________________
दर्पणपरीक्षासहिते भूषणसारेरिति; तन्न । क ख्यातवत् "कर्तरि कृदइत्यत एव तद्विधानलाभे, भावे विधायकाऽनुशासनवैयापत्तो, तद्विरोधापत्तेश्च । __अथ व्यापारोऽपि धात्वर्थ इत्यभ्युपेयमिति चेद् ? तर्हि धातुत एव सकलव्यापारलाभसम्भवेनाख्यातस्य पृथकशक्तिकल्पने गौरवमिति । पचतीत्यस्य पाकं करोतीति विवेजात्मा करोतिर्धातोरेव व्याख्यानं-विवरणम् । अतस्तदपि नाख्यातार्थत्वसाधकमिति भावः ।
दर्पणः ननु “कर्तरि कृद् इति विहितस्य कृतः पक्ता पाचक इत्यादौ कर्थत्वदर्शनात्तद्विहितघजादीनां व्यापारार्थत्वदौर्लभ्यात्तदर्थत्वबोधनाय भाव इत्यनुशासनं चारितार्थ्यमित्याशङ्कामपाकरिष्यस्तदनुगुणं दृष्टान्तमाह-*कळख्यातवदिति । तथाच"लकर्मणि इति विहितकाख्यातस्य त्वन्मते व्यापाराऽर्थकत्ववत् "कर्त्तरि कृत्" इति विहितघनादीनामपि व्यापाराऽर्थकत्वसम्भवादित्यर्थः।। _ विरोधाऽऽपत्तेश्चेति । चो हेतौ; यतो वैयर्थ्यमतस्तद्विरोधापत्तिरित्यर्थः । उक्तिवैचित्र्यमेतत् । यद्वा भावविहितप्रत्ययानां धात्वर्थानुवादकत्वात् प्रयोगसाधुतामात्रार्थकत्वमिति त्वदीयसिद्धान्तविरोधापत्तेरित्यर्थः । व्याख्यानमित्यस्य विवरणम्*विवरणमिति ।
*अतस्तदपीति* । पचतीत्यस्य पाकं करोतीति विवरणमपीत्यर्थः । अपिना दूषयिष्यमाण"प्रकृतिप्रत्ययौ"इति न्यायसमुच्चयः। धातोः पृथग्विवरणं तु तवाऽऽख्यातार्थसंख्याकालव्यापाराणां मध्ये व्यापारस्य कृजा संख्यादेस्तदुत्तरतिङा विवरणवदात्वर्थव्यापारस्याऽप्यपपन्नमिति न तदाख्यातार्थत्वसाधकम । अत एव "कथं जायते क्रियावचनाः पच्यादयः यदेषां करोतिना सामानाधिकरण्य, किं करोति पचति" इति भूवादिसूत्रभाष्ये उक्तम् । तेन विवरणमपि धातोरेवेति स्पष्टमेव बोध्यते इति भावः ।
__ परीक्षा तस्य वाच्यत्वमिति मतेन । वस्तुतो व्यापारमात्रस्य तद्वाच्यत्वशङ्का बोध्या। *लाभ इति-तत्सूत्रस्थकर्तृपदस्य कर्तृत्वपरत्वात् । नचैवं 'पक्ता देवदत्तः इत्यादौ सामानाधिकरण्यानुपपत्तिरिति वाच्यम् । तत्र 'कर्त्तरि' इति यत् तस्यावृत्तिं कृत्वा कर्तपदस्यकत्र कर्त्तत्वपरत्वसम्भवादिति भावः । *तद्विरोधापत्तेश्चेति । चो हेतौ यतो भावे विधायकानुशासने वैयर्थ्यमतः कर्तपदस्य कर्तृत्वपरत्ववर्णनेन कर्तृत्वे विधानानुपपत्तिरित्यर्थः।
यत्तु तद्विरोधेति तद्भाष्यविरोधेति-तद्भाष्यविरोधापत्तेरित्यर्थ इति तन्न । भाष्यस्याप्रक्रान्तत्वात् । व्यापारस्यधातुवाच्यत्वानुग्राहक "भावे इति सूत्रमित्याशयः, करोतिनाख्यातस्य योऽर्थस्तस्य कथनानावनाख्यातवाच्येति तदुक्ति खण्डयति*पचतीत्यस्येति । तदपि-पचतीत्यस्य पार्क करोतीतिविवरणमपि। अपिना-"प्रकृतिप्रत्ययौ” इति वक्ष्यमाणन्यायसमुच्चयः । न च पृथक् विवरणादित्थं कल्प्यते इति वाच्यम् ? त्वन्मते संख्याकालभावनानामाख्यातवाच्यत्वेऽपि कृजा तदर्थभाव. नायास्तदुत्तरतिडा संख्याकालयोरिवास्मन्मतेऽपि सम्भवात् । करोतिना धात्वर्थ