________________
लकारार्थनिर्णयः।
१४३
धिकृत्य "लुङ, (पा०सू०३।२।१०) इति सूत्रात् । अत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् । तञ्च क्रियायां निर्वाधमिति विद्यमानेऽपि घटे घटोऽभूदिति प्रयोगः। विद्यमानध्वंसप्रतियोगी घटाभिन्नाश्रयक उत्पत्त्याद्यनुकूलो व्यापार इति बोधः॥
अयमत्र संग्रहः-कालो द्विविधः। अद्यतनोऽनद्यतनश्च । आद्यस्त्रिविधः । भूतभविष्यद्वर्त्तमानभेदात् । अन्त्यो द्विविधः। भूतो भविष्यश्च । तत्र वर्तमानत्वे लट् । भूतत्वमात्रे लुङ् । भविष्यत्तामात्रे लट् , हेतुहेतुमद्भावाद्यधिकार्थविवक्षायामनयोर्लङ । अनद्यतने भूतत्वेन विवक्षिते ला । तत्रैव परोक्षत्वविवक्षायां लिट् । तादृशे भविष्यति लुट् , इति द्रष्टव्यम् ॥ - लुङर्थमाह-*सत्यामिति ॥ क्रियाया अतिपत्तिरनिष्पत्तिस्तस्यां
- दर्पणः तियोग्युत्पत्तिकत्वं भूतत्वम् । अत एव नाशस्य विद्यमानतादशायामपि, विनष्टो घट इति प्रयोगः । तदुत्पत्तेर्वर्त्तमाननाशप्रतियोगित्वात् । तथाच यत्रोत्पत्तिरेव धात्वर्थस्तत्रोत्पत्तेटेंधाभानप्रसङ्गोऽत आह-*अत्रेति । भूत इति सूत्रे इत्यर्थः ॥ वर्तमान . इत्यादि । नचोक्तदोषः । अस्मन्मते नश्यत्यादे शाऽनुकूलव्यापाराऽर्थकतया काला. ऽन्वयस्यापि व्यापार एव समर्थितत्वेन च तदप्रसक्तरुत्पत्त्यघटितत्वेन द्वेधाभानाऽसम्भवाच्च । *क्रियायामिति । फलानुकूलायां तस्यामित्यर्थः। विद्यमानेऽपीत्यपिना समानप्रत्ययोपात्तत्वप्रत्यासत्त्याऽऽख्यातार्थकारके कालान्चयोपगमे उक्तप्रयोगानुपपत्तिः सूच्यते ॥ ..
नैयायिकास्तु-उत्पत्तिघटितत्वेन लाघवादुक्तार्थ एव भूतपदस्य शक्तिः । परन्तु नश्यत्यादौ नाशातिरिक्तस्य व्यापारान्तरस्याननुभवात्तत्रोत्पत्तिघटिते प्रत्ययस्य लक्षणावश्यकीत्याहुः ॥
*भूतसामान्य इति । एतेन परोक्षत्वानद्यतनत्वयोर्व्यवच्छेदः । *विद्यमान इति। प्रकृतशब्दप्रयोगाधिकरणक्षणे विद्यमान इत्यर्थः। अत्रापि पूर्ववन्मध्यवर्तिक्रियाक्षणे पूर्व क्रियाध्वंसमादायापाक्षीदित्यादिप्रयोगापत्तिवारणाय 'तत्तत्फलजनकचरमक्रियाविशेष्यकस्य तादृशातीतत्वस्य ज्ञान कारणमिति वाच्यम् । *क्रियायाम्-* धात्वर्थक्रि. यायाम् । एवं च 'नष्टो घट' इत्यादौ नाशोत्पत्यनुकूलव्यापारस्य धात्वर्थत्वं वाच्यम् । तदघटकोत्पत्तौ वर्तमानध्वंसप्रतियोगित्वस्यान्वय इति । ... *अनयोः-भूतभविष्यतोः । *अनिष्पत्तिरिति । अनिष्पत्तिसम्भावनमिति यावत् । अनिष्पत्तिरित्यत्र यः पत-धातुस्तस्य सम्भावनार्थत्वात् । यस्मिन्देशे काले वा ययोः क्रिययोः सम्भवस्तदन्यस्मिन् देशे काले वा तयोः सम्भावनं प्रसञ्जनम् , यन्त्र बाधापत्तिस्तत्र चाहार्य एव ज्ञानं धातुवाच्यम् । यत्र तु न तथा तत्रोत्कटकोटिकज्ञानरूपसंशय एव । यथा-'यदि वर्षसहस्रमजीविष्यत्तदा पुत्रशतमजनिष्यत्' इति । अत्र यदि शब्दार्थोऽनिर्धारणं कालविशेषश्चार्थः । व्यापकत्वम्-द्वितीयार्थः, एवं
परीक्षा