SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७४ दर्पणपरीक्षासहिते भूषणसारेकृतम्, पक्वमिति* ॥ कृत्रा विवरणं प्रतीतिश्च पक्वमित्यत्रापि, इति . तत्रापि भावना वाच्या स्यादिति भावः । नन्वस्तु तिङ इव कृतामपि भावना वाच्येत्यत आह -*अपीति ॥ तथाचोभयसाधारण्येन तत्प्रतीतेरुभयसाधारणो धातुरेव वाचक इति भावः । भवद्रीत्या प्रत्ययार्थत्वात् प्रधान्यापत्तिश्चेति द्रष्टव्यम् ॥८॥ दर्पणः व्यभिचरितमित्यर्थः । तदेव विशदयति-*कृति । पक्वमित्यत्रापिनाऽनुपदोक्तपक्ववानित्यस्याऽपि संग्रहः । तत्र भावनाया आक्षेपात् प्रतीयमानत्वेऽपि प्रत्ययार्थत्वाऽभावेन व्यभिचारसम्भवात् । किं कृतमित्यतो व्यापारविषयस्य जिज्ञास्यत्वाऽवगमात् पक्वमित्यतस्तदनवबोधेनाऽस्योत्तरत्वाऽनुपपत्त्या व्यापारबोधकत्वध्रौव्ये तस्य प्रत्ययार्थत्वाऽभावादव्यभिचार इत्यर्थः॥ *विवरणमिति* । विवरणं चाऽत्र प्रश्नोत्तररूपमेव । तद्बोधनार्थमेव किमनुल्लेखः । अन्यथा केवलकृतशब्दस्य पक्वपदविवरणतया लोकाऽप्रसिद्धेविवरणं चातिव्याप्तमित्यस्याऽसङ्गतेः । *वाच्या स्यादिति* । प्रत्ययवाच्या स्यादित्यर्थः । अपिशब्दः पूर्वोतार्थस्यैव न समुच्चायकः, किन्त्वर्थान्तरस्यापीति वक्तुमाशइते-*नन्विति । तथाचोक्तापत्तिरिष्टैवेति भावः। अपिसमुच्चितार्थ प्रकटयति-*तथाचेति*। *उभयेति । आख्यातकृदन्तोभयेत्यर्थः । *साधारण्येनेति । साधारण्यमत्र समभिव्याहारविशेषः । *प्रतीतेरिति । भावनाप्रतीतेरित्यर्थः ॥ *उभयसाधारण इति* ॥ घटकतया प्रयोगद्वयाऽनुस्यूत इत्यर्थः । तथाच प्रयोगद्वये नियतवृत्तित्वेन धातोरव भावनावाचकत्वसिद्धिः। धातुत्वस्य शब्दतावच्छेदकत्वेन लाघवान्न तु तिकृतोस्तित्वस्य चाननुगतस्य शक्ततातक्छेदकत्वे गौरवात् । परस्परव्यभिचाराच्चेत्युक्तापत्तेनेंष्टत्वसम्भावनेति भावः । ___ ननु धातुत्वस्य शक्ततावच्छेदकतायाः प्रागेव निराकृत्वान्नोक्तदूषणस्याऽपिशब्दसमुच्चयत्वमत आह-*भवद्रीत्येति । स्वमते भावनायाः प्रकृत्यर्थत्वादुक्तं भवदिति प्रत्ययार्थत्वादित्यनेन पूर्वोक्तमतद्वयमध्ये त्वस्यैव मीमांसकसम्मतत्वमिति सूच्यते । परीक्षा स्याम्" इत्येकशेषः । व्यभिचरितत्वमुपपादयति-*कृना विवरणमिति । अपिना पक्ववानित्यस्य पूर्वोक्तस्य समुच्चयस्तन्मते पक्वमित्यत्र धातुना फलस्य प्रत्ययेन कर्मणः प्रतिपादनेऽपि भावनायाः प्रतीतिविषयत्वसिद्धये तस्याक्षेपो वाच्यः । तथा सति प्रतीतिविषयत्वसिद्धावपितस्याः प्रत्यार्थवत्वाभावेन व्यभिचारः किं कृतमित्यतो व्यापारस्य जिज्ञास्यत्वावगमे तस्या जिज्ञासायाः पक्वमित्यतो निवृत्तिरवश्य वाच्या। अन्यथा तथोत्तरं न स्यात् । भवन्मते तस्य व्यापाराबोधकत्वाद् । यदि च तस्य व्यापारबोधकताप्युच्यते तदा तस्य प्रत्ययार्थत्वाभावेन व्यभिचार इति भावः। अत्र विवरणपदं प्रश्नोत्तरभावपरम् । श्वाच्या स्यादिति । प्रत्ययवाच्या स्यादित्यर्थः । *उभयेति । कृदाख्यातोभयेत्यर्थः । साधारण्यं समभिव्याहारः। एवं धातावप्युभयसाधारण्यं बोध्यम् । *वाचकः*-भावनावाचकः । किंवाऽऽख्यातकृदुभयसा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy