________________
लकारार्थनिर्णयः।
१३३
दर्पणः इत्याग्रर्थवादोपस्थितपितृतृप्तिब्रह्मलोकावाप्त्यादिकमेव फलं कल्प्यते । यद्यप्यन्यत्र समवायघटितसामानाधिकरण्येनैव यागस्वर्गयोः कार्यकारणभावः क्लप्तः, तथाप्युक्तवाक्यप्रामाण्याच्छ्राद्धपितृतृप्त्योदेश्यत्वसमवायघटितसामानाधिकरण्येन स कल्पनीयः । कर्तनिष्ठाऽदृष्टस्य तु न पितृतृप्तिजनकत्वम् । व्यधिकरणत्वात् । श्राद्धानन्तरकृतकर्मनाशाजलस्पर्शादिनातन्नाशेन पित्रादिस्वर्गाऽनापत्तेश्च । पितॄणां मुक्तत्वेऽनुष्टातर्येव तत्कल्प्यताम् । अत एव शास्त्राऽऽदेशितं फलमनुष्ठातरीत्युत्सर्ग इति वृद्धाः।
स्वतः पुरुषार्थदुःखप्रागभावः, प्रत्यवायाऽनुत्पादो वा तथा कल्पनीयः । तत्साधनत्वं च योगक्षेमसाधारणम् । नित्ये कृते प्रत्यवायाऽनुत्पादनियमात् । तत्सत्त्वे दुःख. प्रागभावाऽवश्यम्भावाच्च । तथा च "सर्वशक्तो प्रवृत्तिः स्यात् तथा भूतोपदेशात्। इति सर्वशक्त्यधिकरणपूर्वपक्षसूत्रपुरुषार्थस्य भाव्यस्योभयत्र तौल्येन यथा काम्यं फलायालं तथा नित्यमपीति व्याख्यातं भाटैः। ___ नन्विष्टसाधनत्वस्य विध्यर्थत्वे साधनत्वस्याऽऽख्यातेनाऽभिधानाज्ज्योतिष्टोमेनेत्यत्र तृतीयाऽनुपपत्तिरिति चेद् ? न। द्रव्यं कारकमिति पक्षे शङ्काऽनवकाशात् । शक्तिः कारकमिति पक्षेऽपि यज्यर्थ व्यापारनिष्ठभावनाभाव्यनिवर्तकत्वरूपकरणत्वस्याभिधानेऽपि यागनिष्ठस्य तस्याऽनभिधानेन तत्समानाधिकरणज्योतिष्टोमपदात्तदुपपत्तेः । 'न कलज भक्षयेत्' इत्यादेनिषेधविधित्वोपपत्तये नजसमभिव्याहारे विधेरनिष्टसाधनत्वे शक्तिरुपगन्तव्या। तस्याऽपि धात्वर्थेऽन्वयः। नञ् तात्पर्त्य ग्राहकः । कलाकर्मकभक्षणमनिष्टसाधनमिति बोधः । ___यद्वा नअर्थाभावविशेष्यक एव बोधः। नजा विधेनिवृत्तितात्पर्यकत्वावधारणात्। तेन च स्वप्रतियोगिन्यनिष्टसाधनत्वाक्षेपात्ततो निवृत्युपपत्तिरिति भावः । बलवदनिष्टाजनक इष्टसाधने चन्द्रमण्डलानयने बलवदनिष्टाननुबन्धिनि साध्ये निष्फले, तृप्तिरूपेष्टसाधने कृतिसाध्यमधुविषसंपृक्ताऽन्नभोजने च प्रवृत्यदर्शनात् । प्रवर्तकज्ञाने विषयता
परीक्षा
नित्यत्वस्य काम्यत्वेन विरोधान्न नित्यस्य फलविशेषसाधनत्वकल्पनमिति तु न वाच्यम् । तयोरविरोधस्य कल्पनात् । ननु यागस्येच्छाविशेषरूपस्य सुखविशेषरूपस्वर्ग प्रति समवायघटितसामानाधिकरण्यात् 'ज्योतिष्टोमेन स्वर्गकामो यजेता इत्यत्र भवतु स्वर्गसाधनत्वम् 'अहरहः श्राद्धस्य तु कर्मविशेषरूपस्य पुत्रसमवेतस्य पितृप्रीतिसाधनत्वं तु न सम्भवति ; व्यधिकरणत्वादिति चेद् ? न । एतादृशे विषये स्व. साध्यकत्वमुद्देश्यत्वसम्बन्धस्य कारणतावच्छेदकत्वकल्पनात् । पितृणां मुक्तत्वे तु कर्माः नुष्टातुरेव तत्फलम् । ___यद्वा-नित्यसन्ध्यावन्दनकर्मणः प्रत्यवायानुत्पाद एव फलमित्यस्तु । तस्य जन्यत्वन्तु क्षैमिकमस्तु । न च 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यत्र स्वर्गविशेषजनकत्वस्याख्यातेन प्रतिपादनात् तृतीयाया अनुपपत्तिरिति वाच्यम् । फलनिष्टं यदभावनाभाव्यनिवर्तकत्वरूपं पारिभाषिकं करणत्वं तस्याख्यातेनानभिधानेन तृतीयोपपत्तः। नन्विष्टसाधनत्वस्यैव विध्यर्थत्वेन भुसमभिव्याहारे 'न कलों भक्षयेत् , नागम्यां गच्छेत्' इत्यादावनुपपत्तिः। धात्वर्थव्यापारे इष्टसाधनत्वस्याबाधादिति चेद् ? न । एतादृशे विषयेऽनिष्टसाधनत्व स्यलक्षणया विध्यर्थत्वात्। नजस्तात्पर्यग्राहकत्वकल्प