SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः । १३७ दर्पणः इति लाघवम् । तादृशप्रवृत्तिसामग्रीकाले पाकविशेष्यककृतिसाध्यत्वप्रकारकनिर्णय. स्याऽऽवश्यकत्वेन, तस्य च स्वरूपसत एवोक्तज्ञानाऽभावमानसे क्लप्तप्रतिबन्धकतयैवोपपत्तेः। ___ भवन्मते तादृशमानसे तादृशप्रवृत्तिसामग्याः , प्रतिबन्धकत्वकल्पनेन गौरवं स्पष्टमेव । एवमप्रामाण्यविशिष्टपाकविशेष्यककृतिसाध्यत्वप्रकारकज्ञानवानहमिति मा. नसे पाकगोचरप्रवृत्तिसामग्याः प्रतिबन्धकत्वाऽकल्पनेनापि लाघवम् । तादृशविशिष्टविषयिताशालिमानससामग्रीकाले अप्रामाण्यज्ञानास्कन्दितोक्तज्ञानस्यावश्यकत्वेनाप्रामाण्यज्ञानानास्कन्दितपाकादिविशेष्यककृतिसाध्यत्वप्रकारकज्ञानघटिततादृशप्रवृत्तिसामग्रीतादृशमानससामग्रयोमेलनस्यैवाऽभावात् । ___ भवन्मते कृतिसाध्यत्वाभावप्रकारकपाकादिविशेष्यकज्ञानाभावघटिततादृशप्रवृ. त्तिसामग्रीतादृशमानससामग्रयोर्मेलने बाधकाभावेन तादृशमानसे तादृशप्रवृत्तिसामप्रयाः प्रतिबन्धकत्वस्यावश्यकल्पनीयत्वेन गौरवस्यातिस्फुटत्वादनयैव दिशानिष्टसाधनत्वज्ञानाभावादीनामपि हेतुता निरसनीयेत्याहुः । ____ गुरवस्तु-नेष्टसाधनत्वं विध्यर्थः क्षणिकतयावगते यागे तस्य बोधयितुमशक्यत्वादेवं परम्परासाधनत्वमपि । तथा द्वाराऽनुपस्थितेः शाब्दबोधप्रयोजकान्वयप्रयोजक परीक्षा अत्रेदम्बोध्यम्-उक्तरीत्या बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्तिजनकत्वाभावेऽपि कृतिसाध्यताज्ञानस्य हेतुत्वमावश्यकम् । कृत्यसाध्ये वृष्ट्यादौ प्रवृत्यदर्शनात् । न च कृत्यसाध्यताज्ञानस्य प्रवृत्तिप्रतिबन्धकतया तदभावस्यावश्यक्लप्सनियतपूर्वत्वेन तदभिनस्य कृतिसाध्यताज्ञानान्यथासिद्धस्य सम्भवेन न कारणत्वमिति वाच्यम् । कृतिसाध्यताज्ञानशून्यतादशायामधिकृत्य साध्यताज्ञानाभावस्य सत्वेन तदा प्रवृत्तिः स्याद् , अतः कृतिसाध्यताज्ञानस्य कारणताया आवश्यकत्वात् । एवञ्ज कृत्यसाध्यज्ञानादीनां कारणीभूतज्ञानप्रतिबन्धकत्वमेव, नतु प्रवृत्तिप्रतिबन्धकत्वमिति स्वर्गकामादिपदसमभिव्याहारवशात् तदर्थसमवेतत्वस्य कृतौ भानस्वीकारेण प्रकृतिसाध्यत्वस्याप्यन्यथालाभ इति। न च यागस्येच्छाविशेषरूपस्याऽशुविनाशितयो कालान्तरभाविस्वर्गजनकत्वमनुपपन्नम् , कार्याव्यवहितप्रारक्षणाद्यवच्छेदेन कार्याधिकरणे कारणतावच्छेदकसमवायसम्बन्धावच्छिन्नप्रतियोगिताकस्य यागाभावसत्वादिति वाच्यम् । अपूर्वद्वारा तस्य स्वर्गप्रयोजकत्वस्य कल्पनात् । अपूर्वस्यैव स्वर्गजनकत्वमस्तु, यागस्तु पूर्वस्यावश्यकत्वनियतपूर्ववर्तिनः स्वर्गजनकत्वसम्भवे तद्भिन्नत्वादन्यथासिद्धो भविष्यतीति तु न वाच्यम् ? व्यापारेण व्यापारिणोऽन्यथासिद्धिविरहात् यागस्य स्वर्गविशेष प्रति शास्त्रबोधितकारणत्वान्यथाऽनुपपत्यामध्येऽपूर्वः कल्पते यदि यागस्य तं प्रति कारणत्वमेव न स्यात्तदाऽपूर्वस्य सिद्धिरेव न स्यात् । न चैवमपि 'तृप्तिकामः पचेत' इत्यादिलोकिकविधिस्थले तृप्त्यव्यवहितप्राक्क्षणावच्छेदेन तृप्तिरूपकार्याधिकरणे पचिक्रियाया अभावात् कृमर्थमिष्टसाधनत्वस्य विध्यर्थत्वम् । अपूर्वस्य कल्पकवेदाभावेनासिद्धत्वादितिवाच्यम् ? एतादृशे विषये-इष्टप्रयोजकस्यैकविध्यर्थत्वकल्पनादिति द्वेषाभावस्य त्वावश्यक्लप्सत्वमुपपादितम् । १८ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy