________________
लकारार्थनिर्णयः।
१४१
दर्पणः कस्य प्रवर्तकत्त्वं लोकविरुद्धमेव । न खल्वागमसहस्रप्रेरितोऽपि स्वेष्टसाधनत्वमज्ञात्वा प्रवर्तते कश्चिदित्यपि सर्वसिद्धमेव मखकरणस्य स्वनिष्ठ व्यापारद्वारैव फलजनकत्वमिति नियमस्तु नास्त्येव । व्याप्तिज्ञानादौ व्यभिचारात् । तस्माल्लिङादिजन्यबोध. विषयाऽभिधाया इष्टसाधनत्वादिज्ञाननिरपेक्षायाः प्रवर्तकत्वं नियुक्तिकमेव ।। __ शब्दरूपप्रेरणावादिनाऽपि तद्विषय इष्टसाधनत्वानुमितिद्वारैवोक्तयुक्त्या प्रवर्तकत्वं वाच्यम् । तच्च वैदिकविधिस्थले न सम्भवति । "तस्यैव महाभूतस्य निश्चसितमेतद् यदृग्वेदो यजुर्वेदः सामवेद" इति श्रुत्युपष्टम्भेन निःश्वसितववेदे तैर्जन्यत्वाऽङ्गीकारेण यथार्थज्ञानवदुच्चरितत्वरूपाऽप्तोक्तत्वरूपविशेषणवैकल्येनोक्तानुमानाप्रवृत्तेः । एवं सविषयत्वमप्यात्मविशेषगुणाऽतिरेकिण्यास्तस्याः सर्वतन्त्रविरुद्धम् । ___ न च प्रेरणैव स्वातन्त्र्येण प्रवृत्तिहेतुः । स्वतन्त्रप्रवृत्तौ व्यभिचारात् । “सर्व इमे स्वभूत्यर्थ प्रवर्त्तन्ते” इति समीहितसाधनताज्ञानवत्प्रवर्तकताप्रतिपादक हेतुमति च' इतिसूत्रभाष्यविरोधाच्च । “कः प्रयोज्यस्य प्रेरणयाऽर्थो यदभिप्रायेषु सज्जते” इति तत्सूत्रस्थभाष्येण णिजर्थप्रेरणाया अपि स्वातन्त्र्येणाप्रवर्तकत्वबोधनाच्चेति वैदिकविधेःप्रेरणाऽर्थकत्वासम्भवेन प्रवर्तकत्वानुपपत्त्येष्टसाधनत्वाऽर्थकत्वमेवाऽङ्गीकरणीयम् । ___ एवञ्च लौकिकविधेरपि तच्छत्त्येव प्रवर्तकत्वोपपत्तौ न तदर्थेऽपि सा। अभिप्राय एव तत्र विध्यर्थ इति कल्पस्तु वक्ष्यमाणाऽऽचार्यमतनिरासेनैव निरस्तः । "विधिःप्रेरणम्" इति भाष्यं तु प्रेर्य्यते-प्रवर्ततेऽनेनेति व्युत्पत्त्या प्रवर्तकज्ञानविषयेष्टसाधनत्वपरम् । ज्ञानस्य तद्विषयकत्वेनैव प्रवर्तकत्वात् ।
यदपि तदुपष्टम्भकतया 'पृच्छतु मां भवान् इत्यादिभाष्योपन्यसनम् , तदपि नाऽ. स्माकं प्रतिकूलम् । यतस्तेन प्रवर्तकज्ञानजनकत्वेन प्रवर्त्तनापदव्यपदेश्याया लोडाद्य- . न्तशब्दप्रयोगरूपायाः प्रेरणाया णिजर्थत्वं प्रतिपाद्यते, न तु विध्यर्थत्वमपि । अर्थभेदस्य दर्शितत्वात् । अकर्तृत्वादित्यनेनाऽपि गमयत्यादेर्गच्छन्तं प्रेरयतीतिवत् , पृच्छ. त्वित्यस्य पृच्छन्तं प्रेरयतीतिविग्रहस्याऽदर्शनेन कञसम्बद्धधात्वर्थविषयकप्रवृत्तिजनकज्ञानाऽनुकूलायास्तस्या णिजर्थत्वाऽभावप्रतिपादनात् तद्विरोधाभावात् । ___अथापीत्याद्युक्तिस्त्वेकदेशिनः । विध्यर्थप्रत्ययप्रकृत्यर्थस्य स्वाभाव्येन भविष्यत्तयैव प्रतीतेः। तदानी प्रयोज्यस्य निर्व्यापारत्वेन कर्तृत्वासम्भवादेव लोटा प्रेषणस्य धात्वर्थविशेषणतयैव भानात् तद्विशेष्यतया प्रेरणविवक्षायां णिचो दुर्वारत्वम् लोडन्ताद्धात्वर्थविशेष्यतया प्रेरणायाः प्रतीतेः पूर्वपक्षस्यैव निर्दलतापत्तेश्च । इदं ते इष्टसाधनमित्याद्युक्तिस्तु सर्वथेष्टसाधनत्वबोधनपरैव । इष्टसाधनत्त्वस्य प्रवर्तनात्वेन . विधिवाच्यत्वमिति पक्षे पौनरुक्त्यसम्भवात् । नैयायिकमते कृत्यात्मकव्यापारस्य पच्याद्यर्थत्वाभावेन तन्मते इष्टसाधनतात्वेनेष्टसाधनत्वस्य विध्यर्थत्वे पौनरुक्त्यापादनानवकाशाच्चेति । ___ वस्तुतस्तु भाष्ये बहुषु स्थलेषु प्रेरणाया विध्यर्थकत्वकथनात् प्रामाण्याल्लिङाद्य. न्तशब्दप्रयोगरूपाया एव तस्या विध्यर्थत्वमुचितम् । श्रुतेस्तु "तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे” “धाता यथापूर्वमकल्पयत्" इत्यादिश्रुतिबलात् पौरुषेयत्वम. भ्युपेत्यैकरूपेणैव लोकवेदयोस्तद्विषये इष्टसाधनत्वाऽनुमानेन विधेः प्रवर्तकत्वं निर्वाह्यमिति सर्व चतुरस्रमिति ॥