SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ दर्पणपरोक्षासहिते भूषणसारे - मप्युत्कटेच्या द्वेषाभावदशायां प्रवृत्तेर्व्यभिचाराश्च । तस्मादिष्टसाधनत्वमेव प्रवर्त्तना । उक्तञ्च मण्डनमिश्रैः १३६ पुंसां नेष्टाभ्युपायत्वात् क्रियास्त्वन्यः प्रवर्त्तकः । प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्त्तनाम् । इति ॥ प्रपञ्चितं चैतद् वैयाकरणभूषणे । दर्पणः *व्यभिचाराच्चेति ॥ न हेतुरिति पूर्वेणान्वितम् । अत एव " श्येनेनाभिचरन् यजेत" इत्यत्र न विध्यर्थबाधः । बलवदनिष्टाननुबन्धित्वज्ञानस्याप्रवर्त्तकत्वेन तद्विषयस्य तस्य विध्यर्थत्वस्यवाऽभावादिति भावः । उपसंहरति- तस्मादिति ॥ इष्टसाधनत्वमेवेत्येवकारेण कृतिसाध्यत्वबलवदनिष्टाऽननुबन्धित्वयोर्व्यवच्छेदः । आद्यस्य लौकिकप्रमाणेनैवावगमादन्त्यस्य प्रवर्त्तकज्ञानाविषयत्वादिति भावः । I *प्रवर्त्तनेति* । लिङाद्यर्थ इत्यर्थः ॥ इष्टाभ्युपायत्वादित्यादि । इष्टसाधनत्वादन्यः । कृतिसाध्यत्वादिः । क्रियासु यागादिरूपासु । पुंसां प्रवर्त्तको न, ज्ञाननिष्ठप्रवृत्तिजनकतायां विषयतयावच्छेदको नेत्यर्थः । यजेतेत्यादिवाक्यान्तर्गतलिङादिशक्यो नेति यावत् । चो हेतौ । यतः प्रवृत्तिहेतुं तद्धेतुतावच्छेदकमेव प्रवर्त्तनापदेन व्यपदिशन्तीत्यर्थः । परे तु बलवदनिष्टाननुबन्धित्वज्ञानस्य द्वेषाभावेनान्यथासिद्धत्वेन अप्रवर्तकत्वेऽपि कृतिसाध्यताज्ञानस्य प्रवर्तकतायाः सर्वसिद्धत्वेन तद्विषयस्य तस्य विध्यर्थत्वमावश्यकम् । नच तद्धेतुतायामेव मानाभावः । कृत्यसाध्ये प्रवृत्तिस्तु कृत्यसाध्यताज्ञानस्य प्रतिबन्धकतया तत्र तदभावादेव नेति वाच्यम् । कृत्यसाध्यताज्ञानस्य प्रतिबन्धकत्वे कृतिसाध्यत्वाऽभावतद्व्याप्यतदवच्छेदकधर्म दर्शनादीनां प्रतिबन्धकत्वस्य वक्तव्यतया तावदभावानां प्रवृत्ति प्रति हेतुताकल्पनापेक्षया कृतिसाध्यताज्ञानत्वेन हेतुतायां लाघवस्य स्फुटतरत्वात् । कृतिसाध्यताज्ञानाऽभावस्य सर्वदा सत्त्वेन प्रवृत्यापत्तेश्च । अपि च कृतिसाध्यताज्ञानस्य प्रवर्तकत्वे कृतिसाध्यत्वप्रकारकपाकविशेष्यकज्ञानत्वावच्छिन्नाभावमानसं प्रति पाकादिगोचरप्रवृत्तिसामग्र्याः प्रतिबन्धकत्वं न कल्प्यते परीक्षा ननु सामान्यत इष्टसाधनताज्ञानं न प्रवृत्तिहेतुः अन्येष्टसाधनताज्ञानात् प्रवृत्त्यदर्शनात् ; किन्तु मदिष्टसाधनताज्ञानमेव । एवं च मदिष्टांशविशिष्टस्य विधिवाक्यादलाभादस्यापि लौकिकप्रमाणादवगम इति न लिङ इष्टसाधनत्वे शक्तिरिति चेद्र ? न लत्वरूपसामान्यधर्मप्रकारेण लिङः कर्तर्यपि शक्तिस्वीकारात् । कर्तुस्तेनोपस्थितौ तस्य कर्तुरिष्टांशे विशेषणतया भानाङ्गीकारेणानुपपत्तिपरिहारात् । स्वर्गकामादिपदसमभिव्याहारे तु तदर्थस्यैव तत्र विशेषणतया भानसम्भवाच्च । द्वेषाभावस्य तु कारणताऽवश्यमभ्युपेयैव । प्रतिबन्धकाभावस्य कार्यमात्रं प्रति जनकतायाः क्लृप्तत्वात् । स्वोक्तार्थे सम्मतिमाह - *उक्तञ्चेति । *इष्टाभ्युपायत्वात् * - इष्टसाधनत्वात् । अतः कृतिसाध्यत्वादिप्रवर्तकः प्रवृत्तिजनकज्ञाननिष्टकारणतायां विषयतासम्बन्धेनावच्छेदकहेतुः । (हेतुतावच्छेदकम् ) । * प्रवदन्तीति । प्रवर्तनापदं व्यपदिशन्तीत्यर्थः ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy