SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेनेन समानवाक्ये एव तन्नियमात् । उक्तं च वाक्यपदीये सम्बोधनपदं यच्च तत् क्रियायां विशेषणम् । • व्रजानि देवदत्तेति निघातोऽत्र तथा सति ॥ इति ॥ 'पचतिभवति देवदत्त' इत्यादौ तु सूत्रभाष्यादिरीत्यैकवाक्यता. दर्पणः इत्यादौ तदभावात् समानवाक्य इति "प्रकृत्यामन्त्रितस्य” इति विहितस्य निघातस्यानुपपत्तेरित्याखण्डलार्थः । तत्र 'शालीनां ते ओदनं दास्यामि' इत्यादौ शालीनामित्यादेः समानवाक्यत्वसिद्धये-परम्परयेति। पचतिभवतीत्यादिसाधारणं चैतत्। प्रकृते च सम्बोधनस्यानुवाद्यविषयतयाऽनुवाद्यस्य विधेयसाकाङ्क्षतया विधेयतायाश्च क्रियानिष्टत्वेन तत्रैव सम्बोधनान्तार्थान्वयौचित्यात् समानवाक्यस्थत्वमक्षतमिति भावः । बोधस्त्वत्राभिमुखीभवनानुकूलव्यापारविषयदेवदत्तोद्देश्यकप्रवर्त्तनाविषयत्वदभिन्नकर्तृके भाषणमिति । तत्र हरिसम्मतिमाह-*उक्तञ्चेति ॥ ___*सम्बोधनपदमिति ॥ तद्बोध्यमित्यर्थः ॥ विशेषणमिति ॥ स्वोदेश्यकप्रवर्त्तनाविषयत्वरूपपरम्परासम्बन्धेनेत्यर्थः । बजानीत्यस्य हि जानीहीति शेषः । सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः। प्राप्ताऽऽभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते ॥ इति कारिकान्तरे विनियुज्यत इति वदता प्रवर्तनाविषयक्रियायामेव तदन्वयबोधनात् । प्रवर्त्तनोद्देश्यस्यैव तद्विषयक्रियोद्देश्यत्वादुद्देश्यविधेयभावस्य तयोः संसर्गमर्यादया लाभादेकवाक्यतया निघात इति तदर्थः । शाब्दबोधस्त्वत्र सम्बोधनविषयदेवदत्तोद्देश्यकप्रवर्त्तनाविषयो मत्कर्तृकवजनकर्मकं ज्ञानमिति । *सूत्रभाष्या परीक्षा वाक्ये*-निमित्तनिमित्तिनोरेकवाक्यघटकत्वे । *तद्विधानात्*-निघातविधानात् । वाक्यं च-"सविशेषणाख्यातं सविशेषणं वाक्यम्" इति समर्थसूत्रस्थभाष्यात् साक्षात् परम्परया वा किञ्चिन्निष्ठप्रकारतानिरूपितक्रियानिष्ठविशेष्यताशाली समुदायो वाक्यमिति तदर्थः । एवं च सम्बोधनान्तार्थस्य क्रियायामन्वय एवोक्तसमानवाक्यत्वस्योपपत्तिरिति भावः। त्वं ब्रूहि' इत्यस्माद्बोधस्तु-अभिमुखीभवनानुकूलव्यापारविषयकदेवदत्तोद्देश्यकप्रवर्त्तनाविषयत्वभिन्नकर्तृकं भाषणमिति द्रष्टव्यः । उक्तार्थे हरिसम्मतिमाह-*उक्तं हीत्यादिना । विशेषणमिति । स्वार्थोद्देश्यकप्रवर्त्तनाविषयत्वसम्बन्धेनेत्यादिः । *वजानीति । जानीहीति शेषः(१)। प्रवर्त्तनाया य उद्देश्यः स एव प्रवर्त्तनाविषयक्रियोद्देश्य इत्युच्यते । एवं चोदूदेश्यता सिद्धस्यैवेति सम्बोध्यतावच्छेदकधर्मावच्छिन्नस्य सिद्धत्व एव सम्बोधनविभक्तिरिति सिद्धम् । 'बजानि देवदत्त जानीहिः इत्यस्मात्सम्बोधनविषयदेवदत्तविशिष्टं प्रवर्त्तनाविषयो मत्कर्त्तक-सज्ञानमिति बोधः। उक्तं वाक्यलक्षणं पचतिभवतीत्यादिसाधारणमित्याह-*पचतीति । *सूत्रभा (१) तेन ज्ञानक्रियायां देवदत्तस्योद्देश्यतया ब्रजनस्य कर्मतयाऽन्वयेन समानवाक्यत्वं शेयम्।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy