________________
१४०
.
दर्पणपरीक्षासहिते भूषणसारे
दर्पणः ग्वत् । वेदे त्वन्यस्याऽसम्भवालिङाद्यन्तशब्दनिष्ठ एव सः, समवेतश्चात एव सा शाब्दी भावनेति व्यवहियते । , भावनायाः शब्दार्थभेदेन द्वैविध्यादाख्यातवाच्याऽऽर्थीति व्यवहियते । भावनाधेन लिङर्थशाब्दभावनायाः सविषयत्वमपि भावनाया भाव्यकरणेतिकर्तव्यतारूपांशत्रयविशिष्टत्वादभिधाभावनायाःसविषकत्वेनागतायाः किं भावयेदिति भाव्याकाङ्क्षायां समानप्रत्ययोपात्तत्वप्रत्यासत्त्यांऽशत्रयविशिष्टा स्वविषयप्रवृत्तिरूपाख्यातवाच्यार्थीभावना विषयत्वेनोपतिष्ठते । इयमेव साध्याकाङ्केति व्यवह्रियते। साध्यताख्यविषतयव तस्याः सविषयत्वात् । ___ एवञ्च तस्याः साध्यत्वेऽवगते केनेति करणकाङ्क्षायां लिडादिपदज्ञान करणत्वेनान्वेति । करणत्वं च भावनाभाव्यनिर्वर्तकत्वमेव । कुठारादेरपि पुरुषव्यापारनिर्वत्यछिमा निर्वर्तकत्वेनैव करणत्वात् । इयमेव भावना करणाकाडेत्यच्यते ।
कष्ट कति न्यायादपाये ट्रेषेणाऽलस्यादिना वा अप्रवर्त्तमानं पुरुषं प्रति प्रशस्तफलवत्ताबोधनेन द्वेषायपसारणेनाऽर्थवादवाक्यजन्या प्राशस्त्यरूपा स्तुतिः सहकारिकारणमितीयमितिकर्तव्यतेत्युच्यते । एवमा भावनाया अप्यंशत्रयवैशिष्टयेन तदवगतौ किं भावयेदित्याकाङ्कायां स्वर्गकामादिपदसन्निधानात् स्वर्गो भाव्यतयाऽन्वेति स्वर्ग भावयेदिति । यद्यपि स व्यापारस्त्यागविषयोऽपि, तथापि तस्याऽसुखरूपतयाऽपुरुपार्थत्वेन करणत्वेनैवोपस्थित्या च न भाव्यत्वम् ।
अत एव तत्समानाधिकरणज्योतिष्टोमादिपदात्तृतीया। केनेत्याकाङ्क्षायां यागः करणत्वेनान्वेति । करणत्वं तूक्तमेव । सहकार्याकाङ्क्षारूपे कथं भावाकाङ्क्षायां च 'स. मिधो यजति' इत्यादिवाक्यावगतसामिन्नामकयागादिक्रियाजातमितिकर्तव्यतयाऽन्वेतीत्यधिकमन्यतोऽवधार्यम् । तदुक्तम्
अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सा चाख्यातस्य गोचरः ॥ लिडोऽभिधा सैव च शब्दभावना भाव्या च तस्याः पुरुषप्रवृत्तिः ।
सम्बन्धबोधः करणं तदीयं प्ररोचना चाऽङ्गतया प्रयुज्यते ॥ इति ॥ उक्तोऽर्थः । तत्र पूर्वोक्तमते भट्टमतादियान् विशेषो-यगट्टमतेऽभिधाख्यो वैदिकलिङ्गों व्यापारः शब्दसमवेतस्तदतिरिक्तश्च । तस्मिस्तु लिङ्गाद्यन्तशब्दात्मक एव लोकवेदसाधारणश्च । सविषयकत्वं तु मतद्वयेऽप्यविशिष्टमिति ॥ ___ अत्र वदन्ति-अभिधा लिङादिनिरूपिता शक्तिरेव, न तु तदतिरिक्तः कश्चन शब्दसमवेतो व्यापारः । मानाऽभावात् ; विधेः प्रवर्तकत्वस्य पूर्वमुपपादनात् तदनुपपत्तेरप्यभावात् । अन्यथा स्पन्दातिरिक्तः शब्दसमवेत एको व्यापारः कल्पनीयः। तस्य च स्वप्रवृत्तौ परवृत्तौ वा कारणत्वेनाऽक्लप्तस्य तत्त्वेन कारणत्वम् । प्रवर्तनात्वेन परनिष्ठव्यापारबोधकत्वेन क्लप्तस्य शब्दस्य स्वनिष्ठव्यापारबोधकत्वं सविषयकत्वं च कल्पनीयमिति गारवस्य स्फुटत्वाच्च।
प्रेरणाया विध्यर्थत्वेऽपि सामान्यस्य विशेषे पर्यवसानात् कोऽसौ व्यापार इति विशेषगवेषणायां, समीहितसाधनत्वमेव स इत्येव वक्तुमुचितम् । लिडस्तदर्थकत्वं विना प्रवर्तकत्वस्यैवासम्भवात् । प्रेरणाविषयः पाक इति बोधस्येष्टसाधनत्वाद्यविषय