________________
धात्वर्थनिर्णयः। . व्यापारसन्तानः क्रिया, तद्वाचकत्वे सति गणपठित्वमित्यर्थः। ननु सत्तादीन् फलांशानन्यतमत्वेनादाय तद्वाचकत्वे सति गणपठितत्वं लक्षणमुच्यताम् । धात्वर्थत्वात् तेषां क्रियाशब्देन व्यवहारो भाष्यादौ कृतोऽप्युपपत्स्यत इति चेद् ? न। अन्यतममध्ये विकल्पस्यापि विकल्पयतीति प्रयोगानुसारात् प्रवेशावश्यकत्वेन तदर्थके वेत्यव्यये उक्तरीत्या गणपठितत्वसत्त्वेनाऽतिव्याप्तेरिति ॥११॥
नन्वस्यैव धातुत्वे अस्तीत्यादौ क्रियाप्रतीत्यभावादस्त्यादीनां तवाचकानामधातुत्वप्रसङ्ग इत्यत आह
अस्त्यादावपि धयंशे भाव्येऽस्त्येव हि भावना॥
अन्यत्राशेषभावात्तु सा तथा न प्रकाशते ॥१२॥ । अस्त्यादौ, अस् भुवि इत्यादौ । धयंशे-धम्मिभागे। भाव्ये-भा
दर्पणः तत्र तव्यवहारोऽत आह-*धात्वर्थत्वादिति । तथाच-तत्र फलत्वव्यवहार इव क्रियात्वव्यवहारोऽपि धात्वर्थत्वप्रयोजकत्वाऽभ्युपगमेन तदुत्पत्तेरिति भावः । *भाष्यादौ कृत इति* । “कर्मवत्कर्मणा" इति सूत्रे भूवादिसूत्रे च भाष्यादावित्यर्थः । आदिपदादू वृत्त्यादिपरिग्रहः ॥११॥ __*अस्यैवेति । क्रियावाचकस्यैवेत्यर्थः । एवकारेण फलमात्रवाचकत्वव्यवच्छेदः । एतदवाचकत्वे हेतुः-*क्रियाप्रतीत्यभावादिति*। *तदवाचकानाम्-व्यापारावाचकानामित्यर्थः। *अधातुत्वप्रसङ्ग इति । आपत्तेरिष्टत्वं तु न, ततो लकाराद्यनुत्पत्तिप्रसङ्गादिति भावः॥
धर्म्यशे, फलरूपे इत्यर्थः । अंशपदोपादानात् धर्मिणो धर्मघटितमूर्तिकत्वादकर्मकस्थले कर्तृवृत्तित्वाच्च फलस्यापि तदंशत्वात् । तस्य भाव्यतायामेव विवादादाह
परीक्षा *नन्विति । ननु फले पूर्वापरीभूतावयवकत्वाभावेन क्रियात्वव्यवहारः कथमित्यत आह-*धात्वर्थत्वादिति* । धातुवाच्यत्वमेव (फलत्वमेव ) फलत्वव्यवहारे यथा प्रयोजकम् , तथा क्रियात्वव्यवहारोऽपि भविष्यतीति भावः । नचैवं व्याख्यानेशडूकमतेऽन्योन्याश्रयपरिहारः कथमिति वाच्यम् ? धात्वर्थः क्रियेत्येतत् प्रविष्टं धातुत्वं त्वन्यदेवेत्याशयात् । *आवश्यकत्वनेति । अन्यथा कृपशब्दस्य सज्ञा न स्यादिति भावः॥११॥ ... ___ *अस्यैव*-व्यापारवाचकस्यैव । *क्रिया*-व्यापारः। *अभावादिति* । पौपर्याप्रतीतेरिति भावः। *तदवाचकानाम्-क्रियाया अवाचकानाम् । *धाशे*-फले, धर्मी कर्ता, तदंशः फलम् , अकर्मकधातुस्थले फलाश्रयस्य कर्तत्वात् । धर्मिणो धर्मघटितमूर्तिकतयांशव्यवहारो नासमञ्जसः। तस्य भाव्यतायां विवादादु.