________________
९२
दर्पणपरीक्षासहिते भूषणसारे -
स्थाप्यायां तदसम्भवस्योक्तत्वात् । स्तोकः पाक इत्यनापत्तेश्च । तस्माद्धात्वर्थान्वये स्तोकादिशब्देभ्यो द्वितीया । घञर्थान्वये प्रथमा पुँल्लिङ्गता चेति - तत्सिद्धये घञादेः शक्तिरुपेया । एतेन घञादीनां प्रयोगसाधुतामात्रमिति नैयायि कनव्योक्तमपास्तम् ।
न च घञन्तशक्त्युपस्थाप्यान्वये स्तोकः पाक इति भवतीति
दर्पणः
*उक्तत्वादिति । क्रियान्तराकाङ्क्षाऽनुत्थापकतावच्छेदकरूपवत्त्वं साध्यत्वमित्यादिनेत्यर्थः । क्रियान्तराकाङ्क्षाऽनुत्थापकतावच्छेदकरूपेणोपस्थितेः क्रियान्वयास - म्भवादिति भावः । तेन रूपेणोपस्थितेः पश्य मृगो धावति' इत्यादौ व्यभिचरितत्वादाह - *स्तोकः पाक इति । घना सिद्धावस्थक्रियाया अबोधने धात्वर्थविशेषणवाचकस्तोकादिशब्दस्य लिङ्गसर्वनामनपुंसकत्वापत्तिरिति भावः । तदेव विशदयति-*तस्मादिति । एतेनेति । घजादीनां सिद्धावस्थाऽऽपन्नक्रियावाचकत्वव्यवस्थापनेनेत्यर्थः । *प्रयोगसाधुतामात्रमिति । मात्रपदेन वाचकत्वव्यवच्छेदः ।
*नैयायिकनव्योक्तमिति । धातूनां सुब्विभक्त्यप्रकृतित्वात्तदर्थे सुबर्थसंख्याकर्मत्वादीनामन्वयानुपपत्त्या धातोरिव घञन्तस्यापि क्रियावाचकत्त्वमभ्युपेयम् । प्रकृत्ये - कदेशार्थे तदन्वयाऽभ्युपगमे तु यत्र पाककर्त्रादेर्द्वित्वादिकं बाधितम्, पाकादेश्व तदबाधितं, तत्र पचन्तौ पश्यतीत्यादिप्रयोगापत्तेः । धातूपस्थाप्याऽर्थे सुबर्थान्वयबोधं प्रति तद्धातूत्तरधर्मिकयत्किञ्चिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वावगमे तु गौरवम् । एवञ्च यत्र धातुमात्रस्य पाकादौ तात्पर्य्यम्, तत्र तद्विशेषणतावाचकस्तोकपदाद् द्वितीयैव । यत्र तु कृदन्तसमुदायस्य तत्र तद्विशेषणवाचकपदं तत्समानविभक्तिकमेवेति कातन्त्र
परीक्षा
यति -- *नचेत्यादिना । *अनापत्तेरिति । यदि प्रत्ययेन सिद्धावस्थापन्नक्रियायाः अभिधानं न स्यात्तदा प्रकृतेऽपि धातुप्रतिपाद्यक्रियायामेवाभेदेन स्लोकपदार्थस्यान्वयः स्यात्, तदा द्वितीयैव स्यान्नतु प्रथमा । यदि प्रत्ययार्थोऽप्यस्ति तदा तस्यास्तिर्भवन्तिपर इति न्यायेन गम्यमानाऽस्तिक्रिया कर्तृतया ऽभिहितकारकत्वे - नाभिहिते प्रथमेति प्रथमा भवतीति भावः । सिद्धमर्थमुपसंहरति-तस्मादिति । *द्वितीयेति*। न च षष्ठी स्यादिति वाच्यम् ? कर्तृसाहचय्र्येण धात्वर्थे भेदेनान्वयिकवाचकादेव षष्ठीविधानात् । एतेन -उक्तरीत्या प्रकृतिप्रत्ययोरुभयोरपि वाचकताया आवश्यकत्वेन ।
कातन्त्रपरिशिष्टकृन्मतमनूद्य दूषयति — नचेत्यादिना * । एवं हि तैरुक्तं पार्क पश्येत्यादौघान्तानुपूर्व्याः शक्ततावच्छेदकत्वमावश्यकम् । अन्यथा तदुत्तरप्रत्ययार्थसंख्याकर्मत्वादेर्द्धात्विर्थेऽन्वयो न स्यात् – धातूनां प्रत्ययाप्रकृतित्वात् प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वनियमात् । न च प्रकृत्येकदेशार्थ एवान्वयोऽस्त्विति वाच्यम् ? यत्रैकेन कर्त्रा पाकद्वयं क्रियते, तत्र पाके द्वित्वस्याबोधेन पचन्तौ पश्यतीति प्रयोगापत्तेः । यदि तु धातूपस्थाप्यार्थे सुबर्थसंख्यान्वयबुद्धिं प्रति धातूत्तरप्रत्ययधर्मिककिञ्चिदर्थपरत्वज्ञानं प्रतिबन्धकमित्युच्यते, तदा गौरवमिति घञाद्यन्तसमुदायस्य