________________
दर्पण परीक्षासहिते भूषणसारे -
क्षेपाद् भावनाप्रत्ययः स्यादिति मतम् । तर्हि सङ्ख्यान्वयोपपत्तये आख्यातेऽपि कर्त्ता वाच्यः स्यात् । पक्कवानित्यादौ कालकारकान्वयानुरोधाद् भावनाया अपि तस्याऽऽवश्यकत्वाश्चेति भावः ।
अपिना हेत्वन्तरसमुच्चयः । तथा हि-नखैर्भिन्नो नखभिन्नः, हरिणा त्रातो हरित्रात इत्यादौ " कर्तृकरणे कृता बहुलम्” (पा०सू०२/१/३२) इति समासो न स्यात् । पुरुषो राज्ञो भार्य्या देवदत्तस्य इतिवद् असामर्थ्यात् । नचाध्याहृतक्रियाद्वारा सामर्थ्यं वाच्यम्, दध्योदनो गुडधाना इत्यादिवत् । अन्यथा - अत्रापि "अन्नेन व्यञ्जनम्" (पा०सू० २|१|३४) "भक्ष्येण मिश्रीकरणम्” (पा०सू०२ । १ । ३५) इति समासो न स्यादिति वाच्यम् । तत्र विध्यानर्थक्याद्गत्या तथा स्वाकारेऽपि
दर्पणः
कमित्यस्य कृतीति शेषः । कृन्निरूपितवाच्यत्वं कर्त्तुरवश्यमङ्गीकरणीयमित्यर्थः । तेन कर्त्रा आक्षेपादित्यस्य स्वरूपनिरूपकतयेत्यादिः । *प्रत्यय इति । बोध इत्यर्थः ॥ *तस्य* । वाच्यत्वस्येत्यर्थः ॥
1
*असामर्थ्यादिति । विशिष्टार्थोपस्थित्यजनकत्वादित्यर्थः । निराकाङ्क्षत्वादिति यावत् । त्रातभिन्नपदान्तर्गतधात्वर्थक्रिययोः कर्त्तृकरणकारकसाकाङ्गत्वेन, हरिणेत्यादिपदोपस्थितकर्त्तृकरणयोश्च कारकत्वेन क्रियासाकाङ्गत्वेन परस्परसाकाङ्क्षत्वरूप सामर्थ्य
व्यर्थतावादिमते । भवन्मते तु पुरुषो राज्ञो भार्या देवदत्तस्येत्यादिवन्निराकाङ्क्षत्वात् समासाऽनुपपत्तिरिति भावः । इदमुपलक्षणं कारकविभिक्तेरपि ॥
*अध्याहृतक्रियामादायेति । करोत्यर्थव्यापारमादायेत्यर्थः । *सामर्थ्यमिति। तथाच नखैः कृत्वा भिन्न इति बोधाभ्युपगमेनाऽध्याहृतार्थमादाय सामथ्योपपत्तिरित्यर्थः । अध्याहृतक्रियामादाय सामर्थ्याऽभ्युपगमे दृष्टान्तमाह - * दध्योदनेत्यादि* ॥ *विध्यानर्थक्यादिति ॥ 'अन्नेन व्यञ्जनम्' इत्यादेरपि पदविधित्वेन समपरीक्षा
रूपकतया भावनाया आक्षेपो भविष्यतीति भावनायाः प्रत्ययः - प्रतीतिर्भविष्यतीति तदनुरोधेन धातुवाच्यत्वं तस्या न स्वीकार्य्यमिति भावः ।
आख्यातेऽपीति वाच्यः कर्ता - निरूपकता सम्बन्धेन तिष्ठेत् । तस्य वाच्यत्वस्य न स्यादिति उभयत्राक्षिप्तभावनायां तृतीयान्तार्थस्यान्वयोः न तु कृदर्थ इत्यसामर्थ्यमिति भावः । इतिवदिति । तत्र राज्ञो भाय्येति समुदायस्य विशिष्टोप स्थित्यजनकतया यथासामर्थ्यं तद्वत् निराकाङ्गत्वादिति शेषः । तत्राभिन्नपदान्तर्गतो यः कर्तृकर्म वाचकः कृत्प्रत्ययः, तस्य तादृशसमुदायघटकधातुप्रतिपाद्यफलेना क्षिप्ता या भावना तस्यामन्वयी योऽर्थः ; तद्वाचकतया तस्यामेव हरिणेत्यादिपदोपस्थितकारकस्याप्यन्वयेन परस्परसाकाङ्क्षत्वरूपसार्थ्यस्य सत्वात्तत्र समासो भविष्यतीत्याशङ्कां निरस्यति नचेत्यादिना । अन्यथा - आक्षिप्तभावनायामन्वयेऽपि असामर्थ्याङ्गीकारे । अर्थाध्याहारवा दिनामस्माकमध्याहृतान्वये न सामर्थ्यमस्तीति शेषः । *तत्र* - दध्योदन इत्यादौ । *विध्यानर्थक्यात् * = "अन्नेन व्यञ्जनम्" इत्यादिसूत्रद्वया