________________
दर्पणपरीक्षासहिते भूषणसारेनच घअन्ते धातुना तथाभिधाने मानाभावः । ओदनस्य पाक इति कर्मणि षष्ठया मानत्वात् । नच भवतीत्यध्याहृततिङन्तक्रियान्वयात् षष्ठी। "कर्तृकर्मणोः कृति” (पा० सू० २।३। ६५) इति कृदन्तेन योग एव तद्विधानात् । “न लोकाव्ययनिष्ठाखलर्थतनाम्" (पा० सू० २ । ३ । ६६) इति लादेशयोगे षष्ठीनिषेधाच्च । एवंरी
दर्पणः दोषः इति । तथाभिधाने इति । उक्तसाध्यत्वेन रूपेण प्रतीतावित्यर्थः । ___ *ओदनस्येति । अत्रौदनपदं तण्डुलादिपरम् । अन्यथा विक्लिन्नस्यैवौदनपदार्थतया तस्य पाकासम्भवेन बाधितार्थकताऽऽपत्तः । *कर्मषष्ट्या इतिकर्मत्वेन कर्मशक्तायाः षष्टया एवेत्यर्थः। *मानत्वादिति। अनपपत्तिरूपप्रमाणत्वादित्यर्थः । घज न्तेन सिद्धभावस्यैवाऽभिधाने कारकाणां साध्यस्वभावक्रियाऽन्वयित्वनियमेनौदनस्याऽकारकतयाऽकर्मत्वेन तत्र षष्ठयनुपपत्तैरेव तस्य साध्यस्वभावक्रियार्थकत्वे मानत्वादिति भावः । *क्रियान्वयादिति । साध्यस्वभावाऽध्याहृतभवत्यर्थस्य परम्परयान्वयादित्यर्थः।
नन्वोदनस्य कृदन्तार्थफलाश्रयत्त्वरूपकृदन्तयोगस्यापि सत्त्वेन कथं तदनुपपत्तिरतआह-*न लोकेति । इदं च समाधिसौकर्यादुक्तम् । प्रत्यासत्त्या यद्धात्वर्थफलाश्रयत्वं तद्धात्वर्थकारकस्यैव कर्मतालाभेन पाकपदार्थस्य क्रियात्वेन भवत्यर्थस्य क्रियात्वेऽपि तदर्थफलाश्रयत्वाभावेनौदने कर्मत्वस्यैव दुरुपपादत्वात् । ननु तत्र मा भूत् कृद्योगषष्ठी शेषषष्ठ्यैव तथा प्रयोगोपपत्तेरिति चेद् ? न । सर्वत्र सम्बन्धषष्ट्यैव प्रयोगोपपत्त्या "कर्तृकर्मणोः" इत्यादिविधिवैयर्थ्यापत्तेः । यदि च जगतः कर्तेत्यादौ कर्मत्वेन कर्मत्वप्रकारकसर्वसिद्धबोधोपपत्त्यर्थं समासस्थले "गतिकारकोपपदात्कृत्" ( पा० सू० ६।२।१३९) इत्यादिविहितस्वरनिर्वाहार्थे च तस्यावश्यकतेति विभाव्यते, तदा प्रकृते किं तत्प्रयोजनं पाणिपिहितमिति भावः । नन्वसत्त्वभूतक्रियाया भावप्रत्ययप्रकृत्यर्थत्वे काष्ठानां तन्निरूपितकरणत्वस्यापि सम्भवाद्भवत्यर्थाऽनध्याहारेऽपि, काष्ठैः पाक इत्याद्यपि प्रसज्ज्यतेत्याशङ्येष्टापत्त्या परिहरति-*एवं रीत्येति ॥ * अन्ये तु भावप्रत्ययस्थले सम्बन्धिभेदेनैकस्यैव पितृत्वभ्रातृत्ववद्धावत्यर्थस्य मृग. दर्शनसम्बन्धिभेदात् साधनवच्चैकस्या एवं क्रियाया वाचकप्रत्ययरूपसम्बन्धिभेदात् साध्यत्वसाधनत्वाभ्यामुपस्थितिर्न ताभ्यां भिन्नभिन्नक्रियोपस्थितिरित्याहुः।
__ परीक्षा भविष्यतीत्यभिमानिनः शङ्कां वारयति-*नचेति । यथा-'कटे शेते' इत्यादौ कर्तद्वारकपरम्परतया क्रियायोगमाश्रित्य सप्तम्याः कारकविभक्तेः साधुत्वं भवति, तथा परम्परया भवति। क्रियान्वयात्कारकत्वं भविष्यतीत्यभिमानः । *तद्विधानादिति । प्रत्यासत्या कृदन्तार्थक्रियानिरूपितकर्तृत्वस्येव कारकत्वस्यापि तन्निरूपितस्यैवाश्रयणादिति भावः । प्रत्युत बाधकमप्यस्तीत्याह-*न लोकेति । ननु यदि कृदन्ते प्रकृत्या साध्यावस्थापन्नक्रिया प्रतिपाद्यते तदा तादृशक्रियानिरूपितकरणत्वस्य काष्ठेषु सत्वेन 'काष्ठः पाक' इत्यपि स्यादिति मीमांसकमन्यशङ्कामिष्टापत्या वार