SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । धानात् । एतेन णिजन्ते आख्यातार्थ उभयं तदाश्रयत्वाद्देवदत्तयज्ञदत्तयोः कर्तृतेत्यपास्तम् । " किञ्च तस्मिन् प्रयोगे य आख्यातार्थ इत्यस्यावश्यकत्वेनाख्यातशून्ये 'देवदत्तः पक्ता' इत्यादौ देवदत्तस्याऽकर्तृतापत्तेरिति दिकू ॥ दर्पणः ७९ *एतेनेति* । आख्यातार्थव्यापाराश्रयस्य कर्तृत्वनिरासेनेत्यर्थः । ऋणिजन्ते*पाचयत्यादौ । *उभयमिति । प्रयोज्यप्रयोजकव्यापारद्वयमित्यर्थः । * तदाश्रयत्वादिति । आख्यातार्थ व्यापारद्वयान्यतरत्वादित्यर्थः ॥ *अपास्तमिति । अयम्भावः - आख्यातस्य व्यापारद्वयाऽभिधायकत्वेन विष्णुमित्रस्य कर्तृत्वोपपादनेऽपि तत् । कर्तृत्वस्याख्याताभिधानाद्देवदत्तपदोत्तरमिव विष्णुमित्रपदोत्तरं तृतीयादौर्लभ्यमेवमाख्यातार्थव्यापाराश्रयत्वस्योभयोरप्यविशिष्टत्वात् प्रधानव्यवहारोच्छेदापत्त्या “हेतुमति च” ( पा० सू० ३ | १| २६ ) इत्यनुशासनविरोधश्चेति । ननु णिजाख्यातार्थान्यतरार्थ व्यापाराश्रयत्वं कर्तृत्वम् । अस्मन्मते फलमात्रस्य गणपठितधात्वर्थत्वेन तदनुकूलणिजर्थ व्यापाराश्रयत्वेन विष्णुमित्रस्याऽपि कर्तृत्वाद्दौर्लभ्येन नोक्ताऽनुपपत्तिरत आह- किञ्चेति । आख्यातार्थव्याराश्रयत्वस्य केवलान्वयितया अव्यावर्त्तकत्वेनाऽऽख्यातं तद्वाक्यस्थत्वेनाऽवश्यं विशेषणीयम् । एवञ्च - 'चैत्रः पक्ता' इत्यादावाख्यातशून्ये वाच्ये कृदर्थकर्त्तर्यव्याप्तिर्दुवारेत्यर्थः । नन्वस्तिर्भवन्तीपर इति भाष्येणाख्यातप्रयोगस्य तत्राऽवश्यम्भावान्नोक्तापत्तिः । किञ्च धातुविहितप्रत्ययवाच्यतदाक्षिप्ताऽन्यतरव्यापाराश्रयत्वं कर्त्तृत्वम् । धातुविहितेति प्रत्ययविशेषणाच्च न करणतृतीयार्थव्यापाराश्रयेऽतिव्याप्तिः । उक्तस्थले कृद्वाच्यकर्त्राक्षिप्तव्यापाराश्रयत्वान्नोक्तदोषोऽत आह-दिगिति । तदर्थस्त्वितर निवृत्तितात्पर्यकतादृशवाक्येऽस्त्यध्याहारस्यानावश्यकत्वादुक्तप्रकारस्य न साधीयस्त्वम् । किञ्चैवं रीत्या कर्त्तृत्वनिर्वचनाऽपेक्षया धातोर्व्यापारार्थकत्वमभ्युपगम्य तदाश्रयत्वमेव कर्त्तृत्वं निर्वक्तुमुचितम्, लाघवादित्यादिः ॥ परीक्षा च ग्रामायेति*। *एतेन* - आख्यातार्थव्यापाराश्रयस्य कर्तृत्वनिराकरणेन । *उभयमू*प्रयोज्यप्रयोजकव्यापारद्वयम् । अपास्तमिति । यद्युभयोर्व्यापारयोराख्यातार्थत्वम्, तदा विष्णुमित्रस्य कर्तृत्वोपपादनेऽपि तत् कर्त्तृत्वमाख्यातेनापिहितमिति । 'पाचयति देवदत्तो विष्णुमित्रेण' इत्यत्र विष्णुमित्रपदात्तृतीयाऽनापत्तिः । एवं प्रयोज्यप्रयोजकयोराख्यातस्य व्यापाराश्रयतया प्रधानाप्रधानव्यवहारानुपपत्तिरपीति भावः । ननु णिजाऽऽख्यातान्यतरार्थव्यापाराश्रयत्वं कर्त्तृत्वमित्यस्तु । एवं च विष्णुमित्रस्य णिजर्थव्यापाराश्रयत्वेन कर्त्तृत्वं सुलभमेवेत्यत आह- *किञ्चेति । * इत्यस्यावश्यकत्वेन—तन्निवेशस्यावश्यकत्वेन । अन्यथा पदार्थमात्रस्य यत्किञ्चिदाख्यातार्थव्यापाराश्रयत्वेन तन्निवेशस्याव्यावर्त्तकत्वापत्तिरिति भावः । नन्वस्तिभवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीति न्यायेनाख्यातस्यास्तीत्यस्य 'देवदत्तः पक्ता' इत्येत
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy