________________
दर्पणपरीक्षासहित भूषणसारेनन्वस्तु क्रियावाचकत्वे सति गणपठितत्वं धातुत्वम् , क्रिया च धात्वर्थ एव, न व्यापार इत्याशङ्कां समाधत्तेधात्वर्थत्वं क्रियात्वचेद्धातुत्वं च क्रियार्थता । अन्योऽन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाकरम् ।। ११॥ यदि क्रियात्वंधात्वर्थत्वमेव तर्हि धातुत्वग्रहे तदर्थत्वरूपक्रियात्वग्रहः, क्रियात्वग्रहे च तदवच्छिन्नवाचकत्वघटितधातुत्वग्रह इत्यन्योन्याश्रय इति ग्रहपदं पूरयित्वा व्याख्येयम् । यथाश्रुते चान्योन्याश्रयस्योत्पत्ती ज्ञप्तौ वा प्रतिबन्धकत्वाभ्युपगमेनासङ्गत्यापत्तेः । नचान्यतमत्वं धातुत्वम्-“भूवाय” इत्यस्य वैयर्थ्यापत्तरित्यभिप्रेत्याह-*अस्त्विति ॥
दर्पणः *धात्त्वर्थ एवेति । फलमेवेत्यर्थः। तथाच नैतत्सूत्रानुपपत्तिर्धातोर्व्यापारार्थत्वसाधिकेति भावः । *उत्पत्ताविति । यथा बीजाऽङ्कराद्युत्पत्तौ अनादित्वेन तत्परिहार इत्यन्यत् । यथा वा चैत्रपुत्रश्चैत्र इत्यादौ । तत्राप्येकोत्पत्ति विनाऽपरानुपपत्तेः । *ज्ञप्ताविति । “हलन्त्यम् इत्यादौ प्रसिद्धः । *असङ्गत्यापत्तेरिति । यथा पृथिवीजलयोराधाराधेयभाव इत्यादावुभयोः परस्पराधाराधेयभावेन स्थितेः सर्वैरेवाभ्युपगमात् । प्रकृते वस्तुतो धात्वर्थस्य क्रियात्वे क्रियात्वस्य धात्वर्थत्वे बाधकाभावेन तत्र दूषणदानस्यानुचितत्वापत्तेरित्यर्थः। *अन्यतमत्वमिति। भ्वादिभिन्नभिन्नत्वमित्यर्थः॥
*वैयापत्तेरिति । तावतैगतिप्रसङ्गभङ्गे गुरुधर्मावच्छिन्नशक्तिप्रतिपादकस्य तस्यानतिप्रयोजनकत्वापत्तेरित्यर्थः । दृष्टफलाभावादिति भावः । केचित्तु भ्वादिषु धातुरित्यनुगतव्यवहारात् क्रियात्वमपि जातिरेव शक्यतावच्छेदकतयेव शक्ततावच्छेदकतयाप्यसति बाधके जातिसिद्धनिष्प्रत्यूहत्वात् । भूवादिसूत्रं त्वनभिज्ञप्रतीतिपरं, ताहशजातिपरिचायकप्रदर्शकमित्याहुः ।
नन्वस्मन्मते पूर्वापरीभूतावयवसमुदायरूपक्रियाया धात्वर्थत्वेन तद्गृहीतपौर्वापर्यारोपेण फलस्य क्रियात्वोपपत्तिः । भवन्मते तु क्रियाया धात्वर्थत्वानुपगमेन कथं
परीक्षा एवं मीमांसकमते निरस्ते सिद्धान्त्येकदेशिनो मीमांसकानुसारिणी शङ्कां निर. सितुमाशङ्कते-*नन्वित्यादिना । *धात्वर्थ एव*-फलमेव । तथाच कथं भूवादिसूत्रस्य धातोर्व्यापारवाचकत्वसाधकता इति भावः । *यथाश्रुते*-ग्रहपदस्थापूर्णे । *उत्पत्ताविति । यथा मैत्रपुत्रो मैत्र इत्युक्ते । *ज्ञप्ताविति । "हलन्त्यम्" इत्यत्र यथा उत्पत्तौ यत्र आनादित्वं तत्रान्योन्याश्रयस्तु नक्षतिकरो बीजाकुरवत् । यत्र च नोत्पत्ती न वा ग्रहेऽपेक्षा, किन्तु स्थितौ तत्र नान्योन्याश्रयो दोषाधायकः, यथा भूमिजलयोः । *अन्यतमत्वमिति*-भ्वादिभिन्नत्वमित्यर्थः। *आपत्तेरिति । दृष्टफलासाधकत्वापत्तेः । यत्तु धातु तुरित्यनुगतप्रतीत्या धातुत्वं जातिरितिः तन्न । विभुविभुरित्यनुगतप्रतीत्या विभुत्वजातिसिद्धथापत्तेः । स एव पुनः शङ्कते