________________
६६
दर्पणपरीक्षासहिते भूषणसारे -
भावना, न धातोः । प्राधान्येन प्रतीयमानस्य व्यापारस्य धात्वर्थतायाः प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति न्यायविरुद्धत्वात् । "तदागमे हि दृश्यते" इति न्यायविरुद्धत्वाच्च । एवञ्च 'स्वयुक्ताख्या
दर्पणः
तिङन्तजन्यबोधविषयत्वमित्यर्थः । तथाच - पाकाऽनुकूला भावनेत्यादिविवरणेनाऽपि पचतीत्यस्य पाकाऽनुकूलभावनाबोधकत्वमस्त्वित्यर्थः । यथाश्रुते विवरणेन धातोर्भावनावाचकत्वनिर्णये, किं त्वाख्यातवाच्यैव सा इत्युत्तरग्रन्थाऽसङ्गतेः ।
'प्रकृतिप्रत्ययौ' इति न्यायस्य संख्यादौ व्यभिचारमाशङ्कयाह -* तदागमे हीति* ॥ इदं च यः प्रधानं स प्रत्ययार्थ इति न्यायाssकार इत्यभिप्रेत्य तन्मूलसूनालोचने तु यः प्रत्ययार्थः स प्रधानमिति न्यायाकारो लभ्यते । तथाहि - 'पशुना जेत' इति श्रूयते । तत्रैकवचनोपात्तमेकत्वं यागे विशेषणमुत प्रकृत्यर्थे इति संशये, पशुपदार्थस्य यागं प्रति गुणत्वात् सम्भावितयावत्पशुकरणेन प्रधानावृत्तौ प्रधानभङ्गापत्त्या यावद्गुणप्रधानाऽऽवृत्तेरयोगादेकत्वविशिष्टपशोर्विधाने त्वेकत्वस्य पशुविशेषणतया यागाङ्गत्वाऽभावात्तदविवक्षितमेव स्यादित्यर्थकेन, “तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्” इति सूत्रेण पूर्वपक्षिते, “शब्दवत्तूपलभ्यते तदागमे हि दृश्यते तस्य ज्ञानं यथाऽन्येषाम्” ( जै० अ० ४ पा० १ सू १५ ) इति सिद्धान्तसूत्रम् । शब्दवत्शब्दवाच्यं, यथा भवति तथोपलभ्यते । एकत्वं हि यतस्तदागमे एकवचनसमवधाने दृश्यते । अतस्तस्य प्राधान्येन प्रतीतिर्यथान्येषामरुणादीनामित्यर्थः । यद्वा 'तदागमे' तत् - एकत्वम् । आगमे - एकवचनविधायकागमे "द्वयेकयोः" इत्यत्र । दृश्यतेएकवचनरूपप्रत्ययार्थत्वेन प्रतीयते, अन्येषां करणादीनामिवेत्यर्थः ।
1
एवञ्च समानप्रत्ययोपात्तत्वप्रत्यासत्त्या विभक्त्यर्थ करणाऽन्वितस्याऽरुणाधिकरणन्यायेन प्रथमं क्रियायामन्वयः पश्चात् प्रकृत्यर्थे । तथाच पश्वेकत्वोभयकरणको याग इति बोधेनैकत्वस्य यागाङ्गत्वाऽवगमान्नानेकपशुभिर्याग इति तद्भावः । प्राधान्यं च प्रकृत्यर्थाविशेषणत्वमेव, प्रत्ययार्थमादाय न्यायावताराद्यः प्रत्ययार्थ इति भागस्य न्यायघटकत्वम् । प्रकृते आख्याताऽसमवधाने भावनाऽबोधात् तस्याप्राधान्येन भानमिति तत्सङ्गतिरिति बोध्यम् ।
ननु सकर्मकत्वाऽनुगतकर्त्तृत्वयोदुर्वचत्वमेवैतन्मते दूषणमत आह-*एवञ्चेति* ।
परीक्षा
चिच्छङ्कासम्भवादिति तत्समाधानपरतया मूलमवतारयति - * एवमित्यादिना* । *एवम्*-उक्तहेतोः । *वाच्यत्वम् - तिङन्तजन्यशाब्दबोधविषयत्वम् । विरुद्धत्वादिति । यदि भावना प्रकृतिवाच्या स्यात्, तदा तस्याः प्राधान्यं न स्यादिति भावः । * इति न्यायेति । तदागमे हि यद् दृश्यते तत्तस्य वाच्यमिति न्यायेत्यर्थः । आगमनमागमः, प्रयोग इति यावत्; तस्मिन् सति दृश्यते ज्ञायते इति तदर्थः । पूर्वोक्तसकर्मकत्वाकर्मकत्वविभागस्याप्युपपत्तिः कर्त्तुं शक्येत्याह - * एवमिति । स्वं धातुः पचनादिक्रियायाः प्रारम्भेऽपि फलानुत्पादकाले पाको जातो नवेति संशयो दृश्यते; इत्यतः फलस्य धातुवाच्यत्वमावश्यकम् तेनैव च सकर्मकत्वाकर्मकत्वविभाग उक्त