________________
- लकारार्थनिर्णयः ।
दर्पणः
•
एवं काम्याssव्यवहितापूर्वसाधनं कामी कर्त्तव्यतयाऽवैतीत्यपि न, काम्यसाधनताज्ञानस्यैव प्रवर्त्तकत्वान्न तु तत्राऽव्यवहितत्वनिवेशोऽपि, गौरवान्मानाऽभावाच्च । दृश्यते च तृप्त्यर्थिनस्तत्प्रयोजके जलाहरणादौ प्रवृत्तिः । इष्टसाधनत्वे यथा शक्तिग्रहस्तथोक्तम् । अपूर्वस्याशक्यत्वेऽपि यथा नित्यनैमित्तिके प्रवृत्तिस्तथोपपादितम् ।
प्रत्युत तंत्र तवैव सा दुरुपपादा | निष्फलत्वात् । दुःखैकफलत्वाच्च । प्रवृत्तिमात्र इष्टसाधनताज्ञानस्य हेतुत्वावधारणात् । प्रवृत्तिविषयसाध्यत्वे सतीष्टत्वरूपसाध्यत्वमपिनाsपूर्वस्य, येन तदुद्देशेनापि प्रवृत्तिः सम्भाव्येत । निष्फलतयावगते प्रवृत्तिस्तु श्रुतिसहस्रेणाप्युत्पादयितुमशक्येति वेदबोधितत्वान्नित्ये प्रवृत्तिरिति छात्रप्रतारणामात्रम् ।
अत एव 'यज्ञो दानं तपः कर्म' इत्यादिनाऽनिर्दिष्टोऽपि प्रत्यवायपरीहारः स्वर्गादिफलमनुद्दिश्य क्रियमाणानामेषां फलं भवतीत्यर्थकेनाऽष्टादशाध्याये भगवद्गीतासु पावनत्वमुक्तम् । किञ्च पचेतेत्यादिलौकिक विधेरिष्टसाधनत्वबोधकत्वेन प्रवर्त्तकत्वव वैदिकविधेरपि तच्छक्त्यैव प्रवर्त्तकत्वज्ञाननिर्वा हे तस्यानुपस्थितापूर्वं शक्तिकल्पनं निष्प्रमाणकमेवेति ।
१३९
परे तु - लिङादिश्रवणेऽयं मां प्रेरयतीति नियमेन प्रतीतेरभिधानामकः प्रेरणापरपयो व्यापारो लिङ्गादिवाच्यः । सा च लिङ्गसंख्यानन्वयित्वाद् व्यापारपदेन प्रव कनिष्ठत्वात् प्रवर्त्तनापदेन च व्यवहियते । प्रेरणात्वेन तस्याः सविषयत्वमपि शक्यताऽच्छेदकं च प्रेर्य्यादिधात्वर्थतावच्छेदकतया सिद्धं प्रेरणात्वमखण्डोपाधिः ।
स च व्यापारः सम्भवाल्लोके प्रवर्त्तकपुरुषनिष्ठोऽभिप्रायविशेष एव । तत्प्रवर्तकत्वञ्च - लिङाद्युच्चारयितृत्वम् । वेदे तु प्रयोक्तुरसम्भवाल्लिङ्गाद्यन्तशब्दस्वरूप एव तत्त्वे सति स्वतन्त्रत्वम् । राजादिप्रेरितपदा तेर्लिङाद्युच्चारयितृत्वेऽपि प्रवर्त्तकत्वेनाव्यवहियमाणत्वात् - स्वतन्त्रेति । अद्विष्टयाऽऽप्तोक्तया च तथा स्वविषये इष्टसाधनत्वानुमानम् । ततश्च प्रयोज्यप्रवृत्तिः । 'शत्रूक्ता द्विषं भुङक्ष्व' इत्यतो विषभोजने इष्टसाधनत्वानवरातोक्तयेति । आप्तोक्तयापि ' - 'विषं भुङक्ष्व मा चास्य गृहे भुक्ङथाः' इत्यादिकयापि तस्मिन्निष्टसाधनत्वाननुमानादद्विष्टेति । तत्र विषभोजन विषयकाsभिप्रायस्य तदीयद्वेषविशिष्टत्वान्न व्यभिचारः ।
भवतु वा लिङादिसमभिव्याहारे व्यापारान्तरस्याननुभवात्सर्वत्र लिङाद्यन्तशब्दस्वरूपैव सा । अत एव " हेतुमति च" (पा०सू० ३।१।२६) इति सूत्रे भाष्ये-लिङादिशब्दप्रयोग रूपप्रयोजककर्तृव्यापारस्य सत्त्वादित्याशयेन 'पृच्छतु मां भवान्' इत्यत्र णिच् कस्मान्न भवतीति प्रश्ने - अकर्तृत्वादित्युत्तरम् । सक्रियप्रेरणायां णिच्, निष्क्रिप्रेरणाभ्यां लोडादि । तत्प्रयोजक इत्यत्र तत्पदेन व्यापाराविष्टः कर्त्तोच्यते इति तद्भावः ।
अथापि कथञ्चित् कर्ता स्यादेवमपि न दोषो लोटोक्तत्वात्; प्रेषणस्य णिज् न भविष्यतीत्युक्तम् । तत आहत्यैव प्रेरणाया विध्यर्थत्वं लभ्यते । “विधिनिमन्त्र" इति सूत्रभाव्येऽपि विधिः प्रेरणमित्युक्तेश्च । तस्मान्नेष्टसाधनत्वादि विध्यर्थः ।
किञ्चेदं ते इष्टसाधनं, तस्मात् त्वं कुर्विति स्वारसिकव्यवहारादपि न तस्य विध्यर्थत्वं, पौनरुक्त्यापत्तेः । पौनरुक्तस्य सर्वश्रेष्टसाधनत्वबोधनतात्पय्र्यकत्वेऽपि तस्मादित्यस्यानन्वयापत्तेश्चेत्याहुः । तच्च-प्रायशो भट्टमताऽनुवाद एव । यतो भट्टमते लिङर्थोभिधाख्यो व्यापारः । स च लोके प्रयोक्तृपुरुषनिष्ठोऽभिप्रायविशेष एवेत्यादि प्रा