________________
१३२
दर्पणपरीक्षासहिते भूषणसारे -
दर्पणः
पेण स्वर्गत्वादिना स्वर्गसाधनताज्ञानं तथा वाच्यम् । तथाच तेन रूपेणेष्टसाधनत्वस्य श्रुतेरनवगमाद्विधिवाक्यात् कथं प्रवर्त्तकज्ञाननिर्वाह इति विभाव्यतेः तष्टतावच्छेदकत्वेन स्वर्गत्वादीननुगमय्य तदवच्छिन्नसाधनत्वे विधेः शक्तिरुपगन्तव्या, एवञ्च न विधेर्नानार्थत्वमपि । तदादिवत् । इष्टताऽवच्छेदकत्वस्योपलक्षणत्वोपगमाच्च न स्वर्गत्वादीनां तद्रूपेण भानापत्तिः ।
अथ 'स्वर्गकाम ज्योतिष्टोमेन यजेत' इत्यत्र श्रुत्या स्वर्गसाधनत्वं ज्योतिष्टोमे बोधनीयम् । तच्च न सम्भवति । वाजपेयादपि स्वर्गोत्पत्तेर्व्यभिचाराद्, वैजात्यस्य चोत्तरकालकल्प्यत्वेन पूर्वमनुपस्थितत्वादिति चेद् ? न । घटं द्रव्यत्वेनैव जानातीत्यादौ घटत्वोपलक्षितव्यक्तिविशेष्यकद्रव्यत्वप्रकारकज्ञानाऽवगमवत् स्वर्गत्वाश्रययत्किञ्चिदूव्यक्तिसमानाधिकरणाऽभावाऽप्रतियागित्वमेव श्रुत्या यागेऽवगम्यते, अथवा यागाsनुत्तरकालाऽवृत्तित्वमेव स्वर्गत्वसामानाधिकरण्येनेति न कश्चिद्दोषः । अत एव साध्येष्टकत्वस्य विध्यर्थत्वमामनन्ति । अन्यथासिद्धत्वं तु विधेः प्रवृत्तितात्पर्य्यकत्वाऽवधारणादुत्तरकालकल्प्यम् ।
इत्थञ्च ग्रहणश्राद्धादौ नित्यत्वनैमित्तिकत्वयोरिव नित्यश्राद्धसन्ध्यादौ नित्यत्वकाम्यत्वयोरप्यविरोधाल्लाघवाद्रा त्रिसत्रन्यायेन ।
- दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् । सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ परीक्षा
इति वाक्यात्स्वर्ग का पदोपस्थाप्यस्य स्वर्गकामनावत् उपस्थितौ स्वर्गष्टत्वस्य लाभः । न च इच्छा विषयात्मक सामान्यधर्मावछिन्न साधनताज्ञानमात्रेण प्रवृत्तिर्न भवति, किन्तु स्वर्गत्वादिरूप विशेषधर्मावच्छिन्न साधनताज्ञानादेवेति तत्तद्धर्मावच्छिन्नसाधनत्वं विध्यर्थ इति वक्तव्यम् । तच्च श्रुतिवाक्यान्नावगम्यत इति कथं प्रवर्तकज्ञाननिर्वाह इति वाच्यम् । इष्टतावच्छेदकत्वेन स्वर्गत्वादीनामनुगतेनोपलक्षणीभूतस्येष्टतावच्छेदकस्यैकत्वेन शक्तेरै क्य; शक्यतावच्छेदकं च स्वर्गत्वावच्छिन्न साधनत्वमेवेति विधिवाक्यातस्य लाभात् । ननु 'स्वर्गकामो व्योतिष्टोमेन यजेत' इति वाक्याज्योतिष्टोमे स्वर्गtataछन्न कार्यतानिरूपितकारणतावाच्या, सा न सम्भवति । वाजपेयादपि स्वर्गीस्पत्तेः प्रत्येकं व्यभिचारात्स्वर्गनिवृत्ततद्धर्मावच्छिन्नसाधनता च वक्तुमशक्या । तत्तद्धर्मस्य पूर्वमनुपस्थितत्वादिति चेद् ? न स्वर्गत्वसामानाधिकरण्येन कार्यत्वोपगमस्य श्रुतिवाक्यात्कल्पनात् । 'घटं नीलं जानाति' इतिवाक्यात्स्वघटत्वसामानाधिकरण्येन नीलाभेदज्ञानविषयत्वलाभात् ॥ इत्थं च यत्र स्वर्गकामादिपदसमभिव्याहारस्तत्र स्वर्गविशेषसाधनत्वं कल्प्यते । यत्र तु न तत्तत्समभिव्याहारस्तत्र 'अहरहः सन्ध्यामुपासीत' 'अहरहः श्राद्धमुपासीत' इत्यादौ अर्थवादवाक्यापस्थितफलसाधनत्वस्य विध्यर्थत्वं स्वीकार्यम् । रात्रिसत्रन्यायात् । अर्थवादवाक्यं तु
दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् । सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् । इति ।