SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । ६५ तस्मादावश्यकं सकर्मकाणां फलवाचकत्वम् । कर्मकाणां तु तन्निविवादमेव । “भू सत्तायाम्" (भ्वा० ग० ) इत्याद्यनुशासनाच्च । श्रुत एव-“ड्यर्थः पचिः” इति भाष्यं सङ्गच्छते इति दिकू ॥ ७ ॥ एवं सिद्ध्यतु फलव्यापारयोर्वाच्यत्वम् ; किन्तु आख्यातवाच्यैव सा दर्पणः गच्छतीत्यादौ द्वितीयाऽर्थसंयोगादिरूपफलाऽन्वयित्वस्यैव विनिगमकत्वाद् गमनक्रियायां संयोगस्यैवोपलक्षणत्वमित्यस्य सुवचतयाऽन्यत्र लक्षणयोपपत्तेश्च नोकरीतिः साध्वीत्यस्वरसोऽपि वदन्तीभ्यां सूचितः । उपसंहरति-— तस्मादिति ॥ उक्तयुक्तिसङ्गतेरित्यर्थः । *निर्विवादमेवेति ॥ स्वार्थफलसमानाऽधिकरणव्यापारवाचकत्वरूपाऽकर्मकत्वस्य धातोः फलवाचकत्वं विनाऽनुपपन्नत्वादिति भावः । ननु सकर्मकत्वं पूर्वोक्तमेव तद्भिन्नधातुत्वं चाऽकर्मकत्वमिति नोक्ताऽनुपपत्तिरत आह-भू सत्तायामिति ॥ गणेषु फलस्यैव निर्देशादिति भावः ॥ *अत एवेति ॥ धातुमानस्य फलवाचकत्वादेवेत्यर्थः ॥ *द्वयर्थ इति ॥ द्वयर्थपदं फलव्यापारोभयार्थकमित्याशयः । ननु 'द्वयर्थः पचिः' इति भाष्यं पचेरुपादानात्सकर्मकाणां फलार्थकत्वे साधकमस्तु, न त्वकर्मकाणामत आह*दिगिति* ॥ तथा सति सत्ताद्यर्थनिर्देशवैयर्थ्याऽऽपत्तेः । धातुसामान्यशक्त्या पच्यादेवि भवत्यादेरपि व्यापारबोधसम्भवादिति दिगर्थोऽवसेयः ॥ ७ ॥ 'व्यापारी भावना सैव' इत्युक्तविवरणेन न व्यापारस्य धात्वर्थतानिर्णयः । पचति पार्क करोतीति विवरणेन आख्यातार्थताया अपि वक्तुं शक्यत्वादिति मीमांसकाशङ्कासमाधानपरतया मूलमवतारयति - एवमित्यादिना ॥ *वाच्यत्वमिति ॥ परीक्षा लाक्षणिकार्थविषयकशाब्दबोधजनक सामग्री कल्पना तत्तद्धातूत्तरत्वस्य तत्तत्प्रत्यये विशेष्यत्वस्य तत्तत्फले विशेषणत्वस्य च कल्पना तत्तद्धातुसमभिव्याहारज्ञानस्य कारणत्वस्य कल्पना च काय्र्येति महागौरवमिति फलव्यापारयोर्धातुशक्यत्वकल्पनमेवोचितमित्युपसंहरति — तस्मादिति । पूर्वोक्तयुक्तिकदम्बादित्यर्थः । अकर्मकाणामिति । एषां फलवाचकतां विना स्वार्थं फलसमानाधिकरणव्यापारवाचकत्वरूपाकर्मकत्वस्य निर्वक्तुमशक्यत्वादिति भावः । न च सकर्मकभिन्नत्वमकर्मकत्वम् । सकर्मकत्वं च द्वितीयाद्यर्थ फलव्यधिकरणव्यापारवाचकत्वमित्येवास्त्विति वाच्यम् ? एकस्यैवार्थभेदेन सकर्मकत्वाकर्मकत्व स्वीकारस्योच्छेदापत्तेः । किञ्चाधुनिकैः सर्वत्रार्थकथनावसरे फलस्यव निर्देशःस्वीक्रियतेः तदसङ्गतिः स्यात्तदाह-भू सत्तायामिति । *अनुशासनात्*-अभियुक्तोक्तः । अत एव - फलव्यापारोभयवाचकत्वादेव । *चिरिति । इदं धातुसामान्योपलक्षणम् । *दिगिति । दिगर्थस्तूक्तो भाष्ये पचिरित्युपादानात्सकर्मकाणामेवोभयार्थत्वमिति शङ्कायास्तु नावसरः । सत्तायामित्यादिफलनिर्देशस्य तेष्वसङ्गत्यापत्तेः । किञ्च तेषामपि धातुत्वावच्छिन्नस्य व्यापारत्वावच्छिन्नशक्यत्वमिति सामान्यतः क्लृप्तो यो निश्चयस्तद्विषयत्वमावश्यकमिति ॥ ७ ॥ 1 अथ व्यापारी भावनेत्युक्तरीत्या न व्यापारस्य धातुवाच्यत्वसिद्धिः ; पचतीत्यस्य पार्क करोतीति विवरणदर्शनेन भावनायाः प्रत्ययार्थत्वमेवास्ता मिति कस्य९ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy