________________
दर्पणपरीक्षासहिते भूषणसारे -
धातूनां फलावाचकत्वे त्यजिगम्योः पर्य्यायतापत्तिः । क्रियावाचकत्वाविशेषात् । फलस्योपलक्षणत्वे ऽप्येकक्रियाया एव पूर्वदेशविभागोत्तरदेशसंयोगजनकत्वादुक्तदोषतादवस्थ्यमित्यपि वदन्ति ।
६४.
दर्पणः
ति । दर्शनान्तरीयां युक्तिमुपन्यस्यति धातूनामिति ॥ त्यजिगम्योरित्युपलक्षणं तादृशधातुमात्रस्य ॥ *पर्यायतापत्तिरिति ॥ तच्छक्यताऽवच्छेदकावच्छिन्नशक्तत्वस्यैव पर्य्यायतापदार्थत्वादिति भावः ।
ननु त्यजिगम्योः क्रमेण विभागसंयोगोपलक्षितव्यापाराऽर्थकत्वम् एवञ्च पर्यायलक्षणे तदुपलक्षणेतरानुपलक्षितत्वस्याऽपि विशेषणान्नोक्ताऽऽपत्तिरत आह-*उपलक्षणत्वेऽपीति । उपलक्षणत्वं च तत्पदजन्यबोधविषयत्वेन शक्त्यविषयत्वे सति शक्तिविषयत्वम् । *जनकत्वादिति ॥ तथाच संयोगविभागयोः स्वार्थव्यापारजन्यत्वाऽविशेषाद् गम्यर्थ व्यापारे संयोग एवोपलक्षणं, नो विभाग इत्यत्र विनिगमकाऽभावादुभयस्यैवोपलक्षणत्वे उक्तापत्तिर्दुर्वारेति फलेऽपि शक्तिरावश्यकीति भावः । अत्र 'ग्रामं परीक्षा
"
कर्म्मणि क्रियायाः प्रवृत्तिरस्तीति । कर्मणि- कर्ममात्रेः स्वसिद्धान्तरीत्या फलव्यापारोभयवाचकत्वं धातूनां सकर्मकत्वाकर्मकत्वं कर्म्मस्थक्रियकत्वं च यथायथमूहनीयम् ।
अथ नैयायिकैर्नवीनैर्यथाफलस्य धातुवाच्यत्वं व्यवस्थापितं तद्रीत्या स्वयमप्याह - *धातूनामित्यादिना । त्यजिगम्योरिति । इदमुपलक्षणं धातुमात्रस्य । *प
यत्वापत्तिः- पर्यायवाचकत्वापत्तिः । इयमापत्तिर्व्यापारत्वस्य शक्यतावच्छेदकत्वमतेन । यदि तु फूत्कारत्वादेः पचादिवाच्यतावच्छेदकस्य न गम्धातुवाच्यतावच्छेदकत्वमितिरीत्या न सर्वेषां पर्य्यायत्वापत्तिरित्युच्यते; तथापि त्यजिगम्योः पर्यायत्वापत्तिरस्त्येव । अत्रैकधर्मावच्छिन्नस्य व्यापारस्य द्विविधफलजनकत्वात् । ननु त्यज्धातोर्विभागोपलक्षिते गम्-धातोः संयोगोपलक्षिते व्यापारे शक्तिरिति न पर्यायत्वापत्तिरत आह-फलस्येति । अशक्यत्वे सति शक्यव्यावर्त्तकत्वमुपलक्षणत्वम् । तद्यद्यपि विभागादेः स्वीक्रियते, तथापि शक्यतावच्छेदकधम्मै क्यात्पर्य्यायत्वापत्तिरस्त्येव । स्वार्थ व्यापारजन्यतायाः संयोगविभागयोः सत्वात्- गम्धात्वर्थव्यापारस्य संयोग एवोपलक्षको न विभाग इत्यस्य विनिगमनाविरहेण वक्तुमशक्यत्वात् । नचास्मिन्मते फलस्य शाब्दबोधविषयत्वोपपत्तये द्वितीयादिकर्मप्रत्ययवाच्यत्वं तस्य स्वीकार्यम् । एवञ्च त्यजिगम्योः पर्यायत्वे सति त्यजतीति यत्र प्रयोगस्तत्र गच्छतीति प्रयोगापत्तिरिति हि दोषो वक्तव्यः; स नास्ति द्वितीयार्थसंयोगनिष्टजनकतासम्बन्धावच्छिन्नप्रकारता निरूपितव्यापारनिष्ठविशेष्यताशालिशाब्दबोधे गम्धातुसमभिव्याहारस्य तादृशसम्बन्धावच्छिन्न विभागप्रकारताकशाब्दबोधे त्यज्धातुसमभिव्याहारस्य यज्ञानं तस्य कारणत्वं स्वीकार्य्यमिति न दोष इति वाच्यम् ? एवमपि गमनं त्याग इत्यनयोः पर्यायेण प्रयोगापत्तेर्दुर्वारत्वात् । नचात्रापि भावार्थ कल्युडा - देः संयोगविभागयोर्लक्षणास्वीकारेण तत्तत्फलप्रकार कशाब्दबोधे तत्तद्धातुसमभिव्याहारज्ञानस्य कारणत्वकल्पनया न दोष इति वाच्यम् ? “प्रकृतिप्रत्ययौ सहार्थं ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्” इति नियमस्य कृदन्ते क्लृप्तस्य भङ्गापत्तेः । किञ्च सर्वत्र