________________
'दर्पणपरीक्षासहिते भूषणसारे -
अत एव नैयायिकानां प्रथमान्तविशेष्यक एव बोधः । लक्षणायामालङ्कारिकाणां शक्यतावच्छेदकप्रकारक एव बोधो, न नैयायिकादीनाम् । घटः कर्म्मत्वमानयनं कृतिरित्यादौ विपर्य्ययेणापि व्युत्पनानां नैयायिकनव्यादीनां बोधो, न तु तद्व्युत्पत्तिरहितानाम् ।
दर्पण:
७२
तदेव विशदयति—*अत एवेति । *शक्यताऽवच्छेदकप्रकारक इति ॥
'लक्षणrssरोपिता क्रिया' इति काव्यप्रकाशीयसूत्रपर्यालोचनया शक्यतावच्छेदकारोपविषयनिष्टसंसर्गस्यैव लक्षणात्वलाभाद्, 'गङ्गायां घोष' इत्यत्र गङ्गात्वेनैव लक्ष्याप्रतीतिरत एव ततो वैयञ्जनिकी शैत्यपावनत्वादिप्रतीतिः । ' जाता लता हि शैले इत्यादौ च कनकलतात्वेनैव रूपेण बोधस्य चमत्काराऽऽधायकत्वादिति तदाशयः ॥
*नैयायिकादीनामिति* । सम्बन्धितावच्छेदकरूपेणैव लक्ष्यार्थस्य भानम् । अत एव ‘कचतस्त्रस्यति वदनम्' इत्यादौ सम्बन्धितावच्छेदकराहुत्वादिनैव बोधस्य त्रासाssधायकस्योपपत्तिः । कचत्वादिशक्यतावच्छेदकरूपेण लक्ष्यार्थबोधाङ्गीकारे तदनुपपत्तिः स्पष्टैव । किञ्च शक्यतावच्छेदकं, न लक्ष्यतावच्छेदकम् । “शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा" इत्यभियुक्तोक्तिविरोधादिति तद्भावः ॥
परीक्षा
तथा तिर्थस्यापि सुबर्थसंख्याया विशेषणत्वमेवान्येषां प्रकृत्यर्थनिरूपितं विशेषणत्वमिति सिद्धान्तस्तदनुसारिणी व्युत्पत्तिः कार्य्यकारणभावमूला कल्पनीया । व्युत्पत्यनुसारी बोध एव प्रमाणम् । यस्त्वतादृशो बोधः सोऽप्रमाणमेव । न हि कस्यचिद्वाष्यकारादिसम्मतमार्ग विपरीतक्रमेण बोधस्य प्रामाण्यमाश्रित्य तदनुसारेण व्युत्पत्यन्तरकल्पनं न्याय्यमिति भावः ।
भाष्याद्यनुसारिणी व्युत्पत्तिर्येषां नास्तिः तेषां त्वन्यादृशोऽपि बोधो भवतीत्येतद्विशदयति-अतएवेति । अत एव विपरीतव्युत्पत्तिसत्वादेव । *प्रथमान्तविशेष्यक एवेति* । तिङन्तप्रथमान्तसमभिव्याहारे प्रथमान्तविशेष्यक एव चैत्रः पचतीत्यादितः पाकानुकूलकृतिमांश्चैत्र इत्यन्वयबोधस्य तेषामुद्भवात् । *आलङ्कारिकाणामिति । अत एव काव्यप्रकाशकृता मुख्यार्थबाधे तद्योगे रूढ़ितोऽर्थप्रयोजनात्, अन्योऽर्थो लक्ष्यते यत्सा लक्षणाsरोपिता क्रियेति प्रतिपादितम् । शक्यतावच्छेदकारोपविषयविशिष्टो यः क्रियारूपो व्यापारः सैव लक्षणाः स च व्यापार आरोपरूप एव । अत एवजाता लता हि शैले जातु लतायां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ ४१ ॥ कचतस्त्रस्यति वदनं वदनात् कुचमण्डलं त्रसति । मध्याद्विभेति नयनं नयनादधरः समुद्विजतीति ॥ ४२ ॥
समुद्विजतीत्यादौ शक्यतावच्छेदकप्रकारबोध एव चमत्कारः । 'गङ्गायां घोष' इत्यतो गङ्गावृत्तिर्घोष इति बोध एव शैत्यपावनत्वादिप्रतीतिः । *नैयायिकानामिति । तेषां मते हि यद्धर्मावच्छिन्ने शक्यार्थसम्बन्धग्रहस्तद्धर्मप्रकारक एव बोधः । कचत - स्यतीत्यादौ तेषां मते राहुत्वादिना बोधः । अत एव शक्यादन्येन रूपेण ज्ञाते भवति लक्षणेति तेषामुक्तिः सङ्गच्छते । नैयायिकनव्यादीनामू*- — यस्य पदस्य यत्पदव्यति