________________
धात्वर्थनिर्णयः ।
८९
आख्यातशब्दे - पश्य मृगो धावतीत्यादौ । भागाभ्यां तिङन्ताभ्याम् । प्रकृतिप्रत्ययभागाभ्यामिति । विवरणकारोक्तमपव्याख्यानं पचतीत्यत्राऽपि भागद्वयसत्त्वात् । साध्यसाधनरूपता यथाक्रमं ग्राह्या । साध्यत्वम्-क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवत्त्वम् । साधनत्वं कारकत्वेनान्वयित्वम् । स घञादिष्वपीति । प्रकृत्या साध्यावस्था, प्रत्ययेन साधनावस्था । इयान् परं विशेषः । घञाद्युपस्थाप्या लिङ्गसंख्यान्वयिनी कारकान्वयिनीच आख्यातान्तोपात्ता तु नैवम् । तथापि कारकत्वेनान्वयित्वमात्रेण दृष्टान्तदाष्टन्तिकतेत्यवधेयम् ।
दर्पण:
आख्याते शब्दौ यस्मिन्निति बहुव्रीहिणा वाक्यमन्यपदार्थ इत्याशयेनाह - *पश्येत्यादि* | *तिङन्ताभ्याम् - पश्यधावतिभ्याम् ॥ धावतेः साधनत्वेनः पश्यतेः साध्यत्वेन क्रियाबोधकत्वाद् दृष्टान्ततोपपत्तिरत एव 'वक्ष्यति इयान् परं विशेष' इति । *प्रकृत्यादीति* । व्याख्यानं विवरणस्थम् । आख्यातशब्द इति कर्मधारय इति तद्भावः । अपव्याख्याने हेतुमाह -* पचतीत्यत्रेति । तथाच तिङन्तरूढेन केवलाख्यातपदेनैव पचत्यादितिङन्तरूपार्थलाभे शब्दपदवयर्थ्यम् । मन्मते तु तस्य बहुव्रीहिलाभसम्पादकतयाऽऽख्यातशब्दपदस्य तिङन्तद्वयघटितवाक्य परतोपपत्तिः, पचत्यादेर्भागद्वयस्य साध्यसाधनवत्तित्वेऽपि क्रियायास्ततः साधनत्वेनाऽबोधाद् दृष्टान्तत्वासम्भवश्चेति भावः । तदेव विशदयति-साधनरूपतेति । प्रकृत्येत्यादौ पाक इत्यादाविति शेषः ।
नन्वनयोर्लिङ्गसंख्यान्वयित्वानन्वयित्वेन वैषम्यात् कथं दृष्टान्तदाष्टन्तिकभावोऽत आह-*इयान् परमिति । तथाच यत्किञ्चिद्धर्मवत्त्वेन सादृश्यविवक्षणान्नोक्तदोष इति
भावः ।
ननु धावत्यर्थस्य कारकत्वेनाऽनन्वयित्वे कारकानन्वयित्वरूपमसत्त्वं तस्या भज्ये - तेति चेत् ? तत्र क्रियानाधारत्वविशेषणेन कर्तुर्व्यापाराधारत्वेन कर्मणः फलाधारत्वेन कर्तृत्वेन कर्मत्वेनान्वयेऽप्युक्तरूपस्यासत्त्वस्याऽक्षतत्वात् । उक्तञ्च
क्रिया न युज्यते । लिङ्ग क्रिया नाssधारकारकैः । असत्त्वरूपता तस्याद्वयमेवाऽवधार्यताम् ॥ इति ।
क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकधर्मवत्त्वमसत्वभूतत्वमिति मते त्वत्र दोषः प्रागुक्त एव । साधनाकाङ्क्षोत्थापकतावच्छेदकधर्मवत्त्वरूपतया परिष्कृते तु न क्वापि परीक्षा
समासार्थस्तज्जन्यबोधे धावतेः साधनत्वेन पश्यतेः साध्यत्वेन क्रियाबोधकत्वाद् दृष्टान्तता । तथा विधाने साध्यत्वेन क्रियाबोधकत्वे मानत्वादिति साध्यावस्थापन्नक्रियान्वयित्वे कारकविभक्तेः साधुत्वात् । यदि - साधुता तथाभिधानान्न स्यात्, तदा कारकत्वाभावात्तदधिकारीया विभक्तिर्न स्यात् ।
अकारकत्वात्षष्ठ्यभावापत्तौ परेणोक्तायां यथाकथञ्चित्कारकत्वे तथोपपादिते षष्ठी
१२ दु० प०