SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ७३ धात्वर्थनिर्णयः । अन्येषां तन्निराकाइमेवेत्यादिकं सङ्गच्छते । अत एव "प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वाद्” (पासू० १॥२॥ ५४) इत्याह भगवान् पाणिनिः । प्रधानं प्रत्ययार्थ इति वचनं न इत्यनुवर्त्य न कार्यम् , अर्थस्य-अर्थावबोधस्यान्यप्रमाणत्वाद्व्युत्पत्त्यनुसारित्वादिति हि तदर्थः। एवं सत्यपि नियामकापेक्षणे च "भावप्रधानमाख्यातम्" इति वचनमेव गृह्यतामिति सुधीभिरूह्यम् । 'तदागमे हि' इति न्यायो विवरणञ्चाऽतिव्याप्तमित्याह-*किं दर्पणः *घटः कर्मत्वमिति ॥ नव्यमते एकपदेऽपरपदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वस्याकाङ्क्षात्वोपगमेन घटपदे कर्मत्वपदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वज्ञानदशायां तादृशवाक्यात्तैः शाब्दबोधाऽभ्युपगमादित्यभिप्रेत्य नव्यानामित्युक्तम् । निराकाङ्क्ष• मित्यस्याऽऽधेयतासंसर्गेण बोध इति शेषः । *अत एवेति । बोधस्य व्युत्पत्यनुसारि त्वादेवेत्यर्थः। *व्युत्पत्त्यनुसारित्वादिति । कार्यकारणभावग्रहाधीनत्वादित्यर्थः । बोधानुसारिणो हि व्युत्पतिर्न हि बोधो व्युत्पत्त्यनुसारी । अत एवारोपे सति निमित्ताऽनुसरणं, न तु निमित्तमस्तीत्यारोप इति प्रामाणिकाः। ___ अर्थस्य विशेष्यत्वादिना प्रतीयमानस्य अन्यप्रमाणत्वात् स्वविशेषणीभूतप्रतीत्यनुरोधकव्युत्पत्तिकत्वादित्यर्थः। 'प्रधानं प्रत्ययार्थ' इति नियमस्य पाणिनिनाऽनाहतत्वेऽपि, 'योः यः प्रत्ययार्थः स प्रधानम् इत्यर्थस्य, 'तदागमे हि' इति सूत्रयता जैमिनिनाऽऽहतस्याऽदुष्टत्वादाख्यातार्थतयव व्यापारस्य प्राधान्यम् । टाबादीनां द्योतकत्वेन संख्यावाचकत्वेऽपि प्रत्ययजन्योपस्थितौ संख्याद्यवृत्तित्वस्य विशेषणाञ्चोक्तकार्यकारणभावस्य निर्दुष्टत्वादित्यन्ये प्रतीयमानाऽर्थस्य प्राधान्यमिति 'तदागमे हि' इति न्यायाकार इत्याशयेनाह-*वदागमे हीतीति*।। . *अतिव्याप्तमिति । "नपुंसकमनपुंसकेन" इति क्लीबशेषतैकवचनान्ततायां च परीक्षा रेकप्रयुक्तमन्वयाननुभावकत्वं तयोः समभिव्याहाररूपाकाङ्क्षायाः घटकर्मत्वमित्यत्रापि सत्वभ्रमवताम् । *तद्वयुप्तत्तिरहितानाम्*-तादृशभ्रमशून्यानाम् । *अन्येषाम्*सिद्धान्तिनाम् । *अत एव*-शाब्दबोधस्य स्वस्वव्युत्त्पत्यनुसारित्वादेव । ननु प्रत्ययार्थस्य कचित् प्राधान्यं क्वचिद्विशेषणत्वमित्यत्र यदि न किञ्चिन्नियामकम् , तदा भवन्मते आख्यातसमभिव्याहारेऽपि धात्वर्थस्य प्रकारतया भानं कुतो नेत्यत आह-*एवं सत्यपीति । यदवष्टम्भेन भावनाया आख्यातार्थत्वं मीमांसकमन्यैरुक्तम् । तदेव व्यभिचरितमित्याह-*तदागमे हीति* । विवरणम्-कृना विवरणम् । *व्यभिचरितमिति । व्यभिचरितश्च-व्यभिचरितं च व्यभिचरितम् , “नपुंसकमनपुंसकेनैकवच्चास्यान्यतर १० द. प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy