________________
लकारार्थनिर्णयः।
१३१
एतश्चतुष्टयानुगतप्रवर्त्तनात्वेन वाच्यता लाघवात् । उक्तश्च
अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्वपि । तत्रैव लिङ्क विधातव्यः किं भेदस्य विवक्षया ॥ न्यायव्युत्पादनार्थ वा प्रपश्चार्थमथाऽपि वा ।
विद्ध्यादीनामुपादानं चतुर्णामादितः कृतम् ॥ इति । र प्रवर्द्धनात्वञ्च-प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् । तच्चेष्टसाधनत्वस्यास्तीति तदेव विध्यर्थः।
-
___ दर्पणः धनमित्यर्थः । अयमेव चाऽभ्यर्थनेति व्यवहियते । उदाहरणम्-माणवकमध्यापयेद्भवानिति । सम्प्रश्नः-सम्प्रधारणम् । प्रार्थना तु-स्वाभिलषितवस्तुदानादौ स्वीयेच्छाबोधनम् । यथाभोजनं लभेयेति ) *एतच्चतुष्टयेति । विध्यादिचतुष्टयेत्यर्थः । *लाघवादिति । तस्य शक्यताऽवच्छेदकत्वकल्पने लाघवादित्यर्थः । विधिवाक्याद्विध्यादीनां बोधस्य सर्वसिद्धत्वेऽपि तत्तद्रूपस्य शक्यतावच्छेदकत्वकल्पने गौरवादुक्ताऽनुगतरूपस्यैव शक्यतावच्छेदकत्वमुचितमिति भावः । तत्र हरिसम्मतिमाह-*उक्तजेति । किम्भेदस्येति । तत्तद्रूपेण पार्थक्यस्येत्यर्थः । तत्तद्रूपेण शक्तेरनङ्गीकारादिति भावः । तर्हि-तथोपादानं सूत्रकृता किमिति कृतमत आह-*न्यायेति ॥ न्यायः-शक्तिः । तदव्युत्पत्तये-तद्ग्रहायेत्यर्थः ॥ __ ननु प्रवर्त्तनात्वेन प्रवर्त्तनायां शक्तिग्रहो विध्यादिसमस्तधर्मिक एवेत्यत आह*प्रपञ्चार्थमिति* ॥ प्रवर्त्तनं प्रवृत्तिकरणमिति व्युत्पत्तेर्ण्यन्ताद् युचि निष्पन्नप्रवर्त्तनाशब्दात् प्रवृत्त्यनुकूलव्यापारलाभ इत्याह-*तच्चेति ॥ निरुक्ताऽवच्छेदकत्वं चेत्यर्थः॥ ___ *तदेवेति ॥ इष्टसाधनत्वमेवेत्यर्थः। एवकारेण कृतिसाध्यत्वादिव्यवच्छेदः । इष्टत्वं च-समभिव्याहृतपदोपस्थापितकामनाविषयत्वम् । 'स्वर्गकामो यजेत' इत्यत्र स्वर्गकामपदोपस्थापितकामनाविषयत्वस्य स्वर्गे सत्वादिष्टत्वं तस्याऽक्षतम् । तेनैव च स्वर्गादीष्टानामनुगमः । यदि च सामान्यत इष्टसाधनत्वज्ञाने प्रवृत्यनुदयात् तत्तद्रू
परीक्षा *उक्तं चेति। हरिणेति शेषः। *प्रवर्तनारूपमिति*। प्रवर्तनाया धर्म इत्यर्थः। तत्रैव-तदवच्छिन्न एव । यद्रूपं चतुषु अनुस्यूतं संबद्धम्, तदवच्छिन्ने शक्तिकल्पने शक्यतावच्छेदकस्यैक्याच्छक्तरैक्यमिति भावः। *न्यायेति । 'सामान्यधर्मस्य' व्याप्यधर्मव्यापकत्वम् इतिन्यायेनेत्यर्थः। तस्य व्युत्पादनार्थतस्याव्यभिचरितत्वप्रदर्शनार्थम् । भेदेनोपादाने छात्राणां तत्पापबोध्यार्थस्य सम्यग् ग्रहो भविष्यतीति भावः । *प्रपञ्चार्थमिति। प्रवतैनात्वस्य शक्यतावच्छेदकत्वे तदवच्छिन्ननिरूपितशक्तिग्रहो विध्यादिविषयक एवेत्यस्य प्रदर्शनार्थमिति भावः। प्रवर्त्यतेऽनया सा प्रवर्तनेतिव्युत्पत्या प्रोपसृष्टवतेयॆता करणे युच्प्रत्ययेन निष्पन्नप्रवर्तनाशब्देन प्रज्ञेत्यनुकूलज्ञानविषयस्य लाभ इत्याशयेनाह*प्रवर्तनात्वचेति । *इष्टसाधनत्वस्येति । प्रवृत्तित्वावच्छिन्नं प्रति क्रियाविशेष्यकेष्टसाधनताज्ञानस्य प्रयोजकतया तद्विषयतावच्छेदकत्वमिष्टसाधनत्वेऽस्तीत्यर्थः। एवकारेण कृतिसाध्यत्वव्यवच्छेदः । इष्टत्वं च-इच्छाविषयत्वम् । यथा-'स्वर्गकामो यजेत