SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - सम्बन्धमात्रमुक्तञ्च श्रुत्या धात्वर्थभावयोः । तदेकांश निवेशे तु व्यापारोऽस्या न विद्यते ॥ इति भट्टपादोक्तरीत्या सम्बन्ध सामान्येन कारकाणामन्वयः शङ्कयः । योग्यताविरहाद् अन्वय प्रयोजकरूपवत्त्वस्य तथात्वात् । क्रियान्वयि - ७० दर्पणः I याया अपि साध्यरूपायाः साधकाकाङ्क्षया च परस्पराऽन्वयौचित्यमित्याशयेन क्रियात्वमेव हि कारकाsन्वयितावच्छेदकमिति सुबर्थनिर्णये वक्ष्यमाणरीत्येत्यर्थः । *सम्बन्धमात्रमिति* । “ज्योतिष्टोमेन यजेत" इत्यत्र यजेतेति श्रुत्या धात्वाख्यातार्थयागभावनयोः सम्बन्धसामान्यं प्रतिपाद्यते । तयोः क्रियाकारकभावरूपसम्बन्धविशेबोधने तु नास्याः श्रुतेः कश्चिदभिधादिरूपो व्यापारस्तद्वाचकपदाऽभावादिति तदर्थः । तथा च यजेतेत्यत्र यागसम्बन्धिभावनेति बोधो, न यागकरणकभावनेति, तद्वप्रकृते पाकसम्बन्धी कर्त्तेति बोधः । कर्मत्वादिना तत्संसर्गकबोध एव क्रियाया अपेक्षणादित्याशङ्कितुराशयः । फलस्य कारकत्वेनाऽयोग्यत्वात्तादृशाऽन्वयबोधोऽप्यसम्भवदुक्तिक इत्याह-योग्यता विरहादिति । ननु तत्पदार्थे तत्पदार्थवत्वं योग्यता, अस्ति च सा प्रकृते, पाकप्रयोजकत्ववत्पाकसम्बन्धित्वरूपाऽकर्तुरत आह-*अन्वयप्रयोजकरूपवत्त्वस्येति* ॥ तथाच तत्प्रदार्थे तत्पदार्थतावच्छेदकावच्छिन्नत्वस्यव योग्यत्वे जलाहरणे घटकरणत्वस्य सत्त्वात्तस्मिन् सुषिघटस्यापि करणत्वेनाऽन्वयापत्तिः । अस्मन्मते तु सच्छिद्रेतरघटस्य जलाऽऽहरणाऽन्वयप्रयोजकत्वेन तादृशघटे तादृशा हरणान्वयप्रयोजकत्वमिति न तदन्वयापत्तिरिति भावः । ननु 'घटेन जलमाहर' इत्यत्र घटे छिद्रेतरघटत्ववत् प्रकृते किं कारकान्वयितावच्छेदकं यदभावादनन्वयापत्तिरुद्भाव्यतेऽत आह—* क्रियान्वयित्वमेव हीति । परीक्षा पयवाक्ये यद्वाजपेयपदं तद्यागसाधनद्रव्यपरमुत कर्मनामधेयमिति संशये द्रव्यपदमिति पूर्वपक्षे वाक्यभेदरूपो दोषः कथितः । वाजपेयेन यागं भावयेद् यागेन च स्वर्ग भावदिति बोधात् - यागभाव्यकभावनायां वाजपेयस्य करणत्वात्स्वर्गभाव्यकभावनायां च यागस्य करणत्वान्नामधेयपरत्वे तु वाजपेयाभिन्नयागकरणिका स्वर्गभाव्यिका प्रथाजादीति कर्त्तव्यताका भावनेति बोधान्न स दोषः, यागे करणत्वं तु भावनाभाव्यनिर्वत्तकत्वरूपं पारिभाषिकम् । तत्र पूर्वपक्षे वाक्यभेदापत्तिपरिहारायेयमुक्तिः । श्रुत्या 'वाजपेयेन यजेत' इति श्रुत्या, शब्देन सम्बन्धमात्रमुक्तम्, तस्य सम्बन्धस्यैकांशनिवेशे सम्बन्धविशेषनिवेशेऽस्याः श्रुतेर्व्यापारोऽभिधारूपो व्यापारो नास्तीत्यर्थः । एवं च वाजपेयकरणिका यागसम्बन्धिनी भावनेति बोधान्न वाक्यभेद इति तात्पयम् । उत्तरपक्षे तु यागभाव्यकत्वस्वर्गभाव्यकत्वादिना भावनाभेदाद्यस्यां यागकर - णकत्वम् ; तस्यां न वाजपेयसम्बन्ध इति नेत्थं सम्बन्धसम्भव इति दूषणमुक्तम् । तथा प्रकृतेऽपि पाकसम्बन्धिकर्त्तेति बोधस्य सम्भवाभिप्रायेण शङ्केयम् । कर्मत्वसंefeat क्रियापेक्षेति तात्पर्य्यम् । फलस्य कारकत्वेन क्रियायामेव योग्यतया ऽन्वयबोधो न तु कारकान्तर इत्याशयेन दूषयति-योग्यतेति । तामेवोपपादयति* अन्वयप्रयोजकेति । अयम्भावः - अन्वयप्रयोजकरूपवत्वमेव योग्यता; न तु तत्प
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy