------------------------------------------------------------------------- ________________ वैयाकरणभूषणसारे प्रश्नाः । १९३८ १ सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः । धातुसम्बन्धाऽधिकार निष्पन्नमसमस्तनम् ॥ १ ॥ तथा यस्य च भावेन षष्ठी चेत्युदितद्वयम् । साधुत्वमष्टकस्यास्य क्रिययैवाऽवधार्यताम् ॥ २ ॥ इदं कारिकाद्वयं सारोक्तरीत्या सावतरणं व्याख्येयम् । २ निर्दुष्टं कर्मलक्षणं निरुध्य कर्मभेदाः कियन्तः कानि च तदुदाहरणानि कोऽस्ति च निवंविकार्ययोर्भेद एतत् सर्व्वं समुपपादनीयम् । ...१० ३ क्रियायां परोक्षत्वं कीदृशं प्रदर्शितं सारकृता कौ च तत्र चोद्यपरिहारौ कृतौ तेनेति सर्व्वे साधूपदर्शनीयम् । ४ वैयाकरणमते शक्तिस्वरूपं निरुच्यं लक्षणाया अतिरिक्तवृत्तित्वं निराकरणीयम् । ५ देवताद्यर्थक तद्धितप्रत्ययानां कियन्तोऽर्थाः प्रदर्शिताः सारकृद्भिः युक्तश्च कः तेषु, इति साधु प्रतिपादनीयम् । १० ६ (क) अभेदेकत्वसंख्याया वृत्तौ भानमिति स्थितिः । कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद्यधोच्यते । (ख) अनॆन व्यक्त्यभिव्यङ्गया जातिः स्फोट इति स्मृता । कैश्चिद् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः । इति कारिकाद्वयं व्याख्येयम् । सूचना - एषु निजेच्छया पन्चैव प्रश्नाः समाधेयाः । १० १० १० १० १९३९ १ ‘पश्य मृगो धावति' इत्यत्र वैयाकरणनैयायिकमतयोः पृथग् वाक्यार्थावुपवर्ण्य मृगपदाद् द्वितीयावारणप्रकारं चोपपाद्य कतरद् युक्तमिति सिद्धान्तय । २ 'पतच्चतुष्टयानुगतप्रवर्तनात्वेन वाच्यता' इत्युक्त्या प्रवर्तना लिर्थं इति प्रतिपादितम् । तत्र का नाम प्रवर्तना भूषणकारमते तत्साधु निरूपय । ३ कर्म्मभेदा उदाहरणैः स्पष्टीकरणीयाः । ४ 'भेदः संसर्ग उभयं वेति वाच्यव्यवस्थिते:' इत्यस्याशयं विशदीकृत्य व्यपेक्षावादिमतं निरा क्रियताम् । ५ अष्टानां स्फोटानां नामानि निर्दिश्य तत्र सिद्धान्तपक्षः प्रदर्शनीयः । ६ पदार्थः सदृशाऽन्वेति विभागेन कदाचन । निपातेतरसंकोचे प्रमाणं किं विभावय ॥ १ ॥ निपातानां वाचकत्वमन्त्रयव्यतिरेकयोः । युक्तं वा नतु तद्युक्तं परेषां मतमेव नः ॥ २ ॥ इति कारिकाद्वयं व्याख्येयम् । सूचना - एषु पञ्चैव प्रश्नाः समाधेयाः सर्वे च समाङ्कभाजः । Page #502 -------------------------------------------------------------------------- ________________ व्याकरण-शास्त्रि-आचार्य-ग्रन्थाः व्याकरणमहाभाष्यम्-प्रदीप, उद्द्योत, व्याख्या तथा महामहोपाध्याय श्री गिरिधरशर्मा सम्पादित व्याकरणशास्त्रेतिहासात्मक भूमिका सहित 'तत्त्वालोक' टोकोपेतम् नचाह्निकम् 13) व्याकरणमहाभाष्यप्रकाश-प्रश्नोत्तरी शब्दकौस्तुभः-भट्ठोजिदीक्षितविरचित नवाहिक 6) संपूर्ण 18) परमलघुमञ्जूषा-अर्थदीपिका' टीका टिप्पणी सहित - परमलघुकला-परमलघुमंजूषा-प्रश्नोत्तरी परिभाषेन्दुशेखरः-भैरवी' 'तत्त्वप्रकाशिका' टीका सहित परिभाषेन्दुप्रश्नपञ्जिका प्रश्नोत्तरी लघुजूटिका-परिभाषेन्दुशेखरपरिष्कृतिनिर्मितिः ROMAME प्रस्तावतरङ्गिणी-शास्त्रिपरीक्षापाठ्य स्वीकृत निबन्धग्रन्थ प्रबन्धामृतम्-व्याकरणाचार्यनिर्धारित निबन्धग्रन्थ प्राकृतप्रकाश:-मनोरमा टीका परिशिष्ट सहित प्राकृतव्याकरणवृत्तिः–त्रिविक्रमदेवनिर्मित प्रौढमनोरमा-शब्दरत्न, भैरवी, भावप्रकाश, सरला टीका चतुष्टयोपेत प्रौढमनोरमा-शब्दरत्न, ज्योत्स्ना, कुचमर्दिनी, प्रभा-विभा सहित प्रौढमनोरमा-शब्दरत्न-प्रश्नोत्तरावली माधवीयधातुवृत्तिः-सायणाचार्य विरचित लघुशब्देन्दुशेखरः-अव्ययीभावान्त नित्यानन्दपन्तपर्वतीय टीका 10) तथा तत्परुषादि समाप्तधन्त भैरवी टीका 20) संपूर्ण 30) लघुशब्देन्दुशेखरः-नागेशोक्तिप्रकाश' टीका सहित लघुशब्देन्दुकला-लघुशब्देन्दुशेखर-प्रश्नोत्तरी श्रीधरी-लघुशब्देन्दु-शेखरव्याख्यानम् सदाशिवभट्टीविषमपदवाक्यवृत्तिःवाक्यपदीयम्-भावप्रदीप' व्याख्यासहित ब्रह्मकाण्ड विभक्तयर्थनिर्णयः-म० म० गिरिधरोपाध्यायविरचित वै० भूषणसार:-सरला' 'सुबोधिनी' टीका सहित वै० भूषणसारप्रकाशः-प्रश्नोत्तरी वै० भूषणनिबन्धसंग्रहः वै० सिद्धान्तलघुमञ्जूषा-'कुञ्जिका' 'कला' टीका सहित तात्पर्य निरूपणान्त 3) संपूर्ण 22 // ) व्याकरणसिद्धान्तसुधानिधिः-अष्टाध्यायीभाष्यव्याख्यानरूपः प्राप्तिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस-१