SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - सामानाधिकरण्यसत्त्वादित्यर्थः । श्रात्मानं जानाति इच्छतीत्यादौ च द्वावात्मनौ - शरीरात्मान्तरात्मा च । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति “कर्मवत्कर्मणा” (पा०सू०३/१.८७) इति सूत्रीय भाष्योक्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्मकत्वमित्यवधेयम् ॥ १३ ॥ ८८ नन्वसत्त्वभूतक्रियाया धात्वर्थत्वे पाक इत्यत्रापि तत्प्रत्ययापत्तिः । नचेष्टापत्तिः । “कृदभिहितो भावो द्रव्यवत् प्रकाशते " इति भाष्यविरोधादित्यत आह - आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता ॥ प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥१४॥ दर्पणः । 1 नवात्मानं जानातीत्यादावनुपदोक्तसकर्मकलक्षणस्याऽव्याप्तिः । तत्र ज्ञानरूपफले तदर्थव्यापारस्य वैयधिकरण्याऽभावादतिव्याप्तिश्च फलसमानाधिकरणेत्याद्यकर्मकलक्षणस्येत्याशङ्कय समाधत्ते-आत्मानं जानातीत्यादिना* | *अन्तरात्मेति । अन्तःकरणावच्छिन्नात्मा शरीरात्मा तदवच्छिन्नः सः । तथाचाऽऽत्मन एकत्वेऽपि ततः शरीररूपोपाधिभेदपरिकल्पितं भेदमादाय वैयधिकरण्यस्य सूपपादत्वादुक्तलक्षणयोर्नाव्याप्त्यतिव्याप्तीत्याह -*भिन्नाधिकरणेति ॥ १३ ॥ *असत्त्वभूताया इति । क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकधर्माक्रान्ताया इत्यर्थः । तदिति । तेन रूपेण प्रतीत्यापत्तिरित्यर्थः । *कृदभिहित इति । कृदर्थ इत्यर्थः । *द्रव्यवदिति । द्रव्येण नामार्थेन तुल्यं प्रकाशते भासते इत्यर्थः । द्रव्यधर्माणि – लिङ्गसंख्याकारकत्वानि गृह्णातीति यावत् । यद्वा द्रव्यं क्रियाकाङ्क्षोत्थापकतावच्छेदकरूपासिद्धत्ववत् तेन तुल्यं प्रकाशते इत्यर्थः । सिद्धत्वेन भासत इति यावत् । तथा च तादृशभाष्येणापाद्यव्यतिरेकनिर्णये तद्धेतुभूते प्रामाण्योपगमादिष्टापत्तेरसुकरत्वादिति भावः । परीक्षा अत्रेदम्बोध्यम्-- आत्मस्वरूपकर्मणा कुतो न सकर्मकत्वमिति शङ्कायामेवं व्याख्यानमनुचितम्, कर्मणोऽन्तर्भावस्यैवाक्षरमय्र्यादया लाभात् । नन्वेवमात्मानं जानातीत्यादौ ज्ञानरूपफलस्य तदनुकूलव्यापारस्य चैकत्र सत्वादकर्मकत्वापत्तिरत आह* आत्मानमित्यादि । एवं च शरीरात्मनः कर्मत्वमन्तरात्मनः कर्त्तृत्वमिति पृथक् बुद्धिसंसर्गोऽस्त्येवेत्याह-वस्तुत आत्मन एकत्वेऽपि अवच्छेदकभेदाद भेदकल्पनया फलव्यापारयोर्वैय्यधिकरण्यम् ॥ १३ ॥ असत्वभूता या भावना तस्या धातुवाच्यत्वमिति सिद्धान्ते शङ्कते — नन्वसत्वे - ति । क्रियान्तराकांक्षानुत्थापकतावच्छेदकधर्मविशिष्टेत्यर्थः । * द्रव्यवदिति । द्रव्येण नामार्थेन लिङ्गसंख्यान्वयिना तुल्यं प्रकाशते इत्यर्थः । आख्यातशब्दे - इत्यस्य आख्यातयोः शब्द इत्यर्थः । घटितत्वं षष्ठ्यर्थः । ' पश्य मृगो धावति' इति समुदायः
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy