________________
धात्वर्थनिर्णयः। 'हरिकृतम्' इत्यादौ साक्षाद्धात्वर्थान्वयेनोपपद्यमानस्य “कर्तृक रणे” इत्यस्याक्षेपेण परम्परासम्बन्धे प्रवृत्त्ययोगात् ।।
नचैकस्यां क्रियायामन्वयित्वमेव सामर्थ्यमिति शङ्कयम् । असूर्यम्पश्या इत्यादेरसमर्थसमासत्वानापत्तेः । इष्टापत्तौ कृतः सो मृत्तिकयेत्यत्र कृतसमृत्तिक इत्यापत्तः। नचाऽत्र समासविधाय
दर्पणः
र्थपरिभाषाविषयतया स्वतोऽसमर्थदध्यादिपदानां समासविधानवैयापत्त्योपसेचनादिक्रियाध्याहाराऽभ्युपगमेऽपीत्यर्थः ॥ . __*हरिकृतमिति* ॥ कृधातोर्व्यापारार्थकत्वस्वीकारात्तन्निरूपितकर्त्तत्वस्य हरौ साक्षात्सत्वादध्याहारं विनैव शास्त्रवारितार्थे 'हरित्रात' इत्यादावध्याहृतक्रियाद्वारकसामर्थ्यमादाय तत्प्रवृत्तौ मानाभावादित्यर्थः । कृजो व्यापारार्थकत्वानभ्युपगमे त्वध्याहृतार्थस्यापि सामर्थ्यानुपपादकत्वाच्छास्त्रवैयर्थ्यमेव स्यादिति सूचनाय कृतामित्युक्तम् । आदिना, शरकृतमित्यादिकरणतृतीयातत्पुरुषपरिग्रहः।
केचित्तु-कृदर्थकत्रैव तृतीयार्थक क्षिप्तभावनामादाय हरित्रात इत्यादौ, नखैभिन्न इत्यादौ तु करणसामर्थेनाध्याहृतां तामादाय सामोपपत्तौ न तदनुपपत्तिर्धातो - वनावाचकत्वसाधिका । एवञ्च कृनः फलार्थकत्वेऽपि न समासानुपपत्तिरित्याहुः। तच्चि न्त्य म्॥
एकक्रियान्वयित्वमेवेति ॥ धवखदिरावित्यादौ तस्य दृष्टत्वेनान्यत्रापि साक्षात्परम्परया वा तस्यैव समासप्रयोजकत्वमिति भावः ॥ *असूर्यम्पश्या इति। नार्थप्रसज्ज्यप्रतिषेधस्य क्रियान्वयित्वस्य वक्ष्यमाणतया सूर्यस्यापि कर्मकारकतया तदन्वयित्वेन भवदुक्तसामर्थ्यस्य तत्र सत्त्वादिति भावः ॥ *कृतसर्वमृत्तिक इति* ॥ मृत्तिकायाः करणतया, सर्वपदार्थस्य कर्मतया कृधात्व
परीक्षा नर्थक्यात् । *तथास्वीकारेऽपीति । अध्याहृतक्रियाऽवयित्वेन सामर्थस्य स्वीकारेऽपीत्यर्थः । *हरिकृतमित्यादाविति । आदिना हिरण्यकृतमित्यस्य संग्रहः । परम्परासम्बन्धे नखभिन्न इत्यादौ नखैः कृत्वा भिन्न इति बोधस्याङ्गीकारेण स्वान्वय्यन्वयित्वरूपपरम्परासम्बन्धेनान्वय इत्यर्थः । *न स्यादिति* । कृधातोर्भावनावाचकतया तत्प्रयोगे साक्षाच्छब्दवाच्य एवार्थेऽन्वयेन सूत्रस्य सार्थक्यादिति भावः। ___ एकक्रियाऽन्वयित्वमेव सामर्थ्य प्रयोजकं यथा-'धवरादिरौ छिन्धि' इत्यादौ धवखदिरपदार्थयोः साक्षादन्वयाभावेऽपि छेदनरूपेऽर्थे द्वयोरप्यन्वयेन सामर्थ्य तद्वदित्यर्थाभिमानेनाशङ्काया निरासङ्करोति-*नचेति । *अनापत्तेरिति । तत्र प्रसज्यप्रतिषेधार्थकस्य नञः क्रियायामेवान्वयेन सूर्यपदार्थस्यापि तस्यां कर्मतयाऽन्वेन परम्परासम्बन्धेनान्वयित्वरूपं भवदुक्तं सामर्थ्यमस्तीति भावः । *इष्टापत्ताविति । एतादृशसामर्थ्यस्य समाससज्ञाप्रयोजकत्वे इत्यादिः । *इत्यापत्तेरिति । अत्रापि कृअर्थभावनायां मृत्तिकापदार्थस्य करणतयाऽन्वयः सर्वपदार्थस्य तत्र कर्मतयाऽन्वयेन परम्परान्वयित्वं भवदुक्तं वक्तुं शक्यमिति भावः । *विधायकाभावः -“कर्तृकरणे" इति सूत्रस्य हिरण्यकृतमित्यत्र साक्षासम्बन्धे चरितार्थत्वेनैतादृशसामर्थेऽप्रवृत्त्या