________________
दर्पणपरीक्षासहिते भूषणसारे -
सूत्रानुपपत्तिमपि मानत्वेन प्रदर्शयन्नुक्तार्थस्य स्वोत्प्रेश्चितत्वं निरस्यति-#किञ्चेति ॥ धातुसंज्ञाविधायकम् - "भूवादयो धातवः” ( पा० सू० १|३ | १ ) इति सूत्रम् । तत्र भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोर्व्यवस्थाप्रकारकवाचिनोरेकशेषः । आदिश्च श्रादिश्व आदी, ततो भूवौ आदी येषां ते भूवादयः । तथाच भूप्रभृतयो वासदृशा धातवः इत्यर्थः । तच्च क्रियावाचकत्वेन । तथाच क्रियावाचकत्वे सति भ्वादिगणपठितत्वं धातुत्वं पर्य्यवसन्नम् । अत्र हि क्रियावाचित्वमात्रोक्तौ वर्जनादिरूपक्रियावाचके 'हिरुकू; नाना' इत्यादावतिव्याप्तिरिति भ्वादिगणपठितत्वमुक्तम् ॥ ६ ॥
८०
तावन्मात्रोक्तौ चाहसर्व्वनामाव्ययादीनां यावादीनां प्रसङ्गतः ॥ न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् ॥१०॥
-
गणपतित्वमात्रोक्त सर्व्वनामा यो 'या' तस्यापि धातुत्वं स्यात् । तथाच — याः पश्यसीत्यादौ " आतो धातोः " ( पा० सू० ६ । ४ । १४० ) इत्याकारलोपापत्तिः । ननु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव
दर्पणः
*स्वोत्प्रेक्षितत्वमिति । निर्मूलस्वकल्पना विषयत्वमित्यर्थः । *हिरुगिति । यथाश्रुतमनुरुध्य चेदम् । तदर्थस्य कालानन्वितत्वेन क्रियात्वासम्भवात् । किन्तु तावमात्रोक्ता वाणवयतीत्यादावतिव्याप्तिर्बोध्या । तेषां धातुत्वे च शास्त्रविषयतया साधुत्वापत्तेरिति बोध्यम् ॥ ९ ॥
I
तावन्मात्रोक्तावित्यत्र मात्रपदेन क्रियावाचकत्वदलव्यवच्छेदः । इष्टापत्तिमाशयाह -* तथाचेति । या इत्यस्य द्वितीयान्तत्वं सूचयितुमाह-* पश्यसीति । *लक्षणप्रतीति* । लक्ष्यतेऽन्वाख्यायते साधुशब्दोऽनेनेति लक्षणं सूत्रम् । तदनुपरीक्षा
तद्वाक्यशेषत्वमपि सम्भाव्यत इत्यत आह - * दिगिति । यद्वाक्यमितरनिवृत्तिमात्र तात्पर्य्यकं तस्य तच्छेषित्वासम्भव इति । किञ्च एवं क्लेशेन कर्त्तत्वस्योक्तस्थले . उपपादनापेक्षया लाघवाद्धातोः फलव्यापारोभयवाचकत्वमेवोचितमिति ।
* सूत्रेति । “भूवादय" इति सूत्रेत्यर्थः । *स्वोत्प्रेक्षितत्वम् । स्वीयकल्पनाविषयत्वम् । *हिरुगिति । इदं यथाश्रुते । यदि तु तदर्थस्य कालान्वयित्वेना क्रियात्वमिति ब्रूषे-आणवयति वयतीत्यादौ तद्वटकस्य धातुत्वापत्तौ साधुत्वापत्तिर्दोषो बोध्यः ॥ ९ ॥
- *तथाचेति । यवादीनां धातुत्वापत्तौ च । लक्षणेति । साधुत्वान्वाख्यानकरणत्वेन लक्ष्यतेऽनेनेति व्युत्पत्या लक्षणशब्दस्य सूत्रापरत्वेऽपि लक्षणया परिभाषाघ