SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। ९३ वाच्यम् । घअन्तानुपूाः शक्ततावच्छेदकत्वे गौरवादनुशासनाञ्च घनादेरेव तथा शक्तिकल्पनादिति दिक् । एवञ्च घनशक्त्यभिप्रायेण "कृदभिहित" इति भाष्यमतो न तद्विरोध इति भावः ॥ १५ ॥ ननु कारकाणां भावनान्वयनियम एव पाक इत्यत्रापि कर्मषष्ठयनुसारेण भावनाया वाच्यत्वं सिद्ध्येत् । तदेव कुत इत्याशङ्कां समाधत्ते सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः । धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ् ॥ १६॥ सम्बोधनान्तस्य क्रियायामन्वयः। 'त्वं ब्रूहि देवदत्त' इत्यादौ निघातानुरोधात् । 'सामानवाक्ये निघातयुष्मदस्मदादेशा” इत्य दर्पणः परिशिष्टकृन्मतं नव्यनैयायिकमतत्वेनानूद्य दूषयति-*नचेति ॥ *गौरवादिति ॥ ननु भावाख्यातवद्भावविहितघनादीनां धात्वर्थानुवादकत्वे स्थिते प्रागुक्तप्रयोगोपपत्तयेऽनायत्त्या घजन्तानुपूर्व्याः शक्ततावच्छेदकत्वस्वीकार आवश्यक इत्यत आह*अनुशासनादिति ॥ तथाच गुरुभूतानुपूर्व्याः शक्ततावच्छेदकत्वापेक्षयानुशासनानुगुण्यादुक्तप्रयोगोपपत्तये घञ्त्वस्यैव तत्त्वमुचितमिति भावः। ननु घनादीनां व्यापारावाचकत्वेऽपि क्रियाविशेषणत्वाद् द्वितीयेत्यत्र क्रियापदस्य पाकार्थकतया तथानुपस्थाप्यपरत्वात् 'स्तोकः पाक' इत्यादौ धातूपस्थाप्यपाकस्योक्तविशेषणवैकल्यान्न तद्विशेषणवाचकपदाद् द्वितीयापत्तिरत आह-दिगिति* ॥ तदर्थस्तु-स्यादेवं यदि क्रियाविशेषणाद् द्वितीयेति स्वतन्त्रमनुशासन स्यात् , किन्त्वस्मदुक्तफलितार्थकथनमेव तत्। तथात्वे वा त्वन्मते 'स्तोकं पाक' इत्यनापत्तेश्चेति॥१६॥ *क्रियायामिति ॥ प्रवर्त्तनाविषयक्रियायामित्यर्थः। तत्र तदनन्वये निघाताऽनुपपत्तिं प्रमाणयति-निधाताऽनुरोधादिति*। *समानवाक्य इति* । 'आख्यातं सविशेषणं वाक्यम्' इति समर्थसूत्रभाष्यात्साक्षात्परम्परया वा पदार्थान्तराऽन्वितक्रियाबोधकाख्यातस्यैकवाक्यतालाभेन सम्बोधनान्तार्थस्य क्रियायामनन्वये, 'त्वं ब्रूहि देवदत्त' परीक्षा शक्तिरूपेण । एवं च यत्र धातुमात्रस्य पाकप्रतिपादकताः तत्र तत्समानाधिकरणस्तोकपदादू द्वितीया । यत्र तु घजाद्यन्तसमुदायेन पाकादिः प्रतिपाद्यते, तत्र तत्समानाधिकरणपदात् प्रथमेति विवेक इति हि तेषां मतम् । ननु भावाख्यातवद्भावविहितघजादीनामपि धात्वर्थानुवादकत्वेन पूर्वोक्तव्यवस्थासिद्धये द्यजान्तानुपूर्व्याः शक्ततावच्छेदकत्वमगत्या स्वीकार्यमित्यत आह-*अनुशासनेति । तथा शक्तत्वं गुरुभूतानुपूर्व्याः शक्ततावच्छेदकत्वकल्पनापेक्षया घजादिनिष्ठधर्मस्य शक्ततावच्छेदकत्वे लाघवमिति भावः । उक्तार्थे भाष्यमपि साधकमित्याह-*एवमिति ॥ १५॥ तटस्थः शते-*नन्विति ।* *क्रियायाम्*-प्रवर्तनाविषयक्रियायाम् । *समान
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy