SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेइतरत्र तु सुस्थतया निश्चिते किं करोतीति प्रश्नः पच्यादिविशेषगोचर एवेत्यवधारणादस्तीति नोत्तरमिति ॥ १२॥ नन्वेवं भावनायाः फलनियतत्वात् फलाश्रयस्य च कर्मत्वात् सर्वेषां क्रियावाचकत्वे सकर्मकतापत्तिरित्यत आह फलव्यापारयोरेकनिष्ठतायामकर्मकः ॥ धातुस्तयोर्धार्मभेदे सकर्मक उदाहृतः॥ १३ ॥ एकनिष्ठतायाम्-एकमात्रनिष्ठतायाम् , भिन्नाधिकरणावृत्तितायामिति यावत् । तेन गम्यादौ फलस्य कर्चुनिष्ठत्वेऽपि नातिव्याप्तिः। दर्पणः भावोऽधिकरणं यस्येति बहुव्रीहिणा शेषभावशब्दः फलव्यधिकरणार्थकः भावप्रधाननिर्देशः। तस्मान्नसमस्तात्पञ्चम्येकवचने फलव्यधिकरणत्वाभावादित्यर्थावगतिः॥१२॥ ___ फलितमाह-सारे *भावनायाः फलेति । एकमात्राधिकरणकफलसामानाधिकरण्यस्य स्वरूपतो भावनास्पष्टभानप्रतिबन्धकत्वाऽभ्युपगमान्न स्पष्टं तत्प्रतीतिः । स्पष्टत्वं च-फलप्रतीत्यनभिभूतत्वमिति भावः । एवम्-अस्त्याद्यकर्मकाणां व्यापाराऽर्थकत्वे । *फलनियतत्वादिति । फलव्याप्यत्वादित्यर्थः। भावनावाचकत्वस्य फलवाचकत्वव्याप्यत्वादिति यावत् । *सकर्मकतापत्तिरिति । फलव्यापारोभयवाचकस्य पच्यादेः सकर्मकत्वदर्शनादिति भावः।। ___ ननु फलव्यापारयोरेकनिष्ठत्वस्याकर्मकतायां तन्त्रत्वे गम्यादीनामप्यकर्मकतापत्तिस्तदर्थफलव्यापारयोरेककर्त्तवृत्तित्वादतो व्याचष्टे-*एकमात्रनिष्ठतायामिति । एकमात्रनिष्ठत्वमेकेतरावृत्तित्वे सत्येकवृत्तित्वम् । तत्र प्रयोजनाभावाद्विशेष्यांशमपहाय फलितार्थमाह-भिन्नाधिकरणेति । भिन्नत्वं च व्यापाराधिकरणापेक्षया बोध्यम् । तथाच स्वार्थव्यापारानधिकरणावृत्तिफलवाचकत्वं पर्य्यवसितं लक्षणं लक्ष्ये ग्राहयति परीक्षा स्यैतादृशस्थलेऽस्त्यर्थत्वात् । एवं च यथा 'पच्यते तण्डुलः स्वयमेव' इत्यत्राश्रयतारूपव्यापारस्य प्रतीतिस्तथाऽत्रापि-आश्रयतारूपस्य व्यापारस्य साध्यत्वेन भान दिगादिकर्तृकं स्वरूपधारणमिति बोधः ॥ १२ ॥ *फलनियतत्वात*-फलव्यापकत्वात् । एवं च यत्र फलवाचकताःतत्र भावनावाचकत्वमपि वर्तत इत्युभयसद्भावेन सकर्मकता पच्यादिवत् स्यात् । *फलव्यापारयोरिति* । एकनिष्ठतायां धातुरकर्मक इति सम्बन्धः।। ननु गम्यादिधात्वर्थसंयोगादिफलस्य तदनुकूलव्यापारस्य च पुरुषनिष्ठत्वात्तेषामप्यकर्मकत्वापत्तिरत आह-*एकाधिकरणमात्रेति । ननु मात्रपदनिवेशे तदर्थस्य एकेतरावृत्तित्वे सत्येकवृत्तित्वस्य विवक्षणे-एकेतराप्रसिद्धयाऽप्रसिद्धिरत आह*भिन्नेति । नचैवमपि भेदस्य केवलान्वयित्वादसम्भव इति वाच्यम् । भेदस्य सप्रतियोगिकत्वेन प्रतियोग्याकाङ्क्षायां व्यापाराश्रयस्यैव तथात्वात् । लक्षणं ग्राहयति
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy