________________
धात्वर्थनिर्णयः। तार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम् । आख्यातार्थव्यापाराश्रयत्वञ्च कर्तृत्वं वाच्यम्' इत्यादि वदन्तं मीमांसकम्मन्यं प्रत्याहतस्मात् करोतिर्धातोः स्याद् व्याख्यानं, न त्वसौ तिङाम् । पक्ववान् कृतवान् पाकं किं कृतं पक्वमित्यपि ॥८॥
तस्मात्-अभिप्रायस्थहेतोः । सचेत्थम्-फलमात्रस्य धात्वर्थत्वे ग्रामो गमनवानिति प्रतीत्यापत्तिः। संयोगाश्रयत्वात् । फलानुत्पाददशायां व्यापारसत्त्वे पाको भवतीत्यनापत्तिः। व्यापारविगमे फलसत्त्वे पाको विद्यत इत्यापत्तिश्च ।
यत्तु-भावप्रत्ययस्य घनादेरनुकूलव्यापारवाचकत्वान्नानुपपत्ति
दर्पणः भावनाया आख्यातवाच्यत्वे चेत्यर्थः । तथाचाऽऽरब्धे पाके फलाऽनुत्पत्तिदशायां, पाको जातो न वेति प्रश्ने, भविष्यतीत्युत्तराऽनुरोधात् फलमानं धातुवाच्यमिति मीमांसकाशयः। हेतोः पूर्वमनुपादानादाह-*अभिप्रायस्थेति* । त्यदादीनां बुद्धिस्थपरामर्शकत्वादिति भावः। ___ *प्रतीत्यापत्तिरिति । भावल्युडन्तगमनपदार्थसंयोगात्मकफलस्य ग्रामे सत्त्वाद् ग्रामः संयोगवानितिवद् ग्रामो गमनवानिति प्रयोगस्य प्रामाण्यापत्तेरित्यर्थः । एवमग्रेऽप्यूह्यम् । *फलाऽनुत्पादेति । फलानुत्पादे तादृशप्रयोगस्य सर्वाऽननुमतत्वादुक्तम्-*व्यापारसत्त्व इति*। *भवतीत्यनापत्तिरिति । पाकपदार्थस्य विक्लित्तेरवर्त्तमानत्वादित्यर्थः । फलोत्पाददशायामाऽबाधात्ताशप्रयोगस्येष्टत्वादाह-विद्यत इत्यापत्तिश्चेति । व्यापारांशपरित्यागेन फलमात्रस्य धात्वर्थत्वाऽभिप्रायेण तु भविष्यतीत्युत्तरं पाकमुत्पादयतीति विवरणञ्चेति भावः । ___*अनुकूलेति । अनुकूलत्वोत्कीर्तनं त्वन्विताऽभिधानवादिनां मतमेतदिति सूचयितुम् । *नानुपपत्तिरिति । भावविहितल्युड्घजाद्यर्थव्यापारस्य ग्रामादौ बाधान्न पूर्वोक्तप्रयोगापत्तिरित्यर्थः । विक्लित्त्यनुकूलघजाद्यर्थव्यापारस्य कर्त्ततया भावनादाव. न्वयान्न पूर्वोक्तप्रयोगाऽनुपपत्त्यापत्तिरिति भावः ।
परीक्षा दिशा कार्य इति तेषां भावः। *मीमांसक*-विचारशीलो धातुप्रकृतिकारकाख्यातमागमोक्तरीत्या यथाकथञ्चित् तथोक्तावपि तत्प्रकृतिककृत्प्रत्ययसमभिव्याहारेऽपि सकर्मकत्वादिव्यवहारो दृश्यते तस्य तेनानुपपादनान्मन्यतेःप्रयोगः । *अभिप्रायस्थेति*सर्वनाम्नांबुद्धिविशेषविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्तः स्वीकारादिति भावः। *संयोगेति । तद्रीत्या गमनशब्दस्य संयोगपर्यायत्वात्। *अनापत्तिरिति*-तन्मते फलस्यैव पाकपदार्थत्वात् । *इत्यापत्तिरिति*-तदा तादृशप्रयोगस्य सर्वाननुमततयेष्टापत्तिन्न सम्भवतीति भावः । *अनुकूलेति। कस्यचिन्मतेऽन्वि