SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिणयः । ९१ त्या 'काष्ठैः पाक' इत्याद्यपीष्टमेव । एवं फलांशोऽपि धातुना असत्त्वावस्थापन एवोच्यते । अत एव स्तोकं पचतीतिवत् स्तोकं पाक इत्युपपद्यते इति ॥ १४ ॥ एतदेव स्पष्टयति साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ॥ सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ १५ ॥ नच घञादिभिः सिद्धत्वेनाभिधाने मानाभावः पाक इत्युक्ते, भवति, जायते, नष्टो वेत्याद्याकाङ्क्षोत्थापनस्यैव मानत्वात् । धातूप दर्पणः *एवमिति*। यथौदनस्य पाक इत्यादावोदनस्य कर्मत्वाऽनुपपत्त्या सत्त्वभूतव्यापारो धातुवाच्यस्तथेत्यर्थः । तादृशफलस्यावाच्यत्वेऽनुपपत्तिं दर्शयति-अत एवेति । अन्यथा तादृशप्रयोगानुपपत्तिस्तादृशफलस्य वाच्यत्वे तु तस्य व्यपदेशिवद्भावेन स्वसम्बन्धितया कर्मत्वात्, तत्समानाधिकरणस्तोकादिशब्देभ्यो द्वितीयोपपत्तिः । तत्र स्तोकादिभ्यः “कर्त्तृकर्मणोः " इति षष्ठी तु न । कर्तृसाहचर्येण भेदान्वयिन एव कर्मणस्तत्र ग्रहणात् । अत एव “पूजनात्पूजितम्” इति सूत्रे भाष्ये दारुणं यथा भवति तथाssध्यापक इत्यर्थे दारुणाध्यापकसिद्ध्यर्थं मलोपवचनमारब्धं भाष्ये । अन्यथा “कर्तृकर्मणोः” इति विहितषष्ट्यन्तेन समासे तद्वैयथ्यं स्फुटमेवेत्यन्यत्र विस्तरः । अन्ये तु "ओजः सहोऽम्भसा वर्त्तत" इत्यधिकारे “तत्प्रत्यनुपूर्वमीपलोमकूलम्” ( पा० सू० ४।४।२८ ) इति सूत्रे द्वितीयान्तच्छब्दग्रहणं ज्ञापकम् । क्रियाविशेषणाद् द्वितीयेत्यस्यार्थस्य, न तु स्तोकाद्यर्थस्य कर्मत्वमपि । फलस्य फलाश्रयत्वाऽभावात् । एवञ्च न तद्वाचकेभ्यः षष्ठीप्रसक्तिरित्याहुः ॥ १४ ॥ परीक्षा यति - एवमिति । *एवम् — व्यापारवत् । *स्तोकं पाक इति । अत्र व्यवदेशिवद्भावेन साध्यावस्थफलाश्रयस्यैव कर्मत्वेन तत्समानाधिकरणात् स्तोकपदाद् द्वितीया । अत एव क्रियाविशेषणानां कर्मत्वमिति प्रवादः सङ्गच्छते । न च निर्मूलोऽयं प्रवादः इति भ्रमितव्यम् । "ओजः सहोऽम्भसा" इति सूत्राद्वर्त्तते इत्यनुवर्त्तमाने "तत्प्रत्यनुपूर्वमीप" इति सूत्रेण द्वितीयान्तात्प्रत्ययविधानं सङ्गच्छते । एवं च तस्मिन्नर्थे सकर्मका कर्म कसाधारण्येन ज्ञापकमस्तु ॥ १४॥ *तत्र* - पाकादिशब्दे । धातुरूपं - धातुस्वरूपम्, निबन्धनं प्रतिपादकं, यस्याः सा वाचकतासम्बन्धेनास्तीति शेषः । तस्याः क्रियायाः । *सिद्धभावः — सिद्धत्वं तद् घञादिप्रतिपाद्यमस्तीति शेषः । कारिका प्रतिपाद्यमस्तीति शेषः । कारिकाप्रतिपाद्यमर्थं शङ्कासमाधानाभ्यां द्रढ
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy