________________
धात्वर्थनिर्णयः। किञ्च अत्र भावनाविरहे लडादिव्यवस्था न स्यात् । तस्या एव वर्तमानत्वादिविवक्षायां तद्विधानात् ।। __ "क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका" इति वाक्यपदीयादिति । __ नन्वेवमस्तीत्यत्र स्पष्टं कुतो न बुद्ध्यत इत्यत आह-*अन्यत्रेति* ॥ *अशेषभावाद्-भावनायाः फलसमानाधिकरणत्वात्। तथाच भावनायाः फलसामानाधिकरण्यं तत्स्पष्टत्वे दोष इति भावः। नन्वेवं किं करोतीति प्रश्ने, पचतीत्युत्तरस्येवास्तीत्युत्तरमपि स्यादिति चेत् ? इष्टापत्तः। श्रासन्नविनाशं कश्चिदुद्दिश्य किं करोतीति प्रश्ने, अस्तीत्युत्तरस्य सर्वसम्मतत्वात् ।
दर्पणः
ननु तत्राप्याश्रयताया धात्वर्थत्वकल्पनमप्याग्रहमूलकमेव। तत्रोत्पत्तिमात्रार्थकत्वेऽपि रोहिताश्रयिका भूतानद्यतनोत्पत्तिरित्यभिमतार्थबोधलाभादत आह-किञ्चेति*। *तस्या एवेति । भावनाया एवेत्यर्थः । एवकारेण फलव्यवच्छेदः । यथा चैतत्तथोक्तं सार एव । तद्विधानात्*-लडादिविधानात् । तत्र हरिसम्मतिमप्याह-*क्रियाभेदायेति । “तुमर्थात् इति चतुर्थी, वार्तिकेन तादयें वा । क्रियां भेत्तु-विशेषयितुं कालो-लडादि|ध्यः। अस्तीति शेषः । लडाद्यर्थकालः क्रियामात्रभेदकः इति यावत् ; विभक्त्यर्थरूपासंख्या तु सर्वस्याख्यातप्रतिपादकार्थस्य भेदिकेति तदर्थः । मतान्तरेषु धातुप्रतिपादकार्थस्येति बोध्यम् । *एवम्*-धातोर्व्यापारवाचकत्वे । मूले-*अशेषभावादिति । शेषः-फलव्याप्त्यतिरिक्तो, भवत्यस्मिन्निति
परीक्षा निरस्यति-*किञ्चेति । *भावना विरहे*-अकर्मकधातुस्थले भावनाप्रतीत्यस्वीकारे । *कालस्त्विति । अङ्गीक्रियत इति शेषः । *सर्वस्य-*क्रियायास्तद्भिन्नस्य ।
*एवम्*-धातुमात्रस्य क्रियावाचकत्वे । अन्यत्रेत्यस्य सकर्मकभिन्नस्थल इत्यर्थः । नन्वशेषभावादित्यस्मात् फलसमानाधिकरणत्वादित्यर्थप्रतीतिः कथमिति चेदित्थम्-भावशब्दोऽधिकरणघनन्तोऽधिकरणवाची तस्य शेषशब्देन बहुव्रीहिसमासः । शेषफलव्याप्त्यतिरिक्तः-फलानधिकरणम् । एतेन फलानधिकरणवृत्तितो लाभे ततो नञ्समासे फलसामानाधिकरण्यस्य लाभ इति। न च फलसामानाधिकरण्यं सकर्मकगम्यादिधात्वर्थस्थलेऽपीतिः तत्रापि भावनाप्रतीतिर्न स्यादिति वाच्यम् ? एकमात्राधिकरणकभावनायां सामानाधिकरण्यस्य प्रतिबन्धकत्वात् । तथाच विषयतासम्बन्धेन भावनाप्रतीतिः, स्वरूपसम्बन्धेन फलानधिकरणावृत्तिप्रतिबन्धकत्वात् भावनानिष्ठं फलसामानाधिकरण्यं स्वरूपतः प्रतिबन्धकम् , न तु तद्ग्रहापेक्षया । __ सा च प्रतिबन्धकता मणिमन्त्रन्यायेनेत्याशयेनाह-*दोष इति* । *एवम्*अस्त्यादीनामकर्मकाणामपि भावनावाचकत्वे । न च दिगस्त्यात्मास्तीत्यादौ दिगा. दिसत्ताया नित्यत्वात्कथं भावनाप्रतीतिरिति वाच्यम् ? स्वरूपधारणानुकूलव्यापार