________________
धात्वर्थनिर्णयः।
ग्रहणान्न सर्वनाम्नो ग्रहणम् , तस्य लाक्षणिकत्वादित्यत आह*वेत्यादि* ॥ अव्यये--'वा' इत्यादावतिप्रसङ्गः। तादृशस्यैव गणेऽपि पाठेन निर्णयासम्भवात् । तथाच विकल्पार्थको वातीति प्रयोगः स्यादिति भावः।न चगतिगन्धनाद्यर्थनिर्देशो नियामकः; तस्य"अर्थानादेशनादू" इतिभाष्यपालोचनया आधुनिकत्वलाभात् ॥१०॥
दर्पणः सन्धानसापेक्षत्वोपचारेण लाक्षणिकमपि लक्षणशब्देनोच्यते । यथा-पै-इत्यस्य, पा इति रूपं विलम्बोपस्थितिकम् । लक्षणाऽनुसन्धानसापेक्षत्वात् । प्रतिपदोक्तं तु तद्विभक्तिविशेषानुवादेन पठितं शीघ्रोपस्थितिकम् । लक्षणानुसन्धानानपेक्षणात् इति । यथा पिबतेः पा इति रूपं तथा च शीघ्रोपस्थितिकत्वं प्रतिपदोक्तग्रहणे बीजं, तच्च या इति गणपठिते एव सर्वनाम्नि लक्षणानुसन्धानसापेक्षेति भावः । अव्यये, वा-इत्यादावित्यादिना, सु-इत्युपसर्गस्य, मामाङिति स्वरायोश्च संग्रहः । षत्वप्रकरणपाठादुपसर्गव्यावृत्तिर्न शङ्कया । साधादिसंग्रहाय परिभाषितषोपदेशत्वस्य तत्रापि सत्त्वात्॥ ___ *प्रयोगः स्यादिति । उपलक्षणं चैतत्सुवति, माति, मिमीते, इत्यादिप्रयोगाणाम् । षुप्रसवे, मा, माङ्माने इत्यादिधातूनां सत्त्वेन तन्निर्णयासम्भवात् । सत्यन्तोक्तौ तु न दोषः। वाद्यर्थस्य विकल्पादेर्भूतादिकालासम्बन्धेन क्रियात्वाभावादिति भावः । *नियामक इति*। गणे पठितानामेव धातुत्वस्याभिप्रेतत्वेऽर्थनिर्देशवैययापत्त्या निर्दिष्टार्थानामेव धातुत्वं ज्ञाप्यते इत्यर्थः । *तस्य*-अर्थनिर्देशस्य । *अर्थानादेशनादिति । अर्थस्य सत्तादेः, अनादेशनादनाम्नानादित्यर्थः। ___ *आधुनिकत्वलाभादिति । भीमसेनादिप्रणीतत्वावगतेरित्यर्थः । तथा च भूवादिसूत्रे-परिमाणग्रहणं कर्त्तव्यम् । कुतो ह्येतत् । भूशब्दो धातुसंज्ञको भवति, न पुनर्वेधशब्द इति । यद्यप्यर्थनिर्देशस्य सूत्रकृत्प्रणीतत्वमपि । तथाच "चुटू" (पासू० २३७) इति सूत्रे 'यदयमिरितः काश्चिन्नुमनुषक्तान् पठति, उबुन्दिर निशामने, स्कदिर्गतिशोषणयोः इति तेन नेरितामिदिद्विधि रिति' भाष्ये उक्तम् । तथापि भाष्यद्वयप्रामाण्यात्सर्वधात्वर्थनिर्देशस्याऽपाणिनीयत्वेन न तन्निर्देशस्य नियामकतेति भावः । चुलुम्पादीनां स्तम्भ्वादीनां च कास्यनेकाचामितिवचनादुदित्वरणाच्च धातुतेति दिक् ॥ १०॥
परीक्षा टको लक्षणशब्दो लाक्षणिकपरः । वादीत्यादीना सोरुपसर्गस्य माङो निषेधार्थस्य च ग्रहणम् । *तस्य*-अर्थनिर्देशस्य । *अर्थानादेशनात् । अर्थस्य सत्तादेरनादेशनात् , अकथनात् । तथाच-भूवादिसूत्रे भाष्यम्-"परिमाणग्रहणं कर्त्तव्यम् , कुतोऽन्वेतत् भूशब्दो धातुसंज्ञो न पुनर्वेधशब्द इति।आधुनिको भीमसेनः, यद्यपि “चुटू-" इति सूत्रे भाष्यकृता-“इर् इत्संज्ञा वक्तव्या” इत्यस्य प्रत्याख्यानसमये-इकाररेफयोः पृथगित्संज्ञया निवृत्तिपो-नुमागमाशङ्कायां “यदयमिरितः, कांश्चिन् नुमनुषक्तान्पठतिउबुन्दिनिशामने, स्कन्दिर गतिशोषणयोरिति । तेन नेरितामिदिदिधिरिति प्रतिपादितम् । तथाप्यर्थादेशनस्योक्तभाष्यात्सर्वत्र पाणिनीयत्वं नेति बोध्यम् । सत्यन्तोपपादने तु यद्यर्थस्य कालान्वयित्वेनाक्रियात्वान्न तद्वाचकानां धातुत्वम् ॥ १०॥
११ द० प०