________________
धात्वर्थनिर्णयः।
९५
सत्वात् स्यादेव निघातः । "तिङङतिङ" (पा० सू० ७१) इति सूत्रयता तिङन्तानामप्येकवाक्यतास्वीकारात् । एकतिङ् वाक्यं
- दर्पणः दिरीत्येति ॥ भूवादिसमर्थसूत्रस्थभाष्योक्तरीत्येत्यर्थः ॥ ___ *स्यादेवेति ॥ आमन्त्रितदेवदत्तपदस्येत्यर्थः । अत्र जानीहीति पदाध्याहारेणोक्तरीत्या देवदत्तपदस्यैकवाक्यस्थत्वाऽक्षतेरिति भावः। तत्र सूत्रकारसम्मतिमाहतिङतिङ इतीति* ॥ तिङन्तानामिति बहुवचनेन प्रकृते जानातिपदाऽध्याहारः सूच्यते । अन्यथा तत्र निघाताऽप्राप्त्या तत्पर्युदासबोधकतिग्रहणस्य वैयर्थ्यांपत्तेरिति भावः।
सम्मतिरिय सूत्रकृत एकवाक्यतांशे निघातांशे च । भाष्यसम्मतिस्तु न, तेनातिग्रहणस्य प्रत्याख्यानात् । ___ नन्वेवं कथमतिग्रहणप्रत्याख्यानसङ्गतिः। पचतिभवतीत्यत्र निघातवारकतया तस्यावश्यकत्वादिति चेद् ? न । तत्र कारकान्वितक्रियाबोधकत्वरूपैकवाक्यत्वस्य सुपचयसुप्तिङ्न्तचयसाधारणस्य सत्त्वेऽपि वार्तिककारपरिभाषितश्रूयमाणैकतिङ्त्वरूपैकवाक्यत्वस्य तत्रासत्त्वादित्याशयात्। तथाचोक्तस्थले तादृशैकवाक्यत्वाऽभावान्निघाताऽप्रसक्तिरेवैतत्सूचनायैव स्यादेव निघात इति सम्भावनाद्योतकलिङ उपादा
परीक्षा ष्येति । भूवादिसूत्रसमर्थसूत्रभाष्यरीत्येत्यर्थः। इदमुपलक्षणम् । ___ "सुतिङन्तचयो वाक्यं क्रिया वा कारकान्विता" इति कोशरीत्यापि बोध्यम् । *निघात इति । आमन्त्रितनिघात इत्यर्थः । किञ्च पाणिनीयसूत्रमपि मानमित्याह*तिङङतिङ इति*। *स्वीकारादिति । तिङन्तात्परस्य तिइन्तस्य निघातवारणायातिङ् इति पर्युदासः कृतः । स च तिङन्तद्वयघटितस्यैकवाक्यत्व एव सार्थको भवतीति भावः । तत्रातिङ्ग्रहणप्रत्याख्यातृवार्तिकरीत्या न भवति निघात इत्याह*एकतिङिति । एकम्-अद्वितीयम् तिङ्-तिङन्तम्, यत्रतद्वाक्यमित्यर्थः । इदं यथाश्रुतरीत्या प्रत्याख्यानं यदि सूत्रानुरोधेनैकतिङन्तार्थविशेष्यकबोधजनकत्वमित्यर्थः क्रियते तदाऽतिङ्ग्रहणमावश्यकमेव । अत एव हेलाराजेन बहुष्वपि तिङन्तेषु साका
क्षेष्वेकवाक्यता तिङन्तेभ्यो निघातप्रतिषेध' इत्यभिहितम् । ___ एवं च 'सुप तिङन्तचयोवाक्यं क्रिया वा कारिकान्विता' इति यल्लौकिकवाक्यत्वं तदेव निघातनियामकमिति सिद्धम् । अत्र वाशब्दश्चेदर्थे सुप् च तिङ् च सुप्तिकावन्तौ यस्य तत्सुतिङन्तम् , सुविशिष्टं तिङन्तं सुप्तिङन्तम् । सुप्तिङन्तं च सुप्तिङन्तञ्च सुप्तिङन्ते तयोः समुच्चय इत्यर्थः । इदमेकवाक्यत्वम् । जैमिनिसम्मतमपि, "अर्थक्यादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात्" इति तत्सूत्रात् । अर्थक्यादित्यस्य विशेष्यभूतभावनैक्यादित्यर्थः । एतावानेव विशेषस्तस्य मते-भावना प्रत्ययवाच्या, अस्मन्मते तु धातुवाच्येति । ___ यत्तु-अर्थक्यादित्यस्य तात्पर्य्यविषयस्यार्थस्यैकत्वादित्यर्थ इतिः तन्न। "स्योनन्ते सदनं कृणोमि घृतस्य धारया सुषेवं कल्पयामि" इत्यस्य सदनप्रतिपादकवाक्यसमुदायस्य तस्मिन् सौदामृते प्रतितिष्ठेति सदनप्रकाशकस्य च यागाङ्गनिरूपणत्वेन तात्प