SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः । तच्छक्यम् । बलवदनिष्टाननुबन्धित्वज्ञानं च न हेतु" द्वेषाभावेनान्यथासिद्धत्वात् । आस्तिककामुकस्य नरकसाधनताज्ञानदशाया. - दर्पणः तात्वावच्छिन्नाऽभावकूटे तादृशाऽभावत्वेनाऽनुगते एकैव विधिप्रत्ययस्य शक्तिः । उपलक्षणत्वादेव च द्वेषविषयताऽवच्छेदकत्वं परित्यज्य. नरकत्वाचवच्छिन्नाऽसाधन. त्वमात्रं प्रतीयते। क्वचिच्च नरकासाधनत्वं, क्वचिद्रोगाऽसाधनत्वं प्रतीयते इत्यत्र तात्पर्यमेव नियामकम् ।। ___ नचाऽतिप्रसक्तस्योपलक्षणत्वाभ्युपगमे प्रमेयत्वस्यैव तथात्वमस्तु, साम्यादिति वाच्यम् । सुखाद्यसाधनत्वस्य विध्यर्थताविरहेण तत्साधारणप्रमेयत्वस्योपलक्षणत्वासम्भवात् । अत्यन्ताऽजनकसाधारणरूपस्य कारणतावच्छेदकत्ववद् अद्विष्टसाधारणरूपस्यापि द्विष्टोपलक्षणताकल्पनानौचित्यात् । तात्पर्याऽभावादेव सुखाद्यसाधनताबोधानापत्तौ तस्य विध्यर्थत्वेऽपि न क्षतिरिति तु न युक्तम् । तथा सति तु तत्तात्णाधुनिकानां 'न भुञ्जीत इति प्रयोगापतेः। तस्माद् द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्यवच्छिन्नसाधनतात्वावच्छिन्नप्रतियोगिताकाभावत्वेनानुगते तादृशाभावे विधिप्रत्ययस्य शाक्तरिति परिष्कृतं प्राचीननैयायिकमतं नव्यरीतिमवलम्ब्य दूषयति-*बलवदनिष्टेति ॥ निरुक्तबलवदनिष्टाजनकत्वज्ञानं चेत्यर्थः॥ *न हेतु*:-न प्रवृत्तिहेतुः । क्वचित् तथैव पाठः। तथाच न तद्विषयस्य विधिवाच्यत्वमिति भावः । तस्य प्रवृत्यजनकत्वे हेतुमाह-द्वेषाभावेनेति ॥ मधुविषसम्पृक्तान्नभोजने द्विष्टसाधनताज्ञानात् द्वेषविषये प्रवृत्तिवारणाय तद्विषयकप्रवृत्तिं प्रति तद्विषयकद्वेषस्य क्लसप्रतिबन्धकतया प्रतिबन्धकाभावविधयावश्यक्लप्सनियतपूर्ववर्तिताकद्वेषाऽभावेनैवोपपत्तौ बलवदनिष्टासाधनत्वस्य न हेतुत्वम् । तेनान्यथासिद्धरित्यर्थः । नन्वन्वयव्यतिरेकसहचारज्ञानस्य कारणताग्राहकस्योभयत्र साम्यात् तेनैवास्यान्यथासिद्धिर्दुवारेत्यत आह-*आस्तिकेति। स च परलोकाऽङ्गीकारवान् । तदनङ्गीकर्तुर्नरकसाधनताज्ञानासम्भवात्तद्विशेषणमुपात्तम् । आस्तिकस्य नरकसाधनताज्ञानेन तत्र द्वेषावश्यम्भावेन प्रवृत्त्यसम्भवादाह-*कामुकेति । तत्त्वञ्चोत्कटरागवत्त्वम् । रागे उत्कटत्वं जातिविशेषो, विषयताविशेषो वा । प्रवृत्तेरित्यस्यागम्यागमने इत्यादिः । द्वेषाऽभावदशायामित्यनेन द्वेषसामग्रीवैकल्यं दर्शितम् । तच्च विषयतया द्वेष प्रति उत्कटेच्छासामग्रीविरहविशिष्टद्विष्टसाधनताज्ञानस्य हेतुतया तादृशसामग्यः स्वातन्त्र्येण प्रतिबन्धकतया बोध्यम् ॥ . परीक्षा तत्र प्रमाणम्-अनुमानम् । विधिवाक्यजन्यशाब्दबोधानन्तरं यागो मत्कृतिसाध्यः, मत्कृति विनाऽनुपपद्यमानत्वे सति मदिष्टसाधनत्वादित्यनुमानस्य सम्भवात् । मधुविषसम्पृक्तान्नभक्षणे प्रवृत्तिवारणाय बलवदनिष्टाजनकत्वज्ञानमपि प्रवृत्तिकारणमिति बलवदनिष्टाजनकत्वमपि विध्यर्थः। नसमभिव्याहारे च धात्यर्थे तदभाव एव प्रतीयत इति नैयायिकमतं निरसितुमाह-*बलवदनिष्टेति । *अन्यथासिद्धत्वादिति । तथा चानन्यथासिद्धत्वघटितकारणत्वं न सम्भवतीति भावः । व्यापकत्वांशाभावादपि तस्य कारणत्वं सम्भवतीत्याह-*आस्तिकेति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy