SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ८४ दर्पणपरीक्षासहिते भूषणसारेव्यत्वेन विवक्षिते । अस्त्येव-प्रतीयत एव । अयमर्थः 'स ततो गतोन वा' इति प्रश्ने, महता यत्नेन तिष्ठतीति प्रयोगे सत्तारूपफलानुकूला भावना प्रतीयत एव । उत्पत्यादिबोधने तु सुतराम् । रोहितो लोहितादासीद् धुन्धुस्तस्य सुतोऽभवद् । (रामायणम्) इत्यादिदर्शनात् । दर्पणः *भाव्यत्वेनेति । भावनानिष्पाद्यत्वेनेत्यर्थः । फलसाध्यव्यापारस्य जिज्ञास्तित्वे इति यावत्। अत एव वक्ष्यति, 'आसन्नविनाशम्' इति । विवक्षास्थलमेव प्रश्नोत्तरभावेन दर्शयति-* स ततो गतो न वेति । “गत्यर्थाऽकर्मक इति कतरिक्तः। प्रश्न इत्यनेन भाव्यत्वस्य जिज्ञास्यत्वं ध्वन्यते । तथाच-गतो न वा किर्मिति प्रश्नाऽऽकारः । ___ *प्रयोग इति । प्रश्ननिवर्त्तके वाक्य इत्यर्थः। प्रतीयते एवेत्यस्यास्धातुनेति शेषः। ननु स ततो गतो न वेति वाक्याद् गेहाधवधिकविभागानुकूलव्यापाराश्रयत्वतदभावाऽन्यतरस्य जिज्ञास्यत्वमवगम्यते । महता यत्नेनाऽस्तीति, वाक्यात्त्वस्ते ापारार्थकत्वाभ्युपगमेऽऽपि चैत्रादिकर्तृकसत्ताऽनुकूलव्यापार एवेति कथमेतयोः प्रश्नोत्तरत्वम् । तथाहि-यद्धर्मावच्छिन्ने जिज्ञासितयद्धर्माऽवच्छिन्नस्य सम्बन्धो यत्प्रश्नवाक्यात् प्रतीयते तद्धर्मावच्छिन्ने जिज्ञासिततद्धर्मावच्छिन्नसम्बन्धबोधकवाक्यस्योत्तरता । यदाहु: जिज्ञासितपदार्थस्य संसर्गो येन गम्यते। तदुत्तरमिति प्रोक्तमन्यदाऽऽभासशब्दितम् ॥ इति । यथा घटत्वावच्छिन्नजिज्ञासितधर्मावच्छिन्नसम्बन्धबोधकस्य, कस्माद् घट इति प्रश्नवाक्यस्य घटत्वाऽवच्छिन्ने जिज्ञासितदण्डत्वाऽवच्छिन्नस्य हेतुहेतुमद्भावबोधकं दण्डाद् घट इति वाक्यमुत्तरम् । प्रकृते तु, गत, इति, नेति, वेत्युत्तरं युज्यते। किञ्चोक्तप्रश्नेन सत्तासाधकव्यापारस्य जिज्ञास्यत्वानवगमात् कथमेतस्योत्तरत्वम् । तथाऽत्वेऽपि पूर्वोत्तरवाक्ये यत्नेनेत्युपादानाद्यनपदोपस्थाप्ययनानिष्पाद्यत्वबोधेनैवोत्तरत्वसिध्या, न ततो धातोर्व्यापारार्थकत्वसिद्धिरत आहे-*उत्पत्त्यादीति*। सुतरामित्यस्य व्यापारार्थकत्वमिति शेषः । अन्नाश्रयताबोधस्योभयमतसिद्धत्वेन सैव साध्यत्वेनाभिधीयमानत्वाद् व्यापारः, पौर्वापर्ये च परमते सत्तायामिव कालगतं तत्रारोपितमेवेति भावः। परीक्षा क्तम्-*विवक्षित इति । *अस्तीति । तिष्ठतीत्यर्थः । उत्पत्यादीत्यादिनाऽस्तीति परिग्रहः । उत्पत्त्याद्यर्थकत्वे मानन्तु "धान्यानां भवने" "तत्र जात" "तत्र भव”इति भिन्ननिर्देशः । 'गत इति प्रश्न' इत्यनेन भाव्यत्वजिज्ञासा ध्वनिताः सा भाव्यत्वबोधेनैव निवर्तते । यदि भाव्यत्वबोध उत्तरवाक्यान्न स्यात्तदा तस्या निवृत्तिन्न स्यादिति भावः । यद्यप्युत्पद्यते-इत्यत्र व्यापार-आश्रयता, तथापि 'साध्यत्वेन प्रतीयते' इत्यतस्तस्याः क्रियात्वव्यवहारविषयता। नन्वाश्रयतारूपव्यापारप्रतीतिरपि स विवाद एवेत्याशङ्कां साधकान्तरोपन्यासेन
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy