________________
धात्वर्थनिर्णयः ।
व्यपारस्य धात्वर्थत्वे साधकान्तरमाह
किं कार्य्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि । किञ्च क्रियावाचकतां विना धातुत्वमेव न ॥ ९ ॥
➖➖➖➖➖➖➖➖
७८५
कार्य्यमित्यत्र “ऋहलोर्ण्यत् ” ( पा०सू०३ | १ | १८४) इति कर्मणि ण्यत् । पचनीयमित्यादौ चानीयर । आदिना ज्योतिष्टोमयाजी इत्यादौ करणे उपपदे कर्त्तरि णिनिः । एते च क्रियायोगमन्तरेणासन्तस्तद्वाच्यतां बोधयन्ति । विना क्रियां कारकत्वासम्भवेन तद्वाचकप्रत्ययस्याप्यऽसम्भवात् । न च ' गम्यमानक्रियामादाय कारकयोगः' इति भाट्टरीतिर्युक्ता । आख्यातेऽपि तथात्वापत्तौ तत्रापि भावनाया वाच्यत्वासिद्ध्यापत्तेः ।
अथ लिङ्गसङ्ख्यान्वयानुरोधात्कर्तुर्वाच्यत्वमावश्यकमिति, तेना
दर्पणः
1
व्याख्यातं च तथैव । अवतरणे तन्न्यायविरोधोपदर्शनं तु प्रत्ययाऽर्थत्वप्राधान्ययोः प्रायशः समनैयत्येन, प्रधानस्य प्रत्ययार्थत्वसाधकत्वस्याऽपि ततो लाभेन प्रकृतिवाच्यत्वे तदनुपपन्नमित्याशयेनेति बोध्यम् ॥ ८ ॥
साधकान्तरमित्यस्य धातोर्व्यापारवाचकत्वे इत्यादिः । किं कार्यमित्यत्र प्रश्नोत्तरभावरूपविवरणेनैव व्यापारस्य धात्वर्थत्वसिद्धिरित्यत्र न तात्पर्यम्, किन्तु प्रश्नोत्तरभावरूपविवरणस्य प्रक्रान्तत्वात् किमनुल्लेख इति सूचयन्नाह — कार्यमित्यत्रेति । *णिनिरिति*। “भूते” इत्यधिकृत्य, "करणे यजः” ( पा०सू० ३।२।५ ) इति सूत्रेणेति शेषः ॥ एते ण्यदादय इत्यर्थः ॥
*क्रियायोगमन्तरेणेति । क्रियान्वयिनामेव कारकतया धातोर्व्यापारावाचकत्वे ara इत्यादौ कर्मादिसंज्ञानां "कारके" इत्यधिकृत्य विहितानां घटादावसम्भवेन तत्र विधीयमानण्यदाद्यनुपपत्तिर्धातोस्तदाक्षिपति-देवदत्तस्य पीनत्वानुपपत्तिरिख रात्रिभोजनमिति भावः । तदेवाह - विना क्रियामिति । * गम्यमानेति । अस्य तदुपस्थापकपदाभावेऽपीत्यादिः । * तथात्वापत्ताविति । गम्यमानक्रियामादायैव कर्त्तृकर्माऽर्थकप्रत्ययोपपत्तावित्यर्थः । तत्राऽपि । तिङ्संज्ञकाऽऽख्याते ॥ ́*लिङ्गसंख्यान्वयाऽनुरोधादिति । अस्य पाचक इत्यादावित्यादिः ॥ आवश्य
परीक्षा
.
धारणधर्मस्य वाचकतोच्छेदकत्वापेक्षया धातुत्वस्यैकस्य वाचकतावच्छेदकत्वे लाघवमिति बोध्यम् । एते - ण्यदादिप्रत्ययाः ; क्रियान्वयिनामेव कारकत्वादिति भावः ॥ ८ ॥ *गम्यमानेति । तद्बोधकपदानुच्चारणेऽपीत्यादिः । *तथात्वापत्तौ । गम्यमानक्रियामादाय कर्तृत्वकर्मत्वार्थकप्रत्ययस्योपपत्तावित्यर्थः । तत्रापि* — तिङ्सवस्थलेsपि ।
*आवश्यकमिति* | कृतीति शेषः । एवं च पाचक इत्यादौ कृदवाच्यकर्त्रा स्वनि