SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७१ धात्वर्थनिर्णयः । त्वमेव हि कारकान्वयितावच्छेदकमिति वक्ष्यते। तदेतदाविष्कर्तुं विवरणेन धात्वर्थक्तवत्वर्थयो कर्मत्वकर्तृत्वे दर्शयति-कृतवान् पाकमिति॥ वस्तुतस्तु प्रत्ययार्थः प्रधानमित्यस्य य प्रधानं स प्रत्ययार्थ एवेति वा; यः प्रत्ययार्थः स प्रधानमेवेति वा; नार्थः। अजा, अश्वा, छागी इत्यत्र स्त्रीप्रत्ययार्थे स्त्रीत्वस्यैव प्रधान्यापत्तेश्छाग्यादेरनापत्तेश्व । किन्तूत्सर्गोऽयम् । विशेष्यत्वादिना बोधस्तु तथा व्युत्पत्त्यनुरोधात् । दर्पणः ननु कृदर्थक क्षिप्तभावनायां पाकादीनां कर्मत्वेनान्वयसौलभ्यान्नोक्तदूषणमत आह-*वस्तुतस्त्विति ॥ प्रधानप्रत्ययार्थवचनमिति सूत्रस्वरसो यः प्रधानं स प्रत्ययार्थः । 'तदागमे हि' इति न्यायश्च, यः प्रत्ययाऽर्थ इत्यर्थे मूलमिति ध्येयम् । अजेत्यादौ विशेष्याजादिपदार्थस्य प्रत्ययार्थत्वाऽभावेन व्यभिचारस्य स्फुटत्वात् तदुपेक्ष्य द्वितीयकल्प एव व्यभिचार दर्शयति-*अजेति* ॥ ___ इष्टापत्तावाह-*छाग्यादेरिति* ॥ स्त्रीत्वविशेषणछाग्यादेश्छागनिष्ठस्त्रीत्वादेरिति वाऽर्थः। एकत्र विशेषणतयाऽन्वितस्यापरत्र विशेषणतयाऽन्वये नैराकाट्येण छागीमानयेत्यादौ कर्मत्वादिकारके छागी गच्छतीत्यादौ छागनिष्टस्त्रीत्वस्य छागीपदार्थस्यायोग्यतयाऽऽख्यातार्थकर्तरि वाऽनन्वयापत्तेश्चेति भावः । छाग्यादेरनापत्तेश्चेति पाठे प्राधान्यानापत्तेरित्यर्थः। . ननु सा व्युत्पत्तिरपार्थंव स्यादत आह-किन्त्विति । तथाच तादृशव्युत्पत्तेः कृत्तद्धितमात्रविषयकत्वं न प्रत्ययमात्रविषयकत्वमिति न तबला व्यापारस्याख्यातार्थत्वमिति भावः । ननु कथं तर्हि व्यापारविशेष्यको बोधोऽत आह-*विशेष्यत्वादिनेति । तथाच व्युत्पत्त्यनुसारी बोधो, न तु बोधानुसारिणी व्युत्पत्तिः । एवञ्च तादृशव्युत्पत्त्यङ्गीकर्तृणां तथैव बोधोऽन्यादृग् व्युत्पत्तिमतां त्वन्यथापीति भावः । परीक्षा दार्थे तत्पदार्थतावच्छेदकधर्मावच्छिन्नसंसर्गवत्वम् । 'घटेन जलमाहर' इति वाक्यात् जलाहरणे घटत्वावच्छिन्नसंसर्गः प्रतिपाद्यः स तु यस्य कस्यचिद् घटस्य कारणतारूपोऽपि सम्भवतीति सुषिरेतरत्वस्य लाभो न स्यात् । यदि चान्वयप्रयोजकरूपवत्वं योग्यताः तदा-सुषिरस्य करणत्वासम्भवादन्वयप्रयोजकस्य सुषिरेतरत्वस्य लाभ , इति शडकोक्तरीत्याऽन्वयासम्भवमुपपादयति-*क्रियान्वयित्वमेवेति। ननु कृत्प्रत्ययार्थो यः कर्ता तेन भावनाया आक्षेपे सति तस्यां कारकान्वयो भविष्यतीति. भवदक्तदषणानवसर इत्यत आह-*वस्तुत इति* । 'तदागमे हि इति । तदक्तन्यायेन यः प्रधानं स प्रत्ययार्थ इति लभ्यतेः अस्य च नियमस्याऽजेत्यादौ व्यभिचारः स्फुट एवः तथाऽपि सम्भवाभिप्रायेण यः प्रत्ययार्थः स प्रधानमेवेत्यपि तदर्थ इत्युक्तं तत्र व्यभिचारमाह-*अजेत्यादाविति । *अयम्*-"प्रकृतिप्रत्ययौ सहार्थे ब्रूत” इति न्यायः । *उत्सर्गः । इत्यनेन तस्य सार्वत्रिकत्वं ना किन्तु कृत्तद्वितप्रत्ययमात्रविषयकत्वम् । स्त्रीप्रत्ययानान्तु द्योतकतया तद्योत्यस्य स्त्रीत्वस्य विषणत्वमेव
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy