SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - यद्यप्येतत् कृतिसाध्यत्वस्यापि, तज्ज्ञानस्यापि प्रवर्त्तकत्वात्, तथापि यागादौ सर्वत्र तल्लोकत एव अवगम्यत इत्यन्यलभ्यत्वान्न दर्पण: १३४ वच्छेदककोट तेषां निवेशस्याऽवश्यकतया विधिवाच्यत्वं श्रुतेः प्रवर्त्तकत्व निर्वाहार्थ - मावश्यकमिति नैयायिकमतं निराकर्तुमाशङ्कते - यद्यपीति ॥ एतत् प्रवर्तकज्ञानविषयतावच्छेदकत्वम् । तत्सत्वे युक्तिमाह - तज्ज्ञानस्येति ॥ कृत्यऽसाध्येऽपि तज्ज्ञानात् प्रवृत्तिदर्शनादिति भावः । निराचष्टे – तथापीति । *लोकत एवेति । लौकिकप्रमाणादेवेत्यर्थः । ' अनन्यलभ्यो हि शब्दार्थ' इति न्यायादिति भावः । वस्तुतस्तु उक्तन्यायस्य पदान्तरलभ्यैव शक्तिरन्यथा कस्यापि पदस्य शक्तिर्न सिध्येत् । सर्वस्यापि शब्दातिरिक्तप्रमाणगम्यत्वात् । किञ्च इष्टसाधनत्वादीनां स्वातन्त्र्येण यदि शक्यत्वं स्यात् ; तदा स्यादप्युक्तरीतिर्निराकरणक्षमा, किन्तु प्रवर्तकज्ञानविषयतावच्छेदकत्वोपलक्षणानुगती कृतेषु तेषु सा । उपलक्षणस्य च कृतिसाध्यत्वसाधारणतया तत्रापि सिध्यन्ती शक्तिः केन प्रतिषेद्धयेति सन्त एवाऽधारयन्तु । यत्तु - कृतिसाध्यत्वे वेदा इवगतेऽप्यशक्तस्य यागादौ प्रवृत्त्यनुयात् मदंशविशिष्टतज्ज्ञानस्यैव प्रवृत्तिहेतुत्वं वाच्यम् । तस्य च यागो मत्कृतिसाध्यो, मत्कृतिसाध्यत्वविरोधिधर्माऽनधिकरणत्वान्मत्कृतिसाध्यपाकवदित्यनुमानेनैवाऽवगमान्नास्य शक्यत्वमित्याशय इति; तन्न । इष्टसाधनताज्ञानस्याऽपि मदंशविषयकस्यैव प्रवर्त्तकतया तस्य विधिवाक्यादला भेनेष्टसाधनत्वे शक्त्यभ्युपगमेऽपि प्रवर्तकत्वानुपपतेरपरिहारात् । यदि तु प्रतिपुरुषविधेरावृत्या बोधकत्वा तेनैव तत्पुरुषीयेष्टसाधनताबोधकत्वात्प्रवर्तकत्वोपपत्तौ नानुमानावगमकत्वमिति विभाव्यतेः तदा कृतिसाध्यत्वेऽपि तुल्यमिति बलवदनिष्टाऽननुबन्धित्वस्य विध्यशक्यत्वे "न कलञ्ज भक्षयेत्" इत्यत्र भक्षयेदि - त्यस्य भक्षणेऽनिष्टसाधनत्वाबोधकतया निषेधविधित्वानुपपत्तिरिति तत्रापि विधिशक्तिरभ्युपेया । अनिष्टे बलवत्वं चेष्टोत्पत्तिनान्तरीयकदुःखातिरिक्तत्वम् । तेन नाऽऽयासाध्ये कर्मणि प्रवृत्यनुपपत्तिः । 'कष्टं कर्म' इति न्यायेन सुखमात्रजनककर्माऽसम्भवाच्च नोक्तार्थस्य सिद्धिः । यदि च कदाचित्तत्सम्भवस्तदेष्टोत्पत्यनान्तरीयकत्वमेव तद्वाच्यम् । 1 एतेन बलवदनिष्टाऽननुबन्धित्वज्ञानस्य प्रवर्त्तकत्वमेव न बह्वायाससाध्ये कर्मणि प्रवृत्यनापत्तेः । बहुतरदुःखस्य तत्र जायमानत्वादल्पदुःखस्यापि कुतश्चित् बलवत्त्वेना. नुगतबलवत्त्वस्य निर्वक्तुमशक्यत्वाच्चेति क्व तस्य विधिशक्यत्वसम्भावनेति केषाचित् प्रलपितं प्रत्युक्तम् । अथोक्तयुक्त्याऽनिष्टत्वेनाऽनिष्टसाधनत्वाऽभावाज्ञानस्य न प्रवर्त्तकत्वम्, किन्तु 'अगम्यां न गच्छेत्' 'शाकं न भुञ्जीत' इत्यादिवाक्यानां प्रामाण्योपपत्तये विशिष्य नरकत्वादिरूपेण तदसाधनत्वस्य तथात्वं वाच्यम् । तथाच शक्त्याऽऽनन्त्यं, शक्तिग्रहाऽनुपपत्तिश्चेति चेद्र ? न । द्वेषविषयताऽवच्छेदकत्वोपलक्षितनरकत्वाद्यवच्छिन्नसाधन परीक्षा नात् । इष्टसाधनताज्ञानमिव कृतिसाध्यताज्ञानमपि प्रवृत्तिजनकमिति कृतिसाध्यत्वस्यापि विध्यर्थत्वमस्त्वित्याशङ्कते - यद्यप्येतदिति । 'अनन्यलभ्यो हि शब्दार्थ' इति न्यायावष्टम्भेन समाधत्ते तथाऽपीति । *लोकत एव लौकिकप्रमाणादेव ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy