________________
१३८
दर्पणपरीक्षासहिते भूषणसारे
दर्पणः त्वरूपवत्त्वयोग्यतायास्तत्राभावात् । साधनतासामान्यबोधस्त्वेकविशेषबाधे तदितरप्रकारकत्वनियमादसम्भवदुक्तिकः । किञ्च यागो न कर्तव्यतया प्रतीयते; काम्यादन्यकाम्याव्यवहितपूर्ववर्तिसाधनमेव कामी कर्तव्यतयाऽवैतीत्यस्यान्यत्र क्लप्तत्वात् । तस्माद् द्वारीभूतं काम्याऽव्यवहितपूर्ववर्तिसाधनमपूर्वमेव कार्य्यत्वेन शक्यम् ।
कार्य्यत्वं च कृत्युद्देश्यत्वम् । तत्र विशेषणीभूतकृतेराश्रयविषययोराकाङ्क्षायां विषयतया यागः आश्रयतया स्वर्गकामः सम्बद्धयते । सुखदुःखाभावादेर्लोकिकप्रमाणेनैवापूर्वस्यापि वेदेन कृत्युद्देश्यत्वबोधनादपौरुषेये तस्मिन्नप्रामाण्यशङ्कानवकाशात् तस्य तत्त्वम् । तथाच 'स्वर्गकामो यजेत'इत्यत्र स्वर्गकामकृत्युदेश्यो यागविषयको नियोग इति बोधः।
अत्रापूर्वस्य यागविषककृत्युदेश्यत्वमेव यागविषयकत्वम् । यागस्य तादृशकृतिविषयत्वे पुरुषस्याश्रयत्वे चान्वयितावच्छेदकमपूर्वकारणत्वम् । सैव योग्यता यथा-घटेन जलमाहर' इत्यत्र छिद्रेतरघटत्वं योग्यतावच्छेदकोपस्थितिघंटेनेत्यादावाध्याहारात् । प्रकृते चौपादानिकप्रमाणवशात्तच्छक्यैव । तच्छक्त्यैवाशक्योपस्थित्याभ्युपगमे लक्षणोच्छेद इति न साम्प्रतम् । स्वशक्त्यान्वयबोधकस्यैव स्वोपपादकसकलपदार्थबोधकत्वोपगमात्।। -- न च 'गङ्गायां घोषः, इत्यादौ गङ्गादिपदानां स्वशक्त्यान्वयबोधकत्वं, येन तदुपपादकसकलपदार्थबोधनायौपादानिकप्रमाणाऽवकाशः स्यात् । अजहत्स्वार्थलक्षणा तु नाऽस्मन्मतसिद्धाः तथाच स्वीयत्वेन कार्य्यबोद्धा नियोज्यः; समभिव्याहृतपदोपस्थापितफलाकामश्च तथेति काम्ये स्वर्गकामो नियोज्यः ।
एवञ्च वेदबोधितमपूर्वमुद्दिश्य पुरुषप्रवृत्त्युपपत्तौ नेष्टसाधनत्वं विध्यर्थः । इच्छाविषयसाधनतात्वेन तत्र शक्तौ प्रवर्तकज्ञानानिर्वाहः स्वर्गजनकतात्वेन शक्तौ नानार्थतापत्तेरिति तन्मतस्य विकल्पग्रस्तत्वाच्च ।
अपिच नित्यनैमित्तिकस्थले 'शुचित्वकालजीविनो राहूपरागवतश्च मम सन्ध्यास्नानविषयको नियोगः इति बोधान्न फलाऽपेक्षा, भवन्मते तु “चन्द्रसूर्यग्रहे स्नायात्" "अहरहः सन्ध्यामुपासीत" इत्यादौ फलाश्रवणाद्विध्यर्थबाधः प्रसज्ज्येत; मम तु वैदिके कर्मणि वेदबोधितमपूर्वमुद्दिश्यैव पुरुषः प्रवर्त्तते । तस्यैव वेदेन पुरुषार्थत्वबोधनात् । काम्ये फलावाप्तिरानुषङ्गिक्येव । अत एव नित्येऽपि तदुद्देशेन प्रवृत्तिरुपपद्यते इत्याहुः।
तदपरे न क्षमन्ते । लोके प्रवर्तकत्वेनं सर्वसम्मतं यदिष्टसाधनत्वज्ञानं तद्विषये इष्टसाधनत्वे विधिशक्तिकल्पनयैव विधेः प्रवर्तकत्वोपपत्तौ नियोगस्य विधिवाच्यत्वे मानाऽभावात् । वेदबोधितस्वर्गसाधनत्वानुपपत्त्या हि तत्कल्पनात् । न च तस्य पूर्वमुपस्थितिरस्ति येन तत्र शक्तिग्रहः । एकविशेषबोधे सामान्यज्ञानस्य तदितरप्रकारकत्वनियमेऽपि साक्षात्साधनतातिरिक्तसाधनतात्वेन बोधे बाधकाभावात्। तादृशसाधनत्वे योग्यतावच्छेदकं च परम्पराघटकमपूर्वम् । तथाच स्वर्गसाधनत्वशक्त्यैव निर्वाहे औपादानिकप्रमाणवशादपूर्वोपस्थितावपि न तद्वाच्यम् । अपूर्वानुपस्थिती परम्परासाधनत्वमपि कथं वेदो बोधयेदिति त्वनुपस्थितेऽपूर्वे कथं शक्तिग्रह इत्यनेन तुल्ययोगक्षेमम्।