SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४२ दर्पणपरीक्षासहिते भूषणसारेआदिना "हेतुहेतुमतोर्लिङ् (पा०सू०३।३।१५६) 'आशिषि लिङ्लोटौ" (पा०सू०३ ३।१७३) इतिसूत्रोक्ता हेतुहेतुमद्भावादयो गृह्यन्ते । “यो ब्राह्मणायावगुरेत्तं शतेन यातयेत्” इति यथा ॥ __लुङर्थमाह-*भूतमात्र इति* ॥ भूतसामान्ये इत्यर्थः। भूते इत्य दर्पणः आचार्यास्तु-आताऽभिप्रायो विध्यर्थः। पाकं कुर्याः, पार्क कुर्यामिति मध्यमोत्तमपुरुषयोलिङ इच्छाविशेषात्मकाज्ञाध्येषणानुज्ञाप्रश्नप्रार्थनार्थकतया प्रथमपुरुषेऽपीच्छायामेव शक्तेरुचितत्वात्। तत्र भयजनिकेच्छा आज्ञा । अध्येषणीये प्रयोक्तुरनुग्रहद्योतिका साऽध्येषणा । निषेधाभावव्यक्षिकेच्छाऽनुज्ञा । उत्तरप्रयोजिका तु प्रश्नः । प्रातीच्छा प्रार्थनेति विवेकः । तथाच-'स्वर्गकामो यजेत' इत्यत्र यागः स्वर्गकामनिष्ठतयातेच्छाविषय इति बोधः । । ____ यद्वा कर्त्तव्यत्वेनेच्छैव विध्यर्थः । तयाचेष्टसाधनत्वाऽनुमानम् । तद् यथा स्वर्गकामस्य मम याग इष्टसाधनं, कर्तव्यत्वेनाऽऽप्तोक्तलिङ्बोध्येच्छाविषयत्वात् । मत्पिवेष्यमाणमनोजनवत् । विषभोजनादेरपि कस्यचित्कृतिसाध्यतया कर्त्तव्यत्वेनेश्वररूपप्रासेच्छाविषयत्वेन तत्रेष्टसाधनत्वरूपसाध्याभावाद् व्यभिचारवारणाय लिङ्पदबोध्येति । आप्तस्तु-वैदिकस्थले ईश्वर एव । तस्मिन् विधिरेव तावत् , कुमार्या गर्भ इव पुंयोगे मानमित्याहुः। - तदपि न । कृत्यसाध्यनिष्फलानिष्टे प्रवृत्तिवारणायेष्टसाधनतादिज्ञानहेतुताया आवश्यकत्वेन तद्विषयेष्टसाधनत्वादीनां विध्यार्थत्वोपगमेनैव प्रवृत्तिनिर्वाहे आताभिप्रायस्य विध्यर्थत्वे मानाभावात् । न हीष्टसाधनत्वज्ञानमन्तरेणाप्तेच्छाविषयत्वज्ञानमात्रात् प्रवृत्तिः कस्यापि दृश्यते । स्वतन्त्रप्रवृत्तौ व्यभिचारेणाप्ताऽभिप्रायज्ञानस्य प्रवर्तकत्वाऽसम्भवाच्चेत्यलम् । प्रकृतमनुसरामः ॥ *प्रपञ्चितचैतदिति । बलवदनिष्टाऽननुबन्धित्वज्ञानस्य प्रवर्तकतानिराकरणमिष्टसाधनताज्ञानस्य प्रवर्तकत्वाऽवधारणं चेत्यर्थः । प्रपञ्चत्तूक्तप्रायः॥ *आदिनेति ॥ प्रेरणादौ चेत्यत्रोपात्तादिशब्देनेत्यर्थः ॥ *यो ब्राह्यणायाऽवगुरेदि. ति* । यत्कर्तृको ब्राह्मणोद्देश्यको वधोद्यमस्तत्कर्मिका तादृशवधोद्यमजन्या शतसंवत्सरयातनेति बोधः । “हेतुहेतुमतोर्लिङ्” (पासू० ३.१९६) इत्यनेन प्रकृत्यर्थयोर्भावे लिङो विधानात् । प्रवर्तकत्वेन निवर्तकत्वेन वा वेदस्य प्रमाण्यात्तेन वधोद्यमनिवृत्तिपरत्वग्रहे तस्मानावगुस्तिव्यमिति विधिः कल्प्यत इति भावः । मात्रपदं कृत्स्नार्थकमित्यभिप्रा. यवानाह-*भूतसामान्य इति । तेन विशेषविवक्षायां लङादीनामवकाशं सूचयति*भूते लुङिति । भूत इत्यधिकृत्य "लुङ्” इति सूत्रादित्यर्थः। ननु वर्तमानध्वंसप्र. परीक्षा आदिना हेतुहेतुमद्भावस्य लिडर्थत्वं यत्र तदुदाहरणमाह-*यो ब्राह्मणायेति । "विधिः प्रेरणम्” इति भाष्यन्तु प्रेर्यतेऽनेनेति व्युत्पत्या प्रवर्तकज्ञाननिष्ठकारणतावच्छेदकपरमेव । *अवगुरेदित्यत्र-* कर्ता यमदूतः यत्कर्त्तको ब्राह्मणवधोधमस्तत्कमिका तादृशवधोद्यमजन्या यमदूतकर्तृका शतसम्वत्सरव्यापिका यातनेति बोधः । एतद्वाक्यदर्शनेन नावगुरितव्यमिति विधिः कल्पनीयः।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy