SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। मीमांसकोक्तं बाधकमुद्धरँस्तन्मतं दूषयति-न त्वित्यादिना । नाऽसौ तिङां व्याख्यानम् । पक्कवानित्यादावनन्वयापत्तेः। - अयं भाव:-"प्रकृतिप्रत्ययौ सहाथं ब्रतस्तयोः प्रत्ययार्थस्य प्राधान्यम्" इत्यत्र हि विशेष्यतया प्रकृत्यर्थप्रकारकबोधं प्रति तदुत्तरप्रत्ययजन्योपस्थितिहेतुरिति कार्यकारणभावः फलितः। तथाच पकवानित्यत्र पाकः कर्मकारकं, क्तवतुप्रत्ययार्थः कर्तृकारकम् । तयोश्चारुणाधिकरणोक्तरीत्या वक्ष्यमाणाऽस्मद्रीत्या चान्वयासम्भव इति प्रकृतिप्रत्ययार्थयोरन्वयनियमस्यैवाऽभावे व प्राधान्यबोधक उक्तकार्यकारणभावः। न च दर्पणः पक्कवानिति मूलमपि करोतेराख्यातविवरणत्वाऽभावसाध्यतया व्याचष्टे-*पक्ववानित्यादाविति । अनन्वयमेव विशदयति-*अयम्भाव इत्यादि। ___ *सहार्थमिति । सम्बद्धार्थमित्यर्थः। ब्रूतः-बोधयतः । तयोः प्रकृतिप्रत्ययाऽ. र्थयोर्मध्ये प्रत्ययाऽर्थः प्रत्ययवृत्तिग्रहविशेष्यः प्रधानमिति प्रकृत्यर्थप्रकारातानिरूपितविशेष्यताशालीत्यर्थः । तादृशव्युत्पत्तिसिद्धिकार्यकारणभावमभिनयेन दर्शयति-- विशेष्यतयेति । प्रत्ययस्य प्रकृत्यर्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रतीत्यर्थः । हेतुरित्यस्य विशेष्यतासम्बन्धेनेति शेषः। ___ *अरुणाधिकरणोक्तरीत्येति । अरुणयेति पदोपात्ताऽऽरुण्यस्य प्रथमं करणत्वेनेतरक्रियायामन्वयो; नामार्थाऽन्वयस्तु पार्टिक इति तत्रोक्तम् । *वक्ष्यमाणेति* । कारकत्वस्य क्रियाजनकत्वरूपत्वेन क्रियाजनकमिति ज्ञाते, का सा क्रियेत्याकासोदयेन क्रि परीक्षा स्यैव विवरणमित्यत्र भूवादिसूत्रस्थं भाष्यमपि साधकम्। तत्र हि धातो:-क्रियावचनत्वोक्त्यनन्तरम् "कथं ज्ञायते क्रियावचनाः, पचादयः ?" इति प्रश्नानन्तरम् , यदेषां करोतिना सामानाधिकरण्यं “किं करोति, पचतीत्युक्तम्"। *बाधकमिति । भावनायाः प्रत्ययार्थत्वाभावे तस्याः प्राधान्यं न स्यात्, वक्ष्यमाणन्यायादिति बाधकमित्यर्थः । *पकवानिति । मूलमपि करोतेराख्यातार्थविवरणाभावसाधकमित्याशयेन तव्याचष्टे-*पक्ववानित्यादिना* । अनन्वयापत्ति विशदयति-*अयम्भाव इत्यादिना । *प्रधानमिति । प्रकृत्यर्थनिष्ठप्रकारतानिरूपितविशेष्यताश्रयः। एतादृशव्युत्पत्तिसिद्धकार्यकारणभावमाह-विशेष्यतया इत्यादिना* । पक्ववानित्यस्य पाकं कृतवानिति विवरणदर्शनादाह-*तथाचेति* । *कर्त्तकारकमिति* । “कतरि कृत्" इत्यनुशासनादिति शेषः। *रीत्येति । तत्र हि 'अरुणया इति पदोपस्थितारुण्यस्य प्रथममन्यवत् क्रियायामेवान्वयोः नामार्थान्वयस्तु पाठिक इत्येवमुक्तरीत्येत्यर्थः । *वक्ष्यमाणेति । कारकत्वस्य क्रियाजनकत्वरूपत्वेन तज्ज्ञानोत्तरं का सा क्रियेत्याकाडया क्रियायाः सा ध्यत्वेन बोधोत्तरं जनकाकांक्षया च कारकक्रिययोरेव परस्परमन्वय इति रीत्येत्यर्थः। *अन्वयासम्भव इति* । कारकयोः परस्परमन्वयासम्भव इत्यर्थः । वाजपेयाधिकरणोक्तरीत्याऽन्वयमाशय निराचष्टे-*न चेत्यादिना* । तत्र हि 'वाजपेयेन यजेत इति वि
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy