SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेकाभावः । “सह सुपा" (पासू०२।१।४।) इत्यस्य सत्त्वात् । अन्यथा असमर्थसमासोऽपि विधायकाभावान्न स्यादिति । किञ्चभावनायास्तिर्थत्वे 'भावयति घटम् इतिवद्भवति घटम्' इत्यपि स्यात् ; धात्वर्थफलाश्रयत्वरूपकर्मत्वसत्त्वात् । नचाख्यातार्थव्यापाराश्रयत्वेन कर्तृत्वात्तत्संज्ञया कर्मसंज्ञान बाधान्न द्वितीयेति वाच्यम् । आख्यातार्थव्यापाराश्रयस्य कर्तृत्वे 'पाचयति देवदत्तो विष्णुमित्रेण' इत्यत्र विष्णुमित्रस्याकर्तृत्वापत्तौ तृतीयानापत्तेः । 'ग्रामं गमयति देवदत्तोविष्णुमित्रम्' इत्यत्र विष्णुमित्रस्याकर्तृत्वापत्तौ ग्रामस्य गमिकर्मत्वानापत्तश्च । तथाच 'ग्रामाय गमयति देवदत्तो विष्णुमित्रम् इत्यपि न स्यात् । “गत्यर्थकर्मणि द्वितीयाचतुथ्यौँ चेष्टायामनध्वनि" (पा० सू०२।३।१२) इति गत्यर्थकर्मण्येव चतुर्थीवि दर्पणः र्थाऽन्वयित्वादितिभावः । योगविभागस्यानिष्टानापादकत्वादाह-*किन्चेति॥ ___ *अकर्तृत्वापत्ताविति ॥ आख्यातार्थव्यापारानाश्रयत्वादिति शेषः। अस्मन्मते तु णिच्प्रकृत्यर्थव्यापाराश्रयत्वेन कर्त्तत्वान्न तदनुपपत्तिरिति भावः। ननु विष्णुमित्रस्याऽकर्तृत्वेऽपि करणत्वविवक्षयैव तत्र तृतीया सुलभेत्यत आह-*ग्रामं गमयतीति* ॥ "कर्तुरीप्सितमम् इत्यनेन प्रकृतिकर्तुनिष्ठव्यापारजन्यफलसम्बन्धिन एव कर्मसंज्ञाविधानेन त्वन्मते विष्णुमित्रस्याकर्तृतया तव्यापारजन्यफलाश्रयस्यापि ग्रामस्याकमत्वेन तद्वाचकपदोत्तरं द्वितीयानापत्तिः। विष्णुमित्रस्य करणत्वे णिचोऽसम्भवश्च । धात्वर्थव्यापारजन्यफलाश्रयस्यैव कर्मत्वाङ्गीकारे तु णिजन्तकर्मतैव स्यान्न गमिकर्मतेति भावः। इष्टापत्तावाह-*तथाचेति । परीक्षा विधायकाभावः । *अन्यथा*- "सुप्सुपा" इत्यस्यापि साक्षात्सम्बन्ध एव प्रवृत्यङ्गीकारे । *असमर्थसमासोऽपीति* असूर्य्यम्पश्या' इत्यादावित्यादिः। __उक्तरीत्या भावनाया धातुवाच्यत्वं प्रसाध्य 'द्विर्बद्धं सुबर्द्ध भवति' इति न्यायेन पुनस्तस्या धातुवाच्यत्वं साधयति-*किञ्चेति । *सत्वादिति । फलमात्रस्य धात्वर्थत्वे धात्वर्थफलाश्रयत्वस्यैव कर्मत्वादितिशेषः । कर्तृसंज्ञया कर्मसञ्ज्ञाबाधमाशङ्कय निराचष्टे-*नचेति । विष्णुमित्रस्येति । तस्याख्यातार्थानाश्रयत्वादिति शेषः । ननु विष्णुमित्रस्याकतत्वेऽपि करणतयाऽन्वयेन ततस्तृतीया भविष्यतीत्यत आह*ग्राममिति । *गमिकर्मत्वानापत्तेश्च । “कर्तुरीप्सिततमम्” इति सूत्रेण प्रकृतधात्वर्थप्रधानीभूतव्यापाराश्रयरूपकर्तुनिष्ठव्यापारप्रयोज्यफलाश्रयस्य कर्मसज्ञा विधीयत इत्यभिप्रायेणाऽभिहिता । तन्मते विष्णुमित्रस्याकर्त्तत्वेन तस्य सूत्रस्याप्राप्तः। एवं विष्णुमित्रस्याकर्तृत्वे णिजनुपत्तिरपि बोध्या, कर्तृप्रयोजकस्यैव हेतुसज्ञा विधानात् । यदि तु यत् किञ्चिद्धात्वर्थव्यापारप्रयोज्यफलाश्रयस्य कर्मत्वम् । तदा णिजन्तधात्वर्थव्यापारप्रयोज्यफलाश्रयत्वेन णिजन्तकर्मत्वमेव स्यात् । अत्रेष्टापत्तावाह-*तथा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy