SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ धात्वथ निर्णयः । अकर्म्मको यथा-भ्वादिः । तयोः - फलव्यापारयोः, आश्रयभेदे सकर्मक इत्यर्थः । उक्तञ्च वाक्यपदीये— श्रात्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः ॥ इति । *बिभ्रदिति । तेन स्वधारणानुकूलो व्यापारोऽत्रापि गम्यत इति भावः । तेन - कर्म्मणा, सकर्मकत्वन्तु न, अन्तर्भावात् - फलांशेन दर्पणः *भ्वादिरिति । तत्र सत्ताऽऽत्मकव्यापारस्यैकमात्रनिष्ठत्वस्याऽविकलत्वादितिभावः । ननु मूले-‘तयोर्धर्मिभेदे' इत्यनेन स्वार्थफलव्यधिकरणव्यापारवाचकत्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सकर्मकत्वमुक्तम् । तत्र वैयधिकरण्यम्-तदधिकरणावृत्तित्वम् । तथाच गमादावव्याप्तिः । तदर्थफलव्यापारयोः परस्पराऽधिकरणवृत्तिभिन्नत्वाऽभावादतो व्याचष्टे भूषणसारे आश्रयभेद इति । तथाच प्रथमलक्षणे कर्त्तभिन्नतदधिकरणावृतित्वरूपस्य द्वितीये तदनधिकरणावृत्तित्वरूपस्य निवेशान्नाऽनुपपत्तिरिति भावः । अस्तेः फलव्यापारोभयार्थकत्वे हरिसम्मतिमप्याह-उक्तञ्चेति । *व्यपदिश्यते*व्यवह्रियते । अन्तर्भावादिति । धात्वर्थतावच्छेदककोटिप्रविष्टत्वादित्यर्थः । I पृथुगुपस्थितयोरेवान्वयनियमात् कर्मसंज्ञकाऽर्थान्वय्यर्थकरूपसकर्मकत्वस्य तत्रानवकाशादिति भावः । स्वोक्तलक्षणानुसारेण सारकृद् व्याचष्टे -*फलांशेनेति । स्वकर्मक धारणरूपफलेन सह तदनुकूलव्यापारस्यका धिकरण्यादित्यर्थः । आत्मरूपकर्मणा सकर्मकत्वं कुतो नेत्याकाङ्क्षायाम् एतत्समाधानस्योदक्षरत्वदोषदुष्टस्य योग्यत्वमीहशव्याख्याने सुधीभिर्विभावनीयम् । परीक्षा *तेनेति* । *यथा भ्वादिरिति । सत्वरूपफलस्य तदाश्रयत्वस्य चैकनिष्ठत्वात् । मूले—* तयोर्द्धर्मिभेद इति । फलव्यापारयोर्द्धर्मिभेद इत्यर्थः । तथाच यत्र फलव्यापारयोराश्रयभेदः; स धातुः सकर्मकः । नचैवमपि गमित्यजिधात्वर्थफलसंयोगविभागयोर्व्यापारस्य चैकनिष्ठत्वादव्याप्तिरिति वाच्यम् ? व्यापाराश्रयातिरिक्तनिरूपितफलतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वस्य विवक्षितत्वात् । - अत्रार्थे हरिसम्मतिमाह -* उक्तञ्चेति । * आत्मानम् — स्वस्वरूपम् । *बिभ्रत्* - धारयत् । एतेन स्वस्वरूपधारणानुकूलो व्यापारो धात्वर्थ इति लब्धम् । *व्यपदिश्यते* — व्यवह्रियते । नन्वेवमात्मानं धत्ते इति वदात्मानमस्तीत्यपि प्रयोगोऽविशेषात्स्यादत आह--*अन्तर्भावादिति । अन्तर्भावादित्यस्य धात्वर्थतावच्छेदकशरीरे कर्मणः प्रवेशादित्यर्थः । तथाच सकर्मकपदस्य कर्मणा सह वर्तते कर्मान्वय्यर्थप्रतिपादक इत्यर्थः । अन्वयश्च पृथग्बद्धसंसर्गः । प्रकृते तु -- कर्मणः स्वस्वरूपस्य पृथग् बुद्ध्यभावात् न तेन कर्मणा सकर्मकत्वव्यवहार इति भावः । एवमेव सर्वत्र धात्वर्थसङ्गृहीतकर्मस्थले बोध्यम् । स्वरीत्यानुसार कृदाह--*फलांशेनेति । स्वस्वरूपधृत्यात्मकफलेन व्यापारस्यैकाधिकरण्यादिति यावत् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy